Contents
- From Markandeya Purana Adhyaya 21
- भर्तव्या रक्षितव्या च भार्या हि पतिना सदा । धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥ ६८॥
- यदा भार्या च भर्ता च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ ६९॥
- कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो । प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥ ७०॥
- तथैव भर्तारमृते भार्या धर्मादिसाधने । न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥ ७१॥
- देवतापितृभृत्यानामतिथीनाञ्च पूजनम् । न पुम्भिः शक्यते कर्तुमृते भार्यां नृपात्मज ॥ ७२॥
- प्राप्तोऽपि चार्थो मनुजैरानीतोऽपि निजं गृहम् । क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा ॥ ७३॥
- कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते । दम्पत्यो: सहधर्मेण त्रयोधर्ममवाप्नुयात् ॥ ७४॥
- पितॄन् पुत्रैस्तथैवान्नसाधनैरतिथीन् नर: । पूजाभिरमरांस्तद्वत् साध्वीं भार्यां नरोऽवति ॥ ७५॥
- स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः । नैव तस्मात् त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥ ७६॥
- Like this:
- Related
From Markandeya Purana Adhyaya 21
॥ भार्यामहिमा ॥
कुण्डलोवाच –