Sanskrit

Brahma Sutra [Hindu ]

॥ ब्रह्मसूत्राणि ॥

॥ श्री बादरायणाप्रणीत ॥

॥ अथ प्रथमोऽध्यायः॥

अथातो ब्रह्म जिज्ञासा  ॥ १.१.१॥
जन्माद्यस्य यतः ॥ १.१.२॥
शास्त्र योनित्वात्  ॥ १.१.३॥
तत्तु समन्वयात् ॥ १.१.४॥

ईक्षतेर्नाशब्दम्  ॥ १.१.५॥
गौणश्चेन्नात्मशब्दात्  ॥ १.१.६॥
तन्निष्ठस्य मोक्षोपदेशात्  ॥ १.१.७॥
हेयत्वावचनाच्च ॥ १.१.८॥
स्वाप्ययात् ॥ १.१.९॥
गतिसामान्यात् ॥ १.१.१०॥
श्रुतत्वाच्च ॥ १.१.११॥
आनन्दमयोऽभ्यासात् ॥ १.१.१२॥
विकारशब्दान्नेतिचेन्न प्राचुर्यात् ॥ १.१.१३॥
तद्धेतुव्यपदेशाच्च ॥ १.१.१४॥
मान्त्रवर्णिकमेव च गीयते ॥ १.१.१५॥
नेतरोऽनुपपत्तेः ॥ १.१.१६॥
भेदव्यपदेशाच्च ॥ १.१.१७॥
कामाच्च नानुमानापेक्षा ॥ १.१.१८॥
अस्मिन्नस्य च तद्योगं शास्ति ॥ १.१.१९॥
अन्तस्तद्धर्मोपदेशात् ॥ १.१.२०॥
भेदव्यपदेशाच्चान्यः ॥ १.१.२१॥
आकाशस्तल्लिङ्गात् ॥ १.१.२२॥
अत एव प्राणः ॥ १.१.२३॥
ज्योतिश्चरणाभिधानात् ॥ १.१.२४॥
छन्दोऽभिधानान्नेतिचेन्न तथाचेतोऽर्पणनिगदात्तथा हि दर्शनम् ॥ १.१.२५॥
भूतादिपादव्यपदेशोपपत्तेश्चैवम् ॥ १.१.२६॥
उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात् ॥ १.१.२७॥
प्राणस्तथानुगमात् ॥ १.१.२८॥
न वक्तुरात्मोपदेशादिति चेदध्यात्मसंबन्ध भूमा ह्यस्मिन् ॥ १.१.२९॥
शास्त्रदृष्ट्या तूपदेशो वामदेववत् ॥ १.१.३०॥
जीवमुख्यप्राणलिङ्गान्नेति चेन्नोपास त्रैविध्यादाश्रितत्वादिह तद्योगात् ॥ १.१.३१॥

इति ब्रह्मसूत्रेषु

प्रथमाध्यायस्य प्रथमः पादः समाप्तः


सर्वत्र प्रसिद्धोपदेशात् ॥ १.२.१॥
विवक्षितगुणोपपत्तेश्च ॥ १.२.२॥
अनुपपत्तेस्तु न शारीरः ॥ १.२.३॥
कर्मकर्तृव्यपदेशाच्च ॥ १.२.४॥
शब्दविशेषात् ॥ १.२.५॥
स्मृतेश्च ॥ १.२.६॥
अर्भकौकस्त्वात् तद्व्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॥ १.२.७॥
संभोगप्राप्तिरिति चेन्न वैशेष्यात् ॥ १.२.८॥
अत्ता चराचरग्रहणात् ॥ १.२.९॥
प्रकरणाच्च ॥ १.२.१०॥
गुहां प्रविष्टावात्मानौ हि तद्दर्शनात् ॥ १.२.११॥
विशेषणाच्च ॥ १.२.१२॥
अन्तर उपपत्तेः ॥ १.२.१३॥
स्थानादिव्यपदेशाच्च ॥ १.२.१४॥
सुखविशिष्टाभिधानादेव च ॥ १.२.१५॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १.२.१६॥
अनवस्थितेरसंभवाच्च नेतरः ॥ १.२.१७॥
अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ॥ १.२.१८॥
न च स्मार्तं अतद्धर्माभिपालात् ॥ १.२.१९॥
शरीरश्चोभयेऽपि हि भेदेनैनमधीयते ॥ १.२.२०॥
अदृश्यत्वादिगुणको धर्मोक्तेः ॥ १.२.२१॥
विशेषणभेदव्यपदेशाभ्यां नेतरौ ॥ १.२.२२॥
रूपोपन्यासाच्च ॥ १.२.२३॥
वैश्वानरः साधारणशब्दविशेषात् ॥ १.२.२४॥
स्मर्यमाणमनुमानं स्यादिति ॥ १.२.२५॥
शब्दादिभ्योऽन्तः प्रतिष्ठानान्नेति चेन्न तथा दृष्ट्युपदेशादसंभवात्पुरुषविध्मपि चैनमधीयते ॥ १.२.२६॥
अत एव न देवता भूतं च ॥ १.२.२७॥
साक्षादप्यविरोधं जैमिनिः ॥ १.२.२८॥
अभिव्यक्तेरित्याश्मरथ्यः ॥ १.२.२९॥
अनुस्मृतेर्बादरिः ॥ १.२.३०॥
सम्पत्तेरिति जैमिनिः तथा हि दर्शयति ॥ १.२.३१॥
आमनन्ति चैनमस्मिन् ॥ १.२.३२॥

इति ब्रह्मसूत्रेषु
प्रथमाध्यायस्य द्वितीयः पादः समाप्तः


द्युभ्वाद्यायतनं स्वशब्दात् ॥ १.३.१॥
मुक्तोपसृप्यव्यपदेशात् ॥ १.३.२॥
नानुमानमतच्छब्दात् ॥ १.३.३॥
प्राणभृच्च ॥ १.३.४॥
भेदव्यपदेशात् ॥ १.३.५॥
प्रकरणात् ॥ १.३.६॥
स्थित्यदनाभ्यां च ॥ १.३.७॥
भूमा सम्प्रसादादध्युपदेशात् ॥ १.३.८॥
धर्मोपपत्तेश्च ॥ १.३.९॥
अक्षरमम्बरान्तधृतेः ॥ १.३.१०॥
सा च प्रशासनात् ॥ १.३.११॥
अन्यभावव्यावृत्तेश्च ॥ १.३.१२॥
ईक्षतिकर्मव्यपदेशात् सः ॥ १.३.१३॥
दहर उत्तरेभ्यः ॥ १.३.१४॥
गतिशब्दाभ्यां तथा हि दृष्टं लिङ्गं च ॥ १.३.१५॥
धृतेश्च महिम्नोऽस्यास्मिन्नुपलब्धेः ॥ १.३.१६॥
प्रसिद्धेश्च ॥ १.३.१७॥
इतरपरामर्शात् स इति चेन्नासम्भवात् ॥ १.३.१८॥
उत्तराच्चेदाविर्भूतस्वरूपस्तु ॥ १.३.१९॥
अन्यार्थश्च परामर्शः ॥ १.३.२०॥
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ १.३.२१॥
अनुकृतेस्तस्य च ॥ १.३.२२॥
अपि स्मर्यते ॥ १.३.२३॥ [पाठभेद : अपि च स्मर्यते]
शब्दादेव प्रमितः ॥ १.३.२४॥
हृद्यपेक्षया तु मनुष्याधिकारत्वात् ॥ १.३.२५॥
तदुपर्यपि बादरायणः संभवात् ॥ १.३.२६॥
विरोधः कर्मणीति चेदनेकप्रतिपत्तेर्दर्शनात् ॥ १.३.२७॥
शब्द इतिचेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ १.३.२८॥
अत एव च नित्यत्वम् ॥ १.३.२९॥
समाननामरूपत्वाच्चावृत्तावप्यविरोधो
दर्शनात्स्मृतेश्च ॥ १.३.३०॥
मध्वादिष्वसंभवादनधिकारं जैमिनिः ॥ १.३.३१॥
ज्योतिषि भावाच्च ॥ १.३.३२॥
भावं तु बादरायणोऽस्ति हि ॥ १.३.३३॥
शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि ॥ १.३.३४॥
क्षत्रियत्वागतेश्चोत्तरत्र चैत्ररथेन लिङ्गात् ॥ १.३.३५॥
संस्कारपरामर्शात्तदभावाभिलापाच्च ॥ १.३.३६॥
तदभावनिर्धारणे च प्रवृत्तेः ॥ १.३.३७॥
श्रवणाध्ययनार्थप्रतिषेधात् स्मृतेश्च ॥ १.३.३८॥
कम्पनात् ॥ १.३.३९॥
ज्योतिर्दर्शनात् ॥ १.३.४०॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ १.३.४१॥
सुषुप्त्युत्क्रान्त्योर्भेदेन ॥ १.३.४२॥
पत्यादिशब्देभ्यः ॥ १.३.४३॥

इति ब्रह्मसूत्रेषु
प्रथमाध्यायस्य तृतीयः पादः समाप्तः

आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति
च ॥ १.४.१॥
सूक्ष्मं तु तदर्हत्वात् ॥ १.४.२॥
तदधीनत्वादर्थवत् ॥ १.४.३॥
ज्ञेयत्वावचनाच्च ॥ १.४.४॥
वदतीति चेन्न प्राज्ञो हि ॥ १.४.५॥
प्रकरणात् ॥ १.४.६॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ १.४.७॥
महद्वच्च ॥ १.४.८॥
चमसवदविशेषात् ॥ १.४.९॥
ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ १.४.१०॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ १.४.११॥
न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च ॥ १.४.१२॥
प्राणादयो वाक्यशेषात् ॥ १.४.१३॥
ज्योतिषैकेषामसत्यन्ने ॥ १.४.१४॥
कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ १.४.१५॥
समाकर्षात् ॥ १.४.१६॥
जगद्वाचित्वात् ॥ १.४.१७॥
जीवमुख्यप्राणलिङ्गादिति चेत् तद्व्याख्यातम् ॥ १.४.१८॥
अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्यामपि चैवमेके ॥ १.४.१९॥
वाक्यान्वयात् ॥ १.४.२०॥
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः ॥ १.४.२१॥
उत्क्रमिष्यत एवं भावादित्यौडुलोमिः ॥ १.४.२२॥
अवस्थितेरिति काशकृत्स्नः ॥ १.४.२३॥
प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् ॥ १.४.२४॥
अभिध्योपदेशाच्च ॥ १.४.२५॥
साक्षाच्चोभयाम्नानात् ॥ १.४.२६॥
आत्मकृतेः परिणामात् ॥ १.४.२७॥
योनिश्च हि गीयते ॥ १.४.२८॥
एतेन सर्वेव्याख्याताव्याख्याताः ॥ १.४.२९॥

इति ब्रह्मसूत्रेषु
प्रथमाध्यायस्य चतुर्थः पादः समाप्तः
॥ इति प्रथमोऽध्यायः॥

 

॥ अथ द्वितीयोऽध्यायः॥

स्मृत्यनवकाशदोषप्रसङ्ग इति
चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ २.१.१॥
इतरेषां चानुपलब्धेः ॥ २.१.२॥
एतेन योगः प्रत्युक्तः ॥ २.१.३॥
न विलक्षणत्वादस्य तथात्वं च शब्दात् ॥ २.१.४॥
दृश्यते तु ॥ २.१.५॥
अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् ॥ २.१.६॥
दृश्यते च ॥ २.१.७॥ [पाठभेद: दृश्यते तु]
असदिति चेन्न प्रतिषेधमात्रत्वात् ॥ २.१.८॥
अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् ॥ २.१.९॥
न तु दृष्टान्तभावात् ॥ २.१.१०॥
स्वपक्षदोषाच्च ॥ २.१.११॥
तर्काप्रतिष्ठानादपि अन्यथानुमेयमिति
चेदेवमप्यनिर्मोक्षप्रसङ्गः ॥ २.१.१२॥
एतेन शिष्टापरिग्रहाऽपि व्याख्याताः ॥ २.१.१३॥
भोक्त्रापत्तेरविभागश्चेत्स्याल्लोकवत् ॥ २.१.१४॥
तदनन्यत्वमारम्भणशब्दादिभ्यः ॥ २.१.१५॥
भावे चोपलब्धेः ॥ २.१.१६॥
सत्त्वाच्चावरस्य ॥ २.१.१७॥
असद्व्यपदेशान्नेति चेन्न धर्मान्तरेण वाक्यशेषात् ॥ २.१.१८॥
युक्तेः शब्दान्तराच्च ॥ २.१.१९॥
पटवच्च ॥ २.१.२०॥
यथा प्राणादिः ॥ २.१.२१॥
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २.१.२२॥
अधिकं तु भेदनिर्देशात् ॥ २.१.२३॥
अश्मादिवच्च तदनुपपत्तिः ॥ २.१.२४॥
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २.१.२५॥
देवादिवदपि लोके ॥ २.१.२६॥
कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥ २.१.२७॥
श्रुतेस्तु शब्दमूलत्वात् ॥ २.१.२८॥
आत्मनि चैवं विचित्राश्च हि ॥ २.१.२९॥
स्वपक्षदोषाच्च ॥ २.१.३०॥
सर्वोपेता च तद्दर्शनात् ॥ २.१.३१॥
विकरणत्वान्नेतिचेत्तदुक्तम् ॥ २.१.३२॥
न प्रयोजनत्त्वात् ॥ २.१.३३॥
लोकवत्तु लीलाकैवल्यम् ॥ २.१.३४॥
वैष्यम्यनैर्घृण्ये न सापेक्षत्वात्तथा हि दर्शयति ॥ २.१.३५॥
कर्माविभागादिति चेन्नानादित्वात् ॥ २.१.३६॥
उपपद्यते चाप्युपलभ्यते च ॥ २.१.३७॥
सर्वधर्मोपपत्तेश्च ॥ २.१.३८॥

इति ब्रह्मसूत्रेषु

द्वितीयाध्यायस्य प्रथमः पादः समाप्तः


रचनानुपपत्तेश्च नानुमानम् ॥ २.२.१॥
प्रवृत्तेश्च ॥ २.२.२॥
पयोऽम्बुवच्चेत्तत्रापि ॥ २.२.३॥
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ २.२.४॥
अन्यत्राभावाच्च न तृणादिवत् ॥ २.२.५॥
अभ्युपगमेऽप्यर्थाभावात् ॥ २.२.६॥
पुरुषाश्मवदितिचेत्तथापि ॥ २.२.७॥
अङ्गित्वानुपपत्तेः ॥ २.२.८॥
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ २.२.९॥
विप्रतिषेधाच्चासमञ्जसम् ॥ २.२.१०॥
महद्दीर्घवद्धा ह्रस्वपरिमण्डलाभ्याम् ॥ २.२.११॥
उभयथापि न कर्मातस्तदभावः ॥ २.२.१२॥
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ २.२.१३॥
नित्यमेव च भावात् ॥ २.२.१४॥
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ २.२.१५॥
उभयथा च दोषात् ॥ २.२.१६॥
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ २.२.१७॥
समुदायोभयहेतुकेऽपि तदप्राप्तिः ॥ २.२.१८॥
इतरेतरप्रत्ययत्वादिति चेन्नौत्पत्तिमात्रनिमित्तत्वात् ॥ २.२.१९॥
उत्तरोत्पादे च पूर्वनिरोधात् ॥ २.२.२०॥
असति प्रतिज्ञोपरोधो यौगपद्यमन्यथा ॥ २.२.२१॥
प्रतिसङ्ख्याप्रतिसङ्ख्यानिरोधाप्राप्तिः अविच्छेदात् ॥ २.२.२२॥
उभयथा च दोषात् ॥ २.२.२३॥
आकाशे चाविशेषात् ॥ २.२.२४॥
अनुस्मृतेश्च ॥ २.२.२५॥
नासतोऽदृष्टत्वात् ॥ २.२.२६॥
उदासीनानामपि चैवं सिद्धिः ॥ २.२.२७॥
नाभाव उपलब्धेः ॥ २.२.२८॥
वैधर्म्याच्च न स्वप्नादिवत् ॥ २.२.२९॥
न भावोऽनुपलब्धेः ॥ २.२.३०॥
क्षणिकत्वाच्च ॥ २.२.३१॥
सर्वथानुपपत्तेश्च ॥ २.२.३२॥
नैकस्मिन्नसम्भवात् ॥ २.२.३३॥
एवं चात्माकार्त्स्न्यम् ॥ २.२.३४॥
न च पर्यायादप्यविरोधः विकारादिभ्यः ॥ २.२.३५॥
अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषत् ॥ २.२.३६॥
पत्युरसामञ्जस्यात् ॥ २.२.३७॥
संबन्धानुपपत्तेश्च ॥ २.२.३८॥
अधिष्ठानानुपपत्तेश्च ॥ २.२.३९॥
करणवच्चेन्न भोगादिभ्यः ॥ २.२.४०॥
अन्तवत्त्वमसर्वज्ञता वा ॥ २.२.४१॥
उत्पत्त्यसम्भवात् ॥ २.२.४२॥
न च कर्तुः करणम् ॥ २.२.४३॥
विज्ञानादिभावे वा तदप्रतिषेधः ॥ २.२.४४॥
विप्रतिषेधाच्च ॥ २.२.४५॥

इति ब्रह्मसूत्रेषु

द्वितीयाध्यायस्य द्वितीयः पादः समाप्तः


न वियदश्रुतेः ॥ २.३.१॥
अस्ति तु ॥ २.३.२॥
गौण्यसम्भवात् ॥ २.३.३॥
शब्दाच्च ॥ २.३.४॥
स्याच्चैकस्य ब्रह्मशब्दवत् ॥ २.३.५॥
प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः ॥ २.३.६॥
यावद्विकारं तु विभागो लोकवत् ॥ २.३.७॥
एतेन मातरिश्वा व्याख्यातः ॥ २.३.८॥
असम्भवस्तु सतोऽनुपपत्तेः ॥ २.३.९॥
तेजोऽतस्तथा ह्याह ॥ २.३.१०॥
आपः ॥ २.३.११॥
पृथिव्यधिकाररूपशब्दान्तरादिभ्यः ॥ २.३.१२॥
तदभिध्यानादेव तु तल्लिङ्गात् सः ॥ २.३.१३॥
विपर्ययेण तु क्रमोऽत उपपद्यते च ॥ २.३.१४॥
अन्तरा विज्ञानमनसी क्रमेण तल्लिङ्गादिति
चेन्नाविशेषात् ॥ २.३.१५॥
चराचरव्यपाश्रयस्तु स्यात् तद्व्यपदेशो भाक्तः
तद्भावभावित्वात् ॥ २.३.१६॥
नात्मा अश्रुतेर्नित्यत्वाच्च ताभ्यः ॥ २.३.१७॥
ज्ञोऽत एव ॥ २.३.१८॥
युक्तेश्च ॥ २.३.१९॥
उत्क्रान्तिगत्यागतीनाम् ॥ २.३.२०॥
स्वात्मना चोत्तरयोः ॥ २.३.२१॥
नाणुरतत् श्रुतेरिति चेन्न इतराधिकारात् ॥ २.३.२२॥
स्वशब्दोन्मानाभ्यां च ॥ २.३.२३॥
अविरोधश्चन्दनवत् ॥ २.३.२४॥
अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमाद्धृद्धि हि ॥ २.३.२५॥
गुणाद्वाऽऽलोकवत् ॥ २.३.२६॥
व्यतिरेको गन्धवत् तथा च दर्शयति ॥ २.३.२७॥
पृथगुपदेशात् ॥ २.३.२८॥
तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् ॥ २.३.२९॥
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥ २.३.३०॥
पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् ॥ २.३.३१॥
नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमो
वाऽन्यथा ॥ २.३.३२॥
कर्ता शास्त्रार्थवत्त्वात् ॥ २.३.३३॥
विहारोपदेशात् ॥ २.३.३४॥
उपादानात् ॥ २.३.३५॥
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः ॥ २.३.३६॥
उपलब्धिवदनियमः ॥ २.३.३७॥
शक्तिविपर्ययात् ॥ २.३.३८॥
समाध्यभावाछ ॥ २.३.३९॥
यथा च तक्षोभयथा ॥ २.३.४०॥
परात्तु तच्छ्रुतेः ॥ २.३.४१॥
कृतप्रयत्नोपेक्षस्तु विहितप्रतिषिद्धावैयर्थ्यादिभ्यः ॥ २.३.४२॥
अंशो नानाव्यपदेशादन्यथा चापि
दाशकितवादित्वमधीयत एके ॥ २.३.४३॥
मन्त्रवर्णात् ॥ २.३.४४॥
अपि स्मर्यते ॥ २.३.४५॥ [पाठभेद: अपि च स्मर्यते]
प्रकाशादिवन्नैवं परः ॥ २.३.४६॥
स्मरन्ति च ॥ २.३.४७॥
अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् ॥ २.३.४८॥
असन्ततेश्चाव्यतिकरः ॥ २.३.४९॥
आभास एव च ॥ २.३.५०॥
अदृष्टानियमात् ॥ २.३.५१॥
अभिसन्ध्यादिष्वपि चैवम् ॥ २.३.५२॥
प्रदेशादिति चेन्नान्तर्भावात् ॥ २.३.५३॥

इतिब्रह्मसूत्रेषु

द्वितीयाध्यायस्य तृतीयः पादः समाप्तः


तथा प्राणाः ॥ २.४.१॥
गौण्यसम्भवात् ॥ २.४.२॥
प्रतिज्ञानुपरोधाच्च ॥ २.४.३॥
तत्प्राक्श्रुतेश्च ॥ २.४.४॥
तत्पूर्वकत्वाद्वाचः ॥ २.४.५॥
सप्त गतेर्विशेषितत्वाच्च ॥ २.४.६॥
हस्तादयस्तु स्थितेऽतो नैवम् ॥ २.४.७॥
अणवश्च ॥ २.४.८॥
श्रेष्ठश्च ॥ २.४.९॥
न वायुक्रिये पृथगुपदेशात् ॥ २.४.१०॥
चक्षुरादिवत्तु तत्सहशिष्ट्यादिभ्यः ॥ २.४.११॥
अकरणत्वाच्च न दोषस्तथा हि दर्शयति ॥ २.४.१२॥
पञ्चवृत्तिर्मनोवद्व्यपदिश्यते ॥ २.४.१३॥
अणुश्च ॥ २.४.१४॥
ज्योतिराद्यधिष्ठानं तु तदामननात् ॥ २.४.१५॥
प्राणवता शब्दात् ॥ २.४.१६॥
तस्य च नितयत्वात् ॥ २.४.१७॥
त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् ॥ २.४.१८॥
भेदश्रुतेः ॥ २.४.१९॥
वैलक्षण्याच्च ॥ २.४.२०॥
संज्ञामूर्तिक्लृप्तिस्तु त्रिवृत्कुर्वत उपदेशात् ॥ २.४.२१॥
मांसादि भौमं यथाशब्दमितरयोश्च ॥ २.४.२२॥
वैशेष्यात्तु तद्वादस्तद्वादः ॥ २.४.२३॥

इति ब्रह्मसूत्रेषु
द्वितीयाध्यायस्य चतुर्थः पादः समाप्तः

॥ इति द्वितीयोऽध्यायः॥

 


॥ अथ तृतीयोऽध्यायः॥

तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः
प्रश्ननिरूपणाभ्याम् ॥ ३.१.१॥
त्र्यात्मकत्वात्तु भूयस्त्वात् ॥ ३.१.२॥
प्राणगतेश्च ॥ ३.१.३॥
अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात् ॥ ३.१.४॥
प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः ॥ ३.१.५॥
अश्रुतत्वादिति चेन्नेष्टादिकारिणां प्रतीतेः ॥ ३.१.६॥
भाक्तं वाऽनात्मवित्त्वात् तथा हि दर्शयति ॥ ३.१.७॥
कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्याम् ॥ ३.१.८॥
यथेतमनेवं च ॥ ३.१.९॥
चरणादिति चेन्नोपलक्षणार्थेति कार्ष्णाजनिः ॥ ३.१.१०॥
आनर्थक्यमिति चेन्न तदपेक्षत्वात् ॥ ३.१.११॥
सुकृतदुष्कृते एवेति तु बादरिः ॥ ३.१.१२॥
अनिष्टादिकारिणामपि च श्रुतम् ॥ ३.१.१३॥
संयमने त्वनुभूयेतरेषामारोहावरोहौ
तद्गतिदर्शनात् ॥ ३.१.१४॥
स्मरन्ति च ॥ ३.१.१५॥
अपि सप्त ॥ ३.१.१६॥
तत्रापि च तद्व्यापारादविरोधः ॥ ३.१.१७॥
विद्याकर्मणोरिति तु प्रकृतत्वात् ॥ ३.१.१८॥
न तृतीये तथोपलब्धेः ॥ ३.१.१९॥
स्मर्यतेऽपि च लोके ॥ ३.१.२०॥
दर्शनाच्च ॥ ३.१.२१॥
तृतीये शब्दावरोधः संशोकजस्य ॥ ३.१.२२॥
स्मरणाच्च ॥ ३.१.२३॥
तत्स्वाभाव्यापत्तिरुपपत्तेः ॥ ३.१.२४॥
नातिचिरेण विशेषात् ॥ ३.१.२५॥
अन्याधिष्ठिते पूर्ववदभिलापात् ॥ ३.१.२६॥
अशुद्धमिति चेन्न शब्दात् ॥ ३.१.२७॥
रेतः सिग्योगोऽथ ॥ ३.१.२८॥
योनेः शरीरम् ॥ ३.१.२९॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य प्रथमः पादः समाप्तः


सन्ध्ये सृष्टिराह हि ॥ ३.२.१॥
निर्मातारं चैके पुत्रादयश्च ॥ ३.२.२॥
मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॥ ३.२.३॥
सूचकश्च हि श्रुतेः आचक्षते च तद्विदः ॥ ३.२.४॥
पराभिध्यानात्तु तिरोहितं ततो ह्यस्य बन्धविपर्ययौ ॥ ३.२.५॥
देहयोगाद्वासोऽपि ॥ ३.२.६॥
तदभावो नाडीषु तच्छ्रुतेः आत्मनि च ॥ ३.२.७॥
अतः प्रबोधोऽस्मात् ॥ ३.२.८॥
स एव तु कर्मानुस्मृतिशब्दविधिभ्यः ॥ ३.२.९॥
मुग्धेऽर्थसम्पत्तिर्परिशेषात् ॥ ३.२.१०॥
न स्थानतोऽपि परस्योभयलिङ्गं सर्वत्र हि ॥ ३.२.११॥
न भेदादिति चेन्न प्रत्येकमतद्वचनात् ॥ ३.२.१२॥
अपि चैवमेके ॥ ३.२.१३॥
अरूपवदेव हि तत्प्रधानत्वात् ॥ ३.२.१४॥
प्रकाशवच्चावैयर्थ्यम् ॥ ३.२.१५॥
आह च तन्मात्रम् ॥ ३.२.१६॥
दर्शयति चाथोऽपि स्मर्यते ॥ ३.२.१७॥
अत एव चोपमा सूर्यकादिवत् ॥ ३.२.१८॥
अम्बुवदग्रहणात्तु न तथात्वम् ॥ ३.२.१९॥
वृद्धिह्रासभाक्त्वमन्तर्भावात्
उभयसामञ्जस्यादेवम् ॥ ३.२.२०॥
दर्शनाच्च ॥ ३.२.२१॥
प्रकृतैतावत्त्वं हि प्रतिषेधति ततो ब्रवीति
च भूयः ॥ ३.२.२२॥
तदव्यक्तमाह हि ॥ ३.२.२३॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ ३.२.२४॥
प्रकाशवच्चावैशेष्यं ॥ ३.२.२५॥
प्रकाशश्च कर्मण्यभ्यासात् ॥ ३.२.२६॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ ३.२.२७॥
उभयव्यपदेशात्तु अहिकुण्डलवत् ॥ ३.२.२८॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ ३.२.२९॥
पूर्ववद्वा ॥ ३.२.३०॥
प्रतिषेधाच्च ॥ ३.२.३१॥
परमतस्सेतून्मानसंबन्धभेदव्यपदेशेभ्यः ॥ ३.२.३२॥
दर्शनात् ॥ ३.२.३३॥
बुद्ध्यर्थः पादवत् ॥ ३.२.३४॥
स्थानविशेषात्प्रकाशादिवत् ॥ ३.२.३५॥
उपपत्तेश्च ॥ ३.२.३६॥
तथाऽन्यप्रतिषेधात् ॥ ३.२.३७॥
अनेन सर्वगतत्वमायामयशब्दादिभ्यः ॥ ३.२.३८॥
फलमत उपपत्तेः ॥ ३.२.३९॥
श्रुतत्वाच्च ॥ ३.२.४०॥
धर्मं जैमिनिः अत एव ॥ ३.२.४१॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ३.२.४२॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य द्वितीयः पादः समाप्तः


सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ३.३.१॥
भेदान्नेति चेदेकस्यामपि ॥ ३.३.२॥
स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॥ ३.३.३॥ [पाठभेद : समाचारेऽधिकाराच्च सववच्च तन्नियमः]
सलिलवच्च तन्नियमः ॥ ३.३.४॥
दर्शयति च ॥ ३.३.५॥
उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ३.३.६॥
अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥ ३.३.७॥
न वा प्रकरणभेदात्परोवरीयस्त्वादिवत् ॥ ३.३.८॥
संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ३.३.९॥
प्राप्तेश्च समञ्जसम् ॥ ३.३.१०॥
सर्वाभेदादन्यत्रेमे ॥ ३.३.११॥
आनन्दादयः प्रधानस्य ॥ ३.३.१२॥
प्रियशिरस्त्वाद्यप्राप्तिरुपचयापचयौ हि भेदे ॥ ३.३.१३॥
इतरे त्वर्थसामान्यात् ॥ ३.३.१४॥
आध्यानाय प्रयोजनाभावात् ॥ ३.३.१५॥
आत्मशब्दाच्च ॥ ३.३.१६॥
आत्मगृहीतिरितरवदुत्तरात् ॥ ३.३.१७॥
अन्वयादिति चेत्स्यादवधारणात् ॥ ३.३.१८॥
कार्याख्यानादपूर्वम् ॥ ३.३.१९॥
समान एवञ्चाभेदात् ॥ ३.३.२०॥
संबन्धादेवमन्यत्रापि ॥ ३.३.२१॥
न वा विशेषात् ॥ ३.३.२२॥
दर्शयति च ॥ ३.३.२३॥
सम्भृतिद्युव्याप्त्यपि चातः ॥ ३.३.२४॥
पुरुषविद्यायामिव चेतरेषामनाम्नानात् ॥ ३.३.२५॥
वेधाद्यर्थभेदात् ॥ ३.३.२६॥
हानौ तूपायनशब्दशेषात् कुशाच्छन्दस्स्तुत्युपगानवत्
तदुक्तम् ॥ ३.३.२७॥
साम्पराये तर्तव्याभावात् तथा ह्यन्ये ॥ ३.३.२८॥
छन्दत उभयाविरोधात् ॥ ३.३.२९॥
गतेरर्थवत्त्वमुभयथाऽन्यथा हि विरोधः ॥ ३.३.३०॥
उपपन्नस्तल्लक्षणार्थोपलब्धेः लोकवत् ॥ ३.३.३१॥
अनियमः सर्वेषामविरोधश्शब्दानुमानाभ्याम् ॥ ३.३.३२॥
यावदधिकारमवस्थितिराधिकारिकाणाम् ॥ ३.३.३३॥
अक्षरधियां त्वविरोधः
सामान्यतद्भावाभ्यामौपसदवत्तदुक्तम् ॥ ३.३.३४॥
इयदामननात् ॥ ३.३.३५॥
अन्तरा भूतग्रामवदिति चेत् तदुक्तम् ॥ ३.३.३६॥
अन्यथा भेदानुपपत्तिरितिचेन्नोपदेशवत् ॥ ३.३.३७॥
व्यतिहारो विशिंषन्ति हीतरव्रत् ॥ ३.३.३८॥
सैव हि सत्यादयः ॥ ३.३.३९॥
कामादितरत्र तत्र च आयतनादिभ्यः ॥ ३.३.४०॥
आदारादलोपः ॥ ३.३.४१॥
उपस्थितेस्तद्वचनात् ॥ ३.३.४२॥
तन्निर्धारणार्थनियमस्तद्दृष्टेर्पृथग्ध्यप्रतिबन्धः
फलम् ॥ ३.३.४३॥
प्रदानवदेव हि तदुक्तम् ॥ ३.३.४४॥
लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि ॥ ३.३.४५॥
पूर्वविकल्पः प्रकरणात्स्यात्क्रियामानसवत् ॥ ३.३.४६॥
अतिदेशाच्च ॥ ३.३.४७॥
विद्यैव तु निर्धारणात् ॥ ३.३.४८॥
दर्शनाच्च ॥ ३.३.४९॥
श्रुत्यादिबलीयस्त्वाच्च न बाधः ॥ ३.३.५०॥
अनुबन्धादिभ्यः ॥ ३.३.५१॥
प्रज्ञान्तरपृथक्त्ववद्दृष्टिश्च तदुक्तम् ॥ ३.३.५२॥
न सामान्यादप्युपलब्धेर्मृत्युवन्नहि लोकापत्तिः ॥ ३.३.५३॥
परेण च शब्दस्य ताद्विध्यं भूयस्त्वात्त्वनुबन्धः ॥ ३.३.५४॥
एक आत्मनः शरीरे भावात् ॥ ३.३.५५॥
व्यतिरेकस्तद्भावभावित्वान्न तूपलब्धिवत् ॥ ३.३.५६॥
अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम् ॥ ३.३.५७॥
मन्त्रादिवद्वाऽविरोधः ॥ ३.३.५८॥
भूम्नः क्रतुवज्ज्यायस्त्वं तथा च दर्शयति ॥ ३.३.५९॥
नानाशब्दादिभेदात् ॥ ३.३.६०॥
विकल्पो विशिष्टफलत्वात् ॥ ३.३.६१॥
काम्यास्तु यथाकामं समुच्चीयेरन्न वा पूर्वहेत्वभावात् ॥ ३.३.६२॥
अङ्गेषु यथाश्रयभावः ॥ ३.३.६३॥
शिष्टेश्च ॥ ३.३.६४॥
समाहारात् ॥ ३.३.६५॥
गुणसाधारण्यश्रुतेश्च ॥ ३.३.६६॥
न वा तत्सहभावश्रुतेः ॥ ३.३.६७॥
दर्शनाच्च ॥ ३.३.६८॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य तृतीयः पादः समाप्तः

 


पुरुषार्थोऽतः शब्दादिति बादरायणः ॥ ३.४.१॥
शेषत्वात्पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॥ ३.४.२॥
आचारदर्शनात् ॥ ३.४.३॥
तच्छ्रुतेः ॥ ३.४.४॥
समन्वारम्भणात् ॥ ३.४.५॥
तद्वतो विधानात् ॥ ३.४.६॥
नियमाच्च ॥ ३.४.७॥
अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॥ ३.४.८॥
तुल्यं तु दर्शनम् ॥ ३.४.९॥
असार्वत्रिकी ॥ ३.४.१०॥
विभागः शतवत् ॥ ३.४.११॥
अध्ययनमात्रवतः ॥ ३.४.१२॥
नाविशेषात् ॥ ३.४.१३॥
स्तुतयेऽनुमतिर्वा ॥ ३.४.१४॥
कामकारेण चैके ॥ ३.४.१५॥
उपमर्दं च ॥ ३.४.१६॥
ऊर्ध्वरेतस्सु च शब्दे हि ॥ ३.४.१७॥
परामर्शं जैमिनिरचोदना चापवदिति हि ॥ ३.४.१८॥
अनुष्ठेयं बादरायणः साम्यश्रुतेः ॥ ३.४.१९॥
विधिर्वा धारणवत् ॥ ३.४.२०॥
स्तुतिमात्रमुपादानादिति चेन्नापूर्वत्वात् ॥ ३.४.२१॥
भावशब्दाच्च ॥ ३.४.२२॥
पारिप्लवार्था इति चेन्न विशेषितत्वात् ॥ ३.४.२३॥
तथा चैकवाक्योपबन्धात् ॥ ३.४.२४॥
अत एव चाग्नीन्धनाद्यनपेक्षा ॥ ३.४.२५॥
सर्वापेक्षा च यज्ञादिश्रुतेः अश्ववत् ॥ ३.४.२६॥
शमदमाद्युपेतः स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया
तेषामवश्यानुष्ठेयत्वात् ॥ ३.४.२७॥
सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात् ॥ ३.४.२८॥
अबाधाच्च ॥ ३.४.२९॥
अपि स्मर्यते ॥ ३.४.३०॥
शब्दश्चातोऽकामचारे ॥ ३.४.३१॥
विहितत्वाच्चाश्रमकर्मापि ॥ ३.४.३२॥
सहकारित्वेन च ॥ ३.४.३३॥
सर्वथापि तु त एवोभयलिङ्गात् ॥ ३.४.३४॥
अनभिभवं च दर्शयति ॥ ३.४.३५॥
अन्तरा चापि तु तद्दृष्टेः ॥ ३.४.३६॥
अपि स्मर्यते ॥ ३.४.३७॥
विशेषणानुग्रहं च ॥ ३.४.३८॥
अतस्त्वितरज्ज्यायो लिङ्गाच्च ॥ ३.४.३९॥
तद्भूतस्य तु तद्भावो जैमिनेरपि
नियमातद्रूपाऽभावेभ्यः ॥ ३.४.४०॥
न चाधिकारिकमपि पतनानुमानात्तदयोगात् ॥ ३.४.४१॥
उपपूर्वमपीत्येके भावशमनवत्तदुक्तम् ॥ ३.४.४२॥
बहिस्तूभयथापि स्मृतेराचाराच्च ॥ ३.४.४३॥
स्वामिनः श्रुतेरित्यात्रेयः ॥ ३.४.४४॥
आर्त्विज्यमित्यौडुलोमिः तस्मै हि परिक्रियते ॥ ३.४.४५॥
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ॥ ३.४.४६॥
कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ३.४.४७॥
मौनवदितरेषामप्युपदेशात् ॥ ३.४.४८॥
अनाविष्कुर्वन्नन्वयात् ॥ ३.४.४९॥
ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ३.४.५०॥
एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः ॥ ३.४.५१॥

इति ब्रह्मसूत्रेषु
तृतीयाध्यायस्य चतुर्थः पादः समाप्तः

॥ इति तृतीयोऽध्यायः॥


॥ अथ चतुर्थोऽध्यायः॥

आवृत्तिः असकृदुपदेशात् ॥ ४.१.१॥
लिङ्गाच्च ॥ ४.१.२॥
आत्मेति तूपगच्छन्ति ग्राहयन्ति च ॥ ४.१.३॥
न प्रतीके न हि सः ॥ ४.१.४॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ४.१.५॥
आदित्यादिमतयश्चाङ्ग उपपत्तेः ॥ ४.१.६॥

आसीनस्सम्भवात् ॥ ४.१.७॥
ध्यानाच्च ॥ ४.१.८॥
अचलत्वं चापेक्ष्य ॥ ४.१.९॥
स्मरन्ति च ॥ ४.१.१०॥
यत्रैकाग्रता तत्राविशेषात् ॥ ४.१.११॥

आ प्रायणात्तत्रापि हि दृष्टम् ॥ ४.१.१२॥
तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ
तद्व्यपदेशात् ॥ ४.१.१३॥
इतरस्याप्येवमसंश्लेषः पाते तु ॥ ४.१.१४॥
अनारब्धकार्ये एव तु पूर्वे तदवधेः ॥ ४.१.१५॥
अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् ॥ ४.१.१६॥
अतोऽन्यदपीत्येकेषामुभयोः ॥ ४.१.१७॥
यदेव विद्ययेति हि ॥ ४.१.१८॥
भागेन त्वितरे क्षपयित्वा सम्पत्स्यते ॥ ४.१.१९॥

इति ब्रह्मसूत्रेषु
चतुर्थाध्यायस्य प्रथमः पादः समाप्तः


वाङ्ग्मनसि दर्शनाच्छब्दाच्च ॥ ४.२.१॥
अत एव च सर्वाण्यनु ॥ ४.२.२॥
तन्मनः प्राण उत्तरात् ॥ ४.२.३॥
सोऽध्यक्षे तदुपगमादिभ्यः ॥ ४.२.४॥
भूतेषु तच्छ्रुतेः ॥ ४.२.५॥
नैकस्मिन् दर्शयतो हि ॥ ४.२.६॥
समाना चासृत्युपक्रमादमृतत्वं चानुपोष्य ॥ ४.२.७॥
तदपीतेः संसारव्यपदेशात् ॥ ४.२.८॥
सूक्ष्मं प्रमाणतश्च तथोपलब्धेः ॥ ४.२.९॥
नोपमर्देनातः ॥ ४.२.१०॥
अस्यैव चोपपत्तेरूष्मा ॥ ४.२.११॥
प्रतिषेधादिति चेन्न शारीरात् ॥ ४.२.१२॥
स्पष्टो ह्येकेषाम् ॥ ४.२.१३॥
स्मर्यते च ॥ ४.२.१४॥
तानि परे तथा ह्याह ॥ ४.२.१५॥
अविभागो वचनात् ॥ ४.२.१६॥
तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो
विद्यासामर्थ्यात्तच्छेषगत्यनुस्मृति योगाच्च हार्दानुगृहीताः शताधिकया ॥ ४.२.१७॥
रश्म्यनुसारी ॥ ४.२.१८॥
निशि नेति चेन्न संभन्धात् ॥ ४.२.१९॥
यावद्देहभावित्वाद्दर्शयति च ॥ ४.२.२०॥
अतश्चायनेऽपि दक्षिणे ॥ ४.२.२१॥
योगिनः प्रति स्मर्यते स्मार्ते चैते ॥ ४.२.२२॥

इति श्रीमत्कृष्णद्वैपायनकृतब्रह्मसूत्रेषु
चतुर्थाध्यायस्य द्वितीयः पादः समाप्तः

 


अर्चिरादिना तत्प्रथितेः ॥ ४.३.१॥
वायुशब्दादविशेषविशेषाभ्याम् ॥ ४.३.२॥
तटितोऽधि वरुणः संबन्धात् ॥ ४.३.३॥
आतिवाहिकस्तल्लिङ्गात् ॥ ४.३.४॥
उभयव्यामोहात्तत्सिद्धेः ॥ ४.३.५॥
वैद्युतेनैव ततस्तच्छ्रुतेः ॥ ४.३.६॥
कार्यं बादरिरस्य गत्युपपत्तेः ॥ ४.३.७॥
विशेषितत्वाच्च ॥ ४.३.८॥
सामीप्यात्तु तद्व्यपदेशः ॥ ४.३.९॥
कार्यात्यये तदध्यक्षेण सहातः परमभिधानात् ॥ ४.३.१०॥
स्मृतेश्च ॥ ४.३.११॥
परं जैमिनिर्मुख्यत्वात् ॥ ४.३.१२॥
दर्शनाच्च ॥ ४.३.१३॥
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ ४.३.१४॥
अप्रतीकालम्बनान्नयतीति बादरायणरुभयथा च दोषात् तत्क्रतुश्च ॥ ४.३.१५॥
विशेषं च दर्शयति ॥ ४.३.१६॥

इति ब्रह्मसूत्रेषु
चतुर्थाध्यायस्य तृतीयः पादः समाप्तः

 


सम्पद्याविहाय स्वेनशब्दात् ॥ ४.४.१॥
मुक्तः प्रतिज्ञानात् ॥ ४.४.२॥
आत्मा प्रकरणात् ॥ ४.४.३॥
अविभागेन दृष्टत्वात् ॥ ४.४.४॥
ब्राह्मेण जैमिनिरुपन्यासादिभ्यः ॥ ४.४.५॥
चितिमात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ४.४.६॥
एवमप्युपन्यासात्पूर्वभावादविरोधं बादरायणः ॥ ४.४.७॥
सङ्कल्पादेव च तच्छ्रुतेः ॥ ४.४.८॥
अत एव चानन्याधिपतिः ॥ ४.४.९॥
अभावं बादरिराह ह्येवम् ॥ ४.४.१०॥
भावं जैमिनिर्विकल्पाम्नानात् ॥ ४.४.११॥
द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ४.४.१२॥
तन्वभावे सन्ध्यवदुपपत्तेः ॥ ४.४.१३॥
भावे जाग्रद्वत् ॥ ४.४.१४॥
प्रदीपवदावेशः तथा हि दर्शयति ॥ ४.४.१५॥
स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ ४.४.१६॥
जगद्व्यापारवर्जम् ॥ ४.४.१७॥
प्रकरणादसन्निहितत्वाच्च ॥ ४.४.१८॥
प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्डलस्थोक्तेः ॥ ४.४.१९॥
विकारावर्ति च तथा हि दर्शयति ॥ ४.४.२०॥
स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ ४.४.२१॥
भोगमात्रसाम्यलिङ्गाच्च ॥ ४.४.२२॥
अनावृत्तिः शब्दादनावृत्तिः शब्दात् ॥ ४.४.२३॥

इति ब्रह्मसूत्रेषु
चतुर्थाध्यायस्य चतुर्थः पादः समाप्तः

॥ इति चतुर्थोऽध्यायः॥


 

Advertisements

Categories: Sanskrit

Tagged as: ,