ऋग्‌वेदःहिरण्यगर्भसूक्तम्[Hiranyagarva suktam]

हिरण्यगर्भसूक्तम् ऋग्‌वेदः 10.121 ऋषिः हिरण्यगर्भः प्राजापत्यः – छन्दः त्रिष्टुप्‌ – देवता कः (प्रजापतिः) हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्‌। स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥१॥ य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः। यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥२॥ यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑। य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒… Read More ऋग्‌वेदःहिरण्यगर्भसूक्तम्[Hiranyagarva suktam]