Sanskrit

Abhinaya Darpanam by Nandikeshwara [Sanskrit-Devanagari]

RELATED:

  1. SAMGITA RANAKARA
  2. Natya Shastra

 

नन्दिकेश्वरविरचितम् अभिनयदर्पणम्

नमस्किया
आङ्गिकं भुवनं यस्य वाचिकं सर्ववाङ्मयम् ।
आहार्य चन्द्रतारादि तं नुमः सात्त्विकं शिवम् ॥ १॥

नाट्योत्पत्तिः
नाट्यवेदं ददौ पूर्वं भरताय चतुर्मुखः ।
ततश्च भरतः सार्धं गन्धर्वाप्सरसां गणैः ॥ २॥

नाय नृत्तं तथा नृत्यमर् शम्भोः प्रयुक्तवान् ।
प्रयोगमुद्धतं स्मृत्वा स्वप्रयुक्तं ततो हरः ॥ ३॥

तण्डुना स्वगणाग्रण्या भरताय न्यदीदिशत् ।
लास्यमस्याग्रतः प्रीत्या पार्वत्या समदीदिशत् ॥ ४॥

बुद्ध्वाऽथ तण्डवं ताण्डोर्मर्त्येभ्यो मुनयोऽवदन् ।
पार्वती त्वनुशास्ति स्म लास्य बाणात्मजामुषाम् ॥ ५॥

तया द्वारवतीगोप्यस्ताभिः सौराष्ट्रयोषितः ।
ताभिस्तु तत्तद्देशीयास्तदशिष्यन्त योषितः ॥ ६॥

एवं परम्पराप्राप्तमेत्तल्लोके प्रतिष्ठितम् ।

नाट्यप्रशंसा
ऋग्यजुः सामवेदेभ्यो वेदाच्चाथर्वणः क्रमात् ॥ ७॥

पाठ्यं चाभिनयं गीतं रसान् सङ्गृह्य पद्मजः ।
व्यरीरचच्छास्त्रमिदं धर्मकामार्थमोक्षदम् ॥ ८॥

कीर्तिप्रागल्भ्यसौभाग्यवैदध्य्नां प्रवर्धनम् ।
औदार्यस्थेर्यधैर्याणां विलासस्य च कारणम् ॥ ९॥

दुःखार्तिशोकनिर्वेदखेदविच्छेदकारणम् ।
अपि ब्रह्मपरानन्दादिदमभ्यधिकं मतम् ॥ १०॥

जहार नारदादीनां चित्तानि कथमन्यथा ।

नटनभेदाः
एतच्चतुर्विधोपेतं नटनं त्रिविधं स्मृतम् ॥ ११॥

नाट्यं नृत्तं नृत्यमिति मुनिभिर्भरतादिभिः ।

नटनप्रयोगकालः
द्रष्टव्ये नाट्यनृत्ये च पर्वकाले विशेषतः ॥ १२॥

नृत्तं तत्र नरेन्द्रानामभिषेके महोत्सवे ।
यात्रायां देवयात्रायां विवाहे प्रियसङ्गमे ॥ १३॥

नगराणामगाराणां प्रवेशे पुत्रजन्मनि ।
शुभार्थिभिः प्रयोक्तव्यं माङ्गल्यं सर्वकर्मभिः ॥ १४॥

नाट्यं
नाट्यं तन्नाटकं चैव पूज्यं पूर्वकथायुतम् ।

नृत्तं
भावाभिनयहीनं तु नृत्तमित्यभिधीयते ॥ १५॥

नृत्यं
रसभावव्यञ्जनादियुक्तं नृत्यमितीर्यते ।
एतन्नृत्यं महाराजसभायां कल्पयेत् सदा ॥ १६॥

सभापतिलक्षणं —
श्रीमान् धीमान् विवेकी वितरणनिपुणो गानविद्याप्रवीणः
सर्वज्ञः कीर्तिशाली सरसगुणयुतो हावभावेष्वभिज्ञः ।
मात्सर्यद्वेषहीनः प्रकृतिहितसदाचारशीलो दयालु-
र्धीरो दान्तः कलावानभिनयचतुरोऽसौ सभानायकः स्यात् ॥ १७॥

मन्त्रिलक्षणं —
मेधासुस्थिरभाषणगुणपराः श्रीमद्यशोलम्पटा
भावज्ञा गुणदोषभेदनिपुणाः शृङ्गारलीलायुताः ।
मध्यस्था नयकोविदाः सहृदयाः सत्पण्डिता भान्ति ते
भाषाभेदविचक्षणाः सुकवयो अस्य प्रभोर्मन्त्रिणः ॥ १८॥

सभालक्षणं —
सभाकल्पतरुर्भाति वेदशाखोपजीवितः ।
शास्त्रपुष्पसमाकीर्णो विद्वद्भ्रमरशोभितः ॥ १९॥

सभारचना
एवंविधः सभानाथः प्राङ्मुखो निविशेन मुदा ।
वर्तेरन् पार्श्वयोस्तस्य कविमन्त्रिसुहृज्जनाः ॥ २०॥

तदग्रे नटनं कुर्यात् तत् स्थलं रङ्ग उच्यते ।
रङ्गमध्ये स्थिते पात्रे तत्समीपे नटोत्तमः ॥ २१॥

दक्षिणे तालधारी च पार्श्वद्वन्द्वे मृदङ्गकौ ।
तयोर्मध्ये गीतकारी श्रुतिकारस्तदन्तिके ॥ २२॥

एवं तिष्ठेत् क्रमेणैव नाट्यादौ रङ्गमण्डली ।
पात्रलक्षणं —
तन्वी रूपवती श्यामा पीनोन्नतपयोधरा ॥ २३॥

प्रगल्भा सरसा कान्ता कुशला ग्रहमोक्षयोः ।
विशाललोचना गीतवाद्यतालानुवर्तिनी ॥ २४॥

परार्ध्यभूषासम्पन्ना प्रसन्नमुखपङ्कजा ।
एवंविधगुणोपेता नर्तकी समुदीरिता ॥ २५॥

वर्जनीयपात्राणि —
पुष्पाक्षी केशहीना च स्थूलोष्ठी लम्बितस्तनी ।
अतिस्थूलाप्यतिकृशा अत्युच्चाप्यतिवामना ॥ २६॥

कुब्जा च स्वरहीना च दशैता नाट्यवर्जिताः ।
पात्रस्य प्राणाः —
जवः स्थिरत्वं रेखा च भ्रमरी दृष्टिरश्रमः ॥ २७॥

मेधा श्रद्धा वचो गीतं पात्रप्राणा दश स्मृताः ।
एवंविधेन पात्रेण नृत्यं कार्यं विधानतः ॥ २८॥

किङ्किणीलक्षणं
सुस्वराश्च सुरूपाश्च सूक्ष्मा नक्षत्रदेवताः ।
किङ्किण्यः कांस्यरचिता एकैकाङ्गुलिकान्तरम् ॥ २९॥

बध्नीयान्नीलसूत्रेण ग्रन्थिभिश्च दृढं पुनः ।
शतद्वयं शतं वापि पादयोर्नाट्यकारिणी ॥ ३०॥

प्रार्थनादिकं —
विघ्नेशं मुरजाधिपं च गगनं स्तुत्वा महीं प्रार्थयेत्
तत्तद्वाद्यकदम्बकस्य विधिना पूजाविधामानयेत् ।
आलप्यातिमनोहरान् बहुविधीन् सम्पाद्य भूयस्तथा
गुर्वाज्ञामवलम्ब्य पात्रमुचितं शृङ्गारमेवारभेत् ॥ ३१॥

रङ्गाधिदेवतास्तुतिः —
भरतकुलभाग्यकलिके भावरसानन्दपरिणताकारे ।
जगदेकमोहनकले जय जय रङ्गाधिदेवते देवि ॥ ३२॥

पुष्पाञ्जलिः
विघ्नानां नाशनं कर्तुं भूतानां रक्षणाय च ।
देवानां तुष्टये चापि प्रेक्षकाणां विभूतये ॥ ३३॥

श्रेयसे नायकस्यात्र पात्रसंरक्षणाय च ।
आचार्यशिक्षासिद्धार्थ पुष्पाञ्जलिमथारभेत् ॥ ३४॥

नाट्यक्रमः
एवं कृत्वा पूर्वरङ्गं नृत्यं कार्यं ततः परम् ।
नृत्यं गीताभिनयनं भावतालयुतं भवेत् ॥ ३५॥

आस्येनालम्बयेद् गीतं हस्तेनार्थं प्रदर्शयेत् ।
चक्षुर्भ्यां दर्शयेद् भावं पादाभ्यां तालमाचरेत् ॥ ३६॥

यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः ।
यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ ३७॥

अभिनयः
तत्र त्वभिनयस्यैव प्राधान्यमिति कथ्यते ।
आङ्गिको वाचिकस्तद्वदाहार्यः सात्विकोऽपरः ॥ ३८॥

चतुर्धाभिनयस् –
आङ्गिकाभिनयः
तत्र आङ्गिकोऽङ्गैर्निदर्शितः ।
वाचिकाभिनयः
वाचा विरचितः काव्यनाटकादि तु वाचिकः ॥ ३९॥

आहार्याभिनयः
आहार्यो हारकेयूरवेषादिभिरलङ्कृतः ।
सात्त्विकाभिनयः
सात्त्विकः सात्त्विकैर्भावैर्भावज्ञेन विभावितः ॥ ४०॥

स्तम्भः स्वेदाम्बु रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥ ४१॥

आङ्गिकाभिनयसाधनानि
तत्राङ्गिकोऽङ्गप्रत्यङ्गोपाङ्गैस्त्रेधा प्रकाशतः ।
अङ्गानि
अङ्गान्यस्त्र शिरो हस्तौ वक्षः पार्श्वौ कटीतटौ ॥ ४२॥

पादाविति षडुक्तानि ग्रीवामप्यपरे जगुः ॥

प्रत्यङ्गानि
प्रत्यङ्गान्यथ च स्कन्धौ बाहू पृष्ठं तथोदरम् ॥ ४३॥

ऊरू जङ्घे षडित्याहुरपरे मणिबन्धकौ ।
जानुनी कूर्परावेतत् त्रयमप्यधिकं जगुः ॥ ४४॥

उपाङ्गानि
ग्रीवा स्यादप्युपाङ्गन्तु स्कन्ध एवं जगुर्बुधाः ।
दृष्टिभ्रूपुटताराश्च कपोलौ नासिका हनू ॥ ४५॥

अधरो दशना जिह्वा चुबुकं वदनं तथा ।
उपाङ्गानि द्वादशैव शिरस्यङ्गान्तरेषु च ॥ ४६॥

पार्ष्णिगुल्फौ तथाङ्गुल्यः करयोः पादयोस्तले ।
एतानि पूर्वशास्त्रानुसारेणोक्तानि वै मया ॥ ४७॥

नृत्यमात्रोपयोगीनि कथ्यन्ते लक्षणैः क्रमात् ।
अङ्गानां चलनादेव प्रत्यङ्गोपाङ्गयोरपि ॥ ४८॥

चलनं प्रभवेत्तस्मात् सर्वेषां नात्र लक्षणम् ।
शिरोमेदाः —
सममुद्वाहितमधोमुखमालोलितं धुतम् ॥ ४९॥

कम्पितं च परावृत्तमुत्क्षिप्तं परिवाहितम् ।
नवधा कथितं शीर्षं नाट्यशास्त्रविशारदैः ॥ ५०॥

समशिरः —
निश्चलं सममाख्यातं यन्नत्युन्नतिवर्जितम् ।
विनियोगः —
नृत्यारम्भे जपादौ च गर्वे प्रणयकोपयोः ॥ ५१॥

स्तम्भने निष्क्रियत्वे च समशीर्षमुदाहृतम् ।
उद्वाहितशिरः —
उद्वाहितशिरो ज्ञेयमूर्ध्वभागोन्नताननम् ॥ ५२॥

विनियोगः —
ध्वजे चन्द्रे च गगने पर्वते व्योमगामिषु ।
तुङ्गवस्तुनि संयोज्यमुद्वाहितशिरो बुधैः ॥ ५३॥

अधोमुखशिरः —
अधस्तान्नमितं वक्त्रमधोमुखमितीरितम् ।
विनियोगः —
लज्जाखेदप्रणामेषु दुश्चिन्तामूर्छयोस्तथा ॥ ५४॥

अधःस्थितार्थनिर्देशे युज्यतेऽम्बुनि मज्जने ।
आलोलितशिरः —
मण्डलाकारमुद्भ्रान्तमालोलितं शिरो भवेत् ॥ ५५॥

विनियोगः —
निद्रोद्वेगग्रहावेशमदमूर्छासु तन्मतम् ।
भ्रमणे विकटोद्दामहास्ये चालोलितं शिरः ॥ ५६॥

धुतशिरः —
वामदक्षिणभागेषु चलितं तद्धुतं शिरः ।
विनियोगः —
नास्तीति वचने भूयः पार्श्वदेशावलोकने ॥ ५७॥

जनाश्वासे विस्मये च विषादेऽनीप्सिते तथा ।
शीतार्ते ज्वरिते भीते सद्यःपीतासवे तथा ॥ ५८॥

युद्धे यत्ने निषेधादावमर्षे खाङ्गवीक्षणे ।
पार्श्वाह्वाने च तस्योक्तः प्रयोगो भरतादिभिः ॥ ५९॥

कम्पितशिरः —
ऊर्ध्वाधोभागचलितं तच्छिरः कम्पितं भवेत् ।
विनियोगः —
रोषे तिष्ठेति वचने प्रश्ने सङ्ख्योपहूतयोः ॥ ६०॥

आवाहने तर्जने च कम्पितं विनियुज्यते ।
परावृत्तशिरः —
पराङ्मुखीकृतं शीर्षं परावृत्तमितीरितम् ॥ ६१॥

विनियोगः —
तत् कार्यं कोपलज्जादिकृते बक्त्रापसरणे ।
अनादरे कचे तूण्यां परावृत्तशिरो भवेत् ॥ ६२॥

उत्क्षिप्तशिरः —
पार्श्वोर्ध्वभागचलितमुत्क्षिप्तं कथ्यते शिरः ।
विनियोगः —
गृहाणागच्छेत्याद्यर्थसूचने परिपोषणे ॥ ६३॥

अङ्गीकारे प्रयोक्तव्यमुत्क्षिप्तं नाम शीर्षकम् ।
परिवाहितशिरः —
पार्श्वयोश्चामरमिव ततं चेत् परिवाहितम् ॥ ६४॥

विनियोगः —
मोहे च विरहे स्तोत्रे सन्तोषे चानुमोदने ।
विचारे च प्रयोक्तव्यं परिवाहितशीर्षकम् ॥ ६५॥

दृष्टिमेदाः —
सममालोकितं साची र्लोकितनिमीलिते ।
उल्लोकितानुवृत्ते च तथा चैवावलोकितम् ॥ ६६॥

इत्यष्टौ दृष्टिभेदाः स्युः कीर्तिताः पूर्वसूरिभिः ।
समदृष्टिः —
वीक्षणं सुरनारीवत् सानन्दं समवीक्षणम् ॥ ६७॥

विनियोगः —
नाट्यारम्भे तुलायां चाप्यन्यचिन्ताविनिश्चये ।
आश्चर्ये देवतारूपे समदृष्टिरुदाहृता ॥ ६८॥

आलोकितदृष्टिः —
आलोकितं भवेदाशुभ्रमणं स्फुटवीक्षणम् ।
विनियोगः —
कुलामचक्रभ्रमणे सर्ववस्तुप्रदर्शने ॥ ६९॥

याञ्चयां च प्रयोक्तव्यमालोकितनिरीक्षणम् ।
साचीदृष्टिः —
स्वस्थाने तिर्यगाकारमपाङ्गवलनं क्रमात् ॥ ७०॥

साचीदृष्टिरिति ज्ञेया नाट्यशास्त्रविशारदैः ।
विनियोगः —
इङ्गिते श्मश्रुसंस्पर्शे शरलक्ष्ये शुके स्मृतौ ॥ ७१॥

सूचनायां च कार्याणां नाट्ये साचीनिरीक्षणम् ।
प्रलोकितदृष्टिः —
प्रलोकितं परिज्ञेयं चलनं पार्श्वभागयोः ॥ ७२॥

विनियोगः —
उभयोः पार्श्वयोर्वस्तु निर्देशे च प्रसञ्जिते ।
चलने बुद्धिजाडेय च प्रलोकितनिरीक्षणम् ॥ ७३॥

मोलितदृष्टिः —
दृष्टे रर्धविकाशेन मीलिता दृष्टिरीरिता ।
विनियोगः —
आशीविषे पारवश्ये जपे ध्याने नमस्कृतौ ॥ ७४॥

उन्मादे सूक्ष्मदृष्टौ च मीलिता दृष्टिरीरिता ।
उल्लोकितदृष्टिः —
उल्लोकितमिति ज्ञेयमूर्ध्वभागे विलोकनम् ॥ ७५॥

विनियोगः —
ध्वजाग्रे गोपुरे देवमण्डले पूर्वजन्मनि ।
औन्नत्ये चन्द्रिकादावप्युल्लोकितनिरीक्षणम् ॥ ७६॥

अनुवृत्तदृष्टिः —
ऊर्ध्वाधो वीक्षणं वेगादनुवृत्तमितीरितम् ।
विनियोगः —
कोपदृष्टौ प्रियामन्त्रे अनुवृत्तनिरीक्षणम् ॥ ७७॥

अवलोकितदृष्टिः —
अधस्ताद्दर्शनं यत्तदवलोकितमुच्यते ।
विनियोगः —
छायालोके विचारे च चर्यायां पठनश्रमे ॥ ७८॥

स्वाङ्गावलोकने यानेऽप्यवेलोकितमुच्यते ।
ग्रीवाभेदाः —
सुन्दरी च तिरश्चीना तथैव परिवर्तिता ॥ ७९॥

प्रकम्पिता च भावज्ञैर्ज्ञेया ग्रीवा चतुर्विधा ।
सुन्दरी प्रीवा —
तिर्यक् चञ्चलिता ग्रीवा सुन्दरीति निगद्यते ॥ ८०॥

विनियोगः —
स्नेहारम्भे तथा यत्ने सम्यगर्थे च विस्तृते ।
सरसत्वानुमोदे च सा ग्रीवा सुन्दरी मता ॥ ८१॥

तिरश्चीना ग्रीवा —
पार्श्वयोरुर्ध्वभागे तु चलिता सर्पयानवत् ।
सा ग्रीवा तु तिरश्चीनेत्युच्यते नाट्यकोविदैः ॥ ८२॥

विनियोगः —
स्वड्गश्रमे सर्पगत्यां तिरश्चीना प्रयुज्यते ।
परिवर्तिता ग्रीवा —
सव्यापसव्यचलिता ग्रीवा यत्रर्धचन्द्रवत् ॥ ८३॥

सा हि नाट्यकलाभिज्ञैर्विज्ञेया परिवर्तिता ।
विनियोगः —
शृङ्गारनटने कान्तकपोलद्वयचुम्बने ॥ ८४॥

नाट्यतन्त्रविचारज्ञैः प्रयोज्या परिवर्तिता ।
प्रकम्पिता ग्रीवा —
पुरः पश्चात् प्रचलनात् कपोतीकण्ठकम्पवत् ॥ ८५॥

प्रकम्पितेति सा ग्रीवा नाट्यशास्त्रे प्रशस्यते ।
विनियोगः —
युष्मदस्मदिति प्रोक्ते देशीनाट्ये विशेषतः ॥ ८६॥

दोलायां मणिते चैव प्रयोक्तव्या प्रकम्पिता ।
हस्तभेदाः —
अथेदानीन्तु हस्तानां लक्षणं प्रोच्यते मया ॥ ८७॥

असंयुताः संयुताश्च हस्तद्वेधा निरूपिता ।
तत्रासंयुतहस्तानामादौ लक्षणमुच्यते । ८८॥

असंयुतहस्ताः —
पताकस्त्रिपताकोऽर्धपताकः कर्तरीमुखः ।
मयूराख्योऽर्धचन्द्रश्च अरालः शुकतुण्डकः ॥ ८९॥

मुष्टिश्च शिखराख्यश्च कपित्थः कटकामुखः ।
सूची चन्द्रकला पद्मकोशः सर्पशिरस्तथा ॥ ९०॥

मृगशीर्षः सिंहमुखः काङ्गुलश्चालपद्मकः ।
चतुरो भ्रमरश्चैव हंसास्यो हंसपक्षकः ॥ ९१॥

शन्दंशो मुकुलश्चेव ताम्रचूडस्त्रिशूलकः ।
इत्यसंयुतहस्तानामष्टाविंशतिरीरिता ॥ ९२॥

पताकहस्तः —
अङ्गुल्यः कुञ्चिताङ्गुष्टः संश्लिष्टाः प्रसृता यदि ।
स पताककरः प्रोक्तो नृत्यकर्मविशारदैः ॥ ९३॥

विनियोगः —
नाट्यारम्भे वारिवाहे वने वस्तुनिषेधने ।
कुचस्थले निशायां च नद्यामरमण्डले ॥ ९४॥

तुरङ्गे खण्डने वायौ शयने गमनोद्यमे ।
प्रतापे च प्रसादे च चन्द्रिकायां घनातपे ॥ ९५॥

कवाटपाटने सप्तविभक्तपर्थे तरङ्गके ।
वीथिप्रवेशभावेऽपि समत्वे चाङ्गरागके ॥ ९६॥

आत्मार्थे शपथे चापि तूष्णीम्भावनिदर्शने ।
तालपत्रे च खेटे च द्रव्यादिस्पर्शने तथा ॥ ९७॥

आशीर्वादक्रियायां च नृपश्रेष्ठस्य भावने ।
तत्र तत्रेति वचने सिन्धौ च सुकृतिक्रमे ॥ ९८॥

सम्बोधने पुरोगेऽपि खड्गरूपस्य धारणे ।
मासे संवत्सरे वर्षदिने सम्मार्जने तथा ॥ ९९॥

एवमर्थेषु युज्यन्ते पताकहस्तभावनाः ।
त्रिपताकहस्तः —
स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ॥ १००॥

विनियोगः —
मकुटे वृक्षभावेषु वज्रे तद्धरवासवे ।
केतकीकुसुमे दीपे वह्निज्वाला विजृम्भने ॥ १०१॥

कपोते पत्रलेखायां बाणार्थे परिवर्तने ।
युज्यते त्रिपताकोऽयं कथितो भरतोत्तमैः ॥ १०२॥

अर्धपताकहस्तः —
त्रिपताके कनिष्टा चेद् वक्रिताऽर्धपताकिका ।
विनियोगः —
पल्लवे फलके तीरे उभयोरिति वाचके ॥ १०३॥

क्रकचे छुरिकायां च ध्वजे गोपुरशृङ्गयोः ।
युज्यतेऽर्धपताकोऽयं तत्तत्कर्मप्रयोगके ॥ १०४॥

कत्तरीमुखहस्तः —
अस्यैव चापि हस्तस्य तर्जनी च कनिष्ठिका ।
बहिः प्रसारिते द्वे च स करः कर्तरीमुखः ॥ १०५॥

विनियोगः —
स्त्रीपुंसयोस्तु विश्लेषे विपर्यासपदेऽपि वा ।
लुण्ठने नयनान्ते च मरणे भेदभावने ॥ १०६॥

विद्युदर्थेऽप्येकशय्याविरहे पतने तथा ।
लतायां युज्यते यस्तु स करः कर्तरीमुखः ॥ १०७॥

मयूरहस्तः —
अस्मिन्नामिकाङ्गुष्ठौ श्लिष्टौ चान्याः प्रसारिताः ।
मयूरहस्तः कथितः करटीकाविचक्षणैः ॥ १०८॥

विनियोगः —
मयूरास्ये लतायां च शकुने वमने तथा ।
अलकस्यापनयने ललाटतिलकेषु च ॥ १०९॥

नद्युदकस्य निक्षेपे शास्त्रवादे प्रसिद्धके ।
एवमर्थेषु युज्यन्ते मयूरकरभावनाः ॥ ११०॥

अर्धचन्द्रहस्तः —
अर्धचन्द्रकरः सोऽयं पताकेऽङ्गुष्ठसारणात् ।
विनियोगः —
चन्द्रे कृष्णाष्टमीभाजि गलहस्तार्थकेऽपि च ॥ १११॥

भल्लायुधे देवतानामभिषेचनकर्मणि ।
भुक्पात्रे चोद्भवे कट्यां चिन्तायामात्मवाचके ॥ ११२॥

ध्याने च प्रार्थने चापि अङ्गानां स्पर्शने तथा ।
प्राकृतानां नमस्कारे अर्धचन्द्रो नियुज्यते ॥ ११३॥

अरालहस्तः —
पताके तर्जनी वक्रा नाम्ना सोऽयमरालकः ।
विनियोगः —
विषाद्यमृतपानेषु प्रचण्डपवनेऽपि च ॥ ११४॥

शुकतुण्डहस्तः —
अस्मिन्ननामिका वक्रा शुकतुण्डकरो भवेत् ।
विनियोगः —
बाणप्रयोगे कुन्तार्थे वाऽऽलयस्य स्मृतिक्रमे ॥ ११५॥

मर्मोत्यामुग्रभावेषु शुकतुण्डो नियुज्यते ।
मुष्टिहस्तः —
मेलनादङ्गुलीनाञ्च कुञ्चितानां तलान्तरे ॥ ११६॥

अङ्गुष्ठश्चोपरियुतो मुष्टिहस्तोऽयमीर्यते ।
विनियोगः —
स्थिरे कचग्रहे दार्ढ्ये वस्त्वादीनां च धारणे ॥ ११७॥

मल्लानां युद्धभावेऽपि मुष्टिहस्तोऽयमिष्यते ।
शिखरहस्तः —
चेन्मुष्टिरुन्नताङ्गुष्ठः स एव शिखरः करः ॥ ११८॥

विनियोगः —
मदने कार्मुक स्तम्भे निश्चये पितृकर्मणि ।
ओष्ठेप्रविष्टरूपे च रदने प्रश्नभावने ॥ ११९॥

लिङ्गे नास्तीति वचने स्मरणेऽभिनयान्तिके ।
कटिबन्धाकर्षणे च परिरम्भविधिक्रमे ॥ १२०॥

घण्टानिनादे शिखरो युज्यते भरतादिभिः ।
कपित्थहस्तः —
अङ्गुष्ठमूर्ध्निशिखरे वक्रिता यदि तर्जनी ॥ १२१॥

कपित्थाख्यः करः सोऽयं कीर्तितो नृत्तकोविदैः ।
विनियोगः —
लक्ष्म्यां चैव सरखत्यां नटानां तालधारणे ॥ १२२॥

गोदोहनेऽप्यञ्जने च लीलाकुसुमधारणे ।
चेलाञ्चलादिग्रहणे पटस्यैवावगुण्ठने ॥ १२३॥

धूपदीपार्चने चापि कपित्थः सम्प्रयुज्यते ।
कटकामुखहस्तः —
कपित्थे तर्जनी चोर्ध्वमुछ्रिताङ्गुष्ठमध्यमा ॥ १२४॥

कटकामुखहस्तोऽयं कीर्तितो भरतागमैः ।
विनियोगः —
कुसुमावचये मुक्तास्रग्दाम्नां धारणे तथा ॥ १२५॥

शरमध्याकर्षणे च नागल्लीप्रदानके ।
कस्तूरिकादिवस्तूनां पेषणे गन्धवासने ॥ १२६॥

वचने दृष्टिभावेऽपि कटकामुख इष्यते ।
सूचीहस्तः —
ऊर्ध्वप्रसारिता यत्र कटकामुखतर्जनी ॥ १२७॥

सूचीहस्तः स विज्ञेयो भरतागमकोविदैः ।
विनियोगः —
एकार्थेऽपि परब्रह्मभावनायां शतेऽपि च ॥ १२८॥

रवौ नगर्यां लोकार्थे तथेति वचनेऽपि च ।
अच्छब्देऽपि तच्छब्द् विजनार्थेऽपि तर्जने ॥ १२९॥

कार्श्ये शलाके वपुषि आश्चर्ये वेणिभावने ।
छत्रे समर्थे पाणौ च रोमाल्यां भेरीवादने ॥ १३०॥

कुलालचक्रभ्रमणे रथाङ्गमण्डले तथा ।
विवेचने दिनान्ते च सूचीहस्तः प्रकीर्तितः ॥ १३१॥

चन्द्रकलाहस्तः —
सूच्यामङ्गुष्ठमोक्षे तु करश्चन्द्रकला भवेत् ।
विनियोगः —
चन्द्रे मुखे च प्रादेशे तन्मात्राकारवस्तुनि ॥ १३२॥

शिवस्य मुकुटे गङ्गानद्यां च लगुडेऽपि च ।
एषां चन्द्रकला चैव विनियोज्या विधीयते ॥ १३३॥

पद्मकोशहस्तः —
अङ्ल्यो विरला किञ्चित् कुञ्चितास्तलनिम्नगाः ।
पद्मकोशाभिधो हस्तस्तन्निरूपणमुच्यते ॥ १३४॥

विनियोगः —
फले बिल्वकपित्थादौ स्त्रीणां च कुचकुम्भयोः ।
आवर्ते कन्दुके स्थाल्यां भोजने पुष्पकोरके ॥ १३५॥

सहकारफले पुष्पवर्षे मञ्जरिकादिषु ।
जपाकुसुमभावे च घण्टारूपे विधानके ॥ १३६॥

वल्मीके कमलेऽप्यण्डे पद्मकोशो विधीयते ।
सर्पशीर्षहस्तः —
पताका नमिताग्रा चेत् सर्पशीर्षकरो भवेत् ॥ १३७॥

विनियोगः —
चन्दने भुजगे मन्द्रे प्रोक्षणे पोषणादिषु ।
देवस्योदकदानेषु आस्फाले गजकुम्भयोः ॥ १३८॥

भुजस्थाने मल्लानां तु युज्यते सर्पशीर्षकः ।
मृगशीर्षहस्तः —
अस्मिन् कनिष्ठिकाङ्गुष्ठे प्रसृते मृगशीर्षकः ॥ १३९॥

विनियोगः —
स्त्रीणामर्थे कपोले च चक्रमर्यादयोरपि ।
भीत्यां विवादे नेपथ्ये आह्वाने च त्रिपुण्ड्रके ॥ १४०॥

मृगमुखे रङ्गमल्ल्यां पादसंवाहने तथा ।
सर्वस्वे मिलने काममन्दिरे छत्रधारणे ॥ १४१॥

सञ्चारे च प्रियाह्वाने युज्यते मृगशीर्षकः ।
सिंहमुखहस्तः —
मध्यमानामिकाग्राभ्यामङ्गुष्ठो मिश्रितो यदि ॥ १४२॥

शेषौ प्रसारितौ यत्र स सिंहास्यकरो भवेत् ।
विनियोगः —
होमे शशे गजे दर्भचलने पद्मदामनि ॥ १४३॥

सिंहानने वैद्यपाके शोधने सम्प्रयुज्यते ।
काङ्गुलहस्तः —
पद्मकोशेऽनामिका चेन्नम्रा काङ्गुलहस्तकः ॥ १४४॥

धुतशिरः —
लकुचस्य फले बालकिङ्किण्यां घण्टिकार्थके ।
चकोरे क्रमुके बालकुचे कह्लारके तथा ॥ १४५॥

चातके नालिकेरे च काङ्गुलो युज्यते करः ।
अलपद्महस्तः —
कनिष्ठाद्या वक्रिताश्च विरलाश्चालपद्मकः ॥ १४६॥

विनियोगः —
विकचाब्जे कपित्थादिफले चावर्तके कुचे ।
विरहे मुकुरे पूर्णचन्द्रे सौन्दर्यभावने ॥ १४७॥

धम्मिल्ले चन्द्रशालायां ग्रामे चोद्धृतकोपयोः ।
तटाके शकटे चक्रवाके कलकलारवे ॥ १४८॥

श्लाघने सोऽलपद्मश्च कोर्तितो भरतागमे ।
चतुरहस्तः —
तर्जन्याद्यास्तत्र श्लिष्टाः कनिष्ठा प्रसृता यदि ॥ १४९॥

अङ्गुप्ठोऽनामिकामूले तिर्यक् चेच्चतुरः करः ।
विनियोगः —
कस्तूर्यां किञ्चिदर्थे च स्वर्णे ताम्रे च लोहके ॥ १५०॥

आर्दै खेदे रसास्वादे लोचने वर्णभेदने ।
प्रमाणे सरसे मन्दगमने शकलीकृते ॥ १५१॥

आनने घृततैलादौ युज्यते चतुरः करः ।
भ्रमरहस्तः —
मध्यमाङ्गुष्ठसंयोगे तर्जनी वक्रिताकृतिः ॥ १५२॥

शेषाः प्रसारिताश्चासौ भ्रमराभिधहस्तकः ।
विनियोगः —
भ्रमरे च शुके पक्षे सारसे कोकिलादिषु ॥ १५३॥

भ्रमराख्यश्च हस्तोऽयं कीर्तितो भरतागमे ।
हंसास्यहस्तः —
भध्यमाद्यास्त्रयोङ्गुल्यः प्रसृता विरला यदि ॥ १५४॥

तर्जन्यङ्गुष्ठसंश्लेषात् करो हंसात्यको भवेत् ।
विनियोगः —
माङ्गल्ये सूत्रबन्धे च उपदेशविनिश्चये ॥ १५५॥

रोमाञ्चे मौक्तिकादौ च दीपवर्तिप्रसारणे ।
निकषे मल्लिकादौ च चित्रे तल्ले खने तथा ॥ १५६॥

दंशे च जलबन्धे च हंसास्यो युज्यते करः ।
हंसपक्षहस्तः —
सर्पशीर्षकरे सम्यक् कनिष्ठा प्रसृता यदि ॥ १५७॥

हंसपक्षः करः सोऽय तन्निरूपणमुच्यते ।
विनियोगः —
षट्सङ्ख्यायां सेतुबन्धे नखरेखाङ्कणे तथा ॥ १५८॥

पिधाने हंसपक्षोऽयं कथितो भरतागमे ।
सन्दंशस्तः —
पुनः पुनः पद्मकोशः संश्लिष्टो विरलो यदि ॥ १५९॥

सन्दंशाभिधहस्तोऽयं कीर्तितो नृत्यकोविदैः ।
विनियोगः —
उदरे वलिदाने च व्रणे कीटे महाभये ॥ १६०॥

अर्चने पञ्चसङ्ख्यायां सन्दंशाख्यो नियुज्यते ।
मुकुलहस्तः —
अङ्गुलोपञ्चकं चैव मेलयित्वा प्रदर्शने ॥ १६१॥

मुकुलाभिधहस्तोऽयं कीर्त्यते भरतागमे ।
कुमुदे भोजने पञ्चबाणे मुद्रादिधारणे ॥ १६२॥

नाभौ च कदलीपुष्पे युज्यते मुकुलः करः ।
ताम्रचूडहस्तः —
मुकुले ताम्रचूडः स्यात्तर्जनी वक्रिता यदि ॥ १६३॥

विनियोगः —
कुक्कुटादौ वके काके उष्ट्रे वत्से च लेखने ।
युज्यते ताम्रचूडाख्यः करो भरतवेदिभिः ॥ १६४॥

त्रिशूलहस्तः —
निकुञ्चनयुताङ्गुष्ठकनिष्ठस्तु त्रिशूलकः ।
विनियोगः —
विल्वपत्रे त्रित्वयुक्ते त्रिशूलकर ईरितः ॥ १६५॥

व्याघ्रहस्तः —
कनिष्ठाङ्गुष्ठनमने मृगशीर्षकरे तथा ।
व्याघ्रहस्तः स विज्ञेयो भरतागमकोविदैः ॥ १६६॥

विनियोगः —
व्याघ्रे भेके मर्कटे च शुक्तौ संयुज्यते करः ।
अर्धसूचीहस्तः —
कपित्थे तर्जनी ऊर्ध्वसारणे त्वर्धसूचिकः ॥ १६७॥

विनियोगः —
अङ्कुरे पक्षिशावादौ बृहत्कीटे नियुज्यते ।
कटकहस्तः —
सन्दंशेऽप्युर्ध्वभागे तु मध्यमानामिकान्वया ॥ १६८॥

॥॥ ॥॥ कटको हस्त उच्यते ।
विनियोगः —
एतस्य विनियोगस्तु ॥॥ ॥॥ दर्शने ॥ १६९॥

आह्वानभावचलने ॥॥ ॥॥ ।
पल्लिहस्तः —
मयूरे तर्जनीपृष्ठो मध्यमेन युतो यदि ॥ १७०॥

पल्लिहस्तः स विज्ञेयः पल्लाथै विनियुज्यते ।
अभिनयवशादेषां संयुतत्वं प्रकीर्तितम् ॥ १७१॥

मार्गप्रदर्शनं तेषां क्रमाल्लक्ष्यानुसारतः ।
संयुतहस्ताः —
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ॥ १७२॥

डोलाहस्तः पुष्पपुट उत्सङ्गः शिवलिङ्गकः ।
कटकावर्धनश्चैव कर्तरीस्वस्तिकस्तथा ॥ १७३॥

शकटं शङ्खचक्रे च सम्पुटः पाशकीलकौ ।
मत्स्यः कूर्मों वराहश्च गरुडो नागबन्धकः ॥ १७४॥

खट्वा भेरुण्ड इत्येते सङ्ख्याता संयुताः कराः ।
त्रयोविंशतिरित्युक्ताः पूर्वगैर्भरतादिभिः ॥ १७५॥

अञ्जलिहस्तः —
पताकातलयोर्योगादञ्जलिः कर ईरितः ।
विनियोगः —
देवतागुरुविप्राणां नमस्कारेष्वनुक्रमात् ॥ १७६॥

कार्यः शिरोमुखोरस्थो विनियोगेऽञ्जलिबुधैः ।
कपोतहस्तः —
कपोतोऽसौ करो यत्र श्लिष्टाऽऽमूलाग्रपार्श्वकः ॥ १७७॥

विनियोगः —
प्रणामे गुरुसम्भाषे विनयाङ्गीकृतेष्वयम् ।
कर्कटहस्तः —
अन्योन्यस्यान्तरे यत्राङ्गुल्यो निःसृत्य हस्तयोः ॥ १७८॥

अन्तर्बहिर्वा वर्तन्ते कर्कटः सोऽभिधीयते ।
विनियोगः —
समूहागमने तुन्ददर्शने शङ्खपूरणे ॥ १७९॥

अङ्गानां मोटने शाखोन्नमने च नियुज्यते ।
स्वस्तिकहस्तः —
पताकयोः सन्नियुक्तः करयोर्मणिबन्धयोः ॥ १८०॥

संयोगेन स्वस्तिकाख्यो मकरे विनियुज्यते ।
डोलाहस्तः —
पताक ऊरूदेशस्थे डोलाहस्तोऽयमिष्यते ॥ १८१॥

विनियोगः —
नाट्यारम्भे प्रयोक्तव्य इति नाट्यविदो विदुः ।
पुष्पपुटहस्तः —
संश्लिष्टकरयोः सर्पशीर्षः पुष्पपुटः करः ॥ १८२॥

विनियोगः —
नीराजनाविधौ वारिफलादिग्रहणेऽपि च ।
सध्याय्मयैदाने च मन्त्रपुष्पे च युज्यते ॥ १८३॥

उत्सङ्गहस्तः —
आन्योन्यबाहुदेशस्थौ मृगशीर्षकरौ यदि ।
उत्सङ्गहस्तः स ज्ञेयो भरतागमवेदिभिः ॥ १८४॥

विनियोगः —
आलिङ्गने च लज्जायामङ्गदादिप्रदर्शने ।
बालानां शिक्षणे चायमुत्सङ्गो युज्यते करः ॥ १८५॥

शिवलिङ्गहस्तः —
वामेऽर्धचन्द्रो विन्यस्तः शिखरः शिवलिङ्गकः ।
विनियोगः —
विनियोगस्तु तस्यैव शिवलिङ्गस्य दर्शने ॥ १८६॥

कटकावर्धनहस्तः —
कटकामुखयोः पाण्योः स्वस्तिको मणिबन्धयोः ।
कटकावर्धनाख्यः स्यादिति नाट्यविदो विदुः ॥ १८७॥

विनियोगः —
पट्टाभिषेके पूजायां विवाहादिषु युज्यते ।
कर्तरीस्वस्तिकहस्तः —
कर्तरीस्वस्तिकाकारा कर्तरीस्वस्तिको भवेत् ॥ १८८॥

विनियोगः —
शाखासु चाद्रिशिखरे वृक्षेषु च नियुज्यते ।
शकटहस्तः —
भ्रमरे मध्यमाङ्गुष्ठप्रसाराच्छकटो भवेत् ॥ १८९॥

विनियोगः —
राक्षसाभिनये प्रायः शकटो विनियुज्यते ।
शङ्खहस्तः —
शिखरान्तर्गताङ्गुष्ठ इतराङ्गुष्ठसङ्गतः ॥ १९०॥

तर्जन्या युत अश्लिष्टः शङ्खहस्तः प्रकीर्तितः ।
विनियोगः —
शङ्खादिषु प्रयोज्योऽयमित्याहुर्भरतादयः ॥ १९१॥

चक्रहस्तः —
यत्रार्धचन्द्रौ तिर्यञ्चावन्योन्यतलसंस्पृशौ ।
चक्रहस्तः स विज्ञेयश्चक्रार्थे विनियुय्यते ॥ १९२॥

सम्पुटहस्तः —
कुञ्चिताङ्गुलयश्चके प्रोक्तः सम्पुटहस्तकः ।
विनियोगः —
वस्त्वाच्छादे सम्पुटे च सम्पुटः कर ईरितः ॥ १९३॥

पाशहस्तः —
सूच्यां निकुञ्चिते श्लिष्टे तर्जन्यौ पाश ईरितः ।
विनियोगः —
अन्योन्यकलहे पाशे शृङ्खलायां नियुज्यते ॥ १९४॥

कीलकहस्तः —
कनिष्ठे कुञ्चिते श्लिष्टे मृगशीर्षस्तु कीलकः ।
विनियोगः —
स्नेहे नर्मानुलापे च कीलको विनियुज्यते ॥ १९५॥

मत्स्यहस्तः —
करपृष्टोपरि न्यस्तो यत्र हस्तस्त्वधोमुखः ।
किञ्चित्प्रसारिताङ्गुष्ठकनिष्ठो मत्स्यनामकः ॥ १९६॥

विनियोगः —
एतस्य विनियोगस्तु सम्मतो मत्स्यदर्शने ।
कूर्महस्तः —
कुञ्चिताग्राङ्गुलिश्चक्रे त्यक्ताङ्गुष्ठकनिष्ठकः ॥ १९७॥

कूर्महस्तः स विज्ञेयः कूर्मार्थे विनियुज्यते ।
वराहहस्तः —
मृगशीर्षे त्वन्यतरे स्वोपर्येकः स्थिते यदि ॥ १९८॥

कनिष्ठाङ्गुष्ठयोर्योगाद्वराहकर ईरितः ।
विनियोगः —
एतस्य वियोगः स्याद्वराहार्थप्रदर्शने ॥ १९९॥

गरुडहस्तः —
तिर्यक्तलस्थितावर्धचन्द्रावङ्गुष्ठयोगतः ।
गरुडहस्त अस्त् इत्याहुर्गरुडार्थे नियुज्यते ॥ २००॥

नागबन्धहस्तः —
सर्पशीर्षस्वस्तिकञ्च नागबन्ध इतीरितः ।
विनियोगः —
एतस्य विनियोगस्तु नागबन्धे हि सम्मतः ॥ २०१॥

खट्राहस्तः —
चतुरे चतुरं न्यस्य तर्जन्यङ्गुष्ठमोक्षतः ।
खट्वाहस्तो भवेदेष खट्वाशिविकयोः स्मृतः ॥ २०२॥

भेरुण्डहस्तः —
मणिबन्धे कपित्थाभ्यां भेरुण्डकर इष्यते ।
विनियोगः —
भेरुण्डे पक्षिदम्पत्योर्भेरुण्डो युज्यते करः ॥ २०३॥

देवहस्ताः —
अथात्र ब्रह्मरुद्रादिदेवताभिनयक्रमात् ।
मूर्तिभेदेन ये हस्तास्तेषां लक्षणमुच्यते ॥ २०४॥

ब्रह्महस्तः —
ब्रह्मणश्चतुरो वामे हंसास्यो दक्षिणे करः ।
ईश्वरहस्तः —
शम्भोर्वामे मृगशीर्षस्त्रिपताकस्तु दक्षिणे ॥ २०५॥

विष्णुहस्तः —
हस्ताभ्यां त्रिपताकस्तु विष्णुहस्तः स कीर्तितः ।
सरस्वतीहस्तः —
सूचीकृते दक्षिणे च वामे चांससमकृतौ ॥ २०६॥

कपित्थकेऽपि भारत्याः कर स्यादिति सम्मतः ।
पार्वतीहस्तः —
ऊर्ध्वाधः प्रसूतावर्धचन्द्राख्यौ वामदक्षिणौ ॥ २०७॥

अभयो वरदश्चैव पार्वत्या कर ईरितः ।
लक्ष्मीहस्तः —
अंसोपकण्ठे हस्ताभ्यां कपित्थस्तु श्रियः करः ॥ २०८॥

विनायकहस्तः —
उरोगताभ्यां हस्ताभ्यां कपित्थो विघ्नराट् करः ।
षण्मुखहस्तः —
वामे करे त्रिशूलञ्च शिखरो दक्षिणे करे ॥ २०९॥

ऊर्ध्वं गते षण्मुखस्य हस्तः स्यादिति कीर्तितः —
मन्मथहस्तः —
वामे करे तु शिखरो दक्षिणे कटकामुखः ॥ २१०॥

मन्मथस्य करः प्रोक्तो नाट्यशास्त्रार्थकोविदैः ।
इन्द्रहस्तः —
त्रिपताकः स्वस्तिकश्च शक्रहस्तः प्रकीर्तितः ॥ २११॥

अग्निहस्तः —
त्रिपताको दक्षिणे तु वामे काङ्गुलहस्तकः ।
अग्निहस्तः स विज्ञेयो नाट्यशास्त्रविशारदैः ॥ २१२॥

यमहस्तः —
वामे पाशं दक्षिणे तु सूची यमकरः स्मृतः ।
निरृतिहस्तः —
खट्वा च शकटश्चैव कीर्तितो निरृतेः करः ॥ २१३॥

वरुणहस्तः —
पताको दक्षिणे वामे शिखरो वारुणः करः ।
युहस्तः —
अरालो दक्षिणे हस्ते वामे चार्धपताकिका ॥ २१४॥

धृता चेद्वायुदेवस्य कर इत्यह्धीयते ।
कुवेरहस्तः —
वामे पद्मं दक्षिणे तु गदा यक्षपतेः करः ॥ २१५॥

दशावताराहस्ताः —
मत्स्यावतारहस्तः —
मत्स्यहस्तं दर्शयित्वा ततः स्कन्धसमौ करौ ।
धृतो मत्स्यावतारस्य हस्त इत्यभिधीयते ॥ २१६॥

कूर्मावतारहस्तः —
कूर्महस्तं दर्शयित्वा ततः स्कन्धसमौ करौ ।
धृतौ कूर्मावतारस्य हस्त इत्यभिधीयते ॥ २१७॥

वराहावतारहस्तः —
दर्शयित्वा वराहं तु कटिपार्श्वसमौ करौ ।
धृता वराहावतारस्य देवस्य कर इष्यते ॥ २१८॥

नृसिहावतारहस्तः —
वामे सिंहमुखं धृत्वा दक्षिणे त्रिपताकिका ।
नरसिंहावतारस्य हस्त इत्युच्यते बुधैः ॥ २१९॥

वामनावतारहस्तः —
ऊर्ध्वाधो धृतमुष्टिभ्यां सव्यान्याभ्यां यदि स्थितः ।
स वामनावतारस्य हस्त इत्यभिधीयते ॥ २२०॥

अरशुरामावतारहस्तः —
वामं कटितटे न्यस्य दक्षिणेऽर्धपताधिका ।
धृता परशुरामस्य हस्त इत्यभिधीयते ॥ २२१॥

रामचन्द्रावतारहस्तः —
कपित्थो दक्षिणे हस्ते वामे तु शिखरः करः ।
ऊर्ध्वं धृतो रामचन्द्रहस्त इत्युच्यते बुधैः ॥ २२२॥

अलरामावतारहस्तः —
पताको दक्षिणे हस्ते मुष्टिर्वामकरे तथा ।
बलरामावतारस्य हस्त इत्युच्यते बुधैः ॥ २२३॥

कृष्णावतारहस्तः —
मृगशीर्षे तु हस्ताभ्यामन्योन्याभिमुखे कृते ।
आस्योपकण्ठे कृष्णस्य हस्त इत्युच्यते बुधैः ॥ २२४॥

कल्क्यवतारहस्तः —
पताको दक्षिणे वामे त्रिपताकः करो धृतः ।
कल्क्याख्यस्यावतारस्य हस्त इत्यभिधीयते ॥ २२५॥

अथ तत्तज्जातीयहस्ताः —
राक्षसहस्तः —
मुखे कराभ्यां शकटौ राक्षसानां करः स्मृतः ।
ब्राह्मणहस्तः —
कराभ्यां शिखरं धृत्वा यज्ञसूत्रस्य सूचने ॥ २२६॥

दक्षिणेन कृते तिर्यग् ब्राह्मणानां करः स्मृतः ।
क्षत्रियहस्तः —
वामेन शिखरं तिर्यग् धृत्वान्येन पताकिका ॥ २२७॥

धृता यदि क्षत्रियाणां हस्त इत्यभिधीयते ।
वैश्यहस्तः —
करे वामे तु हंसास्यो दक्षिणे कटकामुखः ॥ २२८॥

वश्यहस्तोऽयमाख्यातो मुनिभिर्भरतादिभिः ।
शूद्रहस्तः —
वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ २२९॥

शूद्रहस्तः स विज्ञेयो मुनिभिर्भरतादिभिः ।
यदष्टादशजातीनां कर्म तेन कराः स्मृताः ॥ २३०॥

तत्तद्देशजानामपि एवमुह्यं बुधोत्तमैः ।
बान्धवहस्ताः —
दम्पतिहस्तः —
वामे तु शिखरं धृत्वा दक्षिणे मृगशीर्षकः ॥ २३१॥

धृतः स्त्रीपुंसयोर्हस्तः ख्यातो भरतकोविदैः ।
मातृहस्तः —
वामे हस्तेऽर्धचन्द्रश्च सन्दंशो दक्षिणे करे ॥ २३२॥

आवर्तयित्वा जठरे वामहस्तं ततः परम् ।
स्त्रियाः करो धृतो मातृहस्त इत्युच्यते बुधैः ॥ २३३॥

विनियोगः —
जनन्यां च कुमार्यां च मातृहस्तो नियुज्यते ।
पितृहस्तः —
एतस्मिन् मातृहस्ते तु शिखरे दक्षिणेन तु ॥ २३४॥

धृते सति पितृहस्त इत्याख्यातो मनीषिभिः ।
विनियोगः —
अयं हस्तस्तु जनके जामातरि च युज्यते ॥ २३५॥

श्वश्रूहस्तः —
विन्यस्य कण्ठे हंसास्यं सन्दंशं दक्षिणे करे ।
उदरे च परामृश्य वामहस्तं ततः परम् ॥ २३६॥

स्त्रियाः करो धृतः श्वश्रुहस्तस्तस्यां नियुज्यते ।
श्वशुरहस्तः —
एतस्यान्ते तु हस्तस्य शिखरो दक्षिणे यदि ॥ २३७॥

धृतश्च श्वशुरस्यायं हस्त इत्युच्यते बुधैः ।
भर्तृभ्रातृहस्तः —
वामे तु शिखरं धृत्वा पार्श्वयोः कर्तरीमुखः ॥ २३८॥

धृतो दक्षिणहस्तेन भर्तृभ्रातृकरः स्मृतः ।
ननान्दृहस्तः —
अन्ते त्वेतस्य हस्तस्य स्त्रीहस्तो दक्षिणे करे ॥ २३९॥

धृतो ननान्दृहस्तः स्यादिति नाट्यविदां मतम् ।
ज्येष्ठकनिष्ठभ्रातृहस्तः —
मयूरहस्तः पुरतः पार्श्वभागे च दर्शितः ॥ २४०॥

ज्येष्ठभ्रातुः कनिष्ठस्याप्ययं हस्त इति स्मृतः ।
पुत्रहस्तः —
सन्दंशमुदरे न्यस्य भ्रामयित्वा ततः परम् ॥ २४१॥

धृतो वामेन शिखरं पुत्रहस्तः प्रकीर्तितः ।
न्षाहस्तः —
एतदन्ते दक्षिणेन स्त्रीहस्तश्च धृतो यदि ॥ २४२॥

स्नुषाहस्त इति ख्यातो भरतागमकोविदैः ।
सपत्नीहस्तः —
दर्शयित्वा पाशहस्तं कराभ्यां स्त्रीकरावुभौ ॥ २४३॥

धृतौ सपत्नीहस्तः स्यादिति भावविदो विदुः ।
नृत्तहस्तानां गतयः —
भवन्ति नृत्तहस्तानां गतयः पञ्चधा भुवि ॥ २४४॥

ऊर्ध्वाऽधरोत्तरा प्राची दक्षिणा चेति विश्रुता ।
यथा स्यात् पादविन्यास्तथैव करयोरपि ॥ २४५॥

वामाङ्गभागे वामस्य दक्षिणे दक्षिणस्य च ।
कुर्यात् प्रचलनं ह्येतन्नृत्तसिद्धान्तलक्षणम् ॥ २४६॥

यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः ।
यतो मनस्ततो भावो यतो भावस्ततो रसः ॥ २४७॥

नृत्तहस्तः —
पताकास्वस्तिकाख्यश्च डोलाहस्तस्तथाञ्जलिः ।
कटकावर्धनश्चैव शकटः पाशकीलकौ ॥ २४८॥

कपित्थः शिखरः कूर्मो हंसास्यश्चालपद्मकः ।
त्रयोदशैते हस्ताः स्युर्नृत्तस्याप्युपयोगिनः ॥ २४९॥

नवग्रहहस्ताः —
सूर्यहस्तः —
अंसोपकण्ठे हस्ताभ्यामलपद्मकपित्थकः ।
धृतो यदि करो ह्येष दिवाकरकरः स्मृतः ॥ २५०॥

चन्द्रहस्तः —
अलपद्मो वामहस्ते दक्षिणे च पतातिका ।
निशाकरकरः प्रोक्तो भरतागमदर्शिभिः ॥ २५१॥

कुजहस्तः —
वामे करे तु सूची स्यान्मुष्टिहस्तस्तु दक्षिणे ।
धृतश्चेन्नाट्यशास्त्रज्ञैरङ्गारककरः स्मृतः ॥ २५२॥

बुधहस्तः —
तिर्यग्वामे च मुष्टिः स्याद्दक्षिणे च पताकिका ।
बुधग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ २५३॥

गुरुहस्तः —
हस्ताभ्यां शिखरं धृत्वा यज्ञसूत्रस्य दर्शनम् ।
ऋषिब्राह्मणहस्तोऽयं गुरोश्चापि प्रकीर्तितः ॥ २५४॥

शुक्रहस्तः —
वामोच्चभागे मुष्टिः स्यादधस्ताद्दक्षिणे तथा ।
शुक्रग्रहकरः प्रोक्तो भरतागमवेदिभिः ॥ २५५॥

शनिहस्तः —
वामे करे तु शिखरस्त्रिशूलो दक्षिणे करे ।
शनैश्चरकरः प्रोक्तो भरतागमकोविदैः ॥ २५६॥

राहुहस्तः —
सर्पशीर्षो वामकरे सूची स्याद्दक्षिणे करे ।
राहुग्रहकरः प्रोक्तो नाट्यविद्याधिपैर्जनैः ॥ २५७॥

केतुहस्तः —
वामे करे तु सूची स्याद्दक्षिणे तु पताकिका ।
केतुग्रहकरः प्रोक्तो भरतागमदर्शिभिः ॥ २५८॥

पादभेदाः —
वक्ष्यते पादभेदानां लक्षणं पूर्वसम्मतम् ।
मण्डलोत्प्लवने चैव भ्रमरी पादचारिका ॥ २५९॥

चतुर्धा पादभेदाः स्युस्तेषां लक्षणमुच्यते ।
मण्डलभेदाः —
स्थानकं चायतालीढं प्रेङ्खणप्ररितानि च ॥ २६०॥

प्रत्यालीढं खस्तिकं च मोटितं समसूचिका ।
पार्श्वसूचीति च दश मण्डलानीरितानीह ॥ २६१॥

स्थानकमण्डलं —
कटिं स्पृष्ट्वाऽर्धचन्द्राख्यपाणिभ्यां समपादतः ।
समरेखतया तिष्ठेत् तत् स्यात् स्थानकमण्डलम् ॥ २६२॥

आयतमण्डलं —
वितस्त्यन्तरितौ पादौ कृत्वा तु चतुरस्रकौ ।
तिर्यक् कुञ्चितजानुभ्यां स्थितिरायतमण्डलम् ॥ २६३॥

आलीढमण्डलं —
दक्षिणाङ्घ्रेश्च पुरतः वितस्तित्रितयान्तरम् ।
विन्यसेद् वामपादं च शिखरं वामपाणिना ॥ २६४॥

कटकामुखहस्तश्च दक्षिणेन धृतो यदि ।
आलीढमण्डलमिति विख्यातं भरतादिभिः ॥ २६५॥

प्रत्यालीढमण्डलं —
आलीढस्य विपर्यासात् प्रत्यालीढाख्यमण्डलम् ।
प्रेङ्खणमण्डलं —
प्रसृत्यैकपदं पार्श्वे पार्ष्णिदेशस्य पादतः ॥ २६६॥

स्थित्वाऽन्ते कूर्महस्तेन स्थितिः प्रङ्खणमण्डलम् ।
प्रेरितमण्डलं —
सन्ताड्यैकं पदं पार्श्वे वितस्तित्रितयान्तरम् ॥ २६७॥

तिर्यक् कुञ्चितजानुभ्यां स्थित्वाऽथ शिखरं करम् ।
विधाय वक्ष्यस्यन्येन प्रसृता च पताकिका ॥ २६८॥

प्रदर्शयेदिदं तज्ज्ञाः प्रेरितं मण्डलं जगुः ।
स्वस्तिकमण्डलं —
दक्षिणोत्तरतः कुर्यात् पादे पादं करे करम् ॥ २६९॥

व्यात्यासेन तदा प्रोक्तं स्वस्तिकं नाम मण्डलम् ।
मोटितमण्डलं —
प्रपदाभ्यां भुवि स्थित्वा जानुयुग्मेन संस्पृशेत् ॥ २७०॥

क्रमाद् भूतलमेकैकं त्रिपताककरद्वयम् ।
कृत्वा तन्मोटितं नाम मण्डलं कथितं बुधैः ॥ २७१॥

समसूचीमण्डलं —
पादाग्राभ्यां च जानुभ्यां भूतलं संस्पृशेद्यदि ।
मण्डलं समसूचीति कथितं पूर्वसूरिभिः ॥ २७२॥

पार्श्वसूचीमण्डलम् —
स्थित्वा पादाग्रयुग्मेण जानुनैकेन पार्श्वतः ।
संस्पृशेद् भूतलं पार्श्व सूचीमण्डलमीरितम् ॥ २७३॥

स्थानकभेदाः —
पादविन्यासभेदेन स्थानकं षड्विधं भवेत् ।
समपादं चैकपादं नागबन्धस्ततः परम् ॥ २७४॥

ऐन्द्रं च गारुडं चैव ब्रह्मस्थानमिति क्रमात् ।
समपादस्थानं —
स्थितिः समाभ्यां पादाभ्यां समपादमिति स्मृतम् ॥ २७५॥

विनियोगः —
पुष्पाञ्जलौ देवरूपे समपादं नियुज्यते ।
एकपादस्थानं —
जान्वाश्रित्य पदैकेन स्थितिः स्यादेकपादकम् ॥ २७६॥

विनियोगः —
एकपादं त्विदं स्थानं निश्चले तपसि स्थितम् ।
नागबन्धस्थानं —
पादं पादेन संवेष्ट्य तथा पाणिं च पाणिना ॥ २७७॥

स्थितिः स्यान्नागबन्धाख्या नागबन्धे प्रयुज्यते ।
ऐन्द्रकस्थानं —
पादमेकं समाकुञ्च्य स्थित्वाऽन्यपदजानुनी ॥ २७८॥

उत्तानिते करं न्यस्य स्थितिरैन्द्रमितीरितम् ।
विनियोगः —
वासवे राजभावे च स्थानमैन्द्रं नियुज्यते ॥ २७९॥

गरुडस्थानकं —
आलीढमण्डले पश्चादथ जानुतलं भुवि ।
संस्थाप्य पाणियुग्मेन वहन विरलमण्डलम् (?) ॥ २८०॥

स्थितिस्तु गरुडस्थानं गरुडे विनियुज्यते ।
ब्रह्मस्थानं —
जानुपरि पदं न्यस्य पदस्योपरि जानु च ॥ २८१॥

स्थितं यदि भवेद् ब्राह्मं जपादिषु नियुज्यते ।
उत्प्लवनभेदाः —
अथोत्प्लवनभेदानां लक्षणं परिकथ्यते ॥ २८२॥

अलगं कर्तरी वाऽश्वोऽत्प्लवनं मोटितं तथा ।
कृपालगमिति ख्यातं पञ्चधोत्प्लवनं बुधैः ॥ २८३॥

अलगोत्प्लवनं —
उत्प्लुत्य पार्श्वयुगलं कटिदेशे तु विन्यसेत् ।
बध्वा कराभ्यां शिखरौ अलगोत्प्लवनं भवेत् ॥ २८४॥

उत्प्लवनकर्तरी —
उत्प्लुत्य प्रपदैः सव्यपादस्यैकस्य पृष्ठतः ।
कर्तरी विन्यसेदेषा स्यादुत्प्लुवनकर्तरी ॥ २८५॥

अधोमुखं च शिखरं कटौ हस्तं न्यसेदिह ।
अश्वोत्प्लवनं —
पुरः पादं समुत्प्लुत्य पश्चात्पादं नियोजयेत् ॥ २८६॥

करौ तु त्रिपताख्यौ कृत्वाऽश्वोत्प्लवनं भवेत् ।
मोटितोत्प्लवनं —
पर्यायपार्श्वोत्प्लवनं कर्तरीव तु मोटिता ॥ २८७॥

त्रिपताके च करयोः कृत्वा शश्वत्प्रकाशनात् ।
कृपालगोत्प्लवनं —
पार्ष्णिमेकैकपादस्य कटौ पर्यायतो न्यसेत् ॥ २८८॥

अर्धचन्द्रकलामध्ये न्यस्तमन्यत् कृपालगम् ।
भ्रमरीलक्षणं —
भ्रमर्या लक्षणान्यत्र वक्ष्ये लक्षणभेदतः ॥ २८९॥

उत्प्लुतभ्रमरी चक्रभ्रमरी गरुडाभिधा ।
तथैकपादभ्रमरी कुञ्चितभ्रमरी तथा ॥ २९०॥

आकाशभ्रमरी चैव तथाङ्गभ्रमरीति च ।
भ्रमर्यः सप्त विज्ञेया नाट्यशास्त्रविशारदैः ॥ २९१॥

उत्प्लुभ्र्मरी —
स्थित्वा समाभ्यां पादाभ्यामुत्प्लुत्य भ्रामयेद्यदि ।
सर्वाङ्गमन्तराले स्यादुत्प्लुतभ्रमरी त्वसौ ॥ २९२॥

चक्रन्नमरी —
भुवि पादौ मुहुः कर्षंस्त्रिपताकौ करौ वहन् ।
चक्रवद् भ्रमते यत्र सा चक्रभ्रमरी भवेत् ॥ २९३॥

गरुडभ्रमरी —
तिर्यक् प्रसार्यैकपादं पश्चाज्जानु भुवि क्षिपेत् ।
सम्यक् प्रसार्य बाहू द्वौ भ्रामयेद् गरुडो भवेत् ॥ २९४॥

एकपादभ्रमरी —
भ्रामयेदेकमेकेन पादं पादेन सत्वरम् ।
सा त्वेकपादभ्रमरी भवेदिति विनिश्चिता ॥ २९५॥

कुञ्चितभ्रमरी —
निकुञ्च्य जानुभ्रमणं कुञ्चितभ्रमरी भवेत् ।
आकाशभ्रमरी —
उत्प्लुत्य पादौ विरलौ कृत्वा पादौ प्रसार्य च ॥ २९६॥

भ्रामयेत् सकलं गात्रमाकाशभ्रमरी भवेत् ।
अङ्गभ्रमरी —
वितस्त्यन्तरितौ पादौ कृत्वाङ्गभ्रमणं तथा ॥ २९७॥

तिठेद् यदि भवेदङ्गभ्रमरी भरतोदिता ।
चारिमेदाः —
अथात्र चारिभेदानां लक्षणं कथ्यते मया ॥ २९८॥

आदौ तु चलनं प्रोक्तं पश्चाच्चङ्क्रमणं तथा ।
सरणं वेगिनी चैव कुट्टनं च ततः परम् ॥ २९९॥

लुठितं लोलितं चैव ततो विषमसञ्चरः ।
चारिभेदा अमी अष्टौ प्रोक्ता भरतवेदिभिः ॥ ३००॥

चलनचारि —
स्वस्थानात् स्वस्य पादस्य चलनाच्चलनं भवेत् ।
चङ्क्रमणं —
पादयोर्बाह्यपार्श्वाभ्यामुत्क्षिप्योत्क्षिष्य यत्नतः ॥ ३०१॥

गतिर्भवेच्चङ्क्रमणं वर्णितं नाट्यकोविदैः ।
सरणं —
चलनं तु जलूकावदेकेनान्यस्य पार्ष्णिना ॥ ३०२॥

तिर्यगाकर्षयेद् भूमिं कराभ्यां तु पताकिके ।
धृत्वा च गमनं यत्तु सरणं तदुदीरितम् ॥ ३०३॥

वेगिनी —
पार्ष्णिणा वा पदार्ग्रेण द्रुतं गत्या तु चालनम् ।
कराभ्यां चालपद्मे च त्रिपताके यथाक्रमम् ॥ ३०४॥

धृत्वा नटेद् यदि भवेद् वेगवत्त्वेन वेगिनी ।
कुट्टनं —
पाष्णिना वा पदाग्रेण समस्तेन तलेन वा ॥ ३०५॥

यत्ताडनं भूतलस्य कुट्टनं तदुदीरितम् ।
लुठितं —
स्वस्तिकस्थितिपादाग्रे कुट्टनाल्लुठितं भवेत् ॥ ३०६॥

ओलित —
पूर्ववत् कुट्टनं कृत्वा मन्दं मन्दमतः परम् ।
अस्पृष्टभूमेः पादस्य चालनं लोलितं भवेत् ॥ ३०७॥

विषमसञ्चरः —
वेष्टयित्वा दक्षिणेन वामं वामेन दक्षिणम् ।
क्रमेण पादं विन्यस्य भवेद् विषमसञ्चरः ॥ ३०८॥

गतिमेदाः —
अथात्र गतिभेदानां लक्षणं वक्ष्यते क्रमात् ।
हंसी मयूरी च मृगी गजलीला तुरङ्गिणी ॥ ३०९॥

सिंही भुजङ्गी मण्डूकी गतिर्वीरा च मानवी ।
दशैता गतयो ज्ञेया नाट्यशास्त्रविशारदैः ॥ ३१०॥

हँसीगतिः —
परिवर्त्य तनुं पार्श्वं वितस्त्यन्तरितं शनैः ।
एकैकं तत् पदं न्यस्य कपित्थं करयोर्वहन् ॥ ३११॥

हंसवद्गमनं यत्तु सा हंसी गतिरीरिता ।
मयूरीगतिः —
प्रपदाभ्यां भूवि स्थित्वा कपित्थं करयोर्वहन् ॥ ३१२॥

एकैकजानुचलनान्मयूरी गतिरीरिता ।
मृगीगतिः —
मृगवद् गमनं वेगात् त्रिपताककरौ वहन् ॥ ३१३॥

पुरतः पार्श्वयोश्चैव यानं मृगगतिर्भवेत् ।
गजलीलागतिः —
पार्श्वयोस्तु पताकाभ्यां कराभ्यां विचरंस्ततः ॥ ३१४॥

समपादगतिर्मन्दं गजलीलेति विश्रुता ।
तुरङ्गिणीगतिः —
उत्क्षिप्य दक्षिणं पदमुल्लङ्घ्य च मुहुर्मुहुः ॥ ३१५॥

वामेण शिखरं धृत्वा दक्षिणेन पताकिकाम् ।
तुरङ्गिणी गतिः प्रोक्ता नृत्तशास्त्रविशारदैः ॥ ३१६॥

सिंहोगतिः —
पादाग्राभ्यां भुवि स्थित्वा पुर उत्प्लुत्य वेगतः ।
कराभ्यां शिखरं धृत्वा यानं सिंहगतिर्भवेत् ॥ ३१७॥

भुजङ्कीगतिः —
त्रिपताककरौ धृत्वा पाश्र्वयोरुभयोरपि ।
पूर्ववद्गमनं यत्तु सा भुजङ्गी गतिर्भवेत् ॥ ३१८॥

मण्डूकीगतिः —
कराभ्यां शिखरं धृत्वा किञ्चित् सिंहीसमा गतिः ।
मण्डूकी गतिरित्येषा प्रसिद्धा भरतागमे ॥ ३१९॥

वीरागतिः —
वामे तु शिखरं धृत्वा दक्षिणेन पताकिका ।
दूरादागमनं यत्तु वीरा गतिरुदीरिता ॥ ३२०॥

मानवीगतिः —
मण्डलाकारवद् भ्रान्त्या समागत्य मुहुर्मुहुः ।
वामं करं न्यस्य कटौ दक्षिणे कटकामुखम् ॥ ३२१॥

मानवी गतिरित्येषा प्रसिद्धा पूर्वसूरिभिः ।
मण्डलानि प्रयुक्तानि तवैवोत्प्लवनानि च ॥ ३२२॥

भ्रमर्यश्चैव चार्यश्च गतयश्च परस्परम् ।
एकैकभेदसम्बन्धादनन्तानि भवन्ति हि ॥ ३२६॥

एताश्च नर्तनविधौ शास्त्रतः सम्प्रदायतः ।
सतामनुग्रहेणैव विज्ञ यौ नान्यथा भुवि ॥ ३२४॥

उपरिष्टादुद्धृतांशः केवलं एम-आख्यात-
पुस्तके मण्डलभेदेभ्यः प्रागधिको दृश्यते ।
अर्थ अष्टरसाः —
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।
बीभत्सरीद्रो च रसा शृङ्गारः शुचिरुज्ज्वलः ॥

अवस्थाभेदाः —
श्रुत्यक्षिप्रीतिहृत्सङ्गाः सङ्कल्पो जागरस्तथा ।
तनुता चापि विषयनिवृत्तिश्चात्रपा तथा ॥

मोहो मूर्छा च मरणमित्यवस्थाः प्रपश्चताः ।
चक्षुःप्रीतिश्च चिन्ता च सङ्कल्पो गुणकीर्तनम् ॥

क्रियाद्वेषश्च तापश्च लज्जात्यागस्ततः परम् ।
उन्मादमूर्छामृतय इत्यवस्था स्मृताः परैः ॥

नयनैर्जनयेद् भावं भावात् स्पर्शं समाचरेत् ।
स्पर्शन द्रवमुत्पाद्य रतिं पश्चात् समाचरेत् ॥

चिन्ता —
किं करिष्यति किं ध्यायेत् क्वास्ते किं वक्वि भामिनी ।
इतीव मानसोत्कण्ठा सा चिन्ता परिकीर्तिता ॥

सङ्कल्पः —
यामि तामरविन्दार्क्षी पिवाम्यधरपल्लवम् ।
रमामि नितरां सार्धं तयेति सुट्टढं पुनः ॥

तां विना न हि जीवामि सैव मे परमं धनम् ।
इतः परं सा शरणमिति सङ्कल्प ईरितः ॥

गुणकीतनं —
एषा मौलिविभूषणं मृगदृशामेषा परं जीवनं
तां त्यक्त्वा न हि किञ्चिदस्ति शरणं यूनां रसोल्लासिनी ।
सा भूषा भुवनस्य किम्पुनरियं वाचा पर जीवन-
मित्येवं प्रतिभाति या गुणनुतिः स्त्रीपुम्प्रभेदेऽपि सा ॥

क्रियाद्वेषः —
गच्छ गच्छसि चेतां तो नाहं कान्ता न मे पतिः ।
त्वं चेति कथनं यत्र कथनं द्वेष उच्यते ॥

तापः —
किं करोति सुमास्त्रो मां पञ्चभिबाणसञ्चयैः ।
तपत्यनन्तरं गात्रं तापोऽसौ परिकीर्तितः ॥

लज्जात्यागः —
दोर्भ्यां समाश्लिष्य पयोधरौ तौ प्रचुम्ब्य बिम्बाधरमायताक्ष्याः ।
सुखेन सुप्तः शयने निशायामुद्बोधितोऽहं चरणायुधेन ॥

उन्मादः —
चित्रे लिखितमालोक्य नायकं कञ्चनाङ्गना ।
परिरम्य दृढं दोर्भ्यां चुचुम्बे गण्डयोरमुम् ॥

मूर्छा —
यत्राङ्गनाया वैकल्यं पञ्चप्राणनिरोधनम् ।
असङ्गा याममात्रं सा मूर्छा वान्या मृतिर्न हि ॥

इति श्रीनन्दिकेश्वरविरचितं अभिनयदर्पणं समाप्तम् ।

Advertisements

Categories: Sanskrit

Tagged as: