Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Vedic Studies » All Vedic deities are One – Rig Veda

All Vedic deities are One – Rig Veda

उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः-व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्

महद्देवानामसुरत्वमेकम् 

३,०५५.०१ उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
३,०५५.०१ व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्

३,०५५.०२ मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
३,०५५.०२ पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥

३,०५५.०३ वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
३,०५५.०३ समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥

३,०५५.०४ समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
३,०५५.०४ अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥

३,०५५.०५ आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
३,०५५.०५ अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥

३,०५५.०६ शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
३,०५५.०६ मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥

३,०५५.०७ द्विमाता होता विदथेषु सम्राळ् अन्वग्रं चरति क्षेति बुध्नः ।
३,०५५.०७ प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥

३,०५५.०८ शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
३,०५५.०८ अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥

३,०५५.०९ नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन ।
३,०५५.०९ वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥

३,०५५.१० विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
३,०५५.१० अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥

३,०५५.११ नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
३,०५५.११ श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥

३,०५५.१२ माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
३,०५५.१२ ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥

३,०५५.१३ अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
३,०५५.१३ ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥

३,०५५.१४ पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
३,०५५.१४ ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥

३,०५५.१५ पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
३,०५५.१५ सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥

३,०५५.१६ आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
३,०५५.१६ नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥

३,०५५.१७ यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
३,०५५.१७ स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥

३,०५५.१८ वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
३,०५५.१८ षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥

३,०५५.१९ देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
३,०५५.१९ इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥

३,०५५.२० मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
३,०५५.२० शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥

३,०५५.२१ इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
३,०५५.२१ पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥

३,०५५.२२ निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
३,०५५.२२ सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम्


Refer : ऋग्वेद भाष्यम् – Rig Veda Bhashyam