Why to observe Brahmacharya – Atharva Veda explaining

(११,५[७].१ ) ब्रह्मचारीष्णंश्चरति रोदसी उभे तस्मिन् देवाः संमनसो भवन्ति ।
(११,५[७].१ ) स दाधार पृथिवीं दिवं च स आचार्यं तपसा पिपर्ति ॥१॥

(११,५[७].२ ) ब्रह्मचारिणं पितरो देवजनाः पृथग्देवा अनुसंयन्ति सर्वे ।
(११,५[७].२ ) गन्धर्वा एनमन्वायन् त्रयस्त्रिंशत्त्रिशताः षट्सहस्राः सर्वान्त्स देवांस्तपसा पिपर्ति ॥२॥

(११,५[७].३ ) आचार्य उपनयमानो ब्रह्मचारिणं कृणुते गर्भमन्तः ।
(११,५[७].३ ) तं रात्रीस्तिस्र उदरे बिभर्ति तं जातं द्रष्टुमभिसंयन्ति देवाः ॥३॥

(११,५[७].४ ) इयं समित्पृथिवी द्यौर्द्वितीयोतान्तरिक्षं समिधा पृणाति ।
(११,५[७].४ ) ब्रह्मचारी समिधा मेखलया श्रमेण लोकांस्तपसा पिपर्ति ॥४॥

(११,५[७].५ ) पूर्वो जातो ब्रह्मणो ब्रह्मचारी घर्मं वसानस्तपसोदतिष्ठत्।
(११,५[७].५ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥५॥

(११,५[७].६ ) ब्रह्मचार्येति समिधा समिद्धः कार्ष्णं वसानो दीक्षितो दीर्घश्मश्रुः ।
(११,५[७].६ ) स सद्य एति पूर्वस्मादुत्तरं समुद्रं लोकान्त्संगृभ्य मुहुराचरिक्रत्॥६॥

(११,५[७].७ ) ब्रह्मचारी जनयन् ब्रह्मापो लोकं प्रजापतिं परमेष्ठिनं विराजम् ।
(११,५[७].७ ) गर्भो भूत्वामृतस्य योनाविन्द्रो ह भूत्वासुरांस्ततर्ह ॥७॥

(११,५[७].८ ) आचार्यस्ततक्ष नभसी उभे इमे उर्वी गम्भीरे पृथिवीं दिवं च ।
(११,५[७].८ ) ते रक्षति तपसा ब्रह्मचारी तस्मिन् देवाः संमनसो भवन्ति ॥८॥

(११,५[७].९ ) इमां भूमिं पृथिवीं ब्रह्मचारी भिक्षामा जभार प्रथमो दिवं च ।
(११,५[७].९ ) ते कृत्वा समिधावुपास्ते तयोरार्पिता भुवनानि विश्वा ॥९॥

(११,५[७].१० ) अर्वागन्यः परो अन्यो दिवस्पृष्ठाद्गुहा निधी निहितौ ब्राह्मणस्य ।
(११,५[७].१० ) तौ रक्षति तपसा ब्रह्मचारी तत्केवलं कृणुते ब्रह्म विद्वान् ॥१०॥ {१४}

(११,५[७].११ ) अर्वागन्य इतो अन्यः पृथिव्या अग्नी समेतो नभसी अन्तरेमे ।
(११,५[७].११ ) तयोः श्रयन्ते रश्मयोऽधि दृढास्तान् आ तिष्ठति तपसा ब्रह्मचारी ॥११॥

(११,५[७].१२ ) अभिक्रन्दन् स्तनयन्न् अरुणः शितिङ्गो बृहच्छेपोऽनु भूमौ जभार ।
(११,५[७].१२ ) ब्रह्मचारी सिञ्चति सानौ रेतः पृथिव्यां तेन जीवन्ति प्रदिशश्चतस्रः ॥१२॥

(११,५[७].१३ ) अग्नौ सूर्ये चन्द्रमसि मातरिश्वन् ब्रह्मचार्यप्सु समिधमा दधाति ।
(११,५[७].१३ ) तासामर्चींषि पृथगभ्रे चरन्ति तासामाज्यं पुरुषो वर्षमापः ॥१३॥

(११,५[७].१४ ) आचार्यो मृत्युर्वरुणः सोम ओषधयः पयः ।
(११,५[७].१४ ) जीमूता आसन्त्सत्वानस्तैरिदं स्वराभृतम् ॥१४॥

(११,५[७].१५ ) अमा घृतं कृणुते केवलमाचार्यो भूत्वा वरुणः ।
(११,५[७].१५ ) यद्यदैछत्प्रजापतौ तद्ब्रह्मचारी प्रायछत्स्वान् मित्रो अध्यात्मनः ॥१५॥

(११,५[७].१६ ) आचार्यो ब्रह्मचारी ब्रह्मचारी प्रजापतिः ।
(११,५[७].१६ ) प्रजापतिर्वि राजति विराडिन्द्रोऽभवद्वशी ॥१६॥

(११,५[७].१७ ) ब्रह्मचर्येण तपसा राजा राष्ट्रं वि रक्षति ।
(११,५[७].१७ ) आचार्यो ब्रह्मचर्येण ब्रह्मचारिणमिछते ॥१७॥

(११,५[७].१८ ) ब्रह्मचर्येण कन्या युवानं विन्दते पतिम् ।
(११,५[७].१८ ) अनड्वान् ब्रह्मचर्येणाश्वो घासं जिगीषति ॥१८॥

(११,५[७].१९ ) ब्रह्मचर्येण तपसा देवा मृत्युमपाघ्नत ।
(११,५[७].१९ ) इन्द्रो ह ब्रह्मचर्येण देवेभ्यः स्वराभरत्॥१९॥

(११,५[७].२० ) ओषधयो भूतभव्यमहोरात्रे वनस्पतिः ।
(११,५[७].२० ) संवत्सरः सह ऋतुभिस्ते जाता ब्रह्मचारिणः ॥२०॥ {१५}

(११,५[७].२१ ) पार्थिवा दिव्याः पशव आरण्या ग्राम्याश्च ये ।
(११,५[७].२१ ) अपक्षाः पक्षिणश्च ये ते जाता ब्रह्मचारिणः ॥२१॥

(११,५[७].२२ ) पृथक्सर्वे प्राजापत्याः प्राणान् आत्मसु बिभ्रति ।
(११,५[७].२२ ) तान्त्सर्वान् ब्रह्म रक्षति ब्रह्मचारिण्याभृतम् ॥२२॥

(११,५[७].२३ ) देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानम् ।
(११,५[७].२३ ) तस्माज्जातं ब्राह्मणं ब्रह्म ज्येष्ठं देवाश्च सर्वे अमृतेन साकम् ॥२३॥

(११,५[७].२४ ) ब्रह्मचारी ब्रह्म भ्राजद्बिभर्ति तस्मिन् देवा अधि विश्वे समोताः ।
(११,५[७].२४ ) प्राणापानौ जनयन्न् आद्व्यानं वाचं मनो हृदयं ब्रह्म मेधाम् ॥२४॥

(११,५[७].२५ ) चक्षुः श्रोत्रं यशो अस्मासु धेह्यन्नं रेतो लोहितमुदरम् ॥२५॥

(११,५[७].२६ ) तानि कल्पन् ब्रह्मचारी सलिलस्य पृष्ठे तपोऽतिष्ठत्तप्यमानः समुद्रे ।
(११,५[७].२६ ) स स्नातो बभ्रुः पिङ्गलः पृथिव्यां बहु रोचते ॥२६॥ {१६}

The realisation of Brahman -Atharva Veda

On realisation of  the truth of existence , a Rishi`s self declaration :

That it is ‘I’ – the source of everything-

(४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
(४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥

(४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
(४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥

(४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
(४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥

(४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
(४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥

(४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
(४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥

(४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
(४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥

(४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
(४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥

(४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
(४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥


 

What is Brahman – Atharva Veda indicating it

(१०,८.१ ) यो भूतं च भव्यं च सर्वं यश्चाधितिष्ठति ।
(१०,८.१ ) स्वर्यस्य च केवलं तस्मै ज्येष्ठाय ब्रह्मणे नमः ॥१॥

(१०,८.२ ) स्कम्भेनेमे विष्टभिते द्यौश्च भूमिश्च तिष्ठतः ।
(१०,८.२ ) स्कम्भ इदं सर्वमात्मन्वद्यत्प्राणन् निमिषच्च यत्॥२॥
(१०,८.३ ) तिस्रो ह प्रजा अत्यायमायन् न्यन्या अर्कमभितोऽविशन्त ।
(१०,८.३ ) बृहन् ह तस्थौ रजसो विमानो हरितो हरिणीरा विवेश ॥३॥

(१०,८.४ ) द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
(१०,८.४ ) तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च खीला अविचाचला ये ॥४॥

(१०,८.५ ) इदं सवितर्वि जानीहि षड्यमा एक एकजः ।
(१०,८.५ ) तस्मिन् हापित्वमिछन्ते य एषामेक एकजः ॥५॥

(१०,८.६ ) आविः सन् निहितं गुहा जरन् नाम महत्पदम् ।
(१०,८.६ ) तत्रेदं सर्वमार्पितमेजत्प्राणत्प्रतिष्ठितम् ॥६॥

(१०,८.७ ) एकचक्रं वर्तत एकनेमि सहस्राक्षरं प्र पुरो नि पश्चा ।
(१०,८.७ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं क्व तद्बभूव ॥७॥

(१०,८.८ ) पञ्चवाही वहत्यग्रमेषां प्रष्टयो युक्ता अनुसंवहन्ति ।
(१०,८.८ ) अयातमस्य ददृशे न यातं परं नेदीयोऽवरं दवीयः ॥८॥

(१०,८.९ ) तिर्यग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् ।
(१०,८.९ ) तदासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥९॥

(१०,८.१० ) या पुरस्ताद्युज्यते या च पश्चाद्या विश्वतो युज्यते या च सर्वतः ।
(१०,८.१० ) यया यज्ञः प्राङ्तायते तां त्वा पृछामि कतमा सा ऋचाम् ॥१०॥ {२६}

(१०,८.११ ) यदेजति पतति यच्च तिष्ठति प्राणदप्राणन् निमिषच्च यद्भुवत्।
(१०,८.११ ) तद्दाधार पृथिवीं विश्वरूपं तत्संभूय भवत्येकमेव ॥११॥

(१०,८.१२ ) अनन्तं विततं पुरुत्रानन्तमन्तवच्चा समन्ते ।
(१०,८.१२ ) ते नाकपालश्चरति विचिन्वन् विद्वान् भूतमुत भव्यमस्य ॥१२॥

(१०,८.१३ ) प्रजापतिश्चरति गर्भे अन्तरदृश्यमानो बहुधा वि जायते ।
(१०,८.१३ ) अर्धेन विश्वं भुवनं जजान यदस्यार्धं कतमः स केतुः ॥१३॥

(१०,८.१४ ) ऊर्ध्वं भरन्तमुदकं कुम्भेनेवोदहार्यम् ।
(१०,८.१४ ) पश्यन्ति सर्वे चक्षुषा न सर्वे मनसा विदुः ॥१४॥

(१०,८.१५ ) दूरे पूर्णेन वसति दूर ऊनेन हीयते ।
(१०,८.१५ ) महद्यक्षं भुवनस्य मध्ये तस्मै बलिं राष्ट्रभृतो भरन्ति ॥१५॥

(१०,८.१६ ) यतः सूर्यः उदेत्यस्तं यत्र च गछति ।
(१०,८.१६ ) तदेव मन्येऽहं ज्येष्ठं तदु नात्येति किं चन ॥१६॥

(१०,८.१७ ) ये अर्वाङ्मध्य उत वा पुराणं वेदं विद्वांसमभितो वदन्ति ।
(१०,८.१७ ) आदित्यमेव ते परि वदन्ति सर्वे अग्निं द्वितीयं त्रिवृतं च हंसम् ॥१७॥

(१०,८.१८ ) सहस्राह्ण्यं वियतावस्य पक्षौ हरेर्हंसस्य पततः स्वर्गम् ।
(१०,८.१८ ) स देवान्त्सर्वान् उरस्युपदद्य संपश्यन् याति भुवनानि विश्वा ॥१८॥

(१०,८.१९ ) सत्येनोर्ध्वस्तपति ब्रह्मणार्वाङ्वि पश्यति ।
(१०,८.१९ ) प्राणेन तिर्यङ्प्राणति यस्मिन् ज्येष्ठमधि श्रितम् ॥१९॥

(१०,८.२० ) यो वै ते विद्यादरणी याभ्यां निर्मथ्यते वसु ।
(१०,८.२० ) स विद्वान् ज्येष्ठं मन्येत स विद्याद्ब्राह्मणं महत्॥२०॥ {२७}

(१०,८.२१ ) अपादग्रे समभवत्सो अग्रे स्वराभरत्।
(१०,८.२१ ) चतुष्पाद्भूत्वा भोग्यः सर्वमादत्त भोजनम् ॥२१॥

(१०,८.२२ ) भोग्यो भवदथो अन्नमदद्बहु ।
(१०,८.२२ ) यो देवमुत्तरावन्तमुपासातै सनातनम् ॥२२॥

(१०,८.२३ ) सनातनमेनमाहुरुताद्य स्यात्पुनर्णवः ।
(१०,८.२३ ) अहोरात्रे प्र जायेते अन्यो अन्यस्य रूपयोः ॥२३॥

(१०,८.२४ ) शतं सहस्रमयुतं न्यर्बुदमसंख्येयं स्वमस्मिन् निविष्टम् ।
(१०,८.२४ ) तदस्य घ्नन्त्यभिपश्यत एव तस्माद्देवो रोचतेष एतत्॥२४॥

(१०,८.२५ ) बालादेकमणीयस्कमुतैकं नेव दृश्यते ।
(१०,८.२५ ) ततः परिष्वजीयसी देवता सा मम प्रिया ॥२५॥

(१०,८.२६ ) इयं कल्याण्यजरा मर्त्यस्यामृता गृहे ।
(१०,८.२६ ) यस्मै कृता शये स यश्चकार जजार सः ॥२६॥

(१०,८.२७ ) त्वं स्त्री त्वं पुमान् असि त्वं कुमार उत वा कुमारी॥
(१०,८.२७ ) त्वं जीर्णो दण्डेन वञ्चसि त्वं जातो भवसि विश्वतोमुखः ॥२७॥

(१०,८.२८ ) उतैषां पितोत वा पुत्र एषामुतैषां ज्येष्ठ उत वा कनिष्ठः ।
(१०,८.२८ ) एको ह देवो मनसि प्रविष्टः प्रथमो जातः स उ गर्भे अन्तः ॥२८॥

(१०,८.२९ ) पूर्णात्पूर्णमुदचति पूर्णं पूर्णेन सिच्यते ।
(१०,८.२९ ) उतो तदद्य विद्याम यतस्तत्परिषिच्यते ॥२९॥

(१०,८.३० ) एषा सनत्नी सनमेव जातैषा पुराणी परि सर्वं बभूव ।
(१०,८.३० ) मही देव्युषसो विभाती सैकेनैकेन मिषता वि चष्टे ॥३०॥ {२८}

(१०,८.३१ ) अविर्वै नाम देवतर्तेनास्ते परीवृता ।
(१०,८.३१ ) तस्या रूपेणेमे वृक्षा हरिता हरितस्रजः ॥३१॥

(१०,८.३२ ) अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति ।
(१०,८.३२ ) देवस्य पश्य काव्यं न ममार न जीर्यति ॥३२॥

(१०,८.३३ ) अपूर्वेणेषिता वाचस्ता वदन्ति यथायथम् ।
(१०,८.३३ ) वदन्तीर्यत्र गछन्ति तदाहुर्ब्राह्मणं महत्॥३३॥

(१०,८.३४ ) यत्र देवाश्च मनुष्याश्चारा नाभाविव श्रिताः ।
(१०,८.३४ ) अपां त्वा पुष्पं पृछामि यत्र तन् मायया हितम् ॥३४॥

(१०,८.३५ ) येभिर्वात इषितः प्रवाति ये ददन्ते पञ्च दिशः सध्रीचीः ।
(१०,८.३५ ) य आहुतिमत्यमन्यन्त देवा अपां नेतारः कतमे त आसन् ॥३५॥

(१०,८.३६ ) इमामेषां पृथिवीं वस्त एकोऽन्तरिक्षं पर्येको बभूव ।
(१०,८.३६ ) दिवमेषां ददते यो विधर्ता विश्वा आशाः प्रति रक्षन्त्येके ॥३६॥

(१०,८.३७ ) यो विद्यात्सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
(१०,८.३७ ) सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत्॥३७॥

(१०,८.३८ ) वेदाहं सूत्रं विततं यस्मिन्न् ओताः प्रजा इमाः ।
(१०,८.३८ ) सूत्रं सूत्रस्याहं वेदाथो यद्ब्राह्मणं महद्॥३८॥

(१०,८.३९ ) यदन्तरा द्यावापृथिवी अग्निरैत्प्रदहन् विश्वदाव्यः ।
(१०,८.३९ ) यत्रातिष्ठन्न् एकपत्नीः परस्तात्क्वेवासीन् मातरिश्वा तदानीम् ॥३९॥

(१०,८.४० ) अप्स्वासीन् मातरिश्वा प्रविष्टः प्रविष्टा देवाः सलिलान्यासन्॥
(१०,८.४० ) बृहन् ह तस्थौ रजसो विमानः पवमानो हरित आ विवेश ॥४०॥

(१०,८.४१ ) उत्तरेणेव गयत्रीममृतेऽधि वि चक्रमे ।
(१०,८.४१ ) साम्ना ये साम संविदुरजस्तद्ददृशे क्व ॥४१॥

(१०,८.४२ ) निवेशनः संगमनो वसूनां देव इव सविता सत्यधर्मा ।
(१०,८.४२ ) इन्द्रो न तस्थौ समरे धनानाम् ॥४२॥

(१०,८.४३ ) पुण्डरीकं नवद्वारं त्रिभिर्गुणेभिरावृतम् ।
(१०,८.४३ ) तस्मिन् यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ॥४३॥

(१०,८.४४ ) अकामो धीरो अमृतः स्वयंभू रसेन तृप्तो न कुतश्चनोनः ।
(१०,८.४४ ) तमेव विद्वान् न बिभाय मृत्योरात्मानं धीरमजरं युवानम् ॥४४॥ {२९}


 

What is Atman

कोऽयम् । आत्मेति वयमुपास्महे ।
कतरः स आत्मा ।
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१ ॥

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

एष ब्रह्मा ।
एष इन्द्रः ।
एष प्रजापतिः ।
एते सर्वे देवाः ।
इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।
सर्वं तत्प्रज्ञानेत्रम् ।
प्रज्ञाने प्रतिष्ठितम् ।
प्रज्ञानेत्रो लोकः ।
प्रज्ञा प्रतिष्ठा ।
प्रज्ञानं ब्रह्म ॥ ३.३ ॥

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

 ऐतरेयोपनिषद्‌

Explanation as per Sankaracharya

३.१

बह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया श्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धामुपलभमाना मुमुक्षवो ब्राह्मण अधुनातना ब्रह्मजिज्ञासवोऽनित्यात्साध्यसाधनलक्षणात्संसारादाजीवभावाद्व्याविवृत्सवो विचारयन्तोऽन्योन्यं पृच्छन्ति कोऽयमात्मेति? कथम् ?

भाष्य ३.१

यमात्मानमयमात्मेति साक्षाद्वयमुपास्महे कः स आत्मेति यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवोऽमृतः समभवत्तमेव वयनमप्युपास्महे को नु खलु स आत्मेति ।

एवं जिज्ञासापूर्वमन्योन्यं पृच्छतामतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत ।
ऽतं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्ऽऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ एतमेव पुरुषम् ।
अत्र द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने इति ।
ते चास्यपिण्डस्यात्मभूते ।
तयोरन्यतर आत्मोपास्यो भवितुमर्हति ।
योऽत्रोपास्यः कः आत्मेति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः ।

पुनस्तेषां विचारयतां विशेषविचारणास्पदविषया मतिरभूत् ।
कथम्? द्वेवस्तुनि अस्मिन् पिण्ड उपलभ्येते ।
अनेकभेदभिन्नेन करणेन येनोपलभते ।
यश्चैक उपलभ्येते ।
करणान्तरोपलब्धविषयस्मृतिप्रतिसन्धानात् ।
तत्र न तावद्येनोपलभते स आत्मा भवितुमर्हति ।

केन पुनरुपलभत इत्युच्यते येन वा चक्षुर्भूतेन रूपं पश्यति ।
येन वा श्रुणोति श्रोत्रभूतेन शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्यां साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु चास्वादु च विजानातीति ॥१॥

३.२

किं पुनस्तदेवैकमनेकधा भिन्नं करणमित्युच्यते

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

भाष्य ३.२

यदुक्तं पुरस्तात्प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः ।
तदेवैतद्धृदयं मनश्च एकमेव तदनेकधा ।
एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति श्रोत्रभूतेन शृणोति घ्राणभूतेन जिघ्रति वाग्भूतेन वदति जिह्वाभूतेन रसयति स्वेनैव विकल्पनारूपेण मनसा विकल्पयति हृदयरूपेणाध्यवस्यति ।

तस्मात्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुपलब्धुः ।

तथा च कौषीतकीनां”प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति ।
प्रज्ञा चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति”(३ । ३) इत्यादि ।
वाजसनेयके च “मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि जानाति”(बृ.उ.१ । ५ । ३) इत्यादि ।
तस्माधृदयमनोवाच्यस्य सर्वोपलब्धिकरत्वं प्रसिद्धम् ।
तदात्मकश्च प्राणो”यो वै प्राणः सा प्रज्ञा यो वै प्रज्ञा स प्राणः”(कौषी.३ । ३) इति हि ब्राह्मणम् ।

करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ ।
तस्माद्यत्पद्भ्यां प्रापद्यत तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्मोपास्यात्मा भवितुमर्हति ।
पारिशेष्याद्यस्योपलब्धुरुपलब्ध्यर्थं एतस्य हृदयस्य मनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः ।
स उपलब्धोपास्य आत्मानोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः ।

तदन्तःकरणोपाधिस्थस्योपलब्धुः प्रज्ञारूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयास्ता इमा उच्यन्ते ।
संज्ञानं संज्ञप्तिश्चेतनभावः, आज्ञानमाज्ञप्तिरीश्वरभावः विज्ञानं कलादिपरिज्ञानम्, प्रज्ञानं प्रज्ञप्तिः प्रज्ञता, मेधाग्रन्थधारणसामर्थ्यं दृष्टिरिन्द्रियद्वारा सर्वविषयोपलब्धिः, धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति धृत्या शरीरमुद्वहन्तीति हि वदन्ति, मतिर्मननम्, मनीषा तत्र स्वातन्त्र्यम्. जूतिश्चेतसो रुजादिदुःखित्वभावः स्मृतिः स्मरणम्, संकल्पः शुक्लकृष्णादिभावेन संकल्पनं रूपादीनाम्, क्रतुरध्यवसायः असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः, कामो
ऽसंनिहितविषयाकाङ्क्षा तृष्णा, वशः स्त्रीव्यतिकराद्यभिलाषः, इत्येवमाद्या अन्तःकरणवृत्तयः प्रज्ञप्तिमात्रस्योपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि भवन्ति संज्ञानादीनि ।
सर्वाण्येव एतानि प्रज्ञानस्य नामधेयानि भवन्ति न स्वतः साक्षात् ।
तथा चोक्तं”प्राणन्नेव प्राणो नाम भवति”(बृ.उ.१ । ४ । ७) इत्यादि ॥२॥

इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् ।

भाष्य ३.३

स एष प्रज्ञानरूप आत्मा ब्रह्मापरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा ।
अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा एष एव इन्द्रो गुणाद्देवराजो वा एष प्रजापतिर्यः प्रथमजः शरीरी ।
यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः स प्रजापतिरेष एव ।
येऽप्येतेऽग्न्यादयः सर्वे देवा एष एव ।

इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नादत्वलक्षणान्येतानि किञ्चेमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि इव शब्दोऽनर्थकः सर्पादीनि बीजानि कारणानीतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि ।

कानि तानि! उच्यन्ते अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजादीनि यूकादीनि, उद्भिजानि च वृक्षादीनि, अश्वा गावः पुरुषा हस्तिनोऽन्यच्च यत्किञ्चेदं प्राणिजातम्, किं तत्? जङ्गमं यच्चलति पद्भ्यां गच्छति ।
यच्च पतत्रि आकाशेन पतनशीलम् ।

यच्च स्थावरमचलम् ।
सर्वं तदेष एव ।
सर्वं तदशेषतः प्रज्ञानेत्रम् ।
प्रज्ञप्तिः प्रज्ञा तच्च ब्रह्मैव ।
नीयतेऽनेनेति नेत्रं प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् ।
प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रयमित्यर्थः ।
प्रज्ञानेत्रो लोकः पूर्ववत् ।
प्रज्ञाचक्षुर्वा सर्व एव लोकः प्रज्ञा प्रतिष्ठा सर्वस्य जगतः ।
तस्मात्प्रज्ञानं ब्रह्म ।

तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सन्निरञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं”नेति नेति”इति (बृ.उ.३ । ९ । २६) सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरम् ।
तदप्यन्तविशुद्धप्रज्ञोपाधिसंबन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति ।
तदेव व्याकृतजगत्बीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसंज्ञं भवति ।
तदेवान्तरण्डोद्भूतप्रथमशरीरोपाधिमद्विराट्प्रजापतिसंज्ञं भवति ।
तद्भूताग्न्याद्युपाधिमद्देवतासंज्ञं भवति ।
तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः ।
तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते चानेकधा ।
“एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् ।
इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्”(मनु.१२ । १२३) इत्याद्या स्मृतिः ॥३॥

३.४

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

भाष्य ३.४

स वामदेवोऽन्यो वैवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना येनैव प्रज्ञेनात्मना पूर्वे विद्वांसोऽमृता अभूवंस्तथायमपि विद्वानेतेनैव प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्य इत्यादि व्याख्यातम् ।
अस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा अमृतः समभवत्समभवदित्योमिति ॥४॥

ओं तत्सत्

Vedic Atman is not ‘Soul’ , Not ‘Spirit’ , not  Biblical ‘Breath’ – it can not be translated in english.

at/on death, body is like a torch light without battery – nothing exist – simply nothing- there is nothing ‘coming out’ and going to somehere else.

# a chopped head – the brain record images and statement till after chopping the head for few seconds- initially it experience immence pain – then no pain at all – after recording few things and experience the outer world for few seconds, bio- electricity and signals finished- cells damaged permanently.

take out a live kidny from a dead body – there is no atman in it – put it in a living body it shall be part of a ‘new’ Atman.

Who is Lord Indra in Veda

स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति ।
स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती ३ ॥ १.३.१३ ॥

तस्मादिदन्द्रो नाम ।
इदन्द्रो ह वै नाम ।
तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण ।
परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १.३.१४ ॥
 ऐतरेयोपनिषद्‌ 

Answer as per Sankaracharya

भाष्य १,३.१३

स जातः शरीरे प्रविष्टो जीवात्मना भूतान्यभिव्यैख्यद्व्याकरोत् ।
स कदाचित्परमकारुणिकेनाचार्येणात्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहावाक्यभेर्यां तत्कर्णमूले ताड्यमानायामेतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत्ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णमाकाशवत्प्रत्यबुध्यतापश्यत् ।
कथम्? इदं ब्रह्म ममात्मनः ।
स्वरूपमदर्शं दृष्टवानस्मि, अहो इति,ॠ.१.३.१२ इचारणार्था प्लुतिः पूर्वम् ॥१३॥

भाष्य १,३.१४

तस्मादिदं पश्यतीतीदन्द्रो नाम परमात्मा ।
इदन्द्रो ह वै नाम प्रसिद्धो लोक ईश्वरः ।
तमेवमिदन्द्रं सन्तमिन्द्र इति परोक्षेण परोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थम्

पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् ।
तथा हि परोक्षाप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्माद्देवाः, किमुत सर्वदेवानामपि देवो महेश्वरः ।
द्विवचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥१४॥


 

Why self-contained Brahman created this universe

आत्मा वा इदमेक एवाग्र आसीत् ।
नान्यत्किञ्चन मिषत् ।
स ईक्षत लोकान्नु सृजा इति ॥ १,१.१ ॥
स ईक्षतेमे नु लोकाः । लोकपालान्नु सृजा इति ।
सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥ १,१.३ ॥ ऐतरेयोपनिषद्‌

Answer as per Sankaracharya

भाष्य १,१.१

आत्मा आप्नोतेरत्तेरततेर्वा परः सर्वज्ञः सर्वशक्तिरशनायादिसर्वसंसारधर्मवर्जितो नित्यशुद्धबुद्धमुक्तस्वभावोऽजोऽजरोऽमरोमृतोऽभयोऽद्वयो वै इदं यदुक्तं नामरूपकर्मभेदभिन्नञ्जगदात्मैवैकोऽग्रे जगतः सृष्टेः प्रागासीत् ।
किं नेदानीं स एवैकः
न ।
कथं तर्ह्यासीदित्युच्यते यद्यपीदानीं स एवैकस्तथाप्यस्ति विशेषः ।
प्रागुत्पत्तेरव्याकृतनामरूपभेदमात्मभूतमात्मैकशब्दप्रत्ययगोचरं जगदिदानीं व्याकृतनामरूपभेदत्वादनेकशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचर चेति विशेषः ।
यथा सलिलात्पृथक्फेननामरूपव्याकरणात्प्राक्सलिलैकशब्दप्रत्ययगोचरमेव फेनम्, यदा सलिलात्पृथङ्नामरूपभेदेन व्याकृतं भवति तदा सलिलं फेनं चेत्यनेकशब्दप्रत्ययभाक्सलिलमेवेति चैकशब्दप्रत्ययभाक्च फेनं भवति तद्वत् ।
नान्यत्किञ्चन न किञ्चिदपि मिषन्निमिषद्व्यापारवदितरद्वा ।
यथा सांख्यानामनात्मपक्षपाति स्वतन्त्रं प्रधानं यथा च काणादानामणवो न तद्वदिहान्यदात्मनः किञ्चिदपि वस्तु विद्यते किं तर्हि ! आत्मैवैक आसीदित्यभिप्रायः ।
स सर्वज्ञस्वाभाव्यादात्मा एक एव सन्नीक्षत ।
ननु प्रागुत्पत्तेरकार्यकरणत्वात्कथमीक्षितवान् ।
नायं दोषः सर्वज्ञस्वाभाव्यात्तथा च मन्त्रवर्णः”अपाणिपादो जवनो ग्रहीता”(श्वे.उ.३ । १९) इत्यादिः ।
केनाभिप्रायेणेत्याह लोकानम्भःप्रभृतीन् प्राणिकर्मफलोपभोगस्थानभूतान्नु सृजै सृजेऽहमिति ॥१॥

भाष्य १,१.३

स ईश्वरः पुनरेवेक्षत ।
इमे नु अम्भःप्रभृतयो मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः तस्मादेषां रक्षणार्थं लोकपालांल्लोकानां पालयितृ सृजै सृजेऽहमिति ।

एवमीक्षित्वा सोऽद्भ्य एवं अप्प्रधानेभ्य एव पञ्चभूतेभ्यो येभ्योऽम्भःप्रभृतीन्सृष्टवांस्तेभ्य एवेत्यर्थः ।
पुरुषं पुरुषाकारं शिरःपाण्यादिमन्तं समुद्धृत्य अद्भ्यः समुपादाय मृत्पिण्डमिव कुलालाः पृथिव्याः, अमूर्छयत्मूर्छितवान् संपिण्डितवान् स्वावयवसंयोजनेनेत्यर्थः ॥३॥