The realisation of Brahman -Atharva Veda

वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ । आ॒दि॒त्यव॑र्णं॒ तम॑सस्तु॒ पा॒रे । सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।

On realisation of  the truth of existence , a Rishi`s self declaration :

That it is ‘I’ – the source of everything-

(४,३०.१ ) अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वदेवैः ।
(४,३०.१ ) अहं मित्रावरुनोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा ॥१॥

(४,३०.२ ) अहं राष्ट्री संगमनी वसूनां चिकितुषी प्रथमा यज्ञियानाम् ।
(४,३०.२ ) तां मा देवा व्यदधुः पुरुत्रा भूरिस्थात्रां भूर्यावेशयन्तः ॥२॥

(४,३०.३ ) अहमेव स्वयमिदं वदामि जुष्टं देवानामुत मानुषाणाम् ।
(४,३०.३ ) यं कामये तन्तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ॥३॥

(४,३०.४ ) मया सोऽन्नमत्ति यो विपश्यति यः प्राणति य ईं शृणोत्युक्तम् ।
(४,३०.४ ) अमन्तवो मां त उप क्षियन्ति श्रुधि श्रुत श्रुद्धेयं ते वदामि ॥४॥

(४,३०.५ ) अहं रुद्राय धनुरा तनोमि ब्रह्मद्विषे शरवे हन्तवा उ ।
(४,३०.५ ) अहं जनाय समदं कृणोमि अहं द्यावापृथिवी आ विवेश ॥५॥

(४,३०.६ ) अहं सोममाहनसं बिभर्म्यहं त्वष्टारमुत पूषणं भगम् ।
(४,३०.६ ) अहं दधामि द्रविणा हविष्मते सुप्राव्या यजमानाय सुन्वते ॥६॥

(४,३०.७ ) अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे ।
(४,३०.७ ) ततो वि तिष्ठे भुवनानि विश्वोतामूं द्यां वर्ष्मणोप स्पृशामि ॥७॥

(४,३०.८ ) अहमेव वातैव प्र वाम्यारभमाणा भुवनानि विश्वा ।
(४,३०.८ ) परो दिवा पर एना पृथिव्यैतावती महिम्ना सं बभूव ॥८॥


 

%d bloggers like this: