Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » CIVIL » Discipline for a king in Chanakya Artha Sastra

Discipline for a king in Chanakya Artha Sastra

॥ कौटिलीय अर्थशास्त्रं ॥

 राजानं उत्थितं अनूत्तिष्ठन्ते भृत्याः
प्रमाद्यन्तं अनुप्रमाद्यन्ति
कर्माणि चास्य भक्षयन्ति
द्विषद्भिश्चातिसन्धीयते ।
तस्माद् उत्थानं आत्मनः कुर्वीत

नालिकाभिरहरष्टधा रात्रिं च विभजेत्, छायाप्रमाणेन वा
त्रिपौरुषी पौरुषी चतुर्ऽङ्गुला नष्टच्छायो मध्याह्न इति चत्वारः पूर्वे दिवसस्याष्टभागाः
तैः पश्चिमा व्याख्याताः
तत्र पूर्वे दिवसस्याष्टभागे रक्षाविधानं आयव्ययौ च शृणुयात्
द्वितीये पौरजानपदानां कार्याणि पश्येत्
तृतीये स्नानभोजनं सेवेत, स्वाध्यायं च कुर्वीत
चतुर्थे हिरण्यप्रतिग्रहं अध्यक्षांश्च कुर्वीत
पञ्चमे मन्त्रिपरिषदा पत्त्रसम्प्रेषणेन मन्त्रयेत, चारगुह्यबोधनीयानि च बुध्येत
षष्ठे स्वैरविहारं मन्त्रं वा सेवेत
सप्तमे हस्त्य्ऽश्वरथायुधीयान् पश्येत्
अष्टमे सेनापतिसखो विक्रमं चिन्तयेत्
प्रतिष्ठितेऽहनि सन्ध्यां उपासीत
प्रथमे रात्रिभागे गूढपुरुषान् पश्येत्
द्वितीये स्नानभोजनं कुर्वीत, स्वाध्यायं च
तृतीये तूर्यघोषेण संविष्टश्चतुर्थपञ्चमौ शयीत
षष्ठे तूर्यघोषेण प्रतिबुद्धः शास्त्रं इतिकर्तव्यतां च चिन्तयेत्
सप्तमे मन्त्रं अध्यासीत, गूढपुरुषांश्च प्रेषयेत्
अष्टमे ऋत्विग्।आचार्यपुरोहितस्वस्त्ययनानि प्रतिगृह्णीयात्, चिकित्सकमाहानसिकमौहूर्तिकांश्च पश्येत्

सवस्तां धेनुं वृषभं च प्रदक्षिणीकृत्य उपस्थानं गच्छेत्
आत्मबलानुकूल्येन वा निशाऽहर्भागान् प्रविभज्य कार्याणि सेवेत
उपस्थानगतः कार्यार्थिनां अद्वारासङ्गं कारयेत्
दुर्दर्शो हि राजा कार्याकार्यविपर्यासं आसन्नैः कार्यते
तेन प्रकृतिकोपं अरिवशं वा गच्छेत्
तस्माद् देवताऽऽश्रमपाषण्डश्रोत्रियपशुपुण्यस्थानानां बालवृद्धव्याधितव्यसन्य्ऽनाथानां स्त्रीणां च क्रमेण कार्याणि पश्येत्, कार्यगौरवाद् आत्ययिकवशेन वा
सर्वं आत्ययिकं कार्यं शृणुयान्नातिपातयेत् ।
कृच्छ्रसाध्यं अतिक्रान्तं असाध्यं वाऽपि जायते
अग्न्य्ऽगारगतः कार्यं पश्येद् वैद्यतपस्विनाम् ।
पुरोहिताचार्यसखः प्रत्युत्थायाभिवाद्य च
तपस्विनां तु कार्याणि त्रैविद्यैः सह कारयेत् ।
मायायोगविदां चैव न स्वयं कोपकारणात्
राज्ञो हि व्रतं उत्थानं यज्ञः कार्यानुशासनम् ।
दक्षिणा वृत्तिसाम्यं तु दीक्षा तस्याभिषेचनम्

प्रजासुखे सुखं राज्ञः प्रजानां च हिते हितम् ।
नात्मप्रियं हितं राज्ञः प्रजानां तु प्रियं हितम्
तस्मान्नित्य उत्थितो राजा कुर्याद् अर्थानुशासनम् ।
अर्थस्य मूलं उत्थानं अनर्थस्य विपर्ययः
अनुत्थाने ध्रुवो नाशः प्राप्तस्यानागतस्य च ।
प्राप्यते फलं उत्थानाल्लभते चार्थसम्पदम् (इति)