मानसप्रत्यक्षम्
स्वविषयानन्तरविषयसहकारिणेन्द्रियज्ञानेन समनन्तरप्रत्ययेन जनितं मनोविज्ञानं मानसम् । स्वशब्देनेन्द्रियज्ञानमभिमतम्, स्वस्य विषयो बाह्यो घटादिः, स्वविषयस्यानन्तरः, स्वविषयानन्तरः इन्द्रियज्ञानविषयादन्यो घटादिर्द्वितीयक्षणः । तेन सहकारिणा सह मिलित्वा, इन्द्रियज्ञानेनोपादानेन समनन्तरप्रत्ययसंज्ञकेन यज्जनितं तन्मानसं प्रत्यक्षमुच्यते ।
ततो यदुक्तं परेणात्रःऽगृहीतग्राहित्वमन्धबधिराद्यभावो योगिज्ञानस्यापि मानसत्वप्रसङ्गः अव्यवहारित्वं चऽ इति । तन्निरस्तम् । तथा हि – द्वितीयक्षणग्रहणात्गृहीतग्राहित्वस्य निरासः । इन्द्रियज्ञानजनितं हि मानसम् । अन्धादीनां रूपादिविषयालम्बनकमिन्द्रियज्ञानमेव नास्ति, कुतस्तज्जनितं मानसं भविष्यति? अतो नास्त्यन्धबधिराद्यभावदोषः । समनन्तरप्रत्ययविशेषणेन योगिज्ञानस्य मानसप्रत्यक्षप्रसङ्गो निरस्तः । समनन्तरप्रत्ययशब्दः स्वसन्तानवर्तिन्युपादानज्ञाने रुढ्या प्रसिद्धः ।
ततो भिन्नसन्तानवर्तियोगिज्ञानमपेक्ष्य पृथग्जनचित्तानां समनन्तरप्रत्ययव्यपदेशो नास्तीति । अव्यवहारित्वं पुनरस्य दूषणं नोपपद्यते, सूक्ष्मकालभावित्वेन पृथग्जनैर्दुर्लक्ष्यत्वात् । व्यवहाराङ्गेत्वेन चानभ्युपगमात् । आगमप्रसिद्धं हि मानसप्रत्यक्षम् ।
From -तर्कभाषा
You must be logged in to post a comment.