Sanskrit

Trinsika Vigyapti karika – Basubandhu

अथ त्रिंशिकाविज्ञप्तिकारिकाः

आत्मधर्मोपचारो हि विविधो यः प्रवर्तते ।
विज्ञानपरिणामेऽसौ परिणामः स च त्रिधा ॥ १ ॥

विपाको मननाख्यश्च विज्ञप्तिर्विषयस्य च ।
तत्रालयाख्यं विज्ञानं विपाकः सर्वबीजकम् ॥ २ ॥

असंविदितकोपादिस्थानविज्ञप्तिकं च तत् ।
सदा स्पर्शमनस्कारवित्सञ्ज्ञाचेतनान्वितम् ॥ ३ ॥

उपेक्षा वेदना तत्रानिवृताव्याकृतं च तत् ।
तथा स्पर्शादयस्तच्च वर्तते स्रोतसौघवत् ॥ ४ ॥

तस्य व्यावृतिरर्हत्वे तदाश्रित्य प्रवर्तते ।
तदालम्बं मनोनाम विज्ञानं मननात्मकम् ॥ ५ ॥

क्लेशैश्चतुर्भिः सहितं निवृताव्याकृतैः सदा ।
आत्मदुष्ट्यात्ममोहात्ममानात्मस्नेहसञ्ज्ञितैः ॥ ६ ॥

यत्रजस्तन्मयैरन्यैः स्पर्शाद्यैश्चार्हतो न तत् ।
न निरोधसमापत्तौ मार्गे लोकोत्तरे न च ॥ ७ ॥

द्वितीयः परिणामोऽयं तृतीयः षड्विधस्य या ।
विषयस्योपलब्धिः सा कुशलाकुशलाद्वया ॥ ८ ॥

सर्वत्रगैर्विनियतैः कुशलैश्चैतसैरसौ ।
सम्प्रयुक्ता तथा क्लेशैरूपक्लेशैस्त्रिवेदना ॥ ९ ॥

आद्याः स्पर्शादयश्छन्दाधिमोक्षस्मृतयः सह ।
समाधिधीभ्यां नियताः श्रद्धाथ ह्रिरपत्रपा ॥ १० ॥

अलोभादि त्रयं वीर्यं प्रश्रब्धिः साप्रमादिका ।
अहिंसा कुशलाः क्लेशा रागप्रतिघमूढयः ॥ ११ ॥

मानदृग्विचिकित्साश्च क्रोधोपनहने पुनः ।
म्रक्षः प्रदाश ईर्ष्यार्थ मात्सर्यं सह मायया ॥ १२ ॥

शाठ्यं मदोऽविहिंसाह्रीरत्रपा स्त्यानमुद्धवः ।
आश्रद्धमथ कौसीद्यं प्रमादो मुषिता स्मृतिः ॥ १३ ॥

विक्षेपोऽसम्प्रजन्यं च कौकृत्यं मिद्धमेव च ।
वितर्कश्च विचारश्चेत्युपक्लेशा द्वये द्विधा ॥ १४ ॥

पञ्चानां मूलविज्ञाने यथाप्रत्ययमुद्भवः ।
विज्ञानानां सह न वा तरङ्गाणां यथा जले ॥ १५ ॥

मनोविज्ञानसम्भूतिः सर्वदासञ्ज्ञिकादृते ।
समापत्तिद्वयान्मिद्धान्मूर्छनादप्यचित्तकात् ॥ १६ ॥

विज्ञानपरिणामोऽयं विकल्पो यद्विकल्प्यते ।
तेन तन्नास्ति तेनेदं सर्वं विज्ञप्तिमात्रकम् ॥ १७ ॥

सर्वबीजं हि विज्ञानं परिणामस्तथा तथा ।
यात्यन्योन्यवशाद्येन विकल्पः स स जायते ॥ १८ ॥

कर्मणो वासना ग्राहद्वयवासनया सह ।
क्षीणे पूर्वविपाकेऽन्यद्विपाकं जनयन्ति तत् ॥ १९ ॥

येन येन विकल्पेन यद्यद्वस्तु विकल्प्यते ।
परिकल्पित एवासौ स्वभावो न स विद्यते ॥ २० ॥

परतन्त्रस्वभावस्तु विकल्पः प्रत्ययोद्भवः ।
निष्पन्नस्तस्य पूर्वेण सदा रहितता तु या ॥ २१ ॥

अत एव स नैवान्यो नानन्यः परतन्त्रतः ।
अनित्यतादिवद्वाच्यो नादृष्टेऽस्मिन् स दृश्यते ॥ २२ ॥

त्रिविधस्य स्वभावस्य त्रिविधां निःस्वभावताम् ।
सन्धाय सर्वधर्माणां देशिता निःस्वभावता ॥ २३ ॥

प्रथमो लक्षणेनैव निःस्वभावोऽपरः पुनः ।
न स्वयम्भाव एतस्येत्यपरा निःस्वभावता ॥ २४ ॥

धर्माणां परमार्थश्च स यतस्तथतापि सः ।
सर्वकालं तथाभावात्सैव विज्ञप्तिमात्रता ॥ २५ ॥

यावद्विज्ञप्तिमात्रत्वे विज्ञानं नावतिष्ठति ।
ग्राहद्वयस्यानुशयस्तावन्न विनिवर्तते ॥ २६ ॥

विज्ञप्तिमात्रमेवेदमित्यपि हयुपलम्भतः ।
स्थापयन्नग्रतः किञ्चित्तन्मात्रे नावतिष्ठते ॥ २७ ॥

यदालम्बनं विज्ञानं नैवोपलभते तदा ।
स्थितं विज्ञानमात्रत्वे ग्राह्याभावे तदग्रहात् ॥ २८ ॥

अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरं च तत् ।
आश्रयस्य परावृत्तिर्द्विधा दौष्ठुल्यहानितः ॥ २९ ॥

स एवानस्रवो धातुरचिन्त्यः कुशलो ध्रुवः ।
सुखो विमुक्तिकायोऽसौ धर्माख्योऽयं महामुनेः ॥ ३० ॥

त्रिंशिकाविज्ञप्तिकारिकाः समाप्ताः ।

कृतिरियमाचार्यवसुबन्धोः ।

Categories: Sanskrit

Tagged as: