Sanskrit

We worship Atman: Aitareya Upanishad

कोऽयम् ।
आत्मेति वयमुपास्महे ।
कतरः स आत्मा ।
येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१ ॥

यदेतद्धृदयं मनश्चैतत् ।
सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥

एष ब्रह्मा ।
एष इन्द्रः ।
एष प्रजापतिः ।
एते सर्वे देवाः ।

इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि

च यच्च स्थावरम् ।
सर्वं तत्प्रज्ञानेत्रम् ।
प्रज्ञाने प्रतिष्ठितम् ।
प्रज्ञानेत्रो लोकः ।
प्रज्ञा प्रतिष्ठा ।
प्रज्ञानं ब्रह्म ॥ ३.३ ॥

स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥

Advertisements

Categories: Sanskrit

Tagged as: ,