Rig Veda

Rig Veda Eighth Mandala [ऋग्वेद] 

8.001.01 मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
8.001.01 इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥
8.001.02 अवक्रक्षिणं वृषभं यथाजुरं गां न चर्षणीसहम् ।
8.001.02 विद्वेषणं संवननोभयङ्करं मंहिष्ठमुभयाविनम् ॥
8.001.03 यच्चिद्धि त्वा जना इमे नाना हवन्त ऊतये ।
8.001.03 अस्माकं ब्रह्मेदमिन्द्र भूतु तेऽहा विश्वा च वर्धनम् ॥
8.001.04 वि तर्तूर्यन्ते मघवन्विपश्चितोऽर्यो विपो जनानाम् ।
8.001.04 उप क्रमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
8.001.05 महे चन त्वामद्रिवः परा शुल्काय देयाम् ।
8.001.05 न सहस्राय नायुताय वज्रिवो न शताय शतामघ ॥
8.001.06 वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
8.001.06 माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥
8.001.07 क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
8.001.07 अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥
8.001.08 प्रास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः ।
8.001.08 याभिः काण्वस्योप बर्हिरासदं यासद्वज्री भिनत्पुरः ॥
8.001.09 ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः ।
8.001.09 अश्वासो ये ते वृषणो रघुद्रुवस्तेभिर्नस्तूयमा गहि ॥
8.001.10 आ त्वद्य सबर्दुघां हुवे गायत्रवेपसम् ।
8.001.10 इन्द्रं धेनुं सुदुघामन्यामिषमुरुधारामरङ्कृतम् ॥
8.001.11 यत्तुदत्सूर एतशं वङ्कू वातस्य पर्णिना ।
8.001.11 वहत्कुत्समार्जुनेयं शतक्रतुः त्सरद्गन्धर्वमस्तृतम् ॥
8.001.12 य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
8.001.12 संधाता संधिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः ॥
8.001.13 मा भूम निष्ट्या इवेन्द्र त्वदरणा इव ।
8.001.13 वनानि न प्रजहितान्यद्रिवो दुरोषासो अमन्महि ॥
8.001.14 अमन्महीदनाशवोऽनुग्रासश्च वृत्रहन् ।
8.001.14 सकृत्सु ते महता शूर राधसा अनु स्तोमं मुदीमहि ॥
8.001.15 यदि स्तोमं मम श्रवदस्माकमिन्द्रमिन्दवः ।
8.001.15 तिरः पवित्रं ससृवांस आशवो मन्दन्तु तुग्र्यावृधः ॥
8.001.16 आ त्वद्य सधस्तुतिं वावातुः सख्युरा गहि ।
8.001.16 उपस्तुतिर्मघोनां प्र त्वावत्वधा ते वश्मि सुष्टुतिम् ॥
8.001.17 सोता हि सोममद्रिभिरेमेनमप्सु धावत ।
8.001.17 गव्या वस्त्रेव वासयन्त इन्नरो निर्धुक्षन्वक्षणाभ्यः ॥
8.001.18 अध ज्मो अध वा दिवो बृहतो रोचनादधि ।
8.001.18 अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पृण ॥
8.001.19 इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम् ।
8.001.19 शक्र एणं पीपयद्विश्वया धिया हिन्वानं न वाजयुम् ॥
8.001.20 मा त्वा सोमस्य गल्दया सदा याचन्नहं गिरा ।
8.001.20 भूर्णिं मृगं न सवनेषु चुक्रुधं क ईशानं न याचिषत् ॥
8.001.21 मदेनेषितं मदमुग्रमुग्रेण शवसा ।
8.001.21 विश्वेषां तरुतारं मदच्युतं मदे हि ष्मा ददाति नः ॥
8.001.22 शेवारे वार्या पुरु देवो मर्ताय दाशुषे ।
8.001.22 स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥
8.001.23 एन्द्र याहि मत्स्व चित्रेण देव राधसा ।
8.001.23 सरो न प्रास्युदरं सपीतिभिरा सोमेभिरुरु स्फिरम् ॥
8.001.24 आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
8.001.24 ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥
8.001.25 आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।
8.001.25 शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥
8.001.26 पिबा त्वस्य गिर्वणः सुतस्य पूर्वपा इव ।
8.001.26 परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥
8.001.27 य एको अस्ति दंसना महां उग्रो अभि व्रतैः ।
8.001.27 गमत्स शिप्री न स योषदा गमद्धवं न परि वर्जति ॥
8.001.28 त्वं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक् ।
8.001.28 त्वं भा अनु चरो अध द्विता यदिन्द्र हव्यो भुवः ॥
8.001.29 मम त्वा सूर उदिते मम मध्यन्दिने दिवः ।
8.001.29 मम प्रपित्वे अपिशर्वरे वसवा स्तोमासो अवृत्सत ॥
8.001.30 स्तुहि स्तुहीदेते घा ते मंहिष्ठासो मघोनाम् ।
8.001.30 निन्दिताश्वः प्रपथी परमज्या मघस्य मेध्यातिथे ॥
8.001.31 आ यदश्वान्वनन्वतः श्रद्धयाहं रथे रुहम् ।
8.001.31 उत वामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः ॥
8.001.32 य ऋज्रा मह्यं मामहे सह त्वचा हिरण्यया ।
8.001.32 एष विश्वान्यभ्यस्तु सौभगासङ्गस्य स्वनद्रथः ॥
8.001.33 अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभिः सहस्रैः ।
8.001.33 अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥
8.001.34 अन्वस्य स्थूरं ददृशे पुरस्तादनस्थ ऊरुरवरम्बमाणः ।
8.001.34 शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि ॥

8.002.01 इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम् ।
8.002.01 अनाभयिन्ररिमा ते ॥
8.002.02 नृभिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः ।
8.002.02 अश्वो न निक्तो नदीषु ॥
8.002.03 तं ते यवं यथा गोभिः स्वादुमकर्म श्रीणन्तः ।
8.002.03 इन्द्र त्वास्मिन्सधमादे ॥
8.002.04 इन्द्र इत्सोमपा एक इन्द्रः सुतपा विश्वायुः ।
8.002.04 अन्तर्देवान्मर्त्यांश्च ॥
8.002.05 न यं शुक्रो न दुराशीर्न तृप्रा उरुव्यचसम् ।
8.002.05 अपस्पृण्वते सुहार्दम् ॥
8.002.06 गोभिर्यदीमन्ये अस्मन्मृगं न व्रा मृगयन्ते ।
8.002.06 अभित्सरन्ति धेनुभिः ॥
8.002.07 त्रय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य ।
8.002.07 स्वे क्षये सुतपाव्नः ॥
8.002.08 त्रयः कोशास श्चोतन्ति तिस्रश्चम्वः सुपूर्णाः ।
8.002.08 समाने अधि भार्मन् ॥
8.002.09 शुचिरसि पुरुनिष्ठाः क्षीरैर्मध्यत आशीर्तः ।
8.002.09 दध्ना मन्दिष्ठः शूरस्य ॥
8.002.10 इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः ।
8.002.10 शुक्रा आशिरं याचन्ते ॥
8.002.11 तां आशिरं पुरोळाशमिन्द्रेमं सोमं श्रीणीहि ।
8.002.11 रेवन्तं हि त्वा शृणोमि ॥
8.002.12 हृत्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम् ।
8.002.12 ऊधर्न नग्ना जरन्ते ॥
8.002.13 रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।
8.002.13 प्रेदु हरिवः श्रुतस्य ॥
8.002.14 उक्थं चन शस्यमानमगोररिरा चिकेत ।
8.002.14 न गायत्रं गीयमानम् ॥
8.002.15 मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।
8.002.15 शिक्षा शचीवः शचीभिः ॥
8.002.16 वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
8.002.16 कण्वा उक्थेभिर्जरन्ते ॥
8.002.17 न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ ।
8.002.17 तवेदु स्तोमं चिकेत ॥
8.002.18 इच्छन्ति देवाः सुन्वन्तं न स्वप्नाय स्पृहयन्ति ।
8.002.18 यन्ति प्रमादमतन्द्राः ॥
8.002.19 ओ षु प्र याहि वाजेभिर्मा हृणीथा अभ्यस्मान् ।
8.002.19 महां इव युवजानिः ॥
8.002.20 मो ष्वद्य दुर्हणावान्सायं करदारे अस्मत् ।
8.002.20 अश्रीर इव जामाता ॥
8.002.21 विद्मा ह्यस्य वीरस्य भूरिदावरीं सुमतिम् ।
8.002.21 त्रिषु जातस्य मनांसि ॥
8.002.22 आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात् ।
8.002.22 यशस्तरं शतमूतेः ॥
8.002.23 ज्येष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय ।
8.002.23 भरा पिबन्नर्याय ॥
8.002.24 यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरितृभ्यः ।
8.002.24 वाजं स्तोतृभ्यो गोमन्तम् ॥
8.002.25 पन्यम्पन्यमित्सोतार आ धावत मद्याय ।
8.002.25 सोमं वीराय शूराय ॥
8.002.26 पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।
8.002.26 नि यमते शतमूतिः ॥
8.002.27 एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायम् ।
8.002.27 गीर्भिः श्रुतं गिर्वणसम् ॥
8.002.28 स्वादवः सोमा आ याहि श्रीताः सोमा आ याहि ।
8.002.28 शिप्रिन्नृषीवः शचीवो नायमच्छा सधमादम् ॥
8.002.29 स्तुतश्च यास्त्वा वर्धन्ति महे राधसे नृम्णाय ।
8.002.29 इन्द्र कारिणं वृधन्तः ॥
8.002.30 गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि ।
8.002.30 सत्रा दधिरे शवांसि ॥
8.002.31 एवेदेष तुविकूर्मिर्वाजां एको वज्रहस्तः ।
8.002.31 सनादमृक्तो दयते ॥
8.002.32 हन्ता वृत्रं दक्षिणेनेन्द्रः पुरू पुरुहूतः ।
8.002.32 महान्महीभिः शचीभिः ॥
8.002.33 यस्मिन्विश्वाश्चर्षणय उत च्यौत्ना ज्रयांसि च ।
8.002.33 अनु घेन्मन्दी मघोनः ॥
8.002.34 एष एतानि चकारेन्द्रो विश्वा योऽति शृण्वे ।
8.002.34 वाजदावा मघोनाम् ॥
8.002.35 प्रभर्ता रथं गव्यन्तमपाकाच्चिद्यमवति ।
8.002.35 इनो वसु स हि वोळ्हा ॥
8.002.36 सनिता विप्रो अर्वद्भिर्हन्ता वृत्रं नृभिः शूरः ।
8.002.36 सत्योऽविता विधन्तम् ॥
8.002.37 यजध्वैनं प्रियमेधा इन्द्रं सत्राचा मनसा ।
8.002.37 यो भूत्सोमैः सत्यमद्वा ॥
8.002.38 गाथश्रवसं सत्पतिं श्रवस्कामं पुरुत्मानम् ।
8.002.38 कण्वासो गात वाजिनम् ॥
8.002.39 य ऋते चिद्गास्पदेभ्यो दात्सखा नृभ्यः शचीवान् ।
8.002.39 ये अस्मिन्काममश्रियन् ॥
8.002.40 इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम् ।
8.002.40 मेषो भूतोऽभि यन्नयः ॥
8.002.41 शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत् ।
8.002.41 अष्टा परः सहस्रा ॥
8.002.42 उत सु त्ये पयोवृधा माकी रणस्य नप्त्या ।
8.002.42 जनित्वनाय मामहे ॥

8.003.01 पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
8.003.01 आपिर्नो बोधि सधमाद्यो वृधेऽस्मां अवन्तु ते धियः ॥
8.003.02 भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।
8.003.02 अस्माञ्चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥
8.003.03 इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
8.003.03 पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥
8.003.04 अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।
8.003.04 सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥
8.003.05 इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
8.003.05 इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥
8.003.06 इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।
8.003.06 इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥
8.003.07 अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
8.003.07 समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यम् ॥
8.003.08 अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।
8.003.08 अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥
8.003.09 तत्त्वा यामि सुवीर्यं तद्ब्रह्म पूर्वचित्तये ।
8.003.09 येना यतिभ्यो भृगवे धने हिते येन प्रस्कण्वमाविथ ॥
8.003.10 येना समुद्रमसृजो महीरपस्तदिन्द्र वृष्णि ते शवः ।
8.003.10 सद्यः सो अस्य महिमा न संनशे यं क्षोणीरनुचक्रदे ॥
8.003.11 शग्धी न इन्द्र यत्त्वा रयिं यामि सुवीर्यम् ।
8.003.11 शग्धि वाजाय प्रथमं सिषासते शग्धि स्तोमाय पूर्व्य ॥
8.003.12 शग्धी नो अस्य यद्ध पौरमाविथ धिय इन्द्र सिषासतः ।
8.003.12 शग्धि यथा रुशमं श्यावकं कृपमिन्द्र प्रावः स्वर्णरम् ॥
8.003.13 कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः ।
8.003.13 नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥
8.003.14 कदु स्तुवन्त ऋतयन्त देवत ऋषिः को विप्र ओहते ।
8.003.14 कदा हवं मघवन्निन्द्र सुन्वतः कदु स्तुवत आ गमः ॥
8.003.15 उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
8.003.15 सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥
8.003.16 कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमानशुः ।
8.003.16 इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥
8.003.17 युक्ष्वा हि वृत्रहन्तम हरी इन्द्र परावतः ।
8.003.17 अर्वाचीनो मघवन्सोमपीतय उग्र ऋष्वेभिरा गहि ॥
8.003.18 इमे हि ते कारवो वावशुर्धिया विप्रासो मेधसातये ।
8.003.18 स त्वं नो मघवन्निन्द्र गिर्वणो वेनो न शृणुधी हवम् ॥
8.003.19 निरिन्द्र बृहतीभ्यो वृत्रं धनुभ्यो अस्फुरः ।
8.003.19 निरर्बुदस्य मृगयस्य मायिनो निः पर्वतस्य गा आजः ॥
8.003.20 निरग्नयो रुरुचुर्निरु सूर्यो निः सोम इन्द्रियो रसः ।
8.003.20 निरन्तरिक्षादधमो महामहिं कृषे तदिन्द्र पौंस्यम् ॥
8.003.21 यं मे दुरिन्द्रो मरुतः पाकस्थामा कौरयाणः ।
8.003.21 विश्वेषां त्मना शोभिष्ठमुपेव दिवि धावमानम् ॥
8.003.22 रोहितं मे पाकस्थामा सुधुरं कक्ष्यप्राम् ।
8.003.22 अदाद्रायो विबोधनम् ॥
8.003.23 यस्मा अन्ये दश प्रति धुरं वहन्ति वह्नयः ।
8.003.23 अस्तं वयो न तुग्र्यम् ॥
8.003.24 आत्मा पितुस्तनूर्वास ओजोदा अभ्यञ्जनम् ।
8.003.24 तुरीयमिद्रोहितस्य पाकस्थामानं भोजं दातारमब्रवम् ॥

8.004.01 यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
8.004.01 सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥
8.004.02 यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
8.004.02 कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥
8.004.03 यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
8.004.03 आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥
8.004.04 मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
8.004.04 आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥
8.004.05 प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा ।
8.004.05 विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥
8.004.06 सहस्रेणेव सचते यवीयुधा यस्त आनळ् उपस्तुतिम् ।
8.004.06 पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमौक्तिभिः ॥
8.004.07 मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
8.004.07 महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥
8.004.08 सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
8.004.08 मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥
8.004.09 अश्वी रथी सुरूप इद्गोमां इदिन्द्र ते सखा ।
8.004.09 श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥
8.004.10 ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशां अनु ।
8.004.10 निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥
8.004.11 अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति ।
8.004.11 उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥
8.004.12 स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि ।
8.004.12 इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥
8.004.13 रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन ।
8.004.13 अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥
8.004.14 उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः ।
8.004.14 अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥
8.004.15 प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
8.004.15 स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥
8.004.16 सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन ।
8.004.16 त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥
8.004.17 वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे ।
8.004.17 न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥
8.004.18 परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य ।
8.004.18 अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥
8.004.19 स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
8.004.19 राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥
8.004.20 धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः ।
8.004.20 षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥
8.004.21 वृक्षाश्चिन्मे अभिपित्वे अरारणुः ।
8.004.21 गां भजन्त मेहनाश्वं भजन्त मेहना ॥

8.005.01 दूरादिहेव यत्सत्यरुणप्सुरशिश्वितत् ।
8.005.01 वि भानुं विश्वधातनत् ॥
8.005.02 नृवद्दस्रा मनोयुजा रथेन पृथुपाजसा ।
8.005.02 सचेथे अश्विनोषसम् ॥
8.005.03 युवाभ्यां वाजिनीवसू प्रति स्तोमा अदृक्षत ।
8.005.03 वाचं दूतो यथोहिषे ॥
8.005.04 पुरुप्रिया ण ऊतये पुरुमन्द्रा पुरूवसू ।
8.005.04 स्तुषे कण्वासो अश्विना ॥
8.005.05 मंहिष्ठा वाजसातमेषयन्ता शुभस्पती ।
8.005.05 गन्तारा दाशुषो गृहम् ॥
8.005.06 ता सुदेवाय दाशुषे सुमेधामवितारिणीम् ।
8.005.06 घृतैर्गव्यूतिमुक्षतम् ॥
8.005.07 आ न स्तोममुप द्रवत्तूयं श्येनेभिराशुभिः ।
8.005.07 यातमश्वेभिरश्विना ॥
8.005.08 येभिस्तिस्रः परावतो दिवो विश्वानि रोचना ।
8.005.08 त्रींरक्तून्परिदीयथः ॥
8.005.09 उत नो गोमतीरिष उत सातीरहर्विदा ।
8.005.09 वि पथः सातये सितम् ॥
8.005.10 आ नो गोमन्तमश्विना सुवीरं सुरथं रयिम् ।
8.005.10 वोळ्हमश्वावतीरिषः ॥
8.005.11 वावृधाना शुभस्पती दस्रा हिरण्यवर्तनी ।
8.005.11 पिबतं सोम्यं मधु ॥
8.005.12 अस्मभ्यं वाजिनीवसू मघवद्भ्यश्च सप्रथः ।
8.005.12 छर्दिर्यन्तमदाभ्यम् ॥
8.005.13 नि षु ब्रह्म जनानां याविष्टं तूयमा गतम् ।
8.005.13 मो ष्वन्यां उपारतम् ॥
8.005.14 अस्य पिबतमश्विना युवं मदस्य चारुणः ।
8.005.14 मध्वो रातस्य धिष्ण्या ॥
8.005.15 अस्मे आ वहतं रयिं शतवन्तं सहस्रिणम् ।
8.005.15 पुरुक्षुं विश्वधायसम् ॥
8.005.16 पुरुत्रा चिद्धि वां नरा विह्वयन्ते मनीषिणः ।
8.005.16 वाघद्भिरश्विना गतम् ॥
8.005.17 जनासो वृक्तबर्हिषो हविष्मन्तो अरङ्कृतः ।
8.005.17 युवां हवन्ते अश्विना ॥
8.005.18 अस्माकमद्य वामयं स्तोमो वाहिष्ठो अन्तमः ।
8.005.18 युवाभ्यां भूत्वश्विना ॥
8.005.19 यो ह वां मधुनो दृतिराहितो रथचर्षणे ।
8.005.19 ततः पिबतमश्विना ॥
8.005.20 तेन नो वाजिनीवसू पश्वे तोकाय शं गवे ।
8.005.20 वहतं पीवरीरिषः ॥
8.005.21 उत नो दिव्या इष उत सिन्धूंरहर्विदा ।
8.005.21 अप द्वारेव वर्षथः ॥
8.005.22 कदा वां तौग्र्यो विधत्समुद्रे जहितो नरा ।
8.005.22 यद्वां रथो विभिष्पतात् ॥
8.005.23 युवं कण्वाय नासत्या ऋपिरिप्ताय हर्म्ये ।
8.005.23 शश्वदूतीर्दशस्यथः ॥
8.005.24 ताभिरा यातमूतिभिर्नव्यसीभिः सुशस्तिभिः ।
8.005.24 यद्वां वृषण्वसू हुवे ॥
8.005.25 यथा चित्कण्वमावतं प्रियमेधमुपस्तुतम् ।
8.005.25 अत्रिं शिञ्जारमश्विना ॥
8.005.26 यथोत कृत्व्ये धनेऽंशुं गोष्वगस्त्यम् ।
8.005.26 यथा वाजेषु सोभरिम् ॥
8.005.27 एतावद्वां वृषण्वसू अतो वा भूयो अश्विना ।
8.005.27 गृणन्तः सुम्नमीमहे ॥
8.005.28 रथं हिरण्यवन्धुरं हिरण्याभीशुमश्विना ।
8.005.28 आ हि स्थाथो दिविस्पृशम् ॥
8.005.29 हिरण्ययी वां रभिरीषा अक्षो हिरण्ययः ।
8.005.29 उभा चक्रा हिरण्यया ॥
8.005.30 तेन नो वाजिनीवसू परावतश्चिदा गतम् ।
8.005.30 उपेमां सुष्टुतिं मम ॥
8.005.31 आ वहेथे पराकात्पूर्वीरश्नन्तावश्विना ।
8.005.31 इषो दासीरमर्त्या ॥
8.005.32 आ नो द्युम्नैरा श्रवोभिरा राया यातमश्विना ।
8.005.32 पुरुश्चन्द्रा नासत्या ॥
8.005.33 एह वां प्रुषितप्सवो वयो वहन्तु पर्णिनः ।
8.005.33 अच्छा स्वध्वरं जनम् ॥
8.005.34 रथं वामनुगायसं य इषा वर्तते सह ।
8.005.34 न चक्रमभि बाधते ॥
8.005.35 हिरण्ययेन रथेन द्रवत्पाणिभिरश्वैः ।
8.005.35 धीजवना नासत्या ॥
8.005.36 युवं मृगं जागृवांसं स्वदथो वा वृषण्वसू ।
8.005.36 ता नः पृङ्क्तमिषा रयिम् ॥
8.005.37 ता मे अश्विना सनीनां विद्यातं नवानाम् ।
8.005.37 यथा चिच्चैद्यः कशुः शतमुष्ट्रानां ददत्सहस्रा दश गोनाम् ॥
8.005.38 यो मे हिरण्यसंदृशो दश राज्ञो अमंहत ।
8.005.38 अधस्पदा इच्चैद्यस्य कृष्टयश्चर्मम्ना अभितो जनाः ॥
8.005.39 माकिरेना पथा गाद्येनेमे यन्ति चेदयः ।
8.005.39 अन्यो नेत्सूरिरोहते भूरिदावत्तरो जनः ॥

8.006.01 महां इन्द्रो य ओजसा पर्जन्यो वृष्टिमां इव ।
8.006.01 स्तोमैर्वत्सस्य वावृधे ॥
8.006.02 प्रजामृतस्य पिप्रतः प्र यद्भरन्त वह्नयः ।
8.006.02 विप्रा ऋतस्य वाहसा ॥
8.006.03 कण्वा इन्द्रं यदक्रत स्तोमैर्यज्ञस्य साधनम् ।
8.006.03 जामि ब्रुवत आयुधम् ॥
8.006.04 समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
8.006.04 समुद्रायेव सिन्धवः ॥
8.006.05 ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
8.006.05 इन्द्रश्चर्मेव रोदसी ॥
8.006.06 वि चिद्वृत्रस्य दोधतो वज्रेण शतपर्वणा ।
8.006.06 शिरो बिभेद वृष्णिना ॥
8.006.07 इमा अभि प्र णोनुमो विपामग्रेषु धीतयः ।
8.006.07 अग्नेः शोचिर्न दिद्युतः ॥
8.006.08 गुहा सतीरुप त्मना प्र यच्छोचन्त धीतयः ।
8.006.08 कण्वा ऋतस्य धारया ॥
8.006.09 प्र तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम् ।
8.006.09 प्र ब्रह्म पूर्वचित्तये ॥
8.006.10 अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
8.006.10 अहं सूर्य इवाजनि ॥
8.006.11 अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत् ।
8.006.11 येनेन्द्रः शुष्ममिद्दधे ॥
8.006.12 ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
8.006.12 ममेद्वर्धस्व सुष्टुतः ॥
8.006.13 यदस्य मन्युरध्वनीद्वि वृत्रं पर्वशो रुजन् ।
8.006.13 अपः समुद्रमैरयत् ॥
8.006.14 नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि ।
8.006.14 वृषा ह्युग्र शृण्विषे ॥
8.006.15 न द्याव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम् ।
8.006.15 न विव्यचन्त भूमयः ॥
8.006.16 यस्त इन्द्र महीरप स्तभूयमान आशयत् ।
8.006.16 नि तं पद्यासु शिश्नथः ॥
8.006.17 य इमे रोदसी मही समीची समजग्रभीत् ।
8.006.17 तमोभिरिन्द्र तं गुहः ॥
8.006.18 य इन्द्र यतयस्त्वा भृगवो ये च तुष्टुवुः ।
8.006.18 ममेदुग्र श्रुधी हवम् ॥
8.006.19 इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरम् ।
8.006.19 एनामृतस्य पिप्युषीः ॥
8.006.20 या इन्द्र प्रस्वस्त्वासा गर्भमचक्रिरन् ।
8.006.20 परि धर्मेव सूर्यम् ॥
8.006.21 त्वामिच्छवसस्पते कण्वा उक्थेन वावृधुः ।
8.006.21 त्वां सुतास इन्दवः ॥
8.006.22 तवेदिन्द्र प्रणीतिषूत प्रशस्तिरद्रिवः ।
8.006.22 यज्ञो वितन्तसाय्यः ॥
8.006.23 आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम् ।
8.006.23 उत प्रजां सुवीर्यम् ॥
8.006.24 उत त्यदाश्वश्व्यं यदिन्द्र नाहुषीष्वा ।
8.006.24 अग्रे विक्षु प्रदीदयत् ॥
8.006.25 अभि व्रजं न तत्निषे सूर उपाकचक्षसम् ।
8.006.25 यदिन्द्र मृळयासि नः ॥
8.006.26 यदङ्ग तविषीयस इन्द्र प्रराजसि क्षितीः ।
8.006.26 महां अपार ओजसा ॥
8.006.27 तं त्वा हविष्मतीर्विश उप ब्रुवत ऊतये ।
8.006.27 उरुज्रयसमिन्दुभिः ॥
8.006.28 उपह्वरे गिरीणां संगथे च नदीनाम् ।
8.006.28 धिया विप्रो अजायत ॥
8.006.29 अतः समुद्रमुद्वतश्चिकित्वां अव पश्यति ।
8.006.29 यतो विपान एजति ॥
8.006.30 आदित्प्रत्नस्य रेतसो ज्योतिष्पश्यन्ति वासरम् ।
8.006.30 परो यदिध्यते दिवा ॥
8.006.31 कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम् ।
8.006.31 उतो शविष्ठ वृष्ण्यम् ॥
8.006.32 इमां म इन्द्र सुष्टुतिं जुषस्व प्र सु मामव ।
8.006.32 उत प्र वर्धया मतिम् ॥
8.006.33 उत ब्रह्मण्या वयं तुभ्यं प्रवृद्ध वज्रिवः ।
8.006.33 विप्रा अतक्ष्म जीवसे ॥
8.006.34 अभि कण्वा अनूषतापो न प्रवता यतीः ।
8.006.34 इन्द्रं वनन्वती मतिः ॥
8.006.35 इन्द्रमुक्थानि वावृधुः समुद्रमिव सिन्धवः ।
8.006.35 अनुत्तमन्युमजरम् ॥
8.006.36 आ नो याहि परावतो हरिभ्यां हर्यताभ्याम् ।
8.006.36 इममिन्द्र सुतं पिब ॥
8.006.37 त्वामिद्वृत्रहन्तम जनासो वृक्तबर्हिषः ।
8.006.37 हवन्ते वाजसातये ॥
8.006.38 अनु त्वा रोदसी उभे चक्रं न वर्त्येतशम् ।
8.006.38 अनु सुवानास इन्दवः ॥
8.006.39 मन्दस्वा सु स्वर्णर उतेन्द्र शर्यणावति ।
8.006.39 मत्स्वा विवस्वतो मती ॥
8.006.40 वावृधान उप द्यवि वृषा वज्र्यरोरवीत् ।
8.006.40 वृत्रहा सोमपातमः ॥
8.006.41 ऋषिर्हि पूर्वजा अस्येक ईशान ओजसा ।
8.006.41 इन्द्र चोष्कूयसे वसु ॥
8.006.42 अस्माकं त्वा सुतां उप वीतपृष्ठा अभि प्रयः ।
8.006.42 शतं वहन्तु हरयः ॥
8.006.43 इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् ।
8.006.43 कण्वा उक्थेन वावृधुः ॥
8.006.44 इन्द्रमिद्विमहीनां मेधे वृणीत मर्त्यः ।
8.006.44 इन्द्रं सनिष्युरूतये ॥
8.006.45 अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
8.006.45 सोमपेयाय वक्षतः ॥
8.006.46 शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे ।
8.006.46 राधांसि याद्वानाम् ॥
8.006.47 त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ।
8.006.47 ददुष्पज्राय साम्ने ॥
8.006.48 उदानट्ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् ।
8.006.48 श्रवसा याद्वं जनम् ॥

8.007.01 प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् ।
8.007.01 वि पर्वतेषु राजथ ॥
8.007.02 यदङ्ग तविषीयवो यामं शुभ्रा अचिध्वम् ।
8.007.02 नि पर्वता अहासत ॥
8.007.03 उदीरयन्त वायुभिर्वाश्रासः पृश्निमातरः ।
8.007.03 धुक्षन्त पिप्युषीमिषम् ॥
8.007.04 वपन्ति मरुतो मिहं प्र वेपयन्ति पर्वतान् ।
8.007.04 यद्यामं यान्ति वायुभिः ॥
8.007.05 नि यद्यामाय वो गिरिर्नि सिन्धवो विधर्मणे ।
8.007.05 महे शुष्माय येमिरे ॥
8.007.06 युष्मां उ नक्तमूतये युष्मान्दिवा हवामहे ।
8.007.06 युष्मान्प्रयत्यध्वरे ॥
8.007.07 उदु त्ये अरुणप्सवश्चित्रा यामेभिरीरते ।
8.007.07 वाश्रा अधि ष्णुना दिवः ॥
8.007.08 सृजन्ति रश्मिमोजसा पन्थां सूर्याय यातवे ।
8.007.08 ते भानुभिर्वि तस्थिरे ॥
8.007.09 इमां मे मरुतो गिरमिमं स्तोममृभुक्षणः ।
8.007.09 इमं मे वनता हवम् ॥
8.007.10 त्रीणि सरांसि पृश्नयो दुदुह्रे वज्रिणे मधु ।
8.007.10 उत्सं कवन्धमुद्रिणम् ॥
8.007.11 मरुतो यद्ध वो दिवः सुम्नायन्तो हवामहे ।
8.007.11 आ तू न उप गन्तन ॥
8.007.12 यूयं हि ष्ठा सुदानवो रुद्रा ऋभुक्षणो दमे ।
8.007.12 उत प्रचेतसो मदे ॥
8.007.13 आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम् ।
8.007.13 इयर्ता मरुतो दिवः ॥
8.007.14 अधीव यद्गिरीणां यामं शुभ्रा अचिध्वम् ।
8.007.14 सुवानैर्मन्दध्व इन्दुभिः ॥
8.007.15 एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः ।
8.007.15 अदाभ्यस्य मन्मभिः ॥
8.007.16 ये द्रप्सा इव रोदसी धमन्त्यनु वृष्टिभिः ।
8.007.16 उत्सं दुहन्तो अक्षितम् ॥
8.007.17 उदु स्वानेभिरीरत उद्रथैरुदु वायुभिः ।
8.007.17 उत्स्तोमैः पृश्निमातरः ॥
8.007.18 येनाव तुर्वशं यदुं येन कण्वं धनस्पृतम् ।
8.007.18 राये सु तस्य धीमहि ॥
8.007.19 इमा उ वः सुदानवो घृतं न पिप्युषीरिषः ।
8.007.19 वर्धान्काण्वस्य मन्मभिः ॥
8.007.20 क्व नूनं सुदानवो मदथा वृक्तबर्हिषः ।
8.007.20 ब्रह्मा को वः सपर्यति ॥
8.007.21 नहि ष्म यद्ध वः पुरा स्तोमेभिर्वृक्तबर्हिषः ।
8.007.21 शर्धां ऋतस्य जिन्वथ ॥
8.007.22 समु त्ये महतीरपः सं क्षोणी समु सूर्यम् ।
8.007.22 सं वज्रं पर्वशो दधुः ॥
8.007.23 वि वृत्रं पर्वशो ययुर्वि पर्वतां अराजिनः ।
8.007.23 चक्राणा वृष्णि पौंस्यम् ॥
8.007.24 अनु त्रितस्य युध्यतः शुष्ममावन्नुत क्रतुम् ।
8.007.24 अन्विन्द्रं वृत्रतूर्ये ॥
8.007.25 विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन्हिरण्ययीः ।
8.007.25 शुभ्रा व्यञ्जत श्रिये ॥
8.007.26 उशना यत्परावत उक्ष्णो रन्ध्रमयातन ।
8.007.26 द्यौर्न चक्रदद्भिया ॥
8.007.27 आ नो मखस्य दावनेऽश्वैर्हिरण्यपाणिभिः ।
8.007.27 देवास उप गन्तन ॥
8.007.28 यदेषां पृषती रथे प्रष्टिर्वहति रोहितः ।
8.007.28 यान्ति शुभ्रा रिणन्नपः ॥
8.007.29 सुषोमे शर्यणावत्यार्जीके पस्त्यावति ।
8.007.29 ययुर्निचक्रया नरः ॥
8.007.30 कदा गच्छाथ मरुत इत्था विप्रं हवमानम् ।
8.007.30 मार्डीकेभिर्नाधमानम् ॥
8.007.31 कद्ध नूनं कधप्रियो यदिन्द्रमजहातन ।
8.007.31 को वः सखित्व ओहते ॥
8.007.32 सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः ।
8.007.32 स्तुषे हिरण्यवाशीभिः ॥
8.007.33 ओ षु वृष्णः प्रयज्यूना नव्यसे सुविताय ।
8.007.33 ववृत्यां चित्रवाजान् ॥
8.007.34 गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः ।
8.007.34 पर्वताश्चिन्नि येमिरे ॥
8.007.35 आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः ।
8.007.35 धातार स्तुवते वयः ॥
8.007.36 अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा ।
8.007.36 ते भानुभिर्वि तस्थिरे ॥

8.008.01 आ नो विश्वाभिरूतिभिरश्विना गच्छतं युवम् ।
8.008.01 दस्रा हिरण्यवर्तनी पिबतं सोम्यं मधु ॥
8.008.02 आ नूनं यातमश्विना रथेन सूर्यत्वचा ।
8.008.02 भुजी हिरण्यपेशसा कवी गम्भीरचेतसा ॥
8.008.03 आ यातं नहुषस्पर्यान्तरिक्षात्सुवृक्तिभिः ।
8.008.03 पिबाथो अश्विना मधु कण्वानां सवने सुतम् ॥
8.008.04 आ नो यातं दिवस्पर्यान्तरिक्षादधप्रिया ।
8.008.04 पुत्रः कण्वस्य वामिह सुषाव सोम्यं मधु ॥
8.008.05 आ नो यातमुपश्रुत्यश्विना सोमपीतये ।
8.008.05 स्वाहा स्तोमस्य वर्धना प्र कवी धीतिभिर्नरा ॥
8.008.06 यच्चिद्धि वां पुर ऋषयो जुहूरेऽवसे नरा ।
8.008.06 आ यातमश्विना गतमुपेमां सुष्टुतिं मम ॥
8.008.07 दिवश्चिद्रोचनादध्या नो गन्तं स्वर्विदा ।
8.008.07 धीभिर्वत्सप्रचेतसा स्तोमेभिर्हवनश्रुता ॥
8.008.08 किमन्ये पर्यासतेऽस्मत्स्तोमेभिरश्विना ।
8.008.08 पुत्रः कण्वस्य वामृषिर्गीर्भिर्वत्सो अवीवृधत् ॥
8.008.09 आ वां विप्र इहावसेऽह्वत्स्तोमेभिरश्विना ।
8.008.09 अरिप्रा वृत्रहन्तमा ता नो भूतं मयोभुवा ॥
8.008.10 आ यद्वां योषणा रथमतिष्ठद्वाजिनीवसू ।
8.008.10 विश्वान्यश्विना युवं प्र धीतान्यगच्छतम् ॥
8.008.11 अतः सहस्रनिर्णिजा रथेना यातमश्विना ।
8.008.11 वत्सो वां मधुमद्वचोऽशंसीत्काव्यः कविः ॥
8.008.12 पुरुमन्द्रा पुरूवसू मनोतरा रयीणाम् ।
8.008.12 स्तोमं मे अश्विनाविममभि वह्नी अनूषाताम् ॥
8.008.13 आ नो विश्वान्यश्विना धत्तं राधांस्यह्रया ।
8.008.13 कृतं न ऋत्वियावतो मा नो रीरधतं निदे ॥
8.008.14 यन्नासत्या परावति यद्वा स्थो अध्यम्बरे ।
8.008.14 अतः सहस्रनिर्णिजा रथेना यातमश्विना ॥
8.008.15 यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् ।
8.008.15 तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥
8.008.16 प्रास्मा ऊर्जं घृतश्चुतमश्विना यच्छतं युवम् ।
8.008.16 यो वां सुम्नाय तुष्टवद्वसूयाद्दानुनस्पती ॥
8.008.17 आ नो गन्तं रिशादसेमं स्तोमं पुरुभुजा ।
8.008.17 कृतं नः सुश्रियो नरेमा दातमभिष्टये ॥
8.008.18 आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
8.008.18 राजन्तावध्वराणामश्विना यामहूतिषु ॥
8.008.19 आ नो गन्तं मयोभुवाश्विना शम्भुवा युवम् ।
8.008.19 यो वां विपन्यू धीतिभिर्गीर्भिर्वत्सो अवीवृधत् ॥
8.008.20 याभिः कण्वं मेधातिथिं याभिर्वशं दशव्रजम् ।
8.008.20 याभिर्गोशर्यमावतं ताभिर्नोऽवतं नरा ॥
8.008.21 याभिर्नरा त्रसदस्युमावतं कृत्व्ये धने ।
8.008.21 ताभिः ष्वस्मां अश्विना प्रावतं वाजसातये ॥
8.008.22 प्र वां स्तोमाः सुवृक्तयो गिरो वर्धन्त्वश्विना ।
8.008.22 पुरुत्रा वृत्रहन्तमा ता नो भूतं पुरुस्पृहा ॥
8.008.23 त्रीणि पदान्यश्विनोराविः सान्ति गुहा परः ।
8.008.23 कवी ऋतस्य पत्मभिरर्वाग्जीवेभ्यस्परि ॥

8.009.01 आ नूनमश्विना युवं वत्सस्य गन्तमवसे ।
8.009.01 प्रास्मै यच्छतमवृकं पृथु च्छर्दिर्युयुतं या अरातयः ॥
8.009.02 यदन्तरिक्षे यद्दिवि यत्पञ्च मानुषां अनु ।
8.009.02 नृम्णं तद्धत्तमश्विना ॥
8.009.03 ये वां दंसांस्यश्विना विप्रासः परिमामृशुः ।
8.009.03 एवेत्काण्वस्य बोधतम् ॥
8.009.04 अयं वां घर्मो अश्विना स्तोमेन परि षिच्यते ।
8.009.04 अयं सोमो मधुमान्वाजिनीवसू येन वृत्रं चिकेतथः ॥
8.009.05 यदप्सु यद्वनस्पतौ यदोषधीषु पुरुदंससा कृतम् ।
8.009.05 तेन माविष्टमश्विना ॥
8.009.06 यन्नासत्या भुरण्यथो यद्वा देव भिषज्यथः ।
8.009.06 अयं वां वत्सो मतिभिर्न विन्धते हविष्मन्तं हि गच्छथः ॥
8.009.07 आ नूनमश्विनोरृषि स्तोमं चिकेत वामया ।
8.009.07 आ सोमं मधुमत्तमं घर्मं सिञ्चादथर्वणि ॥
8.009.08 आ नूनं रघुवर्तनिं रथं तिष्ठाथो अश्विना ।
8.009.08 आ वां स्तोमा इमे मम नभो न चुच्यवीरत ॥
8.009.09 यदद्य वां नासत्योक्थैराचुच्युवीमहि ।
8.009.09 यद्वा वाणीभिरश्विनेवेत्काण्वस्य बोधतम् ॥
8.009.10 यद्वां कक्षीवां उत यद्व्यश्व ऋषिर्यद्वां दीर्घतमा जुहाव ।
8.009.10 पृथी यद्वां वैन्यः सादनेष्वेवेदतो अश्विना चेतयेथाम् ॥
8.009.11 यातं छर्दिष्पा उत नः परस्पा भूतं जगत्पा उत नस्तनूपा ।
8.009.11 वर्तिस्तोकाय तनयाय यातम् ॥
8.009.12 यदिन्द्रेण सरथं याथो अश्विना यद्वा वायुना भवथः समोकसा ।
8.009.12 यदादित्येभिरृभुभिः सजोषसा यद्वा विष्णोर्विक्रमणेषु तिष्ठथः ॥
8.009.13 यदद्याश्विनावहं हुवेय वाजसातये ।
8.009.13 यत्पृत्सु तुर्वणे सहस्तच्छ्रेष्ठमश्विनोरवः ॥
8.009.14 आ नूनं यातमश्विनेमा हव्यानि वां हिता ।
8.009.14 इमे सोमासो अधि तुर्वशे यदाविमे कण्वेषु वामथ ॥
8.009.15 यन्नासत्या पराके अर्वाके अस्ति भेषजम् ।
8.009.15 तेन नूनं विमदाय प्रचेतसा छर्दिर्वत्साय यच्छतम् ॥
8.009.16 अभुत्स्यु प्र देव्या साकं वाचाहमश्विनोः ।
8.009.16 व्यावर्देव्या मतिं वि रातिं मर्त्येभ्यः ॥
8.009.17 प्र बोधयोषो अश्विना प्र देवि सूनृते महि ।
8.009.17 प्र यज्ञहोतरानुषक्प्र मदाय श्रवो बृहत् ॥
8.009.18 यदुषो यासि भानुना सं सूर्येण रोचसे ।
8.009.18 आ हायमश्विनो रथो वर्तिर्याति नृपाय्यम् ॥
8.009.19 यदापीतासो अंशवो गावो न दुह्र ऊधभिः ।
8.009.19 यद्वा वाणीरनूषत प्र देवयन्तो अश्विना ॥
8.009.20 प्र द्युम्नाय प्र शवसे प्र नृषाह्याय शर्मणे ।
8.009.20 प्र दक्षाय प्रचेतसा ॥
8.009.21 यन्नूनं धीभिरश्विना पितुर्योना निषीदथः ।
8.009.21 यद्वा सुम्नेभिरुक्थ्या ॥

8.010.01 यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः ।
8.010.01 यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥
8.010.02 यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् ।
8.010.02 बृहस्पतिं विश्वान्देवां अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥
8.010.03 त्या न्वश्विना हुवे सुदंससा गृभे कृता ।
8.010.03 ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥
8.010.04 ययोरधि प्र यज्ञा असूरे सन्ति सूरयः ।
8.010.04 ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥
8.010.05 यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू ।
8.010.05 यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥
8.010.06 यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु ।
8.010.06 यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥

8.011.01 त्वमग्ने व्रतपा असि देव आ मर्त्येष्वा ।
8.011.01 त्वं यज्ञेष्वीड्यः ॥
8.011.02 त्वमसि प्रशस्यो विदथेषु सहन्त्य ।
8.011.02 अग्ने रथीरध्वराणाम् ॥
8.011.03 स त्वमस्मदप द्विषो युयोधि जातवेदः ।
8.011.03 अदेवीरग्ने अरातीः ॥
8.011.04 अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः ।
8.011.04 नोप वेषि जातवेदः ॥
8.011.05 मर्ता अमर्त्यस्य ते भूरि नाम मनामहे ।
8.011.05 विप्रासो जातवेदसः ॥
8.011.06 विप्रं विप्रासोऽवसे देवं मर्तास ऊतये ।
8.011.06 अग्निं गीर्भिर्हवामहे ॥
8.011.07 आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।
8.011.07 अग्ने त्वाङ्कामया गिरा ॥
8.011.08 पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
8.011.08 समत्सु त्वा हवामहे ॥
8.011.09 समत्स्वग्निमवसे वाजयन्तो हवामहे ।
8.011.09 वाजेषु चित्रराधसम् ॥
8.011.10 प्रत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि ।
8.011.10 स्वां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व ॥

8.012.01 य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
8.012.01 येना हंसि न्यत्रिणं तमीमहे ॥
8.012.02 येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
8.012.02 येना समुद्रमाविथा तमीमहे ॥
8.012.03 येन सिन्धुं महीरपो रथां इव प्रचोदयः ।
8.012.03 पन्थामृतस्य यातवे तमीमहे ॥
8.012.04 इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।
8.012.04 येना नु सद्य ओजसा ववक्षिथ ॥
8.012.05 इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
8.012.05 इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥
8.012.06 यो नो देवः परावतः सखित्वनाय मामहे ।
8.012.06 दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥
8.012.07 ववक्षुरस्य केतवो उत वज्रो गभस्त्योः ।
8.012.07 यत्सूर्यो न रोदसी अवर्धयत् ॥
8.012.08 यदि प्रवृद्ध सत्पते सहस्रं महिषां अघः ।
8.012.08 आदित्त इन्द्रियं महि प्र वावृधे ॥
8.012.09 इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।
8.012.09 अग्निर्वनेव सासहिः प्र वावृधे ॥
8.012.10 इयं त ऋत्वियावती धीतिरेति नवीयसी ।
8.012.10 सपर्यन्ती पुरुप्रिया मिमीत इत् ॥
8.012.11 गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।
8.012.11 स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥
8.012.12 सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
8.012.12 प्राची वाशीव सुन्वते मिमीत इत् ॥
8.012.13 यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः ।
8.012.13 घृतं न पिप्य आसन्यृतस्य यत् ॥
8.012.14 उत स्वराजे अदिति स्तोममिन्द्राय जीजनत् ।
8.012.14 पुरुप्रशस्तमूतय ऋतस्य यत् ॥
8.012.15 अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।
8.012.15 न देव विव्रता हरी ऋतस्य यत् ॥
8.012.16 यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
8.012.16 यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥
8.012.17 यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
8.012.17 अस्माकमित्सुते रणा समिन्दुभिः ॥
8.012.18 यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
8.012.18 उक्थे वा यस्य रण्यसि समिन्दुभिः ॥
8.012.19 देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि ।
8.012.19 अधा यज्ञाय तुर्वणे व्यानशुः ॥
8.012.20 यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् ।
8.012.20 होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥
8.012.21 महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
8.012.21 विश्वा वसूनि दाशुषे व्यानशुः ॥
8.012.22 इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
8.012.22 इन्द्रं वाणीरनूषता समोजसे ॥
8.012.23 महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् ।
8.012.23 अर्कैरभि प्र णोनुमः समोजसे ॥
8.012.24 न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
8.012.24 अमादिदस्य तित्विषे समोजसः ॥
8.012.25 यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।
8.012.25 आदित्ते हर्यता हरी ववक्षतुः ॥
8.012.26 यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।
8.012.26 आदित्ते हर्यता हरी ववक्षतुः ॥
8.012.27 यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।
8.012.27 आदित्ते हर्यता हरी ववक्षतुः ॥
8.012.28 यदा ते हर्यता हरी वावृधाते दिवेदिवे ।
8.012.28 आदित्ते विश्वा भुवनानि येमिरे ॥
8.012.29 यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे ।
8.012.29 आदित्ते विश्वा भुवनानि येमिरे ॥
8.012.30 यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।
8.012.30 आदित्ते विश्वा भुवनानि येमिरे ॥
8.012.31 इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
8.012.31 जामिं पदेव पिप्रतीं प्राध्वरे ॥
8.012.32 यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।
8.012.32 नाभा यज्ञस्य दोहना प्राध्वरे ॥
8.012.33 सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः ।
8.012.33 होतेव पूर्वचित्तये प्राध्वरे ॥

8.013.01 इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम् ।
8.013.01 विदे वृधस्य दक्षसो महान्हि षः ॥
8.013.02 स प्रथमे व्योमनि देवानां सदने वृधः ।
8.013.02 सुपारः सुश्रवस्तमः समप्सुजित् ॥
8.013.03 तमह्वे वाजसातय इन्द्रं भराय शुष्मिणम् ।
8.013.03 भवा नः सुम्ने अन्तमः सखा वृधे ॥
8.013.04 इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः ।
8.013.04 मन्दानो अस्य बर्हिषो वि राजसि ॥
8.013.05 नूनं तदिन्द्र दद्धि नो यत्त्वा सुन्वन्त ईमहे ।
8.013.05 रयिं नश्चित्रमा भरा स्वर्विदम् ॥
8.013.06 स्तोता यत्ते विचर्षणिरतिप्रशर्धयद्गिरः ।
8.013.06 वया इवानु रोहते जुषन्त यत् ॥
8.013.07 प्रत्नवज्जनया गिरः शृणुधी जरितुर्हवम् ।
8.013.07 मदेमदे ववक्षिथा सुकृत्वने ॥
8.013.08 क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः ।
8.013.08 अया धिया य उच्यते पतिर्दिवः ॥
8.013.09 उतो पतिर्य उच्यते कृष्टीनामेक इद्वशी ।
8.013.09 नमोवृधैरवस्युभिः सुते रण ॥
8.013.10 स्तुहि श्रुतं विपश्चितं हरी यस्य प्रसक्षिणा ।
8.013.10 गन्तारा दाशुषो गृहं नमस्विनः ॥
8.013.11 तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः ।
8.013.11 आ याहि यज्ञमाशुभिः शमिद्धि ते ॥
8.013.12 इन्द्र शविष्ठ सत्पते रयिं गृणत्सु धारय ।
8.013.12 श्रवः सूरिभ्यो अमृतं वसुत्वनम् ॥
8.013.13 हवे त्वा सूर उदिते हवे मध्यन्दिने दिवः ।
8.013.13 जुषाण इन्द्र सप्तिभिर्न आ गहि ॥
8.013.14 आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः ।
8.013.14 तन्तुं तनुष्व पूर्व्यं यथा विदे ॥
8.013.15 यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
8.013.15 यद्वा समुद्रे अन्धसोऽवितेदसि ॥
8.013.16 इन्द्रं वर्धन्तु नो गिर इन्द्रं सुतास इन्दवः ।
8.013.16 इन्द्रे हविष्मतीर्विशो अराणिषुः ॥
8.013.17 तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः ।
8.013.17 इन्द्रं क्षोणीरवर्धयन्वया इव ॥
8.013.18 त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
8.013.18 तमिद्वर्धन्तु नो गिरः सदावृधम् ॥
8.013.19 स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे ।
8.013.19 शुचिः पावक उच्यते सो अद्भुतः ॥
8.013.20 तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु ।
8.013.20 मनो यत्रा वि तद्दधुर्विचेतसः ॥
8.013.21 यदि मे सख्यमावर इमस्य पाह्यन्धसः ।
8.013.21 येन विश्वा अति द्विषो अतारिम ॥
8.013.22 कदा त इन्द्र गिर्वण स्तोता भवाति शन्तमः ।
8.013.22 कदा नो गव्ये अश्व्ये वसौ दधः ॥
8.013.23 उत ते सुष्टुता हरी वृषणा वहतो रथम् ।
8.013.23 अजुर्यस्य मदिन्तमं यमीमहे ॥
8.013.24 तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः ।
8.013.24 नि बर्हिषि प्रिये सददध द्विता ॥
8.013.25 वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः ।
8.013.25 धुक्षस्व पिप्युषीमिषमवा च नः ॥
8.013.26 इन्द्र त्वमवितेदसीत्था स्तुवतो अद्रिवः ।
8.013.26 ऋतादियर्मि ते धियं मनोयुजम् ॥
8.013.27 इह त्या सधमाद्या युजानः सोमपीतये ।
8.013.27 हरी इन्द्र प्रतद्वसू अभि स्वर ॥
8.013.28 अभि स्वरन्तु ये तव रुद्रासः सक्षत श्रियम् ।
8.013.28 उतो मरुत्वतीर्विशो अभि प्रयः ॥
8.013.29 इमा अस्य प्रतूर्तयः पदं जुषन्त यद्दिवि ।
8.013.29 नाभा यज्ञस्य सं दधुर्यथा विदे ॥
8.013.30 अयं दीर्घाय चक्षसे प्राचि प्रयत्यध्वरे ।
8.013.30 मिमीते यज्ञमानुषग्विचक्ष्य ॥
8.013.31 वृषायमिन्द्र ते रथ उतो ते वृषणा हरी ।
8.013.31 वृषा त्वं शतक्रतो वृषा हवः ॥
8.013.32 वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः ।
8.013.32 वृषा यज्ञो यमिन्वसि वृषा हवः ॥
8.013.33 वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
8.013.33 वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥

8.014.01 यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।
8.014.01 स्तोता मे गोषखा स्यात् ॥
8.014.02 शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।
8.014.02 यदहं गोपतिः स्याम् ॥
8.014.03 धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।
8.014.03 गामश्वं पिप्युषी दुहे ॥
8.014.04 न ते वर्तास्ति राधस इन्द्र देवो न मर्त्यः ।
8.014.04 यद्दित्ससि स्तुतो मघम् ॥
8.014.05 यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
8.014.05 चक्राण ओपशं दिवि ॥
8.014.06 वावृधानस्य ते वयं विश्वा धनानि जिग्युषः ।
8.014.06 ऊतिमिन्द्रा वृणीमहे ॥
8.014.07 व्यन्तरिक्षमतिरन्मदे सोमस्य रोचना ।
8.014.07 इन्द्रो यदभिनद्वलम् ॥
8.014.08 उद्गा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
8.014.08 अर्वाञ्चं नुनुदे वलम् ॥
8.014.09 इन्द्रेण रोचना दिवो दृळ्हानि दृंहितानि च ।
8.014.09 स्थिराणि न पराणुदे ॥
8.014.10 अपामूर्मिर्मदन्निव स्तोम इन्द्राजिरायते ।
8.014.10 वि ते मदा अराजिषुः ॥
8.014.11 त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
8.014.11 स्तोतॄणामुत भद्रकृत् ॥
8.014.12 इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
8.014.12 उप यज्ञं सुराधसम् ॥
8.014.13 अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
8.014.13 विश्वा यदजय स्पृधः ॥
8.014.14 मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
8.014.14 अव दस्यूंरधूनुथाः ॥
8.014.15 असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
8.014.15 सोमपा उत्तरो भवन् ॥

8.015.01 तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
8.015.01 इन्द्रं गीर्भिस्तविषमा विवासत ॥
8.015.02 यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
8.015.02 गिरींरज्रां अपः स्वर्वृषत्वना ॥
8.015.03 स राजसि पुरुष्टुतं एको वृत्राणि जिघ्नसे ।
8.015.03 इन्द्र जैत्रा श्रवस्या च यन्तवे ॥
8.015.04 तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
8.015.04 उ लोककृत्नुमद्रिवो हरिश्रियम् ॥
8.015.05 येन ज्योतींष्यायवे मनवे च विवेदिथ ।
8.015.05 मन्दानो अस्य बर्हिषो वि राजसि ॥
8.015.06 तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
8.015.06 वृषपत्नीरपो जया दिवेदिवे ॥
8.015.07 तव त्यदिन्द्रियं बृहत्तव शुष्ममुत क्रतुम् ।
8.015.07 वज्रं शिशाति धिषणा वरेण्यम् ॥
8.015.08 तव द्यौरिन्द्र पौंस्यं पृथिवी वर्धति श्रवः ।
8.015.08 त्वामापः पर्वतासश्च हिन्विरे ॥
8.015.09 त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
8.015.09 त्वां शर्धो मदत्यनु मारुतम् ॥
8.015.10 त्वं वृषा जनानां मंहिष्ठ इन्द्र जज्ञिषे ।
8.015.10 सत्रा विश्वा स्वपत्यानि दधिषे ॥
8.015.11 सत्रा त्वं पुरुष्टुतं एको वृत्राणि तोशसे ।
8.015.11 नान्य इन्द्रात्करणं भूय इन्वति ॥
8.015.12 यदिन्द्र मन्मशस्त्वा नाना हवन्त ऊतये ।
8.015.12 अस्माकेभिर्नृभिरत्रा स्वर्जय ॥
8.015.13 अरं क्षयाय नो महे विश्वा रूपाण्याविशन् ।
8.015.13 इन्द्रं जैत्राय हर्षया शचीपतिम् ॥

8.016.01 प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
8.016.01 नरं नृषाहं मंहिष्ठम् ॥
8.016.02 यस्मिन्नुक्थानि रण्यन्ति विश्वानि च श्रवस्या ।
8.016.02 अपामवो न समुद्रे ॥
8.016.03 तं सुष्टुत्या विवासे ज्येष्ठराजं भरे कृत्नुम् ।
8.016.03 महो वाजिनं सनिभ्यः ॥
8.016.04 यस्यानूना गभीरा मदा उरवस्तरुत्राः ।
8.016.04 हर्षुमन्तः शूरसातौ ॥
8.016.05 तमिद्धनेषु हितेष्वधिवाकाय हवन्ते ।
8.016.05 येषामिन्द्रस्ते जयन्ति ॥
8.016.06 तमिच्च्यौत्नैरार्यन्ति तं कृतेभिश्चर्षणयः ।
8.016.06 एष इन्द्रो वरिवस्कृत् ॥
8.016.07 इन्द्रो ब्रह्मेन्द्र ऋषिरिन्द्रः पुरू पुरुहूतः ।
8.016.07 महान्महीभिः शचीभिः ॥
8.016.08 स स्तोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः ।
8.016.08 एकश्चित्सन्नभिभूतिः ॥
8.016.09 तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः ।
8.016.09 इन्द्रं वर्धन्ति क्षितयः ॥
8.016.10 प्रणेतारं वस्यो अच्छा कर्तारं ज्योतिः समत्सु ।
8.016.10 सासह्वांसं युधामित्रान् ॥
8.016.11 स नः पप्रिः पारयाति स्वस्ति नावा पुरुहूतः ।
8.016.11 इन्द्रो विश्वा अति द्विषः ॥
8.016.12 स त्वं न इन्द्र वाजेभिर्दशस्या च गातुया च ।
8.016.12 अच्छा च नः सुम्नं नेषि ॥

8.017.01 आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमम् ।
8.017.01 एदं बर्हिः सदो मम ॥
8.017.02 आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।
8.017.02 उप ब्रह्माणि नः शृणु ॥
8.017.03 ब्रह्माणस्त्वा वयं युजा सोमपामिन्द्र सोमिनः ।
8.017.03 सुतावन्तो हवामहे ॥
8.017.04 आ नो याहि सुतावतोऽस्माकं सुष्टुतीरुप ।
8.017.04 पिबा सु शिप्रिन्नन्धसः ॥
8.017.05 आ ते सिञ्चामि कुक्ष्योरनु गात्रा वि धावतु ।
8.017.05 गृभाय जिह्वया मधु ॥
8.017.06 स्वादुष्टे अस्तु संसुदे मधुमान्तन्वे तव ।
8.017.06 सोमः शमस्तु ते हृदे ॥
8.017.07 अयमु त्वा विचर्षणे जनीरिवाभि संवृतः ।
8.017.07 प्र सोम इन्द्र सर्पतु ॥
8.017.08 तुविग्रीवो वपोदरः सुबाहुरन्धसो मदे ।
8.017.08 इन्द्रो वृत्राणि जिघ्नते ॥
8.017.09 इन्द्र प्रेहि पुरस्त्वं विश्वस्येशान ओजसा ।
8.017.09 वृत्राणि वृत्रहञ्जहि ॥
8.017.10 दीर्घस्ते अस्त्वङ्कुशो येना वसु प्रयच्छसि ।
8.017.10 यजमानाय सुन्वते ॥
8.017.11 अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
8.017.11 एहीमस्य द्रवा पिब ॥
8.017.12 शाचिगो शाचिपूजनायं रणाय ते सुतः ।
8.017.12 आखण्डल प्र हूयसे ॥
8.017.13 यस्ते शृङ्गवृषो नपात्प्रणपात्कुण्डपाय्यः ।
8.017.13 न्यस्मिन्दध्र आ मनः ॥
8.017.14 वास्तोष्पते ध्रुवा स्थूणांसत्रं सोम्यानाम् ।
8.017.14 द्रप्सो भेत्ता पुरां शश्वतीनामिन्द्रो मुनीनां सखा ॥
8.017.15 पृदाकुसानुर्यजतो गवेषण एकः सन्नभि भूयसः ।
8.017.15 भूर्णिमश्वं नयत्तुजा पुरो गृभेन्द्रं सोमस्य पीतये ॥

8.018.01 इदं ह नूनमेषां सुम्नं भिक्षेत मर्त्यः ।
8.018.01 आदित्यानामपूर्व्यं सवीमनि ॥
8.018.02 अनर्वाणो ह्येषां पन्था आदित्यानाम् ।
8.018.02 अदब्धाः सन्ति पायवः सुगेवृधः ॥
8.018.03 तत्सु नः सविता भगो वरुणो मित्रो अर्यमा ।
8.018.03 शर्म यच्छन्तु सप्रथो यदीमहे ॥
8.018.04 देवेभिर्देव्यदितेऽरिष्टभर्मन्ना गहि ।
8.018.04 स्मत्सूरिभिः पुरुप्रिये सुशर्मभिः ॥
8.018.05 ते हि पुत्रासो अदितेर्विदुर्द्वेषांसि योतवे ।
8.018.05 अंहोश्चिदुरुचक्रयोऽनेहसः ॥
8.018.06 अदितिर्नो दिवा पशुमदितिर्नक्तमद्वयाः ।
8.018.06 अदितिः पात्वंहसः सदावृधा ॥
8.018.07 उत स्या नो दिवा मतिरदितिरूत्या गमत् ।
8.018.07 सा शन्ताति मयस्करदप स्रिधः ॥
8.018.08 उत त्या दैव्या भिषजा शं नः करतो अश्विना ।
8.018.08 युयुयातामितो रपो अप स्रिधः ॥
8.018.09 शमग्निरग्निभिः करच्छं नस्तपतु सूर्यः ।
8.018.09 शं वातो वात्वरपा अप स्रिधः ॥
8.018.10 अपामीवामप स्रिधमप सेधत दुर्मतिम् ।
8.018.10 आदित्यासो युयोतना नो अंहसः ॥
8.018.11 युयोता शरुमस्मदां आदित्यास उतामतिम् ।
8.018.11 ऋधग्द्वेषः कृणुत विश्ववेदसः ॥
8.018.12 तत्सु नः शर्म यच्छतादित्या यन्मुमोचति ।
8.018.12 एनस्वन्तं चिदेनसः सुदानवः ॥
8.018.13 यो नः कश्चिद्रिरिक्षति रक्षस्त्वेन मर्त्यः ।
8.018.13 स्वैः ष एवै रिरिषीष्ट युर्जनः ॥
8.018.14 समित्तमघमश्नवद्दुःशंसं मर्त्यं रिपुम् ।
8.018.14 यो अस्मत्रा दुर्हणावां उप द्वयुः ॥
8.018.15 पाकत्रा स्थन देवा हृत्सु जानीथ मर्त्यम् ।
8.018.15 उप द्वयुं चाद्वयुं च वसवः ॥
8.018.16 आ शर्म पर्वतानामोतापां वृणीमहे ।
8.018.16 द्यावाक्षामारे अस्मद्रपस्कृतम् ॥
8.018.17 ते नो भद्रेण शर्मणा युष्माकं नावा वसवः ।
8.018.17 अति विश्वानि दुरिता पिपर्तन ॥
8.018.18 तुचे तनाय तत्सु नो द्राघीय आयुर्जीवसे ।
8.018.18 आदित्यासः सुमहसः कृणोतन ॥
8.018.19 यज्ञो हीळो वो अन्तर आदित्या अस्ति मृळत ।
8.018.19 युष्मे इद्वो अपि ष्मसि सजात्ये ॥
8.018.20 बृहद्वरूथं मरुतां देवं त्रातारमश्विना ।
8.018.20 मित्रमीमहे वरुणं स्वस्तये ॥
8.018.21 अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् ।
8.018.21 त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥
8.018.22 ये चिद्धि मृत्युबन्धव आदित्या मनवः स्मसि ।
8.018.22 प्र सू न आयुर्जीवसे तिरेतन ॥

8.019.01 तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
8.019.01 देवत्रा हव्यमोहिरे ॥
8.019.02 विभूतरातिं विप्र चित्रशोचिषमग्निमीळिष्व यन्तुरम् ।
8.019.02 अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यम् ॥
8.019.03 यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यम् ।
8.019.03 अस्य यज्ञस्य सुक्रतुम् ॥
8.019.04 ऊर्जो नपातं सुभगं सुदीदितिमग्निं श्रेष्ठशोचिषम् ।
8.019.04 स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥
8.019.05 यः समिधा य आहुती यो वेदेन ददाश मर्तो अग्नये ।
8.019.05 यो नमसा स्वध्वरः ॥
8.019.06 तस्येदर्वन्तो रंहयन्त आशवस्तस्य द्युम्नितमं यशः ।
8.019.06 न तमंहो देवकृतं कुतश्चन न मर्त्यकृतं नशत् ॥
8.019.07 स्वग्नयो वो अग्निभिः स्याम सूनो सहस ऊर्जां पते ।
8.019.07 सुवीरस्त्वमस्मयुः ॥
8.019.08 प्रशंसमानो अतिथिर्न मित्रियोऽग्नी रथो न वेद्यः ।
8.019.08 त्वे क्षेमासो अपि सन्ति साधवस्त्वं राजा रयीणाम् ॥
8.019.09 सो अद्धा दाश्वध्वरोऽग्ने मर्तः सुभग स प्रशंस्यः ।
8.019.09 स धीभिरस्तु सनिता ॥
8.019.10 यस्य त्वमूर्ध्वो अध्वराय तिष्ठसि क्षयद्वीरः स साधते ।
8.019.10 सो अर्वद्भिः सनिता स विपन्युभिः स शूरैः सनिता कृतम् ॥
8.019.11 यस्याग्निर्वपुर्गृहे स्तोमं चनो दधीत विश्ववार्यः ।
8.019.11 हव्या वा वेविषद्विषः ॥
8.019.12 विप्रस्य वा स्तुवतः सहसो यहो मक्षूतमस्य रातिषु ।
8.019.12 अवोदेवमुपरिमर्त्यं कृधि वसो विविदुषो वचः ॥
8.019.13 यो अग्निं हव्यदातिभिर्नमोभिर्वा सुदक्षमाविवासति ।
8.019.13 गिरा वाजिरशोचिषम् ॥
8.019.14 समिधा यो निशिती दाशददितिं धामभिरस्य मर्त्यः ।
8.019.14 विश्वेत्स धीभिः सुभगो जनां अति द्युम्नैरुद्न इव तारिषत् ॥
8.019.15 तदग्ने द्युम्नमा भर यत्सासहत्सदने कं चिदत्रिणम् ।
8.019.15 मन्युं जनस्य दूढ्यः ॥
8.019.16 येन चष्टे वरुणो मित्रो अर्यमा येन नासत्या भगः ।
8.019.16 वयं तत्ते शवसा गातुवित्तमा इन्द्रत्वोता विधेमहि ॥
8.019.17 ते घेदग्ने स्वाध्यो ये त्वा विप्र निदधिरे नृचक्षसम् ।
8.019.17 विप्रासो देव सुक्रतुम् ॥
8.019.18 त इद्वेदिं सुभग त आहुतिं ते सोतुं चक्रिरे दिवि ।
8.019.18 त इद्वाजेभिर्जिग्युर्महद्धनं ये त्वे कामं न्येरिरे ॥
8.019.19 भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
8.019.19 भद्रा उत प्रशस्तयः ॥
8.019.20 भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहः ।
8.019.20 अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टिभिः ॥
8.019.21 ईळे गिरा मनुर्हितं यं देवा दूतमरतिं न्येरिरे ।
8.019.21 यजिष्ठं हव्यवाहनम् ॥
8.019.22 तिग्मजम्भाय तरुणाय राजते प्रयो गायस्यग्नये ।
8.019.22 यः पिंशते सूनृताभिः सुवीर्यमग्निर्घृतेभिराहुतः ॥
8.019.23 यदी घृतेभिराहुतो वाशीमग्निर्भरत उच्चाव च ।
8.019.23 असुर इव निर्णिजम् ॥
8.019.24 यो हव्यान्यैरयता मनुर्हितो देव आसा सुगन्धिना ।
8.019.24 विवासते वार्याणि स्वध्वरो होता देवो अमर्त्यः ॥
8.019.25 यदग्ने मर्त्यस्त्वं स्यामहं मित्रमहो अमर्त्यः ।
8.019.25 सहसः सूनवाहुत ॥
8.019.26 न त्वा रासीयाभिशस्तये वसो न पापत्वाय सन्त्य ।
8.019.26 न मे स्तोतामतीवा न दुर्हितः स्यादग्ने न पापया ॥
8.019.27 पितुर्न पुत्रः सुभृतो दुरोण आ देवां एतु प्र णो हविः ॥
8.019.28 तवाहमग्न ऊतिभिर्नेदिष्ठाभिः सचेय जोषमा वसो ।
8.019.28 सदा देवस्य मर्त्यः ॥
8.019.29 तव क्रत्वा सनेयं तव रातिभिरग्ने तव प्रशस्तिभिः ।
8.019.29 त्वामिदाहुः प्रमतिं वसो ममाग्ने हर्षस्व दातवे ॥
8.019.30 प्र सो अग्ने तवोतिभिः सुवीराभिस्तिरते वाजभर्मभिः ।
8.019.30 यस्य त्वं सख्यमावरः ॥
8.019.31 तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।
8.019.31 त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥
8.019.32 तमागन्म सोभरयः सहस्रमुष्कं स्वभिष्टिमवसे ।
8.019.32 सम्राजं त्रासदस्यवम् ॥
8.019.33 यस्य ते अग्ने अन्ये अग्नय उपक्षितो वया इव ।
8.019.33 विपो न द्युम्ना नि युवे जनानां तव क्षत्राणि वर्धयन् ॥
8.019.34 यमादित्यासो अद्रुहः पारं नयथ मर्त्यम् ।
8.019.34 मघोनां विश्वेषां सुदानवः ॥
8.019.35 यूयं राजानः कं चिच्चर्षणीसहः क्षयन्तं मानुषां अनु ।
8.019.35 वयं ते वो वरुण मित्रार्यमन्स्यामेदृतस्य रथ्यः ॥
8.019.36 अदान्मे पौरुकुत्स्यः पञ्चाशतं त्रसदस्युर्वधूनाम् ।
8.019.36 मंहिष्ठो अर्यः सत्पतिः ॥
8.019.37 उत मे प्रयियोर्वयियोः सुवास्त्वा अधि तुग्वनि ।
8.019.37 तिसॄणां सप्ततीनां श्यावः प्रणेता भुवद्वसुर्दियानां पतिः ॥

8.020.01 आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थाता समन्यवः ।
8.020.01 स्थिरा चिन्नमयिष्णवः ॥
8.020.02 वीळुपविभिर्मरुत ऋभुक्षण आ रुद्रासः सुदीतिभिः ।
8.020.02 इषा नो अद्या गता पुरुस्पृहो यज्ञमा सोभरीयवः ॥
8.020.03 विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम् ।
8.020.03 विष्णोरेषस्य मीळ्हुषाम् ॥
8.020.04 वि द्वीपानि पापतन्तिष्ठद्दुच्छुनोभे युजन्त रोदसी ।
8.020.04 प्र धन्वान्यैरत शुभ्रखादयो यदेजथ स्वभानवः ॥
8.020.05 अच्युता चिद्वो अज्मन्ना नानदति पर्वतासो वनस्पतिः ।
8.020.05 भूमिर्यामेषु रेजते ॥
8.020.06 अमाय वो मरुतो यातवे द्यौर्जिहीत उत्तरा बृहत् ।
8.020.06 यत्रा नरो देदिशते तनूष्वा त्वक्षांसि बाह्वोजसः ॥
8.020.07 स्वधामनु श्रियं नरो महि त्वेषा अमवन्तो वृषप्सवः ।
8.020.07 वहन्ते अह्रुतप्सवः ॥
8.020.08 गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये ।
8.020.08 गोबन्धवः सुजातास इषे भुजे महान्तो न स्परसे नु ॥
8.020.09 प्रति वो वृषदञ्जयो वृष्णे शर्धाय मारुताय भरध्वम् ।
8.020.09 हव्या वृषप्रयाव्णे ॥
8.020.10 वृषणश्वेन मरुतो वृषप्सुना रथेन वृषनाभिना ।
8.020.10 आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
8.020.11 समानमञ्ज्येषां वि भ्राजन्ते रुक्मासो अधि बाहुषु ।
8.020.11 दविद्युतत्यृष्टयः ॥
8.020.12 त उग्रासो वृषण उग्रबाहवो नकिष्टनूषु येतिरे ।
8.020.12 स्थिरा धन्वान्यायुधा रथेषु वोऽनीकेष्वधि श्रियः ॥
8.020.13 येषामर्णो न सप्रथो नाम त्वेषं शश्वतामेकमिद्भुजे ।
8.020.13 वयो न पित्र्यं सहः ॥
8.020.14 तान्वन्दस्व मरुतस्तां उप स्तुहि तेषां हि धुनीनाम् ।
8.020.14 अराणां न चरमस्तदेषां दाना मह्ना तदेषाम् ॥
8.020.15 सुभगः स व ऊतिष्वास पूर्वासु मरुतो व्युष्टिषु ।
8.020.15 यो वा नूनमुतासति ॥
8.020.16 यस्य वा यूयं प्रति वाजिनो नर आ हव्या वीतये गथ ।
8.020.16 अभि ष द्युम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत् ॥
8.020.17 यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः ।
8.020.17 युवानस्तथेदसत् ॥
8.020.18 ये चार्हन्ति मरुतः सुदानवः स्मन्मीळ्हुषश्चरन्ति ये ।
8.020.18 अतश्चिदा न उप वस्यसा हृदा युवान आ ववृध्वम् ॥
8.020.19 यून ऊ षु नविष्ठया वृष्णः पावकां अभि सोभरे गिरा ।
8.020.19 गाय गा इव चर्कृषत् ॥
8.020.20 साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पृत्सु होतृषु ।
8.020.20 वृष्णश्चन्द्रान्न सुश्रवस्तमान्गिरा वन्दस्व मरुतो अह ॥
8.020.21 गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः ।
8.020.21 रिहते ककुभो मिथः ॥
8.020.22 मर्तश्चिद्वो नृतवो रुक्मवक्षस उप भ्रातृत्वमायति ।
8.020.22 अधि नो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि ॥
8.020.23 मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः ।
8.020.23 यूयं सखायः सप्तयः ॥
8.020.24 याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथा क्रिविम् ।
8.020.24 मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः ॥
8.020.25 यत्सिन्धौ यदसिक्न्यां यत्समुद्रेषु मरुतः सुबर्हिषः ।
8.020.25 यत्पर्वतेषु भेषजम् ॥
8.020.26 विश्वं पश्यन्तो बिभृथा तनूष्वा तेना नो अधि वोचत ।
8.020.26 क्षमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः ॥

8.021.01 वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।
8.021.01 वाजे चित्रं हवामहे ॥
8.021.02 उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।
8.021.02 त्वामिद्ध्यवितारं ववृमहे सखाय इन्द्र सानसिम् ॥
8.021.03 आ याहीम इन्दवोऽश्वपते गोपत उर्वरापते ।
8.021.03 सोमं सोमपते पिब ॥
8.021.04 वयं हि त्वा बन्धुमन्तमबन्धवो विप्रास इन्द्र येमिम ।
8.021.04 या ते धामानि वृषभ तेभिरा गहि विश्वेभिः सोमपीतये ॥
8.021.05 सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।
8.021.05 अभि त्वामिन्द्र नोनुमः ॥
8.021.06 अच्छा च त्वैना नमसा वदामसि किं मुहुश्चिद्वि दीधयः ।
8.021.06 सन्ति कामासो हरिवो ददिष्ट्वं स्मो वयं सन्ति नो धियः ॥
8.021.07 नूत्ना इदिन्द्र ते वयमूती अभूम नहि नू ते अद्रिवः ।
8.021.07 विद्मा पुरा परीणसः ॥
8.021.08 विद्मा सखित्वमुत शूर भोज्यमा ते ता वज्रिन्नीमहे ।
8.021.08 उतो समस्मिन्ना शिशीहि नो वसो वाजे सुशिप्र गोमति ॥
8.021.09 यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।
8.021.09 सखाय इन्द्रमूतये ॥
8.021.10 हर्यश्वं सत्पतिं चर्षणीसहं स हि ष्मा यो अमन्दत ।
8.021.10 आ तु नः स वयति गव्यमश्व्यं स्तोतृभ्यो मघवा शतम् ॥
8.021.11 त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।
8.021.11 संस्थे जनस्य गोमतः ॥
8.021.12 जयेम कारे पुरुहूत कारिणोऽभि तिष्ठेम दूढ्यः ।
8.021.12 नृभिर्वृत्रं हन्याम शूशुयाम चावेरिन्द्र प्र णो धियः ॥
8.021.13 अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।
8.021.13 युधेदापित्वमिच्छसे ॥
8.021.14 नकी रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।
8.021.14 यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥
8.021.15 मा ते अमाजुरो यथा मूरास इन्द्र सख्ये त्वावतः ।
8.021.15 नि षदाम सचा सुते ॥
8.021.16 मा ते गोदत्र निरराम राधस इन्द्र मा ते गृहामहि ।
8.021.16 दृळ्हा चिदर्यः प्र मृशाभ्या भर न ते दामान आदभे ॥
8.021.17 इन्द्रो वा घेदियन्मघं सरस्वती वा सुभगा ददिर्वसु ।
8.021.17 त्वं वा चित्र दाशुषे ॥
8.021.18 चित्र इद्राजा राजका इदन्यके यके सरस्वतीमनु ।
8.021.18 पर्जन्य इव ततनद्धि वृष्ट्या सहस्रमयुता ददत् ॥

8.022.01 ओ त्यमह्व आ रथमद्या दंसिष्ठमूतये ।
8.022.01 यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः ॥
8.022.02 पूर्वायुषं सुहवं पुरुस्पृहं भुज्युं वाजेषु पूर्व्यम् ।
8.022.02 सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम् ॥
8.022.03 इह त्या पुरुभूतमा देवा नमोभिरश्विना ।
8.022.03 अर्वाचीना स्ववसे करामहे गन्तारा दाशुषो गृहम् ॥
8.022.04 युवो रथस्य परि चक्रमीयत ईर्मान्यद्वामिषण्यति ।
8.022.04 अस्मां अच्छा सुमतिर्वां शुभस्पती आ धेनुरिव धावतु ॥
8.022.05 रथो यो वां त्रिवन्धुरो हिरण्याभीशुरश्विना ।
8.022.05 परि द्यावापृथिवी भूषति श्रुतस्तेन नासत्या गतम् ॥
8.022.06 दशस्यन्ता मनवे पूर्व्यं दिवि यवं वृकेण कर्षथः ।
8.022.06 ता वामद्य सुमतिभिः शुभस्पती अश्विना प्र स्तुवीमहि ॥
8.022.07 उप नो वाजिनीवसू यातमृतस्य पथिभिः ।
8.022.07 येभिस्तृक्षिं वृषणा त्रासदस्यवं महे क्षत्राय जिन्वथः ॥
8.022.08 अयं वामद्रिभिः सुतः सोमो नरा वृषण्वसू ।
8.022.08 आ यातं सोमपीतये पिबतं दाशुषो गृहे ॥
8.022.09 आ हि रुहतमश्विना रथे कोशे हिरण्यये वृषण्वसू ।
8.022.09 युञ्जाथां पीवरीरिषः ॥
8.022.10 याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम् ।
8.022.10 ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतं यदातुरम् ॥
8.022.11 यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे ।
8.022.11 वयं गीर्भिर्विपन्यवः ॥
8.022.12 ताभिरा यातं वृषणोप मे हवं विश्वप्सुं विश्ववार्यम् ।
8.022.12 इषा मंहिष्ठा पुरुभूतमा नरा याभिः क्रिविं वावृधुस्ताभिरा गतम् ॥
8.022.13 ताविदा चिदहानां तावश्विना वन्दमान उप ब्रुवे ।
8.022.13 ता उ नमोभिरीमहे ॥
8.022.14 ताविद्दोषा ता उषसि शुभस्पती ता यामन्रुद्रवर्तनी ।
8.022.14 मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति ख्यतम् ॥
8.022.15 आ सुग्म्याय सुग्म्यं प्राता रथेनाश्विना वा सक्षणी ।
8.022.15 हुवे पितेव सोभरी ॥
8.022.16 मनोजवसा वृषणा मदच्युता मक्षुङ्गमाभिरूतिभिः ।
8.022.16 आरात्ताच्चिद्भूतमस्मे अवसे पूर्वीभिः पुरुभोजसा ॥
8.022.17 आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा ।
8.022.17 गोमद्दस्रा हिरण्यवत् ॥
8.022.18 सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाधृष्टं रक्षस्विना ।
8.022.18 अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि ॥

8.023.01 ईळिष्वा हि प्रतीव्यं यजस्व जातवेदसम् ।
8.023.01 चरिष्णुधूममगृभीतशोचिषम् ॥
8.023.02 दामानं विश्वचर्षणेऽग्निं विश्वमनो गिरा ।
8.023.02 उत स्तुषे विष्पर्धसो रथानाम् ॥
8.023.03 येषामाबाध ऋग्मिय इषः पृक्षश्च निग्रभे ।
8.023.03 उपविदा वह्निर्विन्दते वसु ॥
8.023.04 उदस्य शोचिरस्थाद्दीदियुषो व्यजरम् ।
8.023.04 तपुर्जम्भस्य सुद्युतो गणश्रियः ॥
8.023.05 उदु तिष्ठ स्वध्वर स्तवानो देव्या कृपा ।
8.023.05 अभिख्या भासा बृहता शुशुक्वनिः ॥
8.023.06 अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक् ।
8.023.06 यथा दूतो बभूथ हव्यवाहनः ॥
8.023.07 अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम् ।
8.023.07 तमया वाचा गृणे तमु व स्तुषे ॥
8.023.08 यज्ञेभिरद्भुतक्रतुं यं कृपा सूदयन्त इत् ।
8.023.08 मित्रं न जने सुधितमृतावनि ॥
8.023.09 ऋतावानमृतायवो यज्ञस्य साधनं गिरा ।
8.023.09 उपो एनं जुजुषुर्नमसस्पदे ॥
8.023.10 अच्छा नो अङ्गिरस्तमं यज्ञासो यन्तु संयतः ।
8.023.10 होता यो अस्ति विक्ष्वा यशस्तमः ॥
8.023.11 अग्ने तव त्ये अजरेन्धानासो बृहद्भाः ।
8.023.11 अश्वा इव वृषणस्तविषीयवः ॥
8.023.12 स त्वं न ऊर्जां पते रयिं रास्व सुवीर्यम् ।
8.023.12 प्राव नस्तोके तनये समत्स्वा ॥
8.023.13 यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशि ।
8.023.13 विश्वेदग्निः प्रति रक्षांसि सेधति ॥
8.023.14 श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
8.023.14 नि मायिनस्तपुषा रक्षसो दह ॥
8.023.15 न तस्य मायया चन रिपुरीशीत मर्त्यः ।
8.023.15 यो अग्नये ददाश हव्यदातिभिः ॥
8.023.16 व्यश्वस्त्वा वसुविदमुक्षण्युरप्रीणादृषिः ।
8.023.16 महो राये तमु त्वा समिधीमहि ॥
8.023.17 उशना काव्यस्त्वा नि होतारमसादयत् ।
8.023.17 आयजिं त्वा मनवे जातवेदसम् ॥
8.023.18 विश्वे हि त्वा सजोषसो देवासो दूतमक्रत ।
8.023.18 श्रुष्टी देव प्रथमो यज्ञियो भुवः ॥
8.023.19 इमं घा वीरो अमृतं दूतं कृण्वीत मर्त्यः ।
8.023.19 पावकं कृष्णवर्तनिं विहायसम् ॥
8.023.20 तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम् ।
8.023.20 विशामग्निमजरं प्रत्नमीड्यम् ॥
8.023.21 यो अस्मै हव्यदातिभिराहुतिं मर्तोऽविधत् ।
8.023.21 भूरि पोषं स धत्ते वीरवद्यशः ॥
8.023.22 प्रथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम् ।
8.023.22 प्रति स्रुगेति नमसा हविष्मती ॥
8.023.23 आभिर्विधेमाग्नये ज्येष्ठाभिर्व्यश्ववत् ।
8.023.23 मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे ॥
8.023.24 नूनमर्च विहायसे स्तोमेभि स्थूरयूपवत् ।
8.023.24 ऋषे वैयश्व दम्यायाग्नये ॥
8.023.25 अतिथिं मानुषाणां सूनुं वनस्पतीनाम् ।
8.023.25 विप्रा अग्निमवसे प्रत्नमीळते ॥
8.023.26 महो विश्वां अभि षतोऽभि हव्यानि मानुषा ।
8.023.26 अग्ने नि षत्सि नमसाधि बर्हिषि ॥
8.023.27 वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्पृहः ।
8.023.27 सुवीर्यस्य प्रजावतो यशस्वतः ॥
8.023.28 त्वं वरो सुषाम्णेऽग्ने जनाय चोदय ।
8.023.28 सदा वसो रातिं यविष्ठ शश्वते ॥
8.023.29 त्वं हि सुप्रतूरसि त्वं नो गोमतीरिषः ।
8.023.29 महो रायः सातिमग्ने अपा वृधि ॥
8.023.30 अग्ने त्वं यशा अस्या मित्रावरुणा वह ।
8.023.30 ऋतावाना सम्राजा पूतदक्षसा ॥

8.024.01 सखाय आ शिषामहि ब्रह्मेन्द्राय वज्रिणे ।
8.024.01 स्तुष ऊ षु वो नृतमाय धृष्णवे ॥
8.024.02 शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा ।
8.024.02 मघैर्मघोनो अति शूर दाशसि ॥
8.024.03 स न स्तवान आ भर रयिं चित्रश्रवस्तमम् ।
8.024.03 निरेके चिद्यो हरिवो वसुर्ददिः ॥
8.024.04 आ निरेकमुत प्रियमिन्द्र दर्षि जनानाम् ।
8.024.04 धृषता धृष्णो स्तवमान आ भर ॥
8.024.05 न ते सव्यं न दक्षिणं हस्तं वरन्त आमुरः ।
8.024.05 न परिबाधो हरिवो गविष्टिषु ॥
8.024.06 आ त्वा गोभिरिव व्रजं गीर्भिरृणोम्यद्रिवः ।
8.024.06 आ स्मा कामं जरितुरा मनः पृण ॥
8.024.07 विश्वानि विश्वमनसो धिया नो वृत्रहन्तम ।
8.024.07 उग्र प्रणेतरधि षू वसो गहि ॥
8.024.08 वयं ते अस्य वृत्रहन्विद्याम शूर नव्यसः ।
8.024.08 वसो स्पार्हस्य पुरुहूत राधसः ॥
8.024.09 इन्द्र यथा ह्यस्ति तेऽपरीतं नृतो शवः ।
8.024.09 अमृक्ता रातिः पुरुहूत दाशुषे ॥
8.024.10 आ वृषस्व महामह महे नृतम राधसे ।
8.024.10 दृळ्हश्चिद्दृह्य मघवन्मघत्तये ॥
8.024.11 नू अन्यत्रा चिदद्रिवस्त्वन्नो जग्मुराशसः ।
8.024.11 मघवञ्छग्धि तव तन्न ऊतिभिः ॥
8.024.12 नह्यङ्ग नृतो त्वदन्यं विन्दामि राधसे ।
8.024.12 राये द्युम्नाय शवसे च गिर्वणः ॥
8.024.13 एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।
8.024.13 प्र राधसा चोदयाते महित्वना ॥
8.024.14 उपो हरीणां पतिं दक्षं पृञ्चन्तमब्रवम् ।
8.024.14 नूनं श्रुधि स्तुवतो अश्व्यस्य ॥
8.024.15 नह्यङ्ग पुरा चन जज्ञे वीरतरस्त्वत् ।
8.024.15 नकी राया नैवथा न भन्दना ॥
8.024.16 एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः ।
8.024.16 एवा हि वीर स्तवते सदावृधः ॥
8.024.17 इन्द्र स्थातर्हरीणां नकिष्टे पूर्व्यस्तुतिम् ।
8.024.17 उदानंश शवसा न भन्दना ॥
8.024.18 तं वो वाजानां पतिमहूमहि श्रवस्यवः ।
8.024.18 अप्रायुभिर्यज्ञेभिर्वावृधेन्यम् ॥
8.024.19 एतो न्विन्द्रं स्तवाम सखाय स्तोम्यं नरम् ।
8.024.19 कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥
8.024.20 अगोरुधाय गविषे द्युक्षाय दस्म्यं वचः ।
8.024.20 घृतात्स्वादीयो मधुनश्च वोचत ॥
8.024.21 यस्यामितानि वीर्या न राधः पर्येतवे ।
8.024.21 ज्योतिर्न विश्वमभ्यस्ति दक्षिणा ॥
8.024.22 स्तुहीन्द्रं व्यश्ववदनूर्मिं वाजिनं यमम् ।
8.024.22 अर्यो गयं मंहमानं वि दाशुषे ॥
8.024.23 एवा नूनमुप स्तुहि वैयश्व दशमं नवम् ।
8.024.23 सुविद्वांसं चर्कृत्यं चरणीनाम् ॥
8.024.24 वेत्था हि निरृतीनां वज्रहस्त परिवृजम् ।
8.024.24 अहरहः शुन्ध्युः परिपदामिव ॥
8.024.25 तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने ।
8.024.25 द्विता कुत्साय शिश्नथो नि चोदय ॥
8.024.26 तमु त्वा नूनमीमहे नव्यं दंसिष्ठ सन्यसे ।
8.024.26 स त्वं नो विश्वा अभिमातीः सक्षणिः ॥
8.024.27 य ऋक्षादंहसो मुचद्यो वार्यात्सप्त सिन्धुषु ।
8.024.27 वधर्दासस्य तुविनृम्ण नीनमः ॥
8.024.28 यथा वरो सुषाम्णे सनिभ्य आवहो रयिम् ।
8.024.28 व्यश्वेभ्यः सुभगे वाजिनीवति ॥
8.024.29 आ नार्यस्य दक्षिणा व्यश्वां एतु सोमिनः ।
8.024.29 स्थूरं च राधः शतवत्सहस्रवत् ॥
8.024.30 यत्त्वा पृच्छादीजानः कुहया कुहयाकृते ।
8.024.30 एषो अपश्रितो वलो गोमतीमव तिष्ठति ॥

8.025.01 ता वां विश्वस्य गोपा देवा देवेषु यज्ञिया ।
8.025.01 ऋतावाना यजसे पूतदक्षसा ॥
8.025.02 मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः ।
8.025.02 सनात्सुजाता तनया धृतव्रता ॥
8.025.03 ता माता विश्ववेदसासुर्याय प्रमहसा ।
8.025.03 मही जजानादितिरृतावरी ॥
8.025.04 महान्ता मित्रावरुणा सम्राजा देवावसुरा ।
8.025.04 ऋतावानावृतमा घोषतो बृहत् ॥
8.025.05 नपाता शवसो महः सूनू दक्षस्य सुक्रतू ।
8.025.05 सृप्रदानू इषो वास्त्वधि क्षितः ॥
8.025.06 सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः ।
8.025.06 नभस्वतीरा वां चरन्तु वृष्टयः ॥
8.025.07 अधि या बृहतो दिवोऽभि यूथेव पश्यतः ।
8.025.07 ऋतावाना सम्राजा नमसे हिता ॥
8.025.08 ऋतावाना नि षेदतुः साम्राज्याय सुक्रतू ।
8.025.08 धृतव्रता क्षत्रिया क्षत्रमाशतुः ॥
8.025.09 अक्ष्णश्चिद्गातुवित्तरानुल्बणेन चक्षसा ।
8.025.09 नि चिन्मिषन्ता निचिरा नि चिक्यतुः ॥
8.025.10 उत नो देव्यदितिरुरुष्यतां नासत्या ।
8.025.10 उरुष्यन्तु मरुतो वृद्धशवसः ॥
8.025.11 ते नो नावमुरुष्यत दिवा नक्तं सुदानवः ।
8.025.11 अरिष्यन्तो नि पायुभिः सचेमहि ॥
8.025.12 अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे ।
8.025.12 श्रुधि स्वयावन्सिन्धो पूर्वचित्तये ॥
8.025.13 तद्वार्यं वृणीमहे वरिष्ठं गोपयत्यम् ।
8.025.13 मित्रो यत्पान्ति वरुणो यदर्यमा ॥
8.025.14 उत नः सिन्धुरपां तन्मरुतस्तदश्विना ।
8.025.14 इन्द्रो विष्णुर्मीढ्वांसः सजोषसः ॥
8.025.15 ते हि ष्मा वनुषो नरोऽभिमातिं कयस्य चित् ।
8.025.15 तिग्मं न क्षोदः प्रतिघ्नन्ति भूर्णयः ॥
8.025.16 अयमेक इत्था पुरूरु चष्टे वि विश्पतिः ।
8.025.16 तस्य व्रतान्यनु वश्चरामसि ॥
8.025.17 अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम ।
8.025.17 मित्रस्य व्रता वरुणस्य दीर्घश्रुत् ॥
8.025.18 परि यो रश्मिना दिवोऽन्तान्ममे पृथिव्याः ।
8.025.18 उभे आ पप्रौ रोदसी महित्वा ॥
8.025.19 उदु ष्य शरणे दिवो ज्योतिरयंस्त सूर्यः ।
8.025.19 अग्निर्न शुक्रः समिधान आहुतः ॥
8.025.20 वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः ।
8.025.20 ईशे हि पित्वोऽविषस्य दावने ॥
8.025.21 तत्सूर्यं रोदसी उभे दोषा वस्तोरुप ब्रुवे ।
8.025.21 भोजेष्वस्मां अभ्युच्चरा सदा ॥
8.025.22 ऋज्रमुक्षण्यायने रजतं हरयाणे ।
8.025.22 रथं युक्तमसनाम सुषामणि ॥
8.025.23 ता मे अश्व्यानां हरीणां नितोशना ।
8.025.23 उतो नु कृत्व्यानां नृवाहसा ॥
8.025.24 स्मदभीशू कशावन्ता विप्रा नविष्ठया मती ।
8.025.24 महो वाजिनावर्वन्ता सचासनम् ॥

8.026.01 युवोरु षू रथं हुवे सधस्तुत्याय सूरिषु ।
8.026.01 अतूर्तदक्षा वृषणा वृषण्वसू ॥
8.026.02 युवं वरो सुषाम्णे महे तने नासत्या ।
8.026.02 अवोभिर्याथो वृषणा वृषण्वसू ॥
8.026.03 ता वामद्य हवामहे हव्येभिर्वाजिनीवसू ।
8.026.03 पूर्वीरिष इषयन्तावति क्षपः ॥
8.026.04 आ वां वाहिष्ठो अश्विना रथो यातु श्रुतो नरा ।
8.026.04 उप स्तोमान्तुरस्य दर्शथः श्रिये ॥
8.026.05 जुहुराणा चिदश्विना मन्येथां वृषण्वसू ।
8.026.05 युवं हि रुद्रा पर्षथो अति द्विषः ॥
8.026.06 दस्रा हि विश्वमानुषङ्मक्षूभिः परिदीयथः ।
8.026.06 धियञ्जिन्वा मधुवर्णा शुभस्पती ॥
8.026.07 उप नो यातमश्विना राया विश्वपुषा सह ।
8.026.07 मघवाना सुवीरावनपच्युता ॥
8.026.08 आ मे अस्य प्रतीव्यमिन्द्रनासत्या गतम् ।
8.026.08 देवा देवेभिरद्य सचनस्तमा ॥
8.026.09 वयं हि वां हवामह उक्षण्यन्तो व्यश्ववत् ।
8.026.09 सुमतिभिरुप विप्राविहा गतम् ॥
8.026.10 अश्विना स्वृषे स्तुहि कुवित्ते श्रवतो हवम् ।
8.026.10 नेदीयसः कूळयातः पणींरुत ॥
8.026.11 वैयश्वस्य श्रुतं नरोतो मे अस्य वेदथः ।
8.026.11 सजोषसा वरुणो मित्रो अर्यमा ॥
8.026.12 युवादत्तस्य धिष्ण्या युवानीतस्य सूरिभिः ।
8.026.12 अहरहर्वृषण मह्यं शिक्षतम् ॥
8.026.13 यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव ।
8.026.13 सपर्यन्ता शुभे चक्राते अश्विना ॥
8.026.14 यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् ।
8.026.14 वर्तिरश्विना परि यातमस्मयू ॥
8.026.15 अस्मभ्यं सु वृषण्वसू यातं वर्तिर्नृपाय्यम् ।
8.026.15 विषुद्रुहेव यज्ञमूहथुर्गिरा ॥
8.026.16 वाहिष्ठो वां हवानां स्तोमो दूतो हुवन्नरा ।
8.026.16 युवाभ्यां भूत्वश्विना ॥
8.026.17 यददो दिवो अर्णव इषो वा मदथो गृहे ।
8.026.17 श्रुतमिन्मे अमर्त्या ॥
8.026.18 उत स्या श्वेतयावरी वाहिष्ठा वां नदीनाम् ।
8.026.18 सिन्धुर्हिरण्यवर्तनिः ॥
8.026.19 स्मदेतया सुकीर्त्याश्विना श्वेतया धिया ।
8.026.19 वहेथे शुभ्रयावाना ॥
8.026.20 युक्ष्वा हि त्वं रथासहा युवस्व पोष्या वसो ।
8.026.20 आन्नो वायो मधु पिबास्माकं सवना गहि ॥
8.026.21 तव वायवृतस्पते त्वष्टुर्जामातरद्भुत ।
8.026.21 अवांस्या वृणीमहे ॥
8.026.22 त्वष्टुर्जामातरं वयमीशानं राय ईमहे ।
8.026.22 सुतावन्तो वायुं द्युम्ना जनासः ॥
8.026.23 वायो याहि शिवा दिवो वहस्वा सु स्वश्व्यम् ।
8.026.23 वहस्व महः पृथुपक्षसा रथे ॥
8.026.24 त्वां हि सुप्सरस्तमं नृषदनेषु हूमहे ।
8.026.24 ग्रावाणं नाश्वपृष्ठं मंहना ॥
8.026.25 स त्वं नो देव मनसा वायो मन्दानो अग्रियः ।
8.026.25 कृधि वाजां अपो धियः ॥

8.027.01 अग्निरुक्थे पुरोहितो ग्रावाणो बर्हिरध्वरे ।
8.027.01 ऋचा यामि मरुतो ब्रह्मणस्पतिं देवां अवो वरेण्यम् ॥
8.027.02 आ पशुं गासि पृथिवीं वनस्पतीनुषासा नक्तमोषधीः ।
8.027.02 विश्वे च नो वसवो विश्ववेदसो धीनां भूत प्रावितारः ॥
8.027.03 प्र सू न एत्वध्वरोऽग्ना देवेषु पूर्व्यः ।
8.027.03 आदित्येषु प्र वरुणे धृतव्रते मरुत्सु विश्वभानुषु ॥
8.027.04 विश्वे हि ष्मा मनवे विश्ववेदसो भुवन्वृधे रिशादसः ।
8.027.04 अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नोऽवृकं छर्दिः ॥
8.027.05 आ नो अद्य समनसो गन्ता विश्वे सजोषसः ।
8.027.05 ऋचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि ॥
8.027.06 अभि प्रिया मरुतो या वो अश्व्या हव्या मित्र प्रयाथन ।
8.027.06 आ बर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासः सदन्तु नः ॥
8.027.07 वयं वो वृक्तबर्हिषो हितप्रयस आनुषक् ।
8.027.07 सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः ॥
8.027.08 आ प्र यात मरुतो विष्णो अश्विना पूषन्माकीनया धिया ।
8.027.08 इन्द्र आ यातु प्रथमः सनिष्युभिर्वृषा यो वृत्रहा गृणे ॥
8.027.09 वि नो देवासो अद्रुहोऽच्छिद्रं शर्म यच्छत ।
8.027.09 न यद्दूराद्वसवो नू चिदन्तितो वरूथमादधर्षति ॥
8.027.10 अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् ।
8.027.10 प्र णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे ॥
8.027.11 इदा हि व उपस्तुतिमिदा वामस्य भक्तये ।
8.027.11 उप वो विश्ववेदसो नमस्युरां असृक्ष्यन्यामिव ॥
8.027.12 उदु ष्य वः सविता सुप्रणीतयोऽस्थादूर्ध्वो वरेण्यः ।
8.027.12 नि द्विपादश्चतुष्पादो अर्थिनोऽविश्रन्पतयिष्णवः ॥
8.027.13 देवंदेवं वोऽवसे देवंदेवमभिष्टये ।
8.027.13 देवंदेवं हुवेम वाजसातये गृणन्तो देव्या धिया ॥
8.027.14 देवासो हि ष्मा मनवे समन्यवो विश्वे साकं सरातयः ।
8.027.14 ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः ॥
8.027.15 प्र वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम् ।
8.027.15 न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्योऽविधत् ॥
8.027.16 प्र स क्षयं तिरते वि महीरिषो यो वो वराय दाशति ।
8.027.16 प्र प्रजाभिर्जायते धर्मणस्पर्यरिष्टः सर्व एधते ॥
8.027.17 ऋते स विन्दते युधः सुगेभिर्यात्यध्वनः ।
8.027.17 अर्यमा मित्रो वरुणः सरातयो यं त्रायन्ते सजोषसः ॥
8.027.18 अज्रे चिदस्मै कृणुथा न्यञ्चनं दुर्गे चिदा सुसरणम् ।
8.027.18 एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु ॥
8.027.19 यदद्य सूर्य उद्यति प्रियक्षत्रा ऋतं दध ।
8.027.19 यन्निम्रुचि प्रबुधि विश्ववेदसो यद्वा मध्यन्दिने दिवः ॥
8.027.20 यद्वाभिपित्वे असुरा ऋतं यते छर्दिर्येम वि दाशुषे ।
8.027.20 वयं तद्वो वसवो विश्ववेदस उप स्थेयाम मध्य आ ॥
8.027.21 यदद्य सूर उदिते यन्मध्यन्दिन आतुचि ।
8.027.21 वामं धत्थ मनवे विश्ववेदसो जुह्वानाय प्रचेतसे ॥
8.027.22 वयं तद्वः सम्राज आ वृणीमहे पुत्रो न बहुपाय्यम् ।
8.027.22 अश्याम तदादित्या जुह्वतो हविर्येन वस्योऽनशामहै ॥

8.028.01 ये त्रिंशति त्रयस्परो देवासो बर्हिरासदन् ।
8.028.01 विदन्नह द्वितासनन् ॥
8.028.02 वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नयः ।
8.028.02 पत्नीवन्तो वषट्कृताः ॥
8.028.03 ते नो गोपा अपाच्यास्त उदक्त इत्था न्यक् ।
8.028.03 पुरस्तात्सर्वया विशा ॥
8.028.04 यथा वशन्ति देवास्तथेदसत्तदेषां नकिरा मिनत् ।
8.028.04 अरावा चन मर्त्यः ॥
8.028.05 सप्तानां सप्त ऋष्टयः सप्त द्युम्नान्येषाम् ।
8.028.05 सप्तो अधि श्रियो धिरे ॥

8.029.01 बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङ्क्ते हिरण्ययम् ॥
8.029.02 योनिमेक आ ससाद द्योतनोऽन्तर्देवेषु मेधिरः ॥
8.029.03 वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः ॥
8.029.04 वज्रमेको बिभर्ति हस्त आहितं तेन वृत्राणि जिघ्नते ॥
8.029.05 तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः ॥
8.029.06 पथ एकः पीपाय तस्करो यथां एष वेद निधीनाम् ॥
8.029.07 त्रीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति ॥
8.029.08 विभिर्द्वा चरत एकया सह प्र प्रवासेव वसतः ॥
8.029.09 सदो द्वा चक्राते उपमा दिवि सम्राजा सर्पिरासुती ॥
8.029.10 अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन् ॥

8.030.01 नहि वो अस्त्यर्भको देवासो न कुमारकः ।
8.030.01 विश्वे सतोमहान्त इत् ॥
8.030.02 इति स्तुतासो असथा रिशादसो ये स्थ त्रयश्च त्रिंशच्च ।
8.030.02 मनोर्देवा यज्ञियासः ॥
8.030.03 ते नस्त्राध्वं तेऽवत त उ नो अधि वोचत ।
8.030.03 मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः ॥
8.030.04 ये देवास इह स्थन विश्वे वैश्वानरा उत ।
8.030.04 अस्मभ्यं शर्म सप्रथो गवेऽश्वाय यच्छत ॥

8.031.01 यो यजाति यजात इत्सुनवच्च पचाति च ।
8.031.01 ब्रह्मेदिन्द्रस्य चाकनत् ॥
8.031.02 पुरोळाशं यो अस्मै सोमं ररत आशिरम् ।
8.031.02 पादित्तं शक्रो अंहसः ॥
8.031.03 तस्य द्युमां असद्रथो देवजूतः स शूशुवत् ।
8.031.03 विश्वा वन्वन्नमित्रिया ॥
8.031.04 अस्य प्रजावती गृहेऽसश्चन्ती दिवेदिवे ।
8.031.04 इळा धेनुमती दुहे ॥
8.031.05 या दम्पती समनसा सुनुत आ च धावतः ।
8.031.05 देवासो नित्ययाशिरा ॥
8.031.06 प्रति प्राशव्यां इतः सम्यञ्चा बर्हिराशाते ।
8.031.06 न ता वाजेषु वायतः ॥
8.031.07 न देवानामपि ह्नुतः सुमतिं न जुगुक्षतः ।
8.031.07 श्रवो बृहद्विवासतः ॥
8.031.08 पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः ।
8.031.08 उभा हिरण्यपेशसा ॥
8.031.09 वीतिहोत्रा कृतद्वसू दशस्यन्तामृताय कम् ।
8.031.09 समूधो रोमशं हतो देवेषु कृणुतो दुवः ॥
8.031.10 आ शर्म पर्वतानां वृणीमहे नदीनाम् ।
8.031.10 आ विष्णोः सचाभुवः ॥
8.031.11 ऐतु पूषा रयिर्भगः स्वस्ति सर्वधातमः ।
8.031.11 उरुरध्वा स्वस्तये ॥
8.031.12 अरमतिरनर्वणो विश्वो देवस्य मनसा ।
8.031.12 आदित्यानामनेह इत् ॥
8.031.13 यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः ।
8.031.13 सुगा ऋतस्य पन्थाः ॥
8.031.14 अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम् ।
8.031.14 सपर्यन्तः पुरुप्रियं मित्रं न क्षेत्रसाधसम् ॥
8.031.15 मक्षू देववतो रथः शूरो वा पृत्सु कासु चित् ।
8.031.15 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
8.031.16 न यजमान रिष्यसि न सुन्वान न देवयो ।
8.031.16 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
8.031.17 नकिष्टं कर्मणा नशन्न प्र योषन्न योषति ।
8.031.17 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥
8.031.18 असदत्र सुवीर्यमुत त्यदाश्वश्व्यम् ।
8.031.18 देवानां य इन्मनो यजमान इयक्षत्यभीदयज्वनो भुवत् ॥

8.032.01 प्र कृतान्यृजीषिणः कण्वा इन्द्रस्य गाथया ।
8.032.01 मदे सोमस्य वोचत ॥
8.032.02 यः सृबिन्दमनर्शनिं पिप्रुं दासमहीशुवम् ।
8.032.02 वधीदुग्रो रिणन्नपः ॥
8.032.03 न्यर्बुदस्य विष्टपं वर्ष्माणं बृहतस्तिर ।
8.032.03 कृषे तदिन्द्र पौंस्यम् ॥
8.032.04 प्रति श्रुताय वो धृषत्तूर्णाशं न गिरेरधि ।
8.032.04 हुवे सुशिप्रमूतये ॥
8.032.05 स गोरश्वस्य वि व्रजं मन्दानः सोम्येभ्यः ।
8.032.05 पुरं न शूर दर्षसि ॥
8.032.06 यदि मे रारणः सुत उक्थे वा दधसे चनः ।
8.032.06 आरादुप स्वधा गहि ॥
8.032.07 वयं घा ते अपि ष्मसि स्तोतार इन्द्र गिर्वणः ।
8.032.07 त्वं नो जिन्व सोमपाः ॥
8.032.08 उत नः पितुमा भर संरराणो अविक्षितम् ।
8.032.08 मघवन्भूरि ते वसु ॥
8.032.09 उत नो गोमतस्कृधि हिरण्यवतो अश्विनः ।
8.032.09 इळाभिः सं रभेमहि ॥
8.032.10 बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
8.032.10 साधु कृण्वन्तमवसे ॥
8.032.11 यः संस्थे चिच्छतक्रतुरादीं कृणोति वृत्रहा ।
8.032.11 जरितृभ्यः पुरूवसुः ॥
8.032.12 स नः शक्रश्चिदा शकद्दानवां अन्तराभरः ।
8.032.12 इन्द्रो विश्वाभिरूतिभिः ॥
8.032.13 यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
8.032.13 तमिन्द्रमभि गायत ॥
8.032.14 आयन्तारं महि स्थिरं पृतनासु श्रवोजितम् ।
8.032.14 भूरेरीशानमोजसा ॥
8.032.15 नकिरस्य शचीनां नियन्ता सूनृतानाम् ।
8.032.15 नकिर्वक्ता न दादिति ॥
8.032.16 न नूनं ब्रह्मणामृणं प्राशूनामस्ति सुन्वताम् ।
8.032.16 न सोमो अप्रता पपे ॥
8.032.17 पन्य इदुप गायत पन्य उक्थानि शंसत ।
8.032.17 ब्रह्मा कृणोत पन्य इत् ॥
8.032.18 पन्य आ दर्दिरच्छता सहस्रा वाज्यवृतः ।
8.032.18 इन्द्रो यो यज्वनो वृधः ॥
8.032.19 वि षू चर स्वधा अनु कृष्टीनामन्वाहुवः ।
8.032.19 इन्द्र पिब सुतानाम् ॥
8.032.20 पिब स्वधैनवानामुत यस्तुग्र्ये सचा ।
8.032.20 उतायमिन्द्र यस्तव ॥
8.032.21 अतीहि मन्युषाविणं सुषुवांसमुपारणे ।
8.032.21 इमं रातं सुतं पिब ॥
8.032.22 इहि तिस्रः परावत इहि पञ्च जनां अति ।
8.032.22 धेना इन्द्रावचाकशत् ॥
8.032.23 सूर्यो रश्मिं यथा सृजा त्वा यच्छन्तु मे गिरः ।
8.032.23 निम्नमापो न सध्र्यक् ॥
8.032.24 अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे ।
8.032.24 भरा सुतस्य पीतये ॥
8.032.25 य उद्नः फलिगं भिनन्न्यक्सिन्धूंरवासृजत् ।
8.032.25 यो गोषु पक्वं धारयत् ॥
8.032.26 अहन्वृत्रमृचीषम और्णवाभमहीशुवम् ।
8.032.26 हिमेनाविध्यदर्बुदम् ॥
8.032.27 प्र व उग्राय निष्टुरेऽषाळ्हाय प्रसक्षिणे ।
8.032.27 देवत्तं ब्रह्म गायत ॥
8.032.28 यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः ।
8.032.28 इन्द्रो देवेषु चेतति ॥
8.032.29 इह त्या सधमाद्या हरी हिरण्यकेश्या ।
8.032.29 वोळ्हामभि प्रयो हितम् ॥
8.032.30 अर्वाञ्चं त्वा पुरुष्टुत प्रियमेधस्तुता हरी ।
8.032.30 सोमपेयाय वक्षतः ॥

8.033.01 वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
8.033.01 पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ॥
8.033.02 स्वरन्ति त्वा सुते नरो वसो निरेक उक्थिनः ।
8.033.02 कदा सुतं तृषाण ओक आ गम इन्द्र स्वब्दीव वंसगः ॥
8.033.03 कण्वेभिर्धृष्णवा धृषद्वाजं दर्षि सहस्रिणम् ।
8.033.03 पिशङ्गरूपं मघवन्विचर्षणे मक्षू गोमन्तमीमहे ॥
8.033.04 पाहि गायान्धसो मद इन्द्राय मेध्यातिथे ।
8.033.04 यः सम्मिश्लो हर्योर्यः सुते सचा वज्री रथो हिरण्ययः ॥
8.033.05 यः सुषव्यः सुदक्षिण इनो यः सुक्रतुर्गृणे ।
8.033.05 य आकरः सहस्रा यः शतामघ इन्द्रो यः पूर्भिदारितः ॥
8.033.06 यो धृषितो योऽवृतो यो अस्ति श्मश्रुषु श्रितः ।
8.033.06 विभूतद्युम्नश्च्यवनः पुरुष्टुतः क्रत्वा गौरिव शाकिनः ॥
8.033.07 क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।
8.033.07 अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्र्यन्धसः ॥
8.033.08 दाना मृगो न वारणः पुरुत्रा चरथं दधे ।
8.033.08 नकिष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥
8.033.09 य उग्रः सन्ननिष्टृत स्थिरो रणाय संस्कृतः ।
8.033.09 यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥
8.033.10 सत्यमित्था वृषेदसि वृषजूतिर्नोऽवृतः ।
8.033.10 वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥
8.033.11 वृषणस्ते अभीशवो वृषा कशा हिरण्ययी ।
8.033.11 वृषा रथो मघवन्वृषणा हरी वृषा त्वं शतक्रतो ॥
8.033.12 वृषा सोता सुनोतु ते वृषन्नृजीपिन्ना भर ।
8.033.12 वृषा दधन्वे वृषणं नदीष्वा तुभ्यं स्थातर्हरीणाम् ॥
8.033.13 एन्द्र याहि पीतये मधु शविष्ठ सोम्यम् ।
8.033.13 नायमच्छा मघवा शृणवद्गिरो ब्रह्मोक्था च सुक्रतुः ॥
8.033.14 वहन्तु त्वा रथेष्ठामा हरयो रथयुजः ।
8.033.14 तिरश्चिदर्यं सवनानि वृत्रहन्नन्येषां या शतक्रतो ॥
8.033.15 अस्माकमद्यान्तमं स्तोमं धिष्व महामह ।
8.033.15 अस्माकं ते सवना सन्तु शन्तमा मदाय द्युक्ष सोमपाः ॥
8.033.16 नहि षस्तव नो मम शास्त्रे अन्यस्य रण्यति ।
8.033.16 यो अस्मान्वीर आनयत् ॥
8.033.17 इन्द्रश्चिद्घा तदब्रवीत्स्त्रिया अशास्यं मनः ।
8.033.17 उतो अह क्रतुं रघुम् ॥
8.033.18 सप्ती चिद्घा मदच्युता मिथुना वहतो रथम् ।
8.033.18 एवेद्धूर्वृष्ण उत्तरा ॥
8.033.19 अधः पश्यस्व मोपरि संतरां पादकौ हर ।
8.033.19 मा ते कशप्लकौ दृशन्स्त्री हि ब्रह्मा बभूविथ ॥

8.034.01 एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिम् ।
8.034.01 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.02 आ त्वा ग्रावा वदन्निह सोमी घोषेण यच्छतु ।
8.034.02 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.03 अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।
8.034.03 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.04 आ त्वा कण्वा इहावसे हवन्ते वाजसातये ।
8.034.04 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.05 दधामि ते सुतानां वृष्णे न पूर्वपाय्यम् ।
8.034.05 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.06 स्मत्पुरन्धिर्न आ गहि विश्वतोधीर्न ऊतये ।
8.034.06 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.07 आ नो याहि महेमते सहस्रोते शतामघ ।
8.034.07 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.08 आ त्वा होता मनुर्हितो देवत्रा वक्षदीड्यः ।
8.034.08 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.09 आ त्वा मदच्युता हरी श्येनं पक्षेव वक्षतः ।
8.034.09 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.10 आ याह्यर्य आ परि स्वाहा सोमस्य पीतये ।
8.034.10 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.11 आ नो याह्युपश्रुत्युक्थेषु रणया इह ।
8.034.11 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.12 सरूपैरा सु नो गहि सम्भृतैः सम्भृताश्वः ।
8.034.12 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.13 आ याहि पर्वतेभ्यः समुद्रस्याधि विष्टपः ।
8.034.13 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.14 आ नो गव्यान्यश्व्या सहस्रा शूर दर्दृहि ।
8.034.14 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.15 आ नः सहस्रशो भरायुतानि शतानि च ।
8.034.15 दिवो अमुष्य शासतो दिवं यय दिवावसो ॥
8.034.16 आ यदिन्द्रश्च दद्वहे सहस्रं वसुरोचिषः ।
8.034.16 ओजिष्ठमश्व्यं पशुम् ॥
8.034.17 य ऋज्रा वातरंहसोऽरुषासो रघुष्यदः ।
8.034.17 भ्राजन्ते सूर्या इव ॥
8.034.18 पारावतस्य रातिषु द्रवच्चक्रेष्वाशुषु ।
8.034.18 तिष्ठं वनस्य मध्य आ ॥

8.035.01 अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।
8.035.01 सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
8.035.02 विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।
8.035.02 सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
8.035.03 विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।
8.035.03 सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥
8.035.04 जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।
8.035.04 सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
8.035.05 स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।
8.035.05 सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
8.035.06 गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।
8.035.06 सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥
8.035.07 हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।
8.035.07 सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
8.035.08 हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।
8.035.08 सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
8.035.09 श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।
8.035.09 सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥
8.035.10 पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
8.035.10 सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
8.035.11 जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।
8.035.11 सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
8.035.12 हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।
8.035.12 सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥
8.035.13 मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
8.035.13 सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
8.035.14 अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
8.035.14 सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
8.035.15 ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
8.035.15 सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥
8.035.16 ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
8.035.16 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
8.035.17 क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।
8.035.17 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
8.035.18 धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।
8.035.18 सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥
8.035.19 अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।
8.035.19 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
8.035.20 सर्गां इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।
8.035.20 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
8.035.21 रश्मींरिव यच्छतमध्वरां उप श्यावाश्वस्य सुन्वतो मदच्युता ।
8.035.21 सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥
8.035.22 अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।
8.035.22 आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
8.035.23 नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
8.035.23 आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥
8.035.24 स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।
8.035.24 आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥

8.036.01 अवितासि सुन्वतो वृक्तबर्हिषः पिबा सोमं मदाय कं शतक्रतो ।
8.036.01 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
8.036.02 प्राव स्तोतारं मघवन्नव त्वां पिबा सोमं मदाय कं शतक्रतो ।
8.036.02 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
8.036.03 ऊर्जा देवां अवस्योजसा त्वां पिबा सोमं मदाय कं शतक्रतो ।
8.036.03 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
8.036.04 जनिता दिवो जनिता पृथिव्याः पिबा सोमं मदाय कं शतक्रतो ।
8.036.04 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
8.036.05 जनिताश्वानां जनिता गवामसि पिबा सोमं मदाय कं शतक्रतो ।
8.036.05 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
8.036.06 अत्रीणां स्तोममद्रिवो महस्कृधि पिबा सोमं मदाय कं शतक्रतो ।
8.036.06 यं ते भागमधारयन्विश्वाः सेहानः पृतना उरु ज्रयः समप्सुजिन्मरुत्वां इन्द्र सत्पते ॥
8.036.07 श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
8.036.07 प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥

8.037.01 प्रेदं ब्रह्म वृत्रतूर्येष्वाविथ प्र सुन्वतः शचीपत इन्द्र विश्वाभिरूतिभिः ।
8.037.01 माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
8.037.02 सेहान उग्र पृतना अभि द्रुहः शचीपत इन्द्र विश्वाभिरूतिभिः ।
8.037.02 माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
8.037.03 एकराळ् अस्य भुवनस्य राजसि शचीपत इन्द्र विश्वाभिरूतिभिः ।
8.037.03 माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
8.037.04 सस्थावाना यवयसि त्वमेक इच्छचीपत इन्द्र विश्वाभिरूतिभिः ।
8.037.04 माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
8.037.05 क्षेमस्य च प्रयुजश्च त्वमीशिषे शचीपत इन्द्र विश्वाभिरूतिभिः ।
8.037.05 माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
8.037.06 क्षत्राय त्वमवसि न त्वमाविथ शचीपत इन्द्र विश्वाभिरूतिभिः ।
8.037.06 माध्यन्दिनस्य सवनस्य वृत्रहन्ननेद्य पिबा सोमस्य वज्रिवः ॥
8.037.07 श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रेः कर्माणि कृण्वतः ।
8.037.07 प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥

8.038.01 यज्ञस्य हि स्थ ऋत्विजा सस्नी वाजेषु कर्मसु ।
8.038.01 इन्द्राग्नी तस्य बोधतम् ॥
8.038.02 तोशासा रथयावाना वृत्रहणापराजिता ।
8.038.02 इन्द्राग्नी तस्य बोधतम् ॥
8.038.03 इदं वां मदिरं मध्वधुक्षन्नद्रिभिर्नरः ।
8.038.03 इन्द्राग्नी तस्य बोधतम् ॥
8.038.04 जुषेथां यज्ञमिष्टये सुतं सोमं सधस्तुती ।
8.038.04 इन्द्राग्नी आ गतं नरा ॥
8.038.05 इमा जुषेथां सवना येभिर्हव्यान्यूहथुः ।
8.038.05 इन्द्राग्नी आ गतं नरा ॥
8.038.06 इमां गायत्रवर्तनिं जुषेथां सुष्टुतिं मम ।
8.038.06 इन्द्राग्नी आ गतं नरा ॥
8.038.07 प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू ।
8.038.07 इन्द्राग्नी सोमपीतये ॥
8.038.08 श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् ।
8.038.08 इन्द्राग्नी सोमपीतये ॥
8.038.09 एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
8.038.09 इन्द्राग्नी सोमपीतये ॥
8.038.10 आहं सरस्वतीवतोरिन्द्राग्न्योरवो वृणे ।
8.038.10 याभ्यां गायत्रमृच्यते ॥

8.039.01 अग्निमस्तोष्यृग्मियमग्निमीळा यजध्यै ।
8.039.01 अग्निर्देवां अनक्तु न उभे हि विदथे कविरन्तश्चरति दूत्यं नभन्तामन्यके समे ॥
8.039.02 न्यग्ने नव्यसा वचस्तनूषु शंसमेषाम् ।
8.039.02 न्यराती रराव्णां विश्वा अर्यो अरातीरितो युच्छन्त्वामुरो नभन्तामन्यके समे ॥
8.039.03 अग्ने मन्मानि तुभ्यं कं घृतं न जुह्व आसनि ।
8.039.03 स देवेषु प्र चिकिद्धि त्वं ह्यसि पूर्व्यः शिवो दूतो विवस्वतो नभन्तामन्यके समे ॥
8.039.04 तत्तदग्निर्वयो दधे यथायथा कृपण्यति ।
8.039.04 ऊर्जाहुतिर्वसूनां शं च योश्च मयो दधे विश्वस्यै देवहूत्यै नभन्तामन्यके समे ॥
8.039.05 स चिकेत सहीयसाग्निश्चित्रेण कर्मणा ।
8.039.05 स होता शश्वतीनां दक्षिणाभिरभीवृत इनोति च प्रतीव्यं नभन्तामन्यके समे ॥
8.039.06 अग्निर्जाता देवानामग्निर्वेद मर्तानामपीच्यम् ।
8.039.06 अग्निः स द्रविणोदा अग्निर्द्वारा व्यूर्णुते स्वाहुतो नवीयसा नभन्तामन्यके समे ॥
8.039.07 अग्निर्देवेषु संवसुः स विक्षु यज्ञियास्वा ।
8.039.07 स मुदा काव्या पुरु विश्वं भूमेव पुष्यति देवो देवेषु यज्ञियो नभन्तामन्यके समे ॥
8.039.08 यो अग्निः सप्तमानुषः श्रितो विश्वेषु सिन्धुषु ।
8.039.08 तमागन्म त्रिपस्त्यं मन्धातुर्दस्युहन्तममग्निं यज्ञेषु पूर्व्यं नभन्तामन्यके समे ॥
8.039.09 अग्निस्त्रीणि त्रिधातून्या क्षेति विदथा कविः ।
8.039.09 स त्रींरेकादशां इह यक्षच्च पिप्रयच्च नो विप्रो दूतः परिष्कृतो नभन्तामन्यके समे ॥
8.039.10 त्वं नो अग्न आयुषु त्वं देवेषु पूर्व्य वस्व एक इरज्यसि ।
8.039.10 त्वामापः परिस्रुतः परि यन्ति स्वसेतवो नभन्तामन्यके समे ॥

8.040.01 इन्द्राग्नी युवं सु नः सहन्ता दासथो रयिम् ।
8.040.01 येन दृळ्हा समत्स्वा वीळु चित्साहिषीमह्यग्निर्वनेव वात इन्नभन्तामन्यके समे ॥
8.040.02 नहि वां वव्रयामहेऽथेन्द्रमिद्यजामहे शविष्ठं नृणां नरम् ।
8.040.02 स नः कदा चिदर्वता गमदा वाजसातये गमदा मेधसातये नभन्तामन्यके समे ॥
8.040.03 ता हि मध्यं भराणामिन्द्राग्नी अधिक्षितः ।
8.040.03 ता उ कवित्वना कवी पृच्छ्यमाना सखीयते सं धीतमश्नुतं नरा नभन्तामन्यके समे ॥
8.040.04 अभ्यर्च नभाकवदिन्द्राग्नी यजसा गिरा ।
8.040.04 ययोर्विश्वमिदं जगदियं द्यौः पृथिवी मह्युपस्थे बिभृतो वसु नभन्तामन्यके समे ॥
8.040.05 प्र ब्रह्माणि नभाकवदिन्द्राग्निभ्यामिरज्यत ।
8.040.05 या सप्तबुध्नमर्णवं जिह्मबारमपोर्णुत इन्द्र ईशान ओजसा नभन्तामन्यके समे ॥
8.040.06 अपि वृश्च पुराणवद्व्रततेरिव गुष्पितमोजो दासस्य दम्भय ।
8.040.06 वयं तदस्य सम्भृतं वस्विन्द्रेण वि भजेमहि नभन्तामन्यके समे ॥
8.040.07 यदिन्द्राग्नी जना इमे विह्वयन्ते तना गिरा ।
8.040.07 अस्माकेभिर्नृभिर्वयं सासह्याम पृतन्यतो वनुयाम वनुष्यतो नभन्तामन्यके समे ॥
8.040.08 या नु श्वेताववो दिव उच्चरात उप द्युभिः ।
8.040.08 इन्द्राग्न्योरनु व्रतमुहाना यन्ति सिन्धवो यान्सीं बन्धादमुञ्चतां नभन्तामन्यके समे ॥
8.040.09 पूर्वीष्ट इन्द्रोपमातयः पूर्वीरुत प्रशस्तयः सूनो हिन्वस्य हरिवः ।
8.040.09 वस्वो वीरस्यापृचो या नु साधन्त नो धियो नभन्तामन्यके समे ॥
8.040.10 तं शिशीता सुवृक्तिभिस्त्वेषं सत्वानमृग्मियम् ।
8.040.10 उतो नु चिद्य ओजसा शुष्णस्याण्डानि भेदति जेषत्स्वर्वतीरपो नभन्तामन्यके समे ॥
8.040.11 तं शिशीता स्वध्वरं सत्यं सत्वानमृत्वियम् ।
8.040.11 उतो नु चिद्य ओहत आण्डा शुष्णस्य भेदत्यजैः स्वर्वतीरपो नभन्तामन्यके समे ॥
8.040.12 एवेन्द्राग्निभ्यां पितृवन्नवीयो मन्धातृवदङ्गिरस्वदवाचि ।
8.040.12 त्रिधातुना शर्मणा पातमस्मान्वयं स्याम पतयो रयीणाम् ॥

8.041.01 अस्मा ऊ षु प्रभूतये वरुणाय मरुद्भ्योऽर्चा विदुष्टरेभ्यः ।
8.041.01 यो धीता मानुषाणां पश्वो गा इव रक्षति नभन्तामन्यके समे ॥
8.041.02 तमू षु समना गिरा पितॄणां च मन्मभिः ।
8.041.02 नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्वसा स मध्यमो नभन्तामन्यके समे ॥
8.041.03 स क्षपः परि षस्वजे न्युस्रो मायया दधे स विश्वं परि दर्शतः ।
8.041.03 तस्य वेनीरनु व्रतमुषस्तिस्रो अवर्धयन्नभन्तामन्यके समे ॥
8.041.04 यः ककुभो निधारयः पृथिव्यामधि दर्शतः ।
8.041.04 स माता पूर्व्यं पदं तद्वरुणस्य सप्त्यं स हि गोपा इवेर्यो नभन्तामन्यके समे ॥
8.041.05 यो धर्ता भुवनानां य उस्राणामपीच्या वेद नामानि गुह्या ।
8.041.05 स कविः काव्या पुरु रूपं द्यौरिव पुष्यति नभन्तामन्यके समे ॥
8.041.06 यस्मिन्विश्वानि काव्या चक्रे नाभिरिव श्रिता ।
8.041.06 त्रितं जूती सपर्यत व्रजे गावो न संयुजे युजे अश्वां अयुक्षत नभन्तामन्यके समे ॥
8.041.07 य आस्वत्क आशये विश्वा जातान्येषाम् ।
8.041.07 परि धामानि मर्मृशद्वरुणस्य पुरो गये विश्वे देवा अनु व्रतं नभन्तामन्यके समे ॥
8.041.08 स समुद्रो अपीच्यस्तुरो द्यामिव रोहति नि यदासु यजुर्दधे ।
8.041.08 स माया अर्चिना पदास्तृणान्नाकमारुहन्नभन्तामन्यके समे ॥
8.041.09 यस्य श्वेता विचक्षणा तिस्रो भूमीरधिक्षितः ।
8.041.09 त्रिरुत्तराणि पप्रतुर्वरुणस्य ध्रुवं सदः स सप्तानामिरज्यति नभन्तामन्यके समे ॥
8.041.10 यः श्वेतां अधिनिर्णिजश्चक्रे कृष्णां अनु व्रता ।
8.041.10 स धाम पूर्व्यं ममे य स्कम्भेन वि रोदसी अजो न द्यामधारयन्नभन्तामन्यके समे ॥

8.042.01 अस्तभ्नाद्द्यामसुरो विश्ववेदा अमिमीत वरिमाणं पृथिव्याः ।
8.042.01 आसीदद्विश्वा भुवनानि सम्राड्विश्वेत्तानि वरुणस्य व्रतानि ॥
8.042.02 एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
8.042.02 स नः शर्म त्रिवरूथं वि यंसत्पातं नो द्यावापृथिवी उपस्थे ॥
8.042.03 इमां धियं शिक्षमाणस्य देव क्रतुं दक्षं वरुण सं शिशाधि ।
8.042.03 ययाति विश्वा दुरिता तरेम सुतर्माणमधि नावं रुहेम ॥
8.042.04 आ वां ग्रावाणो अश्विना धीभिर्विप्रा अचुच्यवुः ।
8.042.04 नासत्या सोमपीतये नभन्तामन्यके समे ॥
8.042.05 यथा वामत्रिरश्विना गीर्भिर्विप्रो अजोहवीत् ।
8.042.05 नासत्या सोमपीतये नभन्तामन्यके समे ॥
8.042.06 एवा वामह्व ऊतये यथाहुवन्त मेधिराः ।
8.042.06 नासत्या सोमपीतये नभन्तामन्यके समे ॥

8.043.01 इमे विप्रस्य वेधसोऽग्नेरस्तृतयज्वनः ।
8.043.01 गिर स्तोमास ईरते ॥
8.043.02 अस्मै ते प्रतिहर्यते जातवेदो विचर्षणे ।
8.043.02 अग्ने जनामि सुष्टुतिम् ॥
8.043.03 आरोका इव घेदह तिग्मा अग्ने तव त्विषः ।
8.043.03 दद्भिर्वनानि बप्सति ॥
8.043.04 हरयो धूमकेतवो वातजूता उप द्यवि ।
8.043.04 यतन्ते वृथगग्नयः ॥
8.043.05 एते त्ये वृथगग्नय इद्धासः समदृक्षत ।
8.043.05 उषसामिव केतवः ॥
8.043.06 कृष्णा रजांसि पत्सुतः प्रयाणे जातवेदसः ।
8.043.06 अग्निर्यद्रोधति क्षमि ॥
8.043.07 धासिं कृण्वान ओषधीर्बप्सदग्निर्न वायति ।
8.043.07 पुनर्यन्तरुणीरपि ॥
8.043.08 जिह्वाभिरह नन्नमदर्चिषा जञ्जणाभवन् ।
8.043.08 अग्निर्वनेषु रोचते ॥
8.043.09 अप्स्वग्ने सधिष्टव सौषधीरनु रुध्यसे ।
8.043.09 गर्भे सञ्जायसे पुनः ॥
8.043.10 उदग्ने तव तद्घृतादर्ची रोचत आहुतम् ।
8.043.10 निंसानं जुह्वो मुखे ॥
8.043.11 उक्षान्नाय वशान्नाय सोमपृष्ठाय वेधसे ।
8.043.11 स्तोमैर्विधेमाग्नये ॥
8.043.12 उत त्वा नमसा वयं होतर्वरेण्यक्रतो ।
8.043.12 अग्ने समिद्भिरीमहे ॥
8.043.13 उत त्वा भृगुवच्छुचे मनुष्वदग्न आहुत ।
8.043.13 अङ्गिरस्वद्धवामहे ॥
8.043.14 त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन्सता ।
8.043.14 सखा सख्या समिध्यसे ॥
8.043.15 स त्वं विप्राय दाशुषे रयिं देहि सहस्रिणम् ।
8.043.15 अग्ने वीरवतीमिषम् ॥
8.043.16 अग्ने भ्रातः सहस्कृत रोहिदश्व शुचिव्रत ।
8.043.16 इमं स्तोमं जुषस्व मे ॥
8.043.17 उत त्वाग्ने मम स्तुतो वाश्राय प्रतिहर्यते ।
8.043.17 गोष्ठं गाव इवाशत ॥
8.043.18 तुभ्यं ता अङ्गिरस्तम विश्वाः सुक्षितयः पृथक् ।
8.043.18 अग्ने कामाय येमिरे ॥
8.043.19 अग्निं धीभिर्मनीषिणो मेधिरासो विपश्चितः ।
8.043.19 अद्मसद्याय हिन्विरे ॥
8.043.20 तं त्वामज्मेषु वाजिनं तन्वाना अग्ने अध्वरम् ।
8.043.20 वह्निं होतारमीळते ॥
8.043.21 पुरुत्रा हि सदृङ्ङसि विशो विश्वा अनु प्रभुः ।
8.043.21 समत्सु त्वा हवामहे ॥
8.043.22 तमीळिष्व य आहुतोऽग्निर्विभ्राजते घृतैः ।
8.043.22 इमं नः शृणवद्धवम् ॥
8.043.23 तं त्वा वयं हवामहे शृण्वन्तं जातवेदसम् ।
8.043.23 अग्ने घ्नन्तमप द्विषः ॥
8.043.24 विशां राजानमद्भुतमध्यक्षं धर्मणामिमम् ।
8.043.24 अग्निमीळे स उ श्रवत् ॥
8.043.25 अग्निं विश्वायुवेपसं मर्यं न वाजिनं हितम् ।
8.043.25 सप्तिं न वाजयामसि ॥
8.043.26 घ्नन्मृध्राण्यप द्विषो दहन्रक्षांसि विश्वहा ।
8.043.26 अग्ने तिग्मेन दीदिहि ॥
8.043.27 यं त्वा जनास इन्धते मनुष्वदङ्गिरस्तम ।
8.043.27 अग्ने स बोधि मे वचः ॥
8.043.28 यदग्ने दिविजा अस्यप्सुजा वा सहस्कृत ।
8.043.28 तं त्वा गीर्भिर्हवामहे ॥
8.043.29 तुभ्यं घेत्ते जना इमे विश्वाः सुक्षितयः पृथक् ।
8.043.29 धासिं हिन्वन्त्यत्तवे ॥
8.043.30 ते घेदग्ने स्वाध्योऽहा विश्वा नृचक्षसः ।
8.043.30 तरन्तः स्याम दुर्गहा ॥
8.043.31 अग्निं मन्द्रं पुरुप्रियं शीरं पावकशोचिषम् ।
8.043.31 हृद्भिर्मन्द्रेभिरीमहे ॥
8.043.32 स त्वमग्ने विभावसुः सृजन्सूर्यो न रश्मिभिः ।
8.043.32 शर्धन्तमांसि जिघ्नसे ॥
8.043.33 तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति ।
8.043.33 त्वदग्ने वार्यं वसु ॥

8.044.01 समिधाग्निं दुवस्यत घृतैर्बोधयतातिथिम् ।
8.044.01 आस्मिन्हव्या जुहोतन ॥
8.044.02 अग्ने स्तोमं जुषस्व मे वर्धस्वानेन मन्मना ।
8.044.02 प्रति सूक्तानि हर्य नः ॥
8.044.03 अग्निं दूतं पुरो दधे हव्यवाहमुप ब्रुवे ।
8.044.03 देवां आ सादयादिह ॥
8.044.04 उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।
8.044.04 अग्ने शुक्रास ईरते ॥
8.044.05 उप त्वा जुह्वो मम घृताचीर्यन्तु हर्यत ।
8.044.05 अग्ने हव्या जुषस्व नः ॥
8.044.06 मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुम् ।
8.044.06 अग्निमीळे स उ श्रवत् ॥
8.044.07 प्रत्नं होतारमीड्यं जुष्टमग्निं कविक्रतुम् ।
8.044.07 अध्वराणामभिश्रियम् ॥
8.044.08 जुषाणो अङ्गिरस्तमेमा हव्यान्यानुषक् ।
8.044.08 अग्ने यज्ञं नय ऋतुथा ॥
8.044.09 समिधान उ सन्त्य शुक्रशोच इहा वह ।
8.044.09 चिकित्वान्दैव्यं जनम् ॥
8.044.10 विप्रं होतारमद्रुहं धूमकेतुं विभावसुम् ।
8.044.10 यज्ञानां केतुमीमहे ॥
8.044.11 अग्ने नि पाहि नस्त्वं प्रति ष्म देव रीषतः ।
8.044.11 भिन्धि द्वेषः सहस्कृत ॥
8.044.12 अग्निः प्रत्नेन मन्मना शुम्भानस्तन्वं स्वाम् ।
8.044.12 कविर्विप्रेण वावृधे ॥
8.044.13 ऊर्जो नपातमा हुवेऽग्निं पावकशोचिषम् ।
8.044.13 अस्मिन्यज्ञे स्वध्वरे ॥
8.044.14 स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।
8.044.14 देवैरा सत्सि बर्हिषि ॥
8.044.15 यो अग्निं तन्वो दमे देवं मर्तः सपर्यति ।
8.044.15 तस्मा इद्दीदयद्वसु ॥
8.044.16 अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम् ।
8.044.16 अपां रेतांसि जिन्वति ॥
8.044.17 उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।
8.044.17 तव ज्योतींष्यर्चयः ॥
8.044.18 ईशिषे वार्यस्य हि दात्रस्याग्ने स्वर्पतिः ।
8.044.18 स्तोता स्यां तव शर्मणि ॥
8.044.19 त्वामग्ने मनीषिणस्त्वां हिन्वन्ति चित्तिभिः ।
8.044.19 त्वां वर्धन्तु नो गिरः ॥
8.044.20 अदब्धस्य स्वधावतो दूतस्य रेभतः सदा ।
8.044.20 अग्नेः सख्यं वृणीमहे ॥
8.044.21 अग्निः शुचिव्रततमः शुचिर्विप्रः शुचिः कविः ।
8.044.21 शुची रोचत आहुतः ॥
8.044.22 उत त्वा धीतयो मम गिरो वर्धन्तु विश्वहा ।
8.044.22 अग्ने सख्यस्य बोधि नः ॥
8.044.23 यदग्ने स्यामहं त्वं त्वं वा घा स्या अहम् ।
8.044.23 स्युष्टे सत्या इहाशिषः ॥
8.044.24 वसुर्वसुपतिर्हि कमस्यग्ने विभावसुः ।
8.044.24 स्याम ते सुमतावपि ॥
8.044.25 अग्ने धृतव्रताय ते समुद्रायेव सिन्धवः ।
8.044.25 गिरो वाश्रास ईरते ॥
8.044.26 युवानं विश्पतिं कविं विश्वादं पुरुवेपसम् ।
8.044.26 अग्निं शुम्भामि मन्मभिः ॥
8.044.27 यज्ञानां रथ्ये वयं तिग्मजम्भाय वीळवे ।
8.044.27 स्तोमैरिषेमाग्नये ॥
8.044.28 अयमग्ने त्वे अपि जरिता भूतु सन्त्य ।
8.044.28 तस्मै पावक मृळय ॥
8.044.29 धीरो ह्यस्यद्मसद्विप्रो न जागृविः सदा ।
8.044.29 अग्ने दीदयसि द्यवि ॥
8.044.30 पुराग्ने दुरितेभ्यः पुरा मृध्रेभ्यः कवे ।
8.044.30 प्र ण आयुर्वसो तिर ॥

8.045.01 आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
8.045.01 येषामिन्द्रो युवा सखा ॥
8.045.02 बृहन्निदिध्म एषां भूरि शस्तं पृथुः स्वरुः ।
8.045.02 येषामिन्द्रो युवा सखा ॥
8.045.03 अयुद्ध इद्युधा वृतं शूर आजति सत्वभिः ।
8.045.03 येषामिन्द्रो युवा सखा ॥
8.045.04 आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरम् ।
8.045.04 क उग्राः के ह शृण्विरे ॥
8.045.05 प्रति त्वा शवसी वदद्गिरावप्सो न योधिषत् ।
8.045.05 यस्ते शत्रुत्वमाचके ॥
8.045.06 उत त्वं मघवञ्छृणु यस्ते वष्टि ववक्षि तत् ।
8.045.06 यद्वीळयासि वीळु तत् ॥
8.045.07 यदाजिं यात्याजिकृदिन्द्रः स्वश्वयुरुप ।
8.045.07 रथीतमो रथीनाम् ॥
8.045.08 वि षु विश्वा अभियुजो वज्रिन्विष्वग्यथा वृह ।
8.045.08 भवा नः सुश्रवस्तमः ॥
8.045.09 अस्माकं सु रथं पुर इन्द्रः कृणोतु सातये ।
8.045.09 न यं धूर्वन्ति धूर्तयः ॥
8.045.10 वृज्याम ते परि द्विषोऽरं ते शक्र दावने ।
8.045.10 गमेमेदिन्द्र गोमतः ॥
8.045.11 शनैश्चिद्यन्तो अद्रिवोऽश्वावन्तः शतग्विनः ।
8.045.11 विवक्षणा अनेहसः ॥
8.045.12 ऊर्ध्वा हि ते दिवेदिवे सहस्रा सूनृता शता ।
8.045.12 जरितृभ्यो विमंहते ॥
8.045.13 विद्मा हि त्वा धनञ्जयमिन्द्र दृळ्हा चिदारुजम् ।
8.045.13 आदारिणं यथा गयम् ॥
8.045.14 ककुहं चित्त्वा कवे मन्दन्तु धृष्णविन्दवः ।
8.045.14 आ त्वा पणिं यदीमहे ॥
8.045.15 यस्ते रेवां अदाशुरिः प्रममर्ष मघत्तये ।
8.045.15 तस्य नो वेद आ भर ॥
8.045.16 इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
8.045.16 पुष्टावन्तो यथा पशुम् ॥
8.045.17 उत त्वाबधिरं वयं श्रुत्कर्णं सन्तमूतये ।
8.045.17 दूरादिह हवामहे ॥
8.045.18 यच्छुश्रूया इमं हवं दुर्मर्षं चक्रिया उत ।
8.045.18 भवेरापिर्नो अन्तमः ॥
8.045.19 यच्चिद्धि ते अपि व्यथिर्जगन्वांसो अमन्महि ।
8.045.19 गोदा इदिन्द्र बोधि नः ॥
8.045.20 आ त्वा रम्भं न जिव्रयो ररभ्मा शवसस्पते ।
8.045.20 उश्मसि त्वा सधस्थ आ ॥
8.045.21 स्तोत्रमिन्द्राय गायत पुरुनृम्णाय सत्वने ।
8.045.21 नकिर्यं वृण्वते युधि ॥
8.045.22 अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
8.045.22 तृम्पा व्यश्नुही मदम् ॥
8.045.23 मा त्वा मूरा अविष्यवो मोपहस्वान आ दभन् ।
8.045.23 माकीं ब्रह्मद्विषो वनः ॥
8.045.24 इह त्वा गोपरीणसा महे मन्दन्तु राधसे ।
8.045.24 सरो गौरो यथा पिब ॥
8.045.25 या वृत्रहा परावति सना नवा च चुच्युवे ।
8.045.25 ता संसत्सु प्र वोचत ॥
8.045.26 अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
8.045.26 अत्रादेदिष्ट पौंस्यम् ॥
8.045.27 सत्यं तत्तुर्वशे यदौ विदानो अह्नवाय्यम् ।
8.045.27 व्यानट्तुर्वणे शमि ॥
8.045.28 तरणिं वो जनानां त्रदं वाजस्य गोमतः ।
8.045.28 समानमु प्र शंसिषम् ॥
8.045.29 ऋभुक्षणं न वर्तव उक्थेषु तुग्र्यावृधम् ।
8.045.29 इन्द्रं सोमे सचा सुते ॥
8.045.30 यः कृन्तदिद्वि योन्यं त्रिशोकाय गिरिं पृथुम् ।
8.045.30 गोभ्यो गातुं निरेतवे ॥
8.045.31 यद्दधिषे मनस्यसि मन्दानः प्रेदियक्षसि ।
8.045.31 मा तत्करिन्द्र मृळय ॥
8.045.32 दभ्रं चिद्धि त्वावतः कृतं शृण्वे अधि क्षमि ।
8.045.32 जिगात्विन्द्र ते मनः ॥
8.045.33 तवेदु ताः सुकीर्तयोऽसन्नुत प्रशस्तयः ।
8.045.33 यदिन्द्र मृळयासि नः ॥
8.045.34 मा न एकस्मिन्नागसि मा द्वयोरुत त्रिषु ।
8.045.34 वधीर्मा शूर भूरिषु ॥
8.045.35 बिभया हि त्वावत उग्रादभिप्रभङ्गिणः ।
8.045.35 दस्मादहमृतीषहः ॥
8.045.36 मा सख्युः शूनमा विदे मा पुत्रस्य प्रभूवसो ।
8.045.36 आवृत्वद्भूतु ते मनः ॥
8.045.37 को नु मर्या अमिथितः सखा सखायमब्रवीत् ।
8.045.37 जहा को अस्मदीषते ॥
8.045.38 एवारे वृषभा सुतेऽसिन्वन्भूर्यावयः ।
8.045.38 श्वघ्नीव निवता चरन् ॥
8.045.39 आ त एता वचोयुजा हरी गृभ्णे सुमद्रथा ।
8.045.39 यदीं ब्रह्मभ्य इद्ददः ॥
8.045.40 भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
8.045.40 वसु स्पार्हं तदा भर ॥
8.045.41 यद्वीळाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतम् ।
8.045.41 वसु स्पार्हं तदा भर ॥
8.045.42 यस्य ते विश्वमानुषो भूरेर्दत्तस्य वेदति ।
8.045.42 वसु स्पार्हं तदा भर ॥

8.046.01 त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
8.046.01 स्मसि स्थातर्हरीणाम् ॥
8.046.02 त्वां हि सत्यमद्रिवो विद्म दातारमिषाम् ।
8.046.02 विद्म दातारं रयीणाम् ॥
8.046.03 आ यस्य ते महिमानं शतमूते शतक्रतो ।
8.046.03 गीर्भिर्गृणन्ति कारवः ॥
8.046.04 सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।
8.046.04 मित्रः पान्त्यद्रुहः ॥
8.046.05 दधानो गोमदश्ववत्सुवीर्यमादित्यजूत एधते ।
8.046.05 सदा राया पुरुस्पृहा ॥
8.046.06 तमिन्द्रं दानमीमहे शवसानमभीर्वम् ।
8.046.06 ईशानं राय ईमहे ॥
8.046.07 तस्मिन्हि सन्त्यूतयो विश्वा अभीरवः सचा ।
8.046.07 तमा वहन्तु सप्तयः पुरूवसुं मदाय हरयः सुतम् ॥
8.046.08 यस्ते मदो वरेण्यो य इन्द्र वृत्रहन्तमः ।
8.046.08 य आददिः स्वर्नृभिर्यः पृतनासु दुष्टरः ॥
8.046.09 यो दुष्टरो विश्ववार श्रवाय्यो वाजेष्वस्ति तरुता ।
8.046.09 स नः शविष्ठ सवना वसो गहि गमेम गोमति व्रजे ॥
8.046.10 गव्यो षु णो यथा पुराश्वयोत रथया ।
8.046.10 वरिवस्य महामह ॥
8.046.11 नहि ते शूर राधसोऽन्तं विन्दामि सत्रा ।
8.046.11 दशस्या नो मघवन्नू चिदद्रिवो धियो वाजेभिराविथ ॥
8.046.12 य ऋष्वः श्रावयत्सखा विश्वेत्स वेद जनिमा पुरुष्टुतः ।
8.046.12 तं विश्वे मानुषा युगेन्द्रं हवन्ते तविषं यतस्रुचः ॥
8.046.13 स नो वाजेष्वविता पुरूवसुः पुरस्थाता मघवा वृत्रहा भुवत् ॥
8.046.14 अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसम् ।
8.046.14 इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥
8.046.15 ददी रेक्णस्तन्वे ददिर्वसु ददिर्वाजेषु पुरुहूत वाजिनम् ।
8.046.15 नूनमथ ॥
8.046.16 विश्वेषामिरज्यन्तं वसूनां सासह्वांसं चिदस्य वर्पसः ।
8.046.16 कृपयतो नूनमत्यथ ॥
8.046.17 महः सु वो अरमिषे स्तवामहे मीळ्हुषे अरङ्गमाय जग्मये ।
8.046.17 यज्ञेभिर्गीर्भिर्विश्वमनुषां मरुतामियक्षसि गाये त्वा नमसा गिरा ॥
8.046.18 ये पातयन्ते अज्मभिर्गिरीणां स्नुभिरेषाम् ।
8.046.18 यज्ञं महिष्वणीनां सुम्नं तुविष्वणीनां प्राध्वरे ॥
8.046.19 प्रभङ्गं दुर्मतीनामिन्द्र शविष्ठा भर ।
8.046.19 रयिमस्मभ्यं युज्यं चोदयन्मते ज्येष्ठं चोदयन्मते ॥
8.046.20 सनितः सुसनितरुग्र चित्र चेतिष्ठ सूनृत ।
8.046.20 प्रासहा सम्राट्सहुरिं सहन्तं भुज्युं वाजेषु पूर्व्यम् ॥
8.046.21 आ स एतु य ईवदां अदेवः पूर्तमाददे ।
8.046.21 यथा चिद्वशो अश्व्यः पृथुश्रवसि कानीतेऽस्या व्युष्याददे ॥
8.046.22 षष्टिं सहस्राश्व्यस्यायुतासनमुष्ट्रानां विंशतिं शता ।
8.046.22 दश श्यावीनां शता दश त्र्यरुषीणां दश गवां सहस्रा ॥
8.046.23 दश श्यावा ऋधद्रयो वीतवारास आशवः ।
8.046.23 मथ्रा नेमिं नि वावृतुः ॥
8.046.24 दानासः पृथुश्रवसः कानीतस्य सुराधसः ।
8.046.24 रथं हिरण्ययं ददन्मंहिष्ठः सूरिरभूद्वर्षिष्ठमकृत श्रवः ॥
8.046.25 आ नो वायो महे तने याहि मखाय पाजसे ।
8.046.25 वयं हि ते चकृमा भूरि दावने सद्यश्चिन्महि दावने ॥
8.046.26 यो अश्वेभिर्वहते वस्त उस्रास्त्रिः सप्त सप्ततीनाम् ।
8.046.26 एभिः सोमेभिः सोमसुद्भिः सोमपा दानाय शुक्रपूतपाः ॥
8.046.27 यो म इमं चिदु त्मनामन्दच्चित्रं दावने ।
8.046.27 अरट्वे अक्षे नहुषे सुकृत्वनि सुकृत्तराय सुक्रतुः ॥
8.046.28 उचथ्ये वपुषि यः स्वराळ् उत वायो घृतस्नाः ।
8.046.28 अश्वेषितं रजेषितं शुनेषितं प्राज्म तदिदं नु तत् ॥
8.046.29 अध प्रियमिषिराय षष्टिं सहस्रासनम् ।
8.046.29 अश्वानामिन्न वृष्णाम् ॥
8.046.30 गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥
8.046.31 अध यच्चारथे गणे शतमुष्ट्रां अचिक्रदत् ।
8.046.31 अध श्वित्नेषु विंशतिं शता ॥
8.046.32 शतं दासे बल्बूथे विप्रस्तरुक्ष आ ददे ।
8.046.32 ते ते वायविमे जना मदन्तीन्द्रगोपा मदन्ति देवगोपाः ॥
8.046.33 अध स्या योषणा मही प्रतीची वशमश्व्यम् ।
8.046.33 अधिरुक्मा वि नीयते ॥

8.047.01 महि वो महतामवो वरुण मित्र दाशुषे ।
8.047.01 यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.02 विदा देवा अघानामादित्यासो अपाकृतिम् ।
8.047.02 पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.03 व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन ।
8.047.03 विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.04 यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
8.047.04 मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.05 परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।
8.047.05 स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.06 परिह्वृतेदना जनो युष्मादत्तस्य वायति ।
8.047.06 देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.07 न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।
8.047.07 यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.08 युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
8.047.08 यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.09 अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।
8.047.09 माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.10 यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् ।
8.047.10 त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.11 आदित्या अव हि ख्यताधि कूलादिव स्पशः ।
8.047.11 सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.12 नेह भद्रं रक्षस्विने नावयै नोपया उत ।
8.047.12 गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.13 यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् ।
8.047.13 त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.14 यच्च गोषु दुष्ष्वप्न्यं यच्चास्मे दुहितर्दिवः ।
8.047.14 त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.15 निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।
8.047.15 त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.16 तदन्नाय तदपसे तं भागमुपसेदुषे ।
8.047.16 त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.17 यथा कलां यथा शफं यथ ऋणं संनयामसि ।
8.047.17 एवा दुष्ष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥
8.047.18 अजैष्माद्यासनाम चाभूमानागसो वयम् ।
8.047.18 उषो यस्माद्दुष्ष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥

8.048.01 स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
8.048.01 विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥
8.048.02 अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।
8.048.02 इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥
8.048.03 अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
8.048.03 किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥
8.048.04 शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
8.048.04 सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥
8.048.05 इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।
8.048.05 ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥
8.048.06 अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
8.048.06 अथा हि ते मद आ सोम मन्ये रेवां इव प्र चरा पुष्टिमच्छ ॥
8.048.07 इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
8.048.07 सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥
8.048.08 सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
8.048.08 अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥
8.048.09 त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।
8.048.09 यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥
8.048.10 ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
8.048.10 अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥
8.048.11 अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः ।
8.048.11 आ सोमो अस्मां अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥
8.048.12 यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्यां आविवेश ।
8.048.12 तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥
8.048.13 त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ ।
8.048.13 तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥
8.048.14 त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
8.048.14 वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥
8.048.15 त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।
8.048.15 त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥

8.049.01 अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
8.049.01 यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥
8.049.02 शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।
8.049.02 गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ॥
8.049.03 आ त्वा सुतास इन्दवो मदा य इन्द्र गिर्वणः ।
8.049.03 आपो न वज्रिन्नन्वोक्यं सरः पृणन्ति शूर राधसे ॥
8.049.04 अनेहसं प्रतरणं विवक्षणं मध्वः स्वादिष्ठमीं पिब ।
8.049.04 आ यथा मन्दसानः किरासि नः प्र क्षुद्रेव त्मना धृषत् ॥
8.049.05 आ न स्तोममुप द्रवद्धियानो अश्वो न सोतृभिः ।
8.049.05 यं ते स्वधावन्स्वदयन्ति धेनव इन्द्र कण्वेषु रातयः ॥
8.049.06 उग्रं न वीरं नमसोप सेदिम विभूतिमक्षितावसुम् ।
8.049.06 उद्रीव वज्रिन्नवतो न सिञ्चते क्षरन्तीन्द्र धीतयः ॥
8.049.07 यद्ध नूनं यद्वा यज्ञे यद्वा पृथिव्यामधि ।
8.049.07 अतो नो यज्ञमाशुभिर्महेमत उग्र उग्रेभिरा गहि ॥
8.049.08 अजिरासो हरयो ये त आशवो वाता इव प्रसक्षिणः ।
8.049.08 येभिरपत्यं मनुषः परीयसे येभिर्विश्वं स्वर्दृशे ॥
8.049.09 एतावतस्त ईमह इन्द्र सुम्नस्य गोमतः ।
8.049.09 यथा प्रावो मघवन्मेध्यातिथिं यथा नीपातिथिं धने ॥
8.049.10 यथा कण्वे मघवन्त्रसदस्यवि यथा पक्थे दशव्रजे ।
8.049.10 यथा गोशर्ये असनोरृजिश्वनीन्द्र गोमद्धिरण्यवत् ॥

8.050.01 प्र सु श्रुतं सुराधसमर्चा शक्रमभिष्टये ।
8.050.01 यः सुन्वते स्तुवते काम्यं वसु सहस्रेणेव मंहते ॥
8.050.02 शतानीका हेतयो अस्य दुष्टरा इन्द्रस्य समिषो महीः ।
8.050.02 गिरिर्न भुज्मा मघवत्सु पिन्वते यदीं सुता अमन्दिषुः ॥
8.050.03 यदीं सुतास इन्दवोऽभि प्रियममन्दिषुः ।
8.050.03 आपो न धायि सवनं म आ वसो दुघा इवोप दाशुषे ॥
8.050.04 अनेहसं वो हवमानमूतये मध्वः क्षरन्ति धीतयः ।
8.050.04 आ त्वा वसो हवमानास इन्दव उप स्तोत्रेषु दधिरे ॥
8.050.05 आ नः सोमे स्वध्वर इयानो अत्यो न तोशते ।
8.050.05 यं ते स्वदावन्स्वदन्ति गूर्तयः पौरे छन्दयसे हवम् ॥
8.050.06 प्र वीरमुग्रं विविचिं धनस्पृतं विभूतिं राधसो महः ।
8.050.06 उद्रीव वज्रिन्नवतो वसुत्वना सदा पीपेथ दाशुषे ॥
8.050.07 यद्ध नूनं परावति यद्वा पृथिव्यां दिवि ।
8.050.07 युजान इन्द्र हरिभिर्महेमत ऋष्व ऋष्वेभिरा गहि ॥
8.050.08 रथिरासो हरयो ये ते अस्रिध ओजो वातस्य पिप्रति ।
8.050.08 येभिर्नि दस्युं मनुषो निघोषयो येभिः स्वः परीयसे ॥
8.050.09 एतावतस्ते वसो विद्याम शूर नव्यसः ।
8.050.09 यथा प्राव एतशं कृत्व्ये धने यथा वशं दशव्रजे ॥
8.050.10 यथा कण्वे मघवन्मेधे अध्वरे दीर्घनीथे दमूनसि ।
8.050.10 यथा गोशर्ये असिषासो अद्रिवो मयि गोत्रं हरिश्रियम् ॥

8.051.01 यथा मनौ सांवरणौ सोममिन्द्रापिबः सुतम् ।
8.051.01 नीपातिथौ मघवन्मेध्यातिथौ पुष्टिगौ श्रुष्टिगौ सचा ॥
8.051.02 पार्षद्वाणः प्रस्कण्वं समसादयच्छयानं जिव्रिमुद्धितम् ।
8.051.02 सहस्राण्यसिषासद्गवामृषिस्त्वोतो दस्यवे वृकः ॥
8.051.03 य उक्थेभिर्न विन्धते चिकिद्य ऋषिचोदनः ।
8.051.03 इन्द्रं तमच्छा वद नव्यस्या मत्यरिष्यन्तं न भोजसे ॥
8.051.04 यस्मा अर्कं सप्तशीर्षाणमानृचुस्त्रिधातुमुत्तमे पदे ।
8.051.04 स त्विमा विश्वा भुवनानि चिक्रददादिज्जनिष्ट पौंस्यम् ॥
8.051.05 यो नो दाता वसूनामिन्द्रं तं हूमहे वयम् ।
8.051.05 विद्मा ह्यस्य सुमतिं नवीयसीं गमेम गोमति व्रजे ॥
8.051.06 यस्मै त्वं वसो दानाय शिक्षसि स रायस्पोषमश्नुते ।
8.051.06 तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
8.051.07 कदा चन स्तरीरसि नेन्द्र सश्चसि दाशुषे ।
8.051.07 उपोपेन्नु मघवन्भूय इन्नु ते दानं देवस्य पृच्यते ॥
8.051.08 प्र यो ननक्षे अभ्योजसा क्रिविं वधैः शुष्णं निघोषयन् ।
8.051.08 यदेदस्तम्भीत्प्रथयन्नमूं दिवमादिज्जनिष्ट पार्थिवः ॥
8.051.09 यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।
8.051.09 तिरश्चिदर्ये रुशमे परीरवि तुभ्येत्सो अज्यते रयिः ॥
8.051.10 तुरण्यवो मधुमन्तं घृतश्चुतं विप्रासो अर्कमानृचुः ।
8.051.10 अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे सुवानास इन्दवः ॥

8.052.01 यथा मनौ विवस्वति सोमं शक्रापिबः सुतम् ।
8.052.01 यथा त्रिते छन्द इन्द्र जुजोषस्यायौ मादयसे सचा ॥
8.052.02 पृषध्रे मेध्ये मातरिश्वनीन्द्र सुवाने अमन्दथाः ।
8.052.02 यथा सोमं दशशिप्रे दशोण्ये स्यूमरश्मावृजूनसि ॥
8.052.03 य उक्था केवला दधे यः सोमं धृषितापिबत् ।
8.052.03 यस्मै विष्णुस्त्रीणि पदा विचक्रम उप मित्रस्य धर्मभिः ॥
8.052.04 यस्य त्वमिन्द्र स्तोमेषु चाकनो वाजे वाजिञ्छतक्रतो ।
8.052.04 तं त्वा वयं सुदुघामिव गोदुहो जुहूमसि श्रवस्यवः ॥
8.052.05 यो नो दाता स नः पिता महां उग्र ईशानकृत् ।
8.052.05 अयामन्नुग्रो मघवा पुरूवसुर्गोरश्वस्य प्र दातु नः ॥
8.052.06 यस्मै त्वं वसो दानाय मंहसे स रायस्पोषमिन्वति ।
8.052.06 वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
8.052.07 कदा चन प्र युच्छस्युभे नि पासि जन्मनी ।
8.052.07 तुरीयादित्य हवनं त इन्द्रियमा तस्थावमृतं दिवि ॥
8.052.08 यस्मै त्वं मघवन्निन्द्र गिर्वणः शिक्षो शिक्षसि दाशुषे ।
8.052.08 अस्माकं गिर उत सुष्टुतिं वसो कण्ववच्छृणुधी हवम् ॥
8.052.09 अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।
8.052.09 पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥
8.052.10 समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यम् ।
8.052.10 सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥

8.053.01 उपमं त्वा मघोनां ज्येष्ठं च वृषभाणाम् ।
8.053.01 पूर्भित्तमं मघवन्निन्द्र गोविदमीशानं राय ईमहे ॥
8.053.02 य आयुं कुत्समतिथिग्वमर्दयो वावृधानो दिवेदिवे ।
8.053.02 तं त्वा वयं हर्यश्वं शतक्रतुं वाजयन्तो हवामहे ॥
8.053.03 आ नो विश्वेषां रसं मध्वः सिञ्चन्त्वद्रयः ।
8.053.03 ये परावति सुन्विरे जनेष्वा ये अर्वावतीन्दवः ॥
8.053.04 विश्वा द्वेषांसि जहि चाव चा कृधि विश्वे सन्वन्त्वा वसु ।
8.053.04 शीष्टेषु चित्ते मदिरासो अंशवो यत्रा सोमस्य तृम्पसि ॥
8.053.05 इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
8.053.05 आ शन्तम शन्तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ॥
8.053.06 आजितुरं सत्पतिं विश्वचर्षणिं कृधि प्रजास्वाभगम् ।
8.053.06 प्र सू तिरा शचीभिर्ये त उक्थिनः क्रतुं पुनत आनुषक् ॥
8.053.07 यस्ते साधिष्ठोऽवसे ते स्याम भरेषु ते ।
8.053.07 वयं होत्राभिरुत देवहूतिभिः ससवांसो मनामहे ॥
8.053.08 अहं हि ते हरिवो ब्रह्म वाजयुराजिं यामि सदोतिभिः ।
8.053.08 त्वामिदेव तममे समश्वयुर्गव्युरग्रे मथीनाम् ॥

8.054.01 एतत्त इन्द्र वीर्यं गीर्भिर्गृणन्ति कारवः ।
8.054.01 ते स्तोभन्त ऊर्जमावन्घृतश्चुतं पौरासो नक्षन्धीतिभिः ॥
8.054.02 नक्षन्त इन्द्रमवसे सुकृत्यया येषां सुतेषु मन्दसे ।
8.054.02 यथा संवर्ते अमदो यथा कृश एवास्मे इन्द्र मत्स्व ॥
8.054.03 आ नो विश्वे सजोषसो देवासो गन्तनोप नः ।
8.054.03 वसवो रुद्रा अवसे न आ गमञ्छृण्वन्तु मरुतो हवम् ॥
8.054.04 पूषा विष्णुर्हवनं मे सरस्वत्यवन्तु सप्त सिन्धवः ।
8.054.04 आपो वातः पर्वतासो वनस्पतिः शृणोतु पृथिवी हवम् ॥
8.054.05 यदिन्द्र राधो अस्ति ते माघोनं मघवत्तम ।
8.054.05 तेन नो बोधि सधमाद्यो वृधे भगो दानाय वृत्रहन् ॥
8.054.06 आजिपते नृपते त्वमिद्धि नो वाज आ वक्षि सुक्रतो ।
8.054.06 वीती होत्राभिरुत देववीतिभिः ससवांसो वि शृण्विरे ॥
8.054.07 सन्ति ह्यर्य आशिष इन्द्र आयुर्जनानाम् ।
8.054.07 अस्मान्नक्षस्व मघवन्नुपावसे धुक्षस्व पिप्युषीमिषम् ॥
8.054.08 वयं त इन्द्र स्तोमेभिर्विधेम त्वमस्माकं शतक्रतो ।
8.054.08 महि स्थूरं शशयं राधो अह्रयं प्रस्कण्वाय नि तोशय ॥

8.055.01 भूरीदिन्द्रस्य वीर्यं व्यख्यमभ्यायति ।
8.055.01 राधस्ते दस्यवे वृक ॥
8.055.02 शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते ।
8.055.02 मह्ना दिवं न तस्तभुः ॥
8.055.03 शतं वेणूञ्छतं शुनः शतं चर्माणि म्लातानि ।
8.055.03 शतं मे बल्बजस्तुका अरुषीणां चतुःशतम् ॥
8.055.04 सुदेवा स्थ काण्वायना वयोवयो विचरन्तः ।
8.055.04 अश्वासो न चङ्क्रमत ॥
8.055.05 आदित्साप्तस्य चर्किरन्नानूनस्य महि श्रवः ।
8.055.05 श्यावीरतिध्वसन्पथश्चक्षुषा चन संनशे ॥

8.056.01 प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् ।
8.056.01 द्यौर्न प्रथिना शवः ॥
8.056.02 दश मह्यं पौतक्रतः सहस्रा दस्यवे वृकः ।
8.056.02 नित्याद्रायो अमंहत ॥
8.056.03 शतं मे गर्दभानां शतमूर्णावतीनाम् ।
8.056.03 शतं दासां अति स्रजः ॥
8.056.04 तत्रो अपि प्राणीयत पूतक्रतायै व्यक्ता ।
8.056.04 अश्वानामिन्न यूथ्याम् ॥
8.056.05 अचेत्यग्निश्चिकितुर्हव्यवाट्स सुमद्रथः ।
8.056.05 अग्निः शुक्रेण शोचिषा बृहत्सूरो अरोचत दिवि सूर्यो अरोचत ॥
8.057.01 युवं देवा क्रतुना पूर्व्येण युक्ता रथेन तविषं यजत्रा ।
8.057.01 आगच्छतं नासत्या शचीभिरिदं तृतीयं सवनं पिबाथः ॥
8.057.02 युवां देवास्त्रय एकादशासः सत्याः सत्यस्य ददृशे पुरस्तात् ।
8.057.02 अस्माकं यज्ञं सवनं जुषाणा पातं सोममश्विना दीद्यग्नी ॥
8.057.03 पनाय्यं तदश्विना कृतं वां वृषभो दिवो रजसः पृथिव्याः ।
8.057.03 सहस्रं शंसा उत ये गविष्टौ सर्वां इत्तां उप याता पिबध्यै ॥
8.057.04 अयं वां भागो निहितो यजत्रेमा गिरो नासत्योप यातम् ।
8.057.04 पिबतं सोमं मधुमन्तमस्मे प्र दाश्वांसमवतं शचीभिः ॥

8.058.01 यमृत्विजो बहुधा कल्पयन्तः सचेतसो यज्ञमिमं वहन्ति ।
8.058.01 यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥
8.058.02 एक एवाग्निर्बहुधा समिद्ध एकः सूर्यो विश्वमनु प्रभूतः ।
8.058.02 एकैवोषाः सर्वमिदं वि भात्येकं वा इदं वि बभूव सर्वम् ॥
8.058.03 ज्योतिष्मन्तं केतुमन्तं त्रिचक्रं सुखं रथं सुषदं भूरिवारम् ।
8.058.03 चित्रामघा यस्य योगेऽधिजज्ञे तं वां हुवे अति रिक्तं पिबध्यै ॥

8.059.01 इमानि वां भागधेयानि सिस्रत इन्द्रावरुणा प्र महे सुतेषु वाम् ।
8.059.01 यज्ञेयज्ञे ह सवना भुरण्यथो यत्सुन्वते यजमानाय शिक्षथः ॥
8.059.02 निष्षिध्वरीरोषधीराप आस्तामिन्द्रावरुणा महिमानमाशत ।
8.059.02 या सिस्रतू रजसः पारे अध्वनो ययोः शत्रुर्नकिरादेव ओहते ॥
8.059.03 सत्यं तदिन्द्रावरुणा कृशस्य वां मध्व ऊर्मिं दुहते सप्त वाणीः ।
8.059.03 ताभिर्दाश्वांसमवतं शुभस्पती यो वामदब्धो अभि पाति चित्तिभिः ॥
8.059.04 घृतप्रुषः सौम्या जीरदानवः सप्त स्वसारः सदन ऋतस्य ।
8.059.04 या ह वामिन्द्रावरुणा घृतश्चुतस्ताभिर्धत्तं यजमानाय शिक्षतम् ॥
8.059.05 अवोचाम महते सौभगाय सत्यं त्वेषाभ्यां महिमानमिन्द्रियम् ।
8.059.05 अस्मान्स्विन्द्रावरुणा घृतश्चुतस्त्रिभिः साप्तेभिरवतं शुभस्पती ॥
8.059.06 इन्द्रावरुणा यदृषिभ्यो मनीषां वाचो मतिं श्रुतमदत्तमग्रे ।
8.059.06 यानि स्थानान्यसृजन्त धीरा यज्ञं तन्वानास्तपसाभ्यपश्यम् ॥
8.059.07 इन्द्रावरुणा सौमनसमदृप्तं रायस्पोषं यजमानेषु धत्तम् ।
8.059.07 प्रजां पुष्टिं भूतिमस्मासु धत्तं दीर्घायुत्वाय प्र तिरतं न आयुः ॥

8.060.01 अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।
8.060.01 आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥
8.060.02 अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।
8.060.02 ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यम् ॥
8.060.03 अग्ने कविर्वेधा असि होता पावक यक्ष्यः ।
8.060.03 मन्द्रो यजिष्ठो अध्वरेष्वीड्यो विप्रेभिः शुक्र मन्मभिः ॥
8.060.04 अद्रोघमा वहोशतो यविष्ठ्य देवां अजस्र वीतये ।
8.060.04 अभि प्रयांसि सुधिता वसो गहि मन्दस्व धीतिभिर्हितः ॥
8.060.05 त्वमित्सप्रथा अस्यग्ने त्रातरृतस्कविः ।
8.060.05 त्वां विप्रासः समिधान दीदिव आ विवासन्ति वेधसः ॥
8.060.06 शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महां असि ।
8.060.06 देवानां शर्मन्मम सन्तु सूरयः शत्रूषाहः स्वग्नयः ॥
8.060.07 यथा चिद्वृद्धमतसमग्ने संजूर्वसि क्षमि ।
8.060.07 एवा दह मित्रमहो यो अस्मध्रुग्दुर्मन्मा कश्च वेनति ॥
8.060.08 मा नो मर्ताय रिपवे रक्षस्विने माघशंसाय रीरधः ।
8.060.08 अस्रेधद्भिस्तरणिभिर्यविष्ठ्य शिवेभिः पाहि पायुभिः ॥
8.060.09 पाहि नो अग्न एकया पाह्युत द्वितीयया ।
8.060.09 पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥
8.060.10 पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।
8.060.10 त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥
8.060.11 आ नो अग्ने वयोवृधं रयिं पावक शंस्यम् ।
8.060.11 रास्वा च न उपमाते पुरुस्पृहं सुनीती स्वयशस्तरम् ॥
8.060.12 येन वंसाम पृतनासु शर्धतस्तरन्तो अर्य आदिशः ।
8.060.12 स त्वं नो वर्ध प्रयसा शचीवसो जिन्वा धियो वसुविदः ॥
8.060.13 शिशानो वृषभो यथाग्निः शृङ्गे दविध्वत् ।
8.060.13 तिग्मा अस्य हनवो न प्रतिधृषे सुजम्भः सहसो यहुः ॥
8.060.14 नहि ते अग्ने वृषभ प्रतिधृषे जम्भासो यद्वितिष्ठसे ।
8.060.14 स त्वं नो होतः सुहुतं हविष्कृधि वंस्वा नो वार्या पुरु ॥
8.060.15 शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते ।
8.060.15 अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥
8.060.16 सप्त होतारस्तमिदीळते त्वाग्ने सुत्यजमह्रयम् ।
8.060.16 भिनत्स्यद्रिं तपसा वि शोचिषा प्राग्ने तिष्ठ जनां अति ॥
8.060.17 अग्निमग्निं वो अध्रिगुं हुवेम वृक्तबर्हिषः ।
8.060.17 अग्निं हितप्रयसः शश्वतीष्वा होतारं चर्षणीनाम् ॥
8.060.18 केतेन शर्मन्सचते सुषामण्यग्ने तुभ्यं चिकित्वना ।
8.060.18 इषण्यया नः पुरुरूपमा भर वाजं नेदिष्ठमूतये ॥
8.060.19 अग्ने जरितर्विश्पतिस्तेपानो देव रक्षसः ।
8.060.19 अप्रोषिवान्गृहपतिर्महां असि दिवस्पायुर्दुरोणयुः ॥
8.060.20 मा नो रक्ष आ वेशीदाघृणीवसो मा यातुर्यातुमावताम् ।
8.060.20 परोगव्यूत्यनिरामप क्षुधमग्ने सेध रक्षस्विनः ॥

8.061.01 उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
8.061.01 सत्राच्या मघवा सोमपीतये धिया शविष्ठ आ गमत् ॥
8.061.02 तं हि स्वराजं वृषभं तमोजसे धिषणे निष्टतक्षतुः ।
8.061.02 उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥
8.061.03 आ वृषस्व पुरूवसो सुतस्येन्द्रान्धसः ।
8.061.03 विद्मा हि त्वा हरिवः पृत्सु सासहिमधृष्टं चिद्दधृष्वणिम् ॥
8.061.04 अप्रामिसत्य मघवन्तथेदसदिन्द्र क्रत्वा यथा वशः ।
8.061.04 सनेम वाजं तव शिप्रिन्नवसा मक्षू चिद्यन्तो अद्रिवः ॥
8.061.05 शग्ध्यू षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
8.061.05 भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥
8.061.06 पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।
8.061.06 नकिर्हि दानं परिमर्धिषत्त्वे यद्यद्यामि तदा भर ॥
8.061.07 त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
8.061.07 उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥
8.061.08 त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।
8.061.08 आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥
8.061.09 अविप्रो वा यदविधद्विप्रो वेन्द्र ते वचः ।
8.061.09 स प्र ममन्दत्त्वाया शतक्रतो प्राचामन्यो अहंसन ॥
8.061.10 उग्रबाहुर्म्रक्षकृत्वा पुरन्दरो यदि मे शृणवद्धवम् ।
8.061.10 वसूयवो वसुपतिं शतक्रतुं स्तोमैरिन्द्रं हवामहे ॥
8.061.11 न पापासो मनामहे नारायासो न जळ्हवः ।
8.061.11 यदिन्न्विन्द्रं वृषणं सचा सुते सखायं कृणवामहै ॥
8.061.12 उग्रं युयुज्म पृतनासु सासहिमृणकातिमदाभ्यम् ।
8.061.12 वेदा भृमं चित्सनिता रथीतमो वाजिनं यमिदू नशत् ॥
8.061.13 यत इन्द्र भयामहे ततो नो अभयं कृधि ।
8.061.13 मघवञ्छग्धि तव तन्न ऊतिभिर्वि द्विषो वि मृधो जहि ॥
8.061.14 त्वं हि राधस्पते राधसो महः क्षयस्यासि विधतः ।
8.061.14 तं त्वा वयं मघवन्निन्द्र गिर्वणः सुतावन्तो हवामहे ॥
8.061.15 इन्द्र स्पळ् उत वृत्रहा परस्पा नो वरेण्यः ।
8.061.15 स नो रक्षिषच्चरमं स मध्यमं स पश्चात्पातु नः पुरः ॥
8.061.16 त्वं नः पश्चादधरादुत्तरात्पुर इन्द्र नि पाहि विश्वतः ।
8.061.16 आरे अस्मत्कृणुहि दैव्यं भयमारे हेतीरदेवीः ॥
8.061.17 अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।
8.061.17 विश्वा च नो जरितॄन्सत्पते अहा दिवा नक्तं च रक्षिषः ॥
8.061.18 प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कम् ।
8.061.18 उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ॥

8.062.01 प्रो अस्मा उपस्तुतिं भरता यज्जुजोषति ।
8.062.01 उक्थैरिन्द्रस्य माहिनं वयो वर्धन्ति सोमिनो भद्रा इन्द्रस्य रातयः ॥
8.062.02 अयुजो असमो नृभिरेकः कृष्टीरयास्यः ।
8.062.02 पूर्वीरति प्र वावृधे विश्वा जातान्योजसा भद्रा इन्द्रस्य रातयः ॥
8.062.03 अहितेन चिदर्वता जीरदानुः सिषासति ।
8.062.03 प्रवाच्यमिन्द्र तत्तव वीर्याणि करिष्यतो भद्रा इन्द्रस्य रातयः ॥
8.062.04 आ याहि कृणवाम त इन्द्र ब्रह्माणि वर्धना ।
8.062.04 येभिः शविष्ठ चाकनो भद्रमिह श्रवस्यते भद्रा इन्द्रस्य रातयः ॥
8.062.05 धृषतश्चिद्धृषन्मनः कृणोषीन्द्र यत्त्वम् ।
8.062.05 तीव्रैः सोमैः सपर्यतो नमोभिः प्रतिभूषतो भद्रा इन्द्रस्य रातयः ॥
8.062.06 अव चष्ट ऋचीषमोऽवतां इव मानुषः ।
8.062.06 जुष्ट्वी दक्षस्य सोमिनः सखायं कृणुते युजं भद्रा इन्द्रस्य रातयः ॥
8.062.07 विश्वे त इन्द्र वीर्यं देवा अनु क्रतुं ददुः ।
8.062.07 भुवो विश्वस्य गोपतिः पुरुष्टुत भद्रा इन्द्रस्य रातयः ॥
8.062.08 गृणे तदिन्द्र ते शव उपमं देवतातये ।
8.062.08 यद्धंसि वृत्रमोजसा शचीपते भद्रा इन्द्रस्य रातयः ॥
8.062.09 समनेव वपुष्यतः कृणवन्मानुषा युगा ।
8.062.09 विदे तदिन्द्रश्चेतनमध श्रुतो भद्रा इन्द्रस्य रातयः ॥
8.062.10 उज्जातमिन्द्र ते शव उत्त्वामुत्तव क्रतुम् ।
8.062.10 भूरिगो भूरि वावृधुर्मघवन्तव शर्मणि भद्रा इन्द्रस्य रातयः ॥
8.062.11 अहं च त्वं च वृत्रहन्सं युज्याव सनिभ्य आ ।
8.062.11 अरातीवा चिदद्रिवोऽनु नौ शूर मंसते भद्रा इन्द्रस्य रातयः ॥
8.062.12 सत्यमिद्वा उ तं वयमिन्द्रं स्तवाम नानृतम् ।
8.062.12 महां असुन्वतो वधो भूरि ज्योतींषि सुन्वतो भद्रा इन्द्रस्य रातयः ॥

8.063.01 स पूर्व्यो महानां वेनः क्रतुभिरानजे ।
8.063.01 यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥
8.063.02 दिवो मानं नोत्सदन्सोमपृष्ठासो अद्रयः ।
8.063.02 उक्था ब्रह्म च शंस्या ॥
8.063.03 स विद्वां अङ्गिरोभ्य इन्द्रो गा अवृणोदप ।
8.063.03 स्तुषे तदस्य पौंस्यम् ॥
8.063.04 स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणिः ।
8.063.04 शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥
8.063.05 आदू नु ते अनु क्रतुं स्वाहा वरस्य यज्यवः ।
8.063.05 श्वात्रमर्का अनूषतेन्द्र गोत्रस्य दावने ॥
8.063.06 इन्द्रे विश्वानि वीर्या कृतानि कर्त्वानि च ।
8.063.06 यमर्का अध्वरं विदुः ॥
8.063.07 यत्पाञ्चजन्यया विशेन्द्रे घोषा असृक्षत ।
8.063.07 अस्तृणाद्बर्हणा विपोऽर्यो मानस्य स क्षयः ॥
8.063.08 इयमु ते अनुष्टुतिश्चकृषे तानि पौंस्या ।
8.063.08 प्रावश्चक्रस्य वर्तनिम् ॥
8.063.09 अस्य वृष्णो व्योदन उरु क्रमिष्ट जीवसे ।
8.063.09 यवं न पश्व आ ददे ॥
8.063.10 तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः ।
8.063.10 स्याम मरुत्वतो वृधे ॥
8.063.11 बळ् ऋत्वियाय धाम्न ऋक्वभिः शूर नोनुमः ।
8.063.11 जेषामेन्द्र त्वया युजा ॥
8.063.12 अस्मे रुद्रा मेहना पर्वतासो वृत्रहत्ये भरहूतौ सजोषाः ।
8.063.12 यः शंसते स्तुवते धायि पज्र इन्द्रज्येष्ठा अस्मां अवन्तु देवाः ॥

8.064.01 उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
8.064.01 अव ब्रह्मद्विषो जहि ॥
8.064.02 पदा पणींरराधसो नि बाधस्व महां असि ।
8.064.02 नहि त्वा कश्चन प्रति ॥
8.064.03 त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
8.064.03 त्वं राजा जनानाम् ॥
8.064.04 एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
8.064.04 ओभे पृणासि रोदसी ॥
8.064.05 त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
8.064.05 वि स्तोतृभ्यो रुरोजिथ ॥
8.064.06 वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।
8.064.06 अस्माकं काममा पृण ॥
8.064.07 क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
8.064.07 ब्रह्मा कस्तं सपर्यति ॥
8.064.08 कस्य स्वित्सवनं वृषा जुजुष्वां अव गच्छति ।
8.064.08 इन्द्रं क उ स्विदा चके ॥
8.064.09 कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।
8.064.09 उक्थे क उ स्विदन्तमः ॥
8.064.10 अयं ते मानुषे जने सोमः पूरुषु सूयते ।
8.064.10 तस्येहि प्र द्रवा पिब ॥
8.064.11 अयं ते शर्यणावति सुषोमायामधि प्रियः ।
8.064.11 आर्जीकीये मदिन्तमः ॥
8.064.12 तमद्य राधसे महे चारुं मदाय घृष्वये ।
8.064.12 एहीमिन्द्र द्रवा पिब ॥

8.065.01 यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
8.065.01 आ याहि तूयमाशुभिः ॥
8.065.02 यद्वा प्रस्रवणे दिवो मादयासे स्वर्णरे ।
8.065.02 यद्वा समुद्रे अन्धसः ॥
8.065.03 आ त्वा गीर्भिर्महामुरुं हुवे गामिव भोजसे ।
8.065.03 इन्द्र सोमस्य पीतये ॥
8.065.04 आ त इन्द्र महिमानं हरयो देव ते महः ।
8.065.04 रथे वहन्तु बिभ्रतः ॥
8.065.05 इन्द्र गृणीष उ स्तुषे महां उग्र ईशानकृत् ।
8.065.05 एहि नः सुतं पिब ॥
8.065.06 सुतावन्तस्त्वा वयं प्रयस्वन्तो हवामहे ।
8.065.06 इदं नो बर्हिरासदे ॥
8.065.07 यच्चिद्धि शश्वतामसीन्द्र साधारणस्त्वम् ।
8.065.07 तं त्वा वयं हवामहे ॥
8.065.08 इदं ते सोम्यं मध्वधुक्षन्नद्रिभिर्नरः ।
8.065.08 जुषाण इन्द्र तत्पिब ॥
8.065.09 विश्वां अर्यो विपश्चितोऽति ख्यस्तूयमा गहि ।
8.065.09 अस्मे धेहि श्रवो बृहत् ॥
8.065.10 दाता मे पृषतीनां राजा हिरण्यवीनाम् ।
8.065.10 मा देवा मघवा रिषत् ॥
8.065.11 सहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
8.065.11 शुक्रं हिरण्यमा ददे ॥
8.065.12 नपातो दुर्गहस्य मे सहस्रेण सुराधसः ।
8.065.12 श्रवो देवेष्वक्रत ॥

8.066.01 तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
8.066.01 बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणम् ॥
8.066.02 न यं दुध्रा वरन्ते न स्थिरा मुरो मदे सुशिप्रमन्धसः ।
8.066.02 य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यम् ॥
8.066.03 यः शक्रो मृक्षो अश्व्यो यो वा कीजो हिरण्ययः ।
8.066.03 स ऊर्वस्य रेजयत्यपावृतिमिन्द्रो गव्यस्य वृत्रहा ॥
8.066.04 निखातं चिद्यः पुरुसम्भृतं वसूदिद्वपति दाशुषे ।
8.066.04 वज्री सुशिप्रो हर्यश्व इत्करदिन्द्रः क्रत्वा यथा वशत् ॥
8.066.05 यद्वावन्थ पुरुष्टुत पुरा चिच्छूर नृणाम् ।
8.066.05 वयं तत्त इन्द्र सं भरामसि यज्ञमुक्थं तुरं वचः ॥
8.066.06 सचा सोमेषु पुरुहूत वज्रिवो मदाय द्युक्ष सोमपाः ।
8.066.06 त्वमिद्धि ब्रह्मकृते काम्यं वसु देष्ठः सुन्वते भुवः ॥
8.066.07 वयमेनमिदा ह्योऽपीपेमेह वज्रिणम् ।
8.066.07 तस्मा उ अद्य समना सुतं भरा नूनं भूषत श्रुते ॥
8.066.08 वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।
8.066.08 सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥
8.066.09 कदू न्वस्याकृतमिन्द्रस्यास्ति पौंस्यम् ।
8.066.09 केनो नु कं श्रोमतेन न शुश्रुवे जनुषः परि वृत्रहा ॥
8.066.10 कदू महीरधृष्टा अस्य तविषीः कदु वृत्रघ्नो अस्तृतम् ।
8.066.10 इन्द्रो विश्वान्बेकनाटां अहर्दृश उत क्रत्वा पणींरभि ॥
8.066.11 वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् ।
8.066.11 पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥
8.066.12 पूर्वीश्चिद्धि त्वे तुविकूर्मिन्नाशसो हवन्त इन्द्रोतयः ।
8.066.12 तिरश्चिदर्यः सवना वसो गहि शविष्ठ श्रुधि मे हवम् ॥
8.066.13 वयं घा ते त्वे इद्विन्द्र विप्रा अपि ष्मसि ।
8.066.13 नहि त्वदन्यः पुरुहूत कश्चन मघवन्नस्ति मर्डिता ॥
8.066.14 त्वं नो अस्या अमतेरुत क्षुधोऽभिशस्तेरव स्पृधि ।
8.066.14 त्वं न ऊती तव चित्रया धिया शिक्षा शचिष्ठ गातुवित् ॥
8.066.15 सोम इद्वः सुतो अस्तु कलयो मा बिभीतन ।
8.066.15 अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥

8.067.01 त्यान्नु क्षत्रियां अव आदित्यान्याचिषामहे ।
8.067.01 सुमृळीकां अभिष्टये ॥
8.067.02 मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।
8.067.02 आदित्यासो यथा विदुः ॥
8.067.03 तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।
8.067.03 आदित्यानामरङ्कृते ॥
8.067.04 महि वो महतामवो वरुण मित्रार्यमन् ।
8.067.04 अवांस्या वृणीमहे ॥
8.067.05 जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
8.067.05 कद्ध स्थ हवनश्रुतः ॥
8.067.06 यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः ।
8.067.06 तेना नो अधि वोचत ॥
8.067.07 अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।
8.067.07 आदित्या अद्भुतैनसः ॥
8.067.08 मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।
8.067.08 इन्द्र इद्धि श्रुतो वशी ॥
8.067.09 मा नो मृचा रिपूणां वृजिनानामविष्यवः ।
8.067.09 देवा अभि प्र मृक्षत ॥
8.067.10 उत त्वामदिते मह्यहं देव्युप ब्रुवे ।
8.067.10 सुमृळीकामभिष्टये ॥
8.067.11 पर्षि दीने गभीर आं उग्रपुत्रे जिघांसतः ।
8.067.11 माकिस्तोकस्य नो रिषत् ॥
8.067.12 अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
8.067.12 कृधि तोकाय जीवसे ॥
8.067.13 ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।
8.067.13 व्रता रक्षन्ते अद्रुहः ॥
8.067.14 ते न आस्नो वृकाणामादित्यासो मुमोचत ।
8.067.14 स्तेनं बद्धमिवादिते ॥
8.067.15 अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।
8.067.15 अस्मदेत्वजघ्नुषी ॥
8.067.16 शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् ।
8.067.16 पुरा नूनं बुभुज्महे ॥
8.067.17 शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः ।
8.067.17 देवाः कृणुथ जीवसे ॥
8.067.18 तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।
8.067.18 बन्धाद्बद्धमिवादिते ॥
8.067.19 नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।
8.067.19 यूयमस्मभ्यं मृळत ॥
8.067.20 मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।
8.067.20 पुरा नु जरसो वधीत् ॥
8.067.21 वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् ।
8.067.21 विष्वग्वि वृहता रपः ॥

8.068.01 आ त्वा रथं यथोतये सुम्नाय वर्तयामसि ।
8.068.01 तुविकूर्मिमृतीषहमिन्द्र शविष्ठ सत्पते ॥
8.068.02 तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।
8.068.02 आ पप्राथ महित्वना ॥
8.068.03 यस्य ते महिना महः परि ज्मायन्तमीयतुः ।
8.068.03 हस्ता वज्रं हिरण्ययम् ॥
8.068.04 विश्वानरस्य वस्पतिमनानतस्य शवसः ।
8.068.04 एवैश्च चर्षणीनामूती हुवे रथानाम् ॥
8.068.05 अभिष्टये सदावृधं स्वर्मीळ्हेषु यं नरः ।
8.068.05 नाना हवन्त ऊतये ॥
8.068.06 परोमात्रमृचीषममिन्द्रमुग्रं सुराधसम् ।
8.068.06 ईशानं चिद्वसूनाम् ॥
8.068.07 तंतमिद्राधसे मह इन्द्रं चोदामि पीतये ।
8.068.07 यः पूर्व्यामनुष्टुतिमीशे कृष्टीनां नृतुः ॥
8.068.08 न यस्य ते शवसान सख्यमानंश मर्त्यः ।
8.068.08 नकिः शवांसि ते नशत् ॥
8.068.09 त्वोतासस्त्वा युजाप्सु सूर्ये महद्धनम् ।
8.068.09 जयेम पृत्सु वज्रिवः ॥
8.068.10 तं त्वा यज्ञेभिरीमहे तं गीर्भिर्गिर्वणस्तम ।
8.068.10 इन्द्र यथा चिदाविथ वाजेषु पुरुमाय्यम् ॥
8.068.11 यस्य ते स्वादु सख्यं स्वाद्वी प्रणीतिरद्रिवः ।
8.068.11 यज्ञो वितन्तसाय्यः ॥
8.068.12 उरु णस्तन्वे तन उरु क्षयाय नस्कृधि ।
8.068.12 उरु णो यन्धि जीवसे ॥
8.068.13 उरुं नृभ्य उरुं गव उरुं रथाय पन्थाम् ।
8.068.13 देववीतिं मनामहे ॥
8.068.14 उप मा षड्द्वाद्वा नरः सोमस्य हर्ष्या ।
8.068.14 तिष्ठन्ति स्वादुरातयः ॥
8.068.15 ऋज्राविन्द्रोत आ ददे हरी ऋक्षस्य सूनवि ।
8.068.15 आश्वमेधस्य रोहिता ॥
8.068.16 सुरथां आतिथिग्वे स्वभीशूंरार्क्षे ।
8.068.16 आश्वमेधे सुपेशसः ॥
8.068.17 षळ् अश्वां आतिथिग्व इन्द्रोते वधूमतः ।
8.068.17 सचा पूतक्रतौ सनम् ॥
8.068.18 ऐषु चेतद्वृषण्वत्यन्तरृज्रेष्वरुषी ।
8.068.18 स्वभीशुः कशावती ॥
8.068.19 न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्यः ।
8.068.19 अवद्यमधि दीधरत् ॥

8.069.01 प्रप्र वस्त्रिष्टुभमिषं मन्दद्वीरायेन्दवे ।
8.069.01 धिया वो मेधसातये पुरन्ध्या विवासति ॥
8.069.02 नदं व ओदतीनां नदं योयुवतीनाम् ।
8.069.02 पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥
8.069.03 ता अस्य सूददोहसः सोमं श्रीणन्ति पृश्नयः ।
8.069.03 जन्मन्देवानां विशस्त्रिष्वा रोचने दिवः ॥
8.069.04 अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
8.069.04 सूनुं सत्यस्य सत्पतिम् ॥
8.069.05 आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।
8.069.05 यत्राभि संनवामहे ॥
8.069.06 इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।
8.069.06 यत्सीमुपह्वरे विदत् ॥
8.069.07 उद्यद्ब्रध्नस्य विष्टपं गृहमिन्द्रश्च गन्वहि ।
8.069.07 मध्वः पीत्वा सचेवहि त्रिः सप्त सख्युः पदे ॥
8.069.08 अर्चत प्रार्चत प्रियमेधासो अर्चत ।
8.069.08 अर्चन्तु पुत्रका उत पुरं न धृष्ण्वर्चत ॥
8.069.09 अव स्वराति गर्गरो गोधा परि सनिष्वणत् ।
8.069.09 पिङ्गा परि चनिष्कददिन्द्राय ब्रह्मोद्यतम् ॥
8.069.10 आ यत्पतन्त्येन्यः सुदुघा अनपस्फुरः ।
8.069.10 अपस्फुरं गृभायत सोममिन्द्राय पातवे ॥
8.069.11 अपादिन्द्रो अपादग्निर्विश्वे देवा अमत्सत ।
8.069.11 वरुण इदिह क्षयत्तमापो अभ्यनूषत वत्सं संशिश्वरीरिव ॥
8.069.12 सुदेवो असि वरुण यस्य ते सप्त सिन्धवः ।
8.069.12 अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥
8.069.13 यो व्यतींरफाणयत्सुयुक्तां उप दाशुषे ।
8.069.13 तक्वो नेता तदिद्वपुरुपमा यो अमुच्यत ॥
8.069.14 अतीदु शक्र ओहत इन्द्रो विश्वा अति द्विषः ।
8.069.14 भिनत्कनीन ओदनं पच्यमानं परो गिरा ॥
8.069.15 अर्भको न कुमारकोऽधि तिष्ठन्नवं रथम् ।
8.069.15 स पक्षन्महिषं मृगं पित्रे मात्रे विभुक्रतुम् ॥
8.069.16 आ तू सुशिप्र दम्पते रथं तिष्ठा हिरण्ययम् ।
8.069.16 अध द्युक्षं सचेवहि सहस्रपादमरुषं स्वस्तिगामनेहसम् ॥
8.069.17 तं घेमित्था नमस्विन उप स्वराजमासते ।
8.069.17 अर्थं चिदस्य सुधितं यदेतव आवर्तयन्ति दावने ॥
8.069.18 अनु प्रत्नस्यौकसः प्रियमेधास एषाम् ।
8.069.18 पूर्वामनु प्रयतिं वृक्तबर्हिषो हितप्रयस आशत ॥

8.070.01 यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
8.070.01 विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
8.070.02 इन्द्रं तं शुम्भ पुरुहन्मन्नवसे यस्य द्विता विधर्तरि ।
8.070.02 हस्ताय वज्रः प्रति धायि दर्शतो महो दिवे न सूर्यः ॥
8.070.03 नकिष्टं कर्मणा नशद्यश्चकार सदावृधम् ।
8.070.03 इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्ण्वोजसम् ॥
8.070.04 अषाळ्हमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।
8.070.04 सं धेनवो जायमाने अनोनवुर्द्यावः क्षामो अनोनवुः ॥
8.070.05 यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
8.070.05 न त्वा वज्रिन्सहस्रं सूर्या अनु न जातमष्ट रोदसी ॥
8.070.06 आ पप्राथ महिना वृष्ण्या वृषन्विश्वा शविष्ठ शवसा ।
8.070.06 अस्मां अव मघवन्गोमति व्रजे वज्रिञ्चित्राभिरूतिभिः ॥
8.070.07 न सीमदेव आपदिषं दीर्घायो मर्त्यः ।
8.070.07 एतग्वा चिद्य एतशा युयोजते हरी इन्द्रो युयोजते ॥
8.070.08 तं वो महो महाय्यमिन्द्रं दानाय सक्षणिम् ।
8.070.08 यो गाधेषु य आरणेषु हव्यो वाजेष्वस्ति हव्यः ॥
8.070.09 उदू षु णो वसो महे मृशस्व शूर राधसे ।
8.070.09 उदू षु मह्यै मघवन्मघत्तय उदिन्द्र श्रवसे महे ॥
8.070.10 त्वं न इन्द्र ऋतयुस्त्वानिदो नि तृम्पसि ।
8.070.10 मध्ये वसिष्व तुविनृम्णोर्वोर्नि दासं शिश्नथो हथैः ॥
8.070.11 अन्यव्रतममानुषमयज्वानमदेवयुम् ।
8.070.11 अव स्वः सखा दुधुवीत पर्वतः सुघ्नाय दस्युं पर्वतः ॥
8.070.12 त्वं न इन्द्रासां हस्ते शविष्ठ दावने ।
8.070.12 धानानां न सं गृभायास्मयुर्द्विः सं गृभायास्मयुः ॥
8.070.13 सखायः क्रतुमिच्छत कथा राधाम शरस्य ।
8.070.13 उपस्तुतिं भोजः सूरिर्यो अह्रयः ॥
8.070.14 भूरिभिः समह ऋषिभिर्बर्हिष्मद्भि स्तविष्यसे ।
8.070.14 यदित्थमेकमेकमिच्छर वत्सान्पराददः ॥
8.070.15 कर्णगृह्या मघवा शौरदेव्यो वत्सं नस्त्रिभ्य आनयत् ।
8.070.15 अजां सूरिर्न धातवे ॥

8.071.01 त्वं नो अग्ने महोभिः पाहि विश्वस्या अरातेः ।
8.071.01 उत द्विषो मर्त्यस्य ॥
8.071.02 नहि मन्युः पौरुषेय ईशे हि वः प्रियजात ।
8.071.02 त्वमिदसि क्षपावान् ॥
8.071.03 स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे ।
8.071.03 रयिं देहि विश्ववारम् ॥
8.071.04 न तमग्ने अरातयो मर्तं युवन्त रायः ।
8.071.04 यं त्रायसे दाश्वांसम् ॥
8.071.05 यं त्वं विप्र मेधसातावग्ने हिनोषि धनाय ।
8.071.05 स तवोती गोषु गन्ता ॥
8.071.06 त्वं रयिं पुरुवीरमग्ने दाशुषे मर्ताय ।
8.071.06 प्र णो नय वस्यो अच्छ ॥
8.071.07 उरुष्या णो मा परा दा अघायते जातवेदः ।
8.071.07 दुराध्ये मर्ताय ॥
8.071.08 अग्ने माकिष्टे देवस्य रातिमदेवो युयोत ।
8.071.08 त्वमीशिषे वसूनाम् ॥
8.071.09 स नो वस्व उप मास्यूर्जो नपान्माहिनस्य ।
8.071.09 सखे वसो जरितृभ्यः ॥
8.071.10 अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतम् ।
8.071.10 अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥
8.071.11 अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणाम् ।
8.071.11 द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥
8.071.12 अग्निं वो देवयज्ययाग्निं प्रयत्यध्वरे ।
8.071.12 अग्निं धीषु प्रथममग्निमर्वत्यग्निं क्षैत्राय साधसे ॥
8.071.13 अग्निरिषां सख्ये ददातु न ईशे यो वार्याणाम् ।
8.071.13 अग्निं तोके तनये शश्वदीमहे वसुं सन्तं तनूपाम् ॥
8.071.14 अग्निमीळिष्वावसे गाथाभिः शीरशोचिषम् ।
8.071.14 अग्निं राये पुरुमीळ्ह श्रुतं नरोऽग्निं सुदीतये छर्दिः ॥
8.071.15 अग्निं द्वेषो योतवै नो गृणीमस्यग्निं शं योश्च दातवे ।
8.071.15 विश्वासु विक्ष्ववितेव हव्यो भुवद्वस्तुरृषूणाम् ॥

8.072.01 हविष्कृणुध्वमा गमदध्वर्युर्वनते पुनः ।
8.072.01 विद्वां अस्य प्रशासनम् ॥
8.072.02 नि तिग्ममभ्यंशुं सीदद्धोता मनावधि ।
8.072.02 जुषाणो अस्य सख्यम् ॥
8.072.03 अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया ।
8.072.03 गृभ्णन्ति जिह्वया ससम् ॥
8.072.04 जाम्यतीतपे धनुर्वयोधा अरुहद्वनम् ।
8.072.04 दृषदं जिह्वयावधीत् ॥
8.072.05 चरन्वत्सो रुशन्निह निदातारं न विन्दते ।
8.072.05 वेति स्तोतव अम्ब्यम् ॥
8.072.06 उतो न्वस्य यन्महदश्वावद्योजनं बृहद् ।
8.072.06 दामा रथस्य ददृशे ॥
8.072.07 दुहन्ति सप्तैकामुप द्वा पञ्च सृजतः ।
8.072.07 तीर्थे सिन्धोरधि स्वरे ॥
8.072.08 आ दशभिर्विवस्वत इन्द्रः कोशमचुच्यवीत् ।
8.072.08 खेदया त्रिवृता दिवः ॥
8.072.09 परि त्रिधातुरध्वरं जूर्णिरेति नवीयसी ।
8.072.09 मध्वा होतारो अञ्जते ॥
8.072.10 सिञ्चन्ति नमसावतमुच्चाचक्रं परिज्मानम् ।
8.072.10 नीचीनबारमक्षितम् ॥
8.072.11 अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।
8.072.11 अवतस्य विसर्जने ॥
8.072.12 गाव उपावतावतं मही यज्ञस्य रप्सुदा ।
8.072.12 उभा कर्णा हिरण्यया ॥
8.072.13 आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियम् ।
8.072.13 रसा दधीत वृषभम् ॥
8.072.14 ते जानत स्वमोक्यं सं वत्सासो न मातृभिः ।
8.072.14 मिथो नसन्त जामिभिः ॥
8.072.15 उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।
8.072.15 इन्द्रे अग्ना नमः स्वः ॥
8.072.16 अधुक्षत्पिप्युषीमिषमूर्जं सप्तपदीमरिः ।
8.072.16 सूर्यस्य सप्त रश्मिभिः ॥
8.072.17 सोमस्य मित्रावरुणोदिता सूर आ ददे ।
8.072.17 तदातुरस्य भेषजम् ॥
8.072.18 उतो न्वस्य यत्पदं हर्यतस्य निधान्यम् ।
8.072.18 परि द्यां जिह्वयातनत् ॥

8.073.01 उदीराथामृतायते युञ्जाथामश्विना रथम् ।
8.073.01 अन्ति षद्भूतु वामवः ॥
8.073.02 निमिषश्चिज्जवीयसा रथेना यातमश्विना ।
8.073.02 अन्ति षद्भूतु वामवः ॥
8.073.03 उप स्तृणीतमत्रये हिमेन घर्ममश्विना ।
8.073.03 अन्ति षद्भूतु वामवः ॥
8.073.04 कुह स्थः कुह जग्मथुः कुह श्येनेव पेतथुः ।
8.073.04 अन्ति षद्भूतु वामवः ॥
8.073.05 यदद्य कर्हि कर्हि चिच्छुश्रूयातमिमं हवम् ।
8.073.05 अन्ति षद्भूतु वामवः ॥
8.073.06 अश्विना यामहूतमा नेदिष्ठं याम्याप्यम् ।
8.073.06 अन्ति षद्भूतु वामवः ॥
8.073.07 अवन्तमत्रये गृहं कृणुतं युवमश्विना ।
8.073.07 अन्ति षद्भूतु वामवः ॥
8.073.08 वरेथे अग्निमातपो वदते वल्ग्वत्रये ।
8.073.08 अन्ति षद्भूतु वामवः ॥
8.073.09 प्र सप्तवध्रिराशसा धारामग्नेरशायत ।
8.073.09 अन्ति षद्भूतु वामवः ॥
8.073.10 इहा गतं वृषण्वसू शृणुतं म इमं हवम् ।
8.073.10 अन्ति षद्भूतु वामवः ॥
8.073.11 किमिदं वां पुराणवज्जरतोरिव शस्यते ।
8.073.11 अन्ति षद्भूतु वामवः ॥
8.073.12 समानं वां सजात्यं समानो बन्धुरश्विना ।
8.073.12 अन्ति षद्भूतु वामवः ॥
8.073.13 यो वां रजांस्यश्विना रथो वियाति रोदसी ।
8.073.13 अन्ति षद्भूतु वामवः ॥
8.073.14 आ नो गव्येभिरश्व्यैः सहस्रैरुप गच्छतम् ।
8.073.14 अन्ति षद्भूतु वामवः ॥
8.073.15 मा नो गव्येभिरश्व्यैः सहस्रेभिरति ख्यतम् ।
8.073.15 अन्ति षद्भूतु वामवः ॥
8.073.16 अरुणप्सुरुषा अभूदकर्ज्योतिरृतावरी ।
8.073.16 अन्ति षद्भूतु वामवः ॥
8.073.17 अश्विना सु विचाकशद्वृक्षं परशुमां इव ।
8.073.17 अन्ति षद्भूतु वामवः ॥
8.073.18 पुरं न धृष्णवा रुज कृष्णया बाधितो विशा ।
8.073.18 अन्ति षद्भूतु वामवः ॥

8.074.01 विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियम् ।
8.074.01 अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥
8.074.02 यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिम् ।
8.074.02 प्रशंसन्ति प्रशस्तिभिः ॥
8.074.03 पन्यांसं जातवेदसं यो देवतात्युद्यता ।
8.074.03 हव्यान्यैरयद्दिवि ॥
8.074.04 आगन्म वृत्रहन्तमं ज्येष्ठमग्निमानवम् ।
8.074.04 यस्य श्रुतर्वा बृहन्नार्क्षो अनीक एधते ॥
8.074.05 अमृतं जातवेदसं तिरस्तमांसि दर्शतम् ।
8.074.05 घृताहवनमीड्यम् ॥
8.074.06 सबाधो यं जना इमेऽग्निं हव्येभिरीळते ।
8.074.06 जुह्वानासो यतस्रुचः ॥
8.074.07 इयं ते नव्यसी मतिरग्ने अधाय्यस्मदा ।
8.074.07 मन्द्र सुजात सुक्रतोऽमूर दस्मातिथे ॥
8.074.08 सा ते अग्ने शन्तमा चनिष्ठा भवतु प्रिया ।
8.074.08 तया वर्धस्व सुष्टुतः ॥
8.074.09 सा द्युम्नैर्द्युम्निनी बृहदुपोप श्रवसि श्रवः ।
8.074.09 दधीत वृत्रतूर्ये ॥
8.074.10 अश्वमिद्गां रथप्रां त्वेषमिन्द्रं न सत्पतिम् ।
8.074.10 यस्य श्रवांसि तूर्वथ पन्यम्पन्यं च कृष्टयः ॥
8.074.11 यं त्वा गोपवनो गिरा चनिष्ठदग्ने अङ्गिरः ।
8.074.11 स पावक श्रुधी हवम् ॥
8.074.12 यं त्वा जनास ईळते सबाधो वाजसातये ।
8.074.12 स बोधि वृत्रतूर्ये ॥
8.074.13 अहं हुवान आर्क्षे श्रुतर्वणि मदच्युति ।
8.074.13 शर्धांसीव स्तुकाविनां मृक्षा शीर्षा चतुर्णाम् ॥
8.074.14 मां चत्वार आशवः शविष्ठस्य द्रवित्नवः ।
8.074.14 सुरथासो अभि प्रयो वक्षन्वयो न तुग्र्यम् ॥
8.074.15 सत्यमित्त्वा महेनदि परुष्ण्यव देदिशम् ।
8.074.15 नेमापो अश्वदातरः शविष्ठादस्ति मर्त्यः ॥

8.075.01 युक्ष्वा हि देवहूतमां अश्वां अग्ने रथीरिव ।
8.075.01 नि होता पूर्व्यः सदः ॥
8.075.02 उत नो देव देवां अच्छा वोचो विदुष्टरः ।
8.075.02 श्रद्विश्वा वार्या कृधि ॥
8.075.03 त्वं ह यद्यविष्ठ्य सहसः सूनवाहुत ।
8.075.03 ऋतावा यज्ञियो भुवः ॥
8.075.04 अयमग्निः सहस्रिणो वाजस्य शतिनस्पतिः ।
8.075.04 मूर्धा कवी रयीणाम् ॥
8.075.05 तं नेमिमृभवो यथा नमस्व सहूतिभिः ।
8.075.05 नेदीयो यज्ञमङ्गिरः ॥
8.075.06 तस्मै नूनमभिद्यवे वाचा विरूप नित्यया ।
8.075.06 वृष्णे चोदस्व सुष्टुतिम् ॥
8.075.07 कमु ष्विदस्य सेनयाग्नेरपाकचक्षसः ।
8.075.07 पणिं गोषु स्तरामहे ॥
8.075.08 मा नो देवानां विशः प्रस्नातीरिवोस्राः ।
8.075.08 कृशं न हासुरघ्न्याः ॥
8.075.09 मा नः समस्य दूढ्यः परिद्वेषसो अंहतिः ।
8.075.09 ऊर्मिर्न नावमा वधीत् ॥
8.075.10 नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
8.075.10 अमैरमित्रमर्दय ॥
8.075.11 कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिम् ।
8.075.11 उरुकृदुरु णस्कृधि ॥
8.075.12 मा नो अस्मिन्महाधने परा वर्ग्भारभृद्यथा ।
8.075.12 संवर्गं सं रयिं जय ॥
8.075.13 अन्यमस्मद्भिया इयमग्ने सिषक्तु दुच्छुना ।
8.075.13 वर्धा नो अमवच्छवः ॥
8.075.14 यस्याजुषन्नमस्विनः शमीमदुर्मखस्य वा ।
8.075.14 तं घेदग्निर्वृधावति ॥
8.075.15 परस्या अधि संवतोऽवरां अभ्या तर ।
8.075.15 यत्राहमस्मि तां अव ॥
8.075.16 विद्मा हि ते पुरा वयमग्ने पितुर्यथावसः ।
8.075.16 अधा ते सुम्नमीमहे ॥

8.076.01 इमं नु मायिनं हुव इन्द्रमीशानमोजसा ।
8.076.01 मरुत्वन्तं न वृञ्जसे ॥
8.076.02 अयमिन्द्रो मरुत्सखा वि वृत्रस्याभिनच्छिरः ।
8.076.02 वज्रेण शतपर्वणा ॥
8.076.03 वावृधानो मरुत्सखेन्द्रो वि वृत्रमैरयत् ।
8.076.03 सृजन्समुद्रिया अपः ॥
8.076.04 अयं ह येन वा इदं स्वर्मरुत्वता जितम् ।
8.076.04 इन्द्रेण सोमपीतये ॥
8.076.05 मरुत्वन्तमृजीषिणमोजस्वन्तं विरप्शिनम् ।
8.076.05 इन्द्रं गीर्भिर्हवामहे ॥
8.076.06 इन्द्रं प्रत्नेन मन्मना मरुत्वन्तं हवामहे ।
8.076.06 अस्य सोमस्य पीतये ॥
8.076.07 मरुत्वां इन्द्र मीढ्वः पिबा सोमं शतक्रतो ।
8.076.07 अस्मिन्यज्ञे पुरुष्टुत ॥
8.076.08 तुभ्येदिन्द्र मरुत्वते सुताः सोमासो अद्रिवः ।
8.076.08 हृदा हूयन्त उक्थिनः ॥
8.076.09 पिबेदिन्द्र मरुत्सखा सुतं सोमं दिविष्टिषु ।
8.076.09 वज्रं शिशान ओजसा ॥
8.076.10 उत्तिष्ठन्नोजसा सह पीत्वी शिप्रे अवेपयः ।
8.076.10 सोममिन्द्र चमू सुतम् ॥
8.076.11 अनु त्वा रोदसी उभे क्रक्षमाणमकृपेताम् ।
8.076.11 इन्द्र यद्दस्युहाभवः ॥
8.076.12 वाचमष्टापदीमहं नवस्रक्तिमृतस्पृशम् ।
8.076.12 इन्द्रात्परि तन्वं ममे ॥

8.077.01 जज्ञानो नु शतक्रतुर्वि पृच्छदिति मातरम् ।
8.077.01 क उग्राः के ह शृण्विरे ॥
8.077.02 आदीं शवस्यब्रवीदौर्णवाभमहीशुवम् ।
8.077.02 ते पुत्र सन्तु निष्टुरः ॥
8.077.03 समित्तान्वृत्रहाखिदत्खे अरां इव खेदया ।
8.077.03 प्रवृद्धो दस्युहाभवत् ॥
8.077.04 एकया प्रतिधापिबत्साकं सरांसि त्रिंशतम् ।
8.077.04 इन्द्रः सोमस्य काणुका ॥
8.077.05 अभि गन्धर्वमतृणदबुध्नेषु रजस्स्वा ।
8.077.05 इन्द्रो ब्रह्मभ्य इद्वृधे ॥
8.077.06 निराविध्यद्गिरिभ्य आ धारयत्पक्वमोदनम् ।
8.077.06 इन्द्रो बुन्दं स्वाततम् ॥
8.077.07 शतब्रध्न इषुस्तव सहस्रपर्ण एक इत् ।
8.077.07 यमिन्द्र चकृषे युजम् ॥
8.077.08 तेन स्तोतृभ्य आ भर नृभ्यो नारिभ्यो अत्तवे ।
8.077.08 सद्यो जात ऋभुष्ठिर ॥
8.077.09 एता च्यौत्नानि ते कृता वर्षिष्ठानि परीणसा ।
8.077.09 हृदा वीड्वधारयः ॥
8.077.10 विश्वेत्ता विष्णुराभरदुरुक्रमस्त्वेषितः ।
8.077.10 शतं महिषान्क्षीरपाकमोदनं वराहमिन्द्र एमुषम् ॥
8.077.11 तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः ।
8.077.11 उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥

8.078.01 पुरोळाशं नो अन्धस इन्द्र सहस्रमा भर ।
8.078.01 शता च शूर गोनाम् ॥
8.078.02 आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् ।
8.078.02 सचा मना हिरण्यया ॥
8.078.03 उत नः कर्णशोभना पुरूणि धृष्णवा भर ।
8.078.03 त्वं हि शृण्विषे वसो ॥
8.078.04 नकीं वृधीक इन्द्र ते न सुषा न सुदा उत ।
8.078.04 नान्यस्त्वच्छूर वाघतः ॥
8.078.05 नकीमिन्द्रो निकर्तवे न शक्रः परिशक्तवे ।
8.078.05 विश्वं शृणोति पश्यति ॥
8.078.06 स मन्युं मर्त्यानामदब्धो नि चिकीषते ।
8.078.06 पुरा निदश्चिकीषते ॥
8.078.07 क्रत्व इत्पूर्णमुदरं तुरस्यास्ति विधतः ।
8.078.07 वृत्रघ्नः सोमपाव्नः ॥
8.078.08 त्वे वसूनि संगता विश्वा च सोम सौभगा ।
8.078.08 सुदात्वपरिह्वृता ॥
8.078.09 त्वामिद्यवयुर्मम कामो गव्युर्हिरण्ययुः ।
8.078.09 त्वामश्वयुरेषते ॥
8.078.10 तवेदिन्द्राहमाशसा हस्ते दात्रं चना ददे ।
8.078.10 दिनस्य वा मघवन्सम्भृतस्य वा पूर्धि यवस्य काशिना ॥

8.079.01 अयं कृत्नुरगृभीतो विश्वजिदुद्भिदित्सोमः ।
8.079.01 ऋषिर्विप्रः काव्येन ॥
8.079.02 अभ्यूर्णोति यन्नग्नं भिषक्ति विश्वं यत्तुरम् ।
8.079.02 प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥
8.079.03 त्वं सोम तनूकृद्भ्यो द्वेषोभ्योऽन्यकृतेभ्यः ।
8.079.03 उरु यन्तासि वरूथम् ॥
8.079.04 त्वं चित्ती तव दक्षैर्दिव आ पृथिव्या ऋजीषिन् ।
8.079.04 यावीरघस्य चिद्द्वेषः ॥
8.079.05 अर्थिनो यन्ति चेदर्थं गच्छानिद्ददुषो रातिम् ।
8.079.05 ववृज्युस्तृष्यतः कामम् ॥
8.079.06 विदद्यत्पूर्व्यं नष्टमुदीमृतायुमीरयत् ।
8.079.06 प्रेमायुस्तारीदतीर्णम् ॥
8.079.07 सुशेवो नो मृळयाकुरदृप्तक्रतुरवातः ।
8.079.07 भवा नः सोम शं हृदे ॥
8.079.08 मा नः सोम सं वीविजो मा वि बीभिषथा राजन् ।
8.079.08 मा नो हार्दि त्विषा वधीः ॥
8.079.09 अव यत्स्वे सधस्थे देवानां दुर्मतीरीक्षे ।
8.079.09 राजन्नप द्विषः सेध मीढ्वो अप स्रिधः सेध ॥

8.080.01 नह्यन्यं बळाकरं मर्डितारं शतक्रतो ।
8.080.01 त्वं न इन्द्र मृळय ॥
8.080.02 यो नः शश्वत्पुराविथामृध्रो वाजसातये ।
8.080.02 स त्वं न इन्द्र मृळय ॥
8.080.03 किमङ्ग रध्रचोदनः सुन्वानस्यावितेदसि ।
8.080.03 कुवित्स्विन्द्र णः शकः ॥
8.080.04 इन्द्र प्र णो रथमव पश्चाच्चित्सन्तमद्रिवः ।
8.080.04 पुरस्तादेनं मे कृधि ॥
8.080.05 हन्तो नु किमाससे प्रथमं नो रथं कृधि ।
8.080.05 उपमं वाजयु श्रवः ॥
8.080.06 अवा नो वाजयुं रथं सुकरं ते किमित्परि ।
8.080.06 अस्मान्सु जिग्युषस्कृधि ॥
8.080.07 इन्द्र दृह्यस्व पूरसि भद्रा त एति निष्कृतम् ।
8.080.07 इयं धीरृत्वियावती ॥
8.080.08 मा सीमवद्य आ भागुर्वी काष्ठा हितं धनम् ।
8.080.08 अपावृक्ता अरत्नयः ॥
8.080.09 तुरीयं नाम यज्ञियं यदा करस्तदुश्मसि ।
8.080.09 आदित्पतिर्न ओहसे ॥
8.080.10 अवीवृधद्वो अमृता अमन्दीदेकद्यूर्देवा उत याश्च देवीः ।
8.080.10 तस्मा उ राधः कृणुत प्रशस्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

8.081.01 आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
8.081.01 महाहस्ती दक्षिणेन ॥
8.081.02 विद्मा हि त्वा तुविकूर्मिं तुविदेष्णं तुवीमघम् ।
8.081.02 तुविमात्रमवोभिः ॥
8.081.03 नहि त्वा शूर देवा न मर्तासो दित्सन्तम् ।
8.081.03 भीमं न गां वारयन्ते ॥
8.081.04 एतो न्विन्द्रं स्तवामेशानं वस्वः स्वराजम् ।
8.081.04 न राधसा मर्धिषन्नः ॥
8.081.05 प्र स्तोषदुप गासिषच्छ्रवत्साम गीयमानम् ।
8.081.05 अभि राधसा जुगुरत् ॥
8.081.06 आ नो भर दक्षिणेनाभि सव्येन प्र मृश ।
8.081.06 इन्द्र मा नो वसोर्निर्भाक् ॥
8.081.07 उप क्रमस्वा भर धृषता धृष्णो जनानाम् ।
8.081.07 अदाशूष्टरस्य वेदः ॥
8.081.08 इन्द्र य उ नु ते अस्ति वाजो विप्रेभिः सनित्वः ।
8.081.08 अस्माभिः सु तं सनुहि ॥
8.081.09 सद्योजुवस्ते वाजा अस्मभ्यं विश्वश्चन्द्राः ।
8.081.09 वशैश्च मक्षू जरन्ते ॥

8.082.01 आ प्र द्रव परावतोऽर्वावतश्च वृत्रहन् ।
8.082.01 मध्वः प्रति प्रभर्मणि ॥
8.082.02 तीव्राः सोमास आ गहि सुतासो मादयिष्णवः ।
8.082.02 पिबा दधृग्यथोचिषे ॥
8.082.03 इषा मन्दस्वादु तेऽरं वराय मन्यवे ।
8.082.03 भुवत्त इन्द्र शं हृदे ॥
8.082.04 आ त्वशत्रवा गहि न्युक्थानि च हूयसे ।
8.082.04 उपमे रोचने दिवः ॥
8.082.05 तुभ्यायमद्रिभिः सुतो गोभिः श्रीतो मदाय कम् ।
8.082.05 प्र सोम इन्द्र हूयते ॥
8.082.06 इन्द्र श्रुधि सु मे हवमस्मे सुतस्य गोमतः ।
8.082.06 वि पीतिं तृप्तिमश्नुहि ॥
8.082.07 य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
8.082.07 पिबेदस्य त्वमीशिषे ॥
8.082.08 यो अप्सु चन्द्रमा इव सोमश्चमूषु ददृशे ।
8.082.08 पिबेदस्य त्वमीशिषे ॥
8.082.09 यं ते श्येनः पदाभरत्तिरो रजांस्यस्पृतम् ।
8.082.09 पिबेदस्य त्वमीशिषे ॥

8.083.01 देवानामिदवो महत्तदा वृणीमहे वयम् ।
8.083.01 वृष्णामस्मभ्यमूतये ॥
8.083.02 ते नः सन्तु युजः सदा वरुणो मित्रो अर्यमा ।
8.083.02 वृधासश्च प्रचेतसः ॥
8.083.03 अति नो विष्पिता पुरु नौभिरपो न पर्षथ ।
8.083.03 यूयमृतस्य रथ्यः ॥
8.083.04 वामं नो अस्त्वर्यमन्वामं वरुण शंस्यम् ।
8.083.04 वामं ह्यावृणीमहे ॥
8.083.05 वामस्य हि प्रचेतस ईशानाशो रिशादसः ।
8.083.05 नेमादित्या अघस्य यत् ॥
8.083.06 वयमिद्वः सुदानवः क्षियन्तो यान्तो अध्वन्ना ।
8.083.06 देवा वृधाय हूमहे ॥
8.083.07 अधि न इन्द्रैषां विष्णो सजात्यानाम् ।
8.083.07 इता मरुतो अश्विना ॥
8.083.08 प्र भ्रातृत्वं सुदानवोऽध द्विता समान्या ।
8.083.08 मातुर्गर्भे भरामहे ॥
8.083.09 यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
8.083.09 अधा चिद्व उत ब्रुवे ॥

8.084.01 प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियम् ।
8.084.01 अग्निं रथं न वेद्यम् ॥
8.084.02 कविमिव प्रचेतसं यं देवासो अध द्विता ।
8.084.02 नि मर्त्येष्वादधुः ॥
8.084.03 त्वं यविष्ठ दाशुषो नॄंः पाहि शृणुधी गिरः ।
8.084.03 रक्षा तोकमुत त्मना ॥
8.084.04 कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिम् ।
8.084.04 वराय देव मन्यवे ॥
8.084.05 दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।
8.084.05 कदु वोच इदं नमः ॥
8.084.06 अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।
8.084.06 वाजद्रविणसो गिरः ॥
8.084.07 कस्य नूनं परीणसो धियो जिन्वसि दम्पते ।
8.084.07 गोषाता यस्य ते गिरः ॥
8.084.08 तं मर्जयन्त सुक्रतुं पुरोयावानमाजिषु ।
8.084.08 स्वेषु क्षयेषु वाजिनम् ॥
8.084.09 क्षेति क्षेमेभिः साधुभिर्नकिर्यं घ्नन्ति हन्ति यः ।
8.084.09 अग्ने सुवीर एधते ॥

8.085.01 आ मे हवं नासत्याश्विना गच्छतं युवम् ।
8.085.01 मध्वः सोमस्य पीतये ॥
8.085.02 इमं मे स्तोममश्विनेमं मे शृणुतं हवम् ।
8.085.02 मध्वः सोमस्य पीतये ॥
8.085.03 अयं वां कृष्णो अश्विना हवते वाजिनीवसू ।
8.085.03 मध्वः सोमस्य पीतये ॥
8.085.04 शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा ।
8.085.04 मध्वः सोमस्य पीतये ॥
8.085.05 छर्दिर्यन्तमदाभ्यं विप्राय स्तुवते नरा ।
8.085.05 मध्वः सोमस्य पीतये ॥
8.085.06 गच्छतं दाशुषो गृहमित्था स्तुवतो अश्विना ।
8.085.06 मध्वः सोमस्य पीतये ॥
8.085.07 युञ्जाथां रासभं रथे वीड्वङ्गे वृषण्वसू ।
8.085.07 मध्वः सोमस्य पीतये ॥
8.085.08 त्रिवन्धुरेण त्रिवृता रथेना यातमश्विना ।
8.085.08 मध्वः सोमस्य पीतये ॥
8.085.09 नू मे गिरो नासत्याश्विना प्रावतं युवम् ।
8.085.09 मध्वः सोमस्य पीतये ॥

8.086.01 उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
8.086.01 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
8.086.02 कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यैष्टये ।
8.086.02 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
8.086.03 युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यैष्टये ।
8.086.03 ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
8.086.04 उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।
8.086.04 यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥
8.086.05 ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।
8.086.05 ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥

8.087.01 द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
8.087.01 मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥
8.087.02 पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
8.087.02 ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥
8.087.03 आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
8.087.03 ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥
8.087.04 पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
8.087.04 ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥
8.087.05 आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
8.087.05 दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥
8.087.06 वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
8.087.06 ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥

8.088.01 तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
8.088.01 अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥
8.088.02 द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
8.088.02 क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥
8.088.03 न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
8.088.03 यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥
8.088.04 योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
8.088.04 आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥
8.088.05 प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।
8.088.05 न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥
8.088.06 नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।
8.088.06 अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥

8.089.01 बृहदिन्द्राय गायत मरुतो वृत्रहन्तमम् ।
8.089.01 येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ॥
8.089.02 अपाधमदभिशस्तीरशस्तिहाथेन्द्रो द्युम्न्याभवत् ।
8.089.02 देवास्त इन्द्र सख्याय येमिरे बृहद्भानो मरुद्गण ॥
8.089.03 प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
8.089.03 वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ॥
8.089.04 अभि प्र भर धृषता धृषन्मनः श्रवश्चित्ते असद्बृहत् ।
8.089.04 अर्षन्त्वापो जवसा वि मातरो हनो वृत्रं जया स्वः ॥
8.089.05 यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।
8.089.05 तत्पृथिवीमप्रथयस्तदस्तभ्ना उत द्याम् ॥
8.089.06 तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।
8.089.06 तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥
8.089.07 आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।
8.089.07 घर्मं न सामन्तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥

8.090.01 आ नो विश्वासु हव्य इन्द्रः समत्सु भूषतु ।
8.090.01 उप ब्रह्माणि सवनानि वृत्रहा परमज्या ऋचीषमः ॥
8.090.02 त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।
8.090.02 तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥
8.090.03 ब्रह्मा त इन्द्र गिर्वणः क्रियन्ते अनतिद्भुता ।
8.090.03 इमा जुषस्व हर्यश्व योजनेन्द्र या ते अमन्महि ॥
8.090.04 त्वं हि सत्यो मघवन्ननानतो वृत्रा भूरि न्यृञ्जसे ।
8.090.04 स त्वं शविष्ठ वज्रहस्त दाशुषेऽर्वाञ्चं रयिमा कृधि ॥
8.090.05 त्वमिन्द्र यशा अस्यृजीषी शवसस्पते ।
8.090.05 त्वं वृत्राणि हंस्यप्रतीन्येक इदनुत्ता चर्षणीधृता ॥
8.090.06 तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।
8.090.06 महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥

8.091.01 कन्या वारवायती सोममपि स्रुताविदत् ।
8.091.01 अस्तं भरन्त्यब्रवीदिन्द्राय सुनवै त्वा शक्राय सुनवै त्वा ॥
8.091.02 असौ य एषि वीरको गृहंगृहं विचाकशद् ।
8.091.02 इमं जम्भसुतं पिब धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ॥
8.091.03 आ चन त्वा चिकित्सामोऽधि चन त्वा नेमसि ।
8.091.03 शनैरिव शनकैरिवेन्द्रायेन्दो परि स्रव ॥
8.091.04 कुविच्छकत्कुवित्करत्कुविन्नो वस्यसस्करत् ।
8.091.04 कुवित्पतिद्विषो यतीरिन्द्रेण संगमामहै ॥
8.091.05 इमानि त्रीणि विष्टपा तानीन्द्र वि रोहय ।
8.091.05 शिरस्ततस्योर्वरामादिदं म उपोदरे ॥
8.091.06 असौ च या न उर्वरादिमां तन्वं मम ।
8.091.06 अथो ततस्य यच्छिरः सर्वा ता रोमशा कृधि ॥
8.091.07 खे रथस्य खेऽनसः खे युगस्य शतक्रतो ।
8.091.07 अपालामिन्द्र त्रिष्पूत्व्यकृणोः सूर्यत्वचम् ॥

8.092.01 पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
8.092.01 विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनाम् ॥
8.092.02 पुरुहूतं पुरुष्टुतं गाथान्यं सनश्रुतम् ।
8.092.02 इन्द्र इति ब्रवीतन ॥
8.092.03 इन्द्र इन्नो महानां दाता वाजानां नृतुः ।
8.092.03 महां अभिज्ञ्वा यमत् ॥
8.092.04 अपादु शिप्र्यन्धसः सुदक्षस्य प्रहोषिणः ।
8.092.04 इन्दोरिन्द्रो यवाशिरः ॥
8.092.05 तं वभि प्रार्चतेन्द्रं सोमस्य पीतये ।
8.092.05 तदिद्ध्यस्य वर्धनम् ॥
8.092.06 अस्य पीत्वा मदानां देवो देवस्यौजसा ।
8.092.06 विश्वाभि भुवना भुवत् ॥
8.092.07 त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतम् ।
8.092.07 आ च्यावयस्यूतये ॥
8.092.08 युध्मं सन्तमनर्वाणं सोमपामनपच्युतम् ।
8.092.08 नरमवार्यक्रतुम् ॥
8.092.09 शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम ।
8.092.09 अवा नः पार्ये धने ॥
8.092.10 अतश्चिदिन्द्र ण उपा याहि शतवाजया ।
8.092.10 इषा सहस्रवाजया ॥
8.092.11 अयाम धीवतो धियोऽर्वद्भिः शक्र गोदरे ।
8.092.11 जयेम पृत्सु वज्रिवः ॥
8.092.12 वयमु त्वा शतक्रतो गावो न यवसेष्वा ।
8.092.12 उक्थेषु रणयामसि ॥
8.092.13 विश्वा हि मर्त्यत्वनानुकामा शतक्रतो ।
8.092.13 अगन्म वज्रिन्नाशसः ॥
8.092.14 त्वे सु पुत्र शवसोऽवृत्रन्कामकातयः ।
8.092.14 न त्वामिन्द्राति रिच्यते ॥
8.092.15 स नो वृषन्सनिष्ठया सं घोरया द्रवित्न्वा ।
8.092.15 धियाविड्ढि पुरन्ध्या ॥
8.092.16 यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
8.092.16 तेन नूनं मदे मदेः ॥
8.092.17 यस्ते चित्रश्रवस्तमो य इन्द्र वृत्रहन्तमः ।
8.092.17 य ओजोदातमो मदः ॥
8.092.18 विद्मा हि यस्ते अद्रिवस्त्वादत्तः सत्य सोमपाः ।
8.092.18 विश्वासु दस्म कृष्टिषु ॥
8.092.19 इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
8.092.19 अर्कमर्चन्तु कारवः ॥
8.092.20 यस्मिन्विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
8.092.20 इन्द्रं सुते हवामहे ॥
8.092.21 त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
8.092.21 तमिद्वर्धन्तु नो गिरः ॥
8.092.22 आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
8.092.22 न त्वामिन्द्राति रिच्यते ॥
8.092.23 विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।
8.092.23 य इन्द्र जठरेषु ते ॥
8.092.24 अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।
8.092.24 अरं धामभ्य इन्दवः ॥
8.092.25 अरमश्वाय गायति श्रुतकक्षो अरं गवे ।
8.092.25 अरमिन्द्रस्य धाम्ने ॥
8.092.26 अरं हि ष्म सुतेषु णः सोमेष्विन्द्र भूषसि ।
8.092.26 अरं ते शक्र दावने ॥
8.092.27 पराकात्ताच्चिदद्रिवस्त्वां नक्षन्त नो गिरः ।
8.092.27 अरं गमाम ते वयम् ॥
8.092.28 एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
8.092.28 एवा ते राध्यं मनः ॥
8.092.29 एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।
8.092.29 अधा चिदिन्द्र मे सचा ॥
8.092.30 मो षु ब्रह्मेव तन्द्रयुर्भुवो वाजानां पते ।
8.092.30 मत्स्वा सुतस्य गोमतः ॥
8.092.31 मा न इन्द्राभ्यादिशः सूरो अक्तुष्वा यमन् ।
8.092.31 त्वा युजा वनेम तत् ॥
8.092.32 त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृधः ।
8.092.32 त्वमस्माकं तव स्मसि ॥
8.092.33 त्वामिद्धि त्वायवोऽनुनोनुवतश्चरान् ।
8.092.33 सखाय इन्द्र कारवः ॥

8.093.01 उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
8.093.01 अस्तारमेषि सूर्य ॥
8.093.02 नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
8.093.02 अहिं च वृत्रहावधीत् ॥
8.093.03 स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
8.093.03 उरुधारेव दोहते ॥
8.093.04 यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
8.093.04 सर्वं तदिन्द्र ते वशे ॥
8.093.05 यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
8.093.05 उतो तत्सत्यमित्तव ॥
8.093.06 ये सोमासः परावति ये अर्वावति सुन्विरे ।
8.093.06 सर्वांस्तां इन्द्र गच्छसि ॥
8.093.07 तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
8.093.07 स वृषा वृषभो भुवत् ॥
8.093.08 इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
8.093.08 द्युम्नी श्लोकी स सोम्यः ॥
8.093.09 गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
8.093.09 ववक्ष ऋष्वो अस्तृतः ॥
8.093.10 दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
8.093.10 त्वं च मघवन्वशः ॥
8.093.11 यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।
8.093.11 न देवो नाध्रिगुर्जनः ॥
8.093.12 अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
8.093.12 उभे सुशिप्र रोदसी ॥
8.093.13 त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
8.093.13 परुष्णीषु रुशत्पयः ॥
8.093.14 वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।
8.093.14 विदन्मृगस्य तां अमः ॥
8.093.15 आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।
8.093.15 अजातशत्रुरस्तृतः ॥
8.093.16 श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।
8.093.16 आ शुषे राधसे महे ॥
8.093.17 अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
8.093.17 यत्सोमेसोम आभवः ॥
8.093.18 बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
8.093.18 शृणोतु शक्र आशिषम् ॥
8.093.19 कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
8.093.19 कया स्तोतृभ्य आ भर ॥
8.093.20 कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।
8.093.20 वृत्रहा सोमपीतये ॥
8.093.21 अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।
8.093.21 प्रयन्ता बोधि दाशुषे ॥
8.093.22 पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
8.093.22 अपां जग्मिर्निचुम्पुणः ॥
8.093.23 इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
8.093.23 अच्छावभृथमोजसा ॥
8.093.24 इह त्या सधमाद्या हरी हिरण्यकेश्या ।
8.093.24 वोळ्हामभि प्रयो हितम् ॥
8.093.25 तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।
8.093.25 स्तोतृभ्य इन्द्रमा वह ॥
8.093.26 आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।
8.093.26 स्तोतृभ्य इन्द्रमर्चत ॥
8.093.27 आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।
8.093.27 स्तोतृभ्य इन्द्र मृळय ॥
8.093.28 भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।
8.093.28 यदिन्द्र मृळयासि नः ॥
8.093.29 स नो विश्वान्या भर सुवितानि शतक्रतो ।
8.093.29 यदिन्द्र मृळयासि नः ॥
8.093.30 त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।
8.093.30 यदिन्द्र मृळयासि नः ॥
8.093.31 उप नो हरिभिः सुतं याहि मदानां पते ।
8.093.31 उप नो हरिभिः सुतम् ॥
8.093.32 द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
8.093.32 उप नो हरिभिः सुतम् ॥
8.093.33 त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
8.093.33 उप नो हरिभिः सुतम् ॥
8.093.34 इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।
8.093.34 वाजी ददातु वाजिनम् ॥

8.094.01 गौर्धयति मरुतां श्रवस्युर्माता मघोनाम् ।
8.094.01 युक्ता वह्नी रथानाम् ॥
8.094.02 यस्या देवा उपस्थे व्रता विश्वे धारयन्ते ।
8.094.02 सूर्यामासा दृशे कम् ॥
8.094.03 तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
8.094.03 मरुतः सोमपीतये ॥
8.094.04 अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
8.094.04 उत स्वराजो अश्विना ॥
8.094.05 पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।
8.094.05 त्रिषधस्थस्य जावतः ॥
8.094.06 उतो न्वस्य जोषमां इन्द्रः सुतस्य गोमतः ।
8.094.06 प्रातर्होतेव मत्सति ॥
8.094.07 कदत्विषन्त सूरयस्तिर आप इव स्रिधः ।
8.094.07 अर्षन्ति पूतदक्षसः ॥
8.094.08 कद्वो अद्य महानां देवानामवो वृणे ।
8.094.08 त्मना च दस्मवर्चसाम् ॥
8.094.09 आ ये विश्वा पार्थिवानि पप्रथन्रोचना दिवः ।
8.094.09 मरुतः सोमपीतये ॥
8.094.10 त्यान्नु पूतदक्षसो दिवो वो मरुतो हुवे ।
8.094.10 अस्य सोमस्य पीतये ॥
8.094.11 त्यान्नु ये वि रोदसी तस्तभुर्मरुतो हुवे ।
8.094.11 अस्य सोमस्य पीतये ॥
8.094.12 त्यं नु मारुतं गणं गिरिष्ठां वृषणं हुवे ।
8.094.12 अस्य सोमस्य पीतये ॥

8.095.01 आ त्वा गिरो रथीरिवास्थुः सुतेषु गिर्वणः ।
8.095.01 अभि त्वा समनूषतेन्द्र वत्सं न मातरः ॥
8.095.02 आ त्वा शुक्रा अचुच्यवुः सुतास इन्द्र गिर्वणः ।
8.095.02 पिबा त्वस्यान्धस इन्द्र विश्वासु ते हितम् ॥
8.095.03 पिबा सोमं मदाय कमिन्द्र श्येनाभृतं सुतम् ।
8.095.03 त्वं हि शश्वतीनां पती राजा विशामसि ॥
8.095.04 श्रुधी हवं तिरश्च्या इन्द्र यस्त्वा सपर्यति ।
8.095.04 सुवीर्यस्य गोमतो रायस्पूर्धि महां असि ॥
8.095.05 इन्द्र यस्ते नवीयसीं गिरं मन्द्रामजीजनत् ।
8.095.05 चिकित्विन्मनसं धियं प्रत्नामृतस्य पिप्युषीम् ॥
8.095.06 तमु ष्टवाम यं गिर इन्द्रमुक्थानि वावृधुः ।
8.095.06 पुरूण्यस्य पौंस्या सिषासन्तो वनामहे ॥
8.095.07 एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।
8.095.07 शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥
8.095.08 इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।
8.095.08 शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्यः ॥
8.095.09 इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।
8.095.09 शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥

8.096.01 अस्मा उषास आतिरन्त याममिन्द्राय नक्तमूर्म्याः सुवाचः ।
8.096.01 अस्मा आपो मातरः सप्त तस्थुर्नृभ्यस्तराय सिन्धवः सुपाराः ॥
8.096.02 अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् ।
8.096.02 न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥
8.096.03 इन्द्रस्य वज्र आयसो निमिश्ल इन्द्रस्य बाह्वोर्भूयिष्ठमोजः ।
8.096.03 शीर्षन्निन्द्रस्य क्रतवो निरेक आसन्नेषन्त श्रुत्या उपाके ॥
8.096.04 मन्ये त्वा यज्ञियं यज्ञियानां मन्ये त्वा च्यवनमच्युतानाम् ।
8.096.04 मन्ये त्वा सत्वनामिन्द्र केतुं मन्ये त्वा वृषभं चर्षणीनाम् ॥
8.096.05 आ यद्वज्रं बाह्वोरिन्द्र धत्से मदच्युतमहये हन्तवा उ ।
8.096.05 प्र पर्वता अनवन्त प्र गावः प्र ब्रह्माणो अभिनक्षन्त इन्द्रम् ॥
8.096.06 तमु ष्टवाम य इमा जजान विश्वा जातान्यवराण्यस्मात् ।
8.096.06 इन्द्रेण मित्रं दिधिषेम गीर्भिरुपो नमोभिर्वृषभं विशेम ॥
8.096.07 वृत्रस्य त्वा श्वसथादीषमाणा विश्वे देवा अजहुर्ये सखायः ।
8.096.07 मरुद्भिरिन्द्र सख्यं ते अस्त्वथेमा विश्वाः पृतना जयासि ॥
8.096.08 त्रिः षष्टिस्त्वा मरुतो वावृधाना उस्रा इव राशयो यज्ञियासः ।
8.096.08 उप त्वेमः कृधि नो भागधेयं शुष्मं त एना हविषा विधेम ॥
8.096.09 तिग्ममायुधं मरुतामनीकं कस्त इन्द्र प्रति वज्रं दधर्ष ।
8.096.09 अनायुधासो असुरा अदेवाश्चक्रेण तां अप वप ऋजीषिन् ॥
8.096.10 मह उग्राय तवसे सुवृक्तिं प्रेरय शिवतमाय पश्वः ।
8.096.10 गिर्वाहसे गिर इन्द्राय पूर्वीर्धेहि तन्वे कुविदङ्ग वेदत् ॥
8.096.11 उक्थवाहसे विभ्वे मनीषां द्रुणा न पारमीरया नदीनाम् ।
8.096.11 नि स्पृश धिया तन्वि श्रुतस्य जुष्टतरस्य कुविदङ्ग वेदत् ॥
8.096.12 तद्विविड्ढि यत्त इन्द्रो जुजोषत्स्तुहि सुष्टुतिं नमसा विवास ।
8.096.12 उप भूष जरितर्मा रुवण्यः श्रावया वाचं कुविदङ्ग वेदत् ॥
8.096.13 अव द्रप्सो अंशुमतीमतिष्ठदियानः कृष्णो दशभिः सहस्रैः ।
8.096.13 आवत्तमिन्द्रः शच्या धमन्तमप स्नेहितीर्नृमणा अधत्त ॥
8.096.14 द्रप्समपश्यं विषुणे चरन्तमुपह्वरे नद्यो अंशुमत्याः ।
8.096.14 नभो न कृष्णमवतस्थिवांसमिष्यामि वो वृषणो युध्यताजौ ॥
8.096.15 अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः ।
8.096.15 विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥
8.096.16 त्वं ह त्यत्सप्तभ्यो जायमानोऽशत्रुभ्यो अभवः शत्रुरिन्द्र ।
8.096.16 गूळ्हे द्यावापृथिवी अन्वविन्दो विभुमद्भ्यो भुवनेभ्यो रणं धाः ॥
8.096.17 त्वं ह त्यदप्रतिमानमोजो वज्रेण वज्रिन्धृषितो जघन्थ ।
8.096.17 त्वं शुष्णस्यावातिरो वधत्रैस्त्वं गा इन्द्र शच्येदविन्दः ॥
8.096.18 त्वं ह त्यद्वृषभ चर्षणीनां घनो वृत्राणां तविषो बभूथ ।
8.096.18 त्वं सिन्धूंरसृजस्तस्तभानान्त्वमपो अजयो दासपत्नीः ॥
8.096.19 स सुक्रतू रणिता यः सुतेष्वनुत्तमन्युर्यो अहेव रेवान् ।
8.096.19 य एक इन्नर्यपांसि कर्ता स वृत्रहा प्रतीदन्यमाहुः ॥
8.096.20 स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम ।
8.096.20 स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥
8.096.21 स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव ।
8.096.21 कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्यः सखिभ्यः ॥

8.097.01 या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः ।
8.097.01 स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ॥
8.097.02 यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
8.097.02 यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥
8.097.03 य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः ।
8.097.03 स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं ततः ॥
8.097.04 यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
8.097.04 अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥
8.097.05 यद्वासि रोचने दिवः समुद्रस्याधि विष्टपि ।
8.097.05 यत्पार्थिवे सदने वृत्रहन्तम यदन्तरिक्ष आ गहि ॥
8.097.06 स नः सोमेषु सोमपाः सुतेषु शवसस्पते ।
8.097.06 मादयस्व राधसा सूनृतावतेन्द्र राया परीणसा ॥
8.097.07 मा न इन्द्र परा वृणग्भवा नः सधमाद्यः ।
8.097.07 त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ॥
8.097.08 अस्मे इन्द्र सचा सुते नि षदा पीतये मधु ।
8.097.08 कृधी जरित्रे मघवन्नवो महदस्मे इन्द्र सचा सुते ॥
8.097.09 न त्वा देवास आशत न मर्त्यासो अद्रिवः ।
8.097.09 विश्वा जातानि शवसाभिभूरसि न त्वा देवास आशत ॥
8.097.10 विश्वाः पृतना अभिभूतरं नरं सजूस्ततक्षुरिन्द्रं जजनुश्च राजसे ।
8.097.10 क्रत्वा वरिष्ठं वर आमुरिमुतोग्रमोजिष्ठं तवसं तरस्विनम् ॥
8.097.11 समीं रेभासो अस्वरन्निन्द्रं सोमस्य पीतये ।
8.097.11 स्वर्पतिं यदीं वृधे धृतव्रतो ह्योजसा समूतिभिः ॥
8.097.12 नेमिं नमन्ति चक्षसा मेषं विप्रा अभिस्वरा ।
8.097.12 सुदीतयो वो अद्रुहोऽपि कर्णे तरस्विनः समृक्वभिः ॥
8.097.13 तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
8.097.13 मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री ॥
8.097.14 त्वं पुर इन्द्र चिकिदेना व्योजसा शविष्ठ शक्र नाशयध्यै ।
8.097.14 त्वद्विश्वानि भुवनानि वज्रिन्द्यावा रेजेते पृथिवी च भीषा ॥
8.097.15 तन्म ऋतमिन्द्र शूर चित्र पात्वपो न वज्रिन्दुरिताति पर्षि भूरि ।
8.097.15 कदा न इन्द्र राय आ दशस्येर्विश्वप्स्न्यस्य स्पृहयाय्यस्य राजन् ॥

8.098.01 इन्द्राय साम गायत विप्राय बृहते बृहत् ।
8.098.01 धर्मकृते विपश्चिते पनस्यवे ॥
8.098.02 त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।
8.098.02 विश्वकर्मा विश्वदेवो महां असि ॥
8.098.03 विभ्राजञ्ज्योतिषा स्वरगच्छो रोचनं दिवः ।
8.098.03 देवास्त इन्द्र सख्याय येमिरे ॥
8.098.04 एन्द्र नो गधि प्रियः सत्राजिदगोह्यः ।
8.098.04 गिरिर्न विश्वतस्पृथुः पतिर्दिवः ॥
8.098.05 अभि हि सत्य सोमपा उभे बभूथ रोदसी ।
8.098.05 इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥
8.098.06 त्वं हि शश्वतीनामिन्द्र दर्ता पुरामसि ।
8.098.06 हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥
8.098.07 अधा हीन्द्र गिर्वण उप त्वा कामान्महः ससृज्महे ।
8.098.07 उदेव यन्त उदभिः ॥
8.098.08 वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।
8.098.08 वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
8.098.09 युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे ।
8.098.09 इन्द्रवाहा वचोयुजा ॥
8.098.10 त्वं न इन्द्रा भरं ओजो नृम्णं शतक्रतो विचर्षणे ।
8.098.10 आ वीरं पृतनाषहम् ॥
8.098.11 त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
8.098.11 अधा ते सुम्नमीमहे ॥
8.098.12 त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
8.098.12 स नो रास्व सुवीर्यम् ॥

8.099.01 त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।
8.099.01 स इन्द्र स्तोमवाहसामिह श्रुध्युप स्वसरमा गहि ॥
8.099.02 मत्स्वा सुशिप्र हरिवस्तदीमहे त्वे आ भूषन्ति वेधसः ।
8.099.02 तव श्रवांस्युपमान्युक्थ्या सुतेष्विन्द्र गिर्वणः ॥
8.099.03 श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
8.099.03 वसूनि जाते जनमान ओजसा प्रति भागं न दीधिम ॥
8.099.04 अनर्शरातिं वसुदामुप स्तुहि भद्रा इन्द्रस्य रातयः ।
8.099.04 सो अस्य कामं विधतो न रोषति मनो दानाय चोदयन् ॥
8.099.05 त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
8.099.05 अशस्तिहा जनिता विश्वतूरसि त्वं तूर्य तरुष्यतः ॥
8.099.06 अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
8.099.06 विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥
8.099.07 इत ऊती वो अजरं प्रहेतारमप्रहितम् ।
8.099.07 आशुं जेतारं हेतारं रथीतममतूर्तं तुग्र्यावृधम् ॥
8.099.08 इष्कर्तारमनिष्कृतं सहस्कृतं शतमूतिं शतक्रतुम् ।
8.099.08 समानमिन्द्रमवसे हवामहे वसवानं वसूजुवम् ॥

8.100.01 अयं त एमि तन्वा पुरस्ताद्विश्वे देवा अभि मा यन्ति पश्चात् ।
8.100.01 यदा मह्यं दीधरो भागमिन्द्रादिन्मया कृणवो वीर्याणि ॥
8.100.02 दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः ।
8.100.02 असश्च त्वं दक्षिणतः सखा मेऽधा वृत्राणि जङ्घनाव भूरि ॥
8.100.03 प्र सु स्तोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति ।
8.100.03 नेन्द्रो अस्तीति नेम उ त्व आह क ईं ददर्श कमभि ष्टवाम ॥
8.100.04 अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना ।
8.100.04 ऋतस्य मा प्रदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि ॥
8.100.05 आ यन्मा वेना अरुहन्नृतस्यं एकमासीनं हर्यतस्य पृष्ठे ।
8.100.05 मनश्चिन्मे हृद आ प्रत्यवोचदचिक्रदञ्छिशुमन्तः सखायः ॥
8.100.06 विश्वेत्ता ते सवनेषु प्रवाच्या या चकर्थ मघवन्निन्द्र सुन्वते ।
8.100.06 पारावतं यत्पुरुसम्भृतं वस्वपावृणोः शरभाय ऋषिबन्धवे ॥
8.100.07 प्र नूनं धावता पृथङ्नेह यो वो अवावरीत् ।
8.100.07 नि षीं वृत्रस्य मर्मणि वज्रमिन्द्रो अपीपतत् ॥
8.100.08 मनोजवा अयमान आयसीमतरत्पुरम् ।
8.100.08 दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत् ॥
8.100.09 समुद्रे अन्तः शयत उद्ना वज्रो अभीवृतः ।
8.100.09 भरन्त्यस्मै संयतः पुरःप्रस्रवणा बलिम् ॥
8.100.10 यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा ।
8.100.10 चतस्र ऊर्जं दुदुहे पयांसि क्व स्विदस्याः परमं जगाम ॥
8.100.11 देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
8.100.11 सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥
8.100.12 सखे विष्णो वितरं वि क्रमस्व द्यौर्देहि लोकं वज्राय विष्कभे ।
8.100.12 हनाव वृत्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु प्रसवे विसृष्टाः ॥

8.101.01 ऋधगित्था स मर्त्यः शशमे देवतातये ।
8.101.01 यो नूनं मित्रावरुणावभिष्टय आचक्रे हव्यदातये ॥
8.101.02 वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा ।
8.101.02 ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभिः ॥
8.101.03 प्र यो वां मित्रावरुणाजिरो दूतो अद्रवत् ।
8.101.03 अयःशीर्षा मदेरघुः ॥
8.101.04 न यः सम्पृच्छे न पुनर्हवीतवे न संवादाय रमते ।
8.101.04 तस्मान्नो अद्य समृतेरुरुष्यतं बाहुभ्यां न उरुष्यतम् ॥
8.101.05 प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।
8.101.05 वरूथ्यं वरुणे छन्द्यं वच स्तोत्रं राजसु गायत ॥
8.101.06 ते हिन्विरे अरुणं जेन्यं वस्वेकं पुत्रं तिसॄणाम् ।
8.101.06 ते धामान्यमृता मर्त्यानामदब्धा अभि चक्षते ॥
8.101.07 आ मे वचांस्युद्यता द्युमत्तमानि कर्त्वा ।
8.101.07 उभा यातं नासत्या सजोषसा प्रति हव्यानि वीतये ॥
8.101.08 रातिं यद्वामरक्षसं हवामहे युवाभ्यां वाजिनीवसू ।
8.101.08 प्राचीं होत्रां प्रतिरन्तावितं नरा गृणाना जमदग्निना ॥
8.101.09 आ नो यज्ञं दिविस्पृशं वायो याहि सुमन्मभिः ।
8.101.09 अन्तः पवित्र उपरि श्रीणानोऽयं शुक्रो अयामि ते ॥
8.101.10 वेत्यध्वर्युः पथिभी रजिष्ठैः प्रति हव्यानि वीतये ।
8.101.10 अधा नियुत्व उभयस्य नः पिब शुचिं सोमं गवाशिरम् ॥
8.101.11 बण्महां असि सूर्य बळ् आदित्य महां असि ।
8.101.11 महस्ते सतो महिमा पनस्यतेऽद्धा देव महां असि ॥
8.101.12 बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।
8.101.12 मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यम् ॥
8.101.13 इयं या नीच्यर्किणी रूपा रोहिण्या कृता ।
8.101.13 चित्रेव प्रत्यदर्श्यायत्यन्तर्दशसु बाहुषु ॥
8.101.14 प्रजा ह तिस्रो अत्यायमीयुर्न्यन्या अर्कमभितो विविश्रे ।
8.101.14 बृहद्ध तस्थौ भुवनेष्वन्तः पवमानो हरित आ विवेश ॥
8.101.15 माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
8.101.15 प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥
8.101.16 वचोविदं वाचमुदीरयन्तीं विश्वाभिर्धीभिरुपतिष्ठमानाम् ।
8.101.16 देवीं देवेभ्यः पर्येयुषीं गामा मावृक्त मर्त्यो दभ्रचेताः ॥

8.102.01 त्वमग्ने बृहद्वयो दधासि देव दाशुषे ।
8.102.01 कविर्गृहपतिर्युवा ॥
8.102.02 स न ईळानया सह देवां अग्ने दुवस्युवा ।
8.102.02 चिकिद्विभानवा वह ॥
8.102.03 त्वया ह स्विद्युजा वयं चोदिष्ठेन यविष्ठ्य ।
8.102.03 अभि ष्मो वाजसातये ॥
8.102.04 और्वभृगुवच्छुचिमप्नवानवदा हुवे ।
8.102.04 अग्निं समुद्रवाससम् ॥
8.102.05 हुवे वातस्वनं कविं पर्जन्यक्रन्द्यं सहः ।
8.102.05 अग्निं समुद्रवाससम् ॥
8.102.06 आ सवं सवितुर्यथा भगस्येव भुजिं हुवे ।
8.102.06 अग्निं समुद्रवाससम् ॥
8.102.07 अग्निं वो वृधन्तमध्वराणां पुरूतमम् ।
8.102.07 अच्छा नप्त्रे सहस्वते ॥
8.102.08 अयं यथा न आभुवत्त्वष्टा रूपेव तक्ष्या ।
8.102.08 अस्य क्रत्वा यशस्वतः ॥
8.102.09 अयं विश्वा अभि श्रियोऽग्निर्देवेषु पत्यते ।
8.102.09 आ वाजैरुप नो गमत् ॥
8.102.10 विश्वेषामिह स्तुहि होतॄणां यशस्तमम् ।
8.102.10 अग्निं यज्ञेषु पूर्व्यम् ॥
8.102.11 शीरं पावकशोचिषं ज्येष्ठो यो दमेष्वा ।
8.102.11 दीदाय दीर्घश्रुत्तमः ॥
8.102.12 तमर्वन्तं न सानसिं गृणीहि विप्र शुष्मिणम् ।
8.102.12 मित्रं न यातयज्जनम् ॥
8.102.13 उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।
8.102.13 वायोरनीके अस्थिरन् ॥
8.102.14 यस्य त्रिधात्ववृतं बर्हिस्तस्थावसंदिनम् ।
8.102.14 आपश्चिन्नि दधा पदम् ॥
8.102.15 पदं देवस्य मीळ्हुषोऽनाधृष्टाभिरूतिभिः ।
8.102.15 भद्रा सूर्य इवोपदृक् ॥
8.102.16 अग्ने घृतस्य धीतिभिस्तेपानो देव शोचिषा ।
8.102.16 आ देवान्वक्षि यक्षि च ॥
8.102.17 तं त्वाजनन्त मातरः कविं देवासो अङ्गिरः ।
8.102.17 हव्यवाहममर्त्यम् ॥
8.102.18 प्रचेतसं त्वा कवेऽग्ने दूतं वरेण्यम् ।
8.102.18 हव्यवाहं नि षेदिरे ॥
8.102.19 नहि मे अस्त्यघ्न्या न स्वधितिर्वनन्वति ।
8.102.19 अथैतादृग्भरामि ते ॥
8.102.20 यदग्ने कानि कानि चिदा ते दारूणि दध्मसि ।
8.102.20 ता जुषस्व यविष्ठ्य ॥
8.102.21 यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति ।
8.102.21 सर्वं तदस्तु ते घृतम् ॥
8.102.22 अग्निमिन्धानो मनसा धियं सचेत मर्त्यः ।
8.102.22 अग्निमीधे विवस्वभिः ॥

8.103.01 अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।
8.103.01 उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः ॥
8.103.02 प्र दैवोदासो अग्निर्देवां अच्छा न मज्मना ।
8.103.02 अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य सानवि ॥
8.103.03 यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।
8.103.03 सहस्रसां मेधसाताविव त्मनाग्निं धीभिः सपर्यत ॥
8.103.04 प्र यं राये निनीषसि मर्तो यस्ते वसो दाशत् ।
8.103.04 स वीरं धत्ते अग्न उक्थशंसिनं त्मना सहस्रपोषिणम् ॥
8.103.05 स दृळ्हे चिदभि तृणत्ति वाजमर्वता स धत्ते अक्षिति श्रवः ।
8.103.05 त्वे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि ॥
8.103.06 यो विश्वा दयते वसु होता मन्द्रो जनानाम् ।
8.103.06 मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥
8.103.07 अश्वं न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।
8.103.07 उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम् ॥
8.103.08 प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
8.103.08 उपस्तुतासो अग्नये ॥
8.103.09 आ वंसते मघवा वीरवद्यशः समिद्धो द्युम्न्याहुतः ।
8.103.09 कुविन्नो अस्य सुमतिर्नवीयस्यच्छा वाजेभिरागमत् ॥
8.103.10 प्रेष्ठमु प्रियाणां स्तुह्यासावातिथिम् ।
8.103.10 अग्निं रथानां यमम् ॥
8.103.11 उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति ।
8.103.11 दुष्टरा यस्य प्रवणे नोर्मयो धिया वाजं सिषासतः ॥
8.103.12 मा नो हृणीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः ।
8.103.12 यः सुहोता स्वध्वरः ॥
8.103.13 मो ते रिषन्ये अच्छोक्तिभिर्वसोऽग्ने केभिश्चिदेवैः ।
8.103.13 कीरिश्चिद्धि त्वामीट्टे दूत्याय रातहव्यः स्वध्वरः ॥
8.103.14 आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये ।
8.103.14 सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥

Advertisements

Categories: Rig Veda

Tagged as: