Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Rig Veda » Rig Veda First Mandala [ऋग्वेद ]

Rig Veda First Mandala [ऋग्वेद ]

1.001.01 अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।[First mantram] 1.191.16 कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः । [Last mantram]

1.001.01 अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
1.001.01 होतारं रत्नधातमम् ॥
1.001.02 अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
1.001.02 स देवां एह वक्षति ॥
1.001.03 अग्निना रयिमश्नवत्पोषमेव दिवेदिवे ।
1.001.03 यशसं वीरवत्तमम् ॥
1.001.04 अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
1.001.04 स इद्देवेषु गच्छति ॥
1.001.05 अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
1.001.05 देवो देवेभिरा गमत् ॥
1.001.06 यदङ्ग दाशुषे त्वमग्ने भद्रं करिष्यसि ।
1.001.06 तवेत्तत्सत्यमङ्गिरः ॥
1.001.07 उप त्वाग्ने दिवेदिवे दोषावस्तर्धिया वयम् ।
1.001.07 नमो भरन्त एमसि ॥
1.001.08 राजन्तमध्वराणां गोपामृतस्य दीदिविम् ।
1.001.08 वर्धमानं स्वे दमे ॥
1.001.09 स नः पितेव सूनवेऽग्ने सूपायनो भव ।
1.001.09 सचस्वा नः स्वस्तये ॥

1.002.01 वायवा याहि दर्शतेमे सोमा अरङ्कृताः ।
1.002.01 तेषां पाहि श्रुधी हवम् ॥
1.002.02 वाय उक्थेभिर्जरन्ते त्वामच्छा जरितारः ।
1.002.02 सुतसोमा अहर्विदः ॥
1.002.03 वायो तव प्रपृञ्चती धेना जिगाति दाशुषे ।
1.002.03 उरूची सोमपीतये ॥
1.002.04 इन्द्रवायू इमे सुता उप प्रयोभिरा गतम् ।
1.002.04 इन्दवो वामुशन्ति हि ॥
1.002.05 वायविन्द्रश्च चेतथः सुतानां वाजिनीवसू ।
1.002.05 तावा यातमुप द्रवत् ॥
1.002.06 वायविन्द्रश्च सुन्वत आ यातमुप निष्कृतम् ।
1.002.06 मक्ष्वित्था धिया नरा ॥
1.002.07 मित्रं हुवे पूतदक्षं वरुणं च रिशादसम् ।
1.002.07 धियं घृताचीं साधन्ता ॥
1.002.08 ऋतेन मित्रावरुणावृतावृधावृतस्पृशा ।
1.002.08 क्रतुं बृहन्तमाशाथे ॥
1.002.09 कवी नो मित्रावरुणा तुविजाता उरुक्षया ।
1.002.09 दक्षं दधाते अपसम् ॥

1.003.01 अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ।
1.003.01 पुरुभुजा चनस्यतम् ॥
1.003.02 अश्विना पुरुदंससा नरा शवीरया धिया ।
1.003.02 धिष्ण्या वनतं गिरः ॥
1.003.03 दस्रा युवाकवः सुता नासत्या वृक्तबर्हिषः ।
1.003.03 आ यातं रुद्रवर्तनी ॥
1.003.04 इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।
1.003.04 अण्वीभिस्तना पूतासः ॥
1.003.05 इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
1.003.05 उप ब्रह्माणि वाघतः ॥
1.003.06 इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।
1.003.06 सुते दधिष्व नश्चनः ॥
1.003.07 ओमासश्चर्षणीधृतो विश्वे देवास आ गत ।
1.003.07 दाश्वांसो दाशुषः सुतम् ॥
1.003.08 विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।
1.003.08 उस्रा इव स्वसराणि ॥
1.003.09 विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
1.003.09 मेधं जुषन्त वह्नयः ॥
1.003.10 पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
1.003.10 यज्ञं वष्टु धियावसुः ॥
1.003.11 चोदयित्री सूनृतानां चेतन्ती सुमतीनाम् ।
1.003.11 यज्ञं दधे सरस्वती ॥
1.003.12 महो अर्णः सरस्वती प्र चेतयति केतुना ।
1.003.12 धियो विश्वा वि राजति ॥

1.004.01 सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
1.004.01 जुहूमसि द्यविद्यवि ॥
1.004.02 उप नः सवना गहि सोमस्य सोमपाः पिब ।
1.004.02 गोदा इद्रेवतो मदः ॥
1.004.03 अथा ते अन्तमानां विद्याम सुमतीनाम् ।
1.004.03 मा नो अति ख्य आ गहि ॥
1.004.04 परेहि विग्रमस्तृतमिन्द्रं पृच्छा विपश्चितम् ।
1.004.04 यस्ते सखिभ्य आ वरम् ॥
1.004.05 उत ब्रुवन्तु नो निदो निरन्यतश्चिदारत ।
1.004.05 दधाना इन्द्र इद्दुवः ॥
1.004.06 उत नः सुभगां अरिर्वोचेयुर्दस्म कृष्टयः ।
1.004.06 स्यामेदिन्द्रस्य शर्मणि ॥
1.004.07 एमाशुमाशवे भर यज्ञश्रियं नृमादनम् ।
1.004.07 पतयन्मन्दयत्सखम् ॥
1.004.08 अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः ।
1.004.08 प्रावो वाजेषु वाजिनम् ॥
1.004.09 तं त्वा वाजेषु वाजिनं वाजयामः शतक्रतो ।
1.004.09 धनानामिन्द्र सातये ॥
1.004.10 यो रायोऽवनिर्महान्सुपारः सुन्वतः सखा ।
1.004.10 तस्मा इन्द्राय गायत ॥

1.005.01 आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
1.005.01 सखाय स्तोमवाहसः ॥
1.005.02 पुरूतमं पुरूणामीशानं वार्याणाम् ।
1.005.02 इन्द्रं सोमे सचा सुते ॥
1.005.03 स घा नो योग आ भुवत्स राये स पुरन्ध्याम् ।
1.005.03 गमद्वाजेभिरा स नः ॥
1.005.04 यस्य संस्थे न वृण्वते हरी समत्सु शत्रवः ।
1.005.04 तस्मा इन्द्राय गायत ॥
1.005.05 सुतपाव्ने सुता इमे शुचयो यन्ति वीतये ।
1.005.05 सोमासो दध्याशिरः ॥
1.005.06 त्वं सुतस्य पीतये सद्यो वृद्धो अजायथाः ।
1.005.06 इन्द्र ज्यैष्ठ्याय सुक्रतो ॥
1.005.07 आ त्वा विशन्त्वाशवः सोमास इन्द्र गिर्वणः ।
1.005.07 शं ते सन्तु प्रचेतसे ॥
1.005.08 त्वां स्तोमा अवीवृधन्त्वामुक्था शतक्रतो ।
1.005.08 त्वां वर्धन्तु नो गिरः ॥
1.005.09 अक्षितोतिः सनेदिमं वाजमिन्द्रः सहस्रिणम् ।
1.005.09 यस्मिन्विश्वानि पौंस्या ॥
1.005.10 मा नो मर्ता अभि द्रुहन्तनूनामिन्द्र गिर्वणः ।
1.005.10 ईशानो यवया वधम् ॥

1.006.01 युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।
1.006.01 रोचन्ते रोचना दिवि ॥
1.006.02 युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
1.006.02 शोणा धृष्णू नृवाहसा ॥
1.006.03 केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।
1.006.03 समुषद्भिरजायथाः ॥
1.006.04 आदह स्वधामनु पुनर्गर्भत्वमेरिरे ।
1.006.04 दधाना नाम यज्ञियम् ॥
1.006.05 वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
1.006.05 अविन्द उस्रिया अनु ॥
1.006.06 देवयन्तो यथा मतिमच्छा विदद्वसुं गिरः ।
1.006.06 महामनूषत श्रुतम् ॥
1.006.07 इन्द्रेण सं हि दृक्षसे संजग्मानो अबिभ्युषा ।
1.006.07 मन्दू समानवर्चसा ॥
1.006.08 अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
1.006.08 गणैरिन्द्रस्य काम्यैः ॥
1.006.09 अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
1.006.09 समस्मिन्नृञ्जते गिरः ॥
1.006.10 इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
1.006.10 इन्द्रं महो वा रजसः ॥

1.007.01 इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
1.007.01 इन्द्रं वाणीरनूषत ॥
1.007.02 इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।
1.007.02 इन्द्रो वज्री हिरण्ययः ॥
1.007.03 इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।
1.007.03 वि गोभिरद्रिमैरयत् ॥
1.007.04 इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।
1.007.04 उग्र उग्राभिरूतिभिः ॥
1.007.05 इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
1.007.05 युजं वृत्रेषु वज्रिणम् ॥
1.007.06 स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
1.007.06 अस्मभ्यमप्रतिष्कुतः ॥
1.007.07 तुञ्जेतुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः ।
1.007.07 न विन्धे अस्य सुष्टुतिम् ॥
1.007.08 वृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
1.007.08 ईशानो अप्रतिष्कुतः ॥
1.007.09 य एकश्चर्षणीनां वसूनामिरज्यति ।
1.007.09 इन्द्रः पञ्च क्षितीनाम् ॥
1.007.10 इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
1.007.10 अस्माकमस्तु केवलः ॥

1.008.01 एन्द्र सानसिं रयिं सजित्वानं सदासहम् ।
1.008.01 वर्षिष्ठमूतये भर ॥
1.008.02 नि येन मुष्टिहत्यया नि वृत्रा रुणधामहै ।
1.008.02 त्वोतासो न्यर्वता ॥
1.008.03 इन्द्र त्वोतास आ वयं वज्रं घना ददीमहि ।
1.008.03 जयेम सं युधि स्पृधः ॥
1.008.04 वयं शूरेभिरस्तृभिरिन्द्र त्वया युजा वयम् ।
1.008.04 सासह्याम पृतन्यतः ॥
1.008.05 महां इन्द्रः परश्च नु महित्वमस्तु वज्रिणे ।
1.008.05 द्यौर्न प्रथिना शवः ॥
1.008.06 समोहे वा य आशत नरस्तोकस्य सनितौ ।
1.008.06 विप्रासो वा धियायवः ॥
1.008.07 यः कुक्षिः सोमपातमः समुद्र इव पिन्वते ।
1.008.07 उर्वीरापो न काकुदः ॥
1.008.08 एवा ह्यस्य सूनृता विरप्शी गोमती मही ।
1.008.08 पक्वा शाखा न दाशुषे ॥
1.008.09 एवा हि ते विभूतय ऊतय इन्द्र मावते ।
1.008.09 सद्यश्चित्सन्ति दाशुषे ॥
1.008.10 एवा ह्यस्य काम्या स्तोम उक्थं च शंस्या ।
1.008.10 इन्द्राय सोमपीतये ॥

1.009.01 इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
1.009.01 महां अभिष्टिरोजसा ॥
1.009.02 एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने ।
1.009.02 चक्रिं विश्वानि चक्रये ॥
1.009.03 मत्स्वा सुशिप्र मन्दिभि स्तोमेभिर्विश्वचर्षणे ।
1.009.03 सचैषु सवनेष्वा ॥
1.009.04 असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।
1.009.04 अजोषा वृषभं पतिम् ॥
1.009.05 सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम् ।
1.009.05 असदित्ते विभु प्रभु ॥
1.009.06 अस्मान्सु तत्र चोदयेन्द्र राये रभस्वतः ।
1.009.06 तुविद्युम्न यशस्वतः ॥
1.009.07 सं गोमदिन्द्र वाजवदस्मे पृथु श्रवो बृहत् ।
1.009.07 विश्वायुर्धेह्यक्षितम् ॥
1.009.08 अस्मे धेहि श्रवो बृहद्द्युम्नं सहस्रसातमम् ।
1.009.08 इन्द्र ता रथिनीरिषः ॥
1.009.09 वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम् ।
1.009.09 होम गन्तारमूतये ॥
1.009.10 सुतेसुते न्योकसे बृहद्बृहत एदरिः ।
1.009.10 इन्द्राय शूषमर्चति ॥

1.010.01 गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
1.010.01 ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥
1.010.02 यत्सानोः सानुमारुहद्भूर्यस्पष्ट कर्त्वम् ।
1.010.02 तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥
1.010.03 युक्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
1.010.03 अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥
1.010.04 एहि स्तोमां अभि स्वराभि गृणीह्या रुव ।
1.010.04 ब्रह्म च नो वसो सचेन्द्र यज्ञं च वर्धय ॥
1.010.05 उक्थमिन्द्राय शंस्यं वर्धनं पुरुनिष्षिधे ।
1.010.05 शक्रो यथा सुतेषु णो रारणत्सख्येषु च ॥
1.010.06 तमित्सखित्व ईमहे तं राये तं सुवीर्ये ।
1.010.06 स शक्र उत नः शकदिन्द्रो वसु दयमानः ॥
1.010.07 सुविवृतं सुनिरजमिन्द्र त्वादातमिद्यशः ।
1.010.07 गवामप व्रजं वृधि कृणुष्व राधो अद्रिवः ॥
1.010.08 नहि त्वा रोदसी उभे ऋघायमाणमिन्वतः ।
1.010.08 जेषः स्वर्वतीरपः सं गा अस्मभ्यं धूनुहि ॥
1.010.09 आश्रुत्कर्ण श्रुधी हवं नू चिद्दधिष्व मे गिरः ।
1.010.09 इन्द्र स्तोममिमं मम कृष्वा युजश्चिदन्तरम् ॥
1.010.10 विद्मा हि त्वा वृषन्तमं वाजेषु हवनश्रुतम् ।
1.010.10 वृषन्तमस्य हूमह ऊतिं सहस्रसातमाम् ॥
1.010.11 आ तू न इन्द्र कौशिक मन्दसानः सुतं पिब ।
1.010.11 नव्यमायुः प्र सू तिर कृधी सहस्रसामृषिम् ॥
1.010.12 परि त्वा गिर्वणो गिर इमा भवन्तु विश्वतः ।
1.010.12 वृद्धायुमनु वृद्धयो जुष्टा भवन्तु जुष्टयः ॥

1.011.01 इन्द्रं विश्वा अवीवृधन्समुद्रव्यचसं गिरः ।
1.011.01 रथीतमं रथीनां वाजानां सत्पतिं पतिम् ॥
1.011.02 सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।
1.011.02 त्वामभि प्र णोनुमो जेतारमपराजितम् ॥
1.011.03 पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।
1.011.03 यदी वाजस्य गोमत स्तोतृभ्यो मंहते मघम् ॥
1.011.04 पुरां भिन्दुर्युवा कविरमितौजा अजायत ।
1.011.04 इन्द्रो विश्वस्य कर्मणो धर्ता वज्री पुरुष्टुतः ॥
1.011.05 त्वं वलस्य गोमतोऽपावरद्रिवो बिलम् ।
1.011.05 त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥
1.011.06 तवाहं शूर रातिभिः प्रत्यायं सिन्धुमावदन् ।
1.011.06 उपातिष्ठन्त गिर्वणो विदुष्टे तस्य कारवः ॥
1.011.07 मायाभिरिन्द्र मायिनं त्वं शुष्णमवातिरः ।
1.011.07 विदुष्टे तस्य मेधिरास्तेषां श्रवांस्युत्तिर ॥
1.011.08 इन्द्रमीशानमोजसाभि स्तोमा अनूषत ।
1.011.08 सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥

1.012.01 अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् ।
1.012.01 अस्य यज्ञस्य सुक्रतुम् ॥
1.012.02 अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिम् ।
1.012.02 हव्यवाहं पुरुप्रियम् ॥
1.012.03 अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।
1.012.03 असि होता न ईड्यः ॥
1.012.04 तां उशतो वि बोधय यदग्ने यासि दूत्यम् ।
1.012.04 देवैरा सत्सि बर्हिषि ॥
1.012.05 घृताहवन दीदिवः प्रति ष्म रिषतो दह ।
1.012.05 अग्ने त्वं रक्षस्विनः ॥
1.012.06 अग्निनाग्निः समिध्यते कविर्गृहपतिर्युवा ।
1.012.06 हव्यवाड्जुह्वास्यः ॥
1.012.07 कविमग्निमुप स्तुहि सत्यधर्माणमध्वरे ।
1.012.07 देवममीवचातनम् ॥
1.012.08 यस्त्वामग्ने हविष्पतिर्दूतं देव सपर्यति ।
1.012.08 तस्य स्म प्राविता भव ॥
1.012.09 यो अग्निं देववीतये हविष्मां आविवासति ।
1.012.09 तस्मै पावक मृळय ॥
1.012.10 स नः पावक दीदिवोऽग्ने देवां इहा वह ।
1.012.10 उप यज्ञं हविश्च नः ॥
1.012.11 स न स्तवान आ भर गायत्रेण नवीयसा ।
1.012.11 रयिं वीरवतीमिषम् ॥
1.012.12 अग्ने शुक्रेण शोचिषा विश्वाभिर्देवहूतिभिः ।
1.012.12 इमं स्तोमं जुषस्व नः ॥

1.013.01 सुसमिद्धो न आ वह देवां अग्ने हविष्मते ।
1.013.01 होतः पावक यक्षि च ॥
1.013.02 मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।
1.013.02 अद्या कृणुहि वीतये ॥
1.013.03 नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।
1.013.03 मधुजिह्वं हविष्कृतम् ॥
1.013.04 अग्ने सुखतमे रथे देवां ईळित आ वह ।
1.013.04 असि होता मनुर्हितः ॥
1.013.05 स्तृणीत बर्हिरानुषग्घृतपृष्ठं मनीषिणः ।
1.013.05 यत्रामृतस्य चक्षणम् ॥
1.013.06 वि श्रयन्तामृतावृधो द्वारो देवीरसश्चतः ।
1.013.06 अद्या नूनं च यष्टवे ॥
1.013.07 नक्तोषासा सुपेशसास्मिन्यज्ञ उप ह्वये ।
1.013.07 इदं नो बर्हिरासदे ॥
1.013.08 ता सुजिह्वा उप ह्वये होतारा दैव्या कवी ।
1.013.08 यज्ञं नो यक्षतामिमम् ॥
1.013.09 इळा सरस्वती मही तिस्रो देवीर्मयोभुवः ।
1.013.09 बर्हिः सीदन्त्वस्रिधः ॥
1.013.10 इह त्वष्टारमग्रियं विश्वरूपमुप ह्वये ।
1.013.10 अस्माकमस्तु केवलः ॥
1.013.11 अव सृजा वनस्पते देव देवेभ्यो हविः ।
1.013.11 प्र दातुरस्तु चेतनम् ॥
1.013.12 स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे ।
1.013.12 तत्र देवां उप ह्वये ॥

1.014.01 ऐभिरग्ने दुवो गिरो विश्वेभिः सोमपीतये ।
1.014.01 देवेभिर्याहि यक्षि च ॥
1.014.02 आ त्वा कण्वा अहूषत गृणन्ति विप्र ते धियः ।
1.014.02 देवेभिरग्न आ गहि ॥
1.014.03 इन्द्रवायू बृहस्पतिं मित्राग्निं पूषणं भगम् ।
1.014.03 आदित्यान्मारुतं गणम् ॥
1.014.04 प्र वो भ्रियन्त इन्दवो मत्सरा मादयिष्णवः ।
1.014.04 द्रप्सा मध्वश्चमूषदः ॥
1.014.05 ईळते त्वामवस्यवः कण्वासो वृक्तबर्हिषः ।
1.014.05 हविष्मन्तो अरङ्कृतः ॥
1.014.06 घृतपृष्ठा मनोयुजो ये त्वा वहन्ति वह्नयः ।
1.014.06 आ देवान्सोमपीतये ॥
1.014.07 तान्यजत्रां ऋतावृधोऽग्ने पत्नीवतस्कृधि ।
1.014.07 मध्वः सुजिह्व पायय ॥
1.014.08 ये यजत्रा य ईड्यास्ते ते पिबन्तु जिह्वया ।
1.014.08 मधोरग्ने वषट्कृति ॥
1.014.09 आकीं सूर्यस्य रोचनाद्विश्वान्देवां उषर्बुधः ।
1.014.09 विप्रो होतेह वक्षति ॥
1.014.10 विश्वेभिः सोम्यं मध्वग्न इन्द्रेण वायुना ।
1.014.10 पिबा मित्रस्य धामभिः ॥
1.014.11 त्वं होता मनुर्हितोऽग्ने यज्ञेषु सीदसि ।
1.014.11 सेमं नो अध्वरं यज ॥
1.014.12 युक्ष्वा ह्यरुषी रथे हरितो देव रोहितः ।
1.014.12 ताभिर्देवां इहा वह ॥

1.015.01 इन्द्र सोमं पिब ऋतुना त्वा विशन्त्विन्दवः ।
1.015.01 मत्सरासस्तदोकसः ॥
1.015.02 मरुतः पिबत ऋतुना पोत्राद्यज्ञं पुनीतन ।
1.015.02 यूयं हि ष्ठा सुदानवः ॥
1.015.03 अभि यज्ञं गृणीहि नो ग्नावो नेष्टः पिब ऋतुना ।
1.015.03 त्वं हि रत्नधा असि ॥
1.015.04 अग्ने देवां इहा वह सादया योनिषु त्रिषु ।
1.015.04 परि भूष पिब ऋतुना ॥
1.015.05 ब्राह्मणादिन्द्र राधसः पिबा सोममृतूंरनु ।
1.015.05 तवेद्धि सख्यमस्तृतम् ॥
1.015.06 युवं दक्षं धृतव्रत मित्रावरुण दूळभम् ।
1.015.06 ऋतुना यज्ञमाशाथे ॥
1.015.07 द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे ।
1.015.07 यज्ञेषु देवमीळते ॥
1.015.08 द्रविणोदा ददातु नो वसूनि यानि शृण्विरे ।
1.015.08 देवेषु ता वनामहे ॥
1.015.09 द्रविणोदाः पिपीषति जुहोत प्र च तिष्ठत ।
1.015.09 नेष्ट्रादृतुभिरिष्यत ॥
1.015.10 यत्त्वा तुरीयमृतुभिर्द्रविणोदो यजामहे ।
1.015.10 अध स्मा नो ददिर्भव ॥
1.015.11 अश्विना पिबतं मधु दीद्यग्नी शुचिव्रता ।
1.015.11 ऋतुना यज्ञवाहसा ॥
1.015.12 गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि ।
1.015.12 देवान्देवयते यज ॥

1.016.01 आ त्वा वहन्तु हरयो वृषणं सोमपीतये ।
1.016.01 इन्द्र त्वा सूरचक्षसः ॥
1.016.02 इमा धाना घृतस्नुवो हरी इहोप वक्षतः ।
1.016.02 इन्द्रं सुखतमे रथे ॥
1.016.03 इन्द्रं प्रातर्हवामह इन्द्रं प्रयत्यध्वरे ।
1.016.03 इन्द्रं सोमस्य पीतये ॥
1.016.04 उप नः सुतमा गहि हरिभिरिन्द्र केशिभिः ।
1.016.04 सुते हि त्वा हवामहे ॥
1.016.05 सेमं न स्तोममा गह्युपेदं सवनं सुतम् ।
1.016.05 गौरो न तृषितः पिब ॥
1.016.06 इमे सोमास इन्दवः सुतासो अधि बर्हिषि ।
1.016.06 तां इन्द्र सहसे पिब ॥
1.016.07 अयं ते स्तोमो अग्रियो हृदिस्पृगस्तु शन्तमः ।
1.016.07 अथा सोमं सुतं पिब ॥
1.016.08 विश्वमित्सवनं सुतमिन्द्रो मदाय गच्छति ।
1.016.08 वृत्रहा सोमपीतये ॥
1.016.09 सेमं नः काममा पृण गोभिरश्वैः शतक्रतो ।
1.016.09 स्तवाम त्वा स्वाध्यः ॥

1.017.01 इन्द्रावरुणयोरहं सम्राजोरव आ वृणे ।
1.017.01 ता नो मृळात ईदृशे ॥
1.017.02 गन्तारा हि स्थोऽवसे हवं विप्रस्य मावतः ।
1.017.02 धर्तारा चर्षणीनाम् ॥
1.017.03 अनुकामं तर्पयेथामिन्द्रावरुण राय आ ।
1.017.03 ता वां नेदिष्ठमीमहे ॥
1.017.04 युवाकु हि शचीनां युवाकु सुमतीनाम् ।
1.017.04 भूयाम वाजदाव्नाम् ॥
1.017.05 इन्द्रः सहस्रदाव्नां वरुणः शंस्यानाम् ।
1.017.05 क्रतुर्भवत्युक्थ्यः ॥
1.017.06 तयोरिदवसा वयं सनेम नि च धीमहि ।
1.017.06 स्यादुत प्ररेचनम् ॥
1.017.07 इन्द्रावरुण वामहं हुवे चित्राय राधसे ।
1.017.07 अस्मान्सु जिग्युषस्कृतम् ॥
1.017.08 इन्द्रावरुण नू नु वां सिषासन्तीषु धीष्वा ।
1.017.08 अस्मभ्यं शर्म यच्छतम् ॥
1.017.09 प्र वामश्नोतु सुष्टुतिरिन्द्रावरुण यां हुवे ।
1.017.09 यामृधाथे सधस्तुतिम् ॥

1.018.01 सोमानं स्वरणं कृणुहि ब्रह्मणस्पते ।
1.018.01 कक्षीवन्तं य औशिजः ॥
1.018.02 यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः ।
1.018.02 स नः सिषक्तु यस्तुरः ॥
1.018.03 मा नः शंसो अररुषो धूर्तिः प्रणङ्मर्त्यस्य ।
1.018.03 रक्षा णो ब्रह्मणस्पते ॥
1.018.04 स घा वीरो न रिष्यति यमिन्द्रो ब्रह्मणस्पतिः ।
1.018.04 सोमो हिनोति मर्त्यम् ॥
1.018.05 त्वं तं ब्रह्मणस्पते सोम इन्द्रश्च मर्त्यम् ।
1.018.05 दक्षिणा पात्वंहसः ॥
1.018.06 सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यम् ।
1.018.06 सनिं मेधामयासिषम् ॥
1.018.07 यस्मादृते न सिध्यति यज्ञो विपश्चितश्चन ।
1.018.07 स धीनां योगमिन्वति ॥
1.018.08 आदृध्नोति हविष्कृतिं प्राञ्चं कृणोत्यध्वरम् ।
1.018.08 होत्रा देवेषु गच्छति ॥
1.018.09 नराशंसं सुधृष्टममपश्यं सप्रथस्तमम् ।
1.018.09 दिवो न सद्ममखसम् ॥

1.019.01 प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे ।
1.019.01 मरुद्भिरग्न आ गहि ॥
1.019.02 नहि देवो न मर्त्यो महस्तव क्रतुं परः ।
1.019.02 मरुद्भिरग्न आ गहि ॥
1.019.03 ये महो रजसो विदुर्विश्वे देवासो अद्रुहः ।
1.019.03 मरुद्भिरग्न आ गहि ॥
1.019.04 य उग्रा अर्कमानृचुरनाधृष्टास ओजसा ।
1.019.04 मरुद्भिरग्न आ गहि ॥
1.019.05 ये शुभ्रा घोरवर्पसः सुक्षत्रासो रिशादसः ।
1.019.05 मरुद्भिरग्न आ गहि ॥
1.019.06 ये नाकस्याधि रोचने दिवि देवास आसते ।
1.019.06 मरुद्भिरग्न आ गहि ॥
1.019.07 य ईङ्खयन्ति पर्वतान्तिरः समुद्रमर्णवम् ।
1.019.07 मरुद्भिरग्न आ गहि ॥
1.019.08 आ ये तन्वन्ति रश्मिभिस्तिरः समुद्रमोजसा ।
1.019.08 मरुद्भिरग्न आ गहि ॥
1.019.09 अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु ।
1.019.09 मरुद्भिरग्न आ गहि ॥

1.020.01 अयं देवाय जन्मने स्तोमो विप्रेभिरासया ।
1.020.01 अकारि रत्नधातमः ॥
1.020.02 य इन्द्राय वचोयुजा ततक्षुर्मनसा हरी ।
1.020.02 शमीभिर्यज्ञमाशत ॥
1.020.03 तक्षन्नासत्याभ्यां परिज्मानं सुखं रथम् ।
1.020.03 तक्षन्धेनुं सबर्दुघाम् ॥
1.020.04 युवाना पितरा पुनः सत्यमन्त्रा ऋजूयवः ।
1.020.04 ऋभवो विष्ट्यक्रत ॥
1.020.05 सं वो मदासो अग्मतेन्द्रेण च मरुत्वता ।
1.020.05 आदित्येभिश्च राजभिः ॥
1.020.06 उत त्यं चमसं नवं त्वष्टुर्देवस्य निष्कृतम् ।
1.020.06 अकर्त चतुरः पुनः ॥
1.020.07 ते नो रत्नानि धत्तन त्रिरा साप्तानि सुन्वते ।
1.020.07 एकमेकं सुशस्तिभिः ॥
1.020.08 अधारयन्त वह्नयोऽभजन्त सुकृत्यया ।
1.020.08 भागं देवेषु यज्ञियम् ॥

1.021.01 इहेन्द्राग्नी उप ह्वये तयोरित्स्तोममुश्मसि ।
1.021.01 ता सोमं सोमपातमा ॥
1.021.02 ता यज्ञेषु प्र शंसतेन्द्राग्नी शुम्भता नरः ।
1.021.02 ता गायत्रेषु गायत ॥
1.021.03 ता मित्रस्य प्रशस्तय इन्द्राग्नी ता हवामहे ।
1.021.03 सोमपा सोमपीतये ॥
1.021.04 उग्रा सन्ता हवामह उपेदं सवनं सुतम् ।
1.021.04 इन्द्राग्नी एह गच्छताम् ॥
1.021.05 ता महान्ता सदस्पती इन्द्राग्नी रक्ष उब्जतम् ।
1.021.05 अप्रजाः सन्त्वत्रिणः ॥
1.021.06 तेन सत्येन जागृतमधि प्रचेतुने पदे ।
1.021.06 इन्द्राग्नी शर्म यच्छतम् ॥

1.022.01 प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् ।
1.022.01 अस्य सोमस्य पीतये ॥
1.022.02 या सुरथा रथीतमोभा देवा दिविस्पृशा ।
1.022.02 अश्विना ता हवामहे ॥
1.022.03 या वां कशा मधुमत्यश्विना सूनृतावती ।
1.022.03 तया यज्ञं मिमिक्षतम् ॥
1.022.04 नहि वामस्ति दूरके यत्रा रथेन गच्छथः ।
1.022.04 अश्विना सोमिनो गृहम् ॥
1.022.05 हिरण्यपाणिमूतये सवितारमुप ह्वये ।
1.022.05 स चेत्ता देवता पदम् ॥
1.022.06 अपां नपातमवसे सवितारमुप स्तुहि ।
1.022.06 तस्य व्रतान्युश्मसि ॥
1.022.07 विभक्तारं हवामहे वसोश्चित्रस्य राधसः ।
1.022.07 सवितारं नृचक्षसम् ॥
1.022.08 सखाय आ नि षीदत सविता स्तोम्यो नु नः ।
1.022.08 दाता राधांसि शुम्भति ॥
1.022.09 अग्ने पत्नीरिहा वह देवानामुशतीरुप ।
1.022.09 त्वष्टारं सोमपीतये ॥
1.022.10 आ ग्ना अग्न इहावसे होत्रां यविष्ठ भारतीम् ।
1.022.10 वरूत्रीं धिषणां वह ॥
1.022.11 अभि नो देवीरवसा महः शर्मणा नृपत्नीः ।
1.022.11 अच्छिन्नपत्राः सचन्ताम् ॥
1.022.12 इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये ।
1.022.12 अग्नायीं सोमपीतये ॥
1.022.13 मही द्यौः पृथिवी च न इमं यज्ञं मिमिक्षताम् ।
1.022.13 पिपृतां नो भरीमभिः ॥
1.022.14 तयोरिद्घृतवत्पयो विप्रा रिहन्ति धीतिभिः ।
1.022.14 गन्धर्वस्य ध्रुवे पदे ॥
1.022.15 स्योना पृथिवि भवानृक्षरा निवेशनी ।
1.022.15 यच्छा नः शर्म सप्रथः ॥
1.022.16 अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।
1.022.16 पृथिव्याः सप्त धामभिः ॥
1.022.17 इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् ।
1.022.17 समूळ्हमस्य पांसुरे ॥
1.022.18 त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।
1.022.18 अतो धर्माणि धारयन् ॥
1.022.19 विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।
1.022.19 इन्द्रस्य युज्यः सखा ॥
1.022.20 तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।
1.022.20 दिवीव चक्षुराततम् ॥
1.022.21 तद्विप्रासो विपन्यवो जागृवांसः समिन्धते ।
1.022.21 विष्णोर्यत्परमं पदम् ॥

1.023.01 तीव्राः सोमास आ गह्याशीर्वन्तः सुता इमे ।
1.023.01 वायो तान्प्रस्थितान्पिब ॥
1.023.02 उभा देवा दिविस्पृशेन्द्रवायू हवामहे ।
1.023.02 अस्य सोमस्य पीतये ॥
1.023.03 इन्द्रवायू मनोजुवा विप्रा हवन्त ऊतये ।
1.023.03 सहस्राक्षा धियस्पती ॥
1.023.04 मित्रं वयं हवामहे वरुणं सोमपीतये ।
1.023.04 जज्ञाना पूतदक्षसा ॥
1.023.05 ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।
1.023.05 ता मित्रावरुणा हुवे ॥
1.023.06 वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।
1.023.06 करतां नः सुराधसः ॥
1.023.07 मरुत्वन्तं हवामह इन्द्रमा सोमपीतये ।
1.023.07 सजूर्गणेन तृम्पतु ॥
1.023.08 इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
1.023.08 विश्वे मम श्रुता हवम् ॥
1.023.09 हत वृत्रं सुदानव इन्द्रेण सहसा युजा ।
1.023.09 मा नो दुःशंस ईशत ॥
1.023.10 विश्वान्देवान्हवामहे मरुतः सोमपीतये ।
1.023.10 उग्रा हि पृश्निमातरः ॥
1.023.11 जयतामिव तन्यतुर्मरुतामेति धृष्णुया ।
1.023.11 यच्छुभं याथना नरः ॥
1.023.12 हस्काराद्विद्युतस्पर्यतो जाता अवन्तु नः ।
1.023.12 मरुतो मृळयन्तु नः ॥
1.023.13 आ पूषञ्चित्रबर्हिषमाघृणे धरुणं दिवः ।
1.023.13 आजा नष्टं यथा पशुम् ॥
1.023.14 पूषा राजानमाघृणिरपगूळ्हं गुहा हितम् ।
1.023.14 अविन्दच्चित्रबर्हिषम् ॥
1.023.15 उतो स मह्यमिन्दुभिः षड्युक्तां अनुसेषिधत् ।
1.023.15 गोभिर्यवं न चर्कृषत् ॥
1.023.16 अम्बयो यन्त्यध्वभिर्जामयो अध्वरीयताम् ।
1.023.16 पृञ्चतीर्मधुना पयः ॥
1.023.17 अमूर्या उप सूर्ये याभिर्वा सूर्यः सह ।
1.023.17 ता नो हिन्वन्त्वध्वरम् ॥
1.023.18 अपो देवीरुप ह्वये यत्र गावः पिबन्ति नः ।
1.023.18 सिन्धुभ्यः कर्त्वं हविः ॥
1.023.19 अप्स्वन्तरमृतमप्सु भेषजमपामुत प्रशस्तये ।
1.023.19 देवा भवत वाजिनः ॥
1.023.20 अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा ।
1.023.20 अग्निं च विश्वशम्भुवमापश्च विश्वभेषजीः ॥
1.023.21 आपः पृणीत भेषजं वरूथं तन्वे मम ।
1.023.21 ज्योक्च सूर्यं दृशे ॥
1.023.22 इदमापः प्र वहत यत्किं च दुरितं मयि ।
1.023.22 यद्वाहमभिदुद्रोह यद्वा शेप उतानृतम् ॥
1.023.23 आपो अद्यान्वचारिषं रसेन समगस्महि ।
1.023.23 पयस्वानग्न आ गहि तं मा सं सृज वर्चसा ॥
1.023.24 सं माग्ने वर्चसा सृज सं प्रजया समायुषा ।
1.023.24 विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥

1.024.01 कस्य नूनं कतमस्यामृतानां मनामहे चारु देवस्य नाम ।
1.024.01 को नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
1.024.02 अग्नेर्वयं प्रथमस्यामृतानां मनामहे चारु देवस्य नाम ।
1.024.02 स नो मह्या अदितये पुनर्दात्पितरं च दृशेयं मातरं च ॥
1.024.03 अभि त्वा देव सवितरीशानं वार्याणाम् ।
1.024.03 सदावन्भागमीमहे ॥
1.024.04 यश्चिद्धि त इत्था भगः शशमानः पुरा निदः ।
1.024.04 अद्वेषो हस्तयोर्दधे ॥
1.024.05 भगभक्तस्य ते वयमुदशेम तवावसा ।
1.024.05 मूर्धानं राय आरभे ॥
1.024.06 नहि ते क्षत्रं न सहो न मन्युं वयश्चनामी पतयन्त आपुः ।
1.024.06 नेमा आपो अनिमिषं चरन्तीर्न ये वातस्य प्रमिनन्त्यभ्वम् ॥
1.024.07 अबुध्ने राजा वरुणो वनस्योर्ध्वं स्तूपं ददते पूतदक्षः ।
1.024.07 नीचीना स्थुरुपरि बुध्न एषामस्मे अन्तर्निहिताः केतवः स्युः ॥
1.024.08 उरुं हि राजा वरुणश्चकार सूर्याय पन्थामन्वेतवा उ ।
1.024.08 अपदे पादा प्रतिधातवेऽकरुतापवक्ता हृदयाविधश्चित् ॥
1.024.09 शतं ते राजन्भिषजः सहस्रमुर्वी गभीरा सुमतिष्टे अस्तु ।
1.024.09 बाधस्व दूरे निरृतिं पराचैः कृतं चिदेनः प्र मुमुग्ध्यस्मत् ॥
1.024.10 अमी य ऋक्षा निहितास उच्चा नक्तं ददृश्रे कुह चिद्दिवेयुः ।
1.024.10 अदब्धानि वरुणस्य व्रतानि विचाकशच्चन्द्रमा नक्तमेति ॥
1.024.11 तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा शास्ते यजमानो हविर्भिः ।
1.024.11 अहेळमानो वरुणेह बोध्युरुशंस मा न आयुः प्र मोषीः ॥
1.024.12 तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे ।
1.024.12 शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु ॥
1.024.13 शुनःशेपो ह्यह्वद्गृभीतस्त्रिष्वादित्यं द्रुपदेषु बद्धः ।
1.024.13 अवैनं राजा वरुणः ससृज्याद्विद्वां अदब्धो वि मुमोक्तु पाशान् ॥
1.024.14 अव ते हेळो वरुण नमोभिरव यज्ञेभिरीमहे हविर्भिः ।
1.024.14 क्षयन्नस्मभ्यमसुर प्रचेता राजन्नेनांसि शिश्रथः कृतानि ॥
1.024.15 उदुत्तमं वरुण पाशमस्मदवाधमं वि मध्यमं श्रथाय ।
1.024.15 अथा वयमादित्य व्रते तवानागसो अदितये स्याम ॥

1.025.01 यच्चिद्धि ते विशो यथा प्र देव वरुण व्रतम् ।
1.025.01 मिनीमसि द्यविद्यवि ॥
1.025.02 मा नो वधाय हत्नवे जिहीळानस्य रीरधः ।
1.025.02 मा हृणानस्य मन्यवे ॥
1.025.03 वि मृळीकाय ते मनो रथीरश्वं न संदितम् ।
1.025.03 गीर्भिर्वरुण सीमहि ॥
1.025.04 परा हि मे विमन्यवः पतन्ति वस्यैष्टये ।
1.025.04 वयो न वसतीरुप ॥
1.025.05 कदा क्षत्रश्रियं नरमा वरुणं करामहे ।
1.025.05 मृळीकायोरुचक्षसम् ॥
1.025.06 तदित्समानमाशाते वेनन्ता न प्र युच्छतः ।
1.025.06 धृतव्रताय दाशुषे ॥
1.025.07 वेदा यो वीनां पदमन्तरिक्षेण पतताम् ।
1.025.07 वेद नावः समुद्रियः ॥
1.025.08 वेद मासो धृतव्रतो द्वादश प्रजावतः ।
1.025.08 वेदा य उपजायते ॥
1.025.09 वेद वातस्य वर्तनिमुरोरृष्वस्य बृहतः ।
1.025.09 वेदा ये अध्यासते ॥
1.025.10 नि षसाद धृतव्रतो वरुणः पस्त्यास्वा ।
1.025.10 साम्राज्याय सुक्रतुः ॥
1.025.11 अतो विश्वान्यद्भुता चिकित्वां अभि पश्यति ।
1.025.11 कृतानि या च कर्त्वा ॥
1.025.12 स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत् ।
1.025.12 प्र ण आयूंषि तारिषत् ॥
1.025.13 बिभ्रद्द्रापिं हिरण्ययं वरुणो वस्त निर्णिजम् ।
1.025.13 परि स्पशो नि षेदिरे ॥
1.025.14 न यं दिप्सन्ति दिप्सवो न द्रुह्वाणो जनानाम् ।
1.025.14 न देवमभिमातयः ॥
1.025.15 उत यो मानुषेष्वा यशश्चक्रे असाम्या ।
1.025.15 अस्माकमुदरेष्वा ॥
1.025.16 परा मे यन्ति धीतयो गावो न गव्यूतीरनु ।
1.025.16 इच्छन्तीरुरुचक्षसम् ॥
1.025.17 सं नु वोचावहै पुनर्यतो मे मध्वाभृतम् ।
1.025.17 होतेव क्षदसे प्रियम् ॥
1.025.18 दर्शं नु विश्वदर्शतं दर्शं रथमधि क्षमि ।
1.025.18 एता जुषत मे गिरः ॥
1.025.19 इमं मे वरुण श्रुधी हवमद्या च मृळय ।
1.025.19 त्वामवस्युरा चके ॥
1.025.20 त्वं विश्वस्य मेधिर दिवश्च ग्मश्च राजसि ।
1.025.20 स यामनि प्रति श्रुधि ॥
1.025.21 उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत ।
1.025.21 अवाधमानि जीवसे ॥

1.026.01 वसिष्वा हि मियेध्य वस्त्राण्यूर्जां पते ।
1.026.01 सेमं नो अध्वरं यज ॥
1.026.02 नि नो होता वरेण्यः सदा यविष्ठ मन्मभिः ।
1.026.02 अग्ने दिवित्मता वचः ॥
1.026.03 आ हि ष्मा सूनवे पितापिर्यजत्यापये ।
1.026.03 सखा सख्ये वरेण्यः ॥
1.026.04 आ नो बर्ही रिशादसो वरुणो मित्रो अर्यमा ।
1.026.04 सीदन्तु मनुषो यथा ॥
1.026.05 पूर्व्य होतरस्य नो मन्दस्व सख्यस्य च ।
1.026.05 इमा उ षु श्रुधी गिरः ॥
1.026.06 यच्चिद्धि शश्वता तना देवंदेवं यजामहे ।
1.026.06 त्वे इद्धूयते हविः ॥
1.026.07 प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
1.026.07 प्रियाः स्वग्नयो वयम् ॥
1.026.08 स्वग्नयो हि वार्यं देवासो दधिरे च नः ।
1.026.08 स्वग्नयो मनामहे ॥
1.026.09 अथा न उभयेषाममृत मर्त्यानाम् ।
1.026.09 मिथः सन्तु प्रशस्तयः ॥
1.026.10 विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
1.026.10 चनो धाः सहसो यहो ॥

1.027.01 अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
1.027.01 सम्राजन्तमध्वराणाम् ॥
1.027.02 स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
1.027.02 मीढ्वां अस्माकं बभूयात् ॥
1.027.03 स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
1.027.03 पाहि सदमिद्विश्वायुः ॥
1.027.04 इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसम् ।
1.027.04 अग्ने देवेषु प्र वोचः ॥
1.027.05 आ नो भज परमेष्वा वाजेषु मध्यमेषु ।
1.027.05 शिक्षा वस्वो अन्तमस्य ॥
1.027.06 विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।
1.027.06 सद्यो दाशुषे क्षरसि ॥
1.027.07 यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।
1.027.07 स यन्ता शश्वतीरिषः ॥
1.027.08 नकिरस्य सहन्त्य पर्येता कयस्य चित् ।
1.027.08 वाजो अस्ति श्रवाय्यः ॥
1.027.09 स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।
1.027.09 विप्रेभिरस्तु सनिता ॥
1.027.10 जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।
1.027.10 स्तोमं रुद्राय दृशीकम् ॥
1.027.11 स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः ।
1.027.11 धिये वाजाय हिन्वतु ॥
1.027.12 स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।
1.027.12 उक्थैरग्निर्बृहद्भानुः ॥
1.027.13 नमो महद्भ्यो नमो अर्भकेभ्यो नमो युवभ्यो नम आशिनेभ्यः ।
1.027.13 यजाम देवान्यदि शक्नवाम मा ज्यायसः शंसमा वृक्षि देवाः ॥

1.028.01 यत्र ग्रावा पृथुबुध्न ऊर्ध्वो भवति सोतवे ।
1.028.01 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
1.028.02 यत्र द्वाविव जघनाधिषवण्या कृता ।
1.028.02 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
1.028.03 यत्र नार्यपच्यवमुपच्यवं च शिक्षते ।
1.028.03 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
1.028.04 यत्र मन्थां विबध्नते रश्मीन्यमितवा इव ।
1.028.04 उलूखलसुतानामवेद्विन्द्र जल्गुलः ॥
1.028.05 यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे ।
1.028.05 इह द्युमत्तमं वद जयतामिव दुन्दुभिः ॥
1.028.06 उत स्म ते वनस्पते वातो वि वात्यग्रमित् ।
1.028.06 अथो इन्द्राय पातवे सुनु सोममुलूखल ॥
1.028.07 आयजी वाजसातमा ता ह्युच्चा विजर्भृतः ।
1.028.07 हरी इवान्धांसि बप्सता ॥
1.028.08 ता नो अद्य वनस्पती ऋष्वावृष्वेभिः सोतृभिः ।
1.028.08 इन्द्राय मधुमत्सुतम् ॥
1.028.09 उच्छिष्टं चम्वोर्भर सोमं पवित्र आ सृज ।
1.028.09 नि धेहि गोरधि त्वचि ॥

1.029.01 यच्चिद्धि सत्य सोमपा अनाशस्ता इव स्मसि ।
1.029.01 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
1.029.02 शिप्रिन्वाजानां पते शचीवस्तव दंसना ।
1.029.02 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
1.029.03 नि ष्वापया मिथूदृशा सस्तामबुध्यमाने ।
1.029.03 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
1.029.04 ससन्तु त्या अरातयो बोधन्तु शूर रातयः ।
1.029.04 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
1.029.05 समिन्द्र गर्दभं मृण नुवन्तं पापयामुया ।
1.029.05 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
1.029.06 पताति कुण्डृणाच्या दूरं वातो वनादधि ।
1.029.06 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥
1.029.07 सर्वं परिक्रोशं जहि जम्भया कृकदाश्वम् ।
1.029.07 आ तू न इन्द्र शंसय गोष्वश्वेषु शुभ्रिषु सहस्रेषु तुवीमघ ॥

1.030.01 आ व इन्द्रं क्रिविं यथा वाजयन्तः शतक्रतुम् ।
1.030.01 मंहिष्ठं सिञ्च इन्दुभिः ॥
1.030.02 शतं वा यः शुचीनां सहस्रं वा समाशिराम् ।
1.030.02 एदु निम्नं न रीयते ॥
1.030.03 सं यन्मदाय शुष्मिण एना ह्यस्योदरे ।
1.030.03 समुद्रो न व्यचो दधे ॥
1.030.04 अयमु ते समतसि कपोत इव गर्भधिम् ।
1.030.04 वचस्तच्चिन्न ओहसे ॥
1.030.05 स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।
1.030.05 विभूतिरस्तु सूनृता ॥
1.030.06 ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।
1.030.06 समन्येषु ब्रवावहै ॥
1.030.07 योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
1.030.07 सखाय इन्द्रमूतये ॥
1.030.08 आ घा गमद्यदि श्रवत्सहस्रिणीभिरूतिभिः ।
1.030.08 वाजेभिरुप नो हवम् ॥
1.030.09 अनु प्रत्नस्यौकसो हुवे तुविप्रतिं नरम् ।
1.030.09 यं ते पूर्वं पिता हुवे ॥
1.030.10 तं त्वा वयं विश्ववारा शास्महे पुरुहूत ।
1.030.10 सखे वसो जरितृभ्यः ॥
1.030.11 अस्माकं शिप्रिणीनां सोमपाः सोमपाव्नाम् ।
1.030.11 सखे वज्रिन्सखीनाम् ॥
1.030.12 तथा तदस्तु सोमपाः सखे वज्रिन्तथा कृणु ।
1.030.12 यथा त उश्मसीष्टये ॥
1.030.13 रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
1.030.13 क्षुमन्तो याभिर्मदेम ॥
1.030.14 आ घ त्वावान्त्मनाप्त स्तोतृभ्यो धृष्णवियानः ।
1.030.14 ऋणोरक्षं न चक्र्योः ॥
1.030.15 आ यद्दुवः शतक्रतवा कामं जरितॄणाम् ।
1.030.15 ऋणोरक्षं न शचीभिः ॥
1.030.16 शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि ।
1.030.16 स नो हिरण्यरथं दंसनावान्स नः सनिता सनये स नोऽदात् ॥
1.030.17 आश्विनावश्वावत्येषा यातं शवीरया ।
1.030.17 गोमद्दस्रा हिरण्यवत् ॥
1.030.18 समानयोजनो हि वां रथो दस्रावमर्त्यः ।
1.030.18 समुद्रे अश्विनेयते ॥
1.030.19 न्यघ्न्यस्य मूर्धनि चक्रं रथस्य येमथुः ।
1.030.19 परि द्यामन्यदीयते ॥
1.030.20 कस्त उषः कधप्रिये भुजे मर्तो अमर्त्ये ।
1.030.20 कं नक्षसे विभावरि ॥
1.030.21 वयं हि ते अमन्मह्यान्तादा पराकात् ।
1.030.21 अश्वे न चित्रे अरुषि ॥
1.030.22 त्वं त्येभिरा गहि वाजेभिर्दुहितर्दिवः ।
1.030.22 अस्मे रयिं नि धारय ॥

1.031.01 त्वमग्ने प्रथमो अङ्गिरा ऋषिर्देवो देवानामभवः शिवः सखा ।
1.031.01 तव व्रते कवयो विद्मनापसोऽजायन्त मरुतो भ्राजदृष्टयः ॥
1.031.02 त्वमग्ने प्रथमो अङ्गिरस्तमः कविर्देवानां परि भूषसि व्रतम् ।
1.031.02 विभुर्विश्वस्मै भुवनाय मेधिरो द्विमाता शयुः कतिधा चिदायवे ॥
1.031.03 त्वमग्ने प्रथमो मातरिश्वन आविर्भव सुक्रतूया विवस्वते ।
1.031.03 अरेजेतां रोदसी होतृवूर्येऽसघ्नोर्भारमयजो महो वसो ॥
1.031.04 त्वमग्ने मनवे द्यामवाशयः पुरूरवसे सुकृते सुकृत्तरः ।
1.031.04 श्वात्रेण यत्पित्रोर्मुच्यसे पर्या त्वा पूर्वमनयन्नापरं पुनः ॥
1.031.05 त्वमग्ने वृषभः पुष्टिवर्धन उद्यतस्रुचे भवसि श्रवाय्यः ।
1.031.05 य आहुतिं परि वेदा वषट्कृतिमेकायुरग्रे विश आविवाससि ॥
1.031.06 त्वमग्ने वृजिनवर्तनिं नरं सक्मन्पिपर्षि विदथे विचर्षणे ।
1.031.06 यः शूरसाता परितक्म्ये धने दभ्रेभिश्चित्समृता हंसि भूयसः ॥
1.031.07 त्वं तमग्ने अमृतत्व उत्तमे मर्तं दधासि श्रवसे दिवेदिवे ।
1.031.07 यस्तातृषाण उभयाय जन्मने मयः कृणोषि प्रय आ च सूरये ॥
1.031.08 त्वं नो अग्ने सनये धनानां यशसं कारुं कृणुहि स्तवानः ।
1.031.08 ऋध्याम कर्मापसा नवेन देवैर्द्यावापृथिवी प्रावतं नः ॥
1.031.09 त्वं नो अग्ने पित्रोरुपस्थ आ देवो देवेष्वनवद्य जागृविः ।
1.031.09 तनूकृद्बोधि प्रमतिश्च कारवे त्वं कल्याण वसु विश्वमोपिषे ॥
1.031.10 त्वमग्ने प्रमतिस्त्वं पितासि नस्त्वं वयस्कृत्तव जामयो वयम् ।
1.031.10 सं त्वा रायः शतिनः सं सहस्रिणः सुवीरं यन्ति व्रतपामदाभ्य ॥
1.031.11 त्वामग्ने प्रथममायुमायवे देवा अकृण्वन्नहुषस्य विश्पतिम् ।
1.031.11 इळामकृण्वन्मनुषस्य शासनीं पितुर्यत्पुत्रो ममकस्य जायते ॥
1.031.12 त्वं नो अग्ने तव देव पायुभिर्मघोनो रक्ष तन्वश्च वन्द्य ।
1.031.12 त्राता तोकस्य तनये गवामस्यनिमेषं रक्षमाणस्तव व्रते ॥
1.031.13 त्वमग्ने यज्यवे पायुरन्तरोऽनिषङ्गाय चतुरक्ष इध्यसे ।
1.031.13 यो रातहव्योऽवृकाय धायसे कीरेश्चिन्मन्त्रं मनसा वनोषि तम् ॥
1.031.14 त्वमग्न उरुशंसाय वाघते स्पार्हं यद्रेक्णः परमं वनोषि तत् ।
1.031.14 आध्रस्य चित्प्रमतिरुच्यसे पिता प्र पाकं शास्सि प्र दिशो विदुष्टरः ॥
1.031.15 त्वमग्ने प्रयतदक्षिणं नरं वर्मेव स्यूतं परि पासि विश्वतः ।
1.031.15 स्वादुक्षद्मा यो वसतौ स्योनकृज्जीवयाजं यजते सोपमा दिवः ॥
1.031.16 इमामग्ने शरणिं मीमृषो न इममध्वानं यमगाम दूरात् ।
1.031.16 आपिः पिता प्रमतिः सोम्यानां भृमिरस्यृषिकृन्मर्त्यानाम् ॥
1.031.17 मनुष्वदग्ने अङ्गिरस्वदङ्गिरो ययातिवत्सदने पूर्ववच्छुचे ।
1.031.17 अच्छ याह्या वहा दैव्यं जनमा सादय बर्हिषि यक्षि च प्रियम् ॥
1.031.18 एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा ।
1.031.18 उत प्र णेष्यभि वस्यो अस्मान्सं नः सृज सुमत्या वाजवत्या ॥

1.032.01 इन्द्रस्य नु वीर्याणि प्र वोचं यानि चकार प्रथमानि वज्री ।
1.032.01 अहन्नहिमन्वपस्ततर्द प्र वक्षणा अभिनत्पर्वतानाम् ॥
1.032.02 अहन्नहिं पर्वते शिश्रियाणं त्वष्टास्मै वज्रं स्वर्यं ततक्ष ।
1.032.02 वाश्रा इव धेनवः स्यन्दमाना अञ्जः समुद्रमव जग्मुरापः ॥
1.032.03 वृषायमाणोऽवृणीत सोमं त्रिकद्रुकेष्वपिबत्सुतस्य ।
1.032.03 आ सायकं मघवादत्त वज्रमहन्नेनं प्रथमजामहीनाम् ॥
1.032.04 यदिन्द्राहन्प्रथमजामहीनामान्मायिनाममिनाः प्रोत मायाः ।
1.032.04 आत्सूर्यं जनयन्द्यामुषासं तादीत्ना शत्रुं न किला विवित्से ॥
1.032.05 अहन्वृत्रं वृत्रतरं व्यंसमिन्द्रो वज्रेण महता वधेन ।
1.032.05 स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः ॥
1.032.06 अयोद्धेव दुर्मद आ हि जुह्वे महावीरं तुविबाधमृजीषम् ।
1.032.06 नातारीदस्य समृतिं वधानां सं रुजानाः पिपिष इन्द्रशत्रुः ॥
1.032.07 अपादहस्तो अपृतन्यदिन्द्रमास्य वज्रमधि सानौ जघान ।
1.032.07 वृष्णो वध्रिः प्रतिमानं बुभूषन्पुरुत्रा वृत्रो अशयद्व्यस्तः ॥
1.032.08 नदं न भिन्नममुया शयानं मनो रुहाणा अति यन्त्यापः ।
1.032.08 याश्चिद्वृत्रो महिना पर्यतिष्ठत्तासामहिः पत्सुतःशीर्बभूव ॥
1.032.09 नीचावया अभवद्वृत्रपुत्रेन्द्रो अस्या अव वधर्जभार ।
1.032.09 उत्तरा सूरधरः पुत्र आसीद्दानुः शये सहवत्सा न धेनुः ॥
1.032.10 अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् ।
1.032.10 वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः ॥
1.032.11 दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः ।
1.032.11 अपां बिलमपिहितं यदासीद्वृत्रं जघन्वां अप तद्ववार ॥
1.032.12 अश्व्यो वारो अभवस्तदिन्द्र सृके यत्त्वा प्रत्यहन्देव एकः ।
1.032.12 अजयो गा अजयः शूर सोममवासृजः सर्तवे सप्त सिन्धून् ॥
1.032.13 नास्मै विद्युन्न तन्यतुः सिषेध न यां मिहमकिरद्ध्रादुनिं च ।
1.032.13 इन्द्रश्च यद्युयुधाते अहिश्चोतापरीभ्यो मघवा वि जिग्ये ॥
1.032.14 अहेर्यातारं कमपश्य इन्द्र हृदि यत्ते जघ्नुषो भीरगच्छत् ।
1.032.14 नव च यन्नवतिं च स्रवन्तीः श्येनो न भीतो अतरो रजांसि ॥
1.032.15 इन्द्रो यातोऽवसितस्य राजा शमस्य च शृङ्गिणो वज्रबाहुः ।
1.032.15 सेदु राजा क्षयति चर्षणीनामरान्न नेमिः परि ता बभूव ॥

1.033.01 एतायामोप गव्यन्त इन्द्रमस्माकं सु प्रमतिं वावृधाति ।
1.033.01 अनामृणः कुविदादस्य रायो गवां केतं परमावर्जते नः ॥
1.033.02 उपेदहं धनदामप्रतीतं जुष्टां न श्येनो वसतिं पतामि ।
1.033.02 इन्द्रं नमस्यन्नुपमेभिरर्कैर्य स्तोतृभ्यो हव्यो अस्ति यामन् ॥
1.033.03 नि सर्वसेन इषुधींरसक्त समर्यो गा अजति यस्य वष्टि ।
1.033.03 चोष्कूयमाण इन्द्र भूरि वामं मा पणिर्भूरस्मदधि प्रवृद्ध ॥
1.033.04 वधीर्हि दस्युं धनिनं घनेनं एकश्चरन्नुपशाकेभिरिन्द्र ।
1.033.04 धनोरधि विषुणक्ते व्यायन्नयज्वानः सनकाः प्रेतिमीयुः ॥
1.033.05 परा चिच्छीर्षा ववृजुस्त इन्द्रायज्वानो यज्वभि स्पर्धमानाः ।
1.033.05 प्र यद्दिवो हरिव स्थातरुग्र निरव्रतां अधमो रोदस्योः ॥
1.033.06 अयुयुत्सन्ननवद्यस्य सेनामयातयन्त क्षितयो नवग्वाः ।
1.033.06 वृषायुधो न वध्रयो निरष्टाः प्रवद्भिरिन्द्राच्चितयन्त आयन् ॥
1.033.07 त्वमेतान्रुदतो जक्षतश्चायोधयो रजस इन्द्र पारे ।
1.033.07 अवादहो दिव आ दस्युमुच्चा प्र सुन्वत स्तुवतः शंसमावः ॥
1.033.08 चक्राणासः परीणहं पृथिव्या हिरण्येन मणिना शुम्भमानाः ।
1.033.08 न हिन्वानासस्तितिरुस्त इन्द्रं परि स्पशो अदधात्सूर्येण ॥
1.033.09 परि यदिन्द्र रोदसी उभे अबुभोजीर्महिना विश्वतः सीम् ।
1.033.09 अमन्यमानां अभि मन्यमानैर्निर्ब्रह्मभिरधमो दस्युमिन्द्र ॥
1.033.10 न ये दिवः पृथिव्या अन्तमापुर्न मायाभिर्धनदां पर्यभूवन् ।
1.033.10 युजं वज्रं वृषभश्चक्र इन्द्रो निर्ज्योतिषा तमसो गा अदुक्षत् ॥
1.033.11 अनु स्वधामक्षरन्नापो अस्यावर्धत मध्य आ नाव्यानाम् ।
1.033.11 सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन हन्मनाहन्नभि द्यून् ॥
1.033.12 न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनच्छुष्णमिन्द्रः ।
1.033.12 यावत्तरो मघवन्यावदोजो वज्रेण शत्रुमवधीः पृतन्युम् ॥
1.033.13 अभि सिध्मो अजिगादस्य शत्रून्वि तिग्मेन वृषभेणा पुरोऽभेत् ।
1.033.13 सं वज्रेणासृजद्वृत्रमिन्द्रः प्र स्वां मतिमतिरच्छाशदानः ॥
1.033.14 आवः कुत्समिन्द्र यस्मिञ्चाकन्प्रावो युध्यन्तं वृषभं दशद्युम् ।
1.033.14 शफच्युतो रेणुर्नक्षत द्यामुच्छ्वैत्रेयो नृषाह्याय तस्थौ ॥
1.033.15 आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् ।
1.033.15 ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥

1.034.01 त्रिश्चिन्नो अद्या भवतं नवेदसा विभुर्वां याम उत रातिरश्विना ।
1.034.01 युवोर्हि यन्त्रं हिम्येव वाससोऽभ्यायंसेन्या भवतं मनीषिभिः ॥
1.034.02 त्रयः पवयो मधुवाहने रथे सोमस्य वेनामनु विश्व इद्विदुः ।
1.034.02 त्रय स्कम्भास स्कभितास आरभे त्रिर्नक्तं याथस्त्रिर्वश्विना दिवा ॥
1.034.03 समाने अहन्त्रिरवद्यगोहना त्रिरद्य यज्ञं मधुना मिमिक्षतम् ।
1.034.03 त्रिर्वाजवतीरिषो अश्विना युवं दोषा अस्मभ्यमुषसश्च पिन्वतम् ॥
1.034.04 त्रिर्वर्तिर्यातं त्रिरनुव्रते जने त्रिः सुप्राव्ये त्रेधेव शिक्षतम् ।
1.034.04 त्रिर्नान्द्यं वहतमश्विना युवं त्रिः पृक्षो अस्मे अक्षरेव पिन्वतम् ॥
1.034.05 त्रिर्नो रयिं वहतमश्विना युवं त्रिर्देवताता त्रिरुतावतं धियः ।
1.034.05 त्रिः सौभगत्वं त्रिरुत श्रवांसि नस्त्रिष्ठं वां सूरे दुहिता रुहद्रथम् ॥
1.034.06 त्रिर्नो अश्विना दिव्यानि भेषजा त्रिः पार्थिवानि त्रिरु दत्तमद्भ्यः ।
1.034.06 ओमानं शंयोर्ममकाय सूनवे त्रिधातु शर्म वहतं शुभस्पती ॥
1.034.07 त्रिर्नो अश्विना यजता दिवेदिवे परि त्रिधातु पृथिवीमशायतम् ।
1.034.07 तिस्रो नासत्या रथ्या परावत आत्मेव वातः स्वसराणि गच्छतम् ॥
1.034.08 त्रिरश्विना सिन्धुभिः सप्तमातृभिस्त्रय आहावास्त्रेधा हविष्कृतम् ।
1.034.08 तिस्रः पृथिवीरुपरि प्रवा दिवो नाकं रक्षेथे द्युभिरक्तुभिर्हितम् ॥
1.034.09 क्व त्री चक्रा त्रिवृतो रथस्य क्व त्रयो वन्धुरो ये सनीळाः ।
1.034.09 कदा योगो वाजिनो रासभस्य येन यज्ञं नासत्योपयाथः ॥
1.034.10 आ नासत्या गच्छतं हूयते हविर्मध्वः पिबतं मधुपेभिरासभिः ।
1.034.10 युवोर्हि पूर्वं सवितोषसो रथमृताय चित्रं घृतवन्तमिष्यति ॥
1.034.11 आ नासत्या त्रिभिरेकादशैरिह देवेभिर्यातं मधुपेयमश्विना ।
1.034.11 प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
1.034.12 आ नो अश्विना त्रिवृता रथेनार्वाञ्चं रयिं वहतं सुवीरम् ।
1.034.12 शृण्वन्ता वामवसे जोहवीमि वृधे च नो भवतं वाजसातौ ॥

1.035.01 ह्वयाम्यग्निं प्रथमं स्वस्तये ह्वयामि मित्रावरुणाविहावसे ।
1.035.01 ह्वयामि रात्रीं जगतो निवेशनीं ह्वयामि देवं सवितारमूतये ॥
1.035.02 आ कृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च ।
1.035.02 हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् ॥
1.035.03 याति देवः प्रवता यात्युद्वता याति शुभ्राभ्यां यजतो हरिभ्याम् ।
1.035.03 आ देवो याति सविता परावतोऽप विश्वा दुरिता बाधमानः ॥
1.035.04 अभीवृतं कृशनैर्विश्वरूपं हिरण्यशम्यं यजतो बृहन्तम् ।
1.035.04 आस्थाद्रथं सविता चित्रभानुः कृष्णा रजांसि तविषीं दधानः ॥
1.035.05 वि जनाञ्छ्यावाः शितिपादो अख्यन्रथं हिरण्यप्रौगं वहन्तः ।
1.035.05 शश्वद्विशः सवितुर्दैव्यस्योपस्थे विश्वा भुवनानि तस्थुः ॥
1.035.06 तिस्रो द्यावः सवितुर्द्वा उपस्थां एका यमस्य भुवने विराषाट् ।
1.035.06 आणिं न रथ्यममृताधि तस्थुरिह ब्रवीतु य उ तच्चिकेतत् ॥
1.035.07 वि सुपर्णो अन्तरिक्षाण्यख्यद्गभीरवेपा असुरः सुनीथः ।
1.035.07 क्वेदानीं सूर्यः कश्चिकेत कतमां द्यां रश्मिरस्या ततान ॥
1.035.08 अष्टौ व्यख्यत्ककुभः पृथिव्यास्त्री धन्व योजना सप्त सिन्धून् ।
1.035.08 हिरण्याक्षः सविता देव आगाद्दधद्रत्ना दाशुषे वार्याणि ॥
1.035.09 हिरण्यपाणिः सविता विचर्षणिरुभे द्यावापृथिवी अन्तरीयते ।
1.035.09 अपामीवां बाधते वेति सूर्यमभि कृष्णेन रजसा द्यामृणोति ॥
1.035.10 हिरण्यहस्तो असुरः सुनीथः सुमृळीकः स्ववां यात्वर्वाङ् ।
1.035.10 अपसेधन्रक्षसो यातुधानानस्थाद्देवः प्रतिदोषं गृणानः ॥
1.035.11 ये ते पन्थाः सवितः पूर्व्यासोऽरेणवः सुकृता अन्तरिक्षे ।
1.035.11 तेभिर्नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च ब्रूहि देव ॥

1.036.01 प्र वो यह्वं पुरूणां विशां देवयतीनाम् ।
1.036.01 अग्निं सूक्तेभिर्वचोभिरीमहे यं सीमिदन्य ईळते ॥
1.036.02 जनासो अग्निं दधिरे सहोवृधं हविष्मन्तो विधेम ते ।
1.036.02 स त्वं नो अद्य सुमना इहाविता भवा वाजेषु सन्त्य ॥
1.036.03 प्र त्वा दूतं वृणीमहे होतारं विश्ववेदसम् ।
1.036.03 महस्ते सतो वि चरन्त्यर्चयो दिवि स्पृशन्ति भानवः ॥
1.036.04 देवासस्त्वा वरुणो मित्रो अर्यमा सं दूतं प्रत्नमिन्धते ।
1.036.04 विश्वं सो अग्ने जयति त्वया धनं यस्ते ददाश मर्त्यः ॥
1.036.05 मन्द्रो होता गृहपतिरग्ने दूतो विशामसि ।
1.036.05 त्वे विश्वा संगतानि व्रता ध्रुवा यानि देवा अकृण्वत ॥
1.036.06 त्वे इदग्ने सुभगे यविष्ठ्य विश्वमा हूयते हविः ।
1.036.06 स त्वं नो अद्य सुमना उतापरं यक्षि देवान्सुवीर्या ॥
1.036.07 तं घेमित्था नमस्विन उप स्वराजमासते ।
1.036.07 होत्राभिरग्निं मनुषः समिन्धते तितिर्वांसो अति स्रिधः ॥
1.036.08 घ्नन्तो वृत्रमतरन्रोदसी अप उरु क्षयाय चक्रिरे ।
1.036.08 भुवत्कण्वे वृषा द्युम्न्याहुतः क्रन्ददश्वो गविष्टिषु ॥
1.036.09 सं सीदस्व महां असि शोचस्व देववीतमः ।
1.036.09 वि धूममग्ने अरुषं मियेध्य सृज प्रशस्त दर्शतम् ॥
1.036.10 यं त्वा देवासो मनवे दधुरिह यजिष्ठं हव्यवाहन ।
1.036.10 यं कण्वो मेध्यातिथिर्धनस्पृतं यं वृषा यमुपस्तुतः ॥
1.036.11 यमग्निं मेध्यातिथिः कण्व ईध ऋतादधि ।
1.036.11 तस्य प्रेषो दीदियुस्तमिमा ऋचस्तमग्निं वर्धयामसि ॥
1.036.12 रायस्पूर्धि स्वधावोऽस्ति हि तेऽग्ने देवेष्वाप्यम् ।
1.036.12 त्वं वाजस्य श्रुत्यस्य राजसि स नो मृळ महां असि ॥
1.036.13 ऊर्ध्व ऊ षु ण ऊतये तिष्ठा देवो न सविता ।
1.036.13 ऊर्ध्वो वाजस्य सनिता यदञ्जिभिर्वाघद्भिर्विह्वयामहे ॥
1.036.14 ऊर्ध्वो नः पाह्यंहसो नि केतुना विश्वं समत्रिणं दह ।
1.036.14 कृधी न ऊर्ध्वाञ्चरथाय जीवसे विदा देवेषु नो दुवः ॥
1.036.15 पाहि नो अग्ने रक्षसः पाहि धूर्तेरराव्णः ।
1.036.15 पाहि रीषत उत वा जिघांसतो बृहद्भानो यविष्ठ्य ॥
1.036.16 घनेव विष्वग्वि जह्यराव्णस्तपुर्जम्भ यो अस्मध्रुक् ।
1.036.16 यो मर्त्यः शिशीते अत्यक्तुभिर्मा नः स रिपुरीशत ॥
1.036.17 अग्निर्वव्ने सुवीर्यमग्निः कण्वाय सौभगम् ।
1.036.17 अग्निः प्रावन्मित्रोत मेध्यातिथिमग्निः साता उपस्तुतम् ॥
1.036.18 अग्निना तुर्वशं यदुं परावत उग्रादेवं हवामहे ।
1.036.18 अग्निर्नयन्नववास्त्वं बृहद्रथं तुर्वीतिं दस्यवे सहः ॥
1.036.19 नि त्वामग्ने मनुर्दधे ज्योतिर्जनाय शश्वते ।
1.036.19 दीदेथ कण्व ऋतजात उक्षितो यं नमस्यन्ति कृष्टयः ॥
1.036.20 त्वेषासो अग्नेरमवन्तो अर्चयो भीमासो न प्रतीतये ।
1.036.20 रक्षस्विनः सदमिद्यातुमावतो विश्वं समत्रिणं दह ॥

1.037.01 क्रीळं वः शर्धो मारुतमनर्वाणं रथेशुभम् ।
1.037.01 कण्वा अभि प्र गायत ॥
1.037.02 ये पृषतीभिरृष्टिभिः साकं वाशीभिरञ्जिभिः ।
1.037.02 अजायन्त स्वभानवः ॥
1.037.03 इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
1.037.03 नि यामञ्चित्रमृञ्जते ॥
1.037.04 प्र वः शर्धाय घृष्वये त्वेषद्युम्नाय शुष्मिणे ।
1.037.04 देवत्तं ब्रह्म गायत ॥
1.037.05 प्र शंसा गोष्वघ्न्यं क्रीळं यच्छर्धो मारुतम् ।
1.037.05 जम्भे रसस्य वावृधे ॥
1.037.06 को वो वर्षिष्ठ आ नरो दिवश्च ग्मश्च धूतयः ।
1.037.06 यत्सीमन्तं न धूनुथ ॥
1.037.07 नि वो यामाय मानुषो दध्र उग्राय मन्यवे ।
1.037.07 जिहीत पर्वतो गिरिः ॥
1.037.08 येषामज्मेषु पृथिवी जुजुर्वां इव विश्पतिः ।
1.037.08 भिया यामेषु रेजते ॥
1.037.09 स्थिरं हि जानमेषां वयो मातुर्निरेतवे ।
1.037.09 यत्सीमनु द्विता शवः ॥
1.037.10 उदु त्ये सूनवो गिरः काष्ठा अज्मेष्वत्नत ।
1.037.10 वाश्रा अभिज्ञु यातवे ॥
1.037.11 त्यं चिद्घा दीर्घं पृथुं मिहो नपातममृध्रम् ।
1.037.11 प्र च्यावयन्ति यामभिः ॥
1.037.12 मरुतो यद्ध वो बलं जनां अचुच्यवीतन ।
1.037.12 गिरींरचुच्यवीतन ॥
1.037.13 यद्ध यान्ति मरुतः सं ह ब्रुवतेऽध्वन्ना ।
1.037.13 शृणोति कश्चिदेषाम् ॥
1.037.14 प्र यात शीभमाशुभिः सन्ति कण्वेषु वो दुवः ।
1.037.14 तत्रो षु मादयाध्वै ॥
1.037.15 अस्ति हि ष्मा मदाय वः स्मसि ष्मा वयमेषाम् ।
1.037.15 विश्वं चिदायुर्जीवसे ॥

1.038.01 कद्ध नूनं कधप्रियः पिता पुत्रं न हस्तयोः ।
1.038.01 दधिध्वे वृक्तबर्हिषः ॥
1.038.02 क्व नूनं कद्वो अर्थं गन्ता दिवो न पृथिव्याः ।
1.038.02 क्व वो गावो न रण्यन्ति ॥
1.038.03 क्व वः सुम्ना नव्यांसि मरुतः क्व सुविता ।
1.038.03 क्वो विश्वानि सौभगा ॥
1.038.04 यद्यूयं पृश्निमातरो मर्तासः स्यातन ।
1.038.04 स्तोता वो अमृतः स्यात् ॥
1.038.05 मा वो मृगो न यवसे जरिता भूदजोष्यः ।
1.038.05 पथा यमस्य गादुप ॥
1.038.06 मो षु णः परापरा निरृतिर्दुर्हणा वधीत् ।
1.038.06 पदीष्ट तृष्णया सह ॥
1.038.07 सत्यं त्वेषा अमवन्तो धन्वञ्चिदा रुद्रियासः ।
1.038.07 मिहं कृण्वन्त्यवाताम् ॥
1.038.08 वाश्रेव विद्युन्मिमाति वत्सं न माता सिषक्ति ।
1.038.08 यदेषां वृष्टिरसर्जि ॥
1.038.09 दिवा चित्तमः कृण्वन्ति पर्जन्येनोदवाहेन ।
1.038.09 यत्पृथिवीं व्युन्दन्ति ॥
1.038.10 अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् ।
1.038.10 अरेजन्त प्र मानुषाः ॥
1.038.11 मरुतो वीळुपाणिभिश्चित्रा रोधस्वतीरनु ।
1.038.11 यातेमखिद्रयामभिः ॥
1.038.12 स्थिरा वः सन्तु नेमयो रथा अश्वास एषाम् ।
1.038.12 सुसंस्कृता अभीशवः ॥
1.038.13 अच्छा वदा तना गिरा जरायै ब्रह्मणस्पतिम् ।
1.038.13 अग्निं मित्रं न दर्शतम् ॥
1.038.14 मिमीहि श्लोकमास्ये पर्जन्य इव ततनः ।
1.038.14 गाय गायत्रमुक्थ्यम् ॥
1.038.15 वन्दस्व मारुतं गणं त्वेषं पनस्युमर्किणम् ।
1.038.15 अस्मे वृद्धा असन्निह ॥

1.039.01 प्र यदित्था परावतः शोचिर्न मानमस्यथ ।
1.039.01 कस्य क्रत्वा मरुतः कस्य वर्पसा कं याथ कं ह धूतयः ॥
1.039.02 स्थिरा वः सन्त्वायुधा पराणुदे वीळू उत प्रतिष्कभे ।
1.039.02 युष्माकमस्तु तविषी पनीयसी मा मर्त्यस्य मायिनः ॥
1.039.03 परा ह यत्स्थिरं हथ नरो वर्तयथा गुरु ।
1.039.03 वि याथन वनिनः पृथिव्या व्याशाः पर्वतानाम् ॥
1.039.04 नहि वः शत्रुर्विविदे अधि द्यवि न भूम्यां रिशादसः ।
1.039.04 युष्माकमस्तु तविषी तना युजा रुद्रासो नू चिदाधृषे ॥
1.039.05 प्र वेपयन्ति पर्वतान्वि विञ्चन्ति वनस्पतीन् ।
1.039.05 प्रो आरत मरुतो दुर्मदा इव देवासः सर्वया विशा ॥
1.039.06 उपो रथेषु पृषतीरयुग्ध्वं प्रष्टिर्वहति रोहितः ।
1.039.06 आ वो यामाय पृथिवी चिदश्रोदबीभयन्त मानुषाः ॥
1.039.07 आ वो मक्षू तनाय कं रुद्रा अवो वृणीमहे ।
1.039.07 गन्ता नूनं नोऽवसा यथा पुरेत्था कण्वाय बिभ्युषे ॥
1.039.08 युष्मेषितो मरुतो मर्त्येषित आ यो नो अभ्व ईषते ।
1.039.08 वि तं युयोत शवसा व्योजसा वि युष्माकाभिरूतिभिः ॥
1.039.09 असामि हि प्रयज्यवः कण्वं दद प्रचेतसः ।
1.039.09 असामिभिर्मरुत आ न ऊतिभिर्गन्ता वृष्टिं न विद्युतः ॥
1.039.10 असाम्योजो बिभृथा सुदानवोऽसामि धूतयः शवः ।
1.039.10 ऋषिद्विषे मरुतः परिमन्यव इषुं न सृजत द्विषम् ॥

1.040.01 उत्तिष्ठ ब्रह्मणस्पते देवयन्तस्त्वेमहे ।
1.040.01 उप प्र यन्तु मरुतः सुदानव इन्द्र प्राशूर्भवा सचा ॥
1.040.02 त्वामिद्धि सहसस्पुत्र मर्त्य उपब्रूते धने हिते ।
1.040.02 सुवीर्यं मरुत आ स्वश्व्यं दधीत यो व आचके ॥
1.040.03 प्रैतु ब्रह्मणस्पतिः प्र देव्येतु सूनृता ।
1.040.03 अच्छा वीरं नर्यं पङ्क्तिराधसं देवा यज्ञं नयन्तु नः ॥
1.040.04 यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः ।
1.040.04 तस्मा इळां सुवीरामा यजामहे सुप्रतूर्तिमनेहसम् ॥
1.040.05 प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् ।
1.040.05 यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकांसि चक्रिरे ॥
1.040.06 तमिद्वोचेमा विदथेषु शम्भुवं मन्त्रं देवा अनेहसम् ।
1.040.06 इमां च वाचं प्रतिहर्यथा नरो विश्वेद्वामा वो अश्नवत् ॥
1.040.07 को देवयन्तमश्नवज्जनं को वृक्तबर्हिषम् ।
1.040.07 प्रप्र दाश्वान्पस्त्याभिरस्थितान्तर्वावत्क्षयं दधे ॥
1.040.08 उप क्षत्रं पृञ्चीत हन्ति राजभिर्भये चित्सुक्षितिं दधे ।
1.040.08 नास्य वर्ता न तरुता महाधने नार्भे अस्ति वज्रिणः ॥

1.041.01 यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
1.041.01 नू चित्स दभ्यते जनः ॥
1.041.02 यं बाहुतेव पिप्रति पान्ति मर्त्यं रिषः ।
1.041.02 अरिष्टः सर्व एधते ॥
1.041.03 वि दुर्गा वि द्विषः पुरो घ्नन्ति राजान एषाम् ।
1.041.03 नयन्ति दुरिता तिरः ॥
1.041.04 सुगः पन्था अनृक्षर आदित्यास ऋतं यते ।
1.041.04 नात्रावखादो अस्ति वः ॥
1.041.05 यं यज्ञं नयथा नर आदित्या ऋजुना पथा ।
1.041.05 प्र वः स धीतये नशत् ॥
1.041.06 स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना ।
1.041.06 अच्छा गच्छत्यस्तृतः ॥
1.041.07 कथा राधाम सखाय स्तोमं मित्रस्यार्यम्णः ।
1.041.07 महि प्सरो वरुणस्य ॥
1.041.08 मा वो घ्नन्तं मा शपन्तं प्रति वोचे देवयन्तम् ।
1.041.08 सुम्नैरिद्व आ विवासे ॥
1.041.09 चतुरश्चिद्ददमानाद्बिभीयादा निधातोः ।
1.041.09 न दुरुक्ताय स्पृहयेत् ॥

1.042.01 सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् ।
1.042.01 सक्ष्वा देव प्र णस्पुरः ॥
1.042.02 यो नः पूषन्नघो वृको दुःशेव आदिदेशति ।
1.042.02 अप स्म तं पथो जहि ॥
1.042.03 अप त्यं परिपन्थिनं मुषीवाणं हुरश्चितम् ।
1.042.03 दूरमधि स्रुतेरज ॥
1.042.04 त्वं तस्य द्वयाविनोऽघशंसस्य कस्य चित् ।
1.042.04 पदाभि तिष्ठ तपुषिम् ॥
1.042.05 आ तत्ते दस्र मन्तुमः पूषन्नवो वृणीमहे ।
1.042.05 येन पितॄनचोदयः ॥
1.042.06 अधा नो विश्वसौभग हिरण्यवाशीमत्तम ।
1.042.06 धनानि सुषणा कृधि ॥
1.042.07 अति नः सश्चतो नय सुगा नः सुपथा कृणु ।
1.042.07 पूषन्निह क्रतुं विदः ॥
1.042.08 अभि सूयवसं नय न नवज्वारो अध्वने ।
1.042.08 पूषन्निह क्रतुं विदः ॥
1.042.09 शग्धि पूर्धि प्र यंसि च शिशीहि प्रास्युदरम् ।
1.042.09 पूषन्निह क्रतुं विदः ॥
1.042.10 न पूषणं मेथामसि सूक्तैरभि गृणीमसि ।
1.042.10 वसूनि दस्ममीमहे ॥

1.043.01 कद्रुद्राय प्रचेतसे मीळ्हुष्टमाय तव्यसे ।
1.043.01 वोचेम शन्तमं हृदे ॥
1.043.02 यथा नो अदितिः करत्पश्वे नृभ्यो यथा गवे ।
1.043.02 यथा तोकाय रुद्रियम् ॥
1.043.03 यथा नो मित्रो वरुणो यथा रुद्रश्चिकेतति ।
1.043.03 यथा विश्वे सजोषसः ॥
1.043.04 गाथपतिं मेधपतिं रुद्रं जलाषभेषजम् ।
1.043.04 तच्छंयोः सुम्नमीमहे ॥
1.043.05 यः शुक्र इव सूर्यो हिरण्यमिव रोचते ।
1.043.05 श्रेष्ठो देवानां वसुः ॥
1.043.06 शं नः करत्यर्वते सुगं मेषाय मेष्ये ।
1.043.06 नृभ्यो नारिभ्यो गवे ॥
1.043.07 अस्मे सोम श्रियमधि नि धेहि शतस्य नृणाम् ।
1.043.07 महि श्रवस्तुविनृम्णम् ॥
1.043.08 मा नः सोमपरिबाधो मारातयो जुहुरन्त ।
1.043.08 आ न इन्दो वाजे भज ॥
1.043.09 यास्ते प्रजा अमृतस्य परस्मिन्धामन्नृतस्य ।
1.043.09 मूर्धा नाभा सोम वेन आभूषन्तीः सोम वेदः ॥

1.044.01 अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।
1.044.01 आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥
1.044.02 जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणाम् ।
1.044.02 सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥
1.044.03 अद्या दूतं वृणीमहे वसुमग्निं पुरुप्रियम् ।
1.044.03 धूमकेतुं भाऋजीकं व्युष्टिषु यज्ञानामध्वरश्रियम् ॥
1.044.04 श्रेष्ठं यविष्ठमतिथिं स्वाहुतं जुष्टं जनाय दाशुषे ।
1.044.04 देवां अच्छा यातवे जातवेदसमग्निमीळे व्युष्टिषु ॥
1.044.05 स्तविष्यामि त्वामहं विश्वस्यामृत भोजन ।
1.044.05 अग्ने त्रातारममृतं मियेध्य यजिष्ठं हव्यवाहन ॥
1.044.06 सुशंसो बोधि गृणते यविष्ठ्य मधुजिह्वः स्वाहुतः ।
1.044.06 प्रस्कण्वस्य प्रतिरन्नायुर्जीवसे नमस्या दैव्यं जनम् ॥
1.044.07 होतारं विश्ववेदसं सं हि त्वा विश इन्धते ।
1.044.07 स आ वह पुरुहूत प्रचेतसोऽग्ने देवां इह द्रवत् ॥
1.044.08 सवितारमुषसमश्विना भगमग्निं व्युष्टिषु क्षपः ।
1.044.08 कण्वासस्त्वा सुतसोमास इन्धते हव्यवाहं स्वध्वर ॥
1.044.09 पतिर्ह्यध्वराणामग्ने दूतो विशामसि ।
1.044.09 उषर्बुध आ वह सोमपीतये देवां अद्य स्वर्दृशः ॥
1.044.10 अग्ने पूर्वा अनूषसो विभावसो दीदेथ विश्वदर्शतः ।
1.044.10 असि ग्रामेष्वविता पुरोहितोऽसि यज्ञेषु मानुषः ॥
1.044.11 नि त्वा यज्ञस्य साधनमग्ने होतारमृत्विजम् ।
1.044.11 मनुष्वद्देव धीमहि प्रचेतसं जीरं दूतममर्त्यम् ॥
1.044.12 यद्देवानां मित्रमहः पुरोहितोऽन्तरो यासि दूत्यम् ।
1.044.12 सिन्धोरिव प्रस्वनितास ऊर्मयोऽग्नेर्भ्राजन्ते अर्चयः ॥
1.044.13 श्रुधि श्रुत्कर्ण वह्निभिर्देवैरग्ने सयावभिः ।
1.044.13 आ सीदन्तु बर्हिषि मित्रो अर्यमा प्रातर्यावाणो अध्वरम् ॥
1.044.14 शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः ।
1.044.14 पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥

1.045.01 त्वमग्ने वसूंरिह रुद्रां आदित्यां उत ।
1.045.01 यजा स्वध्वरं जनं मनुजातं घृतप्रुषम् ॥
1.045.02 श्रुष्टीवानो हि दाशुषे देवा अग्ने विचेतसः ।
1.045.02 तान्रोहिदश्व गिर्वणस्त्रयस्त्रिंशतमा वह ॥
1.045.03 प्रियमेधवदत्रिवज्जातवेदो विरूपवत् ।
1.045.03 अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हवम् ॥
1.045.04 महिकेरव ऊतये प्रियमेधा अहूषत ।
1.045.04 राजन्तमध्वराणामग्निं शुक्रेण शोचिषा ॥
1.045.05 घृताहवन सन्त्येमा उ षु श्रुधी गिरः ।
1.045.05 याभिः कण्वस्य सूनवो हवन्तेऽवसे त्वा ॥
1.045.06 त्वां चित्रश्रवस्तम हवन्ते विक्षु जन्तवः ।
1.045.06 शोचिष्केशं पुरुप्रियाग्ने हव्याय वोळ्हवे ॥
1.045.07 नि त्वा होतारमृत्विजं दधिरे वसुवित्तमम् ।
1.045.07 श्रुत्कर्णं सप्रथस्तमं विप्रा अग्ने दिविष्टिषु ॥
1.045.08 आ त्वा विप्रा अचुच्यवुः सुतसोमा अभि प्रयः ।
1.045.08 बृहद्भा बिभ्रतो हविरग्ने मर्ताय दाशुषे ॥
1.045.09 प्रातर्याव्णः सहस्कृत सोमपेयाय सन्त्य ।
1.045.09 इहाद्य दैव्यं जनं बर्हिरा सादया वसो ॥
1.045.10 अर्वाञ्चं दैव्यं जनमग्ने यक्ष्व सहूतिभिः ।
1.045.10 अयं सोमः सुदानवस्तं पात तिरोअह्न्यम् ॥

1.046.01 एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
1.046.01 स्तुषे वामश्विना बृहत् ॥
1.046.02 या दस्रा सिन्धुमातरा मनोतरा रयीणाम् ।
1.046.02 धिया देवा वसुविदा ॥
1.046.03 वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।
1.046.03 यद्वां रथो विभिष्पतात् ॥
1.046.04 हविषा जारो अपां पिपर्ति पपुरिर्नरा ।
1.046.04 पिता कुटस्य चर्षणिः ॥
1.046.05 आदारो वां मतीनां नासत्या मतवचसा ।
1.046.05 पातं सोमस्य धृष्णुया ॥
1.046.06 या नः पीपरदश्विना ज्योतिष्मती तमस्तिरः ।
1.046.06 तामस्मे रासाथामिषम् ॥
1.046.07 आ नो नावा मतीनां यातं पाराय गन्तवे ।
1.046.07 युञ्जाथामश्विना रथम् ॥
1.046.08 अरित्रं वां दिवस्पृथु तीर्थे सिन्धूनां रथः ।
1.046.08 धिया युयुज्र इन्दवः ॥
1.046.09 दिवस्कण्वास इन्दवो वसु सिन्धूनां पदे ।
1.046.09 स्वं वव्रिं कुह धित्सथः ॥
1.046.10 अभूदु भा उ अंशवे हिरण्यं प्रति सूर्यः ।
1.046.10 व्यख्यज्जिह्वयासितः ॥
1.046.11 अभूदु पारमेतवे पन्था ऋतस्य साधुया ।
1.046.11 अदर्शि वि स्रुतिर्दिवः ॥
1.046.12 तत्तदिदश्विनोरवो जरिता प्रति भूषति ।
1.046.12 मदे सोमस्य पिप्रतोः ॥
1.046.13 वावसाना विवस्वति सोमस्य पीत्या गिरा ।
1.046.13 मनुष्वच्छम्भू आ गतम् ॥
1.046.14 युवोरुषा अनु श्रियं परिज्मनोरुपाचरत् ।
1.046.14 ऋता वनथो अक्तुभिः ॥
1.046.15 उभा पिबतमश्विनोभा नः शर्म यच्छतम् ।
1.046.15 अविद्रियाभिरूतिभिः ॥

1.047.01 अयं वां मधुमत्तमः सुतः सोम ऋतावृधा ।
1.047.01 तमश्विना पिबतं तिरोअह्न्यं धत्तं रत्नानि दाशुषे ॥
1.047.02 त्रिवन्धुरेण त्रिवृता सुपेशसा रथेना यातमश्विना ।
1.047.02 कण्वासो वां ब्रह्म कृण्वन्त्यध्वरे तेषां सु शृणुतं हवम् ॥
1.047.03 अश्विना मधुमत्तमं पातं सोममृतावृधा ।
1.047.03 अथाद्य दस्रा वसु बिभ्रता रथे दाश्वांसमुप गच्छतम् ॥
1.047.04 त्रिषधस्थे बर्हिषि विश्ववेदसा मध्वा यज्ञं मिमिक्षतम् ।
1.047.04 कण्वासो वां सुतसोमा अभिद्यवो युवां हवन्ते अश्विना ॥
1.047.05 याभिः कण्वमभिष्टिभिः प्रावतं युवमश्विना ।
1.047.05 ताभिः ष्वस्मां अवतं शुभस्पती पातं सोममृतावृधा ॥
1.047.06 सुदासे दस्रा वसु बिभ्रता रथे पृक्षो वहतमश्विना ।
1.047.06 रयिं समुद्रादुत वा दिवस्पर्यस्मे धत्तं पुरुस्पृहम् ॥
1.047.07 यन्नासत्या परावति यद्वा स्थो अधि तुर्वशे ।
1.047.07 अतो रथेन सुवृता न आ गतं साकं सूर्यस्य रश्मिभिः ॥
1.047.08 अर्वाञ्चा वां सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ।
1.047.08 इषं पृञ्चन्ता सुकृते सुदानव आ बर्हिः सीदतं नरा ॥
1.047.09 तेन नासत्या गतं रथेन सूर्यत्वचा ।
1.047.09 येन शश्वदूहथुर्दाशुषे वसु मध्वः सोमस्य पीतये ॥
1.047.10 उक्थेभिरर्वागवसे पुरूवसू अर्कैश्च नि ह्वयामहे ।
1.047.10 शश्वत्कण्वानां सदसि प्रिये हि कं सोमं पपथुरश्विना ॥

1.048.01 सह वामेन न उषो व्युच्छा दुहितर्दिवः ।
1.048.01 सह द्युम्नेन बृहता विभावरि राया देवि दास्वती ॥
1.048.02 अश्वावतीर्गोमतीर्विश्वसुविदो भूरि च्यवन्त वस्तवे ।
1.048.02 उदीरय प्रति मा सूनृता उषश्चोद राधो मघोनाम् ॥
1.048.03 उवासोषा उच्छाच्च नु देवी जीरा रथानाम् ।
1.048.03 ये अस्या आचरणेषु दध्रिरे समुद्रे न श्रवस्यवः ॥
1.048.04 उषो ये ते प्र यामेषु युञ्जते मनो दानाय सूरयः ।
1.048.04 अत्राह तत्कण्व एषां कण्वतमो नाम गृणाति नृणाम् ॥
1.048.05 आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
1.048.05 जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः ॥
1.048.06 वि या सृजति समनं व्यर्थिनः पदं न वेत्योदती ।
1.048.06 वयो नकिष्टे पप्तिवांस आसते व्युष्टौ वाजिनीवति ॥
1.048.07 एषायुक्त परावतः सूर्यस्योदयनादधि ।
1.048.07 शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान् ॥
1.048.08 विश्वमस्या नानाम चक्षसे जगज्ज्योतिष्कृणोति सूनरी ।
1.048.08 अप द्वेषो मघोनी दुहिता दिव उषा उच्छदप स्रिधः ॥
1.048.09 उष आ भाहि भानुना चन्द्रेण दुहितर्दिवः ।
1.048.09 आवहन्ती भूर्यस्मभ्यं सौभगं व्युच्छन्ती दिविष्टिषु ॥
1.048.10 विश्वस्य हि प्राणनं जीवनं त्वे वि यदुच्छसि सूनरि ।
1.048.10 सा नो रथेन बृहता विभावरि श्रुधि चित्रामघे हवम् ॥
1.048.11 उषो वाजं हि वंस्व यश्चित्रो मानुषे जने ।
1.048.11 तेना वह सुकृतो अध्वरां उप ये त्वा गृणन्ति वह्नयः ॥
1.048.12 विश्वान्देवां आ वह सोमपीतयेऽन्तरिक्षादुषस्त्वम् ।
1.048.12 सास्मासु धा गोमदश्वावदुक्थ्यमुषो वाजं सुवीर्यम् ॥
1.048.13 यस्या रुशन्तो अर्चयः प्रति भद्रा अदृक्षत ।
1.048.13 सा नो रयिं विश्ववारं सुपेशसमुषा ददातु सुग्म्यम् ॥
1.048.14 ये चिद्धि त्वामृषयः पूर्व ऊतये जुहूरेऽवसे महि ।
1.048.14 सा न स्तोमां अभि गृणीहि राधसोषः शुक्रेण शोचिषा ॥
1.048.15 उषो यदद्य भानुना वि द्वारावृणवो दिवः ।
1.048.15 प्र नो यच्छतादवृकं पृथु च्छर्दिः प्र देवि गोमतीरिषः ॥
1.048.16 सं नो राया बृहता विश्वपेशसा मिमिक्ष्वा समिळाभिरा ।
1.048.16 सं द्युम्नेन विश्वतुरोषो महि सं वाजैर्वाजिनीवति ॥

1.049.01 उषो भद्रेभिरा गहि दिवश्चिद्रोचनादधि ।
1.049.01 वहन्त्वरुणप्सव उप त्वा सोमिनो गृहम् ॥
1.049.02 सुपेशसं सुखं रथं यमध्यस्था उषस्त्वम् ।
1.049.02 तेना सुश्रवसं जनं प्रावाद्य दुहितर्दिवः ॥
1.049.03 वयश्चित्ते पतत्रिणो द्विपच्चतुष्पदर्जुनि ।
1.049.03 उषः प्रारन्नृतूंरनु दिवो अन्तेभ्यस्परि ॥
1.049.04 व्युच्छन्ती हि रश्मिभिर्विश्वमाभासि रोचनम् ।
1.049.04 तां त्वामुषर्वसूयवो गीर्भिः कण्वा अहूषत ॥

1.050.01 उदु त्यं जातवेदसं देवं वहन्ति केतवः ।
1.050.01 दृशे विश्वाय सूर्यम् ॥
1.050.02 अप त्ये तायवो यथा नक्षत्रा यन्त्यक्तुभिः ।
1.050.02 सूराय विश्वचक्षसे ॥
1.050.03 अदृश्रमस्य केतवो वि रश्मयो जनां अनु ।
1.050.03 भ्राजन्तो अग्नयो यथा ॥
1.050.04 तरणिर्विश्वदर्शतो ज्योतिष्कृदसि सूर्य ।
1.050.04 विश्वमा भासि रोचनम् ॥
1.050.05 प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।
1.050.05 प्रत्यङ्विश्वं स्वर्दृशे ॥
1.050.06 येना पावक चक्षसा भुरण्यन्तं जनां अनु ।
1.050.06 त्वं वरुण पश्यसि ॥
1.050.07 वि द्यामेषि रजस्पृथ्वहा मिमानो अक्तुभिः ।
1.050.07 पश्यञ्जन्मानि सूर्य ॥
1.050.08 सप्त त्वा हरितो रथे वहन्ति देव सूर्य ।
1.050.08 शोचिष्केशं विचक्षण ॥
1.050.09 अयुक्त सप्त शुन्ध्युवः सूरो रथस्य नप्त्यः ।
1.050.09 ताभिर्याति स्वयुक्तिभिः ॥
1.050.10 उद्वयं तमसस्परि ज्योतिष्पश्यन्त उत्तरम् ।
1.050.10 देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् ॥
1.050.11 उद्यन्नद्य मित्रमह आरोहन्नुत्तरां दिवम् ।
1.050.11 हृद्रोगं मम सूर्य हरिमाणं च नाशय ॥
1.050.12 शुकेषु मे हरिमाणं रोपणाकासु दध्मसि ।
1.050.12 अथो हारिद्रवेषु मे हरिमाणं नि दध्मसि ॥
1.050.13 उदगादयमादित्यो विश्वेन सहसा सह ।
1.050.13 द्विषन्तं मह्यं रन्धयन्मो अहं द्विषते रधम् ॥

1.051.01 अभि त्यं मेषं पुरुहूतमृग्मियमिन्द्रं गीर्भिर्मदता वस्वो अर्णवम् ।
1.051.01 यस्य द्यावो न विचरन्ति मानुषा भुजे मंहिष्ठमभि विप्रमर्चत ॥
1.051.02 अभीमवन्वन्स्वभिष्टिमूतयोऽन्तरिक्षप्रां तविषीभिरावृतम् ।
1.051.02 इन्द्रं दक्षास ऋभवो मदच्युतं शतक्रतुं जवनी सूनृतारुहत् ॥
1.051.03 त्वं गोत्रमङ्गिरोभ्योऽवृणोरपोतात्रये शतदुरेषु गातुवित् ।
1.051.03 ससेन चिद्विमदायावहो वस्वाजावद्रिं वावसानस्य नर्तयन् ॥
1.051.04 त्वमपामपिधानावृणोरपाधारयः पर्वते दानुमद्वसु ।
1.051.04 वृत्रं यदिन्द्र शवसावधीरहिमादित्सूर्यं दिव्यारोहयो दृशे ॥
1.051.05 त्वं मायाभिरप मायिनोऽधमः स्वधाभिर्ये अधि शुप्तावजुह्वत ।
1.051.05 त्वं पिप्रोर्नृमणः प्रारुजः पुरः प्र ऋजिश्वानं दस्युहत्येष्वाविथ ॥
1.051.06 त्वं कुत्सं शुष्णहत्येष्वाविथारन्धयोऽतिथिग्वाय शम्बरम् ।
1.051.06 महान्तं चिदर्बुदं नि क्रमीः पदा सनादेव दस्युहत्याय जज्ञिषे ॥
1.051.07 त्वे विश्वा तविषी सध्र्यग्घिता तव राधः सोमपीथाय हर्षते ।
1.051.07 तव वज्रश्चिकिते बाह्वोर्हितो वृश्चा शत्रोरव विश्वानि वृष्ण्या ॥
1.051.08 वि जानीह्यार्यान्ये च दस्यवो बर्हिष्मते रन्धया शासदव्रतान् ।
1.051.08 शाकी भव यजमानस्य चोदिता विश्वेत्ता ते सधमादेषु चाकन ॥
1.051.09 अनुव्रताय रन्धयन्नपव्रतानाभूभिरिन्द्रः श्नथयन्ननाभुवः ।
1.051.09 वृद्धस्य चिद्वर्धतो द्यामिनक्षत स्तवानो वम्रो वि जघान संदिहः ॥
1.051.10 तक्षद्यत्त उशना सहसा सहो वि रोदसी मज्मना बाधते शवः ।
1.051.10 आ त्वा वातस्य नृमणो मनोयुज आ पूर्यमाणमवहन्नभि श्रवः ॥
1.051.11 मन्दिष्ट यदुशने काव्ये सचां इन्द्रो वङ्कू वङ्कुतराधि तिष्ठति ।
1.051.11 उग्रो ययिं निरपः स्रोतसासृजद्वि शुष्णस्य दृंहिता ऐरयत्पुरः ॥
1.051.12 आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे ।
1.051.12 इन्द्र यथा सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥
1.051.13 अददा अर्भां महते वचस्यवे कक्षीवते वृचयामिन्द्र सुन्वते ।
1.051.13 मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सवनेषु प्रवाच्या ॥
1.051.14 इन्द्रो अश्रायि सुध्यो निरेके पज्रेषु स्तोमो दुर्यो न यूपः ।
1.051.14 अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता ॥
1.051.15 इदं नमो वृषभाय स्वराजे सत्यशुष्माय तवसेऽवाचि ।
1.051.15 अस्मिन्निन्द्र वृजने सर्ववीराः स्मत्सूरिभिस्तव शर्मन्स्याम ॥

1.052.01 त्यं सु मेषं महया स्वर्विदं शतं यस्य सुभ्वः साकमीरते ।
1.052.01 अत्यं न वाजं हवनस्यदं रथमेन्द्रं ववृत्यामवसे सुवृक्तिभिः ॥
1.052.02 स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे ।
1.052.02 इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥
1.052.03 स हि द्वरो द्वरिषु वव्र ऊधनि चन्द्रबुध्नो मदवृद्धो मनीषिभिः ।
1.052.03 इन्द्रं तमह्वे स्वपस्यया धिया मंहिष्ठरातिं स हि पप्रिरन्धसः ॥
1.052.04 आ यं पृणन्ति दिवि सद्मबर्हिषः समुद्रं न सुभ्वः स्वा अभिष्टयः ।
1.052.04 तं वृत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमवाता अह्रुतप्सवः ॥
1.052.05 अभि स्ववृष्टिं मदे अस्य युध्यतो रघ्वीरिव प्रवणे सस्रुरूतयः ।
1.052.05 इन्द्रो यद्वज्री धृषमाणो अन्धसा भिनद्वलस्य परिधींरिव त्रितः ॥
1.052.06 परीं घृणा चरति तित्विषे शवोऽपो वृत्वी रजसो बुध्नमाशयत् ।
1.052.06 वृत्रस्य यत्प्रवणे दुर्गृभिश्वनो निजघन्थ हन्वोरिन्द्र तन्यतुम् ॥
1.052.07 ह्रदं न हि त्वा न्यृषन्त्यूर्मयो ब्रह्माणीन्द्र तव यानि वर्धना ।
1.052.07 त्वष्टा चित्ते युज्यं वावृधे शवस्ततक्ष वज्रमभिभूत्योजसम् ॥
1.052.08 जघन्वां उ हरिभिः सम्भृतक्रतविन्द्र वृत्रं मनुषे गातुयन्नपः ।
1.052.08 अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥
1.052.09 बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
1.052.09 यन्मानुषप्रधना इन्द्रमूतयः स्वर्नृषाचो मरुतोऽमदन्ननु ॥
1.052.10 द्यौश्चिदस्यामवां अहेः स्वनादयोयवीद्भियसा वज्र इन्द्र ते ।
1.052.10 वृत्रस्य यद्बद्बधानस्य रोदसी मदे सुतस्य शवसाभिनच्छिरः ॥
1.052.11 यदिन्न्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः ।
1.052.11 अत्राह ते मघवन्विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥
1.052.12 त्वमस्य पारे रजसो व्योमनः स्वभूत्योजा अवसे धृषन्मनः ।
1.052.12 चकृषे भूमिं प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥
1.052.13 त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः ।
1.052.13 विश्वमाप्रा अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वावान् ॥
1.052.14 न यस्य द्यावापृथिवी अनु व्यचो न सिन्धवो रजसो अन्तमानशुः ।
1.052.14 नोत स्ववृष्टिं मदे अस्य युध्यत एको अन्यच्चकृषे विश्वमानुषक् ॥
1.052.15 आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा ।
1.052.15 वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥

1.053.01 न्यू षु वाचं प्र महे भरामहे गिर इन्द्राय सदने विवस्वतः ।
1.053.01 नू चिद्धि रत्नं ससतामिवाविदन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥
1.053.02 दुरो अश्वस्य दुर इन्द्र गोरसि दुरो यवस्य वसुन इनस्पतिः ।
1.053.02 शिक्षानरः प्रदिवो अकामकर्शनः सखा सखिभ्यस्तमिदं गृणीमसि ॥
1.053.03 शचीव इन्द्र पुरुकृद्द्युमत्तम तवेदिदमभितश्चेकिते वसु ।
1.053.03 अतः संगृभ्याभिभूत आ भर मा त्वायतो जरितुः काममूनयीः ॥
1.053.04 एभिर्द्युभिः सुमना एभिरिन्दुभिर्निरुन्धानो अमतिं गोभिरश्विना ।
1.053.04 इन्द्रेण दस्युं दरयन्त इन्दुभिर्युतद्वेषसः समिषा रभेमहि ॥
1.053.05 समिन्द्र राया समिषा रभेमहि सं वाजेभिः पुरुश्चन्द्रैरभिद्युभिः ।
1.053.05 सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥
1.053.06 ते त्वा मदा अमदन्तानि वृष्ण्या ते सोमासो वृत्रहत्येषु सत्पते ।
1.053.06 यत्कारवे दश वृत्राण्यप्रति बर्हिष्मते नि सहस्राणि बर्हयः ॥
1.053.07 युधा युधमुप घेदेषि धृष्णुया पुरा पुरं समिदं हंस्योजसा ।
1.053.07 नम्या यदिन्द्र सख्या परावति निबर्हयो नमुचिं नाम मायिनम् ॥
1.053.08 त्वं करञ्जमुत पर्णयं वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
1.053.08 त्वं शता वङ्गृदस्याभिनत्पुरोऽनानुदः परिषूता ऋजिश्वना ॥
1.053.09 त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुना सुश्रवसोपजग्मुषः ।
1.053.09 षष्टिं सहस्रा नवतिं नव श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥
1.053.10 त्वमाविथ सुश्रवसं तवोतिभिस्तव त्रामभिरिन्द्र तूर्वयाणम् ।
1.053.10 त्वमस्मै कुत्समतिथिग्वमायुं महे राज्ञे यूने अरन्धनायः ॥
1.053.11 य उदृचीन्द्र देवगोपाः सखायस्ते शिवतमा असाम ।
1.053.11 त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥

1.054.01 मा नो अस्मिन्मघवन्पृत्स्वंहसि नहि ते अन्तः शवसः परीणशे ।
1.054.01 अक्रन्दयो नद्यो रोरुवद्वना कथा न क्षोणीर्भियसा समारत ॥
1.054.02 अर्चा शक्राय शाकिने शचीवते शृण्वन्तमिन्द्रं महयन्नभि ष्टुहि ।
1.054.02 यो धृष्णुना शवसा रोदसी उभे वृषा वृषत्वा वृषभो न्यृञ्जते ॥
1.054.03 अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः ।
1.054.03 बृहच्छ्रवा असुरो बर्हणा कृतः पुरो हरिभ्यां वृषभो रथो हि षः ॥
1.054.04 त्वं दिवो बृहतः सानु कोपयोऽव त्मना धृषता शम्बरं भिनत् ।
1.054.04 यन्मायिनो व्रन्दिनो मन्दिना धृषच्छितां गभस्तिमशनिं पृतन्यसि ॥
1.054.05 नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्व्रन्दिनो रोरुवद्वना ।
1.054.05 प्राचीनेन मनसा बर्हणावता यदद्या चित्कृणवः कस्त्वा परि ॥
1.054.06 त्वमाविथ नर्यं तुर्वशं यदुं त्वं तुर्वीतिं वय्यं शतक्रतो ।
1.054.06 त्वं रथमेतशं कृत्व्ये धने त्वं पुरो नवतिं दम्भयो नव ॥
1.054.07 स घा राजा सत्पतिः शूशुवज्जनो रातहव्यः प्रति यः शासमिन्वति ।
1.054.07 उक्था वा यो अभिगृणाति राधसा दानुरस्मा उपरा पिन्वते दिवः ॥
1.054.08 असमं क्षत्रमसमा मनीषा प्र सोमपा अपसा सन्तु नेमे ।
1.054.08 ये त इन्द्र ददुषो वर्धयन्ति महि क्षत्रं स्थविरं वृष्ण्यं च ॥
1.054.09 तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चमसा इन्द्रपानाः ।
1.054.09 व्यश्नुहि तर्पया काममेषामथा मनो वसुदेयाय कृष्व ॥
1.054.10 अपामतिष्ठद्धरुणह्वरं तमोऽन्तर्वृत्रस्य जठरेषु पर्वतः ।
1.054.10 अभीमिन्द्रो नद्यो वव्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिघ्नते ॥
1.054.11 स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळ् इन्द्र तव्यम् ।
1.054.11 रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥

1.055.01 दिवश्चिदस्य वरिमा वि पप्रथ इन्द्रं न मह्ना पृथिवी चन प्रति ।
1.055.01 भीमस्तुविष्माञ्चर्षणिभ्य आतपः शिशीते वज्रं तेजसे न वंसगः ॥
1.055.02 सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः ।
1.055.02 इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥
1.055.03 त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य धर्मणामिरज्यसि ।
1.055.03 प्र वीर्येण देवताति चेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥
1.055.04 स इद्वने नमस्युभिर्वचस्यते चारु जनेषु प्रब्रुवाण इन्द्रियम् ।
1.055.04 वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥
1.055.05 स इन्महानि समिथानि मज्मना कृणोति युध्म ओजसा जनेभ्यः ।
1.055.05 अधा चन श्रद्दधति त्विषीमत इन्द्राय वज्रं निघनिघ्नते वधम् ॥
1.055.06 स हि श्रवस्युः सदनानि कृत्रिमा क्ष्मया वृधान ओजसा विनाशयन् ।
1.055.06 ज्योतींषि कृण्वन्नवृकाणि यज्यवेऽव सुक्रतुः सर्तवा अपः सृजत् ॥
1.055.07 दानाय मनः सोमपावन्नस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि ।
1.055.07 यमिष्ठासः सारथयो य इन्द्र ते न त्वा केता आ दभ्नुवन्ति भूर्णयः ॥
1.055.08 अप्रक्षितं वसु बिभर्षि हस्तयोरषाळ्हं सहस्तन्वि श्रुतो दधे ।
1.055.08 आवृतासोऽवतासो न कर्तृभिस्तनूषु ते क्रतव इन्द्र भूरयः ॥

1.056.01 एष प्र पूर्वीरव तस्य चम्रिषोऽत्यो न योषामुदयंस्त भुर्वणिः ।
1.056.01 दक्षं महे पाययते हिरण्ययं रथमावृत्या हरियोगमृभ्वसम् ॥
1.056.02 तं गूर्तयो नेमन्निषः परीणसः समुद्रं न संचरणे सनिष्यवः ।
1.056.02 पतिं दक्षस्य विदथस्य नू सहो गिरिं न वेना अधि रोह तेजसा ॥
1.056.03 स तुर्वणिर्महां अरेणु पौंस्ये गिरेर्भृष्टिर्न भ्राजते तुजा शवः ।
1.056.03 येन शुष्णं मायिनमायसो मदे दुध्र आभूषु रामयन्नि दामनि ॥
1.056.04 देवी यदि तविषी त्वावृधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
1.056.04 यो धृष्णुना शवसा बाधते तम इयर्ति रेणुं बृहदर्हरिष्वणिः ॥
1.056.05 वि यत्तिरो धरुणमच्युतं रजोऽतिष्ठिपो दिव आतासु बर्हणा ।
1.056.05 स्वर्मीळ्हे यन्मद इन्द्र हर्ष्याहन्वृत्रं निरपामौब्जो अर्णवम् ॥
1.056.06 त्वं दिवो धरुणं धिष ओजसा पृथिव्या इन्द्र सदनेषु माहिनः ।
1.056.06 त्वं सुतस्य मदे अरिणा अपो वि वृत्रस्य समया पाष्यारुजः ॥

1.057.01 प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भरे ।
1.057.01 अपामिव प्रवणे यस्य दुर्धरं राधो विश्वायु शवसे अपावृतम् ॥
1.057.02 अध ते विश्वमनु हासदिष्टय आपो निम्नेव सवना हविष्मतः ।
1.057.02 यत्पर्वते न समशीत हर्यत इन्द्रस्य वज्रः श्नथिता हिरण्ययः ॥
1.057.03 अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे ।
1.057.03 यस्य धाम श्रवसे नामेन्द्रियं ज्योतिरकारि हरितो नायसे ॥
1.057.04 इमे त इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो ।
1.057.04 नहि त्वदन्यो गिर्वणो गिरः सघत्क्षोणीरिव प्रति नो हर्य तद्वचः ॥
1.057.05 भूरि त इन्द्र वीर्यं तव स्मस्यस्य स्तोतुर्मघवन्काममा पृण ।
1.057.05 अनु ते द्यौर्बृहती वीर्यं मम इयं च ते पृथिवी नेम ओजसे ॥
1.057.06 त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ ।
1.057.06 अवासृजो निवृताः सर्तवा अपः सत्रा विश्वं दधिषे केवलं सहः ॥

1.058.01 नू चित्सहोजा अमृतो नि तुन्दते होता यद्दूतो अभवद्विवस्वतः ।
1.058.01 वि साधिष्ठेभिः पथिभी रजो मम आ देवताता हविषा विवासति ॥
1.058.02 आ स्वमद्म युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति ।
1.058.02 अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सानु स्तनयन्नचिक्रदत् ॥
1.058.03 क्राणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळ् अमर्त्यः ।
1.058.03 रथो न विक्ष्वृञ्जसान आयुषु व्यानुषग्वार्या देव ऋण्वति ॥
1.058.04 वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः ।
1.058.04 तृषु यदग्ने वनिनो वृषायसे कृष्णं त एम रुशदूर्मे अजर ॥
1.058.05 तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वां अव वाति वंसगः ।
1.058.05 अभिव्रजन्नक्षितं पाजसा रज स्थातुश्चरथं भयते पतत्रिणः ॥
1.058.06 दधुष्ट्वा भृगवो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः ।
1.058.06 होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥
1.058.07 होतारं सप्त जुह्वो यजिष्ठं यं वाघतो वृणते अध्वरेषु ।
1.058.07 अग्निं विश्वेषामरतिं वसूनां सपर्यामि प्रयसा यामि रत्नम् ॥
1.058.08 अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ ।
1.058.08 अग्ने गृणन्तमंहस उरुष्योर्जो नपात्पूर्भिरायसीभिः ॥
1.058.09 भवा वरूथं गृणते विभावो भवा मघवन्मघवद्भ्यः शर्म ।
1.058.09 उरुष्याग्ने अंहसो गृणन्तं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

1.059.01 वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृता मादयन्ते ।
1.059.01 वैश्वानर नाभिरसि क्षितीनां स्थूणेव जनां उपमिद्ययन्थ ॥
1.059.02 मूर्धा दिवो नाभिरग्निः पृथिव्या अथाभवदरती रोदस्योः ।
1.059.02 तं त्वा देवासोऽजनयन्त देवं वैश्वानर ज्योतिरिदार्याय ॥
1.059.03 आ सूर्ये न रश्मयो ध्रुवासो वैश्वानरे दधिरेऽग्ना वसूनि ।
1.059.03 या पर्वतेष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥
1.059.04 बृहती इव सूनवे रोदसी गिरो होता मनुष्यो न दक्षः ।
1.059.04 स्वर्वते सत्यशुष्माय पूर्वीर्वैश्वानराय नृतमाय यह्वीः ॥
1.059.05 दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् ।
1.059.05 राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्चकर्थ ॥
1.059.06 प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते ।
1.059.06 वैश्वानरो दस्युमग्निर्जघन्वां अधूनोत्काष्ठा अव शम्बरं भेत् ॥
1.059.07 वैश्वानरो महिम्ना विश्वकृष्टिर्भरद्वाजेषु यजतो विभावा ।
1.059.07 शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥

1.060.01 वह्निं यशसं विदथस्य केतुं सुप्राव्यं दूतं सद्योअर्थम् ।
1.060.01 द्विजन्मानं रयिमिव प्रशस्तं रातिं भरद्भृगवे मातरिश्वा ॥
1.060.02 अस्य शासुरुभयासः सचन्ते हविष्मन्त उशिजो ये च मर्ताः ।
1.060.02 दिवश्चित्पूर्वो न्यसादि होतापृच्छ्यो विश्पतिर्विक्षु वेधाः ॥
1.060.03 तं नव्यसी हृद आ जायमानमस्मत्सुकीर्तिर्मधुजिह्वमश्याः ।
1.060.03 यमृत्विजो वृजने मानुषासः प्रयस्वन्त आयवो जीजनन्त ॥
1.060.04 उशिक्पावको वसुर्मानुषेषु वरेण्यो होताधायि विक्षु ।
1.060.04 दमूना गृहपतिर्दम आं अग्निर्भुवद्रयिपती रयीणाम् ॥
1.060.05 तं त्वा वयं पतिमग्ने रयीणां प्र शंसामो मतिभिर्गोतमासः ।
1.060.05 आशुं न वाजम्भरं मर्जयन्तः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

1.061.01 अस्मा इदु प्र तवसे तुराय प्रयो न हर्मि स्तोमं माहिनाय ।
1.061.01 ऋचीषमायाध्रिगव ओहमिन्द्राय ब्रह्माणि राततमा ॥
1.061.02 अस्मा इदु प्रय इव प्र यंसि भराम्याङ्गूषं बाधे सुवृक्ति ।
1.061.02 इन्द्राय हृदा मनसा मनीषा प्रत्नाय पत्ये धियो मर्जयन्त ॥
1.061.03 अस्मा इदु त्यमुपमं स्वर्षां भराम्याङ्गूषमास्येन ।
1.061.03 मंहिष्ठमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरिं वावृधध्यै ॥
1.061.04 अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय ।
1.061.04 गिरश्च गिर्वाहसे सुवृक्तीन्द्राय विश्वमिन्वं मेधिराय ॥
1.061.05 अस्मा इदु सप्तिमिव श्रवस्येन्द्रायार्कं जुह्वा समञ्जे ।
1.061.05 वीरं दानौकसं वन्दध्यै पुरां गूर्तश्रवसं दर्माणम् ॥
1.061.06 अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय ।
1.061.06 वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥
1.061.07 अस्येदु मातुः सवनेषु सद्यो महः पितुं पपिवाञ्चार्वन्ना ।
1.061.07 मुषायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥
1.061.08 अस्मा इदु ग्नाश्चिद्देवपत्नीरिन्द्रायार्कमहिहत्य ऊवुः ।
1.061.08 परि द्यावापृथिवी जभ्र उर्वी नास्य ते महिमानं परि ष्टः ॥
1.061.09 अस्येदेव प्र रिरिचे महित्वं दिवस्पृथिव्याः पर्यन्तरिक्षात् ।
1.061.09 स्वराळ् इन्द्रो दम आ विश्वगूर्तः स्वरिरमत्रो ववक्षे रणाय ॥
1.061.10 अस्येदेव शवसा शुषन्तं वि वृश्चद्वज्रेण वृत्रमिन्द्रः ।
1.061.10 गा न व्राणा अवनीरमुञ्चदभि श्रवो दावने सचेताः ॥
1.061.11 अस्येदु त्वेषसा रन्त सिन्धवः परि यद्वज्रेण सीमयच्छत् ।
1.061.11 ईशानकृद्दाशुषे दशस्यन्तुर्वीतये गाधं तुर्वणिः कः ॥
1.061.12 अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियेधाः ।
1.061.12 गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्यपां चरध्यै ॥
1.061.13 अस्येदु प्र ब्रूहि पूर्व्याणि तुरस्य कर्माणि नव्य उक्थैः ।
1.061.13 युधे यदिष्णान आयुधान्यृघायमाणो निरिणाति शत्रून् ॥
1.061.14 अस्येदु भिया गिरयश्च दृळ्हा द्यावा च भूमा जनुषस्तुजेते ।
1.061.14 उपो वेनस्य जोगुवान ओणिं सद्यो भुवद्वीर्याय नोधाः ॥
1.061.15 अस्मा इदु त्यदनु दाय्येषामेको यद्वव्ने भूरेरीशानः ।
1.061.15 प्रैतशं सूर्ये पस्पृधानं सौवश्व्ये सुष्विमावदिन्द्रः ॥
1.061.16 एवा ते हारियोजना सुवृक्तीन्द्र ब्रह्माणि गोतमासो अक्रन् ।
1.061.16 ऐषु विश्वपेशसं धियं धाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

1.062.01 प्र मन्महे शवसानाय शूषमाङ्गूषं गिर्वणसे अङ्गिरस्वत् ।
1.062.01 सुवृक्तिभि स्तुवत ऋग्मियायार्चामार्कं नरे विश्रुताय ॥
1.062.02 प्र वो महे महि नमो भरध्वमाङ्गूष्यं शवसानाय साम ।
1.062.02 येना नः पूर्वे पितरः पदज्ञा अर्चन्तो अङ्गिरसो गा अविन्दन् ॥
1.062.03 इन्द्रस्याङ्गिरसां चेष्टौ विदत्सरमा तनयाय धासिम् ।
1.062.03 बृहस्पतिर्भिनदद्रिं विदद्गाः समुस्रियाभिर्वावशन्त नरः ॥
1.062.04 स सुष्टुभा स स्तुभा सप्त विप्रैः स्वरेणाद्रिं स्वर्यो नवग्वैः ।
1.062.04 सरण्युभिः फलिगमिन्द्र शक्र वलं रवेण दरयो दशग्वैः ॥
1.062.05 गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः ।
1.062.05 वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥
1.062.06 तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः ।
1.062.06 उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्यश्चतस्रः ॥
1.062.07 द्विता वि वव्रे सनजा सनीळे अयास्य स्तवमानेभिरर्कैः ।
1.062.07 भगो न मेने परमे व्योमन्नधारयद्रोदसी सुदंसाः ॥
1.062.08 सनाद्दिवं परि भूमा विरूपे पुनर्भुवा युवती स्वेभिरेवैः ।
1.062.08 कृष्णेभिरक्तोषा रुशद्भिर्वपुर्भिरा चरतो अन्यान्या ॥
1.062.09 सनेमि सख्यं स्वपस्यमानः सूनुर्दाधार शवसा सुदंसाः ।
1.062.09 आमासु चिद्दधिषे पक्वमन्तः पयः कृष्णासु रुशद्रोहिणीषु ॥
1.062.10 सनात्सनीळा अवनीरवाता व्रता रक्षन्ते अमृताः सहोभिः ।
1.062.10 पुरू सहस्रा जनयो न पत्नीर्दुवस्यन्ति स्वसारो अह्रयाणम् ॥
1.062.11 सनायुवो नमसा नव्यो अर्कैर्वसूयवो मतयो दस्म दद्रुः ।
1.062.11 पतिं न पत्नीरुशतीरुशन्तं स्पृशन्ति त्वा शवसावन्मनीषाः ॥
1.062.12 सनादेव तव रायो गभस्तौ न क्षीयन्ते नोप दस्यन्ति दस्म ।
1.062.12 द्युमां असि क्रतुमां इन्द्र धीरः शिक्षा शचीवस्तव नः शचीभिः ॥
1.062.13 सनायते गोतम इन्द्र नव्यमतक्षद्ब्रह्म हरियोजनाय ।
1.062.13 सुनीथाय नः शवसान नोधाः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

1.063.01 त्वं महां इन्द्र यो ह शुष्मैर्द्यावा जज्ञानः पृथिवी अमे धाः ।
1.063.01 यद्ध ते विश्वा गिरयश्चिदभ्वा भिया दृळ्हासः किरणा नैजन् ॥
1.063.02 आ यद्धरी इन्द्र विव्रता वेरा ते वज्रं जरिता बाह्वोर्धात् ।
1.063.02 येनाविहर्यतक्रतो अमित्रान्पुर इष्णासि पुरुहूत पूर्वीः ॥
1.063.03 त्वं सत्य इन्द्र धृष्णुरेतान्त्वमृभुक्षा नर्यस्त्वं षाट् ।
1.063.03 त्वं शुष्णं वृजने पृक्ष आणौ यूने कुत्साय द्युमते सचाहन् ॥
1.063.04 त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्वज्रिन्वृषकर्मन्नुभ्नाः ।
1.063.04 यद्ध शूर वृषमणः पराचैर्वि दस्यूंर्योनावकृतो वृथाषाट् ॥
1.063.05 त्वं ह त्यदिन्द्रारिषण्यन्दृळ्हस्य चिन्मर्तानामजुष्टौ ।
1.063.05 व्यस्मदा काष्ठा अर्वते वर्घनेव वज्रिञ्छ्नथिह्यमित्रान् ॥
1.063.06 त्वां ह त्यदिन्द्रार्णसातौ स्वर्मीळ्हे नर आजा हवन्ते ।
1.063.06 तव स्वधाव इयमा समर्य ऊतिर्वाजेष्वतसाय्या भूत् ॥
1.063.07 त्वं ह त्यदिन्द्र सप्त युध्यन्पुरो वज्रिन्पुरुकुत्साय दर्दः ।
1.063.07 बर्हिर्न यत्सुदासे वृथा वर्गंहो राजन्वरिवः पूरवे कः ॥
1.063.08 त्वं त्यां न इन्द्र देव चित्रामिषमापो न पीपयः परिज्मन् ।
1.063.08 यया शूर प्रत्यस्मभ्यं यंसि त्मनमूर्जं न विश्वध क्षरध्यै ॥
1.063.09 अकारि त इन्द्र गोतमेभिर्ब्रह्माण्योक्ता नमसा हरिभ्याम् ।
1.063.09 सुपेशसं वाजमा भरा नः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

1.064.01 वृष्णे शर्धाय सुमखाय वेधसे नोधः सुवृक्तिं प्र भरा मरुद्भ्यः ।
1.064.01 अपो न धीरो मनसा सुहस्त्यो गिरः समञ्जे विदथेष्वाभुवः ॥
1.064.02 ते जज्ञिरे दिव ऋष्वास उक्षणो रुद्रस्य मर्या असुरा अरेपसः ।
1.064.02 पावकासः शुचयः सूर्या इव सत्वानो न द्रप्सिनो घोरवर्पसः ॥
1.064.03 युवानो रुद्रा अजरा अभोग्घनो ववक्षुरध्रिगावः पर्वता इव ।
1.064.03 दृळ्हा चिद्विश्वा भुवनानि पार्थिवा प्र च्यावयन्ति दिव्यानि मज्मना ॥
1.064.04 चित्रैरञ्जिभिर्वपुषे व्यञ्जते वक्षस्सु रुक्मां अधि येतिरे शुभे ।
1.064.04 अंसेष्वेषां नि मिमृक्षुरृष्टयः साकं जज्ञिरे स्वधया दिवो नरः ॥
1.064.05 ईशानकृतो धुनयो रिशादसो वातान्विद्युतस्तविषीभिरक्रत ।
1.064.05 दुहन्त्यूधर्दिव्यानि धूतयो भूमिं पिन्वन्ति पयसा परिज्रयः ॥
1.064.06 पिन्वन्त्यपो मरुतः सुदानवः पयो घृतवद्विदथेष्वाभुवः ।
1.064.06 अत्यं न मिहे वि नयन्ति वाजिनमुत्सं दुहन्ति स्तनयन्तमक्षितम् ॥
1.064.07 महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
1.064.07 मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥
1.064.08 सिंहा इव नानदति प्रचेतसः पिशा इव सुपिशो विश्ववेदसः ।
1.064.08 क्षपो जिन्वन्तः पृषतीभिरृष्टिभिः समित्सबाधः शवसाहिमन्यवः ॥
1.064.09 रोदसी आ वदता गणश्रियो नृषाचः शूराः शवसाहिमन्यवः ।
1.064.09 आ वन्धुरेष्वमतिर्न दर्शता विद्युन्न तस्थौ मरुतो रथेषु वः ॥
1.064.10 विश्ववेदसो रयिभिः समोकसः सम्मिश्लासस्तविषीभिर्विरप्शिनः ।
1.064.10 अस्तार इषुं दधिरे गभस्त्योरनन्तशुष्मा वृषखादयो नरः ॥
1.064.11 हिरण्ययेभिः पविभिः पयोवृध उज्जिघ्नन्त आपथ्यो न पर्वतान् ।
1.064.11 मखा अयासः स्वसृतो ध्रुवच्युतो दुध्रकृतो मरुतो भ्राजदृष्टयः ॥
1.064.12 घृषुं पावकं वनिनं विचर्षणिं रुद्रस्य सूनुं हवसा गृणीमसि ।
1.064.12 रजस्तुरं तवसं मारुतं गणमृजीषिणं वृषणं सश्चत श्रिये ॥
1.064.13 प्र नू स मर्तः शवसा जनां अति तस्थौ व ऊती मरुतो यमावत ।
1.064.13 अर्वद्भिर्वाजं भरते धना नृभिरापृच्छ्यं क्रतुमा क्षेति पुष्यति ॥
1.064.14 चर्कृत्यं मरुतः पृत्सु दुष्टरं द्युमन्तं शुष्मं मघवत्सु धत्तन ।
1.064.14 धनस्पृतमुक्थ्यं विश्वचर्षणिं तोकं पुष्येम तनयं शतं हिमाः ॥
1.064.15 नू ष्ठिरं मरुतो वीरवन्तमृतीषाहं रयिमस्मासु धत्त ।
1.064.15 सहस्रिणं शतिनं शूशुवांसं प्रातर्मक्षू धियावसुर्जगम्यात् ॥

1.065.01 पश्वा न तायुं गुहा चतन्तं नमो युजानं नमो वहन्तम् ॥
1.065.02 सजोषा धीराः पदैरनु ग्मन्नुप त्वा सीदन्विश्वे यजत्राः ॥
1.065.03 ऋतस्य देवा अनु व्रता गुर्भुवत्परिष्टिर्द्यौर्न भूम ॥
1.065.04 वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥
1.065.05 पुष्टिर्न रण्वा क्षितिर्न पृथ्वी गिरिर्न भुज्म क्षोदो न शम्भु ॥
1.065.06 अत्यो नाज्मन्सर्गप्रतक्तः सिन्धुर्न क्षोदः क ईं वराते ॥
1.065.07 जामिः सिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वनान्यत्ति ॥
1.065.08 यद्वातजूतो वना व्यस्थादग्निर्ह दाति रोमा पृथिव्याः ॥
1.065.09 श्वसित्यप्सु हंसो न सीदन्क्रत्वा चेतिष्ठो विशामुषर्भुत् ॥
1.065.10 सोमो न वेधा ऋतप्रजातः पशुर्न शिश्वा विभुर्दूरेभाः ॥

1.066.01 रयिर्न चित्रा सूरो न संदृगायुर्न प्राणो नित्यो न सूनुः ॥
1.066.02 तक्वा न भूर्णिर्वना सिषक्ति पयो न धेनुः शुचिर्विभावा ॥
1.066.03 दाधार क्षेममोको न रण्वो यवो न पक्वो जेता जनानाम् ॥
1.066.04 ऋषिर्न स्तुभ्वा विक्षु प्रशस्तो वाजी न प्रीतो वयो दधाति ॥
1.066.05 दुरोकशोचिः क्रतुर्न नित्यो जायेव योनावरं विश्वस्मै ॥
1.066.06 चित्रो यदभ्राट्छ्वेतो न विक्षु रथो न रुक्मी त्वेषः समत्सु ॥
1.066.07 सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥
1.066.08 यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥
1.066.09 तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥
1.066.10 सिन्धुर्न क्षोदः प्र नीचीरैनोन्नवन्त गावः स्वर्दृशीके ॥

1.067.01 वनेषु जायुर्मर्तेषु मित्रो वृणीते श्रुष्टिं राजेवाजुर्यम् ॥
1.067.02 क्षेमो न साधुः क्रतुर्न भद्रो भुवत्स्वाधीर्होता हव्यवाट् ॥
1.067.03 हस्ते दधानो नृम्णा विश्वान्यमे देवान्धाद्गुहा निषीदन् ॥
1.067.04 विदन्तीमत्र नरो धियन्धा हृदा यत्तष्टान्मन्त्रां अशंसन् ॥
1.067.05 अजो न क्षां दाधार पृथिवीं तस्तम्भ द्यां मन्त्रेभिः सत्यैः ॥
1.067.06 प्रिया पदानि पश्वो नि पाहि विश्वायुरग्ने गुहा गुहं गाः ॥
1.067.07 य ईं चिकेत गुहा भवन्तमा यः ससाद धारामृतस्य ॥
1.067.08 वि ये चृतन्त्यृता सपन्त आदिद्वसूनि प्र ववाचास्मै ॥
1.067.09 वि यो वीरुत्सु रोधन्महित्वोत प्रजा उत प्रसूष्वन्तः ॥
1.067.10 चित्तिरपां दमे विश्वायुः सद्मेव धीराः सम्माय चक्रुः ॥

1.068.01 श्रीणन्नुप स्थाद्दिवं भुरण्यु स्थातुश्चरथमक्तून्व्यूर्णोत् ॥
1.068.02 परि यदेषामेको विश्वेषां भुवद्देवो देवानां महित्वा ॥
1.068.03 आदित्ते विश्वे क्रतुं जुषन्त शुष्काद्यद्देव जीवो जनिष्ठाः ॥
1.068.04 भजन्त विश्वे देवत्वं नाम ऋतं सपन्तो अमृतमेवैः ॥
1.068.05 ऋतस्य प्रेषा ऋतस्य धीतिर्विश्वायुर्विश्वे अपांसि चक्रुः ॥
1.068.06 यस्तुभ्यं दाशाद्यो वा ते शिक्षात्तस्मै चिकित्वान्रयिं दयस्व ॥
1.068.07 होता निषत्तो मनोरपत्ये स चिन्न्वासां पती रयीणाम् ॥
1.068.08 इच्छन्त रेतो मिथस्तनूषु सं जानत स्वैर्दक्षैरमूराः ॥
1.068.09 पितुर्न पुत्राः क्रतुं जुषन्त श्रोषन्ये अस्य शासं तुरासः ॥
1.068.10 वि राय और्णोद्दुरः पुरुक्षुः पिपेश नाकं स्तृभिर्दमूनाः ॥

1.069.01 शुक्रः शुशुक्वां उषो न जारः पप्रा समीची दिवो न ज्योतिः ॥
1.069.02 परि प्रजातः क्रत्वा बभूथ भुवो देवानां पिता पुत्रः सन् ॥
1.069.03 वेधा अदृप्तो अग्निर्विजानन्नूधर्न गोनां स्वाद्मा पितूनाम् ॥
1.069.04 जने न शेव आहूर्यः सन्मध्ये निषत्तो रण्वो दुरोणे ॥
1.069.05 पुत्रो न जातो रण्वो दुरोणे वाजी न प्रीतो विशो वि तारीत् ॥
1.069.06 विशो यदह्वे नृभिः सनीळा अग्निर्देवत्वा विश्वान्यश्याः ॥
1.069.07 नकिष्ट एता व्रता मिनन्ति नृभ्यो यदेभ्यः श्रुष्टिं चकर्थ ॥
1.069.08 तत्तु ते दंसो यदहन्समानैर्नृभिर्यद्युक्तो विवे रपांसि ॥
1.069.09 उषो न जारो विभावोस्रः संज्ञातरूपश्चिकेतदस्मै ॥
1.069.10 त्मना वहन्तो दुरो व्यृण्वन्नवन्त विश्वे स्वर्दृशीके ॥

1.070.01 वनेम पूर्वीरर्यो मनीषा अग्निः सुशोको विश्वान्यश्याः ॥
1.070.02 आ दैव्यानि व्रता चिकित्वाना मानुषस्य जनस्य जन्म ॥
1.070.03 गर्भो यो अपां गर्भो वनानां गर्भश्च स्थातां गर्भश्चरथाम् ॥
1.070.04 अद्रौ चिदस्मा अन्तर्दुरोणे विशां न विश्वो अमृतः स्वाधीः ॥
1.070.05 स हि क्षपावां अग्नी रयीणां दाशद्यो अस्मा अरं सूक्तैः ॥
1.070.06 एता चिकित्वो भूमा नि पाहि देवानां जन्म मर्तांश्च विद्वान् ॥
1.070.07 वर्धान्यं पूर्वीः क्षपो विरूपा स्थातुश्च रथमृतप्रवीतम् ॥
1.070.08 अराधि होता स्वर्निषत्तः कृण्वन्विश्वान्यपांसि सत्या ॥
1.070.09 गोषु प्रशस्तिं वनेषु धिषे भरन्त विश्वे बलिं स्वर्णः ॥
1.070.10 वि त्वा नरः पुरुत्रा सपर्यन्पितुर्न जिव्रेर्वि वेदो भरन्त ॥
1.070.11 साधुर्न गृध्नुरस्तेव शूरो यातेव भीमस्त्वेषः समत्सु ॥

1.071.01 उप प्र जिन्वन्नुशतीरुशन्तं पतिं न नित्यं जनयः सनीळाः ।
1.071.01 स्वसारः श्यावीमरुषीमजुष्रञ्चित्रमुच्छन्तीमुषसं न गावः ॥
1.071.02 वीळु चिद्दृळ्हा पितरो न उक्थैरद्रिं रुजन्नङ्गिरसो रवेण ।
1.071.02 चक्रुर्दिवो बृहतो गातुमस्मे अहः स्वर्विविदुः केतुमुस्राः ॥
1.071.03 दधन्नृतं धनयन्नस्य धीतिमादिदर्यो दिधिष्वो विभृत्राः ।
1.071.03 अतृष्यन्तीरपसो यन्त्यच्छा देवाञ्जन्म प्रयसा वर्धयन्तीः ॥
1.071.04 मथीद्यदीं विभृतो मातरिश्वा गृहेगृहे श्येतो जेन्यो भूत् ।
1.071.04 आदीं राज्ञे न सहीयसे सचा सन्ना दूत्यं भृगवाणो विवाय ॥
1.071.05 महे यत्पित्र ईं रसं दिवे करव त्सरत्पृशन्यश्चिकित्वान् ।
1.071.05 सृजदस्ता धृषता दिद्युमस्मै स्वायां देवो दुहितरि त्विषिं धात् ॥
1.071.06 स्व आ यस्तुभ्यं दम आ विभाति नमो वा दाशादुशतो अनु द्यून् ।
1.071.06 वर्धो अग्ने वयो अस्य द्विबर्हा यासद्राया सरथं यं जुनासि ॥
1.071.07 अग्निं विश्वा अभि पृक्षः सचन्ते समुद्रं न स्रवतः सप्त यह्वीः ।
1.071.07 न जामिभिर्वि चिकिते वयो नो विदा देवेषु प्रमतिं चिकित्वान् ॥
1.071.08 आ यदिषे नृपतिं तेज आनट्छुचि रेतो निषिक्तं द्यौरभीके ।
1.071.08 अग्निः शर्धमनवद्यं युवानं स्वाध्यं जनयत्सूदयच्च ॥
1.071.09 मनो न योऽध्वनः सद्य एत्येकः सत्रा सूरो वस्व ईशे ।
1.071.09 राजाना मित्रावरुणा सुपाणी गोषु प्रियममृतं रक्षमाणा ॥
1.071.10 मा नो अग्ने सख्या पित्र्याणि प्र मर्षिष्ठा अभि विदुष्कविः सन् ।
1.071.10 नभो न रूपं जरिमा मिनाति पुरा तस्या अभिशस्तेरधीहि ॥

1.072.01 नि काव्या वेधसः शश्वतस्कर्हस्ते दधानो नर्या पुरूणि ।
1.072.01 अग्निर्भुवद्रयिपती रयीणां सत्रा चक्राणो अमृतानि विश्वा ॥
1.072.02 अस्मे वत्सं परि षन्तं न विन्दन्निच्छन्तो विश्वे अमृता अमूराः ।
1.072.02 श्रमयुवः पदव्यो धियन्धास्तस्थुः पदे परमे चार्वग्नेः ॥
1.072.03 तिस्रो यदग्ने शरदस्त्वामिच्छुचिं घृतेन शुचयः सपर्यान् ।
1.072.03 नामानि चिद्दधिरे यज्ञियान्यसूदयन्त तन्वः सुजाताः ॥
1.072.04 आ रोदसी बृहती वेविदानाः प्र रुद्रिया जभ्रिरे यज्ञियासः ।
1.072.04 विदन्मर्तो नेमधिता चिकित्वानग्निं पदे परमे तस्थिवांसम् ॥
1.072.05 संजानाना उप सीदन्नभिज्ञु पत्नीवन्तो नमस्यं नमस्यन् ।
1.072.05 रिरिक्वांसस्तन्वः कृण्वत स्वाः सखा सख्युर्निमिषि रक्षमाणाः ॥
1.072.06 त्रिः सप्त यद्गुह्यानि त्वे इत्पदाविदन्निहिता यज्ञियासः ।
1.072.06 तेभी रक्षन्ते अमृतं सजोषाः पशूञ्च स्थातॄञ्चरथं च पाहि ॥
1.072.07 विद्वां अग्ने वयुनानि क्षितीनां व्यानुषक्छुरुधो जीवसे धाः ।
1.072.07 अन्तर्विद्वां अध्वनो देवयानानतन्द्रो दूतो अभवो हविर्वाट् ॥
1.072.08 स्वाध्यो दिव आ सप्त यह्वी रायो दुरो व्यृतज्ञा अजानन् ।
1.072.08 विदद्गव्यं सरमा दृळ्हमूर्वं येना नु कं मानुषी भोजते विट् ॥
1.072.09 आ ये विश्वा स्वपत्यानि तस्थुः कृण्वानासो अमृतत्वाय गातुम् ।
1.072.09 मह्ना महद्भिः पृथिवी वि तस्थे माता पुत्रैरदितिर्धायसे वेः ॥
1.072.10 अधि श्रियं नि दधुश्चारुमस्मिन्दिवो यदक्षी अमृता अकृण्वन् ।
1.072.10 अध क्षरन्ति सिन्धवो न सृष्टाः प्र नीचीरग्ने अरुषीरजानन् ॥

1.073.01 रयिर्न यः पितृवित्तो वयोधाः सुप्रणीतिश्चिकितुषो न शासुः ।
1.073.01 स्योनशीरतिथिर्न प्रीणानो होतेव सद्म विधतो वि तारीत् ॥
1.073.02 देवो न यः सविता सत्यमन्मा क्रत्वा निपाति वृजनानि विश्वा ।
1.073.02 पुरुप्रशस्तो अमतिर्न सत्य आत्मेव शेवो दिधिषाय्यो भूत् ॥
1.073.03 देवो न यः पृथिवीं विश्वधाया उपक्षेति हितमित्रो न राजा ।
1.073.03 पुरःसदः शर्मसदो न वीरा अनवद्या पतिजुष्टेव नारी ॥
1.073.04 तं त्वा नरो दम आ नित्यमिद्धमग्ने सचन्त क्षितिषु ध्रुवासु ।
1.073.04 अधि द्युम्नं नि दधुर्भूर्यस्मिन्भवा विश्वायुर्धरुणो रयीणाम् ॥
1.073.05 वि पृक्षो अग्ने मघवानो अश्युर्वि सूरयो ददतो विश्वमायुः ।
1.073.05 सनेम वाजं समिथेष्वर्यो भागं देवेषु श्रवसे दधानाः ॥
1.073.06 ऋतस्य हि धेनवो वावशानाः स्मदूध्नीः पीपयन्त द्युभक्ताः ।
1.073.06 परावतः सुमतिं भिक्षमाणा वि सिन्धवः समया सस्रुरद्रिम् ॥
1.073.07 त्वे अग्ने सुमतिं भिक्षमाणा दिवि श्रवो दधिरे यज्ञियासः ।
1.073.07 नक्ता च चक्रुरुषसा विरूपे कृष्णं च वर्णमरुणं च सं धुः ॥
1.073.08 यान्राये मर्तान्सुषूदो अग्ने ते स्याम मघवानो वयं च ।
1.073.08 छायेव विश्वं भुवनं सिसक्ष्यापप्रिवान्रोदसी अन्तरिक्षम् ॥
1.073.09 अर्वद्भिरग्ने अर्वतो नृभिर्नॄन्वीरैर्वीरान्वनुयामा त्वोताः ।
1.073.09 ईशानासः पितृवित्तस्य रायो वि सूरयः शतहिमा नो अश्युः ॥
1.073.10 एता ते अग्न उचथानि वेधो जुष्टानि सन्तु मनसे हृदे च ।
1.073.10 शकेम रायः सुधुरो यमं तेऽधि श्रवो देवभक्तं दधानाः ॥

1.074.01 उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।
1.074.01 आरे अस्मे च शृण्वते ॥
1.074.02 यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।
1.074.02 अरक्षद्दाशुषे गयम् ॥
1.074.03 उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।
1.074.03 धनञ्जयो रणेरणे ॥
1.074.04 यस्य दूतो असि क्षये वेषि हव्यानि वीतये ।
1.074.04 दस्मत्कृणोष्यध्वरम् ॥
1.074.05 तमित्सुहव्यमङ्गिरः सुदेवं सहसो यहो ।
1.074.05 जना आहुः सुबर्हिषम् ॥
1.074.06 आ च वहासि तां इह देवां उप प्रशस्तये ।
1.074.06 हव्या सुश्चन्द्र वीतये ॥
1.074.07 न योरुपब्दिरश्व्यः शृण्वे रथस्य कच्चन ।
1.074.07 यदग्ने यासि दूत्यम् ॥
1.074.08 त्वोतो वाज्यह्रयोऽभि पूर्वस्मादपरः ।
1.074.08 प्र दाश्वां अग्ने अस्थात् ॥
1.074.09 उत द्युमत्सुवीर्यं बृहदग्ने विवाससि ।
1.074.09 देवेभ्यो देव दाशुषे ॥

1.075.01 जुषस्व सप्रथस्तमं वचो देवप्सरस्तमम् ।
1.075.01 हव्या जुह्वान आसनि ॥
1.075.02 अथा ते अङ्गिरस्तमाग्ने वेधस्तम प्रियम् ।
1.075.02 वोचेम ब्रह्म सानसि ॥
1.075.03 कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।
1.075.03 को ह कस्मिन्नसि श्रितः ॥
1.075.04 त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।
1.075.04 सखा सखिभ्य ईड्यः ॥
1.075.05 यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।
1.075.05 अग्ने यक्षि स्वं दमम् ॥

1.076.01 का त उपेतिर्मनसो वराय भुवदग्ने शन्तमा का मनीषा ।
1.076.01 को वा यज्ञैः परि दक्षं त आप केन वा ते मनसा दाशेम ॥
1.076.02 एह्यग्न इह होता नि षीदादब्धः सु पुरएता भवा नः ।
1.076.02 अवतां त्वा रोदसी विश्वमिन्वे यजा महे सौमनसाय देवान् ॥
1.076.03 प्र सु विश्वान्रक्षसो धक्ष्यग्ने भवा यज्ञानामभिशस्तिपावा ।
1.076.03 अथा वह सोमपतिं हरिभ्यामातिथ्यमस्मै चकृमा सुदाव्ने ॥
1.076.04 प्रजावता वचसा वह्निरासा च हुवे नि च सत्सीह देवैः ।
1.076.04 वेषि होत्रमुत पोत्रं यजत्र बोधि प्रयन्तर्जनितर्वसूनाम् ॥
1.076.05 यथा विप्रस्य मनुषो हविर्भिर्देवां अयजः कविभिः कविः सन् ।
1.076.05 एवा होतः सत्यतर त्वमद्याग्ने मन्द्रया जुह्वा यजस्व ॥

1.077.01 कथा दाशेमाग्नये कास्मै देवजुष्टोच्यते भामिने गीः ।
1.077.01 यो मर्त्येष्वमृत ऋतावा होता यजिष्ठ इत्कृणोति देवान् ॥
1.077.02 यो अध्वरेषु शन्तम ऋतावा होता तमू नमोभिरा कृणुध्वम् ।
1.077.02 अग्निर्यद्वेर्मर्ताय देवान्स चा बोधाति मनसा यजाति ॥
1.077.03 स हि क्रतुः स मर्यः स साधुर्मित्रो न भूदद्भुतस्य रथीः ।
1.077.03 तं मेधेषु प्रथमं देवयन्तीर्विश उप ब्रुवते दस्ममारीः ॥
1.077.04 स नो नृणां नृतमो रिशादा अग्निर्गिरोऽवसा वेतु धीतिम् ।
1.077.04 तना च ये मघवानः शविष्ठा वाजप्रसूता इषयन्त मन्म ॥
1.077.05 एवाग्निर्गोतमेभिरृतावा विप्रेभिरस्तोष्ट जातवेदाः ।
1.077.05 स एषु द्युम्नं पीपयत्स वाजं स पुष्टिं याति जोषमा चिकित्वान् ॥

1.078.01 अभि त्वा गोतमा गिरा जातवेदो विचर्षणे ।
1.078.01 द्युम्नैरभि प्र णोनुमः ॥
1.078.02 तमु त्वा गोतमो गिरा रायस्कामो दुवस्यति ।
1.078.02 द्युम्नैरभि प्र णोनुमः ॥
1.078.03 तमु त्वा वाजसातममङ्गिरस्वद्धवामहे ।
1.078.03 द्युम्नैरभि प्र णोनुमः ॥
1.078.04 तमु त्वा वृत्रहन्तमं यो दस्यूंरवधूनुषे ।
1.078.04 द्युम्नैरभि प्र णोनुमः ॥
1.078.05 अवोचाम रहूगणा अग्नये मधुमद्वचः ।
1.078.05 द्युम्नैरभि प्र णोनुमः ॥

1.079.01 हिरण्यकेशो रजसो विसारेऽहिर्धुनिर्वात इव ध्रजीमान् ।
1.079.01 शुचिभ्राजा उषसो नवेदा यशस्वतीरपस्युवो न सत्याः ॥
1.079.02 आ ते सुपर्णा अमिनन्तं एवैः कृष्णो नोनाव वृषभो यदीदम् ।
1.079.02 शिवाभिर्न स्मयमानाभिरागात्पतन्ति मिह स्तनयन्त्यभ्रा ॥
1.079.03 यदीमृतस्य पयसा पियानो नयन्नृतस्य पथिभी रजिष्ठैः ।
1.079.03 अर्यमा मित्रो वरुणः परिज्मा त्वचं पृञ्चन्त्युपरस्य योनौ ॥
1.079.04 अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
1.079.04 अस्मे धेहि जातवेदो महि श्रवः ॥
1.079.05 स इधानो वसुष्कविरग्निरीळेन्यो गिरा ।
1.079.05 रेवदस्मभ्यं पुर्वणीक दीदिहि ॥
1.079.06 क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।
1.079.06 स तिग्मजम्भ रक्षसो दह प्रति ॥
1.079.07 अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।
1.079.07 विश्वासु धीषु वन्द्य ॥
1.079.08 आ नो अग्ने रयिं भर सत्रासाहं वरेण्यम् ।
1.079.08 विश्वासु पृत्सु दुष्टरम् ॥
1.079.09 आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसम् ।
1.079.09 मार्डीकं धेहि जीवसे ॥
1.079.10 प्र पूतास्तिग्मशोचिषे वाचो गोतमाग्नये ।
1.079.10 भरस्व सुम्नयुर्गिरः ॥
1.079.11 यो नो अग्नेऽभिदासत्यन्ति दूरे पदीष्ट सः ।
1.079.11 अस्माकमिद्वृधे भव ॥
1.079.12 सहस्राक्षो विचर्षणिरग्नी रक्षांसि सेधति ।
1.079.12 होता गृणीत उक्थ्यः ॥

1.080.01 इत्था हि सोम इन्मदे ब्रह्मा चकार वर्धनम् ।
1.080.01 शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यम् ॥
1.080.02 स त्वामदद्वृषा मदः सोमः श्येनाभृतः सुतः ।
1.080.02 येना वृत्रं निरद्भ्यो जघन्थ वज्रिन्नोजसार्चन्ननु स्वराज्यम् ॥
1.080.03 प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।
1.080.03 इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यम् ॥
1.080.04 निरिन्द्र भूम्या अधि वृत्रं जघन्थ निर्दिवः ।
1.080.04 सृजा मरुत्वतीरव जीवधन्या इमा अपोऽर्चन्ननु स्वराज्यम् ॥
1.080.05 इन्द्रो वृत्रस्य दोधतः सानुं वज्रेण हीळितः ।
1.080.05 अभिक्रम्याव जिघ्नतेऽपः सर्माय चोदयन्नर्चन्ननु स्वराज्यम् ॥
1.080.06 अधि सानौ नि जिघ्नते वज्रेण शतपर्वणा ।
1.080.06 मन्दान इन्द्रो अन्धसः सखिभ्यो गातुमिच्छत्यर्चन्ननु स्वराज्यम् ॥
1.080.07 इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यम् ।
1.080.07 यद्ध त्यं मायिनं मृगं तमु त्वं माययावधीरर्चन्ननु स्वराज्यम् ॥
1.080.08 वि ते वज्रासो अस्थिरन्नवतिं नाव्या अनु ।
1.080.08 महत्त इन्द्र वीर्यं बाह्वोस्ते बलं हितमर्चन्ननु स्वराज्यम् ॥
1.080.09 सहस्रं साकमर्चत परि ष्टोभत विंशतिः ।
1.080.09 शतैनमन्वनोनवुरिन्द्राय ब्रह्मोद्यतमर्चन्ननु स्वराज्यम् ॥
1.080.10 इन्द्रो वृत्रस्य तविषीं निरहन्सहसा सहः ।
1.080.10 महत्तदस्य पौंस्यं वृत्रं जघन्वां असृजदर्चन्ननु स्वराज्यम् ॥
1.080.11 इमे चित्तव मन्यवे वेपेते भियसा मही ।
1.080.11 यदिन्द्र वज्रिन्नोजसा वृत्रं मरुत्वां अवधीरर्चन्ननु स्वराज्यम् ॥
1.080.12 न वेपसा न तन्यतेन्द्रं वृत्रो वि बीभयत् ।
1.080.12 अभ्येनं वज्र आयसः सहस्रभृष्टिरायतार्चन्ननु स्वराज्यम् ॥
1.080.13 यद्वृत्रं तव चाशनिं वज्रेण समयोधयः ।
1.080.13 अहिमिन्द्र जिघांसतो दिवि ते बद्बधे शवोऽर्चन्ननु स्वराज्यम् ॥
1.080.14 अभिष्टने ते अद्रिवो यत्स्था जगच्च रेजते ।
1.080.14 त्वष्टा चित्तव मन्यव इन्द्र वेविज्यते भियार्चन्ननु स्वराज्यम् ॥
1.080.15 नहि नु यादधीमसीन्द्रं को वीर्या परः ।
1.080.15 तस्मिन्नृम्णमुत क्रतुं देवा ओजांसि सं दधुरर्चन्ननु स्वराज्यम् ॥
1.080.16 यामथर्वा मनुष्पिता दध्यङ्धियमत्नत ।
1.080.16 तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था समग्मतार्चन्ननु स्वराज्यम् ॥

1.081.01 इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
1.081.01 तमिन्महत्स्वाजिषूतेमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥
1.081.02 असि हि वीर सेन्योऽसि भूरि पराददिः ।
1.081.02 असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ॥
1.081.03 यदुदीरत आजयो धृष्णवे धीयते धना ।
1.081.03 युक्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥
1.081.04 क्रत्वा महां अनुष्वधं भीम आ वावृधे शवः ।
1.081.04 श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवान्दधे हस्तयोर्वज्रमायसम् ॥
1.081.05 आ पप्रौ पार्थिवं रजो बद्बधे रोचना दिवि ।
1.081.05 न त्वावां इन्द्र कश्चन न जातो न जनिष्यतेऽति विश्वं ववक्षिथ ॥
1.081.06 यो अर्यो मर्तभोजनं पराददाति दाशुषे ।
1.081.06 इन्द्रो अस्मभ्यं शिक्षतु वि भजा भूरि ते वसु भक्षीय तव राधसः ॥
1.081.07 मदेमदे हि नो ददिर्यूथा गवामृजुक्रतुः ।
1.081.07 सं गृभाय पुरू शतोभयाहस्त्या वसु शिशीहि राय आ भर ॥
1.081.08 मादयस्व सुते सचा शवसे शूर राधसे ।
1.081.08 विद्मा हि त्वा पुरूवसुमुप कामान्ससृज्महेऽथा नोऽविता भव ॥
1.081.09 एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम् ।
1.081.09 अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥

1.082.01 उपो षु शृणुही गिरो मघवन्मातथा इव ।
1.082.01 यदा नः सूनृतावतः कर आदर्थयास इद्योजा न्विन्द्र ते हरी ॥
1.082.02 अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
1.082.02 अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥
1.082.03 सुसंदृशं त्वा वयं मघवन्वन्दिषीमहि ।
1.082.03 प्र नूनं पूर्णवन्धुर स्तुतो याहि वशां अनु योजा न्विन्द्र ते हरी ॥
1.082.04 स घा तं वृषणं रथमधि तिष्ठाति गोविदम् ।
1.082.04 यः पात्रं हारियोजनं पूर्णमिन्द्र चिकेतति योजा न्विन्द्र ते हरी ॥
1.082.05 युक्तस्ते अस्तु दक्षिण उत सव्यः शतक्रतो ।
1.082.05 तेन जायामुप प्रियां मन्दानो याह्यन्धसो योजा न्विन्द्र ते हरी ॥
1.082.06 युनज्मि ते ब्रह्मणा केशिना हरी उप प्र याहि दधिषे गभस्त्योः ।
1.082.06 उत्त्वा सुतासो रभसा अमन्दिषुः पूषण्वान्वज्रिन्समु पत्न्यामदः ॥

1.083.01 अश्वावति प्रथमो गोषु गच्छति सुप्रावीरिन्द्र मर्त्यस्तवोतिभिः ।
1.083.01 तमित्पृणक्षि वसुना भवीयसा सिन्धुमापो यथाभितो विचेतसः ॥
1.083.02 आपो न देवीरुप यन्ति होत्रियमवः पश्यन्ति विततं यथा रजः ।
1.083.02 प्राचैर्देवासः प्र णयन्ति देवयुं ब्रह्मप्रियं जोषयन्ते वरा इव ॥
1.083.03 अधि द्वयोरदधा उक्थ्यं वचो यतस्रुचा मिथुना या सपर्यतः ।
1.083.03 असंयत्तो व्रते ते क्षेति पुष्यति भद्रा शक्तिर्यजमानाय सुन्वते ॥
1.083.04 आदङ्गिराः प्रथमं दधिरे वय इद्धाग्नयः शम्या ये सुकृत्यया ।
1.083.04 सर्वं पणेः समविन्दन्त भोजनमश्वावन्तं गोमन्तमा पशुं नरः ॥
1.083.05 यज्ञैरथर्वा प्रथमः पथस्तते ततः सूर्यो व्रतपा वेन आजनि ।
1.083.05 आ गा आजदुशना काव्यः सचा यमस्य जातममृतं यजामहे ॥
1.083.06 बर्हिर्वा यत्स्वपत्याय वृज्यतेऽर्को वा श्लोकमाघोषते दिवि ।
1.083.06 ग्रावा यत्र वदति कारुरुक्थ्यस्तस्येदिन्द्रो अभिपित्वेषु रण्यति ॥

1.084.01 असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।
1.084.01 आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ॥
1.084.02 इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसम् ।
1.084.02 ऋषीणां च स्तुतीरुप यज्ञं च मानुषाणाम् ॥
1.084.03 आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।
1.084.03 अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ॥
1.084.04 इममिन्द्र सुतं पिब ज्येष्ठममर्त्यं मदम् ।
1.084.04 शुक्रस्य त्वाभ्यक्षरन्धारा ऋतस्य सादने ॥
1.084.05 इन्द्राय नूनमर्चतोक्थानि च ब्रवीतन ।
1.084.05 सुता अमत्सुरिन्दवो ज्येष्ठं नमस्यता सहः ॥
1.084.06 नकिष्ट्वद्रथीतरो हरी यदिन्द्र यच्छसे ।
1.084.06 नकिष्ट्वानु मज्मना नकिः स्वश्व आनशे ॥
1.084.07 य एक इद्विदयते वसु मर्ताय दाशुषे ।
1.084.07 ईशानो अप्रतिष्कुत इन्द्रो अङ्ग ॥
1.084.08 कदा मर्तमराधसं पदा क्षुम्पमिव स्फुरत् ।
1.084.08 कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥
1.084.09 यश्चिद्धि त्वा बहुभ्य आ सुतावां आविवासति ।
1.084.09 उग्रं तत्पत्यते शव इन्द्रो अङ्ग ॥
1.084.10 स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।
1.084.10 या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यम् ॥
1.084.11 ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।
1.084.11 प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यम् ॥
1.084.12 ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।
1.084.12 व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यम् ॥
1.084.13 इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
1.084.13 जघान नवतीर्नव ॥
1.084.14 इच्छन्नश्वस्य यच्छिरः पर्वतेष्वपश्रितम् ।
1.084.14 तद्विदच्छर्यणावति ॥
1.084.15 अत्राह गोरमन्वत नाम त्वष्टुरपीच्यम् ।
1.084.15 इत्था चन्द्रमसो गृहे ॥
1.084.16 को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् ।
1.084.16 आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥
1.084.17 क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति ।
1.084.17 कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे को जनाय ॥
1.084.18 को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः ।
1.084.18 कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥
1.084.19 त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् ।
1.084.19 न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥
1.084.20 मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।
1.084.20 विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥

1.085.01 प्र ये शुम्भन्ते जनयो न सप्तयो यामन्रुद्रस्य सूनवः सुदंससः ।
1.085.01 रोदसी हि मरुतश्चक्रिरे वृधे मदन्ति वीरा विदथेषु घृष्वयः ॥
1.085.02 त उक्षितासो महिमानमाशत दिवि रुद्रासो अधि चक्रिरे सदः ।
1.085.02 अर्चन्तो अर्कं जनयन्त इन्द्रियमधि श्रियो दधिरे पृश्निमातरः ॥
1.085.03 गोमातरो यच्छुभयन्ते अञ्जिभिस्तनूषु शुभ्रा दधिरे विरुक्मतः ।
1.085.03 बाधन्ते विश्वमभिमातिनमप वर्त्मान्येषामनु रीयते घृतम् ॥
1.085.04 वि ये भ्राजन्ते सुमखास ऋष्टिभिः प्रच्यावयन्तो अच्युता चिदोजसा ।
1.085.04 मनोजुवो यन्मरुतो रथेष्वा वृषव्रातासः पृषतीरयुग्ध्वम् ॥
1.085.05 प्र यद्रथेषु पृषतीरयुग्ध्वं वाजे अद्रिं मरुतो रंहयन्तः ।
1.085.05 उतारुषस्य वि ष्यन्ति धाराश्चर्मेवोदभिर्व्युन्दन्ति भूम ॥
1.085.06 आ वो वहन्तु सप्तयो रघुष्यदो रघुपत्वानः प्र जिगात बाहुभिः ।
1.085.06 सीदता बर्हिरुरु वः सदस्कृतं मादयध्वं मरुतो मध्वो अन्धसः ॥
1.085.07 तेऽवर्धन्त स्वतवसो महित्वना नाकं तस्थुरुरु चक्रिरे सदः ।
1.085.07 विष्णुर्यद्धावद्वृषणं मदच्युतं वयो न सीदन्नधि बर्हिषि प्रिये ॥
1.085.08 शूरा इवेद्युयुधयो न जग्मयः श्रवस्यवो न पृतनासु येतिरे ।
1.085.08 भयन्ते विश्वा भुवना मरुद्भ्यो राजान इव त्वेषसंदृशो नरः ॥
1.085.09 त्वष्टा यद्वज्रं सुकृतं हिरण्ययं सहस्रभृष्टिं स्वपा अवर्तयत् ।
1.085.09 धत्त इन्द्रो नर्यपांसि कर्तवेऽहन्वृत्रं निरपामौब्जदर्णवम् ॥
1.085.10 ऊर्ध्वं नुनुद्रेऽवतं त ओजसा दादृहाणं चिद्बिभिदुर्वि पर्वतम् ।
1.085.10 धमन्तो वाणं मरुतः सुदानवो मदे सोमस्य रण्यानि चक्रिरे ॥
1.085.11 जिह्मं नुनुद्रेऽवतं तया दिशासिञ्चन्नुत्सं गोतमाय तृष्णजे ।
1.085.11 आ गच्छन्तीमवसा चित्रभानवः कामं विप्रस्य तर्पयन्त धामभिः ॥
1.085.12 या वः शर्म शशमानाय सन्ति त्रिधातूनि दाशुषे यच्छताधि ।
1.085.12 अस्मभ्यं तानि मरुतो वि यन्त रयिं नो धत्त वृषणः सुवीरम् ॥

1.086.01 मरुतो यस्य हि क्षये पाथा दिवो विमहसः ।
1.086.01 स सुगोपातमो जनः ॥
1.086.02 यज्ञैर्वा यज्ञवाहसो विप्रस्य वा मतीनाम् ।
1.086.02 मरुतः शृणुता हवम् ॥
1.086.03 उत वा यस्य वाजिनोऽनु विप्रमतक्षत ।
1.086.03 स गन्ता गोमति व्रजे ॥
1.086.04 अस्य वीरस्य बर्हिषि सुतः सोमो दिविष्टिषु ।
1.086.04 उक्थं मदश्च शस्यते ॥
1.086.05 अस्य श्रोषन्त्वा भुवो विश्वा यश्चर्षणीरभि ।
1.086.05 सूरं चित्सस्रुषीरिषः ॥
1.086.06 पूर्वीभिर्हि ददाशिम शरद्भिर्मरुतो वयम् ।
1.086.06 अवोभिश्चर्षणीनाम् ॥
1.086.07 सुभगः स प्रयज्यवो मरुतो अस्तु मर्त्यः ।
1.086.07 यस्य प्रयांसि पर्षथ ॥
1.086.08 शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।
1.086.08 विदा कामस्य वेनतः ॥
1.086.09 यूयं तत्सत्यशवस आविष्कर्त महित्वना ।
1.086.09 विध्यता विद्युता रक्षः ॥
1.086.10 गूहता गुह्यं तमो वि यात विश्वमत्रिणम् ।
1.086.10 ज्योतिष्कर्ता यदुश्मसि ॥

1.087.01 प्रत्वक्षसः प्रतवसो विरप्शिनोऽनानता अविथुरा ऋजीषिणः ।
1.087.01 जुष्टतमासो नृतमासो अञ्जिभिर्व्यानज्रे के चिदुस्रा इव स्तृभिः ॥
1.087.02 उपह्वरेषु यदचिध्वं ययिं वय इव मरुतः केन चित्पथा ।
1.087.02 श्चोतन्ति कोशा उप वो रथेष्वा घृतमुक्षता मधुवर्णमर्चते ॥
1.087.03 प्रैषामज्मेषु विथुरेव रेजते भूमिर्यामेषु यद्ध युञ्जते शुभे ।
1.087.03 ते क्रीळयो धुनयो भ्राजदृष्टयः स्वयं महित्वं पनयन्त धूतयः ॥
1.087.04 स हि स्वसृत्पृषदश्वो युवा गणोऽया ईशानस्तविषीभिरावृतः ।
1.087.04 असि सत्य ऋणयावानेद्योऽस्या धियः प्राविताथा वृषा गणः ॥
1.087.05 पितुः प्रत्नस्य जन्मना वदामसि सोमस्य जिह्वा प्र जिगाति चक्षसा ।
1.087.05 यदीमिन्द्रं शम्यृक्वाण आशतादिन्नामानि यज्ञियानि दधिरे ॥
1.087.06 श्रियसे कं भानुभिः सं मिमिक्षिरे ते रश्मिभिस्त ऋक्वभिः सुखादयः ।
1.087.06 ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥

1.088.01 आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः ।
1.088.01 आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥
1.088.02 तेऽरुणेभिर्वरमा पिशङ्गैः शुभे कं यान्ति रथतूर्भिरश्वैः ।
1.088.02 रुक्मो न चित्रः स्वधितीवान्पव्या रथस्य जङ्घनन्त भूम ॥
1.088.03 श्रिये कं वो अधि तनूषु वाशीर्मेधा वना न कृणवन्त ऊर्ध्वा ।
1.088.03 युष्मभ्यं कं मरुतः सुजातास्तुविद्युम्नासो धनयन्ते अद्रिम् ॥
1.088.04 अहानि गृध्राः पर्या व आगुरिमां धियं वार्कार्यां च देवीम् ।
1.088.04 ब्रह्म कृण्वन्तो गोतमासो अर्कैरूर्ध्वं नुनुद्र उत्सधिं पिबध्यै ॥
1.088.05 एतत्त्यन्न योजनमचेति सस्वर्ह यन्मरुतो गोतमो वः ।
1.088.05 पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् ॥
1.088.06 एषा स्या वो मरुतोऽनुभर्त्री प्रति ष्टोभति वाघतो न वाणी ।
1.088.06 अस्तोभयद्वृथासामनु स्वधां गभस्त्योः ॥

1.089.01 आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरीतास उद्भिदः ।
1.089.01 देवा नो यथा सदमिद्वृधे असन्नप्रायुवो रक्षितारो दिवेदिवे ॥
1.089.02 देवानां भद्रा सुमतिरृजूयतां देवानां रातिरभि नो नि वर्तताम् ।
1.089.02 देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥
1.089.03 तान्पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
1.089.03 अर्यमणं वरुणं सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥
1.089.04 तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।
1.089.04 तद्ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥
1.089.05 तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।
1.089.05 पूषा नो यथा वेदसामसद्वृधे रक्षिता पायुरदब्धः स्वस्तये ॥
1.089.06 स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
1.089.06 स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
1.089.07 पृषदश्वा मरुतः पृश्निमातरः शुभंयावानो विदथेषु जग्मयः ।
1.089.07 अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥
1.089.08 भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
1.089.08 स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
1.089.09 शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
1.089.09 पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥
1.089.10 अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
1.089.10 विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

1.090.01 ऋजुनीती नो वरुणो मित्रो नयतु विद्वान् ।
1.090.01 अर्यमा देवैः सजोषाः ॥
1.090.02 ते हि वस्वो वसवानास्ते अप्रमूरा महोभिः ।
1.090.02 व्रता रक्षन्ते विश्वाहा ॥
1.090.03 ते अस्मभ्यं शर्म यंसन्नमृता मर्त्येभ्यः ।
1.090.03 बाधमाना अप द्विषः ॥
1.090.04 वि नः पथः सुविताय चियन्त्विन्द्रो मरुतः ।
1.090.04 पूषा भगो वन्द्यासः ॥
1.090.05 उत नो धियो गोअग्राः पूषन्विष्णवेवयावः ।
1.090.05 कर्ता नः स्वस्तिमतः ॥
1.090.06 मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
1.090.06 माध्वीर्नः सन्त्वोषधीः ॥
1.090.07 मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः ।
1.090.07 मधु द्यौरस्तु नः पिता ॥
1.090.08 मधुमान्नो वनस्पतिर्मधुमां अस्तु सूर्यः ।
1.090.08 माध्वीर्गावो भवन्तु नः ॥
1.090.09 शं नो मित्रः शं वरुणः शं नो भवत्वर्यमा ।
1.090.09 शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः ॥

1.091.01 त्वं सोम प्र चिकितो मनीषा त्वं रजिष्ठमनु नेषि पन्थाम् ।
1.091.01 तव प्रणीती पितरो न इन्दो देवेषु रत्नमभजन्त धीराः ॥
1.091.02 त्वं सोम क्रतुभिः सुक्रतुर्भूस्त्वं दक्षैः सुदक्षो विश्ववेदाः ।
1.091.02 त्वं वृषा वृषत्वेभिर्महित्वा द्युम्नेभिर्द्युम्न्यभवो नृचक्षाः ॥
1.091.03 राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
1.091.03 शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥
1.091.04 या ते धामानि दिवि या पृथिव्यां या पर्वतेष्वोषधीष्वप्सु ।
1.091.04 तेभिर्नो विश्वैः सुमना अहेळन्राजन्सोम प्रति हव्या गृभाय ॥
1.091.05 त्वं सोमासि सत्पतिस्त्वं राजोत वृत्रहा ।
1.091.05 त्वं भद्रो असि क्रतुः ॥
1.091.06 त्वं च सोम नो वशो जीवातुं न मरामहे ।
1.091.06 प्रियस्तोत्रो वनस्पतिः ॥
1.091.07 त्वं सोम महे भगं त्वं यून ऋतायते ।
1.091.07 दक्षं दधासि जीवसे ॥
1.091.08 त्वं नः सोम विश्वतो रक्षा राजन्नघायतः ।
1.091.08 न रिष्येत्त्वावतः सखा ॥
1.091.09 सोम यास्ते मयोभुव ऊतयः सन्ति दाशुषे ।
1.091.09 ताभिर्नोऽविता भव ॥
1.091.10 इमं यज्ञमिदं वचो जुजुषाण उपागहि ।
1.091.10 सोम त्वं नो वृधे भव ॥
1.091.11 सोम गीर्भिष्ट्वा वयं वर्धयामो वचोविदः ।
1.091.11 सुमृळीको न आ विश ॥
1.091.12 गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः ।
1.091.12 सुमित्रः सोम नो भव ॥
1.091.13 सोम रारन्धि नो हृदि गावो न यवसेष्वा ।
1.091.13 मर्य इव स्व ओक्ये ॥
1.091.14 यः सोम सख्ये तव रारणद्देव मर्त्यः ।
1.091.14 तं दक्षः सचते कविः ॥
1.091.15 उरुष्या णो अभिशस्तेः सोम नि पाह्यंहसः ।
1.091.15 सखा सुशेव एधि नः ॥
1.091.16 आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
1.091.16 भवा वाजस्य संगथे ॥
1.091.17 आ प्यायस्व मदिन्तम सोम विश्वेभिरंशुभिः ।
1.091.17 भवा नः सुश्रवस्तमः सखा वृधे ॥
1.091.18 सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः ।
1.091.18 आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥
1.091.19 या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूरस्तु यज्ञम् ।
1.091.19 गयस्फानः प्रतरणः सुवीरोऽवीरहा प्र चरा सोम दुर्यान् ॥
1.091.20 सोमो धेनुं सोमो अर्वन्तमाशुं सोमो वीरं कर्मण्यं ददाति ।
1.091.20 सादन्यं विदथ्यं सभेयं पितृश्रवणं यो ददाशदस्मै ॥
1.091.21 अषाळ्हं युत्सु पृतनासु पप्रिं स्वर्षामप्सां वृजनस्य गोपाम् ।
1.091.21 भरेषुजां सुक्षितिं सुश्रवसं जयन्तं त्वामनु मदेम सोम ॥
1.091.22 त्वमिमा ओषधीः सोम विश्वास्त्वमपो अजनयस्त्वं गाः ।
1.091.22 त्वमा ततन्थोर्वन्तरिक्षं त्वं ज्योतिषा वि तमो ववर्थ ॥
1.091.23 देवेन नो मनसा देव सोम रायो भागं सहसावन्नभि युध्य ।
1.091.23 मा त्वा तनदीशिषे वीर्यस्योभयेभ्यः प्र चिकित्सा गविष्टौ ॥

1.092.01 एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
1.092.01 निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥
1.092.02 उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।
1.092.02 अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥
1.092.03 अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
1.092.03 इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥
1.092.04 अधि पेशांसि वपते नृतूरिवापोर्णुते वक्ष उस्रेव बर्जहम् ।
1.092.04 ज्योतिर्विश्वस्मै भुवनाय कृण्वती गावो न व्रजं व्युषा आवर्तमः ॥
1.092.05 प्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कृष्णमभ्वम् ।
1.092.05 स्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत् ॥
1.092.06 अतारिष्म तमसस्पारमस्योषा उच्छन्ती वयुना कृणोति ।
1.092.06 श्रिये छन्दो न स्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥
1.092.07 भास्वती नेत्री सूनृतानां दिव स्तवे दुहिता गोतमेभिः ।
1.092.07 प्रजावतो नृवतो अश्वबुध्यानुषो गोअग्रां उप मासि वाजान् ॥
1.092.08 उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यम् ।
1.092.08 सुदंससा श्रवसा या विभासि वाजप्रसूता सुभगे बृहन्तम् ॥
1.092.09 विश्वानि देवी भुवनाभिचक्ष्या प्रतीची चक्षुरुर्विया वि भाति ।
1.092.09 विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन्मनायोः ॥
1.092.10 पुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
1.092.10 श्वघ्नीव कृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥
1.092.11 व्यूर्ण्वती दिवो अन्तां अबोध्यप स्वसारं सनुतर्युयोति ।
1.092.11 प्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥
1.092.12 पशून्न चित्रा सुभगा प्रथाना सिन्धुर्न क्षोद उर्विया व्यश्वैत् ।
1.092.12 अमिनती दैव्यानि व्रतानि सूर्यस्य चेति रश्मिभिर्दृशाना ॥
1.092.13 उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
1.092.13 येन तोकं च तनयं च धामहे ॥
1.092.14 उषो अद्येह गोमत्यश्वावति विभावरि ।
1.092.14 रेवदस्मे व्युच्छ सूनृतावति ॥
1.092.15 युक्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः ।
1.092.15 अथा नो विश्वा सौभगान्या वह ॥
1.092.16 अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।
1.092.16 अर्वाग्रथं समनसा नि यच्छतम् ॥
1.092.17 यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।
1.092.17 आ न ऊर्जं वहतमश्विना युवम् ॥
1.092.18 एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
1.092.18 उषर्बुधो वहन्तु सोमपीतये ॥

1.093.01 अग्नीषोमाविमं सु मे शृणुतं वृषणा हवम् ।
1.093.01 प्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
1.093.02 अग्नीषोमा यो अद्य वामिदं वचः सपर्यति ।
1.093.02 तस्मै धत्तं सुवीर्यं गवां पोषं स्वश्व्यम् ॥
1.093.03 अग्नीषोमा य आहुतिं यो वां दाशाद्धविष्कृतिम् ।
1.093.03 स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥
1.093.04 अग्नीषोमा चेति तद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः ।
1.093.04 अवातिरतं बृसयस्य शेषोऽविन्दतं ज्योतिरेकं बहुभ्यः ॥
1.093.05 युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् ।
1.093.05 युवं सिन्धूंरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥
1.093.06 आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः ।
1.093.06 अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुरु लोकम् ॥
1.093.07 अग्नीषोमा हविषः प्रस्थितस्य वीतं हर्यतं वृषणा जुषेथाम् ।
1.093.07 सुशर्माणा स्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥
1.093.08 यो अग्नीषोमा हविषा सपर्याद्देवद्रीचा मनसा यो घृतेन ।
1.093.08 तस्य व्रतं रक्षतं पातमंहसो विशे जनाय महि शर्म यच्छतम् ॥
1.093.09 अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
1.093.09 सं देवत्रा बभूवथुः ॥
1.093.10 अग्नीषोमावनेन वां यो वां घृतेन दाशति ।
1.093.10 तस्मै दीदयतं बृहत् ॥
1.093.11 अग्नीषोमाविमानि नो युवं हव्या जुजोषतम् ।
1.093.11 आ यातमुप नः सचा ॥
1.093.12 अग्नीषोमा पिपृतमर्वतो न आ प्यायन्तामुस्रिया हव्यसूदः ।
1.093.12 अस्मे बलानि मघवत्सु धत्तं कृणुतं नो अध्वरं श्रुष्टिमन्तम् ॥

1.094.01 इमं स्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
1.094.01 भद्रा हि नः प्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥
1.094.02 यस्मै त्वमायजसे स साधत्यनर्वा क्षेति दधते सुवीर्यम् ।
1.094.02 स तूताव नैनमश्नोत्यंहतिरग्ने सख्ये मा रिषामा वयं तव ॥
1.094.03 शकेम त्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम् ।
1.094.03 त्वमादित्यां आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥
1.094.04 भरामेध्मं कृणवामा हवींषि ते चितयन्तः पर्वणापर्वणा वयम् ।
1.094.04 जीवातवे प्रतरं साधया धियोऽग्ने सख्ये मा रिषामा वयं तव ॥
1.094.05 विशां गोपा अस्य चरन्ति जन्तवो द्विपच्च यदुत चतुष्पदक्तुभिः ।
1.094.05 चित्रः प्रकेत उषसो महां अस्यग्ने सख्ये मा रिषामा वयं तव ॥
1.094.06 त्वमध्वर्युरुत होतासि पूर्व्यः प्रशास्ता पोता जनुषा पुरोहितः ।
1.094.06 विश्वा विद्वां आर्त्विज्या धीर पुष्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
1.094.07 यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे ।
1.094.07 रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥
1.094.08 पूर्वो देवा भवतु सुन्वतो रथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
1.094.08 तदा जानीतोत पुष्यता वचोऽग्ने सख्ये मा रिषामा वयं तव ॥
1.094.09 वधैर्दुःशंसां अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
1.094.09 अथा यज्ञाय गृणते सुगं कृध्यग्ने सख्ये मा रिषामा वयं तव ॥
1.094.10 यदयुक्था अरुषा रोहिता रथे वातजूता वृषभस्येव ते रवः ।
1.094.10 आदिन्वसि वनिनो धूमकेतुनाग्ने सख्ये मा रिषामा वयं तव ॥
1.094.11 अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन् ।
1.094.11 सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥
1.094.12 अयं मित्रस्य वरुणस्य धायसेऽवयातां मरुतां हेळो अद्भुतः ।
1.094.12 मृळा सु नो भूत्वेषां मनः पुनरग्ने सख्ये मा रिषामा वयं तव ॥
1.094.13 देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
1.094.13 शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥
1.094.14 तत्ते भद्रं यत्समिद्धः स्वे दमे सोमाहुतो जरसे मृळयत्तमः ।
1.094.14 दधासि रत्नं द्रविणं च दाशुषेऽग्ने सख्ये मा रिषामा वयं तव ॥
1.094.15 यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता ।
1.094.15 यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्याम ॥
1.094.16 स त्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः प्र तिरेह देव ।
1.094.16 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.095.01 द्वे विरूपे चरतः स्वर्थे अन्यान्या वत्समुप धापयेते ।
1.095.01 हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवर्चाः ॥
1.095.02 दशेमं त्वष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् ।
1.095.02 तिग्मानीकं स्वयशसं जनेषु विरोचमानं परि षीं नयन्ति ॥
1.095.03 त्रीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु ।
1.095.03 पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि दधावनुष्ठु ॥
1.095.04 क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत स्वधाभिः ।
1.095.04 बह्वीनां गर्भो अपसामुपस्थान्महान्कविर्निश्चरति स्वधावान् ॥
1.095.05 आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे ।
1.095.05 उभे त्वष्टुर्बिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥
1.095.06 उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः ।
1.095.06 स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ॥
1.095.07 उद्यंयमीति सवितेव बाहू उभे सिचौ यतते भीम ऋञ्जन् ।
1.095.07 उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥
1.095.08 त्वेषं रूपं कृणुत उत्तरं यत्सम्पृञ्चानः सदने गोभिरद्भिः ।
1.095.08 कविर्बुध्नं परि मर्मृज्यते धीः सा देवताता समितिर्बभूव ॥
1.095.09 उरु ते ज्रयः पर्येति बुध्नं विरोचमानं महिषस्य धाम ।
1.095.09 विश्वेभिरग्ने स्वयशोभिरिद्धोऽदब्धेभिः पायुभिः पाह्यस्मान् ॥
1.095.10 धन्वन्स्रोतः कृणुते गातुमूर्मिं शुक्रैरूर्मिभिरभि नक्षति क्षाम् ।
1.095.10 विश्वा सनानि जठरेषु धत्तेऽन्तर्नवासु चरति प्रसूषु ॥
1.095.11 एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
1.095.11 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.096.01 स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ् अधत्त विश्वा ।
1.096.01 आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.02 स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम् ।
1.096.02 विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.03 तमीळत प्रथमं यज्ञसाधं विश आरीराहुतमृञ्जसानम् ।
1.096.03 ऊर्जः पुत्रं भरतं सृप्रदानुं देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.04 स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित् ।
1.096.04 विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.05 नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
1.096.05 द्यावाक्षामा रुक्मो अन्तर्वि भाति देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.06 रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
1.096.06 अमृतत्वं रक्षमाणास एनं देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.07 नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च क्षाम् ।
1.096.07 सतश्च गोपां भवतश्च भूरेर्देवा अग्निं धारयन्द्रविणोदाम् ॥
1.096.08 द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
1.096.08 द्रविणोदा वीरवतीमिषं नो द्रविणोदा रासते दीर्घमायुः ॥
1.096.09 एवा नो अग्ने समिधा वृधानो रेवत्पावक श्रवसे वि भाहि ।
1.096.09 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.097.01 अप नः शोशुचदघमग्ने शुशुग्ध्या रयिम् ।
1.097.01 अप नः शोशुचदघम् ॥
1.097.02 सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
1.097.02 अप नः शोशुचदघम् ॥
1.097.03 प्र यद्भन्दिष्ठ एषां प्रास्माकासश्च सूरयः ।
1.097.03 अप नः शोशुचदघम् ॥
1.097.04 प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् ।
1.097.04 अप नः शोशुचदघम् ॥
1.097.05 प्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
1.097.05 अप नः शोशुचदघम् ॥
1.097.06 त्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
1.097.06 अप नः शोशुचदघम् ॥
1.097.07 द्विषो नो विश्वतोमुखाति नावेव पारय ।
1.097.07 अप नः शोशुचदघम् ॥
1.097.08 स नः सिन्धुमिव नावयाति पर्षा स्वस्तये ।
1.097.08 अप नः शोशुचदघम् ॥

1.098.01 वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः ।
1.098.01 इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
1.098.02 पृष्टो दिवि पृष्टो अग्निः पृथिव्यां पृष्टो विश्वा ओषधीरा विवेश ।
1.098.02 वैश्वानरः सहसा पृष्टो अग्निः स नो दिवा स रिषः पातु नक्तम् ॥
1.098.03 वैश्वानर तव तत्सत्यमस्त्वस्मान्रायो मघवानः सचन्ताम् ।
1.098.03 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.099.01 जातवेदसे सुनवाम सोममरातीयतो नि दहाति वेदः ।
1.099.01 स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्यग्निः ॥

1.100.01 स यो वृषा वृष्ण्येभिः समोका महो दिवः पृथिव्याश्च सम्राट् ।
1.100.01 सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.02 यस्यानाप्तः सूर्यस्येव यामो भरेभरे वृत्रहा शुष्मो अस्ति ।
1.100.02 वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.03 दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
1.100.03 तरद्द्वेषाः सासहिः पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.04 सो अङ्गिरोभिरङ्गिरस्तमो भूद्वृषा वृषभिः सखिभिः सखा सन् ।
1.100.04 ऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.05 स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वां अमित्रान् ।
1.100.05 सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.06 स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभिः सूर्यं सनत् ।
1.100.06 अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.07 तमूतयो रणयञ्छूरसातौ तं क्षेमस्य क्षितयः कृण्वत त्राम् ।
1.100.07 स विश्वस्य करुणस्येश एको मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.08 तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय ।
1.100.08 सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.09 स सव्येन यमति व्राधतश्चित्स दक्षिणे संगृभीता कृतानि ।
1.100.09 स कीरिणा चित्सनिता धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.10 स ग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कृष्टिभिर्न्वद्य ।
1.100.10 स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.11 स जामिभिर्यत्समजाति मीळ्हेऽजामिभिर्वा पुरुहूत एवैः ।
1.100.11 अपां तोकस्य तनयस्य जेषे मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.12 स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा ।
1.100.12 चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.13 तस्य वज्रः क्रन्दति स्मत्स्वर्षा दिवो न त्वेषो रवथः शिमीवान् ।
1.100.13 तं सचन्ते सनयस्तं धनानि मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.14 यस्याजस्रं शवसा मानमुक्थं परिभुजद्रोदसी विश्वतः सीम् ।
1.100.14 स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.15 न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः ।
1.100.15 स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥
1.100.16 रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय ऋज्राश्वस्य ।
1.100.16 वृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥
1.100.17 एतत्त्यत्त इन्द्र वृष्ण उक्थं वार्षागिरा अभि गृणन्ति राधः ।
1.100.17 ऋज्राश्वः प्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥
1.100.18 दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पृथिव्यां शर्वा नि बर्हीत् ।
1.100.18 सनत्क्षेत्रं सखिभिः श्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥
1.100.19 विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
1.100.19 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.101.01 प्र मन्दिने पितुमदर्चता वचो यः कृष्णगर्भा निरहन्नृजिश्वना ।
1.101.01 अवस्यवो वृषणं वज्रदक्षिणं मरुत्वन्तं सख्याय हवामहे ॥
1.101.02 यो व्यंसं जाहृषाणेन मन्युना यः शम्बरं यो अहन्पिप्रुमव्रतम् ।
1.101.02 इन्द्रो यः शुष्णमशुषं न्यावृणङ्मरुत्वन्तं सख्याय हवामहे ॥
1.101.03 यस्य द्यावापृथिवी पौंस्यं महद्यस्य व्रते वरुणो यस्य सूर्यः ।
1.101.03 यस्येन्द्रस्य सिन्धवः सश्चति व्रतं मरुत्वन्तं सख्याय हवामहे ॥
1.101.04 यो अश्वानां यो गवां गोपतिर्वशी य आरितः कर्मणिकर्मणि स्थिरः ।
1.101.04 वीळोश्चिदिन्द्रो यो असुन्वतो वधो मरुत्वन्तं सख्याय हवामहे ॥
1.101.05 यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत् ।
1.101.05 इन्द्रो यो दस्यूंरधरां अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥
1.101.06 यः शूरेभिर्हव्यो यश्च भीरुभिर्यो धावद्भिर्हूयते यश्च जिग्युभिः ।
1.101.06 इन्द्रं यं विश्वा भुवनाभि संदधुर्मरुत्वन्तं सख्याय हवामहे ॥
1.101.07 रुद्राणामेति प्रदिशा विचक्षणो रुद्रेभिर्योषा तनुते पृथु ज्रयः ।
1.101.07 इन्द्रं मनीषा अभ्यर्चति श्रुतं मरुत्वन्तं सख्याय हवामहे ॥
1.101.08 यद्वा मरुत्वः परमे सधस्थे यद्वावमे वृजने मादयासे ।
1.101.08 अत आ याह्यध्वरं नो अच्छा त्वाया हविश्चकृमा सत्यराधः ॥
1.101.09 त्वायेन्द्र सोमं सुषुमा सुदक्ष त्वाया हविश्चकृमा ब्रह्मवाहः ।
1.101.09 अधा नियुत्वः सगणो मरुद्भिरस्मिन्यज्ञे बर्हिषि मादयस्व ॥
1.101.10 मादयस्व हरिभिर्ये त इन्द्र वि ष्यस्व शिप्रे वि सृजस्व धेने ।
1.101.10 आ त्वा सुशिप्र हरयो वहन्तूशन्हव्यानि प्रति नो जुषस्व ॥
1.101.11 मरुत्स्तोत्रस्य वृजनस्य गोपा वयमिन्द्रेण सनुयाम वाजम् ।
1.101.11 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.102.01 इमां ते धियं प्र भरे महो महीमस्य स्तोत्रे धिषणा यत्त आनजे ।
1.102.01 तमुत्सवे च प्रसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥
1.102.02 अस्य श्रवो नद्यः सप्त बिभ्रति द्यावाक्षामा पृथिवी दर्शतं वपुः ।
1.102.02 अस्मे सूर्याचन्द्रमसाभिचक्षे श्रद्धे कमिन्द्र चरतो वितर्तुरम् ॥
1.102.03 तं स्मा रथं मघवन्प्राव सातये जैत्रं यं ते अनुमदाम संगमे ।
1.102.03 आजा न इन्द्र मनसा पुरुष्टुत त्वायद्भ्यो मघवञ्छर्म यच्छ नः ॥
1.102.04 वयं जयेम त्वया युजा वृतमस्माकमंशमुदवा भरेभरे ।
1.102.04 अस्मभ्यमिन्द्र वरिवः सुगं कृधि प्र शत्रूणां मघवन्वृष्ण्या रुज ॥
1.102.05 नाना हि त्वा हवमाना जना इमे धनानां धर्तरवसा विपन्यवः ।
1.102.05 अस्माकं स्मा रथमा तिष्ठ सातये जैत्रं हीन्द्र निभृतं मनस्तव ॥
1.102.06 गोजिता बाहू अमितक्रतुः सिमः कर्मन्कर्मञ्छतमूतिः खजङ्करः ।
1.102.06 अकल्प इन्द्रः प्रतिमानमोजसाथा जना वि ह्वयन्ते सिषासवः ॥
1.102.07 उत्ते शतान्मघवन्नुच्च भूयस उत्सहस्राद्रिरिचे कृष्टिषु श्रवः ।
1.102.07 अमात्रं त्वा धिषणा तित्विषे मह्यधा वृत्राणि जिघ्नसे पुरन्दर ॥
1.102.08 त्रिविष्टिधातु प्रतिमानमोजसस्तिस्रो भूमीर्नृपते त्रीणि रोचना ।
1.102.08 अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्र जनुषा सनादसि ॥
1.102.09 त्वां देवेषु प्रथमं हवामहे त्वं बभूथ पृतनासु सासहिः ।
1.102.09 सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कृणोतु प्रसवे रथं पुरः ॥
1.102.10 त्वं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन्महत्सु च ।
1.102.10 त्वामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥
1.102.11 विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्वृताः सनुयाम वाजम् ।
1.102.11 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.103.01 तत्त इन्द्रियं परमं पराचैरधारयन्त कवयः पुरेदम् ।
1.103.01 क्षमेदमन्यद्दिव्यन्यदस्य समी पृच्यते समनेव केतुः ॥
1.103.02 स धारयत्पृथिवीं पप्रथच्च वज्रेण हत्वा निरपः ससर्ज ।
1.103.02 अहन्नहिमभिनद्रौहिणं व्यहन्व्यंसं मघवा शचीभिः ॥
1.103.03 स जातूभर्मा श्रद्दधान ओजः पुरो विभिन्दन्नचरद्वि दासीः ।
1.103.03 विद्वान्वज्रिन्दस्यवे हेतिमस्यार्यं सहो वर्धया द्युम्नमिन्द्र ॥
1.103.04 तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत् ।
1.103.04 उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥
1.103.05 तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय ।
1.103.05 स गा अविन्दत्सो अविन्ददश्वान्स ओषधीः सो अपः स वनानि ॥
1.103.06 भूरिकर्मणे वृषभाय वृष्णे सत्यशुष्माय सुनवाम सोमम् ।
1.103.06 य आदृत्या परिपन्थीव शूरोऽयज्वनो विभजन्नेति वेदः ॥
1.103.07 तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम् ।
1.103.07 अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥
1.103.08 शुष्णं पिप्रुं कुयवं वृत्रमिन्द्र यदावधीर्वि पुरः शम्बरस्य ।
1.103.08 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.104.01 योनिष्ट इन्द्र निषदे अकारि तमा नि षीद स्वानो नार्वा ।
1.104.01 विमुच्या वयोऽवसायाश्वान्दोषा वस्तोर्वहीयसः प्रपित्वे ॥
1.104.02 ओ त्ये नर इन्द्रमूतये गुर्नू चित्तान्सद्यो अध्वनो जगम्यात् ।
1.104.02 देवासो मन्युं दासस्य श्चम्नन्ते न आ वक्षन्सुविताय वर्णम् ॥
1.104.03 अव त्मना भरते केतवेदा अव त्मना भरते फेनमुदन् ।
1.104.03 क्षीरेण स्नातः कुयवस्य योषे हते ते स्यातां प्रवणे शिफायाः ॥
1.104.04 युयोप नाभिरुपरस्यायोः प्र पूर्वाभिस्तिरते राष्टि शूरः ।
1.104.04 अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥
1.104.05 प्रति यत्स्या नीथादर्शि दस्योरोको नाच्छा सदनं जानती गात् ।
1.104.05 अध स्मा नो मघवञ्चर्कृतादिन्मा नो मघेव निष्षपी परा दाः ॥
1.104.06 स त्वं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे ।
1.104.06 मान्तरां भुजमा रीरिषो नः श्रद्धितं ते महत इन्द्रियाय ॥
1.104.07 अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय ।
1.104.07 मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दाः ॥
1.104.08 मा नो वधीरिन्द्र मा परा दा मा नः प्रिया भोजनानि प्र मोषीः ।
1.104.08 आण्डा मा नो मघवञ्छक्र निर्भेन्मा नः पात्रा भेत्सहजानुषाणि ॥
1.104.09 अर्वाङेहि सोमकामं त्वाहुरयं सुतस्तस्य पिबा मदाय ।
1.104.09 उरुव्यचा जठर आ वृषस्व पितेव नः शृणुहि हूयमानः ॥

1.105.01 चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
1.105.01 न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥
1.105.02 अर्थमिद्वा उ अर्थिन आ जाया युवते पतिम् ।
1.105.02 तुञ्जाते वृष्ण्यं पयः परिदाय रसं दुहे वित्तं मे अस्य रोदसी ॥
1.105.03 मो षु देवा अदः स्वरव पादि दिवस्परि ।
1.105.03 मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तं मे अस्य रोदसी ॥
1.105.04 यज्ञं पृच्छाम्यवमं स तद्दूतो वि वोचति ।
1.105.04 क्व ऋतं पूर्व्यं गतं कस्तद्बिभर्ति नूतनो वित्तं मे अस्य रोदसी ॥
1.105.05 अमी ये देवा स्थन त्रिष्वा रोचने दिवः ।
1.105.05 कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥
1.105.06 कद्व ऋतस्य धर्णसि कद्वरुणस्य चक्षणम् ।
1.105.06 कदर्यम्णो महस्पथाति क्रामेम दूढ्यो वित्तं मे अस्य रोदसी ॥
1.105.07 अहं सो अस्मि यः पुरा सुते वदामि कानि चित् ।
1.105.07 तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥
1.105.08 सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
1.105.08 मूषो न शिश्ना व्यदन्ति माध्य स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥
1.105.09 अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।
1.105.09 त्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वित्तं मे अस्य रोदसी ॥
1.105.10 अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।
1.105.10 देवत्रा नु प्रवाच्यं सध्रीचीना नि वावृतुर्वित्तं मे अस्य रोदसी ॥
1.105.11 सुपर्णा एत आसते मध्य आरोधने दिवः ।
1.105.11 ते सेधन्ति पथो वृकं तरन्तं यह्वतीरपो वित्तं मे अस्य रोदसी ॥
1.105.12 नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम् ।
1.105.12 ऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वित्तं मे अस्य रोदसी ॥
1.105.13 अग्ने तव त्यदुक्थ्यं देवेष्वस्त्याप्यम् ।
1.105.13 स नः सत्तो मनुष्वदा देवान्यक्षि विदुष्टरो वित्तं मे अस्य रोदसी ॥
1.105.14 सत्तो होता मनुष्वदा देवां अच्छा विदुष्टरः ।
1.105.14 अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वित्तं मे अस्य रोदसी ॥
1.105.15 ब्रह्मा कृणोति वरुणो गातुविदं तमीमहे ।
1.105.15 व्यूर्णोति हृदा मतिं नव्यो जायतामृतं वित्तं मे अस्य रोदसी ॥
1.105.16 असौ यः पन्था आदित्यो दिवि प्रवाच्यं कृतः ।
1.105.16 न स देवा अतिक्रमे तं मर्तासो न पश्यथ वित्तं मे अस्य रोदसी ॥
1.105.17 त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
1.105.17 तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥
1.105.18 अरुणो मा सकृद्वृकः पथा यन्तं ददर्श हि ।
1.105.18 उज्जिहीते निचाय्या तष्टेव पृष्ट्यामयी वित्तं मे अस्य रोदसी ॥
1.105.19 एनाङ्गूषेण वयमिन्द्रवन्तोऽभि ष्याम वृजने सर्ववीराः ।
1.105.19 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.106.01 इन्द्रं मित्रं वरुणमग्निमूतये मारुतं शर्धो अदितिं हवामहे ।
1.106.01 रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
1.106.02 त आदित्या आ गता सर्वतातये भूत देवा वृत्रतूर्येषु शम्भुवः ।
1.106.02 रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
1.106.03 अवन्तु नः पितरः सुप्रवाचना उत देवी देवपुत्रे ऋतावृधा ।
1.106.03 रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
1.106.04 नराशंसं वाजिनं वाजयन्निह क्षयद्वीरं पूषणं सुम्नैरीमहे ।
1.106.04 रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
1.106.05 बृहस्पते सदमिन्नः सुगं कृधि शं योर्यत्ते मनुर्हितं तदीमहे ।
1.106.05 रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
1.106.06 इन्द्रं कुत्सो वृत्रहणं शचीपतिं काटे निबाळ्ह ऋषिरह्वदूतये ।
1.106.06 रथं न दुर्गाद्वसवः सुदानवो विश्वस्मान्नो अंहसो निष्पिपर्तन ॥
1.106.07 देवैर्नो देव्यदितिर्नि पातु देवस्त्राता त्रायतामप्रयुच्छन् ।
1.106.07 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.107.01 यज्ञो देवानां प्रत्येति सुम्नमादित्यासो भवता मृळयन्तः ।
1.107.01 आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥
1.107.02 उप नो देवा अवसा गमन्त्वङ्गिरसां सामभि स्तूयमानाः ।
1.107.02 इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत् ॥
1.107.03 तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
1.107.03 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.108.01 य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
1.108.01 तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥
1.108.02 यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरम् ।
1.108.02 तावां अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम् ॥
1.108.03 चक्राथे हि सध्र्यङ्नाम भद्रं सध्रीचीना वृत्रहणा उत स्थः ।
1.108.03 ताविन्द्राग्नी सध्र्यञ्चा निषद्या वृष्णः सोमस्य वृषणा वृषेथाम् ॥
1.108.04 समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
1.108.04 तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम् ॥
1.108.05 यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वृष्ण्यानि ।
1.108.05 या वां प्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥
1.108.06 यदब्रवं प्रथमं वां वृणानोऽयं सोमो असुरैर्नो विहव्यः ।
1.108.06 तां सत्यां श्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.07 यदिन्द्राग्नी मदथः स्वे दुरोणे यद्ब्रह्मणि राजनि वा यजत्रा ।
1.108.07 अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.08 यदिन्द्राग्नी यदुषु तुर्वशेषु यद्द्रुह्युष्वनुषु पूरुषु स्थः ।
1.108.08 अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.09 यदिन्द्राग्नी अवमस्यां पृथिव्यां मध्यमस्यां परमस्यामुत स्थः ।
1.108.09 अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.10 यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्यामवमस्यामुत स्थः ।
1.108.10 अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.11 यदिन्द्राग्नी दिवि ष्ठो यत्पृथिव्यां यत्पर्वतेष्वोषधीष्वप्सु ।
1.108.11 अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.12 यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः स्वधया मादयेथे ।
1.108.12 अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥
1.108.13 एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतं धनानि ।
1.108.13 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.109.01 वि ह्यख्यं मनसा वस्य इच्छन्निन्द्राग्नी ज्ञास उत वा सजातान् ।
1.109.01 नान्या युवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम् ॥
1.109.02 अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा स्यालात् ।
1.109.02 अथा सोमस्य प्रयती युवभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
1.109.03 मा च्छेद्म रश्मींरिति नाधमानाः पितॄणां शक्तीरनुयच्छमानाः ।
1.109.03 इन्द्राग्निभ्यां कं वृषणो मदन्ति ता ह्यद्री धिषणाया उपस्थे ॥
1.109.04 युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति ।
1.109.04 तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पृङ्क्तमप्सु ॥
1.109.05 युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वृत्रहत्ये ।
1.109.05 तावासद्या बर्हिषि यज्ञे अस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥
1.109.06 प्र चर्षणिभ्यः पृतनाहवेषु प्र पृथिव्या रिरिचाथे दिवश्च ।
1.109.06 प्र सिन्धुभ्यः प्र गिरिभ्यो महित्वा प्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥
1.109.07 आ भरतं शिक्षतं वज्रबाहू अस्मां इन्द्राग्नी अवतं शचीभिः ।
1.109.07 इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन् ॥
1.109.08 पुरन्दरा शिक्षतं वज्रहस्तास्मां इन्द्राग्नी अवतं भरेषु ।
1.109.08 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.110.01 ततं मे अपस्तदु तायते पुनः स्वादिष्ठा धीतिरुचथाय शस्यते ।
1.110.01 अयं समुद्र इह विश्वदेव्यः स्वाहाकृतस्य समु तृप्णुत ऋभवः ॥
1.110.02 आभोगयं प्र यदिच्छन्त ऐतनापाकाः प्राञ्चो मम के चिदापयः ।
1.110.02 सौधन्वनासश्चरितस्य भूमनागच्छत सवितुर्दाशुषो गृहम् ॥
1.110.03 तत्सविता वोऽमृतत्वमासुवदगोह्यं यच्छ्रवयन्त ऐतन ।
1.110.03 त्यं चिच्चमसमसुरस्य भक्षणमेकं सन्तमकृणुता चतुर्वयम् ॥
1.110.04 विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः ।
1.110.04 सौधन्वना ऋभवः सूरचक्षसः संवत्सरे समपृच्यन्त धीतिभिः ॥
1.110.05 क्षेत्रमिव वि ममुस्तेजनेनं एकं पात्रमृभवो जेहमानम् ।
1.110.05 उपस्तुता उपमं नाधमाना अमर्त्येषु श्रव इच्छमानाः ॥
1.110.06 आ मनीषामन्तरिक्षस्य नृभ्यः स्रुचेव घृतं जुहवाम विद्मना ।
1.110.06 तरणित्वा ये पितुरस्य सश्चिर ऋभवो वाजमरुहन्दिवो रजः ॥
1.110.07 ऋभुर्न इन्द्रः शवसा नवीयानृभुर्वाजेभिर्वसुभिर्वसुर्ददिः ।
1.110.07 युष्माकं देवा अवसाहनि प्रियेऽभि तिष्ठेम पृत्सुतीरसुन्वताम् ॥
1.110.08 निश्चर्मण ऋभवो गामपिंशत सं वत्सेनासृजता मातरं पुनः ।
1.110.08 सौधन्वनासः स्वपस्यया नरो जिव्री युवाना पितराकृणोतन ॥
1.110.09 वाजेभिर्नो वाजसातावविड्ढ्यृभुमां इन्द्र चित्रमा दर्षि राधः ।
1.110.09 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.111.01 तक्षन्रथं सुवृतं विद्मनापसस्तक्षन्हरी इन्द्रवाहा वृषण्वसू ।
1.111.01 तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥
1.111.02 आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
1.111.02 यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्विन्द्रियम् ॥
1.111.03 आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
1.111.03 सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥
1.111.04 ऋभुक्षणमिन्द्रमा हुव ऊतय ऋभून्वाजान्मरुतः सोमपीतये ।
1.111.04 उभा मित्रावरुणा नूनमश्विना ते नो हिन्वन्तु सातये धिये जिषे ॥
1.111.05 ऋभुर्भराय सं शिशातु सातिं समर्यजिद्वाजो अस्मां अविष्टु ।
1.111.05 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.112.01 ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं घर्मं सुरुचं यामन्निष्टये ।
1.112.01 याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.02 युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे ।
1.112.02 याभिर्धियोऽवथः कर्मन्निष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.03 युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मज्मना ।
1.112.03 याभिर्धेनुमस्वं पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.04 याभिः परिज्मा तनयस्य मज्मना द्विमाता तूर्षु तरणिर्विभूषति ।
1.112.04 याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.05 याभी रेभं निवृतं सितमद्भ्य उद्वन्दनमैरयतं स्वर्दृशे ।
1.112.05 याभिः कण्वं प्र सिषासन्तमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.06 याभिरन्तकं जसमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः ।
1.112.06 याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.07 याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये ।
1.112.07 याभिः पृश्निगुं पुरुकुत्समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.08 याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः ।
1.112.08 याभिर्वर्तिकां ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.09 याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम् ।
1.112.09 याभिः कुत्सं श्रुतर्यं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.10 याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम् ।
1.112.10 याभिर्वशमश्व्यं प्रेणिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.11 याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशो अक्षरत् ।
1.112.11 कक्षीवन्तं स्तोतारं याभिरावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.12 याभी रसां क्षोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे ।
1.112.12 याभिस्त्रिशोक उस्रिया उदाजत ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.13 याभिः सूर्यं परियाथः परावति मन्धातारं क्षैत्रपत्येष्वावतम् ।
1.112.13 याभिर्विप्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.14 याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् ।
1.112.14 याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.15 याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः ।
1.112.15 याभिर्व्यश्वमुत पृथिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.16 याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः ।
1.112.16 याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.17 याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना ।
1.112.17 याभिः शर्यातमवथो महाधने ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.18 याभिरङ्गिरो मनसा निरण्यथोऽग्रं गच्छथो विवरे गोअर्णसः ।
1.112.18 याभिर्मनुं शूरमिषा समावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.19 याभिः पत्नीर्विमदाय न्यूहथुरा घ वा याभिररुणीरशिक्षतम् ।
1.112.19 याभिः सुदास ऊहथुः सुदेव्यं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.20 याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम् ।
1.112.20 ओम्यावतीं सुभरामृतस्तुभं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.21 याभिः कृशानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम् ।
1.112.21 मधु प्रियं भरथो यत्सरड्भ्यस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.22 याभिर्नरं गोषुयुधं नृषाह्ये क्षेत्रस्य साता तनयस्य जिन्वथः ।
1.112.22 याभी रथां अवथो याभिरर्वतस्ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.23 याभिः कुत्समार्जुनेयं शतक्रतू प्र तुर्वीतिं प्र च दभीतिमावतम् ।
1.112.23 याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥
1.112.24 अप्नस्वतीमश्विना वाचमस्मे कृतं नो दस्रा वृषणा मनीषाम् ।
1.112.24 अद्यूत्येऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ॥
1.112.25 द्युभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः ।
1.112.25 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.113.01 इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।
1.113.01 यथा प्रसूता सवितुः सवायं एवा रात्र्युषसे योनिमारैक् ॥
1.113.02 रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।
1.113.02 समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥
1.113.03 समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।
1.113.03 न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥
1.113.04 भास्वती नेत्री सूनृतानामचेति चित्रा वि दुरो न आवः ।
1.113.04 प्रार्प्या जगद्व्यु नो रायो अख्यदुषा अजीगर्भुवनानि विश्वा ॥
1.113.05 जिह्मश्ये चरितवे मघोन्याभोगय इष्टये राय उ त्वम् ।
1.113.05 दभ्रं पश्यद्भ्य उर्विया विचक्ष उषा अजीगर्भुवनानि विश्वा ॥
1.113.06 क्षत्राय त्वं श्रवसे त्वं महीया इष्टये त्वमर्थमिव त्वमित्यै ।
1.113.06 विसदृशा जीविताभिप्रचक्ष उषा अजीगर्भुवनानि विश्वा ॥
1.113.07 एषा दिवो दुहिता प्रत्यदर्शि व्युच्छन्ती युवतिः शुक्रवासाः ।
1.113.07 विश्वस्येशाना पार्थिवस्य वस्व उषो अद्येह सुभगे व्युच्छ ॥
1.113.08 परायतीनामन्वेति पाथ आयतीनां प्रथमा शश्वतीनाम् ।
1.113.08 व्युच्छन्ती जीवमुदीरयन्त्युषा मृतं कं चन बोधयन्ती ॥
1.113.09 उषो यदग्निं समिधे चकर्थ वि यदावश्चक्षसा सूर्यस्य ।
1.113.09 यन्मानुषान्यक्ष्यमाणां अजीगस्तद्देवेषु चकृषे भद्रमप्नः ॥
1.113.10 कियात्या यत्समया भवाति या व्यूषुर्याश्च नूनं व्युच्छान् ।
1.113.10 अनु पूर्वाः कृपते वावशाना प्रदीध्याना जोषमन्याभिरेति ॥
1.113.11 ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्तीमुषसं मर्त्यासः ।
1.113.11 अस्माभिरू नु प्रतिचक्ष्याभूदो ते यन्ति ये अपरीषु पश्यान् ॥
1.113.12 यावयद्द्वेषा ऋतपा ऋतेजाः सुम्नावरी सूनृता ईरयन्ती ।
1.113.12 सुमङ्गलीर्बिभ्रती देववीतिमिहाद्योषः श्रेष्ठतमा व्युच्छ ॥
1.113.13 शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी ।
1.113.13 अथो व्युच्छादुत्तरां अनु द्यूनजरामृता चरति स्वधाभिः ॥
1.113.14 व्यञ्जिभिर्दिव आतास्वद्यौदप कृष्णां निर्णिजं देव्यावः ।
1.113.14 प्रबोधयन्त्यरुणेभिरश्वैरोषा याति सुयुजा रथेन ॥
1.113.15 आवहन्ती पोष्या वार्याणि चित्रं केतुं कृणुते चेकिताना ।
1.113.15 ईयुषीणामुपमा शश्वतीनां विभातीनां प्रथमोषा व्यश्वैत् ॥
1.113.16 उदीर्ध्वं जीवो असुर्न आगादप प्रागात्तम आ ज्योतिरेति ।
1.113.16 आरैक्पन्थां यातवे सूर्यायागन्म यत्र प्रतिरन्त आयुः ॥
1.113.17 स्यूमना वाच उदियर्ति वह्नि स्तवानो रेभ उषसो विभातीः ।
1.113.17 अद्या तदुच्छ गृणते मघोन्यस्मे आयुर्नि दिदीहि प्रजावत् ॥
1.113.18 या गोमतीरुषसः सर्ववीरा व्युच्छन्ति दाशुषे मर्त्याय ।
1.113.18 वायोरिव सूनृतानामुदर्के ता अश्वदा अश्नवत्सोमसुत्वा ॥
1.113.19 माता देवानामदितेरनीकं यज्ञस्य केतुर्बृहती वि भाहि ।
1.113.19 प्रशस्तिकृद्ब्रह्मणे नो व्युच्छा नो जने जनय विश्ववारे ॥
1.113.20 यच्चित्रमप्न उषसो वहन्तीजानाय शशमानाय भद्रम् ।
1.113.20 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.114.01 इमा रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतीः ।
1.114.01 यथा शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे अस्मिन्ननातुरम् ॥
1.114.02 मृळा नो रुद्रोत नो मयस्कृधि क्षयद्वीराय नमसा विधेम ते ।
1.114.02 यच्छं च योश्च मनुरायेजे पिता तदश्याम तव रुद्र प्रणीतिषु ॥
1.114.03 अश्याम ते सुमतिं देवयज्यया क्षयद्वीरस्य तव रुद्र मीढ्वः ।
1.114.03 सुम्नायन्निद्विशो अस्माकमा चरारिष्टवीरा जुहवाम ते हविः ॥
1.114.04 त्वेषं वयं रुद्रं यज्ञसाधं वङ्कुं कविमवसे नि ह्वयामहे ।
1.114.04 आरे अस्मद्दैव्यं हेळो अस्यतु सुमतिमिद्वयमस्या वृणीमहे ॥
1.114.05 दिवो वराहमरुषं कपर्दिनं त्वेषं रूपं नमसा नि ह्वयामहे ।
1.114.05 हस्ते बिभ्रद्भेषजा वार्याणि शर्म वर्म च्छर्दिरस्मभ्यं यंसत् ॥
1.114.06 इदं पित्रे मरुतामुच्यते वचः स्वादोः स्वादीयो रुद्राय वर्धनम् ।
1.114.06 रास्वा च नो अमृत मर्तभोजनं त्मने तोकाय तनयाय मृळ ॥
1.114.07 मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् ।
1.114.07 मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥
1.114.08 मा नस्तोके तनये मा न आयौ मा नो गोषु मा नो अश्वेषु रीरिषः ।
1.114.08 वीरान्मा नो रुद्र भामितो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥
1.114.09 उप ते स्तोमान्पशुपा इवाकरं रास्वा पितर्मरुतां सुम्नमस्मे ।
1.114.09 भद्रा हि ते सुमतिर्मृळयत्तमाथा वयमव इत्ते वृणीमहे ॥
1.114.10 आरे ते गोघ्नमुत पूरुषघ्नं क्षयद्वीर सुम्नमस्मे ते अस्तु ।
1.114.10 मृळा च नो अधि च ब्रूहि देवाधा च नः शर्म यच्छ द्विबर्हाः ॥
1.114.11 अवोचाम नमो अस्मा अवस्यवः शृणोतु नो हवं रुद्रो मरुत्वान् ।
1.114.11 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.115.01 चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
1.115.01 आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥
1.115.02 सूर्यो देवीमुषसं रोचमानां मर्यो न योषामभ्येति पश्चात् ।
1.115.02 यत्रा नरो देवयन्तो युगानि वितन्वते प्रति भद्राय भद्रम् ॥
1.115.03 भद्रा अश्वा हरितः सूर्यस्य चित्रा एतग्वा अनुमाद्यासः ।
1.115.03 नमस्यन्तो दिव आ पृष्ठमस्थुः परि द्यावापृथिवी यन्ति सद्यः ॥
1.115.04 तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार ।
1.115.04 यदेदयुक्त हरितः सधस्थादाद्रात्री वासस्तनुते सिमस्मै ॥
1.115.05 तन्मित्रस्य वरुणस्याभिचक्षे सूर्यो रूपं कृणुते द्योरुपस्थे ।
1.115.05 अनन्तमन्यद्रुशदस्य पाजः कृष्णमन्यद्धरितः सं भरन्ति ॥
1.115.06 अद्या देवा उदिता सूर्यस्य निरंहसः पिपृता निरवद्यात् ।
1.115.06 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

1.116.01 नासत्याभ्यां बर्हिरिव प्र वृञ्जे स्तोमां इयर्म्यभ्रियेव वातः ।
1.116.01 यावर्भगाय विमदाय जायां सेनाजुवा न्यूहतू रथेन ॥
1.116.02 वीळुपत्मभिराशुहेमभिर्वा देवानां वा जूतिभिः शाशदाना ।
1.116.02 तद्रासभो नासत्या सहस्रमाजा यमस्य प्रधने जिगाय ॥
1.116.03 तुग्रो ह भुज्युमश्विनोदमेघे रयिं न कश्चिन्ममृवां अवाहाः ।
1.116.03 तमूहथुर्नौभिरात्मन्वतीभिरन्तरिक्षप्रुद्भिरपोदकाभिः ॥
1.116.04 तिस्रः क्षपस्त्रिरहातिव्रजद्भिर्नासत्या भुज्युमूहथुः पतङ्गैः ।
1.116.04 समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभी रथैः शतपद्भिः षळश्वैः ॥
1.116.05 अनारम्भणे तदवीरयेथामनास्थाने अग्रभणे समुद्रे ।
1.116.05 यदश्विना ऊहथुर्भुज्युमस्तं शतारित्रां नावमातस्थिवांसम् ॥
1.116.06 यमश्विना ददथुः श्वेतमश्वमघाश्वाय शश्वदित्स्वस्ति ।
1.116.06 तद्वां दात्रं महि कीर्तेन्यं भूत्पैद्वो वाजी सदमिद्धव्यो अर्यः ॥
1.116.07 युवं नरा स्तुवते पज्रियाय कक्षीवते अरदतं पुरन्धिम् ।
1.116.07 कारोतराच्छफादश्वस्य वृष्णः शतं कुम्भां असिञ्चतं सुरायाः ॥
1.116.08 हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् ।
1.116.08 ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥
1.116.09 परावतं नासत्यानुदेथामुच्चाबुध्नं चक्रथुर्जिह्मबारम् ।
1.116.09 क्षरन्नापो न पायनाय राये सहस्राय तृष्यते गोतमस्य ॥
1.116.10 जुजुरुषो नासत्योत वव्रिं प्रामुञ्चतं द्रापिमिव च्यवानात् ।
1.116.10 प्रातिरतं जहितस्यायुर्दस्रादित्पतिमकृणुतं कनीनाम् ॥
1.116.11 तद्वां नरा शंस्यं राध्यं चाभिष्टिमन्नासत्या वरूथम् ।
1.116.11 यद्विद्वांसा निधिमिवापगूळ्हमुद्दर्शतादूपथुर्वन्दनाय ॥
1.116.12 तद्वां नरा सनये दंस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् ।
1.116.12 दध्यङ्ह यन्मध्वाथर्वणो वामश्वस्य शीर्ष्णा प्र यदीमुवाच ॥
1.116.13 अजोहवीन्नासत्या करा वां महे यामन्पुरुभुजा पुरन्धिः ।
1.116.13 श्रुतं तच्छासुरिव वध्रिमत्या हिरण्यहस्तमश्विनावदत्तम् ॥
1.116.14 आस्नो वृकस्य वर्तिकामभीके युवं नरा नासत्यामुमुक्तम् ।
1.116.14 उतो कविं पुरुभुजा युवं ह कृपमाणमकृणुतं विचक्षे ॥
1.116.15 चरित्रं हि वेरिवाच्छेदि पर्णमाजा खेलस्य परितक्म्यायाम् ।
1.116.15 सद्यो जङ्घामायसीं विश्पलायै धने हिते सर्तवे प्रत्यधत्तम् ॥
1.116.16 शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार ।
1.116.16 तस्मा अक्षी नासत्या विचक्ष आधत्तं दस्रा भिषजावनर्वन् ॥
1.116.17 आ वां रथं दुहिता सूर्यस्य कार्ष्मेवातिष्ठदर्वता जयन्ती ।
1.116.17 विश्वे देवा अन्वमन्यन्त हृद्भिः समु श्रिया नासत्या सचेथे ॥
1.116.18 यदयातं दिवोदासाय वर्तिर्भरद्वाजायाश्विना हयन्ता ।
1.116.18 रेवदुवाह सचनो रथो वां वृषभश्च शिंशुमारश्च युक्ता ॥
1.116.19 रयिं सुक्षत्रं स्वपत्यमायुः सुवीर्यं नासत्या वहन्ता ।
1.116.19 आ जह्नावीं समनसोप वाजैस्त्रिरह्नो भागं दधतीमयातम् ॥
1.116.20 परिविष्टं जाहुषं विश्वतः सीं सुगेभिर्नक्तमूहथू रजोभिः ।
1.116.20 विभिन्दुना नासत्या रथेन वि पर्वतां अजरयू अयातम् ॥
1.116.21 एकस्या वस्तोरावतं रणाय वशमश्विना सनये सहस्रा ।
1.116.21 निरहतं दुच्छुना इन्द्रवन्ता पृथुश्रवसो वृषणावरातीः ॥
1.116.22 शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथुः पातवे वाः ।
1.116.22 शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥
1.116.23 अवस्यते स्तुवते कृष्णियाय ऋजूयते नासत्या शचीभिः ।
1.116.23 पशुं न नष्टमिव दर्शनाय विष्णाप्वं ददथुर्विश्वकाय ॥
1.116.24 दश रात्रीरशिवेना नव द्यूनवनद्धं श्नथितमप्स्वन्तः ।
1.116.24 विप्रुतं रेभमुदनि प्रवृक्तमुन्निन्यथुः सोममिव स्रुवेण ॥
1.116.25 प्र वां दंसांस्यश्विनाववोचमस्य पतिः स्यां सुगवः सुवीरः ।
1.116.25 उत पश्यन्नश्नुवन्दीर्घमायुरस्तमिवेज्जरिमाणं जगम्याम् ॥

1.117.01 मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् ।
1.117.01 बर्हिष्मती रातिर्विश्रिता गीरिषा यातं नासत्योप वाजैः ॥
1.117.02 यो वामश्विना मनसो जवीयान्रथः स्वश्वो विश आजिगाति ।
1.117.02 येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥
1.117.03 ऋषिं नरावंहसः पाञ्चजन्यमृबीसादत्रिं मुञ्चथो गणेन ।
1.117.03 मिनन्ता दस्योरशिवस्य माया अनुपूर्वं वृषणा चोदयन्ता ॥
1.117.04 अश्वं न गूळ्हमश्विना दुरेवैरृषिं नरा वृषणा रेभमप्सु ।
1.117.04 सं तं रिणीथो विप्रुतं दंसोभिर्न वां जूर्यन्ति पूर्व्या कृतानि ॥
1.117.05 सुषुप्वांसं न निरृतेरुपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् ।
1.117.05 शुभे रुक्मं न दर्शतं निखातमुदूपथुरश्विना वन्दनाय ॥
1.117.06 तद्वां नरा शंस्यं पज्रियेण कक्षीवता नासत्या परिज्मन् ।
1.117.06 शफादश्वस्य वाजिनो जनाय शतं कुम्भां असिञ्चतं मधूनाम् ॥
1.117.07 युवं नरा स्तुवते कृष्णियाय विष्णाप्वं ददथुर्विश्वकाय ।
1.117.07 घोषायै चित्पितृषदे दुरोणे पतिं जूर्यन्त्या अश्विनावदत्तम् ॥
1.117.08 युवं श्यावाय रुशतीमदत्तं महः क्षोणस्याश्विना कण्वाय ।
1.117.08 प्रवाच्यं तद्वृषणा कृतं वां यन्नार्षदाय श्रवो अध्यधत्तम् ॥
1.117.09 पुरू वर्पांस्यश्विना दधाना नि पेदव ऊहथुराशुमश्वम् ।
1.117.09 सहस्रसां वाजिनमप्रतीतमहिहनं श्रवस्यं तरुत्रम् ॥
1.117.10 एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः ।
1.117.10 यद्वां पज्रासो अश्विना हवन्ते यातमिषा च विदुषे च वाजम् ॥
1.117.11 सूनोर्मानेनाश्विना गृणाना वाजं विप्राय भुरणा रदन्ता ।
1.117.11 अगस्त्ये ब्रह्मणा वावृधाना सं विश्पलां नासत्यारिणीतम् ॥
1.117.12 कुह यान्ता सुष्टुतिं काव्यस्य दिवो नपाता वृषणा शयुत्रा ।
1.117.12 हिरण्यस्येव कलशं निखातमुदूपथुर्दशमे अश्विनाहन् ॥
1.117.13 युवं च्यवानमश्विना जरन्तं पुनर्युवानं चक्रथुः शचीभिः ।
1.117.13 युवो रथं दुहिता सूर्यस्य सह श्रिया नासत्यावृणीत ॥
1.117.14 युवं तुग्राय पूर्व्येभिरेवैः पुनर्मन्यावभवतं युवाना ।
1.117.14 युवं भुज्युमर्णसो निः समुद्राद्विभिरूहथुरृज्रेभिरश्वैः ॥
1.117.15 अजोहवीदश्विना तौग्र्यो वां प्रोळ्हः समुद्रमव्यथिर्जगन्वान् ।
1.117.15 निष्टमूहथुः सुयुजा रथेन मनोजवसा वृषणा स्वस्ति ॥
1.117.16 अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य ।
1.117.16 वि जयुषा ययथुः सान्वद्रेर्जातं विष्वाचो अहतं विषेण ॥
1.117.17 शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा ।
1.117.17 आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥
1.117.18 शुनमन्धाय भरमह्वयत्सा वृकीरश्विना वृषणा नरेति ।
1.117.18 जारः कनीन इव चक्षदान ऋज्राश्वः शतमेकं च मेषान् ॥
1.117.19 मही वामूतिरश्विना मयोभूरुत स्रामं धिष्ण्या सं रिणीथः ।
1.117.19 अथा युवामिदह्वयत्पुरन्धिरागच्छतं सीं वृषणाववोभिः ॥
1.117.20 अधेनुं दस्रा स्तर्यं विषक्तामपिन्वतं शयवे अश्विना गाम् ।
1.117.20 युवं शचीभिर्विमदाय जायां न्यूहथुः पुरुमित्रस्य योषाम् ॥
1.117.21 यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा ।
1.117.21 अभि दस्युं बकुरेणा धमन्तोरु ज्योतिश्चक्रथुरार्याय ॥
1.117.22 आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यैरयतम् ।
1.117.22 स वां मधु प्र वोचदृतायन्त्वाष्ट्रं यद्दस्रावपिकक्ष्यं वाम् ॥
1.117.23 सदा कवी सुमतिमा चके वां विश्वा धियो अश्विना प्रावतं मे ।
1.117.23 अस्मे रयिं नासत्या बृहन्तमपत्यसाचं श्रुत्यं रराथाम् ॥
1.117.24 हिरण्यहस्तमश्विना रराणा पुत्रं नरा वध्रिमत्या अदत्तम् ।
1.117.24 त्रिधा ह श्यावमश्विना विकस्तमुज्जीवस ऐरयतं सुदानू ॥
1.117.25 एतानि वामश्विना वीर्याणि प्र पूर्व्याण्यायवोऽवोचन् ।
1.117.25 ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथमा वदेम ॥

1.118.01 आ वां रथो अश्विना श्येनपत्वा सुमृळीकः स्ववां यात्वर्वाङ् ।
1.118.01 यो मर्त्यस्य मनसो जवीयान्त्रिवन्धुरो वृषणा वातरंहाः ॥
1.118.02 त्रिवन्धुरेण त्रिवृता रथेन त्रिचक्रेण सुवृता यातमर्वाक् ।
1.118.02 पिन्वतं गा जिन्वतमर्वतो नो वर्धयतमश्विना वीरमस्मे ॥
1.118.03 प्रवद्यामना सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
1.118.03 किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
1.118.04 आ वां श्येनासो अश्विना वहन्तु रथे युक्तास आशवः पतङ्गाः ।
1.118.04 ये अप्तुरो दिव्यासो न गृध्रा अभि प्रयो नासत्या वहन्ति ॥
1.118.05 आ वां रथं युवतिस्तिष्ठदत्र जुष्ट्वी नरा दुहिता सूर्यस्य ।
1.118.05 परि वामश्वा वपुषः पतङ्गा वयो वहन्त्वरुषा अभीके ॥
1.118.06 उद्वन्दनमैरतं दंसनाभिरुद्रेभं दस्रा वृषणा शचीभिः ।
1.118.06 निष्टौग्र्यं पारयथः समुद्रात्पुनश्च्यवानं चक्रथुर्युवानम् ॥
1.118.07 युवमत्रयेऽवनीताय तप्तमूर्जमोमानमश्विनावधत्तम् ।
1.118.07 युवं कण्वायापिरिप्ताय चक्षुः प्रत्यधत्तं सुष्टुतिं जुजुषाणा ॥
1.118.08 युवं धेनुं शयवे नाधितायापिन्वतमश्विना पूर्व्याय ।
1.118.08 अमुञ्चतं वर्तिकामंहसो निः प्रति जङ्घां विश्पलाया अधत्तम् ॥
1.118.09 युवं श्वेतं पेदव इन्द्रजूतमहिहनमश्विनादत्तमश्वम् ।
1.118.09 जोहूत्रमर्यो अभिभूतिमुग्रं सहस्रसां वृषणं वीड्वङ्गम् ॥
1.118.10 ता वां नरा स्ववसे सुजाता हवामहे अश्विना नाधमानाः ।
1.118.10 आ न उप वसुमता रथेन गिरो जुषाणा सुविताय यातम् ॥
1.118.11 आ श्येनस्य जवसा नूतनेनास्मे यातं नासत्या सजोषाः ।
1.118.11 हवे हि वामश्विना रातहव्यः शश्वत्तमाया उषसो व्युष्टौ ॥

1.119.01 आ वां रथं पुरुमायं मनोजुवं जीराश्वं यज्ञियं जीवसे हुवे ।
1.119.01 सहस्रकेतुं वनिनं शतद्वसुं श्रुष्टीवानं वरिवोधामभि प्रयः ॥
1.119.02 ऊर्ध्वा धीतिः प्रत्यस्य प्रयामन्यधायि शस्मन्समयन्त आ दिशः ।
1.119.02 स्वदामि घर्मं प्रति यन्त्यूतय आ वामूर्जानी रथमश्विनारुहत् ॥
1.119.03 सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे ।
1.119.03 युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥
1.119.04 युवं भुज्युं भुरमाणं विभिर्गतं स्वयुक्तिभिर्निवहन्ता पितृभ्य आ ।
1.119.04 यासिष्टं वर्तिर्वृषणा विजेन्यं दिवोदासाय महि चेति वामवः ॥
1.119.05 युवोरश्विना वपुषे युवायुजं रथं वाणी येमतुरस्य शर्ध्यम् ।
1.119.05 आ वां पतित्वं सख्याय जग्मुषी योषावृणीत जेन्या युवां पती ॥
1.119.06 युवं रेभं परिषूतेरुरुष्यथो हिमेन घर्मं परितप्तमत्रये ।
1.119.06 युवं शयोरवसं पिप्यथुर्गवि प्र दीर्घेण वन्दनस्तार्यायुषा ॥
1.119.07 युवं वन्दनं निरृतं जरण्यया रथं न दस्रा करणा समिन्वथः ।
1.119.07 क्षेत्रादा विप्रं जनथो विपन्यया प्र वामत्र विधते दंसना भुवत् ॥
1.119.08 अगच्छतं कृपमाणं परावति पितुः स्वस्य त्यजसा निबाधितम् ।
1.119.08 स्वर्वतीरित ऊतीर्युवोरह चित्रा अभीके अभवन्नभिष्टयः ॥
1.119.09 उत स्या वां मधुमन्मक्षिकारपन्मदे सोमस्यौशिजो हुवन्यति ।
1.119.09 युवं दधीचो मन आ विवासथोऽथा शिरः प्रति वामश्व्यं वदत् ॥
1.119.10 युवं पेदवे पुरुवारमश्विना स्पृधां श्वेतं तरुतारं दुवस्यथः ।
1.119.10 शर्यैरभिद्युं पृतनासु दुष्टरं चर्कृत्यमिन्द्रमिव चर्षणीसहम् ॥

1.120.01 का राधद्धोत्राश्विना वां को वां जोष उभयोः ।
1.120.01 कथा विधात्यप्रचेताः ॥
1.120.02 विद्वांसाविद्दुरः पृच्छेदविद्वानित्थापरो अचेताः ।
1.120.02 नू चिन्नु मर्ते अक्रौ ॥
1.120.03 ता विद्वांसा हवामहे वां ता नो विद्वांसा मन्म वोचेतमद्य ।
1.120.03 प्रार्चद्दयमानो युवाकुः ॥
1.120.04 वि पृच्छामि पाक्या न देवान्वषट्कृतस्याद्भुतस्य दस्रा ।
1.120.04 पातं च सह्यसो युवं च रभ्यसो नः ॥
1.120.05 प्र या घोषे भृगवाणे न शोभे यया वाचा यजति पज्रियो वाम् ।
1.120.05 प्रैषयुर्न विद्वान् ॥
1.120.06 श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् ।
1.120.06 आक्षी शुभस्पती दन् ॥
1.120.07 युवं ह्यास्तं महो रन्युवं वा यन्निरततंसतम् ।
1.120.07 ता नो वसू सुगोपा स्यातं पातं नो वृकादघायोः ॥
1.120.08 मा कस्मै धातमभ्यमित्रिणे नो माकुत्रा नो गृहेभ्यो धेनवो गुः ।
1.120.08 स्तनाभुजो अशिश्वीः ॥
1.120.09 दुहीयन्मित्रधितये युवाकु राये च नो मिमीतं वाजवत्यै ।
1.120.09 इषे च नो मिमीतं धेनुमत्यै ॥
1.120.10 अश्विनोरसनं रथमनश्वं वाजिनीवतोः ।
1.120.10 तेनाहं भूरि चाकन ॥
1.120.11 अयं समह मा तनूह्याते जनां अनु ।
1.120.11 सोमपेयं सुखो रथः ॥
1.120.12 अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवतः ।
1.120.12 उभा ता बस्रि नश्यतः ॥

1.121.01 कदित्था नॄंः पात्रं देवयतां श्रवद्गिरो अङ्गिरसां तुरण्यन् ।
1.121.01 प्र यदानड्विश आ हर्म्यस्योरु क्रंसते अध्वरे यजत्रः ॥
1.121.02 स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः ।
1.121.02 अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः ॥
1.121.03 नक्षद्धवमरुणीः पूर्व्यं राट्तुरो विशामङ्गिरसामनु द्यून् ।
1.121.03 तक्षद्वज्रं नियुतं तस्तम्भद्द्यां चतुष्पदे नर्याय द्विपादे ॥
1.121.04 अस्य मदे स्वर्यं दा ऋतायापीवृतमुस्रियाणामनीकम् ।
1.121.04 यद्ध प्रसर्गे त्रिककुं निवर्तदप द्रुहो मानुषस्य दुरो वः ॥
1.121.05 तुभ्यं पयो यत्पितरावनीतां राधः सुरेतस्तुरणे भुरण्यू ।
1.121.05 शुचि यत्ते रेक्ण आयजन्त सबर्दुघायाः पय उस्रियायाः ॥
1.121.06 अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूरः ।
1.121.06 इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥
1.121.07 स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः ।
1.121.07 यद्ध प्रभासि कृत्व्यां अनु द्यूननर्विशे पश्विषे तुराय ॥
1.121.08 अष्टा महो दिव आदो हरी इह द्युम्नासाहमभि योधान उत्सम् ।
1.121.08 हरिं यत्ते मन्दिनं दुक्षन्वृधे गोरभसमद्रिभिर्वाताप्यम् ॥
1.121.09 त्वमायसं प्रति वर्तयो गोर्दिवो अश्मानमुपनीतमृभ्वा ।
1.121.09 कुत्साय यत्र पुरुहूत वन्वञ्छुष्णमनन्तैः परियासि वधैः ॥
1.121.10 पुरा यत्सूरस्तमसो अपीतेस्तमद्रिवः फलिगं हेतिमस्य ।
1.121.10 शुष्णस्य चित्परिहितं यदोजो दिवस्परि सुग्रथितं तदादः ॥
1.121.11 अनु त्वा मही पाजसी अचक्रे द्यावाक्षामा मदतामिन्द्र कर्मन् ।
1.121.11 त्वं वृत्रमाशयानं सिरासु महो वज्रेण सिष्वपो वराहुम् ॥
1.121.12 त्वमिन्द्र नर्यो यां अवो नॄन्तिष्ठा वातस्य सुयुजो वहिष्ठान् ।
1.121.12 यं ते काव्य उशना मन्दिनं दाद्वृत्रहणं पार्यं ततक्ष वज्रम् ॥
1.121.13 त्वं सूरो हरितो रामयो नॄन्भरच्चक्रमेतशो नायमिन्द्र ।
1.121.13 प्रास्य पारं नवतिं नाव्यानामपि कर्तमवर्तयोऽयज्यून् ॥
1.121.14 त्वं नो अस्या इन्द्र दुर्हणायाः पाहि वज्रिवो दुरितादभीके ।
1.121.14 प्र नो वाजान्रथ्यो अश्वबुध्यानिषे यन्धि श्रवसे सूनृतायै ॥
1.121.15 मा सा ते अस्मत्सुमतिर्वि दसद्वाजप्रमहः समिषो वरन्त ।
1.121.15 आ नो भज मघवन्गोष्वर्यो मंहिष्ठास्ते सधमादः स्याम ॥

1.122.01 प्र वः पान्तं रघुमन्यवोऽन्धो यज्ञं रुद्राय मीळ्हुषे भरध्वम् ।
1.122.01 दिवो अस्तोष्यसुरस्य वीरैरिषुध्येव मरुतो रोदस्योः ॥
1.122.02 पत्नीव पूर्वहूतिं वावृधध्या उषासानक्ता पुरुधा विदाने ।
1.122.02 स्तरीर्नात्कं व्युतं वसाना सूर्यस्य श्रिया सुदृशी हिरण्यैः ॥
1.122.03 ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् ।
1.122.03 शिशीतमिन्द्रापर्वता युवं नस्तन्नो विश्वे वरिवस्यन्तु देवाः ॥
1.122.04 उत त्या मे यशसा श्वेतनायै व्यन्ता पान्तौशिजो हुवध्यै ।
1.122.04 प्र वो नपातमपां कृणुध्वं प्र मातरा रास्पिनस्यायोः ॥
1.122.05 आ वो रुवण्युमौशिजो हुवध्यै घोषेव शंसमर्जुनस्य नंशे ।
1.122.05 प्र वः पूष्णे दावन आं अच्छा वोचेय वसुतातिमग्नेः ॥
1.122.06 श्रुतं मे मित्रावरुणा हवेमोत श्रुतं सदने विश्वतः सीम् ।
1.122.06 श्रोतु नः श्रोतुरातिः सुश्रोतुः सुक्षेत्रा सिन्धुरद्भिः ॥
1.122.07 स्तुषे सा वां वरुण मित्र रातिर्गवां शता पृक्षयामेषु पज्रे ।
1.122.07 श्रुतरथे प्रियरथे दधानाः सद्यः पुष्टिं निरुन्धानासो अग्मन् ॥
1.122.08 अस्य स्तुषे महिमघस्य राधः सचा सनेम नहुषः सुवीराः ।
1.122.08 जनो यः पज्रेभ्यो वाजिनीवानश्वावतो रथिनो मह्यं सूरिः ॥
1.122.09 जनो यो मित्रावरुणावभिध्रुगपो न वां सुनोत्यक्ष्णयाध्रुक् ।
1.122.09 स्वयं स यक्ष्मं हृदये नि धत्त आप यदीं होत्राभिरृतावा ॥
1.122.10 स व्राधतो नहुषो दंसुजूतः शर्धस्तरो नरां गूर्तश्रवाः ।
1.122.10 विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूरः ॥
1.122.11 अध ग्मन्ता नहुषो हवं सूरेः श्रोता राजानो अमृतस्य मन्द्राः ।
1.122.11 नभोजुवो यन्निरवस्य राधः प्रशस्तये महिना रथवते ॥
1.122.12 एतं शर्धं धाम यस्य सूरेरित्यवोचन्दशतयस्य नंशे ।
1.122.12 द्युम्नानि येषु वसुताती रारन्विश्वे सन्वन्तु प्रभृथेषु वाजम् ॥
1.122.13 मन्दामहे दशतयस्य धासेर्द्विर्यत्पञ्च बिभ्रतो यन्त्यन्ना ।
1.122.13 किमिष्टाश्व इष्टरश्मिरेत ईशानासस्तरुष ऋञ्जते नॄन् ॥
1.122.14 हिरण्यकर्णं मणिग्रीवमर्णस्तन्नो विश्वे वरिवस्यन्तु देवाः ।
1.122.14 अर्यो गिरः सद्य आ जग्मुषीरोस्राश्चाकन्तूभयेष्वस्मे ॥
1.122.15 चत्वारो मा मशर्शारस्य शिश्वस्त्रयो राज्ञ आयवसस्य जिष्णोः ।
1.122.15 रथो वां मित्रावरुणा दीर्घाप्साः स्यूमगभस्तिः सूरो नाद्यौत् ॥

1.123.01 पृथू रथो दक्षिणाया अयोज्यैनं देवासो अमृतासो अस्थुः ।
1.123.01 कृष्णादुदस्थादर्या विहायाश्चिकित्सन्ती मानुषाय क्षयाय ॥
1.123.02 पूर्वा विश्वस्माद्भुवनादबोधि जयन्ती वाजं बृहती सनुत्री ।
1.123.02 उच्चा व्यख्यद्युवतिः पुनर्भूरोषा अगन्प्रथमा पूर्वहूतौ ॥
1.123.03 यदद्य भागं विभजासि नृभ्य उषो देवि मर्त्यत्रा सुजाते ।
1.123.03 देवो नो अत्र सविता दमूना अनागसो वोचति सूर्याय ॥
1.123.04 गृहंगृहमहना यात्यच्छा दिवेदिवे अधि नामा दधाना ।
1.123.04 सिषासन्ती द्योतना शश्वदागादग्रमग्रमिद्भजते वसूनाम् ॥
1.123.05 भगस्य स्वसा वरुणस्य जामिरुषः सूनृते प्रथमा जरस्व ।
1.123.05 पश्चा स दघ्या यो अघस्य धाता जयेम तं दक्षिणया रथेन ॥
1.123.06 उदीरतां सूनृता उत्पुरन्धीरुदग्नयः शुशुचानासो अस्थुः ।
1.123.06 स्पार्हा वसूनि तमसापगूळ्हाविष्कृण्वन्त्युषसो विभातीः ॥
1.123.07 अपान्यदेत्यभ्यन्यदेति विषुरूपे अहनी सं चरेते ।
1.123.07 परिक्षितोस्तमो अन्या गुहाकरद्यौदुषाः शोशुचता रथेन ॥
1.123.08 सदृशीरद्य सदृशीरिदु श्वो दीर्घं सचन्ते वरुणस्य धाम ।
1.123.08 अनवद्यास्त्रिंशतं योजनान्येकैका क्रतुं परि यन्ति सद्यः ॥
1.123.09 जानत्यह्नः प्रथमस्य नाम शुक्रा कृष्णादजनिष्ट श्वितीची ।
1.123.09 ऋतस्य योषा न मिनाति धामाहरहर्निष्कृतमाचरन्ती ॥
1.123.10 कन्येव तन्वा शाशदानां एषि देवि देवमियक्षमाणम् ।
1.123.10 संस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती ॥
1.123.11 सुसंकाशा मातृमृष्टेव योषाविस्तन्वं कृणुषे दृशे कम् ।
1.123.11 भद्रा त्वमुषो वितरं व्युच्छ न तत्ते अन्या उषसो नशन्त ॥
1.123.12 अश्वावतीर्गोमतीर्विश्ववारा यतमाना रश्मिभिः सूर्यस्य ।
1.123.12 परा च यन्ति पुनरा च यन्ति भद्रा नाम वहमाना उषासः ॥
1.123.13 ऋतस्य रश्मिमनुयच्छमाना भद्रम्भद्रं क्रतुमस्मासु धेहि ।
1.123.13 उषो नो अद्य सुहवा व्युच्छास्मासु रायो मघवत्सु च स्युः ॥

1.124.01 उषा उच्छन्ती समिधाने अग्ना उद्यन्सूर्य उर्विया ज्योतिरश्रेत् ।
1.124.01 देवो नो अत्र सविता न्वर्थं प्रासावीद्द्विपत्प्र चतुष्पदित्यै ॥
1.124.02 अमिनती दैव्यानि व्रतानि प्रमिनती मनुष्या युगानि ।
1.124.02 ईयुषीणामुपमा शश्वतीनामायतीनां प्रथमोषा व्यद्यौत् ॥
1.124.03 एषा दिवो दुहिता प्रत्यदर्शि ज्योतिर्वसाना समना पुरस्तात् ।
1.124.03 ऋतस्य पन्थामन्वेति साधु प्रजानतीव न दिशो मिनाति ॥
1.124.04 उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि ।
1.124.04 अद्मसन्न ससतो बोधयन्ती शश्वत्तमागात्पुनरेयुषीणाम् ॥
1.124.05 पूर्वे अर्धे रजसो अप्त्यस्य गवां जनित्र्यकृत प्र केतुम् ।
1.124.05 व्यु प्रथते वितरं वरीय ओभा पृणन्ती पित्रोरुपस्था ॥
1.124.06 एवेदेषा पुरुतमा दृशे कं नाजामिं न परि वृणक्ति जामिम् ।
1.124.06 अरेपसा तन्वा शाशदाना नार्भादीषते न महो विभाती ॥
1.124.07 अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् ।
1.124.07 जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥
1.124.08 स्वसा स्वस्रे ज्यायस्यै योनिमारैगपैत्यस्याः प्रतिचक्ष्येव ।
1.124.08 व्युच्छन्ती रश्मिभिः सूर्यस्याञ्ज्यङ्क्ते समनगा इव व्राः ॥
1.124.09 आसां पूर्वासामहसु स्वसॄणामपरा पूर्वामभ्येति पश्चात् ।
1.124.09 ताः प्रत्नवन्नव्यसीर्नूनमस्मे रेवदुच्छन्तु सुदिना उषासः ॥
1.124.10 प्र बोधयोषः पृणतो मघोन्यबुध्यमानाः पणयः ससन्तु ।
1.124.10 रेवदुच्छ मघवद्भ्यो मघोनि रेवत्स्तोत्रे सूनृते जारयन्ती ॥
1.124.11 अवेयमश्वैद्युवतिः पुरस्ताद्युङ्क्ते गवामरुणानामनीकम् ।
1.124.11 वि नूनमुच्छादसति प्र केतुर्गृहंगृहमुप तिष्ठाते अग्निः ॥
1.124.12 उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
1.124.12 अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥
1.124.13 अस्तोढ्वं स्तोम्या ब्रह्मणा मेऽवीवृधध्वमुशतीरुषासः ।
1.124.13 युष्माकं देवीरवसा सनेम सहस्रिणं च शतिनं च वाजम् ॥

1.125.01 प्राता रत्नं प्रातरित्वा दधाति तं चिकित्वान्प्रतिगृह्या नि धत्ते ।
1.125.01 तेन प्रजां वर्धयमान आयू रायस्पोषेण सचते सुवीरः ॥
1.125.02 सुगुरसत्सुहिरण्यः स्वश्वो बृहदस्मै वय इन्द्रो दधाति ।
1.125.02 यस्त्वायन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥
1.125.03 आयमद्य सुकृतं प्रातरिच्छन्निष्टेः पुत्रं वसुमता रथेन ।
1.125.03 अंशोः सुतं पायय मत्सरस्य क्षयद्वीरं वर्धय सूनृताभिः ॥
1.125.04 उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः ।
1.125.04 पृणन्तं च पपुरिं च श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
1.125.05 नाकस्य पृष्ठे अधि तिष्ठति श्रितो यः पृणाति स ह देवेषु गच्छति ।
1.125.05 तस्मा आपो घृतमर्षन्ति सिन्धवस्तस्मा इयं दक्षिणा पिन्वते सदा ॥
1.125.06 दक्षिणावतामिदिमानि चित्रा दक्षिणावतां दिवि सूर्यासः ।
1.125.06 दक्षिणावन्तो अमृतं भजन्ते दक्षिणावन्तः प्र तिरन्त आयुः ॥
1.125.07 मा पृणन्तो दुरितमेन आरन्मा जारिषुः सूरयः सुव्रतासः ।
1.125.07 अन्यस्तेषां परिधिरस्तु कश्चिदपृणन्तमभि सं यन्तु शोकाः ॥

1.126.01 अमन्दान्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य ।
1.126.01 यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥
1.126.02 शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयतान्सद्य आदम् ।
1.126.02 शतं कक्षीवां असुरस्य गोनां दिवि श्रवोऽजरमा ततान ॥
1.126.03 उप मा श्यावाः स्वनयेन दत्ता वधूमन्तो दश रथासो अस्थुः ।
1.126.03 षष्टिः सहस्रमनु गव्यमागात्सनत्कक्षीवां अभिपित्वे अह्नाम् ॥
1.126.04 चत्वारिंशद्दशरथस्य शोणाः सहस्रस्याग्रे श्रेणिं नयन्ति ।
1.126.04 मदच्युतः कृशनावतो अत्यान्कक्षीवन्त उदमृक्षन्त पज्राः ॥
1.126.05 पूर्वामनु प्रयतिमा ददे वस्त्रीन्युक्तां अष्टावरिधायसो गाः ।
1.126.05 सुबन्धवो ये विश्या इव व्रा अनस्वन्तः श्रव ऐषन्त पज्राः ॥
1.126.06 आगधिता परिगधिता या कशीकेव जङ्गहे ।
1.126.06 ददाति मह्यं यादुरी याशूनां भोज्या शता ॥
1.126.07 उपोप मे परा मृश मा मे दभ्राणि मन्यथाः ।
1.126.07 सर्वाहमस्मि रोमशा गन्धारीणामिवाविका ॥

1.127.01 अग्निं होतारं मन्ये दास्वन्तं वसुं सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।
1.127.01 य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
1.127.01 घृतस्य विभ्राष्टिमनु वष्टि शोचिषाजुह्वानस्य सर्पिषः ॥
1.127.02 यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्र मन्मभिः ।
1.127.02 परिज्मानमिव द्यां होतारं चर्षणीनाम् ।
1.127.02 शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥
1.127.03 स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।
1.127.03 वीळु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरम् ।
1.127.03 निःषहमाणो यमते नायते धन्वासहा नायते ॥
1.127.04 दृळ्हा चिदस्मा अनु दुर्यथा विदे तेजिष्ठाभिररणिभिर्दाष्ट्यवसेऽग्नये दाष्ट्यवसे ।
1.127.04 प्र यः पुरूणि गाहते तक्षद्वनेव शोचिषा ।
1.127.04 स्थिरा चिदन्ना नि रिणात्योजसा नि स्थिराणि चिदोजसा ॥
1.127.05 तमस्य पृक्षमुपरासु धीमहि नक्तं यः सुदर्शतरो दिवातरादप्रायुषे दिवातरात् ।
1.127.05 आदस्यायुर्ग्रभणवद्वीळु शर्म न सूनवे ।
1.127.05 भक्तमभक्तमवो व्यन्तो अजरा अग्नयो व्यन्तो अजराः ॥
1.127.06 स हि शर्धो न मारुतं तुविष्वणिरप्नस्वतीषूर्वरास्विष्टनिरार्तनास्विष्टनिः ।
1.127.06 आदद्धव्यान्याददिर्यज्ञस्य केतुरर्हणा ।
1.127.06 अध स्मास्य हर्षतो हृषीवतो विश्वे जुषन्त पन्थां नरः शुभे न पन्थाम् ॥
1.127.07 द्विता यदीं कीस्तासो अभिद्यवो नमस्यन्त उपवोचन्त भृगवो मथ्नन्तो दाशा भृगवः ।
1.127.07 अग्निरीशे वसूनां शुचिर्यो धर्णिरेषाम् ।
1.127.07 प्रियां अपिधींर्वनिषीष्ट मेधिर आ वनिषीष्ट मेधिरः ॥
1.127.08 विश्वासां त्वा विशां पतिं हवामहे सर्वासां समानं दम्पतिं भुजे सत्यगिर्वाहसं भुजे ।
1.127.08 अतिथिं मानुषाणां पितुर्न यस्यासया ।
1.127.08 अमी च विश्वे अमृतास आ वयो हव्या देवेष्वा वयः ॥
1.127.09 त्वमग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर्न देवतातये ।
1.127.09 शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
1.127.09 अध स्मा ते परि चरन्त्यजर श्रुष्टीवानो नाजर ॥
1.127.10 प्र वो महे सहसा सहस्वत उषर्बुधे पशुषे नाग्नये स्तोमो बभूत्वग्नये ।
1.127.10 प्रति यदीं हविष्मान्विश्वासु क्षासु जोगुवे ।
1.127.10 अग्रे रेभो न जरत ऋषूणां जूर्णिर्होत ऋषूणाम् ॥
1.127.11 स नो नेदिष्ठं ददृशान आ भराग्ने देवेभिः सचनाः सुचेतुना महो रायः सुचेतुना ।
1.127.11 महि शविष्ठ नस्कृधि संचक्षे भुजे अस्यै ।
1.127.11 महि स्तोतृभ्यो मघवन्सुवीर्यं मथीरुग्रो न शवसा ॥

1.128.01 अयं जायत मनुषो धरीमणि होता यजिष्ठ उशिजामनु व्रतमग्निः स्वमनु व्रतम् ।
1.128.01 विश्वश्रुष्टिः सखीयते रयिरिव श्रवस्यते ।
1.128.01 अदब्धो होता नि षददिळस्पदे परिवीत इळस्पदे ॥
1.128.02 तं यज्ञसाधमपि वातयामस्यृतस्य पथा नमसा हविष्मता देवताता हविष्मता ।
1.128.02 स न ऊर्जामुपाभृत्यया कृपा न जूर्यति ।
1.128.02 यं मातरिश्वा मनवे परावतो देवं भाः परावतः ॥
1.128.03 एवेन सद्यः पर्येति पार्थिवं मुहुर्गी रेतो वृषभः कनिक्रदद्दधद्रेतः कनिक्रदत् ।
1.128.03 शतं चक्षाणो अक्षभिर्देवो वनेषु तुर्वणिः ।
1.128.03 सदो दधान उपरेषु सानुष्वग्निः परेषु सानुषु ॥
1.128.04 स सुक्रतुः पुरोहितो दमेदमेऽग्निर्यज्ञस्याध्वरस्य चेतति क्रत्वा यज्ञस्य चेतति ।
1.128.04 क्रत्वा वेधा इषूयते विश्वा जातानि पस्पशे ।
1.128.04 यतो घृतश्रीरतिथिरजायत वह्निर्वेधा अजायत ॥
1.128.05 क्रत्वा यदस्य तविषीषु पृञ्चतेऽग्नेरवेण मरुतां न भोज्येषिराय न भोज्या ।
1.128.05 स हि ष्मा दानमिन्वति वसूनां च मज्मना ।
1.128.05 स नस्त्रासते दुरितादभिह्रुतः शंसादघादभिह्रुतः ॥
1.128.06 विश्वो विहाया अरतिर्वसुर्दधे हस्ते दक्षिणे तरणिर्न शिश्रथच्छ्रवस्यया न शिश्रथत् ।
1.128.06 विश्वस्मा इदिषुध्यते देवत्रा हव्यमोहिषे ।
1.128.06 विश्वस्मा इत्सुकृते वारमृण्वत्यग्निर्द्वारा व्यृण्वति ॥
1.128.07 स मानुषे वृजने शन्तमो हितोऽग्निर्यज्ञेषु जेन्यो न विश्पतिः प्रियो यज्ञेषु विश्पतिः ।
1.128.07 स हव्या मानुषाणामिळा कृतानि पत्यते ।
1.128.07 स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥
1.128.08 अग्निं होतारमीळते वसुधितिं प्रियं चेतिष्ठमरतिं न्येरिरे हव्यवाहं न्येरिरे ।
1.128.08 विश्वायुं विश्ववेदसं होतारं यजतं कविम् ।
1.128.08 देवासो रण्वमवसे वसूयवो गीर्भी रण्वं वसूयवः ॥

1.129.01 यं त्वं रथमिन्द्र मेधसातयेऽपाका सन्तमिषिर प्रणयसि प्रानवद्य नयसि ।
1.129.01 सद्यश्चित्तमभिष्टये करो वशश्च वाजिनम् ।
1.129.01 सास्माकमनवद्य तूतुजान वेधसामिमां वाचं न वेधसाम् ॥
1.129.02 स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभिः ।
1.129.02 यः शूरैः स्वः सनिता यो विप्रैर्वाजं तरुता ।
1.129.02 तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥
1.129.03 दस्मो हि ष्मा वृषणं पिन्वसि त्वचं कं चिद्यावीरररुं शूर मर्त्यं परिवृणक्षि मर्त्यम् ।
1.129.03 इन्द्रोत तुभ्यं तद्दिवे तद्रुद्राय स्वयशसे ।
1.129.03 मित्राय वोचं वरुणाय सप्रथः सुमृळीकाय सप्रथः ॥
1.129.04 अस्माकं व इन्द्रमुश्मसीष्टये सखायं विश्वायुं प्रासहं युजं वाजेषु प्रासहं युजम् ।
1.129.04 अस्माकं ब्रह्मोतयेऽवा पृत्सुषु कासु चित् ।
1.129.04 नहि त्वा शत्रु स्तरते स्तृणोषि यं विश्वं शत्रुं स्तृणोषि यम् ॥
1.129.05 नि षू नमातिमतिं कयस्य चित्तेजिष्ठाभिररणिभिर्नोतिभिरुग्राभिरुग्रोतिभिः ।
1.129.05 नेषि णो यथा पुरानेनाः शूर मन्यसे ।
1.129.05 विश्वानि पूरोरप पर्षि वह्निरासा वह्निर्नो अच्छ ॥
1.129.06 प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति ।
1.129.06 स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् ।
1.129.06 अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥
1.129.07 वनेम तद्धोत्रया चितन्त्या वनेम रयिं रयिवः सुवीर्यं रण्वं सन्तं सुवीर्यम् ।
1.129.07 दुर्मन्मानं सुमन्तुभिरेमिषा पृचीमहि ।
1.129.07 आ सत्याभिरिन्द्रं द्युम्नहूतिभिर्यजत्रं द्युम्नहूतिभिः ॥
1.129.08 प्रप्रा वो अस्मे स्वयशोभिरूती परिवर्ग इन्द्रो दुर्मतीनां दरीमन्दुर्मतीनाम् ।
1.129.08 स्वयं सा रिषयध्यै या न उपेषे अत्रैः ।
1.129.08 हतेमसन्न वक्षति क्षिप्ता जूर्णिर्न वक्षति ॥
1.129.09 त्वं न इन्द्र राया परीणसा याहि पथां अनेहसा पुरो याह्यरक्षसा ।
1.129.09 सचस्व नः पराक आ सचस्वास्तमीक आ ।
1.129.09 पाहि नो दूरादारादभिष्टिभिः सदा पाह्यभिष्टिभिः ॥
1.129.10 त्वं न इन्द्र राया तरूषसोग्रं चित्त्वा महिमा सक्षदवसे महे मित्रं नावसे ।
1.129.10 ओजिष्ठ त्रातरविता रथं कं चिदमर्त्य ।
1.129.10 अन्यमस्मद्रिरिषेः कं चिदद्रिवो रिरिक्षन्तं चिदद्रिवः ॥
1.129.11 पाहि न इन्द्र सुष्टुत स्रिधोऽवयाता सदमिद्दुर्मतीनां देवः सन्दुर्मतीनाम् ।
1.129.11 हन्ता पापस्य रक्षसस्त्राता विप्रस्य मावतः ।
1.129.11 अधा हि त्वा जनिता जीजनद्वसो रक्षोहणं त्वा जीजनद्वसो ॥

1.130.01 एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्तं राजेव सत्पतिः ।
1.130.01 हवामहे त्वा वयं प्रयस्वन्तः सुते सचा ।
1.130.01 पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ॥
1.130.02 पिबा सोममिन्द्र सुवानमद्रिभिः कोशेन सिक्तमवतं न वंसगस्तातृषाणो न वंसगः ।
1.130.02 मदाय हर्यताय ते तुविष्टमाय धायसे ।
1.130.02 आ त्वा यच्छन्तु हरितो न सूर्यमहा विश्वेव सूर्यम् ॥
1.130.03 अविन्दद्दिवो निहितं गुहा निधिं वेर्न गर्भं परिवीतमश्मन्यनन्ते अन्तरश्मनि ।
1.130.03 व्रजं वज्री गवामिव सिषासन्नङ्गिरस्तमः ।
1.130.03 अपावृणोदिष इन्द्रः परीवृता द्वार इषः परीवृताः ॥
1.130.04 दादृहाणो वज्रमिन्द्रो गभस्त्योः क्षद्मेव तिग्ममसनाय सं श्यदहिहत्याय सं श्यत् ।
1.130.04 संविव्यान ओजसा शवोभिरिन्द्र मज्मना ।
1.130.04 तष्टेव वृक्षं वनिनो नि वृश्चसि परश्वेव नि वृश्चसि ॥
1.130.05 त्वं वृथा नद्य इन्द्र सर्तवेऽच्छा समुद्रमसृजो रथां इव वाजयतो रथां इव ।
1.130.05 इत ऊतीरयुञ्जत समानमर्थमक्षितम् ।
1.130.05 धेनूरिव मनवे विश्वदोहसो जनाय विश्वदोहसः ॥
1.130.06 इमां ते वाचं वसूयन्त आयवो रथं न धीरः स्वपा अतक्षिषुः सुम्नाय त्वामतक्षिषुः ।
1.130.06 शुम्भन्तो जेन्यं यथा वाजेषु विप्र वाजिनम् ।
1.130.06 अत्यमिव शवसे सातये धना विश्वा धनानि सातये ॥
1.130.07 भिनत्पुरो नवतिमिन्द्र पूरवे दिवोदासाय महि दाशुषे नृतो वज्रेण दाशुषे नृतो ।
1.130.07 अतिथिग्वाय शम्बरं गिरेरुग्रो अवाभरत् ।
1.130.07 महो धनानि दयमान ओजसा विश्वा धनान्योजसा ॥
1.130.08 इन्द्रः समत्सु यजमानमार्यं प्रावद्विश्वेषु शतमूतिराजिषु स्वर्मीळ्हेष्वाजिषु ।
1.130.08 मनवे शासदव्रतान्त्वचं कृष्णामरन्धयत् ।
1.130.08 दक्षन्न विश्वं ततृषाणमोषति न्यर्शसानमोषति ॥
1.130.09 सूरश्चक्रं प्र वृहज्जात ओजसा प्रपित्वे वाचमरुणो मुषायतीशान आ मुषायति ।
1.130.09 उशना यत्परावतोऽजगन्नूतये कवे ।
1.130.09 सुम्नानि विश्वा मनुषेव तुर्वणिरहा विश्वेव तुर्वणिः ॥
1.130.10 स नो नव्येभिर्वृषकर्मन्नुक्थैः पुरां दर्तः पायुभिः पाहि शग्मैः ।
1.130.10 दिवोदासेभिरिन्द्र स्तवानो वावृधीथा अहोभिरिव द्यौः ॥

1.131.01 इन्द्राय हि द्यौरसुरो अनम्नतेन्द्राय मही पृथिवी वरीमभिर्द्युम्नसाता वरीमभिः ।
1.131.01 इन्द्रं विश्वे सजोषसो देवासो दधिरे पुरः ।
1.131.01 इन्द्राय विश्वा सवनानि मानुषा रातानि सन्तु मानुषा ॥
1.131.02 विश्वेषु हि त्वा सवनेषु तुञ्जते समानमेकं वृषमण्यवः पृथक्स्वः सनिष्यवः पृथक् ।
1.131.02 तं त्वा नावं न पर्षणिं शूषस्य धुरि धीमहि ।
1.131.02 इन्द्रं न यज्ञैश्चितयन्त आयव स्तोमेभिरिन्द्रमायवः ॥
1.131.03 वि त्वा ततस्रे मिथुना अवस्यवो व्रजस्य साता गव्यस्य निःसृजः सक्षन्त इन्द्र निःसृजः ।
1.131.03 यद्गव्यन्ता द्वा जना स्वर्यन्ता समूहसि ।
1.131.03 आविष्करिक्रद्वृषणं सचाभुवं वज्रमिन्द्र सचाभुवम् ॥
1.131.04 विदुष्टे अस्य वीर्यस्य पूरवः पुरो यदिन्द्र शारदीरवातिरः सासहानो अवातिरः ।
1.131.04 शासस्तमिन्द्र मर्त्यमयज्युं शवसस्पते ।
1.131.04 महीममुष्णाः पृथिवीमिमा अपो मन्दसान इमा अपः ॥
1.131.05 आदित्ते अस्य वीर्यस्य चर्किरन्मदेषु वृषन्नुशिजो यदाविथ सखीयतो यदाविथ ।
1.131.05 चकर्थ कारमेभ्यः पृतनासु प्रवन्तवे ।
1.131.05 ते अन्यामन्यां नद्यं सनिष्णत श्रवस्यन्तः सनिष्णत ॥
1.131.06 उतो नो अस्या उषसो जुषेत ह्यर्कस्य बोधि हविषो हवीमभिः स्वर्षाता हवीमभिः ।
1.131.06 यदिन्द्र हन्तवे मृधो वृषा वज्रिञ्चिकेतसि ।
1.131.06 आ मे अस्य वेधसो नवीयसो मन्म श्रुधि नवीयसः ॥
1.131.07 त्वं तमिन्द्र वावृधानो अस्मयुरमित्रयन्तं तुविजात मर्त्यं वज्रेण शूर मर्त्यम् ।
1.131.07 जहि यो नो अघायति शृणुष्व सुश्रवस्तमः ।
1.131.07 रिष्टं न यामन्नप भूतु दुर्मतिर्विश्वाप भूतु दुर्मतिः ॥

1.132.01 त्वया वयं मघवन्पूर्व्ये धन इन्द्रत्वोताः सासह्याम पृतन्यतो वनुयाम वनुष्यतः ।
1.132.01 नेदिष्ठे अस्मिन्नहन्यधि वोचा नु सुन्वते ।
1.132.01 अस्मिन्यज्ञे वि चयेमा भरे कृतं वाजयन्तो भरे कृतम् ॥
1.132.02 स्वर्जेषे भर आप्रस्य वक्मन्युषर्बुधः स्वस्मिन्नञ्जसि क्राणस्य स्वस्मिन्नञ्जसि ।
1.132.02 अहन्निन्द्रो यथा विदे शीर्ष्णाशीर्ष्णोपवाच्यः ।
1.132.02 अस्मत्रा ते सध्र्यक्सन्तु रातयो भद्रा भद्रस्य रातयः ॥
1.132.03 तत्तु प्रयः प्रत्नथा ते शुशुक्वनं यस्मिन्यज्ञे वारमकृण्वत क्षयमृतस्य वारसि क्षयम् ।
1.132.03 वि तद्वोचेरध द्वितान्तः पश्यन्ति रश्मिभिः ।
1.132.03 स घा विदे अन्विन्द्रो गवेषणो बन्धुक्षिद्भ्यो गवेषणः ॥
1.132.04 नू इत्था ते पूर्वथा च प्रवाच्यं यदङ्गिरोभ्योऽवृणोरप व्रजमिन्द्र शिक्षन्नप व्रजम् ।
1.132.04 ऐभ्यः समान्या दिशास्मभ्यं जेषि योत्सि च ।
1.132.04 सुन्वद्भ्यो रन्धया कं चिदव्रतं हृणायन्तं चिदव्रतम् ॥
1.132.05 सं यज्जनान्क्रतुभिः शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यवः प्र यक्षन्त श्रवस्यवः ।
1.132.05 तस्मा आयुः प्रजावदिद्बाधे अर्चन्त्योजसा ।
1.132.05 इन्द्र ओक्यं दिधिषन्त धीतयो देवां अच्छा न धीतयः ॥
1.132.06 युवं तमिन्द्रापर्वता पुरोयुधा यो नः पृतन्यादप तंतमिद्धतं वज्रेण तंतमिद्धतम् ।
1.132.06 दूरे चत्ताय च्छन्त्सद्गहनं यदिनक्षत् ।
1.132.06 अस्माकं शत्रून्परि शूर विश्वतो दर्मा दर्षीष्ट विश्वतः ॥

1.133.01 उभे पुनामि रोदसी ऋतेन द्रुहो दहामि सं महीरनिन्द्राः ।
1.133.01 अभिव्लग्य यत्र हता अमित्रा वैलस्थानं परि तृळ्हा अशेरन् ॥
1.133.02 अभिव्लग्या चिदद्रिवः शीर्षा यातुमतीनाम् ।
1.133.02 छिन्धि वटूरिणा पदा महावटूरिणा पदा ॥
1.133.03 अवासां मघवञ्जहि शर्धो यातुमतीनाम् ।
1.133.03 वैलस्थानके अर्मके महावैलस्थे अर्मके ॥
1.133.04 यासां तिस्रः पञ्चाशतोऽभिव्लङ्गैरपावपः ।
1.133.04 तत्सु ते मनायति तकत्सु ते मनायति ॥
1.133.05 पिशङ्गभृष्टिमम्भृणं पिशाचिमिन्द्र सं मृण ।
1.133.05 सर्वं रक्षो नि बर्हय ॥
1.133.06 अवर्मह इन्द्र दादृहि श्रुधी नः शुशोच हि द्यौः क्षा न भीषां अद्रिवो घृणान्न भीषां अद्रिवः ।
1.133.06 शुष्मिन्तमो हि शुष्मिभिर्वधैरुग्रेभिरीयसे ।
1.133.06 अपूरुषघ्नो अप्रतीत शूर सत्वभिस्त्रिसप्तैः शूर सत्वभिः ॥
1.133.07 वनोति हि सुन्वन्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः ।
1.133.07 सुन्वान इत्सिषासति सहस्रा वाज्यवृतः ।
1.133.07 सुन्वानायेन्द्रो ददात्याभुवं रयिं ददात्याभुवम् ॥

1.134.01 आ त्वा जुवो रारहाणा अभि प्रयो वायो वहन्त्विह पूर्वपीतये सोमस्य पूर्वपीतये ।
1.134.01 ऊर्ध्वा ते अनु सूनृता मनस्तिष्ठतु जानती ।
1.134.01 नियुत्वता रथेना याहि दावने वायो मखस्य दावने ॥
1.134.02 मन्दन्तु त्वा मन्दिनो वायविन्दवोऽस्मत्क्राणासः सुकृता अभिद्यवो गोभिः क्राणा अभिद्यवः ।
1.134.02 यद्ध क्राणा इरध्यै दक्षं सचन्त ऊतयः ।
1.134.02 सध्रीचीना नियुतो दावने धिय उप ब्रुवत ईं धियः ॥
1.134.03 वायुर्युङ्क्ते रोहिता वायुररुणा वायू रथे अजिरा धुरि वोळ्हवे वहिष्ठा धुरि वोळ्हवे ।
1.134.03 प्र बोधया पुरन्धिं जार आ ससतीमिव ।
1.134.03 प्र चक्षय रोदसी वासयोषसः श्रवसे वासयोषसः ॥
1.134.04 तुभ्यमुषासः शुचयः परावति भद्रा वस्त्रा तन्वते दंसु रश्मिषु चित्रा नव्येषु रश्मिषु ।
1.134.04 तुभ्यं धेनुः सबर्दुघा विश्वा वसूनि दोहते ।
1.134.04 अजनयो मरुतो वक्षणाभ्यो दिव आ वक्षणाभ्यः ॥
1.134.05 तुभ्यं शुक्रासः शुचयस्तुरण्यवो मदेषूग्रा इषणन्त भुर्वण्यपामिषन्त भुर्वणि ।
1.134.05 त्वां त्सारी दसमानो भगमीट्टे तक्ववीये ।
1.134.05 त्वं विश्वस्माद्भुवनात्पासि धर्मणासुर्यात्पासि धर्मणा ॥
1.134.06 त्वं नो वायवेषामपूर्व्यः सोमानां प्रथमः पीतिमर्हसि सुतानां पीतिमर्हसि ।
1.134.06 उतो विहुत्मतीनां विशां ववर्जुषीणाम् ।
1.134.06 विश्वा इत्ते धेनवो दुह्र आशिरं घृतं दुह्रत आशिरम् ॥

1.135.01 स्तीर्णं बर्हिरुप नो याहि वीतये सहस्रेण नियुता नियुत्वते शतिनीभिर्नियुत्वते ।
1.135.01 तुभ्यं हि पूर्वपीतये देवा देवाय येमिरे ।
1.135.01 प्र ते सुतासो मधुमन्तो अस्थिरन्मदाय क्रत्वे अस्थिरन् ॥
1.135.02 तुभ्यायं सोमः परिपूतो अद्रिभि स्पार्हा वसानः परि कोशमर्षति शुक्रा वसानो अर्षति ।
1.135.02 तवायं भाग आयुषु सोमो देवेषु हूयते ।
1.135.02 वह वायो नियुतो याह्यस्मयुर्जुषाणो याह्यस्मयुः ॥
1.135.03 आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि वीतये वायो हव्यानि वीतये ।
1.135.03 तवायं भाग ऋत्वियः सरश्मिः सूर्ये सचा ।
1.135.03 अध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ॥
1.135.04 आ वां रथो नियुत्वान्वक्षदवसेऽभि प्रयांसि सुधितानि वीतये वायो हव्यानि वीतये ।
1.135.04 पिबतं मध्वो अन्धसः पूर्वपेयं हि वां हितम् ।
1.135.04 वायवा चन्द्रेण राधसा गतमिन्द्रश्च राधसा गतम् ॥
1.135.05 आ वां धियो ववृत्युरध्वरां उपेममिन्दुं मर्मृजन्त वाजिनमाशुमत्यं न वाजिनम् ।
1.135.05 तेषां पिबतमस्मयू आ नो गन्तमिहोत्या ।
1.135.05 इन्द्रवायू सुतानामद्रिभिर्युवं मदाय वाजदा युवम् ॥
1.135.06 इमे वां सोमा अप्स्वा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत ।
1.135.06 एते वामभ्यसृक्षत तिरः पवित्रमाशवः ।
1.135.06 युवायवोऽति रोमाण्यव्यया सोमासो अत्यव्यया ॥
1.135.07 अति वायो ससतो याहि शश्वतो यत्र ग्रावा वदति तत्र गच्छतं गृहमिन्द्रश्च गच्छतम् ।
1.135.07 वि सूनृता ददृशे रीयते घृतमा पूर्णया नियुता याथो अध्वरमिन्द्रश्च याथो अध्वरम् ॥
1.135.08 अत्राह तद्वहेथे मध्व आहुतिं यमश्वत्थमुपतिष्ठन्त जायवोऽस्मे ते सन्तु जायवः ।
1.135.08 साकं गावः सुवते पच्यते यवो न ते वाय उप दस्यन्ति धेनवो नाप दस्यन्ति धेनवः ॥
1.135.09 इमे ये ते सु वायो बाह्वोजसोऽन्तर्नदी ते पतयन्त्युक्षणो महि व्राधन्त उक्षणः ।
1.135.09 धन्वञ्चिद्ये अनाशवो जीराश्चिदगिरौकसः ।
1.135.09 सूर्यस्येव रश्मयो दुर्नियन्तवो हस्तयोर्दुर्नियन्तवः ॥

1.136.01 प्र सु ज्येष्ठं निचिराभ्यां बृहन्नमो हव्यं मतिं भरता मृळयद्भ्यां स्वादिष्ठं मृळयद्भ्याम् ।
1.136.01 ता सम्राजा घृतासुती यज्ञेयज्ञ उपस्तुता ।
1.136.01 अथैनोः क्षत्रं न कुतश्चनाधृषे देवत्वं नू चिदाधृषे ॥
1.136.02 अदर्शि गातुरुरवे वरीयसी पन्था ऋतस्य समयंस्त रश्मिभिश्चक्षुर्भगस्य रश्मिभिः ।
1.136.02 द्युक्षं मित्रस्य सादनमर्यम्णो वरुणस्य च ।
1.136.02 अथा दधाते बृहदुक्थ्यं वय उपस्तुत्यं बृहद्वयः ॥
1.136.03 ज्योतिष्मतीमदितिं धारयत्क्षितिं स्वर्वतीमा सचेते दिवेदिवे जागृवांसा दिवेदिवे ।
1.136.03 ज्योतिष्मत्क्षत्रमाशाते आदित्या दानुनस्पती ।
1.136.03 मित्रस्तयोर्वरुणो यातयज्जनोऽर्यमा यातयज्जनः ॥
1.136.04 अयं मित्राय वरुणाय शन्तमः सोमो भूत्ववपानेष्वाभगो देवो देवेष्वाभगः ।
1.136.04 तं देवासो जुषेरत विश्वे अद्य सजोषसः ।
1.136.04 तथा राजाना करथो यदीमह ऋतावाना यदीमहे ॥
1.136.05 यो मित्राय वरुणायाविधज्जनोऽनर्वाणं तं परि पातो अंहसो दाश्वांसं मर्तमंहसः ।
1.136.05 तमर्यमाभि रक्षत्यृजूयन्तमनु व्रतम् ।
1.136.05 उक्थैर्य एनोः परिभूषति व्रतं स्तोमैराभूषति व्रतम् ॥
1.136.06 नमो दिवे बृहते रोदसीभ्यां मित्राय वोचं वरुणाय मीळ्हुषे सुमृळीकाय मीळ्हुषे ।
1.136.06 इन्द्रमग्निमुप स्तुहि द्युक्षमर्यमणं भगम् ।
1.136.06 ज्योग्जीवन्तः प्रजया सचेमहि सोमस्योती सचेमहि ॥
1.136.07 ऊती देवानां वयमिन्द्रवन्तो मंसीमहि स्वयशसो मरुद्भिः ।
1.136.07 अग्निर्मित्रो वरुणः शर्म यंसन्तदश्याम मघवानो वयं च ॥

1.137.01 सुषुमा यातमद्रिभिर्गोश्रीता मत्सरा इमे सोमासो मत्सरा इमे ।
1.137.01 आ राजाना दिविस्पृशास्मत्रा गन्तमुप नः ।
1.137.01 इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥
1.137.02 इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः ।
1.137.02 उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः ।
1.137.02 सुतो मित्राय वरुणाय पीतये चारुरृताय पीतये ॥
1.137.03 तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः ।
1.137.03 अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये ।
1.137.03 अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥

1.138.01 प्रप्र पूष्णस्तुविजातस्य शस्यते महित्वमस्य तवसो न तन्दते स्तोत्रमस्य न तन्दते ।
1.138.01 अर्चामि सुम्नयन्नहमन्त्यूतिं मयोभुवम् ।
1.138.01 विश्वस्य यो मन आयुयुवे मखो देव आयुयुवे मखः ॥
1.138.02 प्र हि त्वा पूषन्नजिरं न यामनि स्तोमेभिः कृण्व ऋणवो यथा मृध उष्ट्रो न पीपरो मृधः ।
1.138.02 हुवे यत्त्वा मयोभुवं देवं सख्याय मर्त्यः ।
1.138.02 अस्माकमाङ्गूषान्द्युम्निनस्कृधि वाजेषु द्युम्निनस्कृधि ॥
1.138.03 यस्य ते पूषन्सख्ये विपन्यवः क्रत्वा चित्सन्तोऽवसा बुभुज्रिर इति क्रत्वा बुभुज्रिरे ।
1.138.03 तामनु त्वा नवीयसीं नियुतं राय ईमहे ।
1.138.03 अहेळमान उरुशंस सरी भव वाजेवाजे सरी भव ॥
1.138.04 अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवां अजाश्व श्रवस्यतामजाश्व ।
1.138.04 ओ षु त्वा ववृतीमहि स्तोमेभिर्दस्म साधुभिः ।
1.138.04 नहि त्वा पूषन्नतिमन्य आघृणे न ते सख्यमपह्नुवे ॥

1.139.01 अस्तु श्रौषट्पुरो अग्नीं धिया दध आ नु तच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
1.139.01 यद्ध क्राणा विवस्वति नाभा संदायि नव्यसी ।
1.139.01 अध प्र सू न उप यन्तु धीतयो देवां अच्छा न धीतयः ॥
1.139.02 यद्ध त्यन्मित्रावरुणावृतादध्याददाथे अनृतं स्वेन मन्युना दक्षस्य स्वेन मन्युना ।
1.139.02 युवोरित्थाधि सद्मस्वपश्याम हिरण्ययम् ।
1.139.02 धीभिश्चन मनसा स्वेभिरक्षभिः सोमस्य स्वेभिरक्षभिः ॥
1.139.03 युवां स्तोमेभिर्देवयन्तो अश्विनाश्रावयन्त इव श्लोकमायवो युवां हव्याभ्यायवः ।
1.139.03 युवोर्विश्वा अधि श्रियः पृक्षश्च विश्ववेदसा ।
1.139.03 प्रुषायन्ते वां पवयो हिरण्यये रथे दस्रा हिरण्यये ॥
1.139.04 अचेति दस्रा व्यु नाकमृण्वथो युञ्जते वां रथयुजो दिविष्टिष्वध्वस्मानो दिविष्टिषु ।
1.139.04 अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये ।
1.139.04 पथेव यन्तावनुशासता रजोऽञ्जसा शासता रजः ॥
1.139.05 शचीभिर्नः शचीवसू दिवा नक्तं दशस्यतम् ।
1.139.05 मा वां रातिरुप दसत्कदा चनास्मद्रातिः कदा चन ॥
1.139.06 वृषन्निन्द्र वृषपाणास इन्दव इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः ।
1.139.06 ते त्वा मन्दन्तु दावने महे चित्राय राधसे ।
1.139.06 गीर्भिर्गिर्वाह स्तवमान आ गहि सुमृळीको न आ गहि ॥
1.139.07 ओ षू णो अग्ने शृणुहि त्वमीळितो देवेभ्यो ब्रवसि यज्ञियेभ्यो राजभ्यो यज्ञियेभ्यः ।
1.139.07 यद्ध त्यामङ्गिरोभ्यो धेनुं देवा अदत्तन ।
1.139.07 वि तां दुह्रे अर्यमा कर्तरी सचां एष तां वेद मे सचा ॥
1.139.08 मो षु वो अस्मदभि तानि पौंस्या सना भूवन्द्युम्नानि मोत जारिषुरस्मत्पुरोत जारिषुः ।
1.139.08 यद्वश्चित्रं युगेयुगे नव्यं घोषादमर्त्यम् ।
1.139.08 अस्मासु तन्मरुतो यच्च दुष्टरं दिधृता यच्च दुष्टरम् ॥
1.139.09 दध्यङ्ह मे जनुषं पूर्वो अङ्गिराः प्रियमेधः कण्वो अत्रिर्मनुर्विदुस्ते मे पूर्वे मनुर्विदुः ।
1.139.09 तेषां देवेष्वायतिरस्माकं तेषु नाभयः ।
1.139.09 तेषां पदेन मह्या नमे गिरेन्द्राग्नी आ नमे गिरा ॥
1.139.10 होता यक्षद्वनिनो वन्त वार्यं बृहस्पतिर्यजति वेन उक्षभिः पुरुवारेभिरुक्षभिः ।
1.139.10 जगृभ्मा दूरआदिशं श्लोकमद्रेरध त्मना ।
1.139.10 अधारयदररिन्दानि सुक्रतुः पुरू सद्मानि सुक्रतुः ॥
1.139.11 ये देवासो दिव्येकादश स्थ पृथिव्यामध्येकादश स्थ ।
1.139.11 अप्सुक्षितो महिनैकादश स्थ ते देवासो यज्ञमिमं जुषध्वम् ॥

1.140.01 वेदिषदे प्रियधामाय सुद्युते धासिमिव प्र भरा योनिमग्नये ।
1.140.01 वस्त्रेणेव वासया मन्मना शुचिं ज्योतीरथं शुक्रवर्णं तमोहनम् ॥
1.140.02 अभि द्विजन्मा त्रिवृदन्नमृज्यते संवत्सरे वावृधे जग्धमी पुनः ।
1.140.02 अन्यस्यासा जिह्वया जेन्यो वृषा न्यन्येन वनिनो मृष्ट वारणः ॥
1.140.03 कृष्णप्रुतौ वेविजे अस्य सक्षिता उभा तरेते अभि मातरा शिशुम् ।
1.140.03 प्राचाजिह्वं ध्वसयन्तं तृषुच्युतमा साच्यं कुपयं वर्धनं पितुः ॥
1.140.04 मुमुक्ष्वो मनवे मानवस्यते रघुद्रुवः कृष्णसीतास ऊ जुवः ।
1.140.04 असमना अजिरासो रघुष्यदो वातजूता उप युज्यन्त आशवः ॥
1.140.05 आदस्य ते ध्वसयन्तो वृथेरते कृष्णमभ्वं महि वर्पः करिक्रतः ।
1.140.05 यत्सीं महीमवनिं प्राभि मर्मृशदभिश्वसन्स्तनयन्नेति नानदत् ॥
1.140.06 भूषन्न योऽधि बभ्रूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत् ।
1.140.06 ओजायमानस्तन्वश्च शुम्भते भीमो न शृङ्गा दविधाव दुर्गृभिः ॥
1.140.07 स संस्तिरो विष्टिरः सं गृभायति जानन्नेव जानतीर्नित्य आ शये ।
1.140.07 पुनर्वर्धन्ते अपि यन्ति देव्यमन्यद्वर्पः पित्रोः कृण्वते सचा ॥
1.140.08 तमग्रुवः केशिनीः सं हि रेभिर ऊर्ध्वास्तस्थुर्मम्रुषीः प्रायवे पुनः ।
1.140.08 तासां जरां प्रमुञ्चन्नेति नानददसुं परं जनयञ्जीवमस्तृतम् ॥
1.140.09 अधीवासं परि मातू रिहन्नह तुविग्रेभिः सत्वभिर्याति वि ज्रयः ।
1.140.09 वयो दधत्पद्वते रेरिहत्सदानु श्येनी सचते वर्तनीरह ॥
1.140.10 अस्माकमग्ने मघवत्सु दीदिह्यध श्वसीवान्वृषभो दमूनाः ।
1.140.10 अवास्या शिशुमतीरदीदेर्वर्मेव युत्सु परिजर्भुराणः ॥
1.140.11 इदमग्ने सुधितं दुर्धितादधि प्रियादु चिन्मन्मनः प्रेयो अस्तु ते ।
1.140.11 यत्ते शुक्रं तन्वो रोचते शुचि तेनास्मभ्यं वनसे रत्नमा त्वम् ॥
1.140.12 रथाय नावमुत नो गृहाय नित्यारित्रां पद्वतीं रास्यग्ने ।
1.140.12 अस्माकं वीरां उत नो मघोनो जनांश्च या पारयाच्छर्म या च ॥
1.140.13 अभी नो अग्न उक्थमिज्जुगुर्या द्यावाक्षामा सिन्धवश्च स्वगूर्ताः ।
1.140.13 गव्यं यव्यं यन्तो दीर्घाहेषं वरमरुण्यो वरन्त ॥

1.141.01 बळ् इत्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि ।
1.141.01 यदीमुप ह्वरते साधते मतिरृतस्य धेना अनयन्त सस्रुतः ॥
1.141.02 पृक्षो वपुः पितुमान्नित्य आ शये द्वितीयमा सप्तशिवासु मातृषु ।
1.141.02 तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥
1.141.03 निर्यदीं बुध्नान्महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
1.141.03 यदीमनु प्रदिवो मध्व आधवे गुहा सन्तं मातरिश्वा मथायति ॥
1.141.04 प्र यत्पितुः परमान्नीयते पर्या पृक्षुधो वीरुधो दंसु रोहति ।
1.141.04 उभा यदस्य जनुषं यदिन्वत आदिद्यविष्ठो अभवद्घृणा शुचिः ॥
1.141.05 आदिन्मातॄराविशद्यास्वा शुचिरहिंस्यमान उर्विया वि वावृधे ।
1.141.05 अनु यत्पूर्वा अरुहत्सनाजुवो नि नव्यसीष्ववरासु धावते ॥
1.141.06 आदिद्धोतारं वृणते दिविष्टिषु भगमिव पपृचानास ऋञ्जते ।
1.141.06 देवान्यत्क्रत्वा मज्मना पुरुष्टुतो मर्तं शंसं विश्वधा वेति धायसे ॥
1.141.07 वि यदस्थाद्यजतो वातचोदितो ह्वारो न वक्वा जरणा अनाकृतः ।
1.141.07 तस्य पत्मन्दक्षुषः कृष्णजंहसः शुचिजन्मनो रज आ व्यध्वनः ॥
1.141.08 रथो न यातः शिक्वभिः कृतो द्यामङ्गेभिररुषेभिरीयते ।
1.141.08 आदस्य ते कृष्णासो दक्षि सूरयः शूरस्येव त्वेषथादीषते वयः ॥
1.141.09 त्वया ह्यग्ने वरुणो धृतव्रतो मित्रः शाशद्रे अर्यमा सुदानवः ।
1.141.09 यत्सीमनु क्रतुना विश्वथा विभुररान्न नेमिः परिभूरजायथाः ॥
1.141.10 त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि ।
1.141.10 तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥
1.141.11 अस्मे रयिं न स्वर्थं दमूनसं भगं दक्षं न पपृचासि धर्णसिम् ।
1.141.11 रश्मींरिव यो यमति जन्मनी उभे देवानां शंसमृत आ च सुक्रतुः ॥
1.141.12 उत नः सुद्योत्मा जीराश्वो होता मन्द्रः शृणवच्चन्द्ररथः ।
1.141.12 स नो नेषन्नेषतमैरमूरोऽग्निर्वामं सुवितं वस्यो अच्छ ॥
1.141.13 अस्ताव्यग्निः शिमीवद्भिरर्कैः साम्राज्याय प्रतरं दधानः ।
1.141.13 अमी च ये मघवानो वयं च मिहं न सूरो अति निष्टतन्युः ॥

1.142.01 समिद्धो अग्न आ वह देवां अद्य यतस्रुचे ।
1.142.01 तन्तुं तनुष्व पूर्व्यं सुतसोमाय दाशुषे ॥
1.142.02 घृतवन्तमुप मासि मधुमन्तं तनूनपात् ।
1.142.02 यज्ञं विप्रस्य मावतः शशमानस्य दाशुषः ॥
1.142.03 शुचिः पावको अद्भुतो मध्वा यज्ञं मिमिक्षति ।
1.142.03 नराशंसस्त्रिरा दिवो देवो देवेषु यज्ञियः ॥
1.142.04 ईळितो अग्न आ वहेन्द्रं चित्रमिह प्रियम् ।
1.142.04 इयं हि त्वा मतिर्ममाच्छा सुजिह्व वच्यते ॥
1.142.05 स्तृणानासो यतस्रुचो बर्हिर्यज्ञे स्वध्वरे ।
1.142.05 वृञ्जे देवव्यचस्तममिन्द्राय शर्म सप्रथः ॥
1.142.06 वि श्रयन्तामृतावृधः प्रयै देवेभ्यो महीः ।
1.142.06 पावकासः पुरुस्पृहो द्वारो देवीरसश्चतः ॥
1.142.07 आ भन्दमाने उपाके नक्तोषासा सुपेशसा ।
1.142.07 यह्वी ऋतस्य मातरा सीदतां बर्हिरा सुमत् ॥
1.142.08 मन्द्रजिह्वा जुगुर्वणी होतारा दैव्या कवी ।
1.142.08 यज्ञं नो यक्षतामिमं सिध्रमद्य दिविस्पृशम् ॥
1.142.09 शुचिर्देवेष्वर्पिता होत्रा मरुत्सु भारती ।
1.142.09 इळा सरस्वती मही बर्हिः सीदन्तु यज्ञियाः ॥
1.142.10 तन्नस्तुरीपमद्भुतं पुरु वारं पुरु त्मना ।
1.142.10 त्वष्टा पोषाय वि ष्यतु राये नाभा नो अस्मयुः ॥
1.142.11 अवसृजन्नुप त्मना देवान्यक्षि वनस्पते ।
1.142.11 अग्निर्हव्या सुषूदति देवो देवेषु मेधिरः ॥
1.142.12 पूषण्वते मरुत्वते विश्वदेवाय वायवे ।
1.142.12 स्वाहा गायत्रवेपसे हव्यमिन्द्राय कर्तन ॥
1.142.13 स्वाहाकृतान्या गह्युप हव्यानि वीतये ।
1.142.13 इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥

1.143.01 प्र तव्यसीं नव्यसीं धीतिमग्नये वाचो मतिं सहसः सूनवे भरे ।
1.143.01 अपां नपाद्यो वसुभिः सह प्रियो होता पृथिव्यां न्यसीददृत्वियः ॥
1.143.02 स जायमानः परमे व्योमन्याविरग्निरभवन्मातरिश्वने ।
1.143.02 अस्य क्रत्वा समिधानस्य मज्मना प्र द्यावा शोचिः पृथिवी अरोचयत् ॥
1.143.03 अस्य त्वेषा अजरा अस्य भानवः सुसंदृशः सुप्रतीकस्य सुद्युतः ।
1.143.03 भात्वक्षसो अत्यक्तुर्न सिन्धवोऽग्ने रेजन्ते अससन्तो अजराः ॥
1.143.04 यमेरिरे भृगवो विश्ववेदसं नाभा पृथिव्या भुवनस्य मज्मना ।
1.143.04 अग्निं तं गीर्भिर्हिनुहि स्व आ दमे य एको वस्वो वरुणो न राजति ॥
1.143.05 न यो वराय मरुतामिव स्वनः सेनेव सृष्टा दिव्या यथाशनिः ।
1.143.05 अग्निर्जम्भैस्तिगितैरत्ति भर्वति योधो न शत्रून्स वना न्यृञ्जते ॥
1.143.06 कुविन्नो अग्निरुचथस्य वीरसद्वसुष्कुविद्वसुभिः काममावरत् ।
1.143.06 चोदः कुवित्तुतुज्यात्सातये धियः शुचिप्रतीकं तमया धिया गृणे ॥
1.143.07 घृतप्रतीकं व ऋतस्य धूर्षदमग्निं मित्रं न समिधान ऋञ्जते ।
1.143.07 इन्धानो अक्रो विदथेषु दीद्यच्छुक्रवर्णामुदु नो यंसते धियम् ॥
1.143.08 अप्रयुच्छन्नप्रयुच्छद्भिरग्ने शिवेभिर्नः पायुभिः पाहि शग्मैः ।
1.143.08 अदब्धेभिरदृपितेभिरिष्टेऽनिमिषद्भिः परि पाहि नो जाः ॥

1.144.01 एति प्र होता व्रतमस्य माययोर्ध्वां दधानः शुचिपेशसं धियम् ।
1.144.01 अभि स्रुचः क्रमते दक्षिणावृतो या अस्य धाम प्रथमं ह निंसते ॥
1.144.02 अभीमृतस्य दोहना अनूषत योनौ देवस्य सदने परीवृताः ।
1.144.02 अपामुपस्थे विभृतो यदावसदध स्वधा अधयद्याभिरीयते ॥
1.144.03 युयूषतः सवयसा तदिद्वपुः समानमर्थं वितरित्रता मिथः ।
1.144.03 आदीं भगो न हव्यः समस्मदा वोळ्हुर्न रश्मीन्समयंस्त सारथिः ॥
1.144.04 यमीं द्वा सवयसा सपर्यतः समाने योना मिथुना समोकसा ।
1.144.04 दिवा न नक्तं पलितो युवाजनि पुरू चरन्नजरो मानुषा युगा ॥
1.144.05 तमीं हिन्वन्ति धीतयो दश व्रिशो देवं मर्तास ऊतये हवामहे ।
1.144.05 धनोरधि प्रवत आ स ऋण्वत्यभिव्रजद्भिर्वयुना नवाधित ॥
1.144.06 त्वं ह्यग्ने दिव्यस्य राजसि त्वं पार्थिवस्य पशुपा इव त्मना ।
1.144.06 एनी त एते बृहती अभिश्रिया हिरण्ययी वक्वरी बर्हिराशाते ॥
1.144.07 अग्ने जुषस्व प्रति हर्य तद्वचो मन्द्र स्वधाव ऋतजात सुक्रतो ।
1.144.07 यो विश्वतः प्रत्यङ्ङसि दर्शतो रण्वः संदृष्टौ पितुमां इव क्षयः ॥

1.145.01 तं पृच्छता स जगामा स वेद स चिकित्वां ईयते सा न्वीयते ।
1.145.01 तस्मिन्सन्ति प्रशिषस्तस्मिन्निष्टयः स वाजस्य शवसः शुष्मिणस्पतिः ॥
1.145.02 तमित्पृच्छन्ति न सिमो वि पृच्छति स्वेनेव धीरो मनसा यदग्रभीत् ।
1.145.02 न मृष्यते प्रथमं नापरं वचोऽस्य क्रत्वा सचते अप्रदृपितः ॥
1.145.03 तमिद्गच्छन्ति जुह्वस्तमर्वतीर्विश्वान्येकः शृणवद्वचांसि मे ।
1.145.03 पुरुप्रैषस्ततुरिर्यज्ञसाधनोऽच्छिद्रोतिः शिशुरादत्त सं रभः ॥
1.145.04 उपस्थायं चरति यत्समारत सद्यो जातस्तत्सार युज्येभिः ।
1.145.04 अभि श्वान्तं मृशते नान्द्ये मुदे यदीं गच्छन्त्युशतीरपिष्ठितम् ॥
1.145.05 स ईं मृगो अप्यो वनर्गुरुप त्वच्युपमस्यां नि धायि ।
1.145.05 व्यब्रवीद्वयुना मर्त्येभ्योऽग्निर्विद्वां ऋतचिद्धि सत्यः ॥

1.146.01 त्रिमूर्धानं सप्तरश्मिं गृणीषेऽनूनमग्निं पित्रोरुपस्थे ।
1.146.01 निषत्तमस्य चरतो ध्रुवस्य विश्वा दिवो रोचनापप्रिवांसम् ॥
1.146.02 उक्षा महां अभि ववक्ष एने अजरस्तस्थावितऊतिरृष्वः ।
1.146.02 उर्व्याः पदो नि दधाति सानौ रिहन्त्यूधो अरुषासो अस्य ॥
1.146.03 समानं वत्समभि संचरन्ती विष्वग्धेनू वि चरतः सुमेके ।
1.146.03 अनपवृज्यां अध्वनो मिमाने विश्वान्केतां अधि महो दधाने ॥
1.146.04 धीरासः पदं कवयो नयन्ति नाना हृदा रक्षमाणा अजुर्यम् ।
1.146.04 सिषासन्तः पर्यपश्यन्त सिन्धुमाविरेभ्यो अभवत्सूर्यो नॄन् ॥
1.146.05 दिदृक्षेण्यः परि काष्ठासु जेन्य ईळेन्यो महो अर्भाय जीवसे ।
1.146.05 पुरुत्रा यदभवत्सूरहैभ्यो गर्भेभ्यो मघवा विश्वदर्शतः ॥

1.147.01 कथा ते अग्ने शुचयन्त आयोर्ददाशुर्वाजेभिराशुषाणाः ।
1.147.01 उभे यत्तोके तनये दधाना ऋतस्य सामन्रणयन्त देवाः ॥
1.147.02 बोधा मे अस्य वचसो यविष्ठ मंहिष्ठस्य प्रभृतस्य स्वधावः ।
1.147.02 पीयति त्वो अनु त्वो गृणाति वन्दारुस्ते तन्वं वन्दे अग्ने ॥
1.147.03 ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरितादरक्षन् ।
1.147.03 ररक्ष तान्सुकृतो विश्ववेदा दिप्सन्त इद्रिपवो नाह देभुः ॥
1.147.04 यो नो अग्ने अररिवां अघायुररातीवा मर्चयति द्वयेन ।
1.147.04 मन्त्रो गुरुः पुनरस्तु सो अस्मा अनु मृक्षीष्ट तन्वं दुरुक्तैः ॥
1.147.05 उत वा यः सहस्य प्रविद्वान्मर्तो मर्तं मर्चयति द्वयेन ।
1.147.05 अतः पाहि स्तवमान स्तुवन्तमग्ने माकिर्नो दुरिताय धायीः ॥

1.148.01 मथीद्यदीं विष्टो मातरिश्वा होतारं विश्वाप्सुं विश्वदेव्यम् ।
1.148.01 नि यं दधुर्मनुष्यासु विक्षु स्वर्ण चित्रं वपुषे विभावम् ॥
1.148.02 ददानमिन्न ददभन्त मन्माग्निर्वरूथं मम तस्य चाकन् ।
1.148.02 जुषन्त विश्वान्यस्य कर्मोपस्तुतिं भरमाणस्य कारोः ॥
1.148.03 नित्ये चिन्नु यं सदने जगृभ्रे प्रशस्तिभिर्दधिरे यज्ञियासः ।
1.148.03 प्र सू नयन्त गृभयन्त इष्टावश्वासो न रथ्यो रारहाणाः ॥
1.148.04 पुरूणि दस्मो नि रिणाति जम्भैराद्रोचते वन आ विभावा ।
1.148.04 आदस्य वातो अनु वाति शोचिरस्तुर्न शर्यामसनामनु द्यून् ॥
1.148.05 न यं रिपवो न रिषण्यवो गर्भे सन्तं रेषणा रेषयन्ति ।
1.148.05 अन्धा अपश्या न दभन्नभिख्या नित्यास ईं प्रेतारो अरक्षन् ॥

1.149.01 महः स राय एषते पतिर्दन्निन इनस्य वसुनः पद आ ।
1.149.01 उप ध्रजन्तमद्रयो विधन्नित् ॥
1.149.02 स यो वृषा नरां न रोदस्योः श्रवोभिरस्ति जीवपीतसर्गः ।
1.149.02 प्र यः सस्राणः शिश्रीत योनौ ॥
1.149.03 आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो नार्वा ।
1.149.03 सूरो न रुरुक्वाञ्छतात्मा ॥
1.149.04 अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचानो अस्थात् ।
1.149.04 होता यजिष्ठो अपां सधस्थे ॥
1.149.05 अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।
1.149.05 मर्तो यो अस्मै सुतुको ददाश ॥

1.150.01 पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा ।
1.150.01 तोदस्येव शरण आ महस्य ॥
1.150.02 व्यनिनस्य धनिनः प्रहोषे चिदररुषः ।
1.150.02 कदा चन प्रजिगतो अदेवयोः ॥
1.150.03 स चन्द्रो विप्र मर्त्यो महो व्राधन्तमो दिवि ।
1.150.03 प्रप्रेत्ते अग्ने वनुषः स्याम ॥

1.151.01 मित्रं न यं शिम्या गोषु गव्यवः स्वाध्यो विदथे अप्सु जीजनन् ।
1.151.01 अरेजेतां रोदसी पाजसा गिरा प्रति प्रियं यजतं जनुषामवः ॥
1.151.02 यद्ध त्यद्वां पुरुमीळ्हस्य सोमिनः प्र मित्रासो न दधिरे स्वाभुवः ।
1.151.02 अध क्रतुं विदतं गातुमर्चत उत श्रुतं वृषणा पस्त्यावतः ॥
1.151.03 आ वां भूषन्क्षितयो जन्म रोदस्योः प्रवाच्यं वृषणा दक्षसे महे ।
1.151.03 यदीमृताय भरथो यदर्वते प्र होत्रया शिम्या वीथो अध्वरम् ॥
1.151.04 प्र सा क्षितिरसुर या महि प्रिय ऋतावानावृतमा घोषथो बृहत् ।
1.151.04 युवं दिवो बृहतो दक्षमाभुवं गां न धुर्युप युञ्जाथे अपः ॥
1.151.05 मही अत्र महिना वारमृण्वथोऽरेणवस्तुज आ सद्मन्धेनवः ।
1.151.05 स्वरन्ति ता उपरताति सूर्यमा निम्रुच उषसस्तक्ववीरिव ॥
1.151.06 आ वामृताय केशिनीरनूषत मित्र यत्र वरुण गातुमर्चथः ।
1.151.06 अव त्मना सृजतं पिन्वतं धियो युवं विप्रस्य मन्मनामिरज्यथः ॥
1.151.07 यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः ।
1.151.07 उपाह तं गच्छथो वीथो अध्वरमच्छा गिरः सुमतिं गन्तमस्मयू ॥
1.151.08 युवां यज्ञैः प्रथमा गोभिरञ्जत ऋतावाना मनसो न प्रयुक्तिषु ।
1.151.08 भरन्ति वां मन्मना संयता गिरोऽदृप्यता मनसा रेवदाशाथे ॥
1.151.09 रेवद्वयो दधाथे रेवदाशाथे नरा मायाभिरितऊति माहिनम् ।
1.151.09 न वां द्यावोऽहभिर्नोत सिन्धवो न देवत्वं पणयो नानशुर्मघम् ॥

1.152.01 युवं वस्त्राणि पीवसा वसाथे युवोरच्छिद्रा मन्तवो ह सर्गाः ।
1.152.01 अवातिरतमनृतानि विश्व ऋतेन मित्रावरुणा सचेथे ॥
1.152.02 एतच्चन त्वो वि चिकेतदेषां सत्यो मन्त्रः कविशस्त ऋघावान् ।
1.152.02 त्रिरश्रिं हन्ति चतुरश्रिरुग्रो देवनिदो ह प्रथमा अजूर्यन् ॥
1.152.03 अपादेति प्रथमा पद्वतीनां कस्तद्वां मित्रावरुणा चिकेत ।
1.152.03 गर्भो भारं भरत्या चिदस्य ऋतं पिपर्त्यनृतं नि तारीत् ॥
1.152.04 प्रयन्तमित्परि जारं कनीनां पश्यामसि नोपनिपद्यमानम् ।
1.152.04 अनवपृग्णा वितता वसानं प्रियं मित्रस्य वरुणस्य धाम ॥
1.152.05 अनश्वो जातो अनभीशुरर्वा कनिक्रदत्पतयदूर्ध्वसानुः ।
1.152.05 अचित्तं ब्रह्म जुजुषुर्युवानः प्र मित्रे धाम वरुणे गृणन्तः ॥
1.152.06 आ धेनवो मामतेयमवन्तीर्ब्रह्मप्रियं पीपयन्सस्मिन्नूधन् ।
1.152.06 पित्वो भिक्षेत वयुनानि विद्वानासाविवासन्नदितिमुरुष्येत् ॥
1.152.07 आ वां मित्रावरुणा हव्यजुष्टिं नमसा देवाववसा ववृत्याम् ।
1.152.07 अस्माकं ब्रह्म पृतनासु सह्या अस्माकं वृष्टिर्दिव्या सुपारा ॥

1.153.01 यजामहे वां महः सजोषा हव्येभिर्मित्रावरुणा नमोभिः ।
1.153.01 घृतैर्घृतस्नू अध यद्वामस्मे अध्वर्यवो न धीतिभिर्भरन्ति ॥
1.153.02 प्रस्तुतिर्वां धाम न प्रयुक्तिरयामि मित्रावरुणा सुवृक्तिः ।
1.153.02 अनक्ति यद्वां विदथेषु होता सुम्नं वां सूरिर्वृषणावियक्षन् ॥
1.153.03 पीपाय धेनुरदितिरृताय जनाय मित्रावरुणा हविर्दे ।
1.153.03 हिनोति यद्वां विदथे सपर्यन्स रातहव्यो मानुषो न होता ॥
1.153.04 उत वां विक्षु मद्यास्वन्धो गाव आपश्च पीपयन्त देवीः ।
1.153.04 उतो नो अस्य पूर्व्यः पतिर्दन्वीतं पातं पयस उस्रियायाः ॥

1.154.01 विष्णोर्नु कं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजांसि ।
1.154.01 यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः ॥
1.154.02 प्र तद्विष्णु स्तवते वीर्येण मृगो न भीमः कुचरो गिरिष्ठाः ।
1.154.02 यस्योरुषु त्रिषु विक्रमणेष्वधिक्षियन्ति भुवनानि विश्वा ॥
1.154.03 प्र विष्णवे शूषमेतु मन्म गिरिक्षित उरुगायाय वृष्णे ।
1.154.03 य इदं दीर्घं प्रयतं सधस्थमेको विममे त्रिभिरित्पदेभिः ॥
1.154.04 यस्य त्री पूर्णा मधुना पदान्यक्षीयमाणा स्वधया मदन्ति ।
1.154.04 य उ त्रिधातु पृथिवीमुत द्यामेको दाधार भुवनानि विश्वा ॥
1.154.05 तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति ।
1.154.05 उरुक्रमस्य स हि बन्धुरित्था विष्णोः पदे परमे मध्व उत्सः ॥
1.154.06 ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृङ्गा अयासः ।
1.154.06 अत्राह तदुरुगायस्य वृष्णः परमं पदमव भाति भूरि ॥

1.155.01 प्र वः पान्तमन्धसो धियायते महे शूराय विष्णवे चार्चत ।
1.155.01 या सानुनि पर्वतानामदाभ्या महस्तस्थतुरर्वतेव साधुना ॥
1.155.02 त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति ।
1.155.02 या मर्त्याय प्रतिधीयमानमित्कृशानोरस्तुरसनामुरुष्यथः ॥
1.155.03 ता ईं वर्धन्ति मह्यस्य पौंस्यं नि मातरा नयति रेतसे भुजे ।
1.155.03 दधाति पुत्रोऽवरं परं पितुर्नाम तृतीयमधि रोचने दिवः ॥
1.155.04 तत्तदिदस्य पौंस्यं गृणीमसीनस्य त्रातुरवृकस्य मीळ्हुषः ।
1.155.04 यः पार्थिवानि त्रिभिरिद्विगामभिरुरु क्रमिष्टोरुगायाय जीवसे ॥
1.155.05 द्वे इदस्य क्रमणे स्वर्दृशोऽभिख्याय मर्त्यो भुरण्यति ।
1.155.05 तृतीयमस्य नकिरा दधर्षति वयश्चन पतयन्तः पतत्रिणः ॥
1.155.06 चतुर्भिः साकं नवतिं च नामभिश्चक्रं न वृत्तं व्यतींरवीविपत् ।
1.155.06 बृहच्छरीरो विमिमान ऋक्वभिर्युवाकुमारः प्रत्येत्याहवम् ॥

1.156.01 भवा मित्रो न शेव्यो घृतासुतिर्विभूतद्युम्न एवया उ सप्रथाः ।
1.156.01 अधा ते विष्णो विदुषा चिदर्ध्य स्तोमो यज्ञश्च राध्यो हविष्मता ॥
1.156.02 यः पूर्व्याय वेधसे नवीयसे सुमज्जानये विष्णवे ददाशति ।
1.156.02 यो जातमस्य महतो महि ब्रवत्सेदु श्रवोभिर्युज्यं चिदभ्यसत् ॥
1.156.03 तमु स्तोतारः पूर्व्यं यथा विद ऋतस्य गर्भं जनुषा पिपर्तन ।
1.156.03 आस्य जानन्तो नाम चिद्विवक्तन महस्ते विष्णो सुमतिं भजामहे ॥
1.156.04 तमस्य राजा वरुणस्तमश्विना क्रतुं सचन्त मारुतस्य वेधसः ।
1.156.04 दाधार दक्षमुत्तममहर्विदं व्रजं च विष्णुः सखिवां अपोर्णुते ॥
1.156.05 आ यो विवाय सचथाय दैव्य इन्द्राय विष्णुः सुकृते सुकृत्तरः ।
1.156.05 वेधा अजिन्वत्त्रिषधस्थ आर्यमृतस्य भागे यजमानमाभजत् ॥

1.157.01 अबोध्यग्निर्ज्म उदेति सूर्यो व्युषाश्चन्द्रा मह्यावो अर्चिषा ।
1.157.01 आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥
1.157.02 यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतम् ।
1.157.02 अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥
1.157.03 अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।
1.157.03 त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥
1.157.04 आ न ऊर्जं वहतमश्विना युवं मधुमत्या नः कशया मिमिक्षतम् ।
1.157.04 प्रायुस्तारिष्टं नी रपांसि मृक्षतं सेधतं द्वेषो भवतं सचाभुवा ॥
1.157.05 युवं ह गर्भं जगतीषु धत्थो युवं विश्वेषु भुवनेष्वन्तः ।
1.157.05 युवमग्निं च वृषणावपश्च वनस्पतींरश्विनावैरयेथाम् ॥
1.157.06 युवं ह स्थो भिषजा भेषजेभिरथो ह स्थो रथ्या राथ्येभिः ।
1.157.06 अथो ह क्षत्रमधि धत्थ उग्रा यो वां हविष्मान्मनसा ददाश ॥

1.158.01 वसू रुद्रा पुरुमन्तू वृधन्ता दशस्यतं नो वृषणावभिष्टौ ।
1.158.01 दस्रा ह यद्रेक्ण औचथ्यो वां प्र यत्सस्राथे अकवाभिरूती ॥
1.158.02 को वां दाशत्सुमतये चिदस्यै वसू यद्धेथे नमसा पदे गोः ।
1.158.02 जिगृतमस्मे रेवतीः पुरन्धीः कामप्रेणेव मनसा चरन्ता ॥
1.158.03 युक्तो ह यद्वां तौग्र्याय पेरुर्वि मध्ये अर्णसो धायि पज्रः ।
1.158.03 उप वामवः शरणं गमेयं शूरो नाज्म पतयद्भिरेवैः ॥
1.158.04 उपस्तुतिरौचथ्यमुरुष्येन्मा मामिमे पतत्रिणी वि दुग्धाम् ।
1.158.04 मा मामेधो दशतयश्चितो धाक्प्र यद्वां बद्धस्त्मनि खादति क्षाम् ॥
1.158.05 न मा गरन्नद्यो मातृतमा दासा यदीं सुसमुब्धमवाधुः ।
1.158.05 शिरो यदस्य त्रैतनो वितक्षत्स्वयं दास उरो अंसावपि ग्ध ॥
1.158.06 दीर्घतमा मामतेयो जुजुर्वान्दशमे युगे ।
1.158.06 अपामर्थं यतीनां ब्रह्मा भवति सारथिः ॥

1.159.01 प्र द्यावा यज्ञैः पृथिवी ऋतावृधा मही स्तुषे विदथेषु प्रचेतसा ।
1.159.01 देवेभिर्ये देवपुत्रे सुदंससेत्था धिया वार्याणि प्रभूषतः ॥
1.159.02 उत मन्ये पितुरद्रुहो मनो मातुर्महि स्वतवस्तद्धवीमभिः ।
1.159.02 सुरेतसा पितरा भूम चक्रतुरुरु प्रजाया अमृतं वरीमभिः ॥
1.159.03 ते सूनवः स्वपसः सुदंससो मही जज्ञुर्मातरा पूर्वचित्तये ।
1.159.03 स्थातुश्च सत्यं जगतश्च धर्मणि पुत्रस्य पाथः पदमद्वयाविनः ॥
1.159.04 ते मायिनो ममिरे सुप्रचेतसो जामी सयोनी मिथुना समोकसा ।
1.159.04 नव्यंनव्यं तन्तुमा तन्वते दिवि समुद्रे अन्तः कवयः सुदीतयः ॥
1.159.05 तद्राधो अद्य सवितुर्वरेण्यं वयं देवस्य प्रसवे मनामहे ।
1.159.05 अस्मभ्यं द्यावापृथिवी सुचेतुना रयिं धत्तं वसुमन्तं शतग्विनम् ॥

1.160.01 ते हि द्यावापृथिवी विश्वशम्भुव ऋतावरी रजसो धारयत्कवी ।
1.160.01 सुजन्मनी धिषणे अन्तरीयते देवो देवी धर्मणा सूर्यः शुचिः ॥
1.160.02 उरुव्यचसा महिनी असश्चता पिता माता च भुवनानि रक्षतः ।
1.160.02 सुधृष्टमे वपुष्ये न रोदसी पिता यत्सीमभि रूपैरवासयत् ॥
1.160.03 स वह्निः पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया ।
1.160.03 धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥
1.160.04 अयं देवानामपसामपस्तमो यो जजान रोदसी विश्वशम्भुवा ।
1.160.04 वि यो ममे रजसी सुक्रतूययाजरेभि स्कम्भनेभिः समानृचे ॥
1.160.05 ते नो गृणाने महिनी महि श्रवः क्षत्रं द्यावापृथिवी धासथो बृहत् ।
1.160.05 येनाभि कृष्टीस्ततनाम विश्वहा पनाय्यमोजो अस्मे समिन्वतम् ॥

1.161.01 किमु श्रेष्ठः किं यविष्ठो न आजगन्किमीयते दूत्यं कद्यदूचिम ।
1.161.01 न निन्दिम चमसं यो महाकुलोऽग्ने भ्रातर्द्रुण इद्भूतिमूदिम ॥
1.161.02 एकं चमसं चतुरः कृणोतन तद्वो देवा अब्रुवन्तद्व आगमम् ।
1.161.02 सौधन्वना यद्येवा करिष्यथ साकं देवैर्यज्ञियासो भविष्यथ ॥
1.161.03 अग्निं दूतं प्रति यदब्रवीतनाश्वः कर्त्वो रथ उतेह कर्त्वः ।
1.161.03 धेनुः कर्त्वा युवशा कर्त्वा द्वा तानि भ्रातरनु वः कृत्व्येमसि ॥
1.161.04 चकृवांस ऋभवस्तदपृच्छत क्वेदभूद्यः स्य दूतो न आजगन् ।
1.161.04 यदावाख्यच्चमसाञ्चतुरः कृतानादित्त्वष्टा ग्नास्वन्तर्न्यानजे ॥
1.161.05 हनामैनां इति त्वष्टा यदब्रवीच्चमसं ये देवपानमनिन्दिषुः ।
1.161.05 अन्या नामानि कृण्वते सुते सचां अन्यैरेनान्कन्या नामभि स्परत् ॥
1.161.06 इन्द्रो हरी युयुजे अश्विना रथं बृहस्पतिर्विश्वरूपामुपाजत ।
1.161.06 ऋभुर्विभ्वा वाजो देवां अगच्छत स्वपसो यज्ञियं भागमैतन ॥
1.161.07 निश्चर्मणो गामरिणीत धीतिभिर्या जरन्ता युवशा ताकृणोतन ।
1.161.07 सौधन्वना अश्वादश्वमतक्षत युक्त्वा रथमुप देवां अयातन ॥
1.161.08 इदमुदकं पिबतेत्यब्रवीतनेदं वा घा पिबता मुञ्जनेजनम् ।
1.161.08 सौधन्वना यदि तन्नेव हर्यथ तृतीये घा सवने मादयाध्वै ॥
1.161.09 आपो भूयिष्ठा इत्येको अब्रवीदग्निर्भूयिष्ठ इत्यन्यो अब्रवीत् ।
1.161.09 वधर्यन्तीं बहुभ्यः प्रैको अब्रवीदृता वदन्तश्चमसां अपिंशत ॥
1.161.10 श्रोणामेक उदकं गामवाजति मांसमेकः पिंशति सूनयाभृतम् ।
1.161.10 आ निम्रुचः शकृदेको अपाभरत्किं स्वित्पुत्रेभ्यः पितरा उपावतुः ॥
1.161.11 उद्वत्स्वस्मा अकृणोतना तृणं निवत्स्वपः स्वपस्यया नरः ।
1.161.11 अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ ॥
1.161.12 सम्मील्य यद्भुवना पर्यसर्पत क्व स्वित्तात्या पितरा व आसतुः ।
1.161.12 अशपत यः करस्नं व आददे यः प्राब्रवीत्प्रो तस्मा अब्रवीतन ॥
1.161.13 सुषुप्वांस ऋभवस्तदपृच्छतागोह्य क इदं नो अबूबुधत् ।
1.161.13 श्वानं बस्तो बोधयितारमब्रवीत्संवत्सर इदमद्या व्यख्यत ॥
1.161.14 दिवा यान्ति मरुतो भूम्याग्निरयं वातो अन्तरिक्षेण याति ।
1.161.14 अद्भिर्याति वरुणः समुद्रैर्युष्मां इच्छन्तः शवसो नपातः ॥

1.162.01 मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् ।
1.162.01 यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
1.162.02 यन्निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीतां मुखतो नयन्ति ।
1.162.02 सुप्राङजो मेम्यद्विश्वरूप इन्द्रापूष्णोः प्रियमप्येति पाथः ॥
1.162.03 एष च्छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः ।
1.162.03 अभिप्रियं यत्पुरोळाशमर्वता त्वष्टेदेनं सौश्रवसाय जिन्वति ॥
1.162.04 यद्धविष्यमृतुशो देवयानं त्रिर्मानुषाः पर्यश्वं नयन्ति ।
1.162.04 अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्नजः ॥
1.162.05 होताध्वर्युरावया अग्निमिन्धो ग्रावग्राभ उत शंस्ता सुविप्रः ।
1.162.05 तेन यज्ञेन स्वरङ्कृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
1.162.06 यूपव्रस्का उत ये यूपवाहाश्चषालं ये अश्वयूपाय तक्षति ।
1.162.06 ये चार्वते पचनं सम्भरन्त्युतो तेषामभिगूर्तिर्न इन्वतु ॥
1.162.07 उप प्रागात्सुमन्मेऽधायि मन्म देवानामाशा उप वीतपृष्ठः ।
1.162.07 अन्वेनं विप्रा ऋषयो मदन्ति देवानां पुष्टे चकृमा सुबन्धुम् ॥
1.162.08 यद्वाजिनो दाम संदानमर्वतो या शीर्षण्या रशना रज्जुरस्य ।
1.162.08 यद्वा घास्य प्रभृतमास्ये तृणं सर्वा ता ते अपि देवेष्वस्तु ॥
1.162.09 यदश्वस्य क्रविषो मक्षिकाश यद्वा स्वरौ स्वधितौ रिप्तमस्ति ।
1.162.09 यद्धस्तयोः शमितुर्यन्नखेषु सर्वा ता ते अपि देवेष्वस्तु ॥
1.162.10 यदूवध्यमुदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति ।
1.162.10 सुकृता तच्छमितारः कृण्वन्तूत मेधं शृतपाकं पचन्तु ॥
1.162.11 यत्ते गात्रादग्निना पच्यमानादभि शूलं निहतस्यावधावति ।
1.162.11 मा तद्भूम्यामा श्रिषन्मा तृणेषु देवेभ्यस्तदुशद्भ्यो रातमस्तु ॥
1.162.12 ये वाजिनं परिपश्यन्ति पक्वं य ईमाहुः सुरभिर्निर्हरेति ।
1.162.12 ये चार्वतो मांसभिक्षामुपासत उतो तेषामभिगूर्तिर्न इन्वतु ॥
1.162.13 यन्नीक्षणं मांस्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि ।
1.162.13 ऊष्मण्यापिधाना चरूणामङ्काः सूनाः परि भूषन्त्यश्वम् ॥
1.162.14 निक्रमणं निषदनं विवर्तनं यच्च पड्बीशमर्वतः ।
1.162.14 यच्च पपौ यच्च घासिं जघास सर्वा ता ते अपि देवेष्वस्तु ॥
1.162.15 मा त्वाग्निर्ध्वनयीद्धूमगन्धिर्मोखा भ्राजन्त्यभि विक्त जघ्रिः ।
1.162.15 इष्टं वीतमभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्यश्वम् ॥
1.162.16 यदश्वाय वास उपस्तृणन्त्यधीवासं या हिरण्यान्यस्मै ।
1.162.16 संदानमर्वन्तं पड्बीशं प्रिया देवेष्वा यामयन्ति ॥
1.162.17 यत्ते सादे महसा शूकृतस्य पार्ष्ण्या वा कशया वा तुतोद ।
1.162.17 स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
1.162.18 चतुस्त्रिंशद्वाजिनो देवबन्धोर्वङ्क्रीरश्वस्य स्वधितिः समेति ।
1.162.18 अच्छिद्रा गात्रा वयुना कृणोत परुष्परुरनुघुष्या वि शस्त ॥
1.162.19 एकस्त्वष्टुरश्वस्या विशस्ता द्वा यन्तारा भवतस्तथ ऋतुः ।
1.162.19 या ते गात्राणामृतुथा कृणोमि ताता पिण्डानां प्र जुहोम्यग्नौ ॥
1.162.20 मा त्वा तपत्प्रिय आत्मापियन्तं मा स्वधितिस्तन्व आ तिष्ठिपत्ते ।
1.162.20 मा ते गृध्नुरविशस्तातिहाय छिद्रा गात्राण्यसिना मिथू कः ॥
1.162.21 न वा उ एतन्म्रियसे न रिष्यसि देवां इदेषि पथिभिः सुगेभिः ।
1.162.21 हरी ते युञ्जा पृषती अभूतामुपास्थाद्वाजी धुरि रासभस्य ॥
1.162.22 सुगव्यं नो वाजी स्वश्व्यं पुंसः पुत्रां उत विश्वापुषं रयिम् ।
1.162.22 अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनतां हविष्मान् ॥

1.163.01 यदक्रन्दः प्रथमं जायमान उद्यन्समुद्रादुत वा पुरीषात् ।
1.163.01 श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यं महि जातं ते अर्वन् ॥
1.163.02 यमेन दत्तं त्रित एनमायुनगिन्द्र एणं प्रथमो अध्यतिष्ठत् ।
1.163.02 गन्धर्वो अस्य रशनामगृभ्णात्सूरादश्वं वसवो निरतष्ट ॥
1.163.03 असि यमो अस्यादित्यो अर्वन्नसि त्रितो गुह्येन व्रतेन ।
1.163.03 असि सोमेन समया विपृक्त आहुस्ते त्रीणि दिवि बन्धनानि ॥
1.163.04 त्रीणि त आहुर्दिवि बन्धनानि त्रीण्यप्सु त्रीण्यन्तः समुद्रे ।
1.163.04 उतेव मे वरुणश्छन्त्स्यर्वन्यत्रा त आहुः परमं जनित्रम् ॥
1.163.05 इमा ते वाजिन्नवमार्जनानीमा शफानां सनितुर्निधाना ।
1.163.05 अत्रा ते भद्रा रशना अपश्यमृतस्य या अभिरक्षन्ति गोपाः ॥
1.163.06 आत्मानं ते मनसारादजानामवो दिवा पतयन्तं पतङ्गम् ।
1.163.06 शिरो अपश्यं पथिभिः सुगेभिररेणुभिर्जेहमानं पतत्रि ॥
1.163.07 अत्रा ते रूपमुत्तममपश्यं जिगीषमाणमिष आ पदे गोः ।
1.163.07 यदा ते मर्तो अनु भोगमानळ् आदिद्ग्रसिष्ठ ओषधीरजीगः ॥
1.163.08 अनु त्वा रथो अनु मर्यो अर्वन्ननु गावोऽनु भगः कनीनाम् ।
1.163.08 अनु व्रातासस्तव सख्यमीयुरनु देवा ममिरे वीर्यं ते ॥
1.163.09 हिरण्यशृङ्गोऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् ।
1.163.09 देवा इदस्य हविरद्यमायन्यो अर्वन्तं प्रथमो अध्यतिष्ठत् ॥
1.163.10 ईर्मान्तासः सिलिकमध्यमासः सं शूरणासो दिव्यासो अत्याः ।
1.163.10 हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥
1.163.11 तव शरीरं पतयिष्ण्वर्वन्तव चित्तं वात इव ध्रजीमान् ।
1.163.11 तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
1.163.12 उप प्रागाच्छसनं वाज्यर्वा देवद्रीचा मनसा दीध्यानः ।
1.163.12 अजः पुरो नीयते नाभिरस्यानु पश्चात्कवयो यन्ति रेभाः ॥
1.163.13 उप प्रागात्परमं यत्सधस्थमर्वां अच्छा पितरं मातरं च ।
1.163.13 अद्या देवाञ्जुष्टतमो हि गम्या अथा शास्ते दाशुषे वार्याणि ॥

1.164.01 अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः ।
1.164.01 तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥
1.164.02 सप्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा ।
1.164.02 त्रिनाभि चक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥
1.164.03 इमं रथमधि ये सप्त तस्थुः सप्तचक्रं सप्त वहन्त्यश्वाः ।
1.164.03 सप्त स्वसारो अभि सं नवन्ते यत्र गवां निहिता सप्त नाम ॥
1.164.04 को ददर्श प्रथमं जायमानमस्थन्वन्तं यदनस्था बिभर्ति ।
1.164.04 भूम्या असुरसृगात्मा क्व स्वित्को विद्वांसमुप गात्प्रष्टुमेतत् ॥
1.164.05 पाकः पृच्छामि मनसाविजानन्देवानामेना निहिता पदानि ।
1.164.05 वत्से बष्कयेऽधि सप्त तन्तून्वि तत्निरे कवय ओतवा उ ॥
1.164.06 अचिकित्वाञ्चिकितुषश्चिदत्र कवीन्पृच्छामि विद्मने न विद्वान् ।
1.164.06 वि यस्तस्तम्भ षळ् इमा रजांस्यजस्य रूपे किमपि स्विदेकम् ॥
1.164.07 इह ब्रवीतु य ईमङ्ग वेदास्य वामस्य निहितं पदं वेः ।
1.164.07 शीर्ष्णः क्षीरं दुह्रते गावो अस्य वव्रिं वसाना उदकं पदापुः ॥
1.164.08 माता पितरमृत आ बभाज धीत्यग्रे मनसा सं हि जग्मे ।
1.164.08 सा बीभत्सुर्गर्भरसा निविद्धा नमस्वन्त इदुपवाकमीयुः ॥
1.164.09 युक्ता मातासीद्धुरि दक्षिणाया अतिष्ठद्गर्भो वृजनीष्वन्तः ।
1.164.09 अमीमेद्वत्सो अनु गामपश्यद्विश्वरूप्यं त्रिषु योजनेषु ॥
1.164.10 तिस्रो मातॄस्त्रीन्पितॄन्बिभ्रदेक ऊर्ध्वस्तस्थौ नेमव ग्लापयन्ति ।
1.164.10 मन्त्रयन्ते दिवो अमुष्य पृष्ठे विश्वविदं वाचमविश्वमिन्वाम् ॥
1.164.11 द्वादशारं नहि तज्जराय वर्वर्ति चक्रं परि द्यामृतस्य ।
1.164.11 आ पुत्रा अग्ने मिथुनासो अत्र सप्त शतानि विंशतिश्च तस्थुः ॥
1.164.12 पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् ।
1.164.12 अथेमे अन्य उपरे विचक्षणं सप्तचक्रे षळर आहुरर्पितम् ॥
1.164.13 पञ्चारे चक्रे परिवर्तमाने तस्मिन्ना तस्थुर्भुवनानि विश्वा ।
1.164.13 तस्य नाक्षस्तप्यते भूरिभारः सनादेव न शीर्यते सनाभिः ॥
1.164.14 सनेमि चक्रमजरं वि वावृत उत्तानायां दश युक्ता वहन्ति ।
1.164.14 सूर्यस्य चक्षू रजसैत्यावृतं तस्मिन्नार्पिता भुवनानि विश्वा ॥
1.164.15 साकञ्जानां सप्तथमाहुरेकजं षळ् इद्यमा ऋषयो देवजा इति ।
1.164.15 तेषामिष्टानि विहितानि धामश स्थात्रे रेजन्ते विकृतानि रूपशः ॥
1.164.16 स्त्रियः सतीस्तां उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः ।
1.164.16 कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥
1.164.17 अवः परेण पर एनावरेण पदा वत्सं बिभ्रती गौरुदस्थात् ।
1.164.17 सा कद्रीची कं स्विदर्धं परागात्क्व स्वित्सूते नहि यूथे अन्तः ॥
1.164.18 अवः परेण पितरं यो अस्यानुवेद पर एनावरेण ।
1.164.18 कवीयमानः क इह प्र वोचद्देवं मनः कुतो अधि प्रजातम् ॥
1.164.19 ये अर्वाञ्चस्तां उ पराच आहुर्ये पराञ्चस्तां उ अर्वाच आहुः ।
1.164.19 इन्द्रश्च या चक्रथुः सोम तानि धुरा न युक्ता रजसो वहन्ति ॥
1.164.20 द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते ।
1.164.20 तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥
1.164.21 यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति ।
1.164.21 इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥
1.164.22 यस्मिन्वृक्षे मध्वदः सुपर्णा निविशन्ते सुवते चाधि विश्वे ।
1.164.22 तस्येदाहुः पिप्पलं स्वाद्वग्रे तन्नोन्नशद्यः पितरं न वेद ॥
1.164.23 यद्गायत्रे अधि गायत्रमाहितं त्रैष्टुभाद्वा त्रैष्टुभं निरतक्षत ।
1.164.23 यद्वा जगज्जगत्याहितं पदं य इत्तद्विदुस्ते अमृतत्वमानशुः ॥
1.164.24 गायत्रेण प्रति मिमीते अर्कमर्केण साम त्रैष्टुभेन वाकम् ।
1.164.24 वाकेन वाकं द्विपदा चतुष्पदाक्षरेण मिमते सप्त वाणीः ॥
1.164.25 जगता सिन्धुं दिव्यस्तभायद्रथन्तरे सूर्यं पर्यपश्यत् ।
1.164.25 गायत्रस्य समिधस्तिस्र आहुस्ततो मह्ना प्र रिरिचे महित्वा ॥
1.164.26 उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् ।
1.164.26 श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥
1.164.27 हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् ।
1.164.27 दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥
1.164.28 गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङ्ङकृणोन्मातवा उ ।
1.164.28 सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥
1.164.29 अयं स शिङ्क्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता ।
1.164.29 सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥
1.164.30 अनच्छये तुरगातु जीवमेजद्ध्रुवं मध्य आ पस्त्यानाम् ।
1.164.30 जीवो मृतस्य चरति स्वधाभिरमर्त्यो मर्त्येना सयोनिः ॥
1.164.31 अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चरन्तम् ।
1.164.31 स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥
1.164.32 य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मात् ।
1.164.32 स मातुर्योना परिवीतो अन्तर्बहुप्रजा निरृतिमा विवेश ॥
1.164.33 द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् ।
1.164.33 उत्तानयोश्चम्वोर्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥
1.164.34 पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि यत्र भुवनस्य नाभिः ।
1.164.34 पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥
1.164.35 इयं वेदिः परो अन्तः पृथिव्या अयं यज्ञो भुवनस्य नाभिः ।
1.164.35 अयं सोमो वृष्णो अश्वस्य रेतो ब्रह्मायं वाचः परमं व्योम ॥
1.164.36 सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि ।
1.164.36 ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥
1.164.37 न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि ।
1.164.37 यदा मागन्प्रथमजा ऋतस्यादिद्वाचो अश्नुवे भागमस्याः ॥
1.164.38 अपाङ्प्राङेति स्वधया गृभीतोऽमर्त्यो मर्त्येना सयोनिः ।
1.164.38 ता शश्वन्ता विषूचीना वियन्ता न्यन्यं चिक्युर्न नि चिक्युरन्यम् ॥
1.164.39 ऋचो अक्षरे परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः ।
1.164.39 यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥
1.164.40 सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम ।
1.164.40 अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥
1.164.41 गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी ।
1.164.41 अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥
1.164.42 तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः ।
1.164.42 ततः क्षरत्यक्षरं तद्विश्वमुप जीवति ॥
1.164.43 शकमयं धूममारादपश्यं विषूवता पर एनावरेण ।
1.164.43 उक्षाणं पृश्निमपचन्त वीरास्तानि धर्माणि प्रथमान्यासन् ॥
1.164.44 त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् ।
1.164.44 विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥
1.164.45 चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः ।
1.164.45 गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥
1.164.46 इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मान् ।
1.164.46 एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥
1.164.47 कृष्णं नियानं हरयः सुपर्णा अपो वसाना दिवमुत्पतन्ति ।
1.164.47 त आववृत्रन्सदनादृतस्यादिद्घृतेन पृथिवी व्युद्यते ॥
1.164.48 द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ तच्चिकेत ।
1.164.48 तस्मिन्साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न चलाचलासः ॥
1.164.49 यस्ते स्तनः शशयो यो मयोभूर्येन विश्वा पुष्यसि वार्याणि ।
1.164.49 यो रत्नधा वसुविद्यः सुदत्रः सरस्वति तमिह धातवे कः ॥
1.164.50 यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
1.164.50 ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
1.164.51 समानमेतदुदकमुच्चैत्यव चाहभिः ।
1.164.51 भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः ॥
1.164.52 दिव्यं सुपर्णं वायसं बृहन्तमपां गर्भं दर्शतमोषधीनाम् ।
1.164.52 अभीपतो वृष्टिभिस्तर्पयन्तं सरस्वन्तमवसे जोहवीमि ॥

1.165.01 कया शुभा सवयसः सनीळाः समान्या मरुतः सं मिमिक्षुः ।
1.165.01 कया मती कुत एतास एतेऽर्चन्ति शुष्मं वृषणो वसूया ॥
1.165.02 कस्य ब्रह्माणि जुजुषुर्युवानः को अध्वरे मरुत आ ववर्त ।
1.165.02 श्येनां इव ध्रजतो अन्तरिक्षे केन महा मनसा रीरमाम ॥
1.165.03 कुतस्त्वमिन्द्र माहिनः सन्नेको यासि सत्पते किं त इत्था ।
1.165.03 सं पृच्छसे समराणः शुभानैर्वोचेस्तन्नो हरिवो यत्ते अस्मे ॥
1.165.04 ब्रह्माणि मे मतयः शं सुतासः शुष्म इयर्ति प्रभृतो मे अद्रिः ।
1.165.04 आ शासते प्रति हर्यन्त्युक्थेमा हरी वहतस्ता नो अच्छ ॥
1.165.05 अतो वयमन्तमेभिर्युजानाः स्वक्षत्रेभिस्तन्वः शुम्भमानाः ।
1.165.05 महोभिरेतां उप युज्महे न्विन्द्र स्वधामनु हि नो बभूथ ॥
1.165.06 क्व स्या वो मरुतः स्वधासीद्यन्मामेकं समधत्ताहिहत्ये ।
1.165.06 अहं ह्युग्रस्तविषस्तुविष्मान्विश्वस्य शत्रोरनमं वधस्नैः ॥
1.165.07 भूरि चकर्थ युज्येभिरस्मे समानेभिर्वृषभ पौंस्येभिः ।
1.165.07 भूरीणि हि कृणवामा शविष्ठेन्द्र क्रत्वा मरुतो यद्वशाम ॥
1.165.08 वधीं वृत्रं मरुत इन्द्रियेण स्वेन भामेन तविषो बभूवान् ।
1.165.08 अहमेता मनवे विश्वश्चन्द्राः सुगा अपश्चकर वज्रबाहुः ॥
1.165.09 अनुत्तमा ते मघवन्नकिर्नु न त्वावां अस्ति देवता विदानः ।
1.165.09 न जायमानो नशते न जातो यानि करिष्या कृणुहि प्रवृद्ध ॥
1.165.10 एकस्य चिन्मे विभ्वस्त्वोजो या नु दधृष्वान्कृणवै मनीषा ।
1.165.10 अहं ह्युग्रो मरुतो विदानो यानि च्यवमिन्द्र इदीश एषाम् ॥
1.165.11 अमन्दन्मा मरुत स्तोमो अत्र यन्मे नरः श्रुत्यं ब्रह्म चक्र ।
1.165.11 इन्द्राय वृष्णे सुमखाय मह्यं सख्ये सखायस्तन्वे तनूभिः ॥
1.165.12 एवेदेते प्रति मा रोचमाना अनेद्यः श्रव एषो दधानाः ।
1.165.12 संचक्ष्या मरुतश्चन्द्रवर्णा अच्छान्त मे छदयाथा च नूनम् ॥
1.165.13 को न्वत्र मरुतो मामहे वः प्र यातन सखींरच्छा सखायः ।
1.165.13 मन्मानि चित्रा अपिवातयन्त एषां भूत नवेदा म ऋतानाम् ॥
1.165.14 आ यद्दुवस्याद्दुवसे न कारुरस्माञ्चक्रे मान्यस्य मेधा ।
1.165.14 ओ षु वर्त्त मरुतो विप्रमच्छेमा ब्रह्माणि जरिता वो अर्चत् ॥
1.165.15 एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
1.165.15 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

1.166.01 तन्नु वोचाम रभसाय जन्मने पूर्वं महित्वं वृषभस्य केतवे ।
1.166.01 ऐधेव यामन्मरुतस्तुविष्वणो युधेव शक्रास्तविषाणि कर्तन ॥
1.166.02 नित्यं न सूनुं मधु बिभ्रत उप क्रीळन्ति क्रीळा विदथेषु घृष्वयः ।
1.166.02 नक्षन्ति रुद्रा अवसा नमस्विनं न मर्धन्ति स्वतवसो हविष्कृतम् ॥
1.166.03 यस्मा ऊमासो अमृता अरासत रायस्पोषं च हविषा ददाशुषे ।
1.166.03 उक्षन्त्यस्मै मरुतो हिता इव पुरू रजांसि पयसा मयोभुवः ॥
1.166.04 आ ये रजांसि तविषीभिरव्यत प्र व एवासः स्वयतासो अध्रजन् ।
1.166.04 भयन्ते विश्वा भुवनानि हर्म्या चित्रो वो यामः प्रयतास्वृष्टिषु ॥
1.166.05 यत्त्वेषयामा नदयन्त पर्वतान्दिवो वा पृष्ठं नर्या अचुच्यवुः ।
1.166.05 विश्वो वो अज्मन्भयते वनस्पती रथीयन्तीव प्र जिहीत ओषधिः ॥
1.166.06 यूयं न उग्रा मरुतः सुचेतुनारिष्टग्रामाः सुमतिं पिपर्तन ।
1.166.06 यत्रा वो दिद्युद्रदति क्रिविर्दती रिणाति पश्वः सुधितेव बर्हणा ॥
1.166.07 प्र स्कम्भदेष्णा अनवभ्रराधसोऽलातृणासो विदथेषु सुष्टुताः ।
1.166.07 अर्चन्त्यर्कं मदिरस्य पीतये विदुर्वीरस्य प्रथमानि पौंस्या ॥
1.166.08 शतभुजिभिस्तमभिह्रुतेरघात्पूर्भी रक्षता मरुतो यमावत ।
1.166.08 जनं यमुग्रास्तवसो विरप्शिनः पाथना शंसात्तनयस्य पुष्टिषु ॥
1.166.09 विश्वानि भद्रा मरुतो रथेषु वो मिथस्पृध्येव तविषाण्याहिता ।
1.166.09 अंसेष्वा वः प्रपथेषु खादयोऽक्षो वश्चक्रा समया वि वावृते ॥
1.166.10 भूरीणि भद्रा नर्येषु बाहुषु वक्षस्सु रुक्मा रभसासो अञ्जयः ।
1.166.10 अंसेष्वेताः पविषु क्षुरा अधि वयो न पक्षान्व्यनु श्रियो धिरे ॥
1.166.11 महान्तो मह्ना विभ्वो विभूतयो दूरेदृशो ये दिव्या इव स्तृभिः ।
1.166.11 मन्द्राः सुजिह्वाः स्वरितार आसभिः सम्मिश्ला इन्द्रे मरुतः परिष्टुभः ॥
1.166.12 तद्वः सुजाता मरुतो महित्वनं दीर्घं वो दात्रमदितेरिव व्रतम् ।
1.166.12 इन्द्रश्चन त्यजसा वि ह्रुणाति तज्जनाय यस्मै सुकृते अराध्वम् ॥
1.166.13 तद्वो जामित्वं मरुतः परे युगे पुरू यच्छंसममृतास आवत ।
1.166.13 अया धिया मनवे श्रुष्टिमाव्या साकं नरो दंसनैरा चिकित्रिरे ॥
1.166.14 येन दीर्घं मरुतः शूशवाम युष्माकेन परीणसा तुरासः ।
1.166.14 आ यत्ततनन्वृजने जनास एभिर्यज्ञेभिस्तदभीष्टिमश्याम् ॥
1.166.15 एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
1.166.15 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

1.167.01 सहस्रं त इन्द्रोतयो नः सहस्रमिषो हरिवो गूर्ततमाः ।
1.167.01 सहस्रं रायो मादयध्यै सहस्रिण उप नो यन्तु वाजाः ॥
1.167.02 आ नोऽवोभिर्मरुतो यान्त्वच्छा ज्येष्ठेभिर्वा बृहद्दिवैः सुमायाः ।
1.167.02 अध यदेषां नियुतः परमाः समुद्रस्य चिद्धनयन्त पारे ॥
1.167.03 मिम्यक्ष येषु सुधिता घृताची हिरण्यनिर्णिगुपरा न ऋष्टिः ।
1.167.03 गुहा चरन्ती मनुषो न योषा सभावती विदथ्येव सं वाक् ॥
1.167.04 परा शुभ्रा अयासो यव्या साधारण्येव मरुतो मिमिक्षुः ।
1.167.04 न रोदसी अप नुदन्त घोरा जुषन्त वृधं सख्याय देवाः ॥
1.167.05 जोषद्यदीमसुर्या सचध्यै विषितस्तुका रोदसी नृमणाः ।
1.167.05 आ सूर्येव विधतो रथं गात्त्वेषप्रतीका नभसो नेत्या ॥
1.167.06 आस्थापयन्त युवतिं युवानः शुभे निमिश्लां विदथेषु पज्राम् ।
1.167.06 अर्को यद्वो मरुतो हविष्मान्गायद्गाथं सुतसोमो दुवस्यन् ॥
1.167.07 प्र तं विवक्मि वक्म्यो य एषां मरुतां महिमा सत्यो अस्ति ।
1.167.07 सचा यदीं वृषमणा अहंयु स्थिरा चिज्जनीर्वहते सुभागाः ॥
1.167.08 पान्ति मित्रावरुणाववद्याच्चयत ईमर्यमो अप्रशस्तान् ।
1.167.08 उत च्यवन्ते अच्युता ध्रुवाणि वावृध ईं मरुतो दातिवारः ॥
1.167.09 नही नु वो मरुतो अन्त्यस्मे आरात्ताच्चिच्छवसो अन्तमापुः ।
1.167.09 ते धृष्णुना शवसा शूशुवांसोऽर्णो न द्वेषो धृषता परि ष्ठुः ॥
1.167.10 वयमद्येन्द्रस्य प्रेष्ठा वयं श्वो वोचेमहि समर्ये ।
1.167.10 वयं पुरा महि च नो अनु द्यून्तन्न ऋभुक्षा नरामनु ष्यात् ॥
1.167.11 एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
1.167.11 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

1.168.01 यज्ञायज्ञा वः समना तुतुर्वणिर्धियंधियं वो देवया उ दधिध्वे ।
1.168.01 आ वोऽर्वाचः सुविताय रोदस्योर्महे ववृत्यामवसे सुवृक्तिभिः ॥
1.168.02 वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः ।
1.168.02 सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षणः ॥
1.168.03 सोमासो न ये सुतास्तृप्तांशवो हृत्सु पीतासो दुवसो नासते ।
1.168.03 ऐषामंसेषु रम्भिणीव रारभे हस्तेषु खादिश्च कृतिश्च सं दधे ॥
1.168.04 अव स्वयुक्ता दिव आ वृथा ययुरमर्त्याः कशया चोदत त्मना ।
1.168.04 अरेणवस्तुविजाता अचुच्यवुर्दृळ्हानि चिन्मरुतो भ्राजदृष्टयः ॥
1.168.05 को वोऽन्तर्मरुत ऋष्टिविद्युतो रेजति त्मना हन्वेव जिह्वया ।
1.168.05 धन्वच्युत इषां न यामनि पुरुप्रैषा अहन्यो नैतशः ॥
1.168.06 क्व स्विदस्य रजसो महस्परं क्वावरं मरुतो यस्मिन्नायय ।
1.168.06 यच्च्यावयथ विथुरेव संहितं व्यद्रिणा पतथ त्वेषमर्णवम् ॥
1.168.07 सातिर्न वोऽमवती स्वर्वती त्वेषा विपाका मरुतः पिपिष्वती ।
1.168.07 भद्रा वो रातिः पृणतो न दक्षिणा पृथुज्रयी असुर्येव जञ्जती ॥
1.168.08 प्रति ष्टोभन्ति सिन्धवः पविभ्यो यदभ्रियां वाचमुदीरयन्ति ।
1.168.08 अव स्मयन्त विद्युतः पृथिव्यां यदी घृतं मरुतः प्रुष्णुवन्ति ॥
1.168.09 असूत पृश्निर्महते रणाय त्वेषमयासां मरुतामनीकम् ।
1.168.09 ते सप्सरासोऽजनयन्ताभ्वमादित्स्वधामिषिरां पर्यपश्यन् ॥
1.168.10 एष व स्तोमो मरुत इयं गीर्मान्दार्यस्य मान्यस्य कारोः ।
1.168.10 एषा यासीष्ट तन्वे वयां विद्यामेषं वृजनं जीरदानुम् ॥

1.169.01 महश्चित्त्वमिन्द्र यत एतान्महश्चिदसि त्यजसो वरूता ।
1.169.01 स नो वेधो मरुतां चिकित्वान्सुम्ना वनुष्व तव हि प्रेष्ठा ॥
1.169.02 अयुज्रन्त इन्द्र विश्वकृष्टीर्विदानासो निष्षिधो मर्त्यत्रा ।
1.169.02 मरुतां पृत्सुतिर्हासमाना स्वर्मीळ्हस्य प्रधनस्य सातौ ॥
1.169.03 अम्यक्सा त इन्द्र ऋष्टिरस्मे सनेम्यभ्वं मरुतो जुनन्ति ।
1.169.03 अग्निश्चिद्धि ष्मातसे शुशुक्वानापो न द्वीपं दधति प्रयांसि ॥
1.169.04 त्वं तू न इन्द्र तं रयिं दा ओजिष्ठया दक्षिणयेव रातिम् ।
1.169.04 स्तुतश्च यास्ते चकनन्त वायो स्तनं न मध्वः पीपयन्त वाजैः ॥
1.169.05 त्वे राय इन्द्र तोशतमाः प्रणेतारः कस्य चिदृतायोः ।
1.169.05 ते षु णो मरुतो मृळयन्तु ये स्मा पुरा गातूयन्तीव देवाः ॥
1.169.06 प्रति प्र याहीन्द्र मीळ्हुषो नॄन्महः पार्थिवे सदने यतस्व ।
1.169.06 अध यदेषां पृथुबुध्नास एतास्तीर्थे नार्यः पौंस्यानि तस्थुः ॥
1.169.07 प्रति घोराणामेतानामयासां मरुतां शृण्व आयतामुपब्दिः ।
1.169.07 ये मर्त्यं पृतनायन्तमूमैरृणावानं न पतयन्त सर्गैः ॥
1.169.08 त्वं मानेभ्य इन्द्र विश्वजन्या रदा मरुद्भिः शुरुधो गोअग्राः ।
1.169.08 स्तवानेभि स्तवसे देव देवैर्विद्यामेषं वृजनं जीरदानुम् ॥

1.170.01 न नूनमस्ति नो श्वः कस्तद्वेद यदद्भुतम् ।
1.170.01 अन्यस्य चित्तमभि संचरेण्यमुताधीतं वि नश्यति ॥
1.170.02 किं न इन्द्र जिघांससि भ्रातरो मरुतस्तव ।
1.170.02 तेभिः कल्पस्व साधुया मा नः समरणे वधीः ॥
1.170.03 किं नो भ्रातरगस्त्य सखा सन्नति मन्यसे ।
1.170.03 विद्मा हि ते यथा मनोऽस्मभ्यमिन्न दित्ससि ॥
1.170.04 अरं कृण्वन्तु वेदिं समग्निमिन्धतां पुरः ।
1.170.04 तत्रामृतस्य चेतनं यज्ञं ते तनवावहै ॥
1.170.05 त्वमीशिषे वसुपते वसूनां त्वं मित्राणां मित्रपते धेष्ठः ।
1.170.05 इन्द्र त्वं मरुद्भिः सं वदस्वाध प्राशान ऋतुथा हवींषि ॥

1.171.01 प्रति व एना नमसाहमेमि सूक्तेन भिक्षे सुमतिं तुराणाम् ।
1.171.01 रराणता मरुतो वेद्याभिर्नि हेळो धत्त वि मुचध्वमश्वान् ॥
1.171.02 एष व स्तोमो मरुतो नमस्वान्हृदा तष्टो मनसा धायि देवाः ।
1.171.02 उपेमा यात मनसा जुषाणा यूयं हि ष्ठा नमस इद्वृधासः ॥
1.171.03 स्तुतासो नो मरुतो मृळयन्तूत स्तुतो मघवा शम्भविष्ठः ।
1.171.03 ऊर्ध्वा नः सन्तु कोम्या वनान्यहानि विश्वा मरुतो जिगीषा ॥
1.171.04 अस्मादहं तविषादीषमाण इन्द्राद्भिया मरुतो रेजमानः ।
1.171.04 युष्मभ्यं हव्या निशितान्यासन्तान्यारे चकृमा मृळता नः ॥
1.171.05 येन मानासश्चितयन्त उस्रा व्युष्टिषु शवसा शश्वतीनाम् ।
1.171.05 स नो मरुद्भिर्वृषभ श्रवो धा उग्र उग्रेभि स्थविरः सहोदाः ॥
1.171.06 त्वं पाहीन्द्र सहीयसो नॄन्भवा मरुद्भिरवयातहेळाः ।
1.171.06 सुप्रकेतेभिः सासहिर्दधानो विद्यामेषं वृजनं जीरदानुम् ॥

1.172.01 चित्रो वोऽस्तु यामश्चित्र ऊती सुदानवः ।
1.172.01 मरुतो अहिभानवः ॥
1.172.02 आरे सा वः सुदानवो मरुत ऋञ्जती शरुः ।
1.172.02 आरे अश्मा यमस्यथ ॥
1.172.03 तृणस्कन्दस्य नु विशः परि वृङ्क्त सुदानवः ।
1.172.03 ऊर्ध्वान्नः कर्त जीवसे ॥

1.173.01 गायत्साम नभन्यं यथा वेरर्चाम तद्वावृधानं स्वर्वत् ।
1.173.01 गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥
1.173.02 अर्चद्वृषा वृषभिः स्वेदुहव्यैर्मृगो नाश्नो अति यज्जुगुर्यात् ।
1.173.02 प्र मन्दयुर्मनां गूर्त होता भरते मर्यो मिथुना यजत्रः ॥
1.173.03 नक्षद्धोता परि सद्म मिता यन्भरद्गर्भमा शरदः पृथिव्याः ।
1.173.03 क्रन्ददश्वो नयमानो रुवद्गौरन्तर्दूतो न रोदसी चरद्वाक् ॥
1.173.04 ता कर्माषतरास्मै प्र च्यौत्नानि देवयन्तो भरन्ते ।
1.173.04 जुजोषदिन्द्रो दस्मवर्चा नासत्येव सुग्म्यो रथेष्ठाः ॥
1.173.05 तमु ष्टुहीन्द्रं यो ह सत्वा यः शूरो मघवा यो रथेष्ठाः ।
1.173.05 प्रतीचश्चिद्योधीयान्वृषण्वान्ववव्रुषश्चित्तमसो विहन्ता ॥
1.173.06 प्र यदित्था महिना नृभ्यो अस्त्यरं रोदसी कक्ष्ये नास्मै ।
1.173.06 सं विव्य इन्द्रो वृजनं न भूमा भर्ति स्वधावां ओपशमिव द्याम् ॥
1.173.07 समत्सु त्वा शूर सतामुराणं प्रपथिन्तमं परितंसयध्यै ।
1.173.07 सजोषस इन्द्रं मदे क्षोणीः सूरिं चिद्ये अनुमदन्ति वाजैः ॥
1.173.08 एवा हि ते शं सवना समुद्र आपो यत्त आसु मदन्ति देवीः ।
1.173.08 विश्वा ते अनु जोष्या भूद्गौः सूरींश्चिद्यदि धिषा वेषि जनान् ॥
1.173.09 असाम यथा सुषखाय एन स्वभिष्टयो नरां न शंसैः ।
1.173.09 असद्यथा न इन्द्रो वन्दनेष्ठास्तुरो न कर्म नयमान उक्था ॥
1.173.10 विष्पर्धसो नरां न शंसैरस्माकासदिन्द्रो वज्रहस्तः ।
1.173.10 मित्रायुवो न पूर्पतिं सुशिष्टौ मध्यायुव उप शिक्षन्ति यज्ञैः ॥
1.173.11 यज्ञो हि ष्मेन्द्रं कश्चिदृन्धञ्जुहुराणश्चिन्मनसा परियन् ।
1.173.11 तीर्थे नाच्छा तातृषाणमोको दीर्घो न सिध्रमा कृणोत्यध्वा ॥
1.173.12 मो षू ण इन्द्रात्र पृत्सु देवैरस्ति हि ष्मा ते शुष्मिन्नवयाः ।
1.173.12 महश्चिद्यस्य मीळ्हुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥
1.173.13 एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः ।
1.173.13 आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥

1.174.01 त्वं राजेन्द्र ये च देवा रक्षा नॄन्पाह्यसुर त्वमस्मान् ।
1.174.01 त्वं सत्पतिर्मघवा नस्तरुत्रस्त्वं सत्यो वसवानः सहोदाः ॥
1.174.02 दनो विश इन्द्र मृध्रवाचः सप्त यत्पुरः शर्म शारदीर्दर्त् ।
1.174.02 ऋणोरपो अनवद्यार्णा यूने वृत्रं पुरुकुत्साय रन्धीः ॥
1.174.03 अजा वृत इन्द्र शूरपत्नीर्द्यां च येभिः पुरुहूत नूनम् ।
1.174.03 रक्षो अग्निमशुषं तूर्वयाणं सिंहो न दमे अपांसि वस्तोः ॥
1.174.04 शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना ।
1.174.04 सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥
1.174.05 वह कुत्समिन्द्र यस्मिञ्चाकन्स्यूमन्यू ऋज्रा वातस्याश्वा ।
1.174.05 प्र सूरश्चक्रं वृहतादभीकेऽभि स्पृधो यासिषद्वज्रबाहुः ॥
1.174.06 जघन्वां इन्द्र मित्रेरूञ्चोदप्रवृद्धो हरिवो अदाशून् ।
1.174.06 प्र ये पश्यन्नर्यमणं सचायोस्त्वया शूर्ता वहमाना अपत्यम् ॥
1.174.07 रपत्कविरिन्द्रार्कसातौ क्षां दासायोपबर्हणीं कः ।
1.174.07 करत्तिस्रो मघवा दानुचित्रा नि दुर्योणे कुयवाचं मृधि श्रेत् ॥
1.174.08 सना ता त इन्द्र नव्या आगुः सहो नभोऽविरणाय पूर्वीः ।
1.174.08 भिनत्पुरो न भिदो अदेवीर्ननमो वधरदेवस्य पीयोः ॥
1.174.09 त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
1.174.09 प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
1.174.10 त्वमस्माकमिन्द्र विश्वध स्या अवृकतमो नरां नृपाता ।
1.174.10 स नो विश्वासां स्पृधां सहोदा विद्यामेषं वृजनं जीरदानुम् ॥

1.175.01 मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।
1.175.01 वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥
1.175.02 आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।
1.175.02 सहावां इन्द्र सानसिः पृतनाषाळ् अमर्त्यः ॥
1.175.03 त्वं हि शूरः सनिता चोदयो मनुषो रथम् ।
1.175.03 सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥
1.175.04 मुषाय सूर्यं कवे चक्रमीशान ओजसा ।
1.175.04 वह शुष्णाय वधं कुत्सं वातस्याश्वैः ॥
1.175.05 शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः ।
1.175.05 वृत्रघ्ना वरिवोविदा मंसीष्ठा अश्वसातमः ॥
1.175.06 यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
1.175.06 तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥

1.176.01 मत्सि नो वस्यैष्टय इन्द्रमिन्दो वृषा विश ।
1.176.01 ऋघायमाण इन्वसि शत्रुमन्ति न विन्दसि ॥
1.176.02 तस्मिन्ना वेशया गिरो य एकश्चर्षणीनाम् ।
1.176.02 अनु स्वधा यमुप्यते यवं न चर्कृषद्वृषा ॥
1.176.03 यस्य विश्वानि हस्तयोः पञ्च क्षितीनां वसु ।
1.176.03 स्पाशयस्व यो अस्मध्रुग्दिव्येवाशनिर्जहि ॥
1.176.04 असुन्वन्तं समं जहि दूणाशं यो न ते मयः ।
1.176.04 अस्मभ्यमस्य वेदनं दद्धि सूरिश्चिदोहते ॥
1.176.05 आवो यस्य द्विबर्हसोऽर्केषु सानुषगसत् ।
1.176.05 आजाविन्द्रस्येन्दो प्रावो वाजेषु वाजिनम् ॥
1.176.06 यथा पूर्वेभ्यो जरितृभ्य इन्द्र मय इवापो न तृष्यते बभूथ ।
1.176.06 तामनु त्वा निविदं जोहवीमि विद्यामेषं वृजनं जीरदानुम् ॥

1.177.01 आ चर्षणिप्रा वृषभो जनानां राजा कृष्टीनां पुरुहूत इन्द्रः ।
1.177.01 स्तुतः श्रवस्यन्नवसोप मद्रिग्युक्त्वा हरी वृषणा याह्यर्वाङ् ॥
1.177.02 ये ते वृषणो वृषभास इन्द्र ब्रह्मयुजो वृषरथासो अत्याः ।
1.177.02 तां आ तिष्ठ तेभिरा याह्यर्वाङ्हवामहे त्वा सुत इन्द्र सोमे ॥
1.177.03 आ तिष्ठ रथं वृषणं वृषा ते सुतः सोमः परिषिक्ता मधूनि ।
1.177.03 युक्त्वा वृषभ्यां वृषभ क्षितीनां हरिभ्यां याहि प्रवतोप मद्रिक् ॥
1.177.04 अयं यज्ञो देवया अयं मियेध इमा ब्रह्माण्ययमिन्द्र सोमः ।
1.177.04 स्तीर्णं बर्हिरा तु शक्र प्र याहि पिबा निषद्य वि मुचा हरी इह ॥
1.177.05 ओ सुष्टुत इन्द्र याह्यर्वाङुप ब्रह्माणि मान्यस्य कारोः ।
1.177.05 विद्याम वस्तोरवसा गृणन्तो विद्यामेषं वृजनं जीरदानुम् ॥

1.178.01 यद्ध स्या त इन्द्र श्रुष्टिरस्ति यया बभूथ जरितृभ्य ऊती ।
1.178.01 मा नः कामं महयन्तमा धग्विश्वा ते अश्यां पर्याप आयोः ॥
1.178.02 न घा राजेन्द्र आ दभन्नो या नु स्वसारा कृणवन्त योनौ ।
1.178.02 आपश्चिदस्मै सुतुका अवेषन्गमन्न इन्द्रः सख्या वयश्च ॥
1.178.03 जेता नृभिरिन्द्रः पृत्सु शूरः श्रोता हवं नाधमानस्य कारोः ।
1.178.03 प्रभर्ता रथं दाशुष उपाक उद्यन्ता गिरो यदि च त्मना भूत् ॥
1.178.04 एवा नृभिरिन्द्रः सुश्रवस्या प्रखादः पृक्षो अभि मित्रिणो भूत् ।
1.178.04 समर्य इष स्तवते विवाचि सत्राकरो यजमानस्य शंसः ॥
1.178.05 त्वया वयं मघवन्निन्द्र शत्रूनभि ष्याम महतो मन्यमानान् ।
1.178.05 त्वं त्राता त्वमु नो वृधे भूर्विद्यामेषं वृजनं जीरदानुम् ॥

1.179.01 पूर्वीरहं शरदः शश्रमाणा दोषा वस्तोरुषसो जरयन्तीः ।
1.179.01 मिनाति श्रियं जरिमा तनूनामप्यू नु पत्नीर्वृषणो जगम्युः ॥
1.179.02 ये चिद्धि पूर्व ऋतसाप आसन्साकं देवेभिरवदन्नृतानि ।
1.179.02 ते चिदवासुर्नह्यन्तमापुः समू नु पत्नीर्वृषभिर्जगम्युः ॥
1.179.03 न मृषा श्रान्तं यदवन्ति देवा विश्वा इत्स्पृधो अभ्यश्नवाव ।
1.179.03 जयावेदत्र शतनीथमाजिं यत्सम्यञ्चा मिथुनावभ्यजाव ॥
1.179.04 नदस्य मा रुधतः काम आगन्नित आजातो अमुतः कुतश्चित् ।
1.179.04 लोपामुद्रा वृषणं नी रिणाति धीरमधीरा धयति श्वसन्तम् ॥
1.179.05 इमं नु सोममन्तितो हृत्सु पीतमुप ब्रुवे ।
1.179.05 यत्सीमागश्चकृमा तत्सु मृळतु पुलुकामो हि मर्त्यः ॥
1.179.06 अगस्त्यः खनमानः खनित्रैः प्रजामपत्यं बलमिच्छमानः ।
1.179.06 उभौ वर्णावृषिरुग्रः पुपोष सत्या देवेष्वाशिषो जगाम ॥

1.180.01 युवो रजांसि सुयमासो अश्वा रथो यद्वां पर्यर्णांसि दीयत् ।
1.180.01 हिरण्यया वां पवयः प्रुषायन्मध्वः पिबन्ता उषसः सचेथे ॥
1.180.02 युवमत्यस्याव नक्षथो यद्विपत्मनो नर्यस्य प्रयज्योः ।
1.180.02 स्वसा यद्वां विश्वगूर्ती भराति वाजायेट्टे मधुपाविषे च ॥
1.180.03 युवं पय उस्रियायामधत्तं पक्वमामायामव पूर्व्यं गोः ।
1.180.03 अन्तर्यद्वनिनो वामृतप्सू ह्वारो न शुचिर्यजते हविष्मान् ॥
1.180.04 युवं ह घर्मं मधुमन्तमत्रयेऽपो न क्षोदोऽवृणीतमेषे ।
1.180.04 तद्वां नरावश्विना पश्वैष्टी रथ्येव चक्रा प्रति यन्ति मध्वः ॥
1.180.05 आ वां दानाय ववृतीय दस्रा गोरोहेण तौग्र्यो न जिव्रिः ।
1.180.05 अपः क्षोणी सचते माहिना वां जूर्णो वामक्षुरंहसो यजत्रा ॥
1.180.06 नि यद्युवेथे नियुतः सुदानू उप स्वधाभिः सृजथः पुरन्धिम् ।
1.180.06 प्रेषद्वेषद्वातो न सूरिरा महे ददे सुव्रतो न वाजम् ॥
1.180.07 वयं चिद्धि वां जरितारः सत्या विपन्यामहे वि पणिर्हितावान् ।
1.180.07 अधा चिद्धि ष्माश्विनावनिन्द्या पाथो हि ष्मा वृषणावन्तिदेवम् ॥
1.180.08 युवां चिद्धि ष्माश्विनावनु द्यून्विरुद्रस्य प्रस्रवणस्य सातौ ।
1.180.08 अगस्त्यो नरां नृषु प्रशस्तः काराधुनीव चितयत्सहस्रैः ॥
1.180.09 प्र यद्वहेथे महिना रथस्य प्र स्यन्द्रा याथो मनुषो न होता ।
1.180.09 धत्तं सूरिभ्य उत वा स्वश्व्यं नासत्या रयिषाचः स्याम ॥
1.180.10 तं वां रथं वयमद्या हुवेम स्तोमैरश्विना सुविताय नव्यम् ।
1.180.10 अरिष्टनेमिं परि द्यामियानं विद्यामेषं वृजनं जीरदानुम् ॥

1.181.01 कदु प्रेष्टाविषां रयीणामध्वर्यन्ता यदुन्निनीथो अपाम् ।
1.181.01 अयं वां यज्ञो अकृत प्रशस्तिं वसुधिती अवितारा जनानाम् ॥
1.181.02 आ वामश्वासः शुचयः पयस्पा वातरंहसो दिव्यासो अत्याः ।
1.181.02 मनोजुवो वृषणो वीतपृष्ठा एह स्वराजो अश्विना वहन्तु ॥
1.181.03 आ वां रथोऽवनिर्न प्रवत्वान्सृप्रवन्धुरः सुविताय गम्याः ।
1.181.03 वृष्ण स्थातारा मनसो जवीयानहम्पूर्वो यजतो धिष्ण्या यः ॥
1.181.04 इहेह जाता समवावशीतामरेपसा तन्वा नामभिः स्वैः ।
1.181.04 जिष्णुर्वामन्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥
1.181.05 प्र वां निचेरुः ककुहो वशां अनु पिशङ्गरूपः सदनानि गम्याः ।
1.181.05 हरी अन्यस्य पीपयन्त वाजैर्मथ्रा रजांस्यश्विना वि घोषैः ॥
1.181.06 प्र वां शरद्वान्वृषभो न निष्षाट्पूर्वीरिषश्चरति मध्व इष्णन् ।
1.181.06 एवैरन्यस्य पीपयन्त वाजैर्वेषन्तीरूर्ध्वा नद्यो न आगुः ॥
1.181.07 असर्जि वां स्थविरा वेधसा गीर्बाळ्हे अश्विना त्रेधा क्षरन्ती ।
1.181.07 उपस्तुताववतं नाधमानं यामन्नयामञ्छृणुतं हवं मे ॥
1.181.08 उत स्या वां रुशतो वप्ससो गीस्त्रिबर्हिषि सदसि पिन्वते नॄन् ।
1.181.08 वृषा वां मेघो वृषणा पीपाय गोर्न सेके मनुषो दशस्यन् ॥
1.181.09 युवां पूषेवाश्विना पुरन्धिरग्निमुषां न जरते हविष्मान् ।
1.181.09 हुवे यद्वां वरिवस्या गृणानो विद्यामेषं वृजनं जीरदानुम् ॥

1.182.01 अभूदिदं वयुनमो षु भूषता रथो वृषण्वान्मदता मनीषिणः ।
1.182.01 धियञ्जिन्वा धिष्ण्या विश्पलावसू दिवो नपाता सुकृते शुचिव्रता ॥
1.182.02 इन्द्रतमा हि धिष्ण्या मरुत्तमा दस्रा दंसिष्ठा रथ्या रथीतमा ।
1.182.02 पूर्णं रथं वहेथे मध्व आचितं तेन दाश्वांसमुप याथो अश्विना ॥
1.182.03 किमत्र दस्रा कृणुथः किमासाथे जनो यः कश्चिदहविर्महीयते ।
1.182.03 अति क्रमिष्टं जुरतं पणेरसुं ज्योतिर्विप्राय कृणुतं वचस्यवे ॥
1.182.04 जम्भयतमभितो रायतः शुनो हतं मृधो विदथुस्तान्यश्विना ।
1.182.04 वाचंवाचं जरितू रत्निनीं कृतमुभा शंसं नासत्यावतं मम ॥
1.182.05 युवमेतं चक्रथुः सिन्धुषु प्लवमात्मन्वन्तं पक्षिणं तौग्र्याय कम् ।
1.182.05 येन देवत्रा मनसा निरूहथुः सुपप्तनी पेतथुः क्षोदसो महः ॥
1.182.06 अवविद्धं तौग्र्यमप्स्वन्तरनारम्भणे तमसि प्रविद्धम् ।
1.182.06 चतस्रो नावो जठलस्य जुष्टा उदश्विभ्यामिषिताः पारयन्ति ॥
1.182.07 कः स्विद्वृक्षो निष्ठितो मध्ये अर्णसो यं तौग्र्यो नाधितः पर्यषस्वजत् ।
1.182.07 पर्णा मृगस्य पतरोरिवारभ उदश्विना ऊहथुः श्रोमताय कम् ॥
1.182.08 तद्वां नरा नासत्यावनु ष्याद्यद्वां मानास उचथमवोचन् ।
1.182.08 अस्मादद्य सदसः सोम्यादा विद्यामेषं वृजनं जीरदानुम् ॥

1.183.01 तं युञ्जाथां मनसो यो जवीयान्त्रिवन्धुरो वृषणा यस्त्रिचक्रः ।
1.183.01 येनोपयाथः सुकृतो दुरोणं त्रिधातुना पतथो विर्न पर्णैः ॥
1.183.02 सुवृद्रथो वर्तते यन्नभि क्षां यत्तिष्ठथः क्रतुमन्तानु पृक्षे ।
1.183.02 वपुर्वपुष्या सचतामियं गीर्दिवो दुहित्रोषसा सचेथे ॥
1.183.03 आ तिष्ठतं सुवृतं यो रथो वामनु व्रतानि वर्तते हविष्मान् ।
1.183.03 येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥
1.183.04 मा वां वृको मा वृकीरा दधर्षीन्मा परि वर्क्तमुत माति धक्तम् ।
1.183.04 अयं वां भागो निहित इयं गीर्दस्राविमे वां निधयो मधूनाम् ॥
1.183.05 युवां गोतमः पुरुमीळ्हो अत्रिर्दस्रा हवतेऽवसे हविष्मान् ।
1.183.05 दिशं न दिष्टामृजूयेव यन्ता मे हवं नासत्योप यातम् ॥
1.183.06 अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
1.183.06 एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥

1.184.01 ता वामद्य तावपरं हुवेमोच्छन्त्यामुषसि वह्निरुक्थैः ।
1.184.01 नासत्या कुह चित्सन्तावर्यो दिवो नपाता सुदास्तराय ॥
1.184.02 अस्मे ऊ षु वृषणा मादयेथामुत्पणींर्हतमूर्म्या मदन्ता ।
1.184.02 श्रुतं मे अच्छोक्तिभिर्मतीनामेष्टा नरा निचेतारा च कर्णैः ॥
1.184.03 श्रिये पूषन्निषुकृतेव देवा नासत्या वहतुं सूर्यायाः ।
1.184.03 वच्यन्ते वां ककुहा अप्सु जाता युगा जूर्णेव वरुणस्य भूरेः ॥
1.184.04 अस्मे सा वां माध्वी रातिरस्तु स्तोमं हिनोतं मान्यस्य कारोः ।
1.184.04 अनु यद्वां श्रवस्या सुदानू सुवीर्याय चर्षणयो मदन्ति ॥
1.184.05 एष वां स्तोमो अश्विनावकारि मानेभिर्मघवाना सुवृक्ति ।
1.184.05 यातं वर्तिस्तनयाय त्मने चागस्त्ये नासत्या मदन्ता ॥
1.184.06 अतारिष्म तमसस्पारमस्य प्रति वां स्तोमो अश्विनावधायि ।
1.184.06 एह यातं पथिभिर्देवयानैर्विद्यामेषं वृजनं जीरदानुम् ॥

1.185.01 कतरा पूर्वा कतरापरायोः कथा जाते कवयः को वि वेद ।
1.185.01 विश्वं त्मना बिभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥
1.185.02 भूरिं द्वे अचरन्ती चरन्तं पद्वन्तं गर्भमपदी दधाते ।
1.185.02 नित्यं न सूनुं पित्रोरुपस्थे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.03 अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत् ।
1.185.03 तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.04 अतप्यमाने अवसावन्ती अनु ष्याम रोदसी देवपुत्रे ।
1.185.04 उभे देवानामुभयेभिरह्नां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.05 संगच्छमाने युवती समन्ते स्वसारा जामी पित्रोरुपस्थे ।
1.185.05 अभिजिघ्रन्ती भुवनस्य नाभिं द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.06 उर्वी सद्मनी बृहती ऋतेन हुवे देवानामवसा जनित्री ।
1.185.06 दधाते ये अमृतं सुप्रतीके द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.07 उर्वी पृथ्वी बहुले दूरेअन्ते उप ब्रुवे नमसा यज्ञे अस्मिन् ।
1.185.07 दधाते ये सुभगे सुप्रतूर्ती द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.08 देवान्वा यच्चकृमा कच्चिदागः सखायं वा सदमिज्जास्पतिं वा ।
1.185.08 इयं धीर्भूया अवयानमेषां द्यावा रक्षतं पृथिवी नो अभ्वात् ॥
1.185.09 उभा शंसा नर्या मामविष्टामुभे मामूती अवसा सचेताम् ।
1.185.09 भूरि चिदर्यः सुदास्तरायेषा मदन्त इषयेम देवाः ॥
1.185.10 ऋतं दिवे तदवोचं पृथिव्या अभिश्रावाय प्रथमं सुमेधाः ।
1.185.10 पातामवद्याद्दुरितादभीके पिता माता च रक्षतामवोभिः ॥
1.185.11 इदं द्यावापृथिवी सत्यमस्तु पितर्मातर्यदिहोपब्रुवे वाम् ।
1.185.11 भूतं देवानामवमे अवोभिर्विद्यामेषं वृजनं जीरदानुम् ॥

1.186.01 आ न इळाभिर्विदथे सुशस्ति विश्वानरः सविता देव एतु ।
1.186.01 अपि यथा युवानो मत्सथा नो विश्वं जगदभिपित्वे मनीषा ॥
1.186.02 आ नो विश्व आस्क्रा गमन्तु देवा मित्रो अर्यमा वरुणः सजोषाः ।
1.186.02 भुवन्यथा नो विश्वे वृधासः करन्सुषाहा विथुरं न शवः ॥
1.186.03 प्रेष्ठं वो अतिथिं गृणीषेऽग्निं शस्तिभिस्तुर्वणिः सजोषाः ।
1.186.03 असद्यथा नो वरुणः सुकीर्तिरिषश्च पर्षदरिगूर्तः सूरिः ॥
1.186.04 उप व एषे नमसा जिगीषोषासानक्ता सुदुघेव धेनुः ।
1.186.04 समाने अहन्विमिमानो अर्कं विषुरूपे पयसि सस्मिन्नूधन् ॥
1.186.05 उत नोऽहिर्बुध्न्यो मयस्कः शिशुं न पिप्युषीव वेति सिन्धुः ।
1.186.05 येन नपातमपां जुनाम मनोजुवो वृषणो यं वहन्ति ॥
1.186.06 उत न ईं त्वष्टा गन्त्वच्छा स्मत्सूरिभिरभिपित्वे सजोषाः ।
1.186.06 आ वृत्रहेन्द्रश्चर्षणिप्रास्तुविष्टमो नरां न इह गम्याः ॥
1.186.07 उत न ईं मतयोऽश्वयोगाः शिशुं न गावस्तरुणं रिहन्ति ।
1.186.07 तमीं गिरो जनयो न पत्नीः सुरभिष्टमं नरां नसन्त ॥
1.186.08 उत न ईं मरुतो वृद्धसेनाः स्मद्रोदसी समनसः सदन्तु ।
1.186.08 पृषदश्वासोऽवनयो न रथा रिशादसो मित्रयुजो न देवाः ॥
1.186.09 प्र नु यदेषां महिना चिकित्रे प्र युञ्जते प्रयुजस्ते सुवृक्ति ।
1.186.09 अध यदेषां सुदिने न शरुर्विश्वमेरिणं प्रुषायन्त सेनाः ॥
1.186.10 प्रो अश्विनाववसे कृणुध्वं प्र पूषणं स्वतवसो हि सन्ति ।
1.186.10 अद्वेषो विष्णुर्वात ऋभुक्षा अच्छा सुम्नाय ववृतीय देवान् ॥
1.186.11 इयं सा वो अस्मे दीधितिर्यजत्रा अपिप्राणी च सदनी च भूयाः ।
1.186.11 नि या देवेषु यतते वसूयुर्विद्यामेषं वृजनं जीरदानुम् ॥

1.187.01 पितुं नु स्तोषं महो धर्माणं तविषीम् ।
1.187.01 यस्य त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥
1.187.02 स्वादो पितो मधो पितो वयं त्वा ववृमहे ।
1.187.02 अस्माकमविता भव ॥
1.187.03 उप नः पितवा चर शिवः शिवाभिरूतिभिः ।
1.187.03 मयोभुरद्विषेण्यः सखा सुशेवो अद्वयाः ॥
1.187.04 तव त्ये पितो रसा रजांस्यनु विष्ठिताः ।
1.187.04 दिवि वाता इव श्रिताः ॥
1.187.05 तव त्ये पितो ददतस्तव स्वादिष्ठ ते पितो ।
1.187.05 प्र स्वाद्मानो रसानां तुविग्रीवा इवेरते ॥
1.187.06 त्वे पितो महानां देवानां मनो हितम् ।
1.187.06 अकारि चारु केतुना तवाहिमवसावधीत् ॥
1.187.07 यददो पितो अजगन्विवस्व पर्वतानाम् ।
1.187.07 अत्रा चिन्नो मधो पितोऽरं भक्षाय गम्याः ॥
1.187.08 यदपामोषधीनां परिंशमारिशामहे ।
1.187.08 वातापे पीव इद्भव ॥
1.187.09 यत्ते सोम गवाशिरो यवाशिरो भजामहे ।
1.187.09 वातापे पीव इद्भव ॥
1.187.10 करम्भ ओषधे भव पीवो वृक्क उदारथिः ।
1.187.10 वातापे पीव इद्भव ॥
1.187.11 तं त्वा वयं पितो वचोभिर्गावो न हव्या सुषूदिम ।
1.187.11 देवेभ्यस्त्वा सधमादमस्मभ्यं त्वा सधमादम् ॥

1.188.01 समिद्धो अद्य राजसि देवो देवैः सहस्रजित् ।
1.188.01 दूतो हव्या कविर्वह ॥
1.188.02 तनूनपादृतं यते मध्वा यज्ञः समज्यते ।
1.188.02 दधत्सहस्रिणीरिषः ॥
1.188.03 आजुह्वानो न ईड्यो देवां आ वक्षि यज्ञियान् ।
1.188.03 अग्ने सहस्रसा असि ॥
1.188.04 प्राचीनं बर्हिरोजसा सहस्रवीरमस्तृणन् ।
1.188.04 यत्रादित्या विराजथ ॥
1.188.05 विराट्सम्राड्विभ्वीः प्रभ्वीर्बह्वीश्च भूयसीश्च याः ।
1.188.05 दुरो घृतान्यक्षरन् ॥
1.188.06 सुरुक्मे हि सुपेशसाधि श्रिया विराजतः ।
1.188.06 उषासावेह सीदताम् ॥
1.188.07 प्रथमा हि सुवाचसा होतारा दैव्या कवी ।
1.188.07 यज्ञं नो यक्षतामिमम् ॥
1.188.08 भारतीळे सरस्वति या वः सर्वा उपब्रुवे ।
1.188.08 ता नश्चोदयत श्रिये ॥
1.188.09 त्वष्टा रूपाणि हि प्रभुः पशून्विश्वान्समानजे ।
1.188.09 तेषां न स्फातिमा यज ॥
1.188.10 उप त्मन्या वनस्पते पाथो देवेभ्यः सृज ।
1.188.10 अग्निर्हव्यानि सिष्वदत् ॥
1.188.11 पुरोगा अग्निर्देवानां गायत्रेण समज्यते ।
1.188.11 स्वाहाकृतीषु रोचते ॥

1.189.01 अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
1.189.01 युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥
1.189.02 अग्ने त्वं पारया नव्यो अस्मान्स्वस्तिभिरति दुर्गाणि विश्वा ।
1.189.02 पूश्च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
1.189.03 अग्ने त्वमस्मद्युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः ।
1.189.03 पुनरस्मभ्यं सुविताय देव क्षां विश्वेभिरमृतेभिर्यजत्र ॥
1.189.04 पाहि नो अग्ने पायुभिरजस्रैरुत प्रिये सदन आ शुशुक्वान् ।
1.189.04 मा ते भयं जरितारं यविष्ठ नूनं विदन्मापरं सहस्वः ॥
1.189.05 मा नो अग्नेऽव सृजो अघायाविष्यवे रिपवे दुच्छुनायै ।
1.189.05 मा दत्वते दशते मादते नो मा रीषते सहसावन्परा दाः ॥
1.189.06 वि घ त्वावां ऋतजात यंसद्गृणानो अग्ने तन्वे वरूथम् ।
1.189.06 विश्वाद्रिरिक्षोरुत वा निनित्सोरभिह्रुतामसि हि देव विष्पट् ॥
1.189.07 त्वं तां अग्न उभयान्वि विद्वान्वेषि प्रपित्वे मनुषो यजत्र ।
1.189.07 अभिपित्वे मनवे शास्यो भूर्मर्मृजेन्य उशिग्भिर्नाक्रः ॥
1.189.08 अवोचाम निवचनान्यस्मिन्मानस्य सूनुः सहसाने अग्नौ ।
1.189.08 वयं सहस्रमृषिभिः सनेम विद्यामेषं वृजनं जीरदानुम् ॥

1.190.01 अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्यमर्कैः ।
1.190.01 गाथान्यः सुरुचो यस्य देवा आशृण्वन्ति नवमानस्य मर्ताः ॥
1.190.02 तमृत्विया उप वाचः सचन्ते सर्गो न यो देवयतामसर्जि ।
1.190.02 बृहस्पतिः स ह्यञ्जो वरांसि विभ्वाभवत्समृते मातरिश्वा ॥
1.190.03 उपस्तुतिं नमस उद्यतिं च श्लोकं यंसत्सवितेव प्र बाहू ।
1.190.03 अस्य क्रत्वाहन्यो यो अस्ति मृगो न भीमो अरक्षसस्तुविष्मान् ॥
1.190.04 अस्य श्लोको दिवीयते पृथिव्यामत्यो न यंसद्यक्षभृद्विचेताः ।
1.190.04 मृगाणां न हेतयो यन्ति चेमा बृहस्पतेरहिमायां अभि द्यून् ॥
1.190.05 ये त्वा देवोस्रिकं मन्यमानाः पापा भद्रमुपजीवन्ति पज्राः ।
1.190.05 न दूढ्ये अनु ददासि वामं बृहस्पते चयस इत्पियारुम् ॥
1.190.06 सुप्रैतुः सूयवसो न पन्था दुर्नियन्तुः परिप्रीतो न मित्रः ।
1.190.06 अनर्वाणो अभि ये चक्षते नोऽपीवृता अपोर्णुवन्तो अस्थुः ॥
1.190.07 सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः ।
1.190.07 स विद्वां उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्रः ॥
1.190.08 एवा महस्तुविजातस्तुविष्मान्बृहस्पतिर्वृषभो धायि देवः ।
1.190.08 स न स्तुतो वीरवद्धातु गोमद्विद्यामेषं वृजनं जीरदानुम् ॥

1.191.01 कङ्कतो न कङ्कतोऽथो सतीनकङ्कतः ।
1.191.01 द्वाविति प्लुषी इति न्यदृष्टा अलिप्सत ॥
1.191.02 अदृष्टान्हन्त्यायत्यथो हन्ति परायती ।
1.191.02 अथो अवघ्नती हन्त्यथो पिनष्टि पिंषती ॥
1.191.03 शरासः कुशरासो दर्भासः सैर्या उत ।
1.191.03 मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥
1.191.04 नि गावो गोष्ठे असदन्नि मृगासो अविक्षत ।
1.191.04 नि केतवो जनानां न्यदृष्टा अलिप्सत ॥
1.191.05 एत उ त्ये प्रत्यदृश्रन्प्रदोषं तस्करा इव ।
1.191.05 अदृष्टा विश्वदृष्टाः प्रतिबुद्धा अभूतन ॥
1.191.06 द्यौर्वः पिता पृथिवी माता सोमो भ्रातादितिः स्वसा ।
1.191.06 अदृष्टा विश्वदृष्टास्तिष्ठतेलयता सु कम् ॥
1.191.07 ये अंस्या ये अङ्ग्याः सूचीका ये प्रकङ्कताः ।
1.191.07 अदृष्टाः किं चनेह वः सर्वे साकं नि जस्यत ॥
1.191.08 उत्पुरस्तात्सूर्य एति विश्वदृष्टो अदृष्टहा ।
1.191.08 अदृष्टान्सर्वाञ्जम्भयन्सर्वाश्च यातुधान्यः ॥
1.191.09 उदपप्तदसौ सूर्यः पुरु विश्वानि जूर्वन् ।
1.191.09 आदित्यः पर्वतेभ्यो विश्वदृष्टो अदृष्टहा ॥
1.191.10 सूर्ये विषमा सजामि दृतिं सुरावतो गृहे ।
1.191.10 सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.11 इयत्तिका शकुन्तिका सका जघास ते विषम् ।
1.191.11 सो चिन्नु न मराति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.12 त्रिः सप्त विष्पुलिङ्गका विषस्य पुष्यमक्षन् ।
1.191.12 ताश्चिन्नु न मरन्ति नो वयं मरामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.13 नवानां नवतीनां विषस्य रोपुषीणाम् ।
1.191.13 सर्वासामग्रभं नामारे अस्य योजनं हरिष्ठा मधु त्वा मधुला चकार ॥
1.191.14 त्रिः सप्त मयूर्यः सप्त स्वसारो अग्रुवः ।
1.191.14 तास्ते विषं वि जभ्रिर उदकं कुम्भिनीरिव ॥
1.191.15 इयत्तकः कुषुम्भकस्तकं भिनद्म्यश्मना ।
1.191.15 ततो विषं प्र वावृते पराचीरनु संवतः ॥
1.191.16 कुषुम्भकस्तदब्रवीद्गिरेः प्रवर्तमानकः ।
1.191.16 वृश्चिकस्यारसं विषमरसं वृश्चिक ते विषम् ॥