Rig Veda

Rig Veda Ninth Mandala [ऋग्वेद]

9.001.01 स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
9.001.01 इन्द्राय पातवे सुतः ॥
9.001.02 रक्षोहा विश्वचर्षणिरभि योनिमयोहतम् ।
9.001.02 द्रुणा सधस्थमासदत् ॥
9.001.03 वरिवोधातमो भव मंहिष्ठो वृत्रहन्तमः ।
9.001.03 पर्षि राधो मघोनाम् ॥
9.001.04 अभ्यर्ष महानां देवानां वीतिमन्धसा ।
9.001.04 अभि वाजमुत श्रवः ॥
9.001.05 त्वामच्छा चरामसि तदिदर्थं दिवेदिवे ।
9.001.05 इन्दो त्वे न आशसः ॥
9.001.06 पुनाति ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
9.001.06 वारेण शश्वता तना ॥
9.001.07 तमीमण्वीः समर्य आ गृभ्णन्ति योषणो दश ।
9.001.07 स्वसारः पार्ये दिवि ॥
9.001.08 तमीं हिन्वन्त्यग्रुवो धमन्ति बाकुरं दृतिम् ।
9.001.08 त्रिधातु वारणं मधु ॥
9.001.09 अभीममघ्न्या उत श्रीणन्ति धेनवः शिशुम् ।
9.001.09 सोममिन्द्राय पातवे ॥
9.001.10 अस्येदिन्द्रो मदेष्वा विश्वा वृत्राणि जिघ्नते ।
9.001.10 शूरो मघा च मंहते ॥

9.002.01 पवस्व देववीरति पवित्रं सोम रंह्या ।
9.002.01 इन्द्रमिन्दो वृषा विश ॥
9.002.02 आ वच्यस्व महि प्सरो वृषेन्दो द्युम्नवत्तमः ।
9.002.02 आ योनिं धर्णसिः सदः ॥
9.002.03 अधुक्षत प्रियं मधु धारा सुतस्य वेधसः ।
9.002.03 अपो वसिष्ट सुक्रतुः ॥
9.002.04 महान्तं त्वा महीरन्वापो अर्षन्ति सिन्धवः ।
9.002.04 यद्गोभिर्वासयिष्यसे ॥
9.002.05 समुद्रो अप्सु मामृजे विष्टम्भो धरुणो दिवः ।
9.002.05 सोमः पवित्रे अस्मयुः ॥
9.002.06 अचिक्रदद्वृषा हरिर्महान्मित्रो न दर्शतः ।
9.002.06 सं सूर्येण रोचते ॥
9.002.07 गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः ।
9.002.07 याभिर्मदाय शुम्भसे ॥
9.002.08 तं त्वा मदाय घृष्वय उ लोककृत्नुमीमहे ।
9.002.08 तव प्रशस्तयो महीः ॥
9.002.09 अस्मभ्यमिन्दविन्द्रयुर्मध्वः पवस्व धारया ।
9.002.09 पर्जन्यो वृष्टिमां इव ॥
9.002.10 गोषा इन्दो नृषा अस्यश्वसा वाजसा उत ।
9.002.10 आत्मा यज्ञस्य पूर्व्यः ॥

9.003.01 एष देवो अमर्त्यः पर्णवीरिव दीयति ।
9.003.01 अभि द्रोणान्यासदम् ॥
9.003.02 एष देवो विपा कृतोऽति ह्वरांसि धावति ।
9.003.02 पवमानो अदाभ्यः ॥
9.003.03 एष देवो विपन्युभिः पवमान ऋतायुभिः ।
9.003.03 हरिर्वाजाय मृज्यते ॥
9.003.04 एष विश्वानि वार्या शूरो यन्निव सत्वभिः ।
9.003.04 पवमानः सिषासति ॥
9.003.05 एष देवो रथर्यति पवमानो दशस्यति ।
9.003.05 आविष्कृणोति वग्वनुम् ॥
9.003.06 एष विप्रैरभिष्टुतोऽपो देवो वि गाहते ।
9.003.06 दधद्रत्नानि दाशुषे ॥
9.003.07 एष दिवं वि धावति तिरो रजांसि धारया ।
9.003.07 पवमानः कनिक्रदत् ॥
9.003.08 एष दिवं व्यासरत्तिरो रजांस्यस्पृतः ।
9.003.08 पवमानः स्वध्वरः ॥
9.003.09 एष प्रत्नेन जन्मना देवो देवेभ्यः सुतः ।
9.003.09 हरिः पवित्रे अर्षति ॥
9.003.10 एष उ स्य पुरुव्रतो जज्ञानो जनयन्निषः ।
9.003.10 धारया पवते सुतः ॥

9.004.01 सना च सोम जेषि च पवमान महि श्रवः ।
9.004.01 अथा नो वस्यसस्कृधि ॥
9.004.02 सना ज्योतिः सना स्वर्विश्वा च सोम सौभगा ।
9.004.02 अथा नो वस्यसस्कृधि ॥
9.004.03 सना दक्षमुत क्रतुमप सोम मृधो जहि ।
9.004.03 अथा नो वस्यसस्कृधि ॥
9.004.04 पवीतारः पुनीतन सोममिन्द्राय पातवे ।
9.004.04 अथा नो वस्यसस्कृधि ॥
9.004.05 त्वं सूर्ये न आ भज तव क्रत्वा तवोतिभिः ।
9.004.05 अथा नो वस्यसस्कृधि ॥
9.004.06 तव क्रत्वा तवोतिभिर्ज्योक्पश्येम सूर्यम् ।
9.004.06 अथा नो वस्यसस्कृधि ॥
9.004.07 अभ्यर्ष स्वायुध सोम द्विबर्हसं रयिम् ।
9.004.07 अथा नो वस्यसस्कृधि ॥
9.004.08 अभ्यर्षानपच्युतो रयिं समत्सु सासहिः ।
9.004.08 अथा नो वस्यसस्कृधि ॥
9.004.09 त्वां यज्ञैरवीवृधन्पवमान विधर्मणि ।
9.004.09 अथा नो वस्यसस्कृधि ॥
9.004.10 रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर ।
9.004.10 अथा नो वस्यसस्कृधि ॥

9.005.01 समिद्धो विश्वतस्पतिः पवमानो वि राजति ।
9.005.01 प्रीणन्वृषा कनिक्रदत् ॥
9.005.02 तनूनपात्पवमानः शृङ्गे शिशानो अर्षति ।
9.005.02 अन्तरिक्षेण रारजत् ॥
9.005.03 ईळेन्यः पवमानो रयिर्वि राजति द्युमान् ।
9.005.03 मधोर्धाराभिरोजसा ॥
9.005.04 बर्हिः प्राचीनमोजसा पवमान स्तृणन्हरिः ।
9.005.04 देवेषु देव ईयते ॥
9.005.05 उदातैर्जिहते बृहद्द्वारो देवीर्हिरण्ययीः ।
9.005.05 पवमानेन सुष्टुताः ॥
9.005.06 सुशिल्पे बृहती मही पवमानो वृषण्यति ।
9.005.06 नक्तोषासा न दर्शते ॥
9.005.07 उभा देवा नृचक्षसा होतारा दैव्या हुवे ।
9.005.07 पवमान इन्द्रो वृषा ॥
9.005.08 भारती पवमानस्य सरस्वतीळा मही ।
9.005.08 इमं नो यज्ञमा गमन्तिस्रो देवीः सुपेशसः ॥
9.005.09 त्वष्टारमग्रजां गोपां पुरोयावानमा हुवे ।
9.005.09 इन्दुरिन्द्रो वृषा हरिः पवमानः प्रजापतिः ॥
9.005.10 वनस्पतिं पवमान मध्वा समङ्ग्धि धारया ।
9.005.10 सहस्रवल्शं हरितं भ्राजमानं हिरण्ययम् ॥
9.005.11 विश्वे देवाः स्वाहाकृतिं पवमानस्या गत ।
9.005.11 वायुर्बृहस्पतिः सूर्योऽग्निरिन्द्रः सजोषसः ॥

9.006.01 मन्द्रया सोम धारया वृषा पवस्व देवयुः ।
9.006.01 अव्यो वारेष्वस्मयुः ॥
9.006.02 अभि त्यं मद्यं मदमिन्दविन्द्र इति क्षर ।
9.006.02 अभि वाजिनो अर्वतः ॥
9.006.03 अभि त्यं पूर्व्यं मदं सुवानो अर्ष पवित्र आ ।
9.006.03 अभि वाजमुत श्रवः ॥
9.006.04 अनु द्रप्सास इन्दव आपो न प्रवतासरन् ।
9.006.04 पुनाना इन्द्रमाशत ॥
9.006.05 यमत्यमिव वाजिनं मृजन्ति योषणो दश ।
9.006.05 वने क्रीळन्तमत्यविम् ॥
9.006.06 तं गोभिर्वृषणं रसं मदाय देववीतये ।
9.006.06 सुतं भराय सं सृज ॥
9.006.07 देवो देवाय धारयेन्द्राय पवते सुतः ।
9.006.07 पयो यदस्य पीपयत् ॥
9.006.08 आत्मा यज्ञस्य रंह्या सुष्वाणः पवते सुतः ।
9.006.08 प्रत्नं नि पाति काव्यम् ॥
9.006.09 एवा पुनान इन्द्रयुर्मदं मदिष्ठ वीतये ।
9.006.09 गुहा चिद्दधिषे गिरः ॥

9.007.01 असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।
9.007.01 विदाना अस्य योजनम् ॥
9.007.02 प्र धारा मध्वो अग्रियो महीरपो वि गाहते ।
9.007.02 हविर्हविष्षु वन्द्यः ॥
9.007.03 प्र युजो वाचो अग्रियो वृषाव चक्रदद्वने ।
9.007.03 सद्माभि सत्यो अध्वरः ॥
9.007.04 परि यत्काव्या कविर्नृम्णा वसानो अर्षति ।
9.007.04 स्वर्वाजी सिषासति ॥
9.007.05 पवमानो अभि स्पृधो विशो राजेव सीदति ।
9.007.05 यदीमृण्वन्ति वेधसः ॥
9.007.06 अव्यो वारे परि प्रियो हरिर्वनेषु सीदति ।
9.007.06 रेभो वनुष्यते मती ॥
9.007.07 स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।
9.007.07 रणा यो अस्य धर्मभिः ॥
9.007.08 आ मित्रावरुणा भगं मध्वः पवन्त ऊर्मयः ।
9.007.08 विदाना अस्य शक्मभिः ॥
9.007.09 अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।
9.007.09 श्रवो वसूनि सं जितम् ॥

9.008.01 एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।
9.008.01 वर्धन्तो अस्य वीर्यम् ॥
9.008.02 पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।
9.008.02 ते नो धान्तु सुवीर्यम् ॥
9.008.03 इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।
9.008.03 ऋतस्य योनिमासदम् ॥
9.008.04 मृजन्ति त्वा दश क्षिपो हिन्वन्ति सप्त धीतयः ।
9.008.04 अनु विप्रा अमादिषुः ॥
9.008.05 देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।
9.008.05 सं गोभिर्वासयामसि ॥
9.008.06 पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।
9.008.06 परि गव्यान्यव्यत ॥
9.008.07 मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।
9.008.07 इन्दो सखायमा विश ॥
9.008.08 वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।
9.008.08 सहो नः सोम पृत्सु धाः ॥
9.008.09 नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदम् ।
9.008.09 भक्षीमहि प्रजामिषम् ॥

9.009.01 परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
9.009.01 सुवानो याति कविक्रतुः ॥
9.009.02 प्रप्र क्षयाय पन्यसे जनाय जुष्टो अद्रुहे ।
9.009.02 वीत्यर्ष चनिष्ठया ॥
9.009.03 स सूनुर्मातरा शुचिर्जातो जाते अरोचयत् ।
9.009.03 महान्मही ऋतावृधा ॥
9.009.04 स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुहः ।
9.009.04 या एकमक्षि वावृधुः ॥
9.009.05 ता अभि सन्तमस्तृतं महे युवानमा दधुः ।
9.009.05 इन्दुमिन्द्र तव व्रते ॥
9.009.06 अभि वह्निरमर्त्यः सप्त पश्यति वावहिः ।
9.009.06 क्रिविर्देवीरतर्पयत् ॥
9.009.07 अवा कल्पेषु नः पुमस्तमांसि सोम योध्या ।
9.009.07 तानि पुनान जङ्घनः ॥
9.009.08 नू नव्यसे नवीयसे सूक्ताय साधया पथः ।
9.009.08 प्रत्नवद्रोचया रुचः ॥
9.009.09 पवमान महि श्रवो गामश्वं रासि वीरवत् ।
9.009.09 सना मेधां सना स्वः ॥

9.010.01 प्र स्वानासो रथा इवार्वन्तो न श्रवस्यवः ।
9.010.01 सोमासो राये अक्रमुः ॥
9.010.02 हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।
9.010.02 भरासः कारिणामिव ॥
9.010.03 राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।
9.010.03 यज्ञो न सप्त धातृभिः ॥
9.010.04 परि सुवानास इन्दवो मदाय बर्हणा गिरा ।
9.010.04 सुता अर्षन्ति धारया ॥
9.010.05 आपानासो विवस्वतो जनन्त उषसो भगम् ।
9.010.05 सूरा अण्वं वि तन्वते ॥
9.010.06 अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।
9.010.06 वृष्णो हरस आयवः ॥
9.010.07 समीचीनास आसते होतारः सप्तजामयः ।
9.010.07 पदमेकस्य पिप्रतः ॥
9.010.08 नाभा नाभिं न आ ददे चक्षुश्चित्सूर्ये सचा ।
9.010.08 कवेरपत्यमा दुहे ॥
9.010.09 अभि प्रिया दिवस्पदमध्वर्युभिर्गुहा हितम् ।
9.010.09 सूरः पश्यति चक्षसा ॥

9.011.01 उपास्मै गायता नरः पवमानायेन्दवे ।
9.011.01 अभि देवां इयक्षते ॥
9.011.02 अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।
9.011.02 देवं देवाय देवयु ॥
9.011.03 स नः पवस्व शं गवे शं जनाय शमर्वते ।
9.011.03 शं राजन्नोषधीभ्यः ॥
9.011.04 बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।
9.011.04 सोमाय गाथमर्चत ॥
9.011.05 हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।
9.011.05 मधावा धावता मधु ॥
9.011.06 नमसेदुप सीदत दध्नेदभि श्रीणीतन ।
9.011.06 इन्दुमिन्द्रे दधातन ॥
9.011.07 अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।
9.011.07 देवेभ्यो अनुकामकृत् ॥
9.011.08 इन्द्राय सोम पातवे मदाय परि षिच्यसे ।
9.011.08 मनश्चिन्मनसस्पतिः ॥
9.011.09 पवमान सुवीर्यं रयिं सोम रिरीहि नः ।
9.011.09 इन्दविन्द्रेण नो युजा ॥

9.012.01 सोमा असृग्रमिन्दवः सुता ऋतस्य सादने ।
9.012.01 इन्द्राय मधुमत्तमाः ॥
9.012.02 अभि विप्रा अनूषत गावो वत्सं न मातरः ।
9.012.02 इन्द्रं सोमस्य पीतये ॥
9.012.03 मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।
9.012.03 सोमो गौरी अधि श्रितः ॥
9.012.04 दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।
9.012.04 सोमो यः सुक्रतुः कविः ॥
9.012.05 यः सोमः कलशेष्वां अन्तः पवित्र आहितः ।
9.012.05 तमिन्दुः परि षस्वजे ॥
9.012.06 प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।
9.012.06 जिन्वन्कोशं मधुश्चुतम् ॥
9.012.07 नित्यस्तोत्रो वनस्पतिर्धीनामन्तः सबर्दुघः ।
9.012.07 हिन्वानो मानुषा युगा ॥
9.012.08 अभि प्रिया दिवस्पदा सोमो हिन्वानो अर्षति ।
9.012.08 विप्रस्य धारया कविः ॥
9.012.09 आ पवमान धारय रयिं सहस्रवर्चसम् ।
9.012.09 अस्मे इन्दो स्वाभुवम् ॥

9.013.01 सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।
9.013.01 वायोरिन्द्रस्य निष्कृतम् ॥
9.013.02 पवमानमवस्यवो विप्रमभि प्र गायत ।
9.013.02 सुष्वाणं देववीतये ॥
9.013.03 पवन्ते वाजसातये सोमाः सहस्रपाजसः ।
9.013.03 गृणाना देववीतये ॥
9.013.04 उत नो वाजसातये पवस्व बृहतीरिषः ।
9.013.04 द्युमदिन्दो सुवीर्यम् ॥
9.013.05 ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यम् ।
9.013.05 सुवाना देवास इन्दवः ॥
9.013.06 अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।
9.013.06 वि वारमव्यमाशवः ॥
9.013.07 वाश्रा अर्षन्तीन्दवोऽभि वत्सं न धेनवः ।
9.013.07 दधन्विरे गभस्त्योः ॥
9.013.08 जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।
9.013.08 विश्वा अप द्विषो जहि ॥
9.013.09 अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।
9.013.09 योनावृतस्य सीदत ॥

9.014.01 परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
9.014.01 कारं बिभ्रत्पुरुस्पृहम् ॥
9.014.02 गिरा यदी सबन्धवः पञ्च व्राता अपस्यवः ।
9.014.02 परिष्कृण्वन्ति धर्णसिम् ॥
9.014.03 आदस्य शुष्मिणो रसे विश्वे देवा अमत्सत ।
9.014.03 यदी गोभिर्वसायते ॥
9.014.04 निरिणानो वि धावति जहच्छर्याणि तान्वा ।
9.014.04 अत्रा सं जिघ्नते युजा ॥
9.014.05 नप्तीभिर्यो विवस्वतः शुभ्रो न मामृजे युवा ।
9.014.05 गाः कृण्वानो न निर्णिजम् ॥
9.014.06 अति श्रिती तिरश्चता गव्या जिगात्यण्व्या ।
9.014.06 वग्नुमियर्ति यं विदे ॥
9.014.07 अभि क्षिपः समग्मत मर्जयन्तीरिषस्पतिम् ।
9.014.07 पृष्ठा गृभ्णत वाजिनः ॥
9.014.08 परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा ।
9.014.08 वसूनि याह्यस्मयुः ॥

9.015.01 एष धिया यात्यण्व्या शूरो रथेभिराशुभिः ।
9.015.01 गच्छन्निन्द्रस्य निष्कृतम् ॥
9.015.02 एष पुरू धियायते बृहते देवतातये ।
9.015.02 यत्रामृतास आसते ॥
9.015.03 एष हितो वि नीयतेऽन्तः शुभ्रावता पथा ।
9.015.03 यदी तुञ्जन्ति भूर्णयः ॥
9.015.04 एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो वृषा ।
9.015.04 नृम्णा दधान ओजसा ॥
9.015.05 एष रुक्मिभिरीयते वाजी शुभ्रेभिरंशुभिः ।
9.015.05 पतिः सिन्धूनां भवन् ॥
9.015.06 एष वसूनि पिब्दना परुषा ययिवां अति ।
9.015.06 अव शादेषु गच्छति ॥
9.015.07 एतं मृजन्ति मर्ज्यमुप द्रोणेष्वायवः ।
9.015.07 प्रचक्राणं महीरिषः ॥
9.015.08 एतमु त्यं दश क्षिपो मृजन्ति सप्त धीतयः ।
9.015.08 स्वायुधं मदिन्तमम् ॥

9.016.01 प्र ते सोतार ओण्यो रसं मदाय घृष्वये ।
9.016.01 सर्गो न तक्त्येतशः ॥
9.016.02 क्रत्वा दक्षस्य रथ्यमपो वसानमन्धसा ।
9.016.02 गोषामण्वेषु सश्चिम ॥
9.016.03 अनप्तमप्सु दुष्टरं सोमं पवित्र आ सृज ।
9.016.03 पुनीहीन्द्राय पातवे ॥
9.016.04 प्र पुनानस्य चेतसा सोमः पवित्रे अर्षति ।
9.016.04 क्रत्वा सधस्थमासदत् ॥
9.016.05 प्र त्वा नमोभिरिन्दव इन्द्र सोमा असृक्षत ।
9.016.05 महे भराय कारिणः ॥
9.016.06 पुनानो रूपे अव्यये विश्वा अर्षन्नभि श्रियः ।
9.016.06 शूरो न गोषु तिष्ठति ॥
9.016.07 दिवो न सानु पिप्युषी धारा सुतस्य वेधसः ।
9.016.07 वृथा पवित्रे अर्षति ॥
9.016.08 त्वं सोम विपश्चितं तना पुनान आयुषु ।
9.016.08 अव्यो वारं वि धावसि ॥

9.017.01 प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः ।
9.017.01 सोमा असृग्रमाशवः ॥
9.017.02 अभि सुवानास इन्दवो वृष्टयः पृथिवीमिव ।
9.017.02 इन्द्रं सोमासो अक्षरन् ॥
9.017.03 अत्यूर्मिर्मत्सरो मदः सोमः पवित्रे अर्षति ।
9.017.03 विघ्नन्रक्षांसि देवयुः ॥
9.017.04 आ कलशेषु धावति पवित्रे परि षिच्यते ।
9.017.04 उक्थैर्यज्ञेषु वर्धते ॥
9.017.05 अति त्री सोम रोचना रोहन्न भ्राजसे दिवम् ।
9.017.05 इष्णन्सूर्यं न चोदयः ॥
9.017.06 अभि विप्रा अनूषत मूर्धन्यज्ञस्य कारवः ।
9.017.06 दधानाश्चक्षसि प्रियम् ॥
9.017.07 तमु त्वा वाजिनं नरो धीभिर्विप्रा अवस्यवः ।
9.017.07 मृजन्ति देवतातये ॥
9.017.08 मधोर्धारामनु क्षर तीव्रः सधस्थमासदः ।
9.017.08 चारुरृताय पीतये ॥

9.018.01 परि सुवानो गिरिष्ठाः पवित्रे सोमो अक्षाः ।
9.018.01 मदेषु सर्वधा असि ॥
9.018.02 त्वं विप्रस्त्वं कविर्मधु प्र जातमन्धसः ।
9.018.02 मदेषु सर्वधा असि ॥
9.018.03 तव विश्वे सजोषसो देवासः पीतिमाशत ।
9.018.03 मदेषु सर्वधा असि ॥
9.018.04 आ यो विश्वानि वार्या वसूनि हस्तयोर्दधे ।
9.018.04 मदेषु सर्वधा असि ॥
9.018.05 य इमे रोदसी मही सं मातरेव दोहते ।
9.018.05 मदेषु सर्वधा असि ॥
9.018.06 परि यो रोदसी उभे सद्यो वाजेभिरर्षति ।
9.018.06 मदेषु सर्वधा असि ॥
9.018.07 स शुष्मी कलशेष्वा पुनानो अचिक्रदत् ।
9.018.07 मदेषु सर्वधा असि ॥

9.019.01 यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।
9.019.01 तन्नः पुनान आ भर ॥
9.019.02 युवं हि स्थः स्वर्पती इन्द्रश्च सोम गोपती ।
9.019.02 ईशाना पिप्यतं धियः ॥
9.019.03 वृषा पुनान आयुषु स्तनयन्नधि बर्हिषि ।
9.019.03 हरिः सन्योनिमासदत् ॥
9.019.04 अवावशन्त धीतयो वृषभस्याधि रेतसि ।
9.019.04 सूनोर्वत्सस्य मातरः ॥
9.019.05 कुविद्वृषण्यन्तीभ्यः पुनानो गर्भमादधत् ।
9.019.05 याः शुक्रं दुहते पयः ॥
9.019.06 उप शिक्षापतस्थुषो भियसमा धेहि शत्रुषु ।
9.019.06 पवमान विदा रयिम् ॥
9.019.07 नि शत्रोः सोम वृष्ण्यं नि शुष्मं नि वयस्तिर ।
9.019.07 दूरे वा सतो अन्ति वा ॥

9.020.01 प्र कविर्देववीतयेऽव्यो वारेभिरर्षति ।
9.020.01 साह्वान्विश्वा अभि स्पृधः ॥
9.020.02 स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।
9.020.02 पवमानः सहस्रिणम् ॥
9.020.03 परि विश्वानि चेतसा मृशसे पवसे मती ।
9.020.03 स नः सोम श्रवो विदः ॥
9.020.04 अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिम् ।
9.020.04 इषं स्तोतृभ्य आ भर ॥
9.020.05 त्वं राजेव सुव्रतो गिरः सोमा विवेशिथ ।
9.020.05 पुनानो वह्ने अद्भुत ॥
9.020.06 स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।
9.020.06 सोमश्चमूषु सीदति ॥
9.020.07 क्रीळुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।
9.020.07 दधत्स्तोत्रे सुवीर्यम् ॥

9.021.01 एते धावन्तीन्दवः सोमा इन्द्राय घृष्वयः ।
9.021.01 मत्सरासः स्वर्विदः ॥
9.021.02 प्रवृण्वन्तो अभियुजः सुष्वये वरिवोविदः ।
9.021.02 स्वयं स्तोत्रे वयस्कृतः ॥
9.021.03 वृथा क्रीळन्त इन्दवः सधस्थमभ्येकमित् ।
9.021.03 सिन्धोरूर्मा व्यक्षरन् ॥
9.021.04 एते विश्वानि वार्या पवमानास आशत ।
9.021.04 हिता न सप्तयो रथे ॥
9.021.05 आस्मिन्पिशङ्गमिन्दवो दधाता वेनमादिशे ।
9.021.05 यो अस्मभ्यमरावा ॥
9.021.06 ऋभुर्न रथ्यं नवं दधाता केतमादिशे ।
9.021.06 शुक्राः पवध्वमर्णसा ॥
9.021.07 एत उ त्ये अवीवशन्काष्ठां वाजिनो अक्रत ।
9.021.07 सतः प्रासाविषुर्मतिम् ॥

9.022.01 एते सोमास आशवो रथा इव प्र वाजिनः ।
9.022.01 सर्गाः सृष्टा अहेषत ॥
9.022.02 एते वाता इवोरवः पर्जन्यस्येव वृष्टयः ।
9.022.02 अग्नेरिव भ्रमा वृथा ॥
9.022.03 एते पूता विपश्चितः सोमासो दध्याशिरः ।
9.022.03 विपा व्यानशुर्धियः ॥
9.022.04 एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः ।
9.022.04 इयक्षन्तः पथो रजः ॥
9.022.05 एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः ।
9.022.05 उतेदमुत्तमं रजः ॥
9.022.06 तन्तुं तन्वानमुत्तममनु प्रवत आशत ।
9.022.06 उतेदमुत्तमाय्यम् ॥
9.022.07 त्वं सोम पणिभ्य आ वसु गव्यानि धारयः ।
9.022.07 ततं तन्तुमचिक्रदः ॥

9.023.01 सोमा असृग्रमाशवो मधोर्मदस्य धारया ।
9.023.01 अभि विश्वानि काव्या ॥
9.023.02 अनु प्रत्नास आयवः पदं नवीयो अक्रमुः ।
9.023.02 रुचे जनन्त सूर्यम् ॥
9.023.03 आ पवमान नो भरार्यो अदाशुषो गयम् ।
9.023.03 कृधि प्रजावतीरिषः ॥
9.023.04 अभि सोमास आयवः पवन्ते मद्यं मदम् ।
9.023.04 अभि कोशं मधुश्चुतम् ॥
9.023.05 सोमो अर्षति धर्णसिर्दधान इन्द्रियं रसम् ।
9.023.05 सुवीरो अभिशस्तिपाः ॥
9.023.06 इन्द्राय सोम पवसे देवेभ्यः सधमाद्यः ।
9.023.06 इन्दो वाजं सिषाससि ॥
9.023.07 अस्य पीत्वा मदानामिन्द्रो वृत्राण्यप्रति ।
9.023.07 जघान जघनच्च नु ॥

9.024.01 प्र सोमासो अधन्विषुः पवमानास इन्दवः ।
9.024.01 श्रीणाना अप्सु मृञ्जत ॥
9.024.02 अभि गावो अधन्विषुरापो न प्रवता यतीः ।
9.024.02 पुनाना इन्द्रमाशत ॥
9.024.03 प्र पवमान धन्वसि सोमेन्द्राय पातवे ।
9.024.03 नृभिर्यतो वि नीयसे ॥
9.024.04 त्वं सोम नृमादनः पवस्व चर्षणीसहे ।
9.024.04 सस्निर्यो अनुमाद्यः ॥
9.024.05 इन्दो यदद्रिभिः सुतः पवित्रं परिधावसि ।
9.024.05 अरमिन्द्रस्य धाम्ने ॥
9.024.06 पवस्व वृत्रहन्तमोक्थेभिरनुमाद्यः ।
9.024.06 शुचिः पावको अद्भुतः ॥
9.024.07 शुचिः पावक उच्यते सोमः सुतस्य मध्वः ।
9.024.07 देवावीरघशंसहा ॥

9.025.01 पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
9.025.01 मरुद्भ्यो वायवे मदः ॥
9.025.02 पवमान धिया हितोऽभि योनिं कनिक्रदत् ।
9.025.02 धर्मणा वायुमा विश ॥
9.025.03 सं देवैः शोभते वृषा कविर्योनावधि प्रियः ।
9.025.03 वृत्रहा देववीतमः ॥
9.025.04 विश्वा रूपाण्याविशन्पुनानो याति हर्यतः ।
9.025.04 यत्रामृतास आसते ॥
9.025.05 अरुषो जनयन्गिरः सोमः पवत आयुषक् ।
9.025.05 इन्द्रं गच्छन्कविक्रतुः ॥
9.025.06 आ पवस्व मदिन्तम पवित्रं धारया कवे ।
9.025.06 अर्कस्य योनिमासदम् ॥

9.026.01 तममृक्षन्त वाजिनमुपस्थे अदितेरधि ।
9.026.01 विप्रासो अण्व्या धिया ॥
9.026.02 तं गावो अभ्यनूषत सहस्रधारमक्षितम् ।
9.026.02 इन्दुं धर्तारमा दिवः ॥
9.026.03 तं वेधां मेधयाह्यन्पवमानमधि द्यवि ।
9.026.03 धर्णसिं भूरिधायसम् ॥
9.026.04 तमह्यन्भुरिजोर्धिया संवसानं विवस्वतः ।
9.026.04 पतिं वाचो अदाभ्यम् ॥
9.026.05 तं सानावधि जामयो हरिं हिन्वन्त्यद्रिभिः ।
9.026.05 हर्यतं भूरिचक्षसम् ॥
9.026.06 तं त्वा हिन्वन्ति वेधसः पवमान गिरावृधम् ।
9.026.06 इन्दविन्द्राय मत्सरम् ॥

9.027.01 एष कविरभिष्टुतः पवित्रे अधि तोशते ।
9.027.01 पुनानो घ्नन्नप स्रिधः ॥
9.027.02 एष इन्द्राय वायवे स्वर्जित्परि षिच्यते ।
9.027.02 पवित्रे दक्षसाधनः ॥
9.027.03 एष नृभिर्वि नीयते दिवो मूर्धा वृषा सुतः ।
9.027.03 सोमो वनेषु विश्ववित् ॥
9.027.04 एष गव्युरचिक्रदत्पवमानो हिरण्ययुः ।
9.027.04 इन्दुः सत्राजिदस्तृतः ॥
9.027.05 एष सूर्येण हासते पवमानो अधि द्यवि ।
9.027.05 पवित्रे मत्सरो मदः ॥
9.027.06 एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः ।
9.027.06 पुनान इन्दुरिन्द्रमा ॥

9.028.01 एष वाजी हितो नृभिर्विश्वविन्मनसस्पतिः ।
9.028.01 अव्यो वारं वि धावति ॥
9.028.02 एष पवित्रे अक्षरत्सोमो देवेभ्यः सुतः ।
9.028.02 विश्वा धामान्याविशन् ॥
9.028.03 एष देवः शुभायतेऽधि योनावमर्त्यः ।
9.028.03 वृत्रहा देववीतमः ॥
9.028.04 एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः ।
9.028.04 अभि द्रोणानि धावति ॥
9.028.05 एष सूर्यमरोचयत्पवमानो विचर्षणिः ।
9.028.05 विश्वा धामानि विश्ववित् ॥
9.028.06 एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति ।
9.028.06 देवावीरघशंसहा ॥

9.029.01 प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।
9.029.01 देवां अनु प्रभूषतः ॥
9.029.02 सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।
9.029.02 ज्योतिर्जज्ञानमुक्थ्यम् ॥
9.029.03 सुषहा सोम तानि ते पुनानाय प्रभूवसो ।
9.029.03 वर्धा समुद्रमुक्थ्यम् ॥
9.029.04 विश्वा वसूनि संजयन्पवस्व सोम धारया ।
9.029.04 इनु द्वेषांसि सध्र्यक् ॥
9.029.05 रक्षा सु नो अररुषः स्वनात्समस्य कस्य चित् ।
9.029.05 निदो यत्र मुमुच्महे ॥
9.029.06 एन्दो पार्थिवं रयिं दिव्यं पवस्व धारया ।
9.029.06 द्युमन्तं शुष्ममा भर ॥

9.030.01 प्र धारा अस्य शुष्मिणो वृथा पवित्रे अक्षरन् ।
9.030.01 पुनानो वाचमिष्यति ॥
9.030.02 इन्दुर्हियानः सोतृभिर्मृज्यमानः कनिक्रदत् ।
9.030.02 इयर्ति वग्नुमिन्द्रियम् ॥
9.030.03 आ नः शुष्मं नृषाह्यं वीरवन्तं पुरुस्पृहम् ।
9.030.03 पवस्व सोम धारया ॥
9.030.04 प्र सोमो अति धारया पवमानो असिष्यदत् ।
9.030.04 अभि द्रोणान्यासदम् ॥
9.030.05 अप्सु त्वा मधुमत्तमं हरिं हिन्वन्त्यद्रिभिः ।
9.030.05 इन्दविन्द्राय पीतये ॥
9.030.06 सुनोता मधुमत्तमं सोममिन्द्राय वज्रिणे ।
9.030.06 चारुं शर्धाय मत्सरम् ॥

9.031.01 प्र सोमासः स्वाध्यः पवमानासो अक्रमुः ।
9.031.01 रयिं कृण्वन्ति चेतनम् ॥
9.031.02 दिवस्पृथिव्या अधि भवेन्दो द्युम्नवर्धनः ।
9.031.02 भवा वाजानां पतिः ॥
9.031.03 तुभ्यं वाता अभिप्रियस्तुभ्यमर्षन्ति सिन्धवः ।
9.031.03 सोम वर्धन्ति ते महः ॥
9.031.04 आ प्यायस्व समेतु ते विश्वतः सोम वृष्ण्यम् ।
9.031.04 भवा वाजस्य संगथे ॥
9.031.05 तुभ्यं गावो घृतं पयो बभ्रो दुदुह्रे अक्षितम् ।
9.031.05 वर्षिष्ठे अधि सानवि ॥
9.031.06 स्वायुधस्य ते सतो भुवनस्य पते वयम् ।
9.031.06 इन्दो सखित्वमुश्मसि ॥

9.032.01 प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
9.032.01 सुता विदथे अक्रमुः ॥
9.032.02 आदीं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
9.032.02 इन्दुमिन्द्राय पीतये ॥
9.032.03 आदीं हंसो यथा गणं विश्वस्यावीवशन्मतिम् ।
9.032.03 अत्यो न गोभिरज्यते ॥
9.032.04 उभे सोमावचाकशन्मृगो न तक्तो अर्षसि ।
9.032.04 सीदन्नृतस्य योनिमा ॥
9.032.05 अभि गावो अनूषत योषा जारमिव प्रियम् ।
9.032.05 अगन्नाजिं यथा हितम् ॥
9.032.06 अस्मे धेहि द्युमद्यशो मघवद्भ्यश्च मह्यं च ।
9.032.06 सनिं मेधामुत श्रवः ॥

9.033.01 प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः ।
9.033.01 वनानि महिषा इव ॥
9.033.02 अभि द्रोणानि बभ्रवः शुक्रा ऋतस्य धारया ।
9.033.02 वाजं गोमन्तमक्षरन् ॥
9.033.03 सुता इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
9.033.03 सोमा अर्षन्ति विष्णवे ॥
9.033.04 तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
9.033.04 हरिरेति कनिक्रदत् ॥
9.033.05 अभि ब्रह्मीरनूषत यह्वीरृतस्य मातरः ।
9.033.05 मर्मृज्यन्ते दिवः शिशुम् ॥
9.033.06 रायः समुद्रांश्चतुरोऽस्मभ्यं सोम विश्वतः ।
9.033.06 आ पवस्व सहस्रिणः ॥

9.034.01 प्र सुवानो धारया तनेन्दुर्हिन्वानो अर्षति ।
9.034.01 रुजद्दृळ्हा व्योजसा ॥
9.034.02 सुत इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
9.034.02 सोमो अर्षति विष्णवे ॥
9.034.03 वृषाणं वृषभिर्यतं सुन्वन्ति सोममद्रिभिः ।
9.034.03 दुहन्ति शक्मना पयः ॥
9.034.04 भुवत्त्रितस्य मर्ज्यो भुवदिन्द्राय मत्सरः ।
9.034.04 सं रूपैरज्यते हरिः ॥
9.034.05 अभीमृतस्य विष्टपं दुहते पृश्निमातरः ।
9.034.05 चारु प्रियतमं हविः ॥
9.034.06 समेनमह्रुता इमा गिरो अर्षन्ति सस्रुतः ।
9.034.06 धेनूर्वाश्रो अवीवशत् ॥

9.035.01 आ नः पवस्व धारया पवमान रयिं पृथुम् ।
9.035.01 यया ज्योतिर्विदासि नः ॥
9.035.02 इन्दो समुद्रमीङ्खय पवस्व विश्वमेजय ।
9.035.02 रायो धर्ता न ओजसा ॥
9.035.03 त्वया वीरेण वीरवोऽभि ष्याम पृतन्यतः ।
9.035.03 क्षरा णो अभि वार्यम् ॥
9.035.04 प्र वाजमिन्दुरिष्यति सिषासन्वाजसा ऋषिः ।
9.035.04 व्रता विदान आयुधा ॥
9.035.05 तं गीर्भिर्वाचमीङ्खयं पुनानं वासयामसि ।
9.035.05 सोमं जनस्य गोपतिम् ॥
9.035.06 विश्वो यस्य व्रते जनो दाधार धर्मणस्पतेः ।
9.035.06 पुनानस्य प्रभूवसोः ॥

9.036.01 असर्जि रथ्यो यथा पवित्रे चम्वोः सुतः ।
9.036.01 कार्ष्मन्वाजी न्यक्रमीत् ॥
9.036.02 स वह्निः सोम जागृविः पवस्व देववीरति ।
9.036.02 अभि कोशं मधुश्चुतम् ॥
9.036.03 स नो ज्योतींषि पूर्व्य पवमान वि रोचय ।
9.036.03 क्रत्वे दक्षाय नो हिनु ॥
9.036.04 शुम्भमान ऋतायुभिर्मृज्यमानो गभस्त्योः ।
9.036.04 पवते वारे अव्यये ॥
9.036.05 स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा ।
9.036.05 पवतामान्तरिक्ष्या ॥
9.036.06 आ दिवस्पृष्ठमश्वयुर्गव्ययुः सोम रोहसि ।
9.036.06 वीरयुः शवसस्पते ॥

9.037.01 स सुतः पीतये वृषा सोमः पवित्रे अर्षति ।
9.037.01 विघ्नन्रक्षांसि देवयुः ॥
9.037.02 स पवित्रे विचक्षणो हरिरर्षति धर्णसिः ।
9.037.02 अभि योनिं कनिक्रदत् ॥
9.037.03 स वाजी रोचना दिवः पवमानो वि धावति ।
9.037.03 रक्षोहा वारमव्ययम् ॥
9.037.04 स त्रितस्याधि सानवि पवमानो अरोचयत् ।
9.037.04 जामिभिः सूर्यं सह ॥
9.037.05 स वृत्रहा वृषा सुतो वरिवोविददाभ्यः ।
9.037.05 सोमो वाजमिवासरत् ॥
9.037.06 स देवः कविनेषितोऽभि द्रोणानि धावति ।
9.037.06 इन्दुरिन्द्राय मंहना ॥

9.038.01 एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति ।
9.038.01 गच्छन्वाजं सहस्रिणम् ॥
9.038.02 एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः ।
9.038.02 इन्दुमिन्द्राय पीतये ॥
9.038.03 एतं त्यं हरितो दश मर्मृज्यन्ते अपस्युवः ।
9.038.03 याभिर्मदाय शुम्भते ॥
9.038.04 एष स्य मानुषीष्वा श्येनो न विक्षु सीदति ।
9.038.04 गच्छञ्जारो न योषितम् ॥
9.038.05 एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः ।
9.038.05 य इन्दुर्वारमाविशत् ॥
9.038.06 एष स्य पीतये सुतो हरिरर्षति धर्णसिः ।
9.038.06 क्रन्दन्योनिमभि प्रियम् ॥

9.039.01 आशुरर्ष बृहन्मते परि प्रियेण धाम्ना ।
9.039.01 यत्र देवा इति ब्रवन् ॥
9.039.02 परिष्कृण्वन्ननिष्कृतं जनाय यातयन्निषः ।
9.039.02 वृष्टिं दिवः परि स्रव ॥
9.039.03 सुत एति पवित्र आ त्विषिं दधान ओजसा ।
9.039.03 विचक्षाणो विरोचयन् ॥
9.039.04 अयं स यो दिवस्परि रघुयामा पवित्र आ ।
9.039.04 सिन्धोरूर्मा व्यक्षरत् ॥
9.039.05 आविवासन्परावतो अथो अर्वावतः सुतः ।
9.039.05 इन्द्राय सिच्यते मधु ॥
9.039.06 समीचीना अनूषत हरिं हिन्वन्त्यद्रिभिः ।
9.039.06 योनावृतस्य सीदत ॥

9.040.01 पुनानो अक्रमीदभि विश्वा मृधो विचर्षणिः ।
9.040.01 शुम्भन्ति विप्रं धीतिभिः ॥
9.040.02 आ योनिमरुणो रुहद्गमदिन्द्रं वृषा सुतः ।
9.040.02 ध्रुवे सदसि सीदति ॥
9.040.03 नू नो रयिं महामिन्दोऽस्मभ्यं सोम विश्वतः ।
9.040.03 आ पवस्व सहस्रिणम् ॥
9.040.04 विश्वा सोम पवमान द्युम्नानीन्दवा भर ।
9.040.04 विदाः सहस्रिणीरिषः ॥
9.040.05 स नः पुनान आ भर रयिं स्तोत्रे सुवीर्यम् ।
9.040.05 जरितुर्वर्धया गिरः ॥
9.040.06 पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
9.040.06 वृषन्निन्दो न उक्थ्यम् ॥

9.041.01 प्र ये गावो न भूर्णयस्त्वेषा अयासो अक्रमुः ।
9.041.01 घ्नन्तः कृष्णामप त्वचम् ॥
9.041.02 सुवितस्य मनामहेऽति सेतुं दुराव्यम् ।
9.041.02 साह्वांसो दस्युमव्रतम् ॥
9.041.03 शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः ।
9.041.03 चरन्ति विद्युतो दिवि ॥
9.041.04 आ पवस्व महीमिषं गोमदिन्दो हिरण्यवत् ।
9.041.04 अश्वावद्वाजवत्सुतः ॥
9.041.05 स पवस्व विचर्षण आ मही रोदसी पृण ।
9.041.05 उषाः सूर्यो न रश्मिभिः ॥
9.041.06 परि णः शर्मयन्त्या धारया सोम विश्वतः ।
9.041.06 सरा रसेव विष्टपम् ॥

9.042.01 जनयन्रोचना दिवो जनयन्नप्सु सूर्यम् ।
9.042.01 वसानो गा अपो हरिः ॥
9.042.02 एष प्रत्नेन मन्मना देवो देवेभ्यस्परि ।
9.042.02 धारया पवते सुतः ॥
9.042.03 वावृधानाय तूर्वये पवन्ते वाजसातये ।
9.042.03 सोमाः सहस्रपाजसः ॥
9.042.04 दुहानः प्रत्नमित्पयः पवित्रे परि षिच्यते ।
9.042.04 क्रन्दन्देवां अजीजनत् ॥
9.042.05 अभि विश्वानि वार्याभि देवां ऋतावृधः ।
9.042.05 सोमः पुनानो अर्षति ॥
9.042.06 गोमन्नः सोम वीरवदश्वावद्वाजवत्सुतः ।
9.042.06 पवस्व बृहतीरिषः ॥

9.043.01 यो अत्य इव मृज्यते गोभिर्मदाय हर्यतः ।
9.043.01 तं गीर्भिर्वासयामसि ॥
9.043.02 तं नो विश्वा अवस्युवो गिरः शुम्भन्ति पूर्वथा ।
9.043.02 इन्दुमिन्द्राय पीतये ॥
9.043.03 पुनानो याति हर्यतः सोमो गीर्भिः परिष्कृतः ।
9.043.03 विप्रस्य मेध्यातिथेः ॥
9.043.04 पवमान विदा रयिमस्मभ्यं सोम सुश्रियम् ।
9.043.04 इन्दो सहस्रवर्चसम् ॥
9.043.05 इन्दुरत्यो न वाजसृत्कनिक्रन्ति पवित्र आ ।
9.043.05 यदक्षारति देवयुः ॥
9.043.06 पवस्व वाजसातये विप्रस्य गृणतो वृधे ।
9.043.06 सोम रास्व सुवीर्यम् ॥

9.044.01 प्र ण इन्दो महे तन ऊर्मिं न बिभ्रदर्षसि ।
9.044.01 अभि देवां अयास्यः ॥
9.044.02 मती जुष्टो धिया हितः सोमो हिन्वे परावति ।
9.044.02 विप्रस्य धारया कविः ॥
9.044.03 अयं देवेषु जागृविः सुत एति पवित्र आ ।
9.044.03 सोमो याति विचर्षणिः ॥
9.044.04 स नः पवस्व वाजयुश्चक्राणश्चारुमध्वरम् ।
9.044.04 बर्हिष्मां आ विवासति ॥
9.044.05 स नो भगाय वायवे विप्रवीरः सदावृधः ।
9.044.05 सोमो देवेष्वा यमत् ॥
9.044.06 स नो अद्य वसुत्तये क्रतुविद्गातुवित्तमः ।
9.044.06 वाजं जेषि श्रवो बृहत् ॥

9.045.01 स पवस्व मदाय कं नृचक्षा देववीतये ।
9.045.01 इन्दविन्द्राय पीतये ॥
9.045.02 स नो अर्षाभि दूत्यं त्वमिन्द्राय तोशसे ।
9.045.02 देवान्सखिभ्य आ वरम् ॥
9.045.03 उत त्वामरुणं वयं गोभिरञ्ज्मो मदाय कम् ।
9.045.03 वि नो राये दुरो वृधि ॥
9.045.04 अत्यू पवित्रमक्रमीद्वाजी धुरं न यामनि ।
9.045.04 इन्दुर्देवेषु पत्यते ॥
9.045.05 समी सखायो अस्वरन्वने क्रीळन्तमत्यविम् ।
9.045.05 इन्दुं नावा अनूषत ॥
9.045.06 तया पवस्व धारया यया पीतो विचक्षसे ।
9.045.06 इन्दो स्तोत्रे सुवीर्यम् ॥

9.046.01 असृग्रन्देववीतयेऽत्यासः कृत्व्या इव ।
9.046.01 क्षरन्तः पर्वतावृधः ॥
9.046.02 परिष्कृतास इन्दवो योषेव पित्र्यावती ।
9.046.02 वायुं सोमा असृक्षत ॥
9.046.03 एते सोमास इन्दवः प्रयस्वन्तश्चमू सुताः ।
9.046.03 इन्द्रं वर्धन्ति कर्मभिः ॥
9.046.04 आ धावता सुहस्त्यः शुक्रा गृभ्णीत मन्थिना ।
9.046.04 गोभिः श्रीणीत मत्सरम् ॥
9.046.05 स पवस्व धनञ्जय प्रयन्ता राधसो महः ।
9.046.05 अस्मभ्यं सोम गातुवित् ॥
9.046.06 एतं मृजन्ति मर्ज्यं पवमानं दश क्षिपः ।
9.046.06 इन्द्राय मत्सरं मदम् ॥

9.047.01 अया सोमः सुकृत्यया महश्चिदभ्यवर्धत ।
9.047.01 मन्दान उद्वृषायते ॥
9.047.02 कृतानीदस्य कर्त्वा चेतन्ते दस्युतर्हणा ।
9.047.02 ऋणा च धृष्णुश्चयते ॥
9.047.03 आत्सोम इन्द्रियो रसो वज्रः सहस्रसा भुवत् ।
9.047.03 उक्थं यदस्य जायते ॥
9.047.04 स्वयं कविर्विधर्तरि विप्राय रत्नमिच्छति ।
9.047.04 यदी मर्मृज्यते धियः ॥
9.047.05 सिषासतू रयीणां वाजेष्वर्वतामिव ।
9.047.05 भरेषु जिग्युषामसि ॥

9.048.01 तं त्वा नृम्णानि बिभ्रतं सधस्थेषु महो दिवः ।
9.048.01 चारुं सुकृत्ययेमहे ॥
9.048.02 संवृक्तधृष्णुमुक्थ्यं महामहिव्रतं मदम् ।
9.048.02 शतं पुरो रुरुक्षणिम् ॥
9.048.03 अतस्त्वा रयिमभि राजानं सुक्रतो दिवः ।
9.048.03 सुपर्णो अव्यथिर्भरत् ॥
9.048.04 विश्वस्मा इत्स्वर्दृशे साधारणं रजस्तुरम् ।
9.048.04 गोपामृतस्य विर्भरत् ॥
9.048.05 अधा हिन्वान इन्द्रियं ज्यायो महित्वमानशे ।
9.048.05 अभिष्टिकृद्विचर्षणिः ॥

9.049.01 पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।
9.049.01 अयक्ष्मा बृहतीरिषः ॥
9.049.02 तया पवस्व धारया यया गाव इहागमन् ।
9.049.02 जन्यास उप नो गृहम् ॥
9.049.03 घृतं पवस्व धारया यज्ञेषु देववीतमः ।
9.049.03 अस्मभ्यं वृष्टिमा पव ॥
9.049.04 स न ऊर्जे व्यव्ययं पवित्रं धाव धारया ।
9.049.04 देवासः शृणवन्हि कम् ॥
9.049.05 पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।
9.049.05 प्रत्नवद्रोचयन्रुचः ॥

9.050.01 उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।
9.050.01 वाणस्य चोदया पविम् ॥
9.050.02 प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।
9.050.02 यदव्य एषि सानवि ॥
9.050.03 अव्यो वारे परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।
9.050.03 पवमानं मधुश्चुतम् ॥
9.050.04 आ पवस्व मदिन्तम पवित्रं धारया कवे ।
9.050.04 अर्कस्य योनिमासदम् ॥
9.050.05 स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।
9.050.05 इन्दविन्द्राय पीतये ॥

9.051.01 अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ सृज ।
9.051.01 पुनीहीन्द्राय पातवे ॥
9.051.02 दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।
9.051.02 सुनोता मधुमत्तमम् ॥
9.051.03 तव त्य इन्दो अन्धसो देवा मधोर्व्यश्नते ।
9.051.03 पवमानस्य मरुतः ॥
9.051.04 त्वं हि सोम वर्धयन्सुतो मदाय भूर्णये ।
9.051.04 वृषन्स्तोतारमूतये ॥
9.051.05 अभ्यर्ष विचक्षण पवित्रं धारया सुतः ।
9.051.05 अभि वाजमुत श्रवः ॥

9.052.01 परि द्युक्षः सनद्रयिर्भरद्वाजं नो अन्धसा ।
9.052.01 सुवानो अर्ष पवित्र आ ॥
9.052.02 तव प्रत्नेभिरध्वभिरव्यो वारे परि प्रियः ।
9.052.02 सहस्रधारो यात्तना ॥
9.052.03 चरुर्न यस्तमीङ्खयेन्दो न दानमीङ्खय ।
9.052.03 वधैर्वधस्नवीङ्खय ॥
9.052.04 नि शुष्ममिन्दवेषां पुरुहूत जनानाम् ।
9.052.04 यो अस्मां आदिदेशति ॥
9.052.05 शतं न इन्द ऊतिभिः सहस्रं वा शुचीनाम् ।
9.052.05 पवस्व मंहयद्रयिः ॥

9.053.01 उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।
9.053.01 नुदस्व याः परिस्पृधः ॥
9.053.02 अया निजघ्निरोजसा रथसंगे धने हिते ।
9.053.02 स्तवा अबिभ्युषा हृदा ॥
9.053.03 अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।
9.053.03 रुज यस्त्वा पृतन्यति ॥
9.053.04 तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनम् ।
9.053.04 इन्दुमिन्द्राय मत्सरम् ॥

9.054.01 अस्य प्रत्नामनु द्युतं शुक्रं दुदुह्रे अह्रयः ।
9.054.01 पयः सहस्रसामृषिम् ॥
9.054.02 अयं सूर्य इवोपदृगयं सरांसि धावति ।
9.054.02 सप्त प्रवत आ दिवम् ॥
9.054.03 अयं विश्वानि तिष्ठति पुनानो भुवनोपरि ।
9.054.03 सोमो देवो न सूर्यः ॥
9.054.04 परि णो देववीतये वाजां अर्षसि गोमतः ।
9.054.04 पुनान इन्दविन्द्रयुः ॥

9.055.01 यवंयवं नो अन्धसा पुष्टम्पुष्टं परि स्रव ।
9.055.01 सोम विश्वा च सौभगा ॥
9.055.02 इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।
9.055.02 नि बर्हिषि प्रिये सदः ॥
9.055.03 उत नो गोविदश्ववित्पवस्व सोमान्धसा ।
9.055.03 मक्षूतमेभिरहभिः ॥
9.055.04 यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।
9.055.04 स पवस्व सहस्रजित् ॥

9.056.01 परि सोम ऋतं बृहदाशुः पवित्रे अर्षति ।
9.056.01 विघ्नन्रक्षांसि देवयुः ॥
9.056.02 यत्सोमो वाजमर्षति शतं धारा अपस्युवः ।
9.056.02 इन्द्रस्य सख्यमाविशन् ॥
9.056.03 अभि त्वा योषणो दश जारं न कन्यानूषत ।
9.056.03 मृज्यसे सोम सातये ॥
9.056.04 त्वमिन्द्राय विष्णवे स्वादुरिन्दो परि स्रव ।
9.056.04 नॄन्स्तोतॄन्पाह्यंहसः ॥

9.057.01 प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।
9.057.01 अच्छा वाजं सहस्रिणम् ॥
9.057.02 अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।
9.057.02 हरिस्तुञ्जान आयुधा ॥
9.057.03 स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।
9.057.03 श्येनो न वंसु षीदति ॥
9.057.04 स नो विश्वा दिवो वसूतो पृथिव्या अधि ।
9.057.04 पुनान इन्दवा भर ॥

9.058.01 तरत्स मन्दी धावति धारा सुतस्यान्धसः ।
9.058.01 तरत्स मन्दी धावति ॥
9.058.02 उस्रा वेद वसूनां मर्तस्य देव्यवसः ।
9.058.02 तरत्स मन्दी धावति ॥
9.058.03 ध्वस्रयोः पुरुषन्त्योरा सहस्राणि दद्महे ।
9.058.03 तरत्स मन्दी धावति ॥
9.058.04 आ ययोस्त्रिंशतं तना सहस्राणि च दद्महे ।
9.058.04 तरत्स मन्दी धावति ॥

9.059.01 पवस्व गोजिदश्वजिद्विश्वजित्सोम रण्यजित् ।
9.059.01 प्रजावद्रत्नमा भर ॥
9.059.02 पवस्वाद्भ्यो अदाभ्यः पवस्वौषधीभ्यः ।
9.059.02 पवस्व धिषणाभ्यः ॥
9.059.03 त्वं सोम पवमानो विश्वानि दुरिता तर ।
9.059.03 कविः सीद नि बर्हिषि ॥
9.059.04 पवमान स्वर्विदो जायमानोऽभवो महान् ।
9.059.04 इन्दो विश्वां अभीदसि ॥
9.060.01 प्र गायत्रेण गायत पवमानं विचर्षणिम् ।
9.060.01 इन्दुं सहस्रचक्षसम् ॥
9.060.02 तं त्वा सहस्रचक्षसमथो सहस्रभर्णसम् ।
9.060.02 अति वारमपाविषुः ॥
9.060.03 अति वारान्पवमानो असिष्यदत्कलशां अभि धावति ।
9.060.03 इन्द्रस्य हार्द्याविशन् ॥
9.060.04 इन्द्रस्य सोम राधसे शं पवस्व विचर्षणे ।
9.060.04 प्रजावद्रेत आ भर ॥

9.061.01 अया वीती परि स्रव यस्त इन्दो मदेष्वा ।
9.061.01 अवाहन्नवतीर्नव ॥
9.061.02 पुरः सद्य इत्थाधिये दिवोदासाय शम्बरम् ।
9.061.02 अध त्यं तुर्वशं यदुम् ॥
9.061.03 परि णो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।
9.061.03 क्षरा सहस्रिणीरिषः ॥
9.061.04 पवमानस्य ते वयं पवित्रमभ्युन्दतः ।
9.061.04 सखित्वमा वृणीमहे ॥
9.061.05 ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।
9.061.05 तेभिर्नः सोम मृळय ॥
9.061.06 स नः पुनान आ भर रयिं वीरवतीमिषम् ।
9.061.06 ईशानः सोम विश्वतः ॥
9.061.07 एतमु त्यं दश क्षिपो मृजन्ति सिन्धुमातरम् ।
9.061.07 समादित्येभिरख्यत ॥
9.061.08 समिन्द्रेणोत वायुना सुत एति पवित्र आ ।
9.061.08 सं सूर्यस्य रश्मिभिः ॥
9.061.09 स नो भगाय वायवे पूष्णे पवस्व मधुमान् ।
9.061.09 चारुर्मित्रे वरुणे च ॥
9.061.10 उच्चा ते जातमन्धसो दिवि षद्भूम्या ददे ।
9.061.10 उग्रं शर्म महि श्रवः ॥
9.061.11 एना विश्वान्यर्य आ द्युम्नानि मानुषाणाम् ।
9.061.11 सिषासन्तो वनामहे ॥
9.061.12 स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।
9.061.12 वरिवोवित्परि स्रव ॥
9.061.13 उपो षु जातमप्तुरं गोभिर्भङ्गं परिष्कृतम् ।
9.061.13 इन्दुं देवा अयासिषुः ॥
9.061.14 तमिद्वर्धन्तु नो गिरो वत्सं संशिश्वरीरिव ।
9.061.14 य इन्द्रस्य हृदंसनिः ॥
9.061.15 अर्षा णः सोम शं गवे धुक्षस्व पिप्युषीमिषम् ।
9.061.15 वर्धा समुद्रमुक्थ्यम् ॥
9.061.16 पवमानो अजीजनद्दिवश्चित्रं न तन्यतुम् ।
9.061.16 ज्योतिर्वैश्वानरं बृहत् ॥
9.061.17 पवमानस्य ते रसो मदो राजन्नदुच्छुनः ।
9.061.17 वि वारमव्यमर्षति ॥
9.061.18 पवमान रसस्तव दक्षो वि राजति द्युमान् ।
9.061.18 ज्योतिर्विश्वं स्वर्दृशे ॥
9.061.19 यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
9.061.19 देवावीरघशंसहा ॥
9.061.20 जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।
9.061.20 गोषा उ अश्वसा असि ॥
9.061.21 सम्मिश्लो अरुषो भव सूपस्थाभिर्न धेनुभिः ।
9.061.21 सीदञ्छ्येनो न योनिमा ॥
9.061.22 स पवस्व य आविथेन्द्रं वृत्राय हन्तवे ।
9.061.22 वव्रिवांसं महीरपः ॥
9.061.23 सुवीरासो वयं धना जयेम सोम मीढ्वः ।
9.061.23 पुनानो वर्ध नो गिरः ॥
9.061.24 त्वोतासस्तवावसा स्याम वन्वन्त आमुरः ।
9.061.24 सोम व्रतेषु जागृहि ॥
9.061.25 अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।
9.061.25 गच्छन्निन्द्रस्य निष्कृतम् ॥
9.061.26 महो नो राय आ भर पवमान जही मृधः ।
9.061.26 रास्वेन्दो वीरवद्यशः ॥
9.061.27 न त्वा शतं चन ह्रुतो राधो दित्सन्तमा मिनन् ।
9.061.27 यत्पुनानो मखस्यसे ॥
9.061.28 पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
9.061.28 विश्वा अप द्विषो जहि ॥
9.061.29 अस्य ते सख्ये वयं तवेन्दो द्युम्न उत्तमे ।
9.061.29 सासह्याम पृतन्यतः ॥
9.061.30 या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।
9.061.30 रक्षा समस्य नो निदः ॥

9.062.01 एते असृग्रमिन्दवस्तिरः पवित्रमाशवः ।
9.062.01 विश्वान्यभि सौभगा ॥
9.062.02 विघ्नन्तो दुरिता पुरु सुगा तोकाय वाजिनः ।
9.062.02 तना कृण्वन्तो अर्वते ॥
9.062.03 कृण्वन्तो वरिवो गवेऽभ्यर्षन्ति सुष्टुतिम् ।
9.062.03 इळामस्मभ्यं संयतम् ॥
9.062.04 असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
9.062.04 श्येनो न योनिमासदत् ॥
9.062.05 शुभ्रमन्धो देववातमप्सु धूतो नृभिः सुतः ।
9.062.05 स्वदन्ति गावः पयोभिः ॥
9.062.06 आदीमश्वं न हेतारोऽशूशुभन्नमृताय ।
9.062.06 मध्वो रसं सधमादे ॥
9.062.07 यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।
9.062.07 ताभिः पवित्रमासदः ॥
9.062.08 सो अर्षेन्द्राय पीतये तिरो रोमाण्यव्यया ।
9.062.08 सीदन्योना वनेष्वा ॥
9.062.09 त्वमिन्दो परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।
9.062.09 वरिवोविद्घृतं पयः ॥
9.062.10 अयं विचर्षणिर्हितः पवमानः स चेतति ।
9.062.10 हिन्वान आप्यं बृहत् ॥
9.062.11 एष वृषा वृषव्रतः पवमानो अशस्तिहा ।
9.062.11 करद्वसूनि दाशुषे ॥
9.062.12 आ पवस्व सहस्रिणं रयिं गोमन्तमश्विनम् ।
9.062.12 पुरुश्चन्द्रं पुरुस्पृहम् ॥
9.062.13 एष स्य परि षिच्यते मर्मृज्यमान आयुभिः ।
9.062.13 उरुगायः कविक्रतुः ॥
9.062.14 सहस्रोतिः शतामघो विमानो रजसः कविः ।
9.062.14 इन्द्राय पवते मदः ॥
9.062.15 गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते ।
9.062.15 विर्योना वसताविव ॥
9.062.16 पवमानः सुतो नृभिः सोमो वाजमिवासरत् ।
9.062.16 चमूषु शक्मनासदम् ॥
9.062.17 तं त्रिपृष्ठे त्रिवन्धुरे रथे युञ्जन्ति यातवे ।
9.062.17 ऋषीणां सप्त धीतिभिः ॥
9.062.18 तं सोतारो धनस्पृतमाशुं वाजाय यातवे ।
9.062.18 हरिं हिनोत वाजिनम् ॥
9.062.19 आविशन्कलशं सुतो विश्वा अर्षन्नभि श्रियः ।
9.062.19 शूरो न गोषु तिष्ठति ॥
9.062.20 आ त इन्दो मदाय कं पयो दुहन्त्यायवः ।
9.062.20 देवा देवेभ्यो मधु ॥
9.062.21 आ नः सोमं पवित्र आ सृजता मधुमत्तमम् ।
9.062.21 देवेभ्यो देवश्रुत्तमम् ॥
9.062.22 एते सोमा असृक्षत गृणानाः श्रवसे महे ।
9.062.22 मदिन्तमस्य धारया ॥
9.062.23 अभि गव्यानि वीतये नृम्णा पुनानो अर्षसि ।
9.062.23 सनद्वाजः परि स्रव ॥
9.062.24 उत नो गोमतीरिषो विश्वा अर्ष परिष्टुभः ।
9.062.24 गृणानो जमदग्निना ॥
9.062.25 पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।
9.062.25 अभि विश्वानि काव्या ॥
9.062.26 त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।
9.062.26 पवस्व विश्वमेजय ॥
9.062.27 तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।
9.062.27 तुभ्यमर्षन्ति सिन्धवः ॥
9.062.28 प्र ते दिवो न वृष्टयो धारा यन्त्यसश्चतः ।
9.062.28 अभि शुक्रामुपस्तिरम् ॥
9.062.29 इन्द्रायेन्दुं पुनीतनोग्रं दक्षाय साधनम् ।
9.062.29 ईशानं वीतिराधसम् ॥
9.062.30 पवमान ऋतः कविः सोमः पवित्रमासदत् ।
9.062.30 दधत्स्तोत्रे सुवीर्यम् ॥

9.063.01 आ पवस्व सहस्रिणं रयिं सोम सुवीर्यम् ।
9.063.01 अस्मे श्रवांसि धारय ॥
9.063.02 इषमूर्जं च पिन्वस इन्द्राय मत्सरिन्तमः ।
9.063.02 चमूष्वा नि षीदसि ॥
9.063.03 सुत इन्द्राय विष्णवे सोमः कलशे अक्षरत् ।
9.063.03 मधुमां अस्तु वायवे ॥
9.063.04 एते असृग्रमाशवोऽति ह्वरांसि बभ्रवः ।
9.063.04 सोमा ऋतस्य धारया ॥
9.063.05 इन्द्रं वर्धन्तो अप्तुरः कृण्वन्तो विश्वमार्यम् ।
9.063.05 अपघ्नन्तो अराव्णः ॥
9.063.06 सुता अनु स्वमा रजोऽभ्यर्षन्ति बभ्रवः ।
9.063.06 इन्द्रं गच्छन्त इन्दवः ॥
9.063.07 अया पवस्व धारया यया सूर्यमरोचयः ।
9.063.07 हिन्वानो मानुषीरपः ॥
9.063.08 अयुक्त सूर एतशं पवमानो मनावधि ।
9.063.08 अन्तरिक्षेण यातवे ॥
9.063.09 उत त्या हरितो दश सूरो अयुक्त यातवे ।
9.063.09 इन्दुरिन्द्र इति ब्रुवन् ॥
9.063.10 परीतो वायवे सुतं गिर इन्द्राय मत्सरम् ।
9.063.10 अव्यो वारेषु सिञ्चत ॥
9.063.11 पवमान विदा रयिमस्मभ्यं सोम दुष्टरम् ।
9.063.11 यो दूणाशो वनुष्यता ॥
9.063.12 अभ्यर्ष सहस्रिणं रयिं गोमन्तमश्विनम् ।
9.063.12 अभि वाजमुत श्रवः ॥
9.063.13 सोमो देवो न सूर्योऽद्रिभिः पवते सुतः ।
9.063.13 दधानः कलशे रसम् ॥
9.063.14 एते धामान्यार्या शुक्रा ऋतस्य धारया ।
9.063.14 वाजं गोमन्तमक्षरन् ॥
9.063.15 सुता इन्द्राय वज्रिणे सोमासो दध्याशिरः ।
9.063.15 पवित्रमत्यक्षरन् ॥
9.063.16 प्र सोम मधुमत्तमो राये अर्ष पवित्र आ ।
9.063.16 मदो यो देववीतमः ॥
9.063.17 तमी मृजन्त्यायवो हरिं नदीषु वाजिनम् ।
9.063.17 इन्दुमिन्द्राय मत्सरम् ॥
9.063.18 आ पवस्व हिरण्यवदश्वावत्सोम वीरवत् ।
9.063.18 वाजं गोमन्तमा भर ॥
9.063.19 परि वाजे न वाजयुमव्यो वारेषु सिञ्चत ।
9.063.19 इन्द्राय मधुमत्तमम् ॥
9.063.20 कविं मृजन्ति मर्ज्यं धीभिर्विप्रा अवस्यवः ।
9.063.20 वृषा कनिक्रदर्षति ॥
9.063.21 वृषणं धीभिरप्तुरं सोममृतस्य धारया ।
9.063.21 मती विप्राः समस्वरन् ॥
9.063.22 पवस्व देवायुषगिन्द्रं गच्छतु ते मदः ।
9.063.22 वायुमा रोह धर्मणा ॥
9.063.23 पवमान नि तोशसे रयिं सोम श्रवाय्यम् ।
9.063.23 प्रियः समुद्रमा विश ॥
9.063.24 अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।
9.063.24 नुदस्वादेवयुं जनम् ॥
9.063.25 पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।
9.063.25 अभि विश्वानि काव्या ॥
9.063.26 पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।
9.063.26 घ्नन्तो विश्वा अप द्विषः ॥
9.063.27 पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।
9.063.27 पृथिव्या अधि सानवि ॥
9.063.28 पुनानः सोम धारयेन्दो विश्वा अप स्रिधः ।
9.063.28 जहि रक्षांसि सुक्रतो ॥
9.063.29 अपघ्नन्सोम रक्षसोऽभ्यर्ष कनिक्रदत् ।
9.063.29 द्युमन्तं शुष्ममुत्तमम् ॥
9.063.30 अस्मे वसूनि धारय सोम दिव्यानि पार्थिवा ।
9.063.30 इन्दो विश्वानि वार्या ॥

9.064.01 वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।
9.064.01 वृषा धर्माणि दधिषे ॥
9.064.02 वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा मदः ।
9.064.02 सत्यं वृषन्वृषेदसि ॥
9.064.03 अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।
9.064.03 वि नो राये दुरो वृधि ॥
9.064.04 असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
9.064.04 शुक्रासो वीरयाशवः ॥
9.064.05 शुम्भमाना ऋतायुभिर्मृज्यमाना गभस्त्योः ।
9.064.05 पवन्ते वारे अव्यये ॥
9.064.06 ते विश्वा दाशुषे वसु सोमा दिव्यानि पार्थिवा ।
9.064.06 पवन्तामान्तरिक्ष्या ॥
9.064.07 पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।
9.064.07 सूर्यस्येव न रश्मयः ॥
9.064.08 केतुं कृण्वन्दिवस्परि विश्वा रूपाभ्यर्षसि ।
9.064.08 समुद्रः सोम पिन्वसे ॥
9.064.09 हिन्वानो वाचमिष्यसि पवमान विधर्मणि ।
9.064.09 अक्रान्देवो न सूर्यः ॥
9.064.10 इन्दुः पविष्ट चेतनः प्रियः कवीनां मती ।
9.064.10 सृजदश्वं रथीरिव ॥
9.064.11 ऊर्मिर्यस्ते पवित्र आ देवावीः पर्यक्षरत् ।
9.064.11 सीदन्नृतस्य योनिमा ॥
9.064.12 स नो अर्ष पवित्र आ मदो यो देववीतमः ।
9.064.12 इन्दविन्द्राय पीतये ॥
9.064.13 इषे पवस्व धारया मृज्यमानो मनीषिभिः ।
9.064.13 इन्दो रुचाभि गा इहि ॥
9.064.14 पुनानो वरिवस्कृध्यूर्जं जनाय गिर्वणः ।
9.064.14 हरे सृजान आशिरम् ॥
9.064.15 पुनानो देववीतय इन्द्रस्य याहि निष्कृतम् ।
9.064.15 द्युतानो वाजिभिर्यतः ॥
9.064.16 प्र हिन्वानास इन्दवोऽच्छा समुद्रमाशवः ।
9.064.16 धिया जूता असृक्षत ॥
9.064.17 मर्मृजानास आयवो वृथा समुद्रमिन्दवः ।
9.064.17 अग्मन्नृतस्य योनिमा ॥
9.064.18 परि णो याह्यस्मयुर्विश्वा वसून्योजसा ।
9.064.18 पाहि नः शर्म वीरवत् ॥
9.064.19 मिमाति वह्निरेतशः पदं युजान ऋक्वभिः ।
9.064.19 प्र यत्समुद्र आहितः ॥
9.064.20 आ यद्योनिं हिरण्ययमाशुरृतस्य सीदति ।
9.064.20 जहात्यप्रचेतसः ॥
9.064.21 अभि वेना अनूषतेयक्षन्ति प्रचेतसः ।
9.064.21 मज्जन्त्यविचेतसः ॥
9.064.22 इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
9.064.22 ऋतस्य योनिमासदम् ॥
9.064.23 तं त्वा विप्रा वचोविदः परि ष्कृण्वन्ति वेधसः ।
9.064.23 सं त्वा मृजन्त्यायवः ॥
9.064.24 रसं ते मित्रो अर्यमा पिबन्ति वरुणः कवे ।
9.064.24 पवमानस्य मरुतः ॥
9.064.25 त्वं सोम विपश्चितं पुनानो वाचमिष्यसि ।
9.064.25 इन्दो सहस्रभर्णसम् ॥
9.064.26 उतो सहस्रभर्णसं वाचं सोम मखस्युवम् ।
9.064.26 पुनान इन्दवा भर ॥
9.064.27 पुनान इन्दवेषां पुरुहूत जनानाम् ।
9.064.27 प्रियः समुद्रमा विश ॥
9.064.28 दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।
9.064.28 सोमाः शुक्रा गवाशिरः ॥
9.064.29 हिन्वानो हेतृभिर्यत आ वाजं वाज्यक्रमीत् ।
9.064.29 सीदन्तो वनुषो यथा ॥
9.064.30 ऋधक्सोम स्वस्तये संजग्मानो दिवः कविः ।
9.064.30 पवस्व सूर्यो दृशे ॥

9.065.01 हिन्वन्ति सूरमुस्रयः स्वसारो जामयस्पतिम् ।
9.065.01 महामिन्दुं महीयुवः ॥
9.065.02 पवमान रुचारुचा देवो देवेभ्यस्परि ।
9.065.02 विश्वा वसून्या विश ॥
9.065.03 आ पवमान सुष्टुतिं वृष्टिं देवेभ्यो दुवः ।
9.065.03 इषे पवस्व संयतम् ॥
9.065.04 वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
9.065.04 पवमान स्वाध्यः ॥
9.065.05 आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।
9.065.05 इहो ष्विन्दवा गहि ॥
9.065.06 यदद्भिः परिषिच्यसे मृज्यमानो गभस्त्योः ।
9.065.06 द्रुणा सधस्थमश्नुषे ॥
9.065.07 प्र सोमाय व्यश्ववत्पवमानाय गायत ।
9.065.07 महे सहस्रचक्षसे ॥
9.065.08 यस्य वर्णं मधुश्चुतं हरिं हिन्वन्त्यद्रिभिः ।
9.065.08 इन्दुमिन्द्राय पीतये ॥
9.065.09 तस्य ते वाजिनो वयं विश्वा धनानि जिग्युषः ।
9.065.09 सखित्वमा वृणीमहे ॥
9.065.10 वृषा पवस्व धारया मरुत्वते च मत्सरः ।
9.065.10 विश्वा दधान ओजसा ॥
9.065.11 तं त्वा धर्तारमोण्योः पवमान स्वर्दृशम् ।
9.065.11 हिन्वे वाजेषु वाजिनम् ॥
9.065.12 अया चित्तो विपानया हरिः पवस्व धारया ।
9.065.12 युजं वाजेषु चोदय ॥
9.065.13 आ न इन्दो महीमिषं पवस्व विश्वदर्शतः ।
9.065.13 अस्मभ्यं सोम गातुवित् ॥
9.065.14 आ कलशा अनूषतेन्दो धाराभिरोजसा ।
9.065.14 एन्द्रस्य पीतये विश ॥
9.065.15 यस्य ते मद्यं रसं तीव्रं दुहन्त्यद्रिभिः ।
9.065.15 स पवस्वाभिमातिहा ॥
9.065.16 राजा मेधाभिरीयते पवमानो मनावधि ।
9.065.16 अन्तरिक्षेण यातवे ॥
9.065.17 आ न इन्दो शतग्विनं गवां पोषं स्वश्व्यम् ।
9.065.17 वहा भगत्तिमूतये ॥
9.065.18 आ नः सोम सहो जुवो रूपं न वर्चसे भर ।
9.065.18 सुष्वाणो देववीतये ॥
9.065.19 अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।
9.065.19 सीदञ्छ्येनो न योनिमा ॥
9.065.20 अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।
9.065.20 सोमो अर्षति विष्णवे ॥
9.065.21 इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।
9.065.21 आ पवस्व सहस्रिणम् ॥
9.065.22 ये सोमासः परावति ये अर्वावति सुन्विरे ।
9.065.22 ये वादः शर्यणावति ॥
9.065.23 य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानाम् ।
9.065.23 ये वा जनेषु पञ्चसु ॥
9.065.24 ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यम् ।
9.065.24 सुवाना देवास इन्दवः ॥
9.065.25 पवते हर्यतो हरिर्गृणानो जमदग्निना ।
9.065.25 हिन्वानो गोरधि त्वचि ॥
9.065.26 प्र शुक्रासो वयोजुवो हिन्वानासो न सप्तयः ।
9.065.26 श्रीणाना अप्सु मृञ्जत ॥
9.065.27 तं त्वा सुतेष्वाभुवो हिन्विरे देवतातये ।
9.065.27 स पवस्वानया रुचा ॥
9.065.28 आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।
9.065.28 पान्तमा पुरुस्पृहम् ॥
9.065.29 आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणम् ।
9.065.29 पान्तमा पुरुस्पृहम् ॥
9.065.30 आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।
9.065.30 पान्तमा पुरुस्पृहम् ॥

9.066.01 पवस्व विश्वचर्षणेऽभि विश्वानि काव्या ।
9.066.01 सखा सखिभ्य ईड्यः ॥
9.066.02 ताभ्यां विश्वस्य राजसि ये पवमान धामनी ।
9.066.02 प्रतीची सोम तस्थतुः ॥
9.066.03 परि धामानि यानि ते त्वं सोमासि विश्वतः ।
9.066.03 पवमान ऋतुभिः कवे ॥
9.066.04 पवस्व जनयन्निषोऽभि विश्वानि वार्या ।
9.066.04 सखा सखिभ्य ऊतये ॥
9.066.05 तव शुक्रासो अर्चयो दिवस्पृष्ठे वि तन्वते ।
9.066.05 पवित्रं सोम धामभिः ॥
9.066.06 तवेमे सप्त सिन्धवः प्रशिषं सोम सिस्रते ।
9.066.06 तुभ्यं धावन्ति धेनवः ॥
9.066.07 प्र सोम याहि धारया सुत इन्द्राय मत्सरः ।
9.066.07 दधानो अक्षिति श्रवः ॥
9.066.08 समु त्वा धीभिरस्वरन्हिन्वतीः सप्त जामयः ।
9.066.08 विप्रमाजा विवस्वतः ॥
9.066.09 मृजन्ति त्वा समग्रुवोऽव्ये जीरावधि ष्वणि ।
9.066.09 रेभो यदज्यसे वने ॥
9.066.10 पवमानस्य ते कवे वाजिन्सर्गा असृक्षत ।
9.066.10 अर्वन्तो न श्रवस्यवः ॥
9.066.11 अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।
9.066.11 अवावशन्त धीतयः ॥
9.066.12 अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।
9.066.12 अग्मन्नृतस्य योनिमा ॥
9.066.13 प्र ण इन्दो महे रण आपो अर्षन्ति सिन्धवः ।
9.066.13 यद्गोभिर्वासयिष्यसे ॥
9.066.14 अस्य ते सख्ये वयमियक्षन्तस्त्वोतयः ।
9.066.14 इन्दो सखित्वमुश्मसि ॥
9.066.15 आ पवस्व गविष्टये महे सोम नृचक्षसे ।
9.066.15 एन्द्रस्य जठरे विश ॥
9.066.16 महां असि सोम ज्येष्ठ उग्राणामिन्द ओजिष्ठः ।
9.066.16 युध्वा सञ्छश्वज्जिगेथ ॥
9.066.17 य उग्रेभ्यश्चिदोजीयाञ्छूरेभ्यश्चिच्छूरतरः ।
9.066.17 भूरिदाभ्यश्चिन्मंहीयान् ॥
9.066.18 त्वं सोम सूर एषस्तोकस्य साता तनूनाम् ।
9.066.18 वृणीमहे सख्याय वृणीमहे युज्याय ॥
9.066.19 अग्न आयूंषि पवस आ सुवोर्जमिषं च नः ।
9.066.19 आरे बाधस्व दुच्छुनाम् ॥
9.066.20 अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।
9.066.20 तमीमहे महागयम् ॥
9.066.21 अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम् ।
9.066.21 दधद्रयिं मयि पोषम् ॥
9.066.22 पवमानो अति स्रिधोऽभ्यर्षति सुष्टुतिम् ।
9.066.22 सूरो न विश्वदर्शतः ॥
9.066.23 स मर्मृजान आयुभिः प्रयस्वान्प्रयसे हितः ।
9.066.23 इन्दुरत्यो विचक्षणः ॥
9.066.24 पवमान ऋतं बृहच्छुक्रं ज्योतिरजीजनत् ।
9.066.24 कृष्णा तमांसि जङ्घनत् ॥
9.066.25 पवमानस्य जङ्घ्नतो हरेश्चन्द्रा असृक्षत ।
9.066.25 जीरा अजिरशोचिषः ॥
9.066.26 पवमानो रथीतमः शुभ्रेभिः शुभ्रशस्तमः ।
9.066.26 हरिश्चन्द्रो मरुद्गणः ॥
9.066.27 पवमानो व्यश्नवद्रश्मिभिर्वाजसातमः ।
9.066.27 दधत्स्तोत्रे सुवीर्यम् ॥
9.066.28 प्र सुवान इन्दुरक्षाः पवित्रमत्यव्ययम् ।
9.066.28 पुनान इन्दुरिन्द्रमा ॥
9.066.29 एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः ।
9.066.29 इन्द्रं मदाय जोहुवत् ॥
9.066.30 यस्य ते द्युम्नवत्पयः पवमानाभृतं दिवः ।
9.066.30 तेन नो मृळ जीवसे ॥

9.067.01 त्वं सोमासि धारयुर्मन्द्र ओजिष्ठो अध्वरे ।
9.067.01 पवस्व मंहयद्रयिः ॥
9.067.02 त्वं सुतो नृमादनो दधन्वान्मत्सरिन्तमः ।
9.067.02 इन्द्राय सूरिरन्धसा ॥
9.067.03 त्वं सुष्वाणो अद्रिभिरभ्यर्ष कनिक्रदत् ।
9.067.03 द्युमन्तं शुष्ममुत्तमम् ॥
9.067.04 इन्दुर्हिन्वानो अर्षति तिरो वाराण्यव्यया ।
9.067.04 हरिर्वाजमचिक्रदत् ॥
9.067.05 इन्दो व्यव्यमर्षसि वि श्रवांसि वि सौभगा ।
9.067.05 वि वाजान्सोम गोमतः ॥
9.067.06 आ न इन्दो शतग्विनं रयिं गोमन्तमश्विनम् ।
9.067.06 भरा सोम सहस्रिणम् ॥
9.067.07 पवमानास इन्दवस्तिरः पवित्रमाशवः ।
9.067.07 इन्द्रं यामेभिराशत ॥
9.067.08 ककुहः सोम्यो रस इन्दुरिन्द्राय पूर्व्यः ।
9.067.08 आयुः पवत आयवे ॥
9.067.09 हिन्वन्ति सूरमुस्रयः पवमानं मधुश्चुतम् ।
9.067.09 अभि गिरा समस्वरन् ॥
9.067.10 अविता नो अजाश्वः पूषा यामनियामनि ।
9.067.10 आ भक्षत्कन्यासु नः ॥
9.067.11 अयं सोमः कपर्दिने घृतं न पवते मधु ।
9.067.11 आ भक्षत्कन्यासु नः ॥
9.067.12 अयं त आघृणे सुतो घृतं न पवते शुचि ।
9.067.12 आ भक्षत्कन्यासु नः ॥
9.067.13 वाचो जन्तुः कवीनां पवस्व सोम धारया ।
9.067.13 देवेषु रत्नधा असि ॥
9.067.14 आ कलशेषु धावति श्येनो वर्म वि गाहते ।
9.067.14 अभि द्रोणा कनिक्रदत् ॥
9.067.15 परि प्र सोम ते रसोऽसर्जि कलशे सुतः ।
9.067.15 श्येनो न तक्तो अर्षति ॥
9.067.16 पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥
9.067.17 असृग्रन्देववीतये वाजयन्तो रथा इव ॥
9.067.18 ते सुतासो मदिन्तमाः शुक्रा वायुमसृक्षत ॥
9.067.19 ग्राव्णा तुन्नो अभिष्टुतः पवित्रं सोम गच्छसि ।
9.067.19 दधत्स्तोत्रे सुवीर्यम् ॥
9.067.20 एष तुन्नो अभिष्टुतः पवित्रमति गाहते ।
9.067.20 रक्षोहा वारमव्ययम् ॥
9.067.21 यदन्ति यच्च दूरके भयं विन्दति मामिह ।
9.067.21 पवमान वि तज्जहि ॥
9.067.22 पवमानः सो अद्य नः पवित्रेण विचर्षणिः ।
9.067.22 यः पोता स पुनातु नः ॥
9.067.23 यत्ते पवित्रमर्चिष्यग्ने विततमन्तरा ।
9.067.23 ब्रह्म तेन पुनीहि नः ॥
9.067.24 यत्ते पवित्रमर्चिवदग्ने तेन पुनीहि नः ।
9.067.24 ब्रह्मसवैः पुनीहि नः ॥
9.067.25 उभाभ्यां देव सवितः पवित्रेण सवेन च ।
9.067.25 मां पुनीहि विश्वतः ॥
9.067.26 त्रिभिष्ट्वं देव सवितर्वर्षिष्ठैः सोम धामभिः ।
9.067.26 अग्ने दक्षैः पुनीहि नः ॥
9.067.27 पुनन्तु मां देवजनाः पुनन्तु वसवो धिया ।
9.067.27 विश्वे देवाः पुनीत मा जातवेदः पुनीहि मा ॥
9.067.28 प्र प्यायस्व प्र स्यन्दस्व सोम विश्वेभिरंशुभिः ।
9.067.28 देवेभ्य उत्तमं हविः ॥
9.067.29 उप प्रियं पनिप्नतं युवानमाहुतीवृधम् ।
9.067.29 अगन्म बिभ्रतो नमः ॥
9.067.30 अलाय्यस्य परशुर्ननाश तमा पवस्व देव सोम ।
9.067.30 आखुं चिदेव देव सोम ॥
9.067.31 यः पावमानीरध्येत्यृषिभिः सम्भृतं रसम् ।
9.067.31 सर्वं स पूतमश्नाति स्वदितं मातरिश्वना ॥
9.067.32 पावमानीर्यो अध्येत्यृषिभिः सम्भृतं रसम् ।
9.067.32 तस्मै सरस्वती दुहे क्षीरं सर्पिर्मधूदकम् ॥

9.068.01 प्र देवमच्छा मधुमन्त इन्दवोऽसिष्यदन्त गाव आ न धेनवः ।
9.068.01 बर्हिषदो वचनावन्त ऊधभिः परिस्रुतमुस्रिया निर्णिजं धिरे ॥
9.068.02 स रोरुवदभि पूर्वा अचिक्रददुपारुहः श्रथयन्स्वादते हरिः ।
9.068.02 तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥
9.068.03 वि यो ममे यम्या संयती मदः साकंवृधा पयसा पिन्वदक्षिता ।
9.068.03 मही अपारे रजसी विवेविददभिव्रजन्नक्षितं पाज आ ददे ॥
9.068.04 स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् ।
9.068.04 अंशुर्यवेन पिपिशे यतो नृभिः सं जामिभिर्नसते रक्षते शिरः ॥
9.068.05 सं दक्षेण मनसा जायते कविरृतस्य गर्भो निहितो यमा परः ।
9.068.05 यूना ह सन्ता प्रथमं वि जज्ञतुर्गुहा हितं जनिम नेममुद्यतम् ॥
9.068.06 मन्द्रस्य रूपं विविदुर्मनीषिणः श्येनो यदन्धो अभरत्परावतः ।
9.068.06 तं मर्जयन्त सुवृधं नदीष्वां उशन्तमंशुं परियन्तमृग्मियम् ॥
9.068.07 त्वां मृजन्ति दश योषणः सुतं सोम ऋषिभिर्मतिभिर्धीतिभिर्हितम् ।
9.068.07 अव्यो वारेभिरुत देवहूतिभिर्नृभिर्यतो वाजमा दर्षि सातये ॥
9.068.08 परिप्रयन्तं वय्यं सुषंसदं सोमं मनीषा अभ्यनूषत स्तुभः ।
9.068.08 यो धारया मधुमां ऊर्मिणा दिव इयर्ति वाचं रयिषाळ् अमर्त्यः ॥
9.068.09 अयं दिव इयर्ति विश्वमा रजः सोमः पुनानः कलशेषु सीदति ।
9.068.09 अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दुर्वरिवो विदत्प्रियम् ॥
9.068.10 एवा नः सोम परिषिच्यमानो वयो दधच्चित्रतमं पवस्व ।
9.068.10 अद्वेषे द्यावापृथिवी हुवेम देवा धत्त रयिमस्मे सुवीरम् ॥

9.069.01 इषुर्न धन्वन्प्रति धीयते मतिर्वत्सो न मातुरुप सर्ज्यूधनि ।
9.069.01 उरुधारेव दुहे अग्र आयत्यस्य व्रतेष्वपि सोम इष्यते ॥
9.069.02 उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।
9.069.02 पवमानः संतनिः प्रघ्नतामिव मधुमान्द्रप्सः परि वारमर्षति ॥
9.069.03 अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेरृतं यते ।
9.069.03 हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते ॥
9.069.04 उक्षा मिमाति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतम् ।
9.069.04 अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥
9.069.05 अमृक्तेन रुशता वाससा हरिरमर्त्यो निर्णिजानः परि व्यत ।
9.069.05 दिवस्पृष्ठं बर्हणा निर्णिजे कृतोपस्तरणं चम्वोर्नभस्मयम् ॥
9.069.06 सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुपः साकमीरते ।
9.069.06 तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥
9.069.07 सिन्धोरिव प्रवणे निम्न आशवो वृषच्युता मदासो गातुमाशत ।
9.069.07 शं नो निवेशे द्विपदे चतुष्पदेऽस्मे वाजाः सोम तिष्ठन्तु कृष्टयः ॥
9.069.08 आ नः पवस्व वसुमद्धिरण्यवदश्वावद्गोमद्यवमत्सुवीर्यम् ।
9.069.08 यूयं हि सोम पितरो मम स्थन दिवो मूर्धानः प्रस्थिता वयस्कृतः ॥
9.069.09 एते सोमाः पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ ।
9.069.09 सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥
9.069.10 इन्दविन्द्राय बृहते पवस्व सुमृळीको अनवद्यो रिशादाः ।
9.069.10 भरा चन्द्राणि गृणते वसूनि देवैर्द्यावापृथिवी प्रावतं नः ॥

9.070.01 त्रिरस्मै सप्त धेनवो दुदुह्रे सत्यामाशिरं पूर्व्ये व्योमनि ।
9.070.01 चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥
9.070.02 स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।
9.070.02 तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥
9.070.03 ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।
9.070.03 येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥
9.070.04 स मृज्यमानो दशभिः सुकर्मभिः प्र मध्यमासु मातृषु प्रमे सचा ।
9.070.04 व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥
9.070.05 स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः ।
9.070.05 वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुधः ॥
9.070.06 स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः ।
9.070.06 जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतुः ॥
9.070.07 रुवति भीमो वृषभस्तविष्यया शृङ्गे शिशानो हरिणी विचक्षणः ।
9.070.07 आ योनिं सोमः सुकृतं नि षीदति गव्ययी त्वग्भवति निर्णिगव्ययी ॥
9.070.08 शुचिः पुनानस्तन्वमरेपसमव्ये हरिर्न्यधाविष्ट सानवि ।
9.070.08 जुष्टो मित्राय वरुणाय वायवे त्रिधातु मधु क्रियते सुकर्मभिः ॥
9.070.09 पवस्व सोम देववीतये वृषेन्द्रस्य हार्दि सोमधानमा विश ।
9.070.09 पुरा नो बाधाद्दुरिताति पारय क्षेत्रविद्धि दिश आहा विपृच्छते ॥
9.070.10 हितो न सप्तिरभि वाजमर्षेन्द्रस्येन्दो जठरमा पवस्व ।
9.070.10 नावा न सिन्धुमति पर्षि विद्वाञ्छूरो न युध्यन्नव नो निद स्पः ॥

9.071.01 आ दक्षिणा सृज्यते शुष्म्यासदं वेति द्रुहो रक्षसः पाति जागृविः ।
9.071.01 हरिरोपशं कृणुते नभस्पय उपस्तिरे चम्वोर्ब्रह्म निर्णिजे ॥
9.071.02 प्र कृष्टिहेव शूष एति रोरुवदसुर्यं वर्णं नि रिणीते अस्य तम् ।
9.071.02 जहाति वव्रिं पितुरेति निष्कृतमुपप्रुतं कृणुते निर्णिजं तना ॥
9.071.03 अद्रिभिः सुतः पवते गभस्त्योर्वृषायते नभसा वेपते मती ।
9.071.03 स मोदते नसते साधते गिरा नेनिक्ते अप्सु यजते परीमणि ॥
9.071.04 परि द्युक्षं सहसः पर्वतावृधं मध्वः सिञ्चन्ति हर्म्यस्य सक्षणिम् ।
9.071.04 आ यस्मिन्गावः सुहुताद ऊधनि मूर्धञ्छ्रीणन्त्यग्रियं वरीमभिः ॥
9.071.05 समी रथं न भुरिजोरहेषत दश स्वसारो अदितेरुपस्थ आ ।
9.071.05 जिगादुप ज्रयति गोरपीच्यं पदं यदस्य मतुथा अजीजनन् ॥
9.071.06 श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति ।
9.071.06 ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवां अप्येति यज्ञियः ॥
9.071.07 परा व्यक्तो अरुषो दिवः कविर्वृषा त्रिपृष्ठो अनविष्ट गा अभि ।
9.071.07 सहस्रणीतिर्यतिः परायती रेभो न पूर्वीरुषसो वि राजति ॥
9.071.08 त्वेषं रूपं कृणुते वर्णो अस्य स यत्राशयत्समृता सेधति स्रिधः ।
9.071.08 अप्सा याति स्वधया दैव्यं जनं सं सुष्टुती नसते सं गोअग्रया ॥
9.071.09 उक्षेव यूथा परियन्नरावीदधि त्विषीरधित सूर्यस्य ।
9.071.09 दिव्यः सुपर्णोऽव चक्षत क्षां सोमः परि क्रतुना पश्यते जाः ॥

9.072.01 हरिं मृजन्त्यरुषो न युज्यते सं धेनुभिः कलशे सोमो अज्यते ।
9.072.01 उद्वाचमीरयति हिन्वते मती पुरुष्टुतस्य कति चित्परिप्रियः ॥
9.072.02 साकं वदन्ति बहवो मनीषिण इन्द्रस्य सोमं जठरे यदादुहुः ।
9.072.02 यदी मृजन्ति सुगभस्तयो नरः सनीळाभिर्दशभिः काम्यं मधु ॥
9.072.03 अरममाणो अत्येति गा अभि सूर्यस्य प्रियं दुहितुस्तिरो रवम् ।
9.072.03 अन्वस्मै जोषमभरद्विनङ्गृसः सं द्वयीभिः स्वसृभिः क्षेति जामिभिः ॥
9.072.04 नृधूतो अद्रिषुतो बर्हिषि प्रियः पतिर्गवां प्रदिव इन्दुरृत्वियः ।
9.072.04 पुरन्धिवान्मनुषो यज्ञसाधनः शुचिर्धिया पवते सोम इन्द्र ते ॥
9.072.05 नृबाहुभ्यां चोदितो धारया सुतोऽनुष्वधं पवते सोम इन्द्र ते ।
9.072.05 आप्राः क्रतून्समजैरध्वरे मतीर्वेर्न द्रुषच्चम्वोरासदद्धरिः ॥
9.072.06 अंशुं दुहन्ति स्तनयन्तमक्षितं कविं कवयोऽपसो मनीषिणः ।
9.072.06 समी गावो मतयो यन्ति संयत ऋतस्य योना सदने पुनर्भुवः ॥
9.072.07 नाभा पृथिव्या धरुणो महो दिवोऽपामूर्मौ सिन्धुष्वन्तरुक्षितः ।
9.072.07 इन्द्रस्य वज्रो वृषभो विभूवसुः सोमो हृदे पवते चारु मत्सरः ॥
9.072.08 स तू पवस्व परि पार्थिवं रज स्तोत्रे शिक्षन्नाधून्वते च सुक्रतो ।
9.072.08 मा नो निर्भाग्वसुनः सादनस्पृशो रयिं पिशङ्गं बहुलं वसीमहि ॥
9.072.09 आ तू न इन्दो शतदात्वश्व्यं सहस्रदातु पशुमद्धिरण्यवत् ।
9.072.09 उप मास्व बृहती रेवतीरिषोऽधि स्तोत्रस्य पवमान नो गहि ॥

9.073.01 स्रक्वे द्रप्सस्य धमतः समस्वरन्नृतस्य योना समरन्त नाभयः ।
9.073.01 त्रीन्स मूर्ध्नो असुरश्चक्र आरभे सत्यस्य नावः सुकृतमपीपरन् ॥
9.073.02 सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन् ।
9.073.02 मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन् ॥
9.073.03 पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् ।
9.073.03 महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥
9.073.04 सहस्रधारेऽव ते समस्वरन्दिवो नाके मधुजिह्वा असश्चतः ।
9.073.04 अस्य स्पशो न नि मिषन्ति भूर्णयः पदेपदे पाशिनः सन्ति सेतवः ॥
9.073.05 पितुर्मातुरध्या ये समस्वरन्नृचा शोचन्तः संदहन्तो अव्रतान् ।
9.073.05 इन्द्रद्विष्टामप धमन्ति मायया त्वचमसिक्नीं भूमनो दिवस्परि ॥
9.073.06 प्रत्नान्मानादध्या ये समस्वरञ्छ्लोकयन्त्रासो रभसस्य मन्तवः ।
9.073.06 अपानक्षासो बधिरा अहासत ऋतस्य पन्थां न तरन्ति दुष्कृतः ॥
9.073.07 सहस्रधारे वितते पवित्र आ वाचं पुनन्ति कवयो मनीषिणः ।
9.073.07 रुद्रास एषामिषिरासो अद्रुह स्पशः स्वञ्चः सुदृशो नृचक्षसः ॥
9.073.08 ऋतस्य गोपा न दभाय सुक्रतुस्त्री ष पवित्रा हृद्यन्तरा दधे ।
9.073.08 विद्वान्स विश्वा भुवनाभि पश्यत्यवाजुष्टान्विध्यति कर्ते अव्रतान् ॥
9.073.09 ऋतस्य तन्तुर्विततः पवित्र आ जिह्वाया अग्रे वरुणस्य मायया ।
9.073.09 धीराश्चित्तत्समिनक्षन्त आशतात्रा कर्तमव पदात्यप्रभुः ॥

9.074.01 शिशुर्न जातोऽव चक्रदद्वने स्वर्यद्वाज्यरुषः सिषासति ।
9.074.01 दिवो रेतसा सचते पयोवृधा तमीमहे सुमती शर्म सप्रथः ॥
9.074.02 दिवो य स्कम्भो धरुणः स्वातत आपूर्णो अंशुः पर्येति विश्वतः ।
9.074.02 सेमे मही रोदसी यक्षदावृता समीचीने दाधार समिषः कविः ॥
9.074.03 महि प्सरः सुकृतं सोम्यं मधूर्वी गव्यूतिरदितेरृतं यते ।
9.074.03 ईशे यो वृष्टेरित उस्रियो वृषापां नेता य इतऊतिरृग्मियः ॥
9.074.04 आत्मन्वन्नभो दुह्यते घृतं पय ऋतस्य नाभिरमृतं वि जायते ।
9.074.04 समीचीनाः सुदानवः प्रीणन्ति तं नरो हितमव मेहन्ति पेरवः ॥
9.074.05 अरावीदंशुः सचमान ऊर्मिणा देवाव्यं मनुषे पिन्वति त्वचम् ।
9.074.05 दधाति गर्भमदितेरुपस्थ आ येन तोकं च तनयं च धामहे ॥
9.074.06 सहस्रधारेऽव ता असश्चतस्तृतीये सन्तु रजसि प्रजावतीः ।
9.074.06 चतस्रो नाभो निहिता अवो दिवो हविर्भरन्त्यमृतं घृतश्चुतः ॥
9.074.07 श्वेतं रूपं कृणुते यत्सिषासति सोमो मीढ्वां असुरो वेद भूमनः ।
9.074.07 धिया शमी सचते सेमभि प्रवद्दिवस्कवन्धमव दर्षदुद्रिणम् ॥
9.074.08 अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् ।
9.074.08 आ हिन्विरे मनसा देवयन्तः कक्षीवते शतहिमाय गोनाम् ॥
9.074.09 अद्भिः सोम पपृचानस्य ते रसोऽव्यो वारं वि पवमान धावति ।
9.074.09 स मृज्यमानः कविभिर्मदिन्तम स्वदस्वेन्द्राय पवमान पीतये ॥

9.075.01 अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।
9.075.01 आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥
9.075.02 ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।
9.075.02 दधाति पुत्रः पित्रोरपीच्यं नाम तृतीयमधि रोचने दिवः ॥
9.075.03 अव द्युतानः कलशां अचिक्रदन्नृभिर्येमानः कोश आ हिरण्यये ।
9.075.03 अभीमृतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजति ॥
9.075.04 अद्रिभिः सुतो मतिभिश्चनोहितः प्ररोचयन्रोदसी मातरा शुचिः ।
9.075.04 रोमाण्यव्या समया वि धावति मधोर्धारा पिन्वमाना दिवेदिवे ॥
9.075.05 परि सोम प्र धन्वा स्वस्तये नृभिः पुनानो अभि वासयाशिरम् ।
9.075.05 ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ॥

9.076.01 धर्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।
9.076.01 हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुते नदीष्वा ॥
9.076.02 शूरो न धत्त आयुधा गभस्त्योः स्वः सिषासन्रथिरो गविष्टिषु ।
9.076.02 इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥
9.076.03 इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।
9.076.03 प्र णः पिन्व विद्युदभ्रेव रोदसी धिया न वाजां उप मासि शश्वतः ॥
9.076.04 विश्वस्य राजा पवते स्वर्दृश ऋतस्य धीतिमृषिषाळ् अवीवशत् ।
9.076.04 यः सूर्यस्यासिरेण मृज्यते पिता मतीनामसमष्टकाव्यः ॥
9.076.05 वृषेव यूथा परि कोशमर्षस्यपामुपस्थे वृषभः कनिक्रदत् ।
9.076.05 स इन्द्राय पवसे मत्सरिन्तमो यथा जेषाम समिथे त्वोतयः ॥

9.077.01 एष प्र कोशे मधुमां अचिक्रददिन्द्रस्य वज्रो वपुषो वपुष्टरः ।
9.077.01 अभीमृतस्य सुदुघा घृतश्चुतो वाश्रा अर्षन्ति पयसेव धेनवः ॥
9.077.02 स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रजः ।
9.077.02 स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥
9.077.03 ते नः पूर्वास उपरास इन्दवो महे वाजाय धन्वन्तु गोमते ।
9.077.03 ईक्षेण्यासो अह्यो न चारवो ब्रह्मब्रह्म ये जुजुषुर्हविर्हविः ॥
9.077.04 अयं नो विद्वान्वनवद्वनुष्यत इन्दुः सत्राचा मनसा पुरुष्टुतः ।
9.077.04 इनस्य यः सदने गर्भमादधे गवामुरुब्जमभ्यर्षति व्रजम् ॥
9.077.05 चक्रिर्दिवः पवते कृत्व्यो रसो महां अदब्धो वरुणो हुरुग्यते ।
9.077.05 असावि मित्रो वृजनेषु यज्ञियोऽत्यो न यूथे वृषयुः कनिक्रदत् ॥

9.078.01 प्र राजा वाचं जनयन्नसिष्यददपो वसानो अभि गा इयक्षति ।
9.078.01 गृभ्णाति रिप्रमविरस्य तान्वा शुद्धो देवानामुप याति निष्कृतम् ॥
9.078.02 इन्द्राय सोम परि षिच्यसे नृभिर्नृचक्षा ऊर्मिः कविरज्यसे वने ।
9.078.02 पूर्वीर्हि ते स्रुतयः सन्ति यातवे सहस्रमश्वा हरयश्चमूषदः ॥
9.078.03 समुद्रिया अप्सरसो मनीषिणमासीना अन्तरभि सोममक्षरन् ।
9.078.03 ता ईं हिन्वन्ति हर्म्यस्य सक्षणिं याचन्ते सुम्नं पवमानमक्षितम् ॥
9.078.04 गोजिन्नः सोमो रथजिद्धिरण्यजित्स्वर्जिदब्जित्पवते सहस्रजित् ।
9.078.04 यं देवासश्चक्रिरे पीतये मदं स्वादिष्ठं द्रप्समरुणं मयोभुवम् ॥
9.078.05 एतानि सोम पवमानो अस्मयुः सत्यानि कृण्वन्द्रविणान्यर्षसि ।
9.078.05 जहि शत्रुमन्तिके दूरके च य उर्वीं गव्यूतिमभयं च नस्कृधि ॥

9.079.01 अचोदसो नो धन्वन्त्विन्दवः प्र सुवानासो बृहद्दिवेषु हरयः ।
9.079.01 वि च नशन्न इषो अरातयोऽर्यो नशन्त सनिषन्त नो धियः ॥
9.079.02 प्र णो धन्वन्त्विन्दवो मदच्युतो धना वा येभिरर्वतो जुनीमसि ।
9.079.02 तिरो मर्तस्य कस्य चित्परिह्वृतिं वयं धनानि विश्वधा भरेमहि ॥
9.079.03 उत स्वस्या अरात्या अरिर्हि ष उतान्यस्या अरात्या वृको हि षः ।
9.079.03 धन्वन्न तृष्णा समरीत तां अभि सोम जहि पवमान दुराध्यः ॥
9.079.04 दिवि ते नाभा परमो य आददे पृथिव्यास्ते रुरुहुः सानवि क्षिपः ।
9.079.04 अद्रयस्त्वा बप्सति गोरधि त्वच्यप्सु त्वा हस्तैर्दुदुहुर्मनीषिणः ॥
9.079.05 एवा त इन्दो सुभ्वं सुपेशसं रसं तुञ्जन्ति प्रथमा अभिश्रियः ।
9.079.05 निदंनिदं पवमान नि तारिष आविस्ते शुष्मो भवतु प्रियो मदः ॥

9.080.01 सोमस्य धारा पवते नृचक्षस ऋतेन देवान्हवते दिवस्परि ।
9.080.01 बृहस्पते रवथेना वि दिद्युते समुद्रासो न सवनानि विव्यचुः ॥
9.080.02 यं त्वा वाजिन्नघ्न्या अभ्यनूषतायोहतं योनिमा रोहसि द्युमान् ।
9.080.02 मघोनामायुः प्रतिरन्महि श्रव इन्द्राय सोम पवसे वृषा मदः ॥
9.080.03 एन्द्रस्य कुक्षा पवते मदिन्तम ऊर्जं वसानः श्रवसे सुमङ्गलः ।
9.080.03 प्रत्यङ्स विश्वा भुवनाभि पप्रथे क्रीळन्हरिरत्यः स्यन्दते वृषा ॥
9.080.04 तं त्वा देवेभ्यो मधुमत्तमं नरः सहस्रधारं दुहते दश क्षिपः ।
9.080.04 नृभिः सोम प्रच्युतो ग्रावभिः सुतो विश्वान्देवां आ पवस्वा सहस्रजित् ॥
9.080.05 तं त्वा हस्तिनो मधुमन्तमद्रिभिर्दुहन्त्यप्सु वृषभं दश क्षिपः ।
9.080.05 इन्द्रं सोम मादयन्दैव्यं जनं सिन्धोरिवोर्मिः पवमानो अर्षसि ॥

9.081.01 प्र सोमस्य पवमानस्योर्मय इन्द्रस्य यन्ति जठरं सुपेशसः ।
9.081.01 दध्ना यदीमुन्नीता यशसा गवां दानाय शूरमुदमन्दिषुः सुताः ॥
9.081.02 अच्छा हि सोमः कलशां असिष्यददत्यो न वोळ्हा रघुवर्तनिर्वृषा ।
9.081.02 अथा देवानामुभयस्य जन्मनो विद्वां अश्नोत्यमुत इतश्च यत् ॥
9.081.03 आ नः सोम पवमानः किरा वस्विन्दो भव मघवा राधसो महः ।
9.081.03 शिक्षा वयोधो वसवे सु चेतुना मा नो गयमारे अस्मत्परा सिचः ॥
9.081.04 आ नः पूषा पवमानः सुरातयो मित्रो गच्छन्तु वरुणः सजोषसः ।
9.081.04 बृहस्पतिर्मरुतो वायुरश्विना त्वष्टा सविता सुयमा सरस्वती ॥
9.081.05 उभे द्यावापृथिवी विश्वमिन्वे अर्यमा देवो अदितिर्विधाता ।
9.081.05 भगो नृशंस उर्वन्तरिक्षं विश्वे देवाः पवमानं जुषन्त ॥

9.082.01 असावि सोमो अरुषो वृषा हरी राजेव दस्मो अभि गा अचिक्रदत् ।
9.082.01 पुनानो वारं पर्येत्यव्ययं श्येनो न योनिं घृतवन्तमासदम् ॥
9.082.02 कविर्वेधस्या पर्येषि माहिनमत्यो न मृष्टो अभि वाजमर्षसि ।
9.082.02 अपसेधन्दुरिता सोम मृळय घृतं वसानः परि यासि निर्णिजम् ॥
9.082.03 पर्जन्यः पिता महिषस्य पर्णिनो नाभा पृथिव्या गिरिषु क्षयं दधे ।
9.082.03 स्वसार आपो अभि गा उतासरन्सं ग्रावभिर्नसते वीते अध्वरे ॥
9.082.04 जायेव पत्यावधि शेव मंहसे पज्राया गर्भ शृणुहि ब्रवीमि ते ।
9.082.04 अन्तर्वाणीषु प्र चरा सु जीवसेऽनिन्द्यो वृजने सोम जागृहि ॥
9.082.05 यथा पूर्वेभ्यः शतसा अमृध्रः सहस्रसाः पर्यया वाजमिन्दो ।
9.082.05 एवा पवस्व सुविताय नव्यसे तव व्रतमन्वापः सचन्ते ॥

9.083.01 पवित्रं ते विततं ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषि विश्वतः ।
9.083.01 अतप्ततनूर्न तदामो अश्नुते शृतास इद्वहन्तस्तत्समाशत ॥
9.083.02 तपोष्पवित्रं विततं दिवस्पदे शोचन्तो अस्य तन्तवो व्यस्थिरन् ।
9.083.02 अवन्त्यस्य पवीतारमाशवो दिवस्पृष्ठमधि तिष्ठन्ति चेतसा ॥
9.083.03 अरूरुचदुषसः पृश्निरग्रिय उक्षा बिभर्ति भुवनानि वाजयुः ।
9.083.03 मायाविनो ममिरे अस्य मायया नृचक्षसः पितरो गर्भमा दधुः ॥
9.083.04 गन्धर्व इत्था पदमस्य रक्षति पाति देवानां जनिमान्यद्भुतः ।
9.083.04 गृभ्णाति रिपुं निधया निधापतिः सुकृत्तमा मधुनो भक्षमाशत ॥
9.083.05 हविर्हविष्मो महि सद्म दैव्यं नभो वसानः परि यास्यध्वरम् ।
9.083.05 राजा पवित्ररथो वाजमारुहः सहस्रभृष्टिर्जयसि श्रवो बृहत् ॥

9.084.01 पवस्व देवमादनो विचर्षणिरप्सा इन्द्राय वरुणाय वायवे ।
9.084.01 कृधी नो अद्य वरिवः स्वस्तिमदुरुक्षितौ गृणीहि दैव्यं जनम् ॥
9.084.02 आ यस्तस्थौ भुवनान्यमर्त्यो विश्वानि सोमः परि तान्यर्षति ।
9.084.02 कृण्वन्संचृतं विचृतमभिष्टय इन्दुः सिषक्त्युषसं न सूर्यः ॥
9.084.03 आ यो गोभिः सृज्यत ओषधीष्वा देवानां सुम्न इषयन्नुपावसुः ।
9.084.03 आ विद्युता पवते धारया सुत इन्द्रं सोमो मादयन्दैव्यं जनम् ॥
9.084.04 एष स्य सोमः पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् ।
9.084.04 इन्दुः समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥
9.084.05 अभि त्यं गावः पयसा पयोवृधं सोमं श्रीणन्ति मतिभिः स्वर्विदम् ।
9.084.05 धनञ्जयः पवते कृत्व्यो रसो विप्रः कविः काव्येना स्वर्चनाः ॥

9.085.01 इन्द्राय सोम सुषुतः परि स्रवापामीवा भवतु रक्षसा सह ।
9.085.01 मा ते रसस्य मत्सत द्वयाविनो द्रविणस्वन्त इह सन्त्विन्दवः ॥
9.085.02 अस्मान्समर्ये पवमान चोदय दक्षो देवानामसि हि प्रियो मदः ।
9.085.02 जहि शत्रूंरभ्या भन्दनायतः पिबेन्द्र सोममव नो मृधो जहि ॥
9.085.03 अदब्ध इन्दो पवसे मदिन्तम आत्मेन्द्रस्य भवसि धासिरुत्तमः ।
9.085.03 अभि स्वरन्ति बहवो मनीषिणो राजानमस्य भुवनस्य निंसते ॥
9.085.04 सहस्रणीथः शतधारो अद्भुत इन्द्रायेन्दुः पवते काम्यं मधु ।
9.085.04 जयन्क्षेत्रमभ्यर्षा जयन्नप उरुं नो गातुं कृणु सोम मीढ्वः ॥
9.085.05 कनिक्रदत्कलशे गोभिरज्यसे व्यव्ययं समया वारमर्षसि ।
9.085.05 मर्मृज्यमानो अत्यो न सानसिरिन्द्रस्य सोम जठरे समक्षरः ॥
9.085.06 स्वादुः पवस्व दिव्याय जन्मने स्वादुरिन्द्राय सुहवीतुनाम्ने ।
9.085.06 स्वादुर्मित्राय वरुणाय वायवे बृहस्पतये मधुमां अदाभ्यः ॥
9.085.07 अत्यं मृजन्ति कलशे दश क्षिपः प्र विप्राणां मतयो वाच ईरते ।
9.085.07 पवमाना अभ्यर्षन्ति सुष्टुतिमेन्द्रं विशन्ति मदिरास इन्दवः ॥
9.085.08 पवमानो अभ्यर्षा सुवीर्यमुर्वीं गव्यूतिं महि शर्म सप्रथः ।
9.085.08 माकिर्नो अस्य परिषूतिरीशतेन्दो जयेम त्वया धनंधनम् ॥
9.085.09 अधि द्यामस्थाद्वृषभो विचक्षणोऽरूरुचद्वि दिवो रोचना कविः ।
9.085.09 राजा पवित्रमत्येति रोरुवद्दिवः पीयूषं दुहते नृचक्षसः ॥
9.085.10 दिवो नाके मधुजिह्वा असश्चतो वेना दुहन्त्युक्षणं गिरिष्ठाम् ।
9.085.10 अप्सु द्रप्सं वावृधानं समुद्र आ सिन्धोरूर्मा मधुमन्तं पवित्र आ ॥
9.085.11 नाके सुपर्णमुपपप्तिवांसं गिरो वेनानामकृपन्त पूर्वीः ।
9.085.11 शिशुं रिहन्ति मतयः पनिप्नतं हिरण्ययं शकुनं क्षामणि स्थाम् ॥
9.085.12 ऊर्ध्वो गन्धर्वो अधि नाके अस्थाद्विश्वा रूपा प्रतिचक्षाणो अस्य ।
9.085.12 भानुः शुक्रेण शोचिषा व्यद्यौत्प्रारूरुचद्रोदसी मातरा शुचिः ॥

9.086.01 प्र त आशवः पवमान धीजवो मदा अर्षन्ति रघुजा इव त्मना ।
9.086.01 दिव्याः सुपर्णा मधुमन्त इन्दवो मदिन्तमासः परि कोशमासते ॥
9.086.02 प्र ते मदासो मदिरास आशवोऽसृक्षत रथ्यासो यथा पृथक् ।
9.086.02 धेनुर्न वत्सं पयसाभि वज्रिणमिन्द्रमिन्दवो मधुमन्त ऊर्मयः ॥
9.086.03 अत्यो न हियानो अभि वाजमर्ष स्वर्वित्कोशं दिवो अद्रिमातरम् ।
9.086.03 वृषा पवित्रे अधि सानो अव्यये सोमः पुनान इन्द्रियाय धायसे ॥
9.086.04 प्र त आश्विनीः पवमान धीजुवो दिव्या असृग्रन्पयसा धरीमणि ।
9.086.04 प्रान्तरृषय स्थाविरीरसृक्षत ये त्वा मृजन्त्यृषिषाण वेधसः ॥
9.086.05 विश्वा धामानि विश्वचक्ष ऋभ्वसः प्रभोस्ते सतः परि यन्ति केतवः ।
9.086.05 व्यानशिः पवसे सोम धर्मभिः पतिर्विश्वस्य भुवनस्य राजसि ॥
9.086.06 उभयतः पवमानस्य रश्मयो ध्रुवस्य सतः परि यन्ति केतवः ।
9.086.06 यदी पवित्रे अधि मृज्यते हरिः सत्ता नि योना कलशेषु सीदति ॥
9.086.07 यज्ञस्य केतुः पवते स्वध्वरः सोमो देवानामुप याति निष्कृतम् ।
9.086.07 सहस्रधारः परि कोशमर्षति वृषा पवित्रमत्येति रोरुवत् ॥
9.086.08 राजा समुद्रं नद्यो वि गाहतेऽपामूर्मिं सचते सिन्धुषु श्रितः ।
9.086.08 अध्यस्थात्सानु पवमानो अव्ययं नाभा पृथिव्या धरुणो महो दिवः ॥
9.086.09 दिवो न सानु स्तनयन्नचिक्रदद्द्यौश्च यस्य पृथिवी च धर्मभिः ।
9.086.09 इन्द्रस्य सख्यं पवते विवेविदत्सोमः पुनानः कलशेषु सीदति ॥
9.086.10 ज्योतिर्यज्ञस्य पवते मधु प्रियं पिता देवानां जनिता विभूवसुः ।
9.086.10 दधाति रत्नं स्वधयोरपीच्यं मदिन्तमो मत्सर इन्द्रियो रसः ॥
9.086.11 अभिक्रन्दन्कलशं वाज्यर्षति पतिर्दिवः शतधारो विचक्षणः ।
9.086.11 हरिर्मित्रस्य सदनेषु सीदति मर्मृजानोऽविभिः सिन्धुभिर्वृषा ॥
9.086.12 अग्रे सिन्धूनां पवमानो अर्षत्यग्रे वाचो अग्रियो गोषु गच्छति ।
9.086.12 अग्रे वाजस्य भजते महाधनं स्वायुधः सोतृभिः पूयते वृषा ॥
9.086.13 अयं मतवाञ्छकुनो यथा हितोऽव्ये ससार पवमान ऊर्मिणा ।
9.086.13 तव क्रत्वा रोदसी अन्तरा कवे शुचिर्धिया पवते सोम इन्द्र ते ॥
9.086.14 द्रापिं वसानो यजतो दिविस्पृशमन्तरिक्षप्रा भुवनेष्वर्पितः ।
9.086.14 स्वर्जज्ञानो नभसाभ्यक्रमीत्प्रत्नमस्य पितरमा विवासति ॥
9.086.15 सो अस्य विशे महि शर्म यच्छति यो अस्य धाम प्रथमं व्यानशे ।
9.086.15 पदं यदस्य परमे व्योमन्यतो विश्वा अभि सं याति संयतः ॥
9.086.16 प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति संगिरम् ।
9.086.16 मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥
9.086.17 प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवसनेष्वक्रमुः ।
9.086.17 सोमं मनीषा अभ्यनूषत स्तुभोऽभि धेनवः पयसेमशिश्रयुः ॥
9.086.18 आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमानो अस्रिधम् ।
9.086.18 या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यम् ॥
9.086.19 वृषा मतीनां पवते विचक्षणः सोमो अह्नः प्रतरीतोषसो दिवः ।
9.086.19 क्राणा सिन्धूनां कलशां अवीवशदिन्द्रस्य हार्द्याविशन्मनीषिभिः ॥
9.086.20 मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां अचिक्रदत् ।
9.086.20 त्रितस्य नाम जनयन्मधु क्षरदिन्द्रस्य वायोः सख्याय कर्तवे ॥
9.086.21 अयं पुनान उषसो वि रोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।
9.086.21 अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ॥
9.086.22 पवस्व सोम दिव्येषु धामसु सृजान इन्दो कलशे पवित्र आ ।
9.086.22 सीदन्निन्द्रस्य जठरे कनिक्रदन्नृभिर्यतः सूर्यमारोहयो दिवि ॥
9.086.23 अद्रिभिः सुतः पवसे पवित्र आं इन्दविन्द्रस्य जठरेष्वाविशन् ।
9.086.23 त्वं नृचक्षा अभवो विचक्षण सोम गोत्रमङ्गिरोभ्योऽवृणोरप ॥
9.086.24 त्वां सोम पवमानं स्वाध्योऽनु विप्रासो अमदन्नवस्यवः ।
9.086.24 त्वां सुपर्ण आभरद्दिवस्परीन्दो विश्वाभिर्मतिभिः परिष्कृतम् ॥
9.086.25 अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः ।
9.086.25 अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत ॥
9.086.26 इन्दुः पुनानो अति गाहते मृधो विश्वानि कृण्वन्सुपथानि यज्यवे ।
9.086.26 गाः कृण्वानो निर्णिजं हर्यतः कविरत्यो न क्रीळन्परि वारमर्षति ॥
9.086.27 असश्चतः शतधारा अभिश्रियो हरिं नवन्तेऽव ता उदन्युवः ।
9.086.27 क्षिपो मृजन्ति परि गोभिरावृतं तृतीये पृष्ठे अधि रोचने दिवः ॥
9.086.28 तवेमाः प्रजा दिव्यस्य रेतसस्त्वं विश्वस्य भुवनस्य राजसि ।
9.086.28 अथेदं विश्वं पवमान ते वशे त्वमिन्दो प्रथमो धामधा असि ॥
9.086.29 त्वं समुद्रो असि विश्ववित्कवे तवेमाः पञ्च प्रदिशो विधर्मणि ।
9.086.29 त्वं द्यां च पृथिवीं चाति जभ्रिषे तव ज्योतींषि पवमान सूर्यः ॥
9.086.30 त्वं पवित्रे रजसो विधर्मणि देवेभ्यः सोम पवमान पूयसे ।
9.086.30 त्वामुशिजः प्रथमा अगृभ्णत तुभ्येमा विश्वा भुवनानि येमिरे ॥
9.086.31 प्र रेभ एत्यति वारमव्ययं वृषा वनेष्वव चक्रदद्धरिः ।
9.086.31 सं धीतयो वावशाना अनूषत शिशुं रिहन्ति मतयः पनिप्नतम् ॥
9.086.32 स सूर्यस्य रश्मिभिः परि व्यत तन्तुं तन्वानस्त्रिवृतं यथा विदे ।
9.086.32 नयन्नृतस्य प्रशिषो नवीयसीः पतिर्जनीनामुप याति निष्कृतम् ॥
9.086.33 राजा सिन्धूनां पवते पतिर्दिव ऋतस्य याति पथिभिः कनिक्रदत् ।
9.086.33 सहस्रधारः परि षिच्यते हरिः पुनानो वाचं जनयन्नुपावसुः ॥
9.086.34 पवमान मह्यर्णो वि धावसि सूरो न चित्रो अव्ययानि पव्यया ।
9.086.34 गभस्तिपूतो नृभिरद्रिभिः सुतो महे वाजाय धन्याय धन्वसि ॥
9.086.35 इषमूर्जं पवमानाभ्यर्षसि श्येनो न वंसु कलशेषु सीदसि ।
9.086.35 इन्द्राय मद्वा मद्यो मदः सुतो दिवो विष्टम्भ उपमो विचक्षणः ॥
9.086.36 सप्त स्वसारो अभि मातरः शिशुं नवं जज्ञानं जेन्यं विपश्चितम् ।
9.086.36 अपां गन्धर्वं दिव्यं नृचक्षसं सोमं विश्वस्य भुवनस्य राजसे ॥
9.086.37 ईशान इमा भुवनानि वीयसे युजान इन्दो हरितः सुपर्ण्यः ।
9.086.37 तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ॥
9.086.38 त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।
9.086.38 स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ॥
9.086.39 गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।
9.086.39 त्वं सुवीरो असि सोम विश्ववित्तं त्वा विप्रा उप गिरेम आसते ॥
9.086.40 उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते ।
9.086.40 राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत् ॥
9.086.41 स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वाः सुभरा अहर्दिवि ।
9.086.41 ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥
9.086.42 सो अग्रे अह्नां हरिर्हर्यतो मदः प्र चेतसा चेतयते अनु द्युभिः ।
9.086.42 द्वा जना यातयन्नन्तरीयते नरा च शंसं दैव्यं च धर्तरि ॥
9.086.43 अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते ।
9.086.43 सिन्धोरुच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृभ्णते ॥
9.086.44 विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।
9.086.44 अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीळन्नसरद्वृषा हरिः ॥
9.086.45 अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।
9.086.45 हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥
9.086.46 असर्जि स्कम्भो दिव उद्यतो मदः परि त्रिधातुर्भुवनान्यर्षति ।
9.086.46 अंशुं रिहन्ति मतयः पनिप्नतं गिरा यदि निर्णिजमृग्मिणो ययुः ॥
9.086.47 प्र ते धारा अत्यण्वानि मेष्यः पुनानस्य संयतो यन्ति रंहयः ।
9.086.47 यद्गोभिरिन्दो चम्वोः समज्यस आ सुवानः सोम कलशेषु सीदसि ॥
9.086.48 पवस्व सोम क्रतुविन्न उक्थ्योऽव्यो वारे परि धाव मधु प्रियम् ।
9.086.48 जहि विश्वान्रक्षस इन्दो अत्रिणो बृहद्वदेम विदथे सुवीराः ॥

9.087.01 प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।
9.087.01 अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥
9.087.02 स्वायुधः पवते देव इन्दुरशस्तिहा वृजनं रक्षमाणः ।
9.087.02 पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥
9.087.03 ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।
9.087.03 स चिद्विवेद निहितं यदासामपीच्यं गुह्यं नाम गोनाम् ॥
9.087.04 एष स्य ते मधुमां इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः ।
9.087.04 सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥
9.087.05 एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि ।
9.087.05 पवित्रेभिः पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्याः ॥
9.087.06 परि हि ष्मा पुरुहूतो जनानां विश्वासरद्भोजना पूयमानः ।
9.087.06 अथा भर श्येनभृत प्रयांसि रयिं तुञ्जानो अभि वाजमर्ष ॥
9.087.07 एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा ।
9.087.07 तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा ॥
9.087.08 एषा ययौ परमादन्तरद्रेः कूचित्सतीरूर्वे गा विवेद ।
9.087.08 दिवो न विद्युत्स्तनयन्त्यभ्रैः सोमस्य ते पवत इन्द्र धारा ॥
9.087.09 उत स्म राशिं परि यासि गोनामिन्द्रेण सोम सरथं पुनानः ।
9.087.09 पूर्वीरिषो बृहतीर्जीरदानो शिक्षा शचीवस्तव ता उपष्टुत् ॥

9.088.01 अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।
9.088.01 त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमम् ॥
9.088.02 स ईं रथो न भुरिषाळ् अयोजि महः पुरूणि सातये वसूनि ।
9.088.02 आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ॥
9.088.03 वायुर्न यो नियुत्वां इष्टयामा नासत्येव हव आ शम्भविष्ठः ।
9.088.03 विश्ववारो द्रविणोदा इव त्मन्पूषेव धीजवनोऽसि सोम ॥
9.088.04 इन्द्रो न यो महा कर्माणि चक्रिर्हन्ता वृत्राणामसि सोम पूर्भित् ।
9.088.04 पैद्वो न हि त्वमहिनाम्नां हन्ता विश्वस्यासि सोम दस्योः ॥
9.088.05 अग्निर्न यो वन आ सृज्यमानो वृथा पाजांसि कृणुते नदीषु ।
9.088.05 जनो न युध्वा महत उपब्दिरियर्ति सोमः पवमान ऊर्मिम् ॥
9.088.06 एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः ।
9.088.06 वृथा समुद्रं सिन्धवो न नीचीः सुतासो अभि कलशां असृग्रन् ॥
9.088.07 शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।
9.088.07 आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ॥
9.088.08 राज्ञो नु ते वरुणस्य व्रतानि बृहद्गभीरं तव सोम धाम ।
9.088.08 शुचिष्ट्वमसि प्रियो न मित्रो दक्षाय्यो अर्यमेवासि सोम ॥

9.089.01 प्रो स्य वह्निः पथ्याभिरस्यान्दिवो न वृष्टिः पवमानो अक्षाः ।
9.089.01 सहस्रधारो असदन्न्यस्मे मातुरुपस्थे वन आ च सोमः ॥
9.089.02 राजा सिन्धूनामवसिष्ट वास ऋतस्य नावमारुहद्रजिष्ठाम् ।
9.089.02 अप्सु द्रप्सो वावृधे श्येनजूतो दुह ईं पिता दुह ईं पितुर्जाम् ॥
9.089.03 सिंहं नसन्त मध्वो अयासं हरिमरुषं दिवो अस्य पतिम् ।
9.089.03 शूरो युत्सु प्रथमः पृच्छते गा अस्य चक्षसा परि पात्युक्षा ॥
9.089.04 मधुपृष्ठं घोरमयासमश्वं रथे युञ्जन्त्युरुचक्र ऋष्वम् ।
9.089.04 स्वसार ईं जामयो मर्जयन्ति सनाभयो वाजिनमूर्जयन्ति ॥
9.089.05 चतस्र ईं घृतदुहः सचन्ते समाने अन्तर्धरुणे निषत्ताः ।
9.089.05 ता ईमर्षन्ति नमसा पुनानास्ता ईं विश्वतः परि षन्ति पूर्वीः ॥
9.089.06 विष्टम्भो दिवो धरुणः पृथिव्या विश्वा उत क्षितयो हस्ते अस्य ।
9.089.06 असत्त उत्सो गृणते नियुत्वान्मध्वो अंशुः पवत इन्द्रियाय ॥
9.089.07 वन्वन्नवातो अभि देववीतिमिन्द्राय सोम वृत्रहा पवस्व ।
9.089.07 शग्धि महः पुरुश्चन्द्रस्य रायः सुवीर्यस्य पतयः स्याम ॥

9.090.01 प्र हिन्वानो जनिता रोदस्यो रथो न वाजं सनिष्यन्नयासीत् ।
9.090.01 इन्द्रं गच्छन्नायुधा संशिशानो विश्वा वसु हस्तयोरादधानः ॥
9.090.02 अभि त्रिपृष्ठं वृषणं वयोधामाङ्गूषाणामवावशन्त वाणीः ।
9.090.02 वना वसानो वरुणो न सिन्धून्वि रत्नधा दयते वार्याणि ॥
9.090.03 शूरग्रामः सर्ववीरः सहावाञ्जेता पवस्व सनिता धनानि ।
9.090.03 तिग्मायुधः क्षिप्रधन्वा समत्स्वषाळ्हः साह्वान्पृतनासु शत्रून् ॥
9.090.04 उरुगव्यूतिरभयानि कृण्वन्समीचीने आ पवस्वा पुरन्धी ।
9.090.04 अपः सिषासन्नुषसः स्वर्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥
9.090.05 मत्सि सोम वरुणं मत्सि मित्रं मत्सीन्द्रमिन्दो पवमान विष्णुम् ।
9.090.05 मत्सि शर्धो मारुतं मत्सि देवान्मत्सि महामिन्द्रमिन्दो मदाय ॥
9.090.06 एवा राजेव क्रतुमां अमेन विश्वा घनिघ्नद्दुरिता पवस्व ।
9.090.06 इन्दो सूक्ताय वचसे वयो धा यूयं पात स्वस्तिभिः सदा नः ॥

9.091.01 असर्जि वक्वा रथ्ये यथाजौ धिया मनोता प्रथमो मनीषी ।
9.091.01 दश स्वसारो अधि सानो अव्येऽजन्ति वह्निं सदनान्यच्छ ॥
9.091.02 वीती जनस्य दिव्यस्य कव्यैरधि सुवानो नहुष्येभिरिन्दुः ।
9.091.02 प्र यो नृभिरमृतो मर्त्येभिर्मर्मृजानोऽविभिर्गोभिरद्भिः ॥
9.091.03 वृषा वृष्णे रोरुवदंशुरस्मै पवमानो रुशदीर्ते पयो गोः ।
9.091.03 सहस्रमृक्वा पथिभिर्वचोविदध्वस्मभिः सूरो अण्वं वि याति ॥
9.091.04 रुजा दृळ्हा चिद्रक्षसः सदांसि पुनान इन्द ऊर्णुहि वि वाजान् ।
9.091.04 वृश्चोपरिष्टात्तुजता वधेन ये अन्ति दूरादुपनायमेषाम् ॥
9.091.05 स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राचः ।
9.091.05 ये दुःषहासो वनुषा बृहन्तस्तांस्ते अश्याम पुरुकृत्पुरुक्षो ॥
9.091.06 एवा पुनानो अपः स्वर्गा अस्मभ्यं तोका तनयानि भूरि ।
9.091.06 शं नः क्षेत्रमुरु ज्योतींषि सोम ज्योङ्नः सूर्यं दृशये रिरीहि ॥

9.092.01 परि सुवानो हरिरंशुः पवित्रे रथो न सर्जि सनये हियानः ।
9.092.01 आपच्छ्लोकमिन्द्रियं पूयमानः प्रति देवां अजुषत प्रयोभिः ॥
9.092.02 अच्छा नृचक्षा असरत्पवित्रे नाम दधानः कविरस्य योनौ ।
9.092.02 सीदन्होतेव सदने चमूषूपेमग्मन्नृषयः सप्त विप्राः ॥
9.092.03 प्र सुमेधा गातुविद्विश्वदेवः सोमः पुनानः सद एति नित्यम् ।
9.092.03 भुवद्विश्वेषु काव्येषु रन्तानु जनान्यतते पञ्च धीरः ॥
9.092.04 तव त्ये सोम पवमान निण्ये विश्वे देवास्त्रय एकादशासः ।
9.092.04 दश स्वधाभिरधि सानो अव्ये मृजन्ति त्वा नद्यः सप्त यह्वीः ॥
9.092.05 तन्नु सत्यं पवमानस्यास्तु यत्र विश्वे कारवः संनसन्त ।
9.092.05 ज्योतिर्यदह्ने अकृणोदु लोकं प्रावन्मनुं दस्यवे करभीकम् ॥
9.092.06 परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः ।
9.092.06 सोमः पुनानः कलशां अयासीत्सीदन्मृगो न महिषो वनेषु ॥

9.093.01 साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।
9.093.01 हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥
9.093.02 सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।
9.093.02 मर्यो न योषामभि निष्कृतं यन्सं गच्छते कलश उस्रियाभिः ॥
9.093.03 उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।
9.093.03 मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥
9.093.04 स नो देवेभिः पवमान रदेन्दो रयिमश्विनं वावशानः ।
9.093.04 रथिरायतामुशती पुरन्धिरस्मद्र्यगा दावने वसूनाम् ॥
9.093.05 नू नो रयिमुप मास्व नृवन्तं पुनानो वाताप्यं विश्वश्चन्द्रम् ।
9.093.05 प्र वन्दितुरिन्दो तार्यायुः प्रातर्मक्षू धियावसुर्जगम्यात् ॥

9.094.01 अधि यदस्मिन्वाजिनीव शुभ स्पर्धन्ते धियः सूर्ये न विशः ।
9.094.01 अपो वृणानः पवते कवीयन्व्रजं न पशुवर्धनाय मन्म ॥
9.094.02 द्विता व्यूर्ण्वन्नमृतस्य धाम स्वर्विदे भुवनानि प्रथन्त ।
9.094.02 धियः पिन्वानाः स्वसरे न गाव ऋतायन्तीरभि वावश्र इन्दुम् ॥
9.094.03 परि यत्कविः काव्या भरते शूरो न रथो भुवनानि विश्वा ।
9.094.03 देवेषु यशो मर्ताय भूषन्दक्षाय रायः पुरुभूषु नव्यः ॥
9.094.04 श्रिये जातः श्रिय आ निरियाय श्रियं वयो जरितृभ्यो दधाति ।
9.094.04 श्रियं वसाना अमृतत्वमायन्भवन्ति सत्या समिथा मितद्रौ ॥
9.094.05 इषमूर्जमभ्यर्षाश्वं गामुरु ज्योतिः कृणुहि मत्सि देवान् ।
9.094.05 विश्वानि हि सुषहा तानि तुभ्यं पवमान बाधसे सोम शत्रून् ॥

9.095.01 कनिक्रन्ति हरिरा सृज्यमानः सीदन्वनस्य जठरे पुनानः ।
9.095.01 नृभिर्यतः कृणुते निर्णिजं गा अतो मतीर्जनयत स्वधाभिः ॥
9.095.02 हरिः सृजानः पथ्यामृतस्येयर्ति वाचमरितेव नावम् ।
9.095.02 देवो देवानां गुह्यानि नामाविष्कृणोति बर्हिषि प्रवाचे ॥
9.095.03 अपामिवेदूर्मयस्तर्तुराणाः प्र मनीषा ईरते सोममच्छ ।
9.095.03 नमस्यन्तीरुप च यन्ति सं चा च विशन्त्युशतीरुशन्तम् ॥
9.095.04 तं मर्मृजानं महिषं न सानावंशुं दुहन्त्युक्षणं गिरिष्ठाम् ।
9.095.04 तं वावशानं मतयः सचन्ते त्रितो बिभर्ति वरुणं समुद्रे ॥
9.095.05 इष्यन्वाचमुपवक्तेव होतुः पुनान इन्दो वि ष्या मनीषाम् ।
9.095.05 इन्द्रश्च यत्क्षयथः सौभगाय सुवीर्यस्य पतयः स्याम ॥

9.096.01 प्र सेनानीः शूरो अग्रे रथानां गव्यन्नेति हर्षते अस्य सेना ।
9.096.01 भद्रान्कृण्वन्निन्द्रहवान्सखिभ्य आ सोमो वस्त्रा रभसानि दत्ते ॥
9.096.02 समस्य हरिं हरयो मृजन्त्यश्वहयैरनिशितं नमोभिः ।
9.096.02 आ तिष्ठति रथमिन्द्रस्य सखा विद्वां एना सुमतिं यात्यच्छ ॥
9.096.03 स नो देव देवताते पवस्व महे सोम प्सरस इन्द्रपानः ।
9.096.03 कृण्वन्नपो वर्षयन्द्यामुतेमामुरोरा नो वरिवस्या पुनानः ॥
9.096.04 अजीतयेऽहतये पवस्व स्वस्तये सर्वतातये बृहते ।
9.096.04 तदुशन्ति विश्व इमे सखायस्तदहं वश्मि पवमान सोम ॥
9.096.05 सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः ।
9.096.05 जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥
9.096.06 ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् ।
9.096.06 श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन् ॥
9.096.07 प्रावीविपद्वाच ऊर्मिं न सिन्धुर्गिरः सोमः पवमानो मनीषाः ।
9.096.07 अन्तः पश्यन्वृजनेमावराण्या तिष्ठति वृषभो गोषु जानन् ॥
9.096.08 स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष ।
9.096.08 इन्द्रायेन्दो पवमानो मनीष्यंशोरूर्मिमीरय गा इषण्यन् ॥
9.096.09 परि प्रियः कलशे देववात इन्द्राय सोमो रण्यो मदाय ।
9.096.09 सहस्रधारः शतवाज इन्दुर्वाजी न सप्तिः समना जिगाति ॥
9.096.10 स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ ।
9.096.10 अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥
9.096.11 त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः ।
9.096.11 वन्वन्नवातः परिधींरपोर्णु वीरेभिरश्वैर्मघवा भवा नः ॥
9.096.12 यथापवथा मनवे वयोधा अमित्रहा वरिवोविद्धविष्मान् ।
9.096.12 एवा पवस्व द्रविणं दधान इन्द्रे सं तिष्ठ जनयायुधानि ॥
9.096.13 पवस्व सोम मधुमां ऋतावापो वसानो अधि सानो अव्ये ।
9.096.13 अव द्रोणानि घृतवान्ति सीद मदिन्तमो मत्सर इन्द्रपानः ॥
9.096.14 वृष्टिं दिवः शतधारः पवस्व सहस्रसा वाजयुर्देववीतौ ।
9.096.14 सं सिन्धुभिः कलशे वावशानः समुस्रियाभिः प्रतिरन्न आयुः ॥
9.096.15 एष स्य सोमो मतिभिः पुनानोऽत्यो न वाजी तरतीदरातीः ।
9.096.15 पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥
9.096.16 स्वायुधः सोतृभिः पूयमानोऽभ्यर्ष गुह्यं चारु नाम ।
9.096.16 अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥
9.096.17 शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति वह्निं मरुतो गणेन ।
9.096.17 कविर्गीर्भिः काव्येना कविः सन्सोमः पवित्रमत्येति रेभन् ॥
9.096.18 ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम् ।
9.096.18 तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप् ॥
9.096.19 चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।
9.096.19 अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥
9.096.20 मर्यो न शुभ्रस्तन्वं मृजानोऽत्यो न सृत्वा सनये धनानाम् ।
9.096.20 वृषेव यूथा परि कोशमर्षन्कनिक्रदच्चम्वोरा विवेश ॥
9.096.21 पवस्वेन्दो पवमानो महोभिः कनिक्रदत्परि वाराण्यर्ष ।
9.096.21 क्रीळञ्चम्वोरा विश पूयमान इन्द्रं ते रसो मदिरो ममत्तु ॥
9.096.22 प्रास्य धारा बृहतीरसृग्रन्नक्तो गोभिः कलशां आ विवेश ।
9.096.22 साम कृण्वन्सामन्यो विपश्चित्क्रन्दन्नेत्यभि सख्युर्न जामिम् ॥
9.096.23 अपघ्नन्नेषि पवमान शत्रून्प्रियां न जारो अभिगीत इन्दुः ।
9.096.23 सीदन्वनेषु शकुनो न पत्वा सोमः पुनानः कलशेषु सत्ता ॥
9.096.24 आ ते रुचः पवमानस्य सोम योषेव यन्ति सुदुघाः सुधाराः ।
9.096.24 हरिरानीतः पुरुवारो अप्स्वचिक्रदत्कलशे देवयूनाम् ॥

9.097.01 अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसम् ।
9.097.01 सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमान्ति होता ॥
9.097.02 भद्रा वस्त्रा समन्या वसानो महान्कविर्निवचनानि शंसन् ।
9.097.02 आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥
9.097.03 समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।
9.097.03 अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥
9.097.04 प्र गायताभ्यर्चाम देवान्सोमं हिनोत महते धनाय ।
9.097.04 स्वादुः पवाते अति वारमव्यमा सीदाति कलशं देवयुर्नः ॥
9.097.05 इन्दुर्देवानामुप सख्यमायन्सहस्रधारः पवते मदाय ।
9.097.05 नृभि स्तवानो अनु धाम पूर्वमगन्निन्द्रं महते सौभगाय ॥
9.097.06 स्तोत्रे राये हरिरर्षा पुनान इन्द्रं मदो गच्छतु ते भराय ।
9.097.06 देवैर्याहि सरथं राधो अच्छा यूयं पात स्वस्तिभिः सदा नः ॥
9.097.07 प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।
9.097.07 महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥
9.097.08 प्र हंसासस्तृपलं मन्युमच्छामादस्तं वृषगणा अयासुः ।
9.097.08 आङ्गूष्यं पवमानं सखायो दुर्मर्षं साकं प्र वदन्ति वाणम् ॥
9.097.09 स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गावः ।
9.097.09 परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥
9.097.10 इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।
9.097.10 हन्ति रक्षो बाधते पर्यरातीर्वरिवः कृण्वन्वृजनस्य राजा ॥
9.097.11 अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।
9.097.11 इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥
9.097.12 अभि प्रियाणि पवते पुनानो देवो देवान्स्वेन रसेन पृञ्चन् ।
9.097.12 इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ॥
9.097.13 वृषा शोणो अभिकनिक्रदद्गा नदयन्नेति पृथिवीमुत द्याम् ।
9.097.13 इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचेतयन्नर्षति वाचमेमाम् ॥
9.097.14 रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुम् ।
9.097.14 पवमानः संतनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ॥
9.097.15 एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नैः ।
9.097.15 परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ॥
9.097.16 जुष्ट्वी न इन्दो सुपथा सुगान्युरौ पवस्व वरिवांसि कृण्वन् ।
9.097.16 घनेव विष्वग्दुरितानि विघ्नन्नधि ष्णुना धन्व सानो अव्ये ॥
9.097.17 वृष्टिं नो अर्ष दिव्यां जिगत्नुमिळावतीं शङ्गयीं जीरदानुम् ।
9.097.17 स्तुकेव वीता धन्वा विचिन्वन्बन्धूंरिमां अवरां इन्दो वायून् ॥
9.097.18 ग्रन्थिं न वि ष्य ग्रथितं पुनान ऋजुं च गातुं वृजिनं च सोम ।
9.097.18 अत्यो न क्रदो हरिरा सृजानो मर्यो देव धन्व पस्त्यावान् ॥
9.097.19 जुष्टो मदाय देवतात इन्दो परि ष्णुना धन्व सानो अव्ये ।
9.097.19 सहस्रधारः सुरभिरदब्धः परि स्रव वाजसातौ नृषह्ये ॥
9.097.20 अरश्मानो येऽरथा अयुक्ता अत्यासो न ससृजानास आजौ ।
9.097.20 एते शुक्रासो धन्वन्ति सोमा देवासस्तां उप याता पिबध्यै ॥
9.097.21 एवा न इन्दो अभि देववीतिं परि स्रव नभो अर्णश्चमूषु ।
9.097.21 सोमो अस्मभ्यं काम्यं बृहन्तं रयिं ददातु वीरवन्तमुग्रम् ॥
9.097.22 तक्षद्यदी मनसो वेनतो वाग्ज्येष्ठस्य वा धर्मणि क्षोरनीके ।
9.097.22 आदीमायन्वरमा वावशाना जुष्टं पतिं कलशे गाव इन्दुम् ॥
9.097.23 प्र दानुदो दिव्यो दानुपिन्व ऋतमृताय पवते सुमेधाः ।
9.097.23 धर्मा भुवद्वृजन्यस्य राजा प्र रश्मिभिर्दशभिर्भारि भूम ॥
9.097.24 पवित्रेभिः पवमानो नृचक्षा राजा देवानामुत मर्त्यानाम् ।
9.097.24 द्विता भुवद्रयिपती रयीणामृतं भरत्सुभृतं चार्विन्दुः ॥
9.097.25 अर्वां इव श्रवसे सातिमच्छेन्द्रस्य वायोरभि वीतिमर्ष ।
9.097.25 स नः सहस्रा बृहतीरिषो दा भवा सोम द्रविणोवित्पुनानः ॥
9.097.26 देवाव्यो नः परिषिच्यमानाः क्षयं सुवीरं धन्वन्तु सोमाः ।
9.097.26 आयज्यवः सुमतिं विश्ववारा होतारो न दिवियजो मन्द्रतमाः ॥
9.097.27 एवा देव देवताते पवस्व महे सोम प्सरसे देवपानः ।
9.097.27 महश्चिद्धि ष्मसि हिताः समर्ये कृधि सुष्ठाने रोदसी पुनानः ॥
9.097.28 अश्वो नो क्रदो वृषभिर्युजानः सिंहो न भीमो मनसो जवीयान् ।
9.097.28 अर्वाचीनैः पथिभिर्ये रजिष्ठा आ पवस्व सौमनसं न इन्दो ॥
9.097.29 शतं धारा देवजाता असृग्रन्सहस्रमेनाः कवयो मृजन्ति ।
9.097.29 इन्दो सनित्रं दिव आ पवस्व पुरएतासि महतो धनस्य ॥
9.097.30 दिवो न सर्गा अससृग्रमह्नां राजा न मित्रं प्र मिनाति धीरः ।
9.097.30 पितुर्न पुत्रः क्रतुभिर्यतान आ पवस्व विशे अस्या अजीतिम् ॥
9.097.31 प्र ते धारा मधुमतीरसृग्रन्वारान्यत्पूतो अत्येष्यव्यान् ।
9.097.31 पवमान पवसे धाम गोनां जज्ञानः सूर्यमपिन्वो अर्कैः ॥
9.097.32 कनिक्रददनु पन्थामृतस्य शुक्रो वि भास्यमृतस्य धाम ।
9.097.32 स इन्द्राय पवसे मत्सरवान्हिन्वानो वाचं मतिभिः कवीनाम् ॥
9.097.33 दिव्यः सुपर्णोऽव चक्षि सोम पिन्वन्धाराः कर्मणा देववीतौ ।
9.097.33 एन्दो विश कलशं सोमधानं क्रन्दन्निहि सूर्यस्योप रश्मिम् ॥
9.097.34 तिस्रो वाच ईरयति प्र वह्निरृतस्य धीतिं ब्रह्मणो मनीषाम् ।
9.097.34 गावो यन्ति गोपतिं पृच्छमानाः सोमं यन्ति मतयो वावशानाः ॥
9.097.35 सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमानाः ।
9.097.35 सोमः सुतः पूयते अज्यमानः सोमे अर्कास्त्रिष्टुभः सं नवन्ते ॥
9.097.36 एवा नः सोम परिषिच्यमान आ पवस्व पूयमानः स्वस्ति ।
9.097.36 इन्द्रमा विश बृहता रवेण वर्धया वाचं जनया पुरन्धिम् ॥
9.097.37 आ जागृविर्विप्र ऋता मतीनां सोमः पुनानो असदच्चमूषु ।
9.097.37 सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥
9.097.38 स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः ।
9.097.38 प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥
9.097.39 स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।
9.097.39 येना नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥
9.097.40 अक्रान्समुद्रः प्रथमे विधर्मञ्जनयन्प्रजा भुवनस्य राजा ।
9.097.40 वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥
9.097.41 महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
9.097.41 अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥
9.097.42 मत्सि वायुमिष्टये राधसे च मत्सि मित्रावरुणा पूयमानः ।
9.097.42 मत्सि शर्धो मारुतं मत्सि देवान्मत्सि द्यावापृथिवी देव सोम ॥
9.097.43 ऋजुः पवस्व वृजिनस्य हन्तापामीवां बाधमानो मृधश्च ।
9.097.43 अभिश्रीणन्पयः पयसाभि गोनामिन्द्रस्य त्वं तव वयं सखायः ॥
9.097.44 मध्वः सूदं पवस्व वस्व उत्सं वीरं च न आ पवस्वा भगं च ।
9.097.44 स्वदस्वेन्द्राय पवमान इन्दो रयिं च न आ पवस्वा समुद्रात् ॥
9.097.45 सोमः सुतो धारयात्यो न हित्वा सिन्धुर्न निम्नमभि वाज्यक्षाः ।
9.097.45 आ योनिं वन्यमसदत्पुनानः समिन्दुर्गोभिरसरत्समद्भिः ॥
9.097.46 एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् ।
9.097.46 स्वर्चक्षा रथिरः सत्यशुष्मः कामो न यो देवयतामसर्जि ॥
9.097.47 एष प्रत्नेन वयसा पुनानस्तिरो वर्पांसि दुहितुर्दधानः ।
9.097.47 वसानः शर्म त्रिवरूथमप्सु होतेव याति समनेषु रेभन् ॥
9.097.48 नू नस्त्वं रथिरो देव सोम परि स्रव चम्वोः पूयमानः ।
9.097.48 अप्सु स्वादिष्ठो मधुमां ऋतावा देवो न यः सविता सत्यमन्मा ॥
9.097.49 अभि वायुं वीत्यर्षा गृणानोऽभि मित्रावरुणा पूयमानः ।
9.097.49 अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुम् ॥
9.097.50 अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।
9.097.50 अभि चन्द्रा भर्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥
9.097.51 अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।
9.097.51 अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥
9.097.52 अया पवा पवस्वैना वसूनि मांश्चत्व इन्दो सरसि प्र धन्व ।
9.097.52 ब्रध्नश्चिदत्र वातो न जूतः पुरुमेधश्चित्तकवे नरं दात् ॥
9.097.53 उत न एना पवया पवस्वाधि श्रुते श्रवाय्यस्य तीर्थे ।
9.097.53 षष्टिं सहस्रा नैगुतो वसूनि वृक्षं न पक्वं धूनवद्रणाय ॥
9.097.54 महीमे अस्य वृषनाम शूषे मांश्चत्वे वा पृशने वा वधत्रे ।
9.097.54 अस्वापयन्निगुतः स्नेहयच्चापामित्रां अपाचितो अचेतः ॥
9.097.55 सं त्री पवित्रा विततान्येष्यन्वेकं धावसि पूयमानः ।
9.097.55 असि भगो असि दात्रस्य दातासि मघवा मघवद्भ्य इन्दो ॥
9.097.56 एष विश्ववित्पवते मनीषी सोमो विश्वस्य भुवनस्य राजा ।
9.097.56 द्रप्सां ईरयन्विदथेष्विन्दुर्वि वारमव्यं समयाति याति ॥
9.097.57 इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः ।
9.097.57 हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन ॥
9.097.58 त्वया वयं पवमानेन सोम भरे कृतं वि चिनुयाम शश्वत् ।
9.097.58 तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥

9.098.01 अभि नो वाजसातमं रयिमर्ष पुरुस्पृहम् ।
9.098.01 इन्दो सहस्रभर्णसं तुविद्युम्नं विभ्वासहम् ॥
9.098.02 परि ष्य सुवानो अव्ययं रथे न वर्माव्यत ।
9.098.02 इन्दुरभि द्रुणा हितो हियानो धाराभिरक्षाः ॥
9.098.03 परि ष्य सुवानो अक्षा इन्दुरव्ये मदच्युतः ।
9.098.03 धारा य ऊर्ध्वो अध्वरे भ्राजा नैति गव्ययुः ॥
9.098.04 स हि त्वं देव शश्वते वसु मर्ताय दाशुषे ।
9.098.04 इन्दो सहस्रिणं रयिं शतात्मानं विवाससि ॥
9.098.05 वयं ते अस्य वृत्रहन्वसो वस्वः पुरुस्पृहः ।
9.098.05 नि नेदिष्ठतमा इषः स्याम सुम्नस्याध्रिगो ॥
9.098.06 द्विर्यं पञ्च स्वयशसं स्वसारो अद्रिसंहतम् ।
9.098.06 प्रियमिन्द्रस्य काम्यं प्रस्नापयन्त्यूर्मिणम् ॥
9.098.07 परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।
9.098.07 यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥
9.098.08 अस्य वो ह्यवसा पान्तो दक्षसाधनम् ।
9.098.08 यः सूरिषु श्रवो बृहद्दधे स्वर्ण हर्यतः ॥
9.098.09 स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी ।
9.098.09 देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥
9.098.10 इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।
9.098.10 नरे च दक्षिणावते देवाय सदनासदे ॥
9.098.11 ते प्रत्नासो व्युष्टिषु सोमाः पवित्रे अक्षरन् ।
9.098.11 अपप्रोथन्तः सनुतर्हुरश्चितः प्रातस्तां अप्रचेतसः ॥
9.098.12 तं सखायः पुरोरुचं यूयं वयं च सूरयः ।
9.098.12 अश्याम वाजगन्ध्यं सनेम वाजपस्त्यम् ॥

9.099.01 आ हर्यताय धृष्णवे धनुस्तन्वन्ति पौंस्यम् ।
9.099.01 शुक्रां वयन्त्यसुराय निर्णिजं विपामग्रे महीयुवः ॥
9.099.02 अध क्षपा परिष्कृतो वाजां अभि प्र गाहते ।
9.099.02 यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥
9.099.03 तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
9.099.03 यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥
9.099.04 तं गाथया पुराण्या पुनानमभ्यनूषत ।
9.099.04 उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥
9.099.05 तमुक्षमाणमव्यये वारे पुनन्ति धर्णसिम् ।
9.099.05 दूतं न पूर्वचित्तय आ शासते मनीषिणः ॥
9.099.06 स पुनानो मदिन्तमः सोमश्चमूषु सीदति ।
9.099.06 पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥
9.099.07 स मृज्यते सुकर्मभिर्देवो देवेभ्यः सुतः ।
9.099.07 विदे यदासु संददिर्महीरपो वि गाहते ॥
9.099.08 सुत इन्दो पवित्र आ नृभिर्यतो वि नीयसे ।
9.099.08 इन्द्राय मत्सरिन्तमश्चमूष्वा नि षीदसि ॥

9.100.01 अभी नवन्ते अद्रुहः प्रियमिन्द्रस्य काम्यम् ।
9.100.01 वत्सं न पूर्व आयुनि जातं रिहन्ति मातरः ॥
9.100.02 पुनान इन्दवा भर सोम द्विबर्हसं रयिम् ।
9.100.02 त्वं वसूनि पुष्यसि विश्वानि दाशुषो गृहे ॥
9.100.03 त्वं धियं मनोयुजं सृजा वृष्टिं न तन्यतुः ।
9.100.03 त्वं वसूनि पार्थिवा दिव्या च सोम पुष्यसि ॥
9.100.04 परि ते जिग्युषो यथा धारा सुतस्य धावति ।
9.100.04 रंहमाणा व्यव्ययं वारं वाजीव सानसिः ॥
9.100.05 क्रत्वे दक्षाय नः कवे पवस्व सोम धारया ।
9.100.05 इन्द्राय पातवे सुतो मित्राय वरुणाय च ॥
9.100.06 पवस्व वाजसातमः पवित्रे धारया सुतः ।
9.100.06 इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तमः ॥
9.100.07 त्वां रिहन्ति मातरो हरिं पवित्रे अद्रुहः ।
9.100.07 वत्सं जातं न धेनवः पवमान विधर्मणि ॥
9.100.08 पवमान महि श्रवश्चित्रेभिर्यासि रश्मिभिः ।
9.100.08 शर्धन्तमांसि जिघ्नसे विश्वानि दाशुषो गृहे ॥
9.100.09 त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।
9.100.09 प्रति द्रापिममुञ्चथाः पवमान महित्वना ॥

9.101.01 पुरोजिती वो अन्धसः सुताय मादयित्नवे ।
9.101.01 अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यम् ॥
9.101.02 यो धारया पावकया परिप्रस्यन्दते सुतः ।
9.101.02 इन्दुरश्वो न कृत्व्यः ॥
9.101.03 तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।
9.101.03 यज्ञं हिन्वन्त्यद्रिभिः ॥
9.101.04 सुतासो मधुमत्तमाः सोमा इन्द्राय मन्दिनः ।
9.101.04 पवित्रवन्तो अक्षरन्देवान्गच्छन्तु वो मदाः ॥
9.101.05 इन्दुरिन्द्राय पवत इति देवासो अब्रुवन् ।
9.101.05 वाचस्पतिर्मखस्यते विश्वस्येशान ओजसा ॥
9.101.06 सहस्रधारः पवते समुद्रो वाचमीङ्खयः ।
9.101.06 सोमः पती रयीणां सखेन्द्रस्य दिवेदिवे ॥
9.101.07 अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।
9.101.07 पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ॥
9.101.08 समु प्रिया अनूषत गावो मदाय घृष्वयः ।
9.101.08 सोमासः कृण्वते पथः पवमानास इन्दवः ॥
9.101.09 य ओजिष्ठस्तमा भर पवमान श्रवाय्यम् ।
9.101.09 यः पञ्च चर्षणीरभि रयिं येन वनामहै ॥
9.101.10 सोमाः पवन्त इन्दवोऽस्मभ्यं गातुवित्तमाः ।
9.101.10 मित्राः सुवाना अरेपसः स्वाध्यः स्वर्विदः ॥
9.101.11 सुष्वाणासो व्यद्रिभिश्चिताना गोरधि त्वचि ।
9.101.11 इषमस्मभ्यमभितः समस्वरन्वसुविदः ॥
9.101.12 एते पूता विपश्चितः सोमासो दध्याशिरः ।
9.101.12 सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥
9.101.13 प्र सुन्वानस्यान्धसो मर्तो न वृत तद्वचः ।
9.101.13 अप श्वानमराधसं हता मखं न भृगवः ॥
9.101.14 आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।
9.101.14 सरज्जारो न योषणां वरो न योनिमासदम् ॥
9.101.15 स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।
9.101.15 हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥
9.101.16 अव्यो वारेभिः पवते सोमो गव्ये अधि त्वचि ।
9.101.16 कनिक्रदद्वृषा हरिरिन्द्रस्याभ्येति निष्कृतम् ॥

9.102.01 क्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिम् ।
9.102.01 विश्वा परि प्रिया भुवदध द्विता ॥
9.102.02 उप त्रितस्य पाष्योरभक्त यद्गुहा पदम् ।
9.102.02 यज्ञस्य सप्त धामभिरध प्रियम् ॥
9.102.03 त्रीणि त्रितस्य धारया पृष्ठेष्वेरया रयिम् ।
9.102.03 मिमीते अस्य योजना वि सुक्रतुः ॥
9.102.04 जज्ञानं सप्त मातरो वेधामशासत श्रिये ।
9.102.04 अयं ध्रुवो रयीणां चिकेत यत् ॥
9.102.05 अस्य व्रते सजोषसो विश्वे देवासो अद्रुहः ।
9.102.05 स्पार्हा भवन्ति रन्तयो जुषन्त यत् ॥
9.102.06 यमी गर्भमृतावृधो दृशे चारुमजीजनन् ।
9.102.06 कविं मंहिष्ठमध्वरे पुरुस्पृहम् ॥
9.102.07 समीचीने अभि त्मना यह्वी ऋतस्य मातरा ।
9.102.07 तन्वाना यज्ञमानुषग्यदञ्जते ॥
9.102.08 क्रत्वा शुक्रेभिरक्षभिरृणोरप व्रजं दिवः ।
9.102.08 हिन्वन्नृतस्य दीधितिं प्राध्वरे ॥

9.103.01 प्र पुनानाय वेधसे सोमाय वच उद्यतम् ।
9.103.01 भृतिं न भरा मतिभिर्जुजोषते ॥
9.103.02 परि वाराण्यव्यया गोभिरञ्जानो अर्षति ।
9.103.02 त्री षधस्था पुनानः कृणुते हरिः ॥
9.103.03 परि कोशं मधुश्चुतमव्यये वारे अर्षति ।
9.103.03 अभि वाणीरृषीणां सप्त नूषत ॥
9.103.04 परि णेता मतीनां विश्वदेवो अदाभ्यः ।
9.103.04 सोमः पुनानश्चम्वोर्विशद्धरिः ॥
9.103.05 परि दैवीरनु स्वधा इन्द्रेण याहि सरथम् ।
9.103.05 पुनानो वाघद्वाघद्भिरमर्त्यः ॥
9.103.06 परि सप्तिर्न वाजयुर्देवो देवेभ्यः सुतः ।
9.103.06 व्यानशिः पवमानो वि धावति ॥

9.104.01 सखाय आ नि षीदत पुनानाय प्र गायत ।
9.104.01 शिशुं न यज्ञैः परि भूषत श्रिये ॥
9.104.02 समी वत्सं न मातृभिः सृजता गयसाधनम् ।
9.104.02 देवाव्यं मदमभि द्विशवसम् ॥
9.104.03 पुनाता दक्षसाधनं यथा शर्धाय वीतये ।
9.104.03 यथा मित्राय वरुणाय शन्तमः ॥
9.104.04 अस्मभ्यं त्वा वसुविदमभि वाणीरनूषत ।
9.104.04 गोभिष्टे वर्णमभि वासयामसि ॥
9.104.05 स नो मदानां पत इन्दो देवप्सरा असि ।
9.104.05 सखेव सख्ये गातुवित्तमो भव ॥
9.104.06 सनेमि कृध्यस्मदा रक्षसं कं चिदत्रिणम् ।
9.104.06 अपादेवं द्वयुमंहो युयोधि नः ॥

9.105.01 तं वः सखायो मदाय पुनानमभि गायत ।
9.105.01 शिशुं न यज्ञैः स्वदयन्त गूर्तिभिः ॥
9.105.02 सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते ।
9.105.02 देवावीर्मदो मतिभिः परिष्कृतः ॥
9.105.03 अयं दक्षाय साधनोऽयं शर्धाय वीतये ।
9.105.03 अयं देवेभ्यो मधुमत्तमः सुतः ॥
9.105.04 गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धन्व ।
9.105.04 शुचिं ते वर्णमधि गोषु दीधरम् ॥
9.105.05 स नो हरीणां पत इन्दो देवप्सरस्तमः ।
9.105.05 सखेव सख्ये नर्यो रुचे भव ॥
9.105.06 सनेमि त्वमस्मदां अदेवं कं चिदत्रिणम् ।
9.105.06 साह्वां इन्दो परि बाधो अप द्वयुम् ॥

9.106.01 इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।
9.106.01 श्रुष्टी जातास इन्दवः स्वर्विदः ॥
9.106.02 अयं भराय सानसिरिन्द्राय पवते सुतः ।
9.106.02 सोमो जैत्रस्य चेतति यथा विदे ॥
9.106.03 अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णीत सानसिम् ।
9.106.03 वज्रं च वृषणं भरत्समप्सुजित् ॥
9.106.04 प्र धन्वा सोम जागृविरिन्द्रायेन्दो परि स्रव ।
9.106.04 द्युमन्तं शुष्ममा भरा स्वर्विदम् ॥
9.106.05 इन्द्राय वृषणं मदं पवस्व विश्वदर्शतः ।
9.106.05 सहस्रयामा पथिकृद्विचक्षणः ॥
9.106.06 अस्मभ्यं गातुवित्तमो देवेभ्यो मधुमत्तमः ।
9.106.06 सहस्रं याहि पथिभिः कनिक्रदत् ॥
9.106.07 पवस्व देववीतय इन्दो धाराभिरोजसा ।
9.106.07 आ कलशं मधुमान्सोम नः सदः ॥
9.106.08 तव द्रप्सा उदप्रुत इन्द्रं मदाय वावृधुः ।
9.106.08 त्वां देवासो अमृताय कं पपुः ॥
9.106.09 आ नः सुतास इन्दवः पुनाना धावता रयिम् ।
9.106.09 वृष्टिद्यावो रीत्यापः स्वर्विदः ॥
9.106.10 सोमः पुनान ऊर्मिणाव्यो वारं वि धावति ।
9.106.10 अग्रे वाचः पवमानः कनिक्रदत् ॥
9.106.11 धीभिर्हिन्वन्ति वाजिनं वने क्रीळन्तमत्यविम् ।
9.106.11 अभि त्रिपृष्ठं मतयः समस्वरन् ॥
9.106.12 असर्जि कलशां अभि मीळ्हे सप्तिर्न वाजयुः ।
9.106.12 पुनानो वाचं जनयन्नसिष्यदत् ॥
9.106.13 पवते हर्यतो हरिरति ह्वरांसि रंह्या ।
9.106.13 अभ्यर्षन्स्तोतृभ्यो वीरवद्यशः ॥
9.106.14 अया पवस्व देवयुर्मधोर्धारा असृक्षत ।
9.106.14 रेभन्पवित्रं पर्येषि विश्वतः ॥

9.107.01 परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
9.107.01 दधन्वां यो नर्यो अप्स्वन्तरा सुषाव सोममद्रिभिः ॥
9.107.02 नूनं पुनानोऽविभिः परि स्रवादब्धः सुरभिन्तरः ।
9.107.02 सुते चित्त्वाप्सु मदामो अन्धसा श्रीणन्तो गोभिरुत्तरम् ॥
9.107.03 परि सुवानश्चक्षसे देवमादनः क्रतुरिन्दुर्विचक्षणः ॥
9.107.04 पुनानः सोम धारयापो वसानो अर्षसि ।
9.107.04 आ रत्नधा योनिमृतस्य सीदस्युत्सो देव हिरण्ययः ॥
9.107.05 दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।
9.107.05 आपृच्छ्यं धरुणं वाज्यर्षति नृभिर्धूतो विचक्षणः ॥
9.107.06 पुनानः सोम जागृविरव्यो वारे परि प्रियः ।
9.107.06 त्वं विप्रो अभवोऽङ्गिरस्तमो मध्वा यज्ञं मिमिक्ष नः ॥
9.107.07 सोमो मीढ्वान्पवते गातुवित्तम ऋषिर्विप्रो विचक्षणः ।
9.107.07 त्वं कविरभवो देववीतम आ सूर्यं रोहयो दिवि ॥
9.107.08 सोम उ षुवाणः सोतृभिरधि ष्णुभिरवीनाम् ।
9.107.08 अश्वयेव हरिता याति धारया मन्द्रया याति धारया ॥
9.107.09 अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।
9.107.09 समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ॥
9.107.10 आ सोम सुवानो अद्रिभिस्तिरो वाराण्यव्यया ।
9.107.10 जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दधिषे ॥
9.107.11 स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः ।
9.107.11 अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥
9.107.12 प्र सोम देववीतये सिन्धुर्न पिप्ये अर्णसा ।
9.107.12 अंशोः पयसा मदिरो न जागृविरच्छा कोशं मधुश्चुतम् ॥
9.107.13 आ हर्यतो अर्जुने अत्के अव्यत प्रियः सूनुर्न मर्ज्यः ।
9.107.13 तमीं हिन्वन्त्यपसो यथा रथं नदीष्वा गभस्त्योः ॥
9.107.14 अभि सोमास आयवः पवन्ते मद्यं मदम् ।
9.107.14 समुद्रस्याधि विष्टपि मनीषिणो मत्सरासः स्वर्विदः ॥
9.107.15 तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् ।
9.107.15 अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥
9.107.16 नृभिर्येमानो हर्यतो विचक्षणो राजा देवः समुद्रियः ॥
9.107.17 इन्द्राय पवते मदः सोमो मरुत्वते सुतः ।
9.107.17 सहस्रधारो अत्यव्यमर्षति तमी मृजन्त्यायवः ॥
9.107.18 पुनानश्चमू जनयन्मतिं कविः सोमो देवेषु रण्यति ।
9.107.18 अपो वसानः परि गोभिरुत्तरः सीदन्वनेष्वव्यत ॥
9.107.19 तवाहं सोम रारण सख्य इन्दो दिवेदिवे ।
9.107.19 पुरूणि बभ्रो नि चरन्ति मामव परिधींरति तां इहि ॥
9.107.20 उताहं नक्तमुत सोम ते दिवा सख्याय बभ्र ऊधनि ।
9.107.20 घृणा तपन्तमति सूर्यं परः शकुना इव पप्तिम ॥
9.107.21 मृज्यमानः सुहस्त्य समुद्रे वाचमिन्वसि ।
9.107.21 रयिं पिशङ्गं बहुलं पुरुस्पृहं पवमानाभ्यर्षसि ॥
9.107.22 मृजानो वारे पवमानो अव्यये वृषाव चक्रदो वने ।
9.107.22 देवानां सोम पवमान निष्कृतं गोभिरञ्जानो अर्षसि ॥
9.107.23 पवस्व वाजसातयेऽभि विश्वानि काव्या ।
9.107.23 त्वं समुद्रं प्रथमो वि धारयो देवेभ्यः सोम मत्सरः ॥
9.107.24 स तू पवस्व परि पार्थिवं रजो दिव्या च सोम धर्मभिः ।
9.107.24 त्वां विप्रासो मतिभिर्विचक्षण शुभ्रं हिन्वन्ति धीतिभिः ॥
9.107.25 पवमाना असृक्षत पवित्रमति धारया ।
9.107.25 मरुत्वन्तो मत्सरा इन्द्रिया हया मेधामभि प्रयांसि च ॥
9.107.26 अपो वसानः परि कोशमर्षतीन्दुर्हियानः सोतृभिः ।
9.107.26 जनयञ्ज्योतिर्मन्दना अवीवशद्गाः कृण्वानो न निर्णिजम् ॥

9.108.01 पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।
9.108.01 महि द्युक्षतमो मदः ॥
9.108.02 यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विदः ।
9.108.02 स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥
9.108.03 त्वं ह्यङ्ग दैव्या पवमान जनिमानि द्युमत्तमः ।
9.108.03 अमृतत्वाय घोषयः ॥
9.108.04 येना नवग्वो दध्यङ्ङपोर्णुते येन विप्रास आपिरे ।
9.108.04 देवानां सुम्ने अमृतस्य चारुणो येन श्रवांस्यानशुः ॥
9.108.05 एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः ।
9.108.05 क्रीळन्नूर्मिरपामिव ॥
9.108.06 य उस्रिया अप्या अन्तरश्मनो निर्गा अकृन्तदोजसा ।
9.108.06 अभि व्रजं तत्निषे गव्यमश्व्यं वर्मीव धृष्णवा रुज ॥
9.108.07 आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरम् ।
9.108.07 वनक्रक्षमुदप्रुतम् ॥
9.108.08 सहस्रधारं वृषभं पयोवृधं प्रियं देवाय जन्मने ।
9.108.08 ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥
9.108.09 अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः ।
9.108.09 वि कोशं मध्यमं युव ॥
9.108.10 आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।
9.108.10 वृष्टिं दिवः पवस्व रीतिमपां जिन्वा गविष्टये धियः ॥
9.108.11 एतमु त्यं मदच्युतं सहस्रधारं वृषभं दिवो दुहुः ।
9.108.11 विश्वा वसूनि बिभ्रतम् ॥
9.108.12 वृषा वि जज्ञे जनयन्नमर्त्यः प्रतपञ्ज्योतिषा तमः ।
9.108.12 स सुष्टुतः कविभिर्निर्णिजं दधे त्रिधात्वस्य दंससा ॥
9.108.13 स सुन्वे यो वसूनां यो रायामानेता य इळानाम् ।
9.108.13 सोमो यः सुक्षितीनाम् ॥
9.108.14 यस्य न इन्द्रः पिबाद्यस्य मरुतो यस्य वार्यमणा भगः ।
9.108.14 आ येन मित्रावरुणा करामह एन्द्रमवसे महे ॥
9.108.15 इन्द्राय सोम पातवे नृभिर्यतः स्वायुधो मदिन्तमः ।
9.108.15 पवस्व मधुमत्तमः ॥
9.108.16 इन्द्रस्य हार्दि सोमधानमा विश समुद्रमिव सिन्धवः ।
9.108.16 जुष्टो मित्राय वरुणाय वायवे दिवो विष्टम्भ उत्तमः ॥

9.109.01 परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥
9.109.02 इन्द्रस्ते सोम सुतस्य पेयाः क्रत्वे दक्षाय विश्वे च देवाः ॥
9.109.03 एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥
9.109.04 पवस्व सोम महान्समुद्रः पिता देवानां विश्वाभि धाम ॥
9.109.05 शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजायै ॥
9.109.06 दिवो धर्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥
9.109.07 पवस्व सोम द्युम्नी सुधारो महामवीनामनु पूर्व्यः ॥
9.109.08 नृभिर्येमानो जज्ञानः पूतः क्षरद्विश्वानि मन्द्रः स्वर्वित् ॥
9.109.09 इन्दुः पुनानः प्रजामुराणः करद्विश्वानि द्रविणानि नः ॥
9.109.10 पवस्व सोम क्रत्वे दक्षायाश्वो न निक्तो वाजी धनाय ॥
9.109.11 तं ते सोतारो रसं मदाय पुनन्ति सोमं महे द्युम्नाय ॥
9.109.12 शिशुं जज्ञानं हरिं मृजन्ति पवित्रे सोमं देवेभ्य इन्दुम् ॥
9.109.13 इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ॥
9.109.14 बिभर्ति चार्विन्द्रस्य नाम येन विश्वानि वृत्रा जघान ॥
9.109.15 पिबन्त्यस्य विश्वे देवासो गोभिः श्रीतस्य नृभिः सुतस्य ॥
9.109.16 प्र सुवानो अक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यम् ॥
9.109.17 स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥
9.109.18 प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥
9.109.19 असर्जि वाजी तिरः पवित्रमिन्द्राय सोमः सहस्रधारः ॥
9.109.20 अञ्जन्त्येनं मध्वो रसेनेन्द्राय वृष्ण इन्दुं मदाय ॥
9.109.21 देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति ॥
9.109.22 इन्दुरिन्द्राय तोशते नि तोशते श्रीणन्नुग्रो रिणन्नपः ॥

9.110.01 पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
9.110.01 द्विषस्तरध्या ऋणया न ईयसे ॥
9.110.02 अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
9.110.02 वाजां अभि पवमान प्र गाहसे ॥
9.110.03 अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।
9.110.03 गोजीरया रंहमाणः पुरन्ध्या ॥
9.110.04 अजीजनो अमृत मर्त्येष्वां ऋतस्य धर्मन्नमृतस्य चारुणः ।
9.110.04 सदासरो वाजमच्छा सनिष्यदत् ॥
9.110.05 अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितम् ।
9.110.05 शर्याभिर्न भरमाणो गभस्त्योः ॥
9.110.06 आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।
9.110.06 वारं न देवः सविता व्यूर्णुते ॥
9.110.07 त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियं दधुः ।
9.110.07 स त्वं नो वीर वीर्याय चोदय ॥
9.110.08 दिवः पीयूषं पूर्व्यं यदुक्थ्यं महो गाहाद्दिव आ निरधुक्षत ।
9.110.08 इन्द्रमभि जायमानं समस्वरन् ॥
9.110.09 अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।
9.110.09 यूथे न निष्ठा वृषभो वि तिष्ठसे ॥
9.110.10 सोमः पुनानो अव्यये वारे शिशुर्न क्रीळन्पवमानो अक्षाः ।
9.110.10 सहस्रधारः शतवाज इन्दुः ॥
9.110.11 एष पुनानो मधुमां ऋतावेन्द्रायेन्दुः पवते स्वादुरूर्मिः ।
9.110.11 वाजसनिर्वरिवोविद्वयोधाः ॥
9.110.12 स पवस्व सहमानः पृतन्यून्सेधन्रक्षांस्यप दुर्गहाणि ।
9.110.12 स्वायुधः सासह्वान्सोम शत्रून् ॥

9.111.01 अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति स्वयुग्वभिः सूरो न स्वयुग्वभिः ।
9.111.01 धारा सुतस्य रोचते पुनानो अरुषो हरिः ।
9.111.01 विश्वा यद्रूपा परियात्यृक्वभिः सप्तास्येभिरृक्वभिः ॥
9.111.02 त्वं त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।
9.111.02 परावतो न साम तद्यत्रा रणन्ति धीतयः ।
9.111.02 त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे ॥
9.111.03 पूर्वामनु प्रदिशं याति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।
9.111.03 अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।
9.111.03 वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥

9.112.01 नानानं वा उ नो धियो वि व्रतानि जनानाम् ।
9.112.01 तक्षा रिष्टं रुतं भिषग्ब्रह्मा सुन्वन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥
9.112.02 जरतीभिरोषधीभिः पर्णेभिः शकुनानाम् ।
9.112.02 कार्मारो अश्मभिर्द्युभिर्हिरण्यवन्तमिच्छतीन्द्रायेन्दो परि स्रव ॥
9.112.03 कारुरहं ततो भिषगुपलप्रक्षिणी नना ।
9.112.03 नानाधियो वसूयवोऽनु गा इव तस्थिमेन्द्रायेन्दो परि स्रव ॥
9.112.04 अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः ।
9.112.04 शेपो रोमण्वन्तौ भेदौ वारिन्मण्डूक इच्छतीन्द्रायेन्दो परि स्रव ॥

9.113.01 शर्यणावति सोममिन्द्रः पिबतु वृत्रहा ।
9.113.01 बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥
9.113.02 आ पवस्व दिशां पत आर्जीकात्सोम मीढ्वः ।
9.113.02 ऋतवाकेन सत्येन श्रद्धया तपसा सुत इन्द्रायेन्दो परि स्रव ॥
9.113.03 पर्जन्यवृद्धं महिषं तं सूर्यस्य दुहिताभरत् ।
9.113.03 तं गन्धर्वाः प्रत्यगृभ्णन्तं सोमे रसमादधुरिन्द्रायेन्दो परि स्रव ॥
9.113.04 ऋतं वदन्नृतद्युम्न सत्यं वदन्सत्यकर्मन् ।
9.113.04 श्रद्धां वदन्सोम राजन्धात्रा सोम परिष्कृत इन्द्रायेन्दो परि स्रव ॥
9.113.05 सत्यमुग्रस्य बृहतः सं स्रवन्ति संस्रवाः ।
9.113.05 सं यन्ति रसिनो रसाः पुनानो ब्रह्मणा हर इन्द्रायेन्दो परि स्रव ॥
9.113.06 यत्र ब्रह्मा पवमान छन्दस्यां वाचं वदन् ।
9.113.06 ग्राव्णा सोमे महीयते सोमेनानन्दं जनयन्निन्द्रायेन्दो परि स्रव ॥
9.113.07 यत्र ज्योतिरजस्रं यस्मिंल्लोके स्वर्हितम् ।
9.113.07 तस्मिन्मां धेहि पवमानामृते लोके अक्षित इन्द्रायेन्दो परि स्रव ॥
9.113.08 यत्र राजा वैवस्वतो यत्रावरोधनं दिवः ।
9.113.08 यत्रामूर्यह्वतीरापस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
9.113.09 यत्रानुकामं चरणं त्रिनाके त्रिदिवे दिवः ।
9.113.09 लोका यत्र ज्योतिष्मन्तस्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
9.113.10 यत्र कामा निकामाश्च यत्र ब्रध्नस्य विष्टपम् ।
9.113.10 स्वधा च यत्र तृप्तिश्च तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥
9.113.11 यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते ।
9.113.11 कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधीन्द्रायेन्दो परि स्रव ॥

9.114.01 य इन्दोः पवमानस्यानु धामान्यक्रमीत् ।
9.114.01 तमाहुः सुप्रजा इति यस्ते सोमाविधन्मन इन्द्रायेन्दो परि स्रव ॥
9.114.02 ऋषे मन्त्रकृतां स्तोमैः कश्यपोद्वर्धयन्गिरः ।
9.114.02 सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिरिन्द्रायेन्दो परि स्रव ॥
9.114.03 सप्त दिशो नानासूर्याः सप्त होतार ऋत्विजः ।
9.114.03 देवा आदित्या ये सप्त तेभिः सोमाभि रक्ष न इन्द्रायेन्दो परि स्रव ॥
9.114.04 यत्ते राजञ्छृतं हविस्तेन सोमाभि रक्ष नः ।
9.114.04 अरातीवा मा नस्तारीन्मो च नः किं चनाममदिन्द्रायेन्दो परि स्रव ॥

Advertisements

Categories: Rig Veda

Tagged as: