Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Rig Veda » Rig Veda Second Mandala ऋग्वेद

Rig Veda Second Mandala ऋग्वेद

2.001.01 त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि । [First mantram] 2.043.03 आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।[Last Mantram]

ऋग्वेद

2.001.01 त्वमग्ने द्युभिस्त्वमाशुशुक्षणिस्त्वमद्भ्यस्त्वमश्मनस्परि ।
2.001.01 त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं नृणां नृपते जायसे शुचिः ॥
2.001.02 तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।
2.001.02 तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
2.001.03 त्वमग्न इन्द्रो वृषभः सतामसि त्वं विष्णुरुरुगायो नमस्यः ।
2.001.03 त्वं ब्रह्मा रयिविद्ब्रह्मणस्पते त्वं विधर्तः सचसे पुरन्ध्या ॥
2.001.04 त्वमग्ने राजा वरुणो धृतव्रतस्त्वं मित्रो भवसि दस्म ईड्यः ।
2.001.04 त्वमर्यमा सत्पतिर्यस्य सम्भुजं त्वमंशो विदथे देव भाजयुः ॥
2.001.05 त्वमग्ने त्वष्टा विधते सुवीर्यं तव ग्नावो मित्रमहः सजात्यम् ।
2.001.05 त्वमाशुहेमा ररिषे स्वश्व्यं त्वं नरां शर्धो असि पुरूवसुः ॥
2.001.06 त्वमग्ने रुद्रो असुरो महो दिवस्त्वं शर्धो मारुतं पृक्ष ईशिषे ।
2.001.06 त्वं वातैररुणैर्यासि शङ्गयस्त्वं पूषा विधतः पासि नु त्मना ॥
2.001.07 त्वमग्ने द्रविणोदा अरङ्कृते त्वं देवः सविता रत्नधा असि ।
2.001.07 त्वं भगो नृपते वस्व ईशिषे त्वं पायुर्दमे यस्तेऽविधत् ॥
2.001.08 त्वामग्ने दम आ विश्पतिं विशस्त्वां राजानं सुविदत्रमृञ्जते ।
2.001.08 त्वं विश्वानि स्वनीक पत्यसे त्वं सहस्राणि शता दश प्रति ॥
2.001.09 त्वामग्ने पितरमिष्टिभिर्नरस्त्वां भ्रात्राय शम्या तनूरुचम् ।
2.001.09 त्वं पुत्रो भवसि यस्तेऽविधत्त्वं सखा सुशेवः पास्याधृषः ॥
2.001.10 त्वमग्न ऋभुराके नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे ।
2.001.10 त्वं वि भास्यनु दक्षि दावने त्वं विशिक्षुरसि यज्ञमातनिः ॥
2.001.11 त्वमग्ने अदितिर्देव दाशुषे त्वं होत्रा भारती वर्धसे गिरा ।
2.001.11 त्वमिळा शतहिमासि दक्षसे त्वं वृत्रहा वसुपते सरस्वती ॥
2.001.12 त्वमग्ने सुभृत उत्तमं वयस्तव स्पार्हे वर्ण आ संदृशि श्रियः ।
2.001.12 त्वं वाजः प्रतरणो बृहन्नसि त्वं रयिर्बहुलो विश्वतस्पृथुः ॥
2.001.13 त्वामग्न आदित्यास आस्यं त्वां जिह्वां शुचयश्चक्रिरे कवे ।
2.001.13 त्वां रातिषाचो अध्वरेषु सश्चिरे त्वे देवा हविरदन्त्याहुतम् ॥
2.001.14 त्वे अग्ने विश्वे अमृतासो अद्रुह आसा देवा हविरदन्त्याहुतम् ।
2.001.14 त्वया मर्तासः स्वदन्त आसुतिं त्वं गर्भो वीरुधां जज्ञिषे शुचिः ॥
2.001.15 त्वं तान्सं च प्रति चासि मज्मनाग्ने सुजात प्र च देव रिच्यसे ।
2.001.15 पृक्षो यदत्र महिना वि ते भुवदनु द्यावापृथिवी रोदसी उभे ॥
2.001.16 ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
2.001.16 अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

2.002.01 यज्ञेन वर्धत जातवेदसमग्निं यजध्वं हविषा तना गिरा ।
2.002.01 समिधानं सुप्रयसं स्वर्णरं द्युक्षं होतारं वृजनेषु धूर्षदम् ॥
2.002.02 अभि त्वा नक्तीरुषसो ववाशिरेऽग्ने वत्सं न स्वसरेषु धेनवः ।
2.002.02 दिव इवेदरतिर्मानुषा युगा क्षपो भासि पुरुवार संयतः ॥
2.002.03 तं देवा बुध्ने रजसः सुदंससं दिवस्पृथिव्योररतिं न्येरिरे ।
2.002.03 रथमिव वेद्यं शुक्रशोचिषमग्निं मित्रं न क्षितिषु प्रशंस्यम् ॥
2.002.04 तमुक्षमाणं रजसि स्व आ दमे चन्द्रमिव सुरुचं ह्वार आ दधुः ।
2.002.04 पृश्न्याः पतरं चितयन्तमक्षभिः पाथो न पायुं जनसी उभे अनु ॥
2.002.05 स होता विश्वं परि भूत्वध्वरं तमु हव्यैर्मनुष ऋञ्जते गिरा ।
2.002.05 हिरिशिप्रो वृधसानासु जर्भुरद्द्यौर्न स्तृभिश्चितयद्रोदसी अनु ॥
2.002.06 स नो रेवत्समिधानः स्वस्तये संददस्वान्रयिमस्मासु दीदिहि ।
2.002.06 आ नः कृणुष्व सुविताय रोदसी अग्ने हव्या मनुषो देव वीतये ॥
2.002.07 दा नो अग्ने बृहतो दाः सहस्रिणो दुरो न वाजं श्रुत्या अपा वृधि ।
2.002.07 प्राची द्यावापृथिवी ब्रह्मणा कृधि स्वर्ण शुक्रमुषसो वि दिद्युतः ॥
2.002.08 स इधान उषसो राम्या अनु स्वर्ण दीदेदरुषेण भानुना ।
2.002.08 होत्राभिरग्निर्मनुषः स्वध्वरो राजा विशामतिथिश्चारुरायवे ॥
2.002.09 एवा नो अग्ने अमृतेषु पूर्व्य धीष्पीपाय बृहद्दिवेषु मानुषा ।
2.002.09 दुहाना धेनुर्वृजनेषु कारवे त्मना शतिनं पुरुरूपमिषणि ॥
2.002.10 वयमग्ने अर्वता वा सुवीर्यं ब्रह्मणा वा चितयेमा जनां अति ।
2.002.10 अस्माकं द्युम्नमधि पञ्च कृष्टिषूच्चा स्वर्ण शुशुचीत दुष्टरम् ॥
2.002.11 स नो बोधि सहस्य प्रशंस्यो यस्मिन्सुजाता इषयन्त सूरयः ।
2.002.11 यमग्ने यज्ञमुपयन्ति वाजिनो नित्ये तोके दीदिवांसं स्वे दमे ॥
2.002.12 उभयासो जातवेदः स्याम ते स्तोतारो अग्ने सूरयश्च शर्मणि ।
2.002.12 वस्वो रायः पुरुश्चन्द्रस्य भूयसः प्रजावतः स्वपत्यस्य शग्धि नः ॥
2.002.13 ये स्तोतृभ्यो गोअग्रामश्वपेशसमग्ने रातिमुपसृजन्ति सूरयः ।
2.002.13 अस्माञ्च तांश्च प्र हि नेषि वस्य आ बृहद्वदेम विदथे सुवीराः ॥

2.003.01 समिद्धो अग्निर्निहितः पृथिव्यां प्रत्यङ्विश्वानि भुवनान्यस्थात् ।
2.003.01 होता पावकः प्रदिवः सुमेधा देवो देवान्यजत्वग्निरर्हन् ॥
2.003.02 नराशंसः प्रति धामान्यञ्जन्तिस्रो दिवः प्रति मह्ना स्वर्चिः ।
2.003.02 घृतप्रुषा मनसा हव्यमुन्दन्मूर्धन्यज्ञस्य समनक्तु देवान् ॥
2.003.03 ईळितो अग्ने मनसा नो अर्हन्देवान्यक्षि मानुषात्पूर्वो अद्य ।
2.003.03 स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम् ॥
2.003.04 देव बर्हिर्वर्धमानं सुवीरं स्तीर्णं राये सुभरं वेद्यस्याम् ।
2.003.04 घृतेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः ॥
2.003.05 वि श्रयन्तामुर्विया हूयमाना द्वारो देवीः सुप्रायणा नमोभिः ।
2.003.05 व्यचस्वतीर्वि प्रथन्तामजुर्या वर्णं पुनाना यशसं सुवीरम् ॥
2.003.06 साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते ।
2.003.06 तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती ॥
2.003.07 दैव्या होतारा प्रथमा विदुष्टर ऋजु यक्षतः समृचा वपुष्टरा ।
2.003.07 देवान्यजन्तावृतुथा समञ्जतो नाभा पृथिव्या अधि सानुषु त्रिषु ॥
2.003.08 सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः ।
2.003.08 तिस्रो देवीः स्वधया बर्हिरेदमच्छिद्रं पान्तु शरणं निषद्य ॥
2.003.09 पिशङ्गरूपः सुभरो वयोधाः श्रुष्टी वीरो जायते देवकामः ।
2.003.09 प्रजां त्वष्टा वि ष्यतु नाभिमस्मे अथा देवानामप्येतु पाथः ॥
2.003.10 वनस्पतिरवसृजन्नुप स्थादग्निर्हविः सूदयाति प्र धीभिः ।
2.003.10 त्रिधा समक्तं नयतु प्रजानन्देवेभ्यो दैव्यः शमितोप हव्यम् ॥
2.003.11 घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतं वस्य धाम ।
2.003.11 अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥

2.004.01 हुवे वः सुद्योत्मानं सुवृक्तिं विशामग्निमतिथिं सुप्रयसम् ।
2.004.01 मित्र इव यो दिधिषाय्यो भूद्देव आदेवे जने जातवेदाः ॥
2.004.02 इमं विधन्तो अपां सधस्थे द्वितादधुर्भृगवो विक्ष्वायोः ।
2.004.02 एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः ॥
2.004.03 अग्निं देवासो मानुषीषु विक्षु प्रियं धुः क्षेष्यन्तो न मित्रम् ।
2.004.03 स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ ॥
2.004.04 अस्य रण्वा स्वस्येव पुष्टिः संदृष्टिरस्य हियानस्य दक्षोः ।
2.004.04 वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान् ॥
2.004.05 आ यन्मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम् ।
2.004.05 स चित्रेण चिकिते रंसु भासा जुजुर्वां यो मुहुरा युवा भूत् ॥
2.004.06 आ यो वना तातृषाणो न भाति वार्ण पथा रथ्येव स्वानीत् ।
2.004.06 कृष्णाध्वा तपू रण्वश्चिकेत द्यौरिव स्मयमानो नभोभिः ॥
2.004.07 स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः ।
2.004.07 अग्निः शोचिष्मां अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम ॥
2.004.08 नू ते पूर्वस्यावसो अधीतौ तृतीये विदथे मन्म शंसि ।
2.004.08 अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः ॥
2.004.09 त्वया यथा गृत्समदासो अग्ने गुहा वन्वन्त उपरां अभि ष्युः ।
2.004.09 सुवीरासो अभिमातिषाहः स्मत्सूरिभ्यो गृणते तद्वयो धाः ॥

2.005.01 होताजनिष्ट चेतनः पिता पितृभ्य ऊतये ।
2.005.01 प्रयक्षञ्जेन्यं वसु शकेम वाजिनो यमम् ॥
2.005.02 आ यस्मिन्सप्त रश्मयस्तता यज्ञस्य नेतरि ।
2.005.02 मनुष्वद्दैव्यमष्टमं पोता विश्वं तदिन्वति ॥
2.005.03 दधन्वे वा यदीमनु वोचद्ब्रह्माणि वेरु तत् ।
2.005.03 परि विश्वानि काव्या नेमिश्चक्रमिवाभवत् ॥
2.005.04 साकं हि शुचिना शुचिः प्रशास्ता क्रतुनाजनि ।
2.005.04 विद्वां अस्य व्रता ध्रुवा वया इवानु रोहते ॥
2.005.05 ता अस्य वर्णमायुवो नेष्टुः सचन्त धेनवः ।
2.005.05 कुवित्तिसृभ्य आ वरं स्वसारो या इदं ययुः ॥
2.005.06 यदी मातुरुप स्वसा घृतं भरन्त्यस्थित ।
2.005.06 तासामध्वर्युरागतौ यवो वृष्टीव मोदते ॥
2.005.07 स्वः स्वाय धायसे कृणुतामृत्विगृत्विजम् ।
2.005.07 स्तोमं यज्ञं चादरं वनेमा ररिमा वयम् ॥
2.005.08 यथा विद्वां अरं करद्विश्वेभ्यो यजतेभ्यः ।
2.005.08 अयमग्ने त्वे अपि यं यज्ञं चकृमा वयम् ॥

2.006.01 इमां मे अग्ने समिधमिमामुपसदं वनेः ।
2.006.01 इमा उ षु श्रुधी गिरः ॥
2.006.02 अया ते अग्ने विधेमोर्जो नपादश्वमिष्टे ।
2.006.02 एना सूक्तेन सुजात ॥
2.006.03 तं त्वा गीर्भिर्गिर्वणसं द्रविणस्युं द्रविणोदः ।
2.006.03 सपर्येम सपर्यवः ॥
2.006.04 स बोधि सूरिर्मघवा वसुपते वसुदावन् ।
2.006.04 युयोध्यस्मद्द्वेषांसि ॥
2.006.05 स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम् ।
2.006.05 स नः सहस्रिणीरिषः ॥
2.006.06 ईळानायावस्यवे यविष्ठ दूत नो गिरा ।
2.006.06 यजिष्ठ होतरा गहि ॥
2.006.07 अन्तर्ह्यग्न ईयसे विद्वाञ्जन्मोभया कवे ।
2.006.07 दूतो जन्येव मित्र्यः ॥
2.006.08 स विद्वां आ च पिप्रयो यक्षि चिकित्व आनुषक् ।
2.006.08 आ चास्मिन्सत्सि बर्हिषि ॥

2.007.01 श्रेष्ठं यविष्ठ भारताग्ने द्युमन्तमा भर ।
2.007.01 वसो पुरुस्पृहं रयिम् ॥
2.007.02 मा नो अरातिरीशत देवस्य मर्त्यस्य च ।
2.007.02 पर्षि तस्या उत द्विषः ॥
2.007.03 विश्वा उत त्वया वयं धारा उदन्या इव ।
2.007.03 अति गाहेमहि द्विषः ॥
2.007.04 शुचिः पावक वन्द्योऽग्ने बृहद्वि रोचसे ।
2.007.04 त्वं घृतेभिराहुतः ॥
2.007.05 त्वं नो असि भारताग्ने वशाभिरुक्षभिः ।
2.007.05 अष्टापदीभिराहुतः ॥
2.007.06 द्र्वन्नः सर्पिरासुतिः प्रत्नो होता वरेण्यः ।
2.007.06 सहसस्पुत्रो अद्भुतः ॥

2.008.01 वाजयन्निव नू रथान्योगां अग्नेरुप स्तुहि ।
2.008.01 यशस्तमस्य मीळ्हुषः ॥
2.008.02 यः सुनीथो ददाशुषेऽजुर्यो जरयन्नरिम् ।
2.008.02 चारुप्रतीक आहुतः ॥
2.008.03 य उ श्रिया दमेष्वा दोषोषसि प्रशस्यते ।
2.008.03 यस्य व्रतं न मीयते ॥
2.008.04 आ यः स्वर्ण भानुना चित्रो विभात्यर्चिषा ।
2.008.04 अञ्जानो अजरैरभि ॥
2.008.05 अत्रिमनु स्वराज्यमग्निमुक्थानि वावृधुः ।
2.008.05 विश्वा अधि श्रियो दधे ॥
2.008.06 अग्नेरिन्द्रस्य सोमस्य देवानामूतिभिर्वयम् ।
2.008.06 अरिष्यन्तः सचेमह्यभि ष्याम पृतन्यतः ॥

2.009.01 नि होता होतृषदने विदानस्त्वेषो दीदिवां असदत्सुदक्षः ।
2.009.01 अदब्धव्रतप्रमतिर्वसिष्ठः सहस्रम्भरः शुचिजिह्वो अग्निः ॥
2.009.02 त्वं दूतस्त्वमु नः परस्पास्त्वं वस्य आ वृषभ प्रणेता ।
2.009.02 अग्ने तोकस्य नस्तने तनूनामप्रयुच्छन्दीद्यद्बोधि गोपाः ॥
2.009.03 विधेम ते परमे जन्मन्नग्ने विधेम स्तोमैरवरे सधस्थे ।
2.009.03 यस्माद्योनेरुदारिथा यजे तं प्र त्वे हवींषि जुहुरे समिद्धे ॥
2.009.04 अग्ने यजस्व हविषा यजीयाञ्छ्रुष्टी देष्णमभि गृणीहि राधः ।
2.009.04 त्वं ह्यसि रयिपती रयीणां त्वं शुक्रस्य वचसो मनोता ॥
2.009.05 उभयं ते न क्षीयते वसव्यं दिवेदिवे जायमानस्य दस्म ।
2.009.05 कृधि क्षुमन्तं जरितारमग्ने कृधि पतिं स्वपत्यस्य रायः ॥
2.009.06 सैनानीकेन सुविदत्रो अस्मे यष्टा देवां आयजिष्ठः स्वस्ति ।
2.009.06 अदब्धो गोपा उत नः परस्पा अग्ने द्युमदुत रेवद्दिदीहि ॥

2.010.01 जोहूत्रो अग्निः प्रथमः पितेवेळस्पदे मनुषा यत्समिद्धः ।
2.010.01 श्रियं वसानो अमृतो विचेता मर्मृजेन्यः श्रवस्यः स वाजी ॥
2.010.02 श्रूया अग्निश्चित्रभानुर्हवं मे विश्वाभिर्गीर्भिरमृतो विचेताः ।
2.010.02 श्यावा रथं वहतो रोहिता वोतारुषाह चक्रे विभृत्रः ॥
2.010.03 उत्तानायामजनयन्सुषूतं भुवदग्निः पुरुपेशासु गर्भः ।
2.010.03 शिरिणायां चिदक्तुना महोभिरपरीवृतो वसति प्रचेताः ॥
2.010.04 जिघर्म्यग्निं हविषा घृतेन प्रतिक्षियन्तं भुवनानि विश्वा ।
2.010.04 पृथुं तिरश्चा वयसा बृहन्तं व्यचिष्ठमन्नै रभसं दृशानम् ॥
2.010.05 आ विश्वतः प्रत्यञ्चं जिघर्म्यरक्षसा मनसा तज्जुषेत ।
2.010.05 मर्यश्री स्पृहयद्वर्णो अग्निर्नाभिमृशे तन्वा जर्भुराणः ॥
2.010.06 ज्ञेया भागं सहसानो वरेण त्वादूतासो मनुवद्वदेम ।
2.010.06 अनूनमग्निं जुह्वा वचस्या मधुपृचं धनसा जोहवीमि ॥

2.011.01 श्रुधी हवमिन्द्र मा रिषण्यः स्याम ते दावने वसूनाम् ।
2.011.01 इमा हि त्वामूर्जो वर्धयन्ति वसूयवः सिन्धवो न क्षरन्तः ॥
2.011.02 सृजो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः ।
2.011.02 अमर्त्यं चिद्दासं मन्यमानमवाभिनदुक्थैर्वावृधानः ॥
2.011.03 उक्थेष्विन्नु शूर येषु चाकन्स्तोमेष्विन्द्र रुद्रियेषु च ।
2.011.03 तुभ्येदेता यासु मन्दसानः प्र वायवे सिस्रते न शुभ्राः ॥
2.011.04 शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः ।
2.011.04 शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः ॥
2.011.05 गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम् ।
2.011.05 उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण ॥
2.011.06 स्तवा नु त इन्द्र पूर्व्या महान्युत स्तवाम नूतना कृतानि ।
2.011.06 स्तवा वज्रं बाह्वोरुशन्तं स्तवा हरी सूर्यस्य केतू ॥
2.011.07 हरी नु त इन्द्र वाजयन्ता घृतश्चुतं स्वारमस्वार्ष्टाम् ।
2.011.07 वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित्सरिष्यन् ॥
2.011.08 नि पर्वतः साद्यप्रयुच्छन्सं मातृभिर्वावशानो अक्रान् ।
2.011.08 दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन्नि ॥
2.011.09 इन्द्रो महां सिन्धुमाशयानं मायाविनं वृत्रमस्फुरन्निः ।
2.011.09 अरेजेतां रोदसी भियाने कनिक्रदतो वृष्णो अस्य वज्रात् ॥
2.011.10 अरोरवीद्वृष्णो अस्य वज्रोऽमानुषं यन्मानुषो निजूर्वात् ।
2.011.10 नि मायिनो दानवस्य माया अपादयत्पपिवान्सुतस्य ॥
2.011.11 पिबापिबेदिन्द्र शूर सोमं मन्दन्तु त्वा मन्दिनः सुतासः ।
2.011.11 पृणन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव ॥
2.011.12 त्वे इन्द्राप्यभूम विप्रा धियं वनेम ऋतया सपन्तः ।
2.011.12 अवस्यवो धीमहि प्रशस्तिं सद्यस्ते रायो दावने स्याम ॥
2.011.13 स्याम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः ।
2.011.13 शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम् ॥
2.011.14 रासि क्षयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतं नः ।
2.011.14 सजोषसो ये च मन्दसानाः प्र वायवः पान्त्यग्रणीतिम् ॥
2.011.15 व्यन्त्विन्नु येषु मन्दसानस्तृपत्सोमं पाहि द्रह्यदिन्द्र ।
2.011.15 अस्मान्सु पृत्स्वा तरुत्रावर्धयो द्यां बृहद्भिरर्कैः ॥
2.011.16 बृहन्त इन्नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान् ।
2.011.16 स्तृणानासो बर्हिः पस्त्यावत्त्वोता इदिन्द्र वाजमग्मन् ॥
2.011.17 उग्रेष्विन्नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र ।
2.011.17 प्रदोधुवच्छ्मश्रुषु प्रीणानो याहि हरिभ्यां सुतस्य पीतिम् ॥
2.011.18 धिष्वा शवः शूर येन वृत्रमवाभिनद्दानुमौर्णवाभम् ।
2.011.18 अपावृणोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र ॥
2.011.19 सनेम ये त ऊतिभिस्तरन्तो विश्वा स्पृध आर्येण दस्यून् ।
2.011.19 अस्मभ्यं तत्त्वाष्ट्रं विश्वरूपमरन्धयः साख्यस्य त्रिताय ॥
2.011.20 अस्य सुवानस्य मन्दिनस्त्रितस्य न्यर्बुदं वावृधानो अस्तः ।
2.011.20 अवर्तयत्सूर्यो न चक्रं भिनद्वलमिन्द्रो अङ्गिरस्वान् ॥
2.011.21 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.011.21 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.012.01 यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् ।
2.012.01 यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य मह्ना स जनास इन्द्रः ॥
2.012.02 यः पृथिवीं व्यथमानामदृंहद्यः पर्वतान्प्रकुपितां अरम्णात् ।
2.012.02 यो अन्तरिक्षं विममे वरीयो यो द्यामस्तभ्नात्स जनास इन्द्रः ॥
2.012.03 यो हत्वाहिमरिणात्सप्त सिन्धून्यो गा उदाजदपधा वलस्य ।
2.012.03 यो अश्मनोरन्तरग्निं जजान संवृक्समत्सु स जनास इन्द्रः ॥
2.012.04 येनेमा विश्वा च्यवना कृतानि यो दासं वर्णमधरं गुहाकः ।
2.012.04 श्वघ्नीव यो जिगीवांल्लक्षमाददर्यः पुष्टानि स जनास इन्द्रः ॥
2.012.05 यं स्मा पृच्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम् ।
2.012.05 सो अर्यः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त स जनास इन्द्रः ॥
2.012.06 यो रध्रस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः ।
2.012.06 युक्तग्राव्णो योऽविता सुशिप्रः सुतसोमस्य स जनास इन्द्रः ॥
2.012.07 यस्याश्वासः प्रदिशि यस्य गावो यस्य ग्रामा यस्य विश्वे रथासः ।
2.012.07 यः सूर्यं य उषसं जजान यो अपां नेता स जनास इन्द्रः ॥
2.012.08 यं क्रन्दसी संयती विह्वयेते परेऽवर उभया अमित्राः ।
2.012.08 समानं चिद्रथमातस्थिवांसा नाना हवेते स जनास इन्द्रः ॥
2.012.09 यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते ।
2.012.09 यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत्स जनास इन्द्रः ॥
2.012.10 यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान ।
2.012.10 यः शर्धते नानुददाति शृध्यां यो दस्योर्हन्ता स जनास इन्द्रः ॥
2.012.11 यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् ।
2.012.11 ओजायमानं यो अहिं जघान दानुं शयानं स जनास इन्द्रः ॥
2.012.12 यः सप्तरश्मिर्वृषभस्तुविष्मानवासृजत्सर्तवे सप्त सिन्धून् ।
2.012.12 यो रौहिणमस्फुरद्वज्रबाहुर्द्यामारोहन्तं स जनास इन्द्रः ॥
2.012.13 द्यावा चिदस्मै पृथिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते ।
2.012.13 यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स जनास इन्द्रः ॥
2.012.14 यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती ।
2.012.14 यस्य ब्रह्म वर्धनं यस्य सोमो यस्येदं राधः स जनास इन्द्रः ॥
2.012.15 यः सुन्वते पचते दुध्र आ चिद्वाजं दर्दर्षि स किलासि सत्यः ।
2.012.15 वयं त इन्द्र विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥

2.013.01 ऋतुर्जनित्री तस्या अपस्परि मक्षू जात आविशद्यासु वर्धते ।
2.013.01 तदाहना अभवत्पिप्युषी पयोऽंशोः पीयूषं प्रथमं तदुक्थ्यम् ॥
2.013.02 सध्रीमा यन्ति परि बिभ्रतीः पयो विश्वप्स्न्याय प्र भरन्त भोजनम् ।
2.013.02 समानो अध्वा प्रवतामनुष्यदे यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
2.013.03 अन्वेको वदति यद्ददाति तद्रूपा मिनन्तदपा एक ईयते ।
2.013.03 विश्वा एकस्य विनुदस्तितिक्षते यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
2.013.04 प्रजाभ्यः पुष्टिं विभजन्त आसते रयिमिव पृष्ठं प्रभवन्तमायते ।
2.013.04 असिन्वन्दंष्ट्रैः पितुरत्ति भोजनं यस्ताकृणोः प्रथमं सास्युक्थ्यः ॥
2.013.05 अधाकृणोः पृथिवीं संदृशे दिवे यो धौतीनामहिहन्नारिणक्पथः ।
2.013.05 तं त्वा स्तोमेभिरुदभिर्न वाजिनं देवं देवा अजनन्सास्युक्थ्यः ॥
2.013.06 यो भोजनं च दयसे च वर्धनमार्द्रादा शुष्कं मधुमद्दुदोहिथ ।
2.013.06 स शेवधिं नि दधिषे विवस्वति विश्वस्यैक ईशिषे सास्युक्थ्यः ॥
2.013.07 यः पुष्पिणीश्च प्रस्वश्च धर्मणाधि दाने व्यवनीरधारयः ।
2.013.07 यश्चासमा अजनो दिद्युतो दिव उरुरूर्वां अभितः सास्युक्थ्यः ॥
2.013.08 यो नार्मरं सहवसुं निहन्तवे पृक्षाय च दासवेशाय चावहः ।
2.013.08 ऊर्जयन्त्या अपरिविष्टमास्यमुतैवाद्य पुरुकृत्सास्युक्थ्यः ॥
2.013.09 शतं वा यस्य दश साकमाद्य एकस्य श्रुष्टौ यद्ध चोदमाविथ ।
2.013.09 अरज्जौ दस्यून्समुनब्दभीतये सुप्राव्यो अभवः सास्युक्थ्यः ॥
2.013.10 विश्वेदनु रोधना अस्य पौंस्यं ददुरस्मै दधिरे कृत्नवे धनम् ।
2.013.10 षळ् अस्तभ्ना विष्टिरः पञ्च संदृशः परि परो अभवः सास्युक्थ्यः ॥
2.013.11 सुप्रवाचनं तव वीर वीर्यं यदेकेन क्रतुना विन्दसे वसु ।
2.013.11 जातूष्ठिरस्य प्र वयः सहस्वतो या चकर्थ सेन्द्र विश्वास्युक्थ्यः ॥
2.013.12 अरमयः सरपसस्तराय कं तुर्वीतये च वय्याय च स्रुतिम् ।
2.013.12 नीचा सन्तमुदनयः परावृजं प्रान्धं श्रोणं श्रवयन्सास्युक्थ्यः ॥
2.013.13 अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
2.013.13 इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

2.014.01 अध्वर्यवो भरतेन्द्राय सोममामत्रेभिः सिञ्चता मद्यमन्धः ।
2.014.01 कामी हि वीरः सदमस्य पीतिं जुहोत वृष्णे तदिदेष वष्टि ॥
2.014.02 अध्वर्यवो यो अपो वव्रिवांसं वृत्रं जघानाशन्येव वृक्षम् ।
2.014.02 तस्मा एतं भरत तद्वशायं एष इन्द्रो अर्हति पीतिमस्य ॥
2.014.03 अध्वर्यवो यो दृभीकं जघान यो गा उदाजदप हि वलं वः ।
2.014.03 तस्मा एतमन्तरिक्षे न वातमिन्द्रं सोमैरोर्णुत जूर्न वस्त्रैः ॥
2.014.04 अध्वर्यवो य उरणं जघान नव चख्वांसं नवतिं च बाहून् ।
2.014.04 यो अर्बुदमव नीचा बबाधे तमिन्द्रं सोमस्य भृथे हिनोत ॥
2.014.05 अध्वर्यवो यः स्वश्नं जघान यः शुष्णमशुषं यो व्यंसम् ।
2.014.05 यः पिप्रुं नमुचिं यो रुधिक्रां तस्मा इन्द्रायान्धसो जुहोत ॥
2.014.06 अध्वर्यवो यः शतं शम्बरस्य पुरो बिभेदाश्मनेव पूर्वीः ।
2.014.06 यो वर्चिनः शतमिन्द्रः सहस्रमपावपद्भरता सोममस्मै ॥
2.014.07 अध्वर्यवो यः शतमा सहस्रं भूम्या उपस्थेऽवपज्जघन्वान् ।
2.014.07 कुत्सस्यायोरतिथिग्वस्य वीरान्न्यावृणग्भरता सोममस्मै ॥
2.014.08 अध्वर्यवो यन्नरः कामयाध्वे श्रुष्टी वहन्तो नशथा तदिन्द्रे ।
2.014.08 गभस्तिपूतं भरत श्रुतायेन्द्राय सोमं यज्यवो जुहोत ॥
2.014.09 अध्वर्यवः कर्तना श्रुष्टिमस्मै वने निपूतं वन उन्नयध्वम् ।
2.014.09 जुषाणो हस्त्यमभि वावशे व इन्द्राय सोमं मदिरं जुहोत ॥
2.014.10 अध्वर्यवः पयसोधर्यथा गोः सोमेभिरीं पृणता भोजमिन्द्रम् ।
2.014.10 वेदाहमस्य निभृतं म एतद्दित्सन्तं भूयो यजतश्चिकेत ॥
2.014.11 अध्वर्यवो यो दिव्यस्य वस्वो यः पार्थिवस्य क्षम्यस्य राजा ।
2.014.11 तमूर्दरं न पृणता यवेनेन्द्रं सोमेभिस्तदपो वो अस्तु ॥
2.014.12 अस्मभ्यं तद्वसो दानाय राधः समर्थयस्व बहु ते वसव्यम् ।
2.014.12 इन्द्र यच्चित्रं श्रवस्या अनु द्यून्बृहद्वदेम विदथे सुवीराः ॥

2.015.01 प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम् ।
2.015.01 त्रिकद्रुकेष्वपिबत्सुतस्यास्य मदे अहिमिन्द्रो जघान ॥
2.015.02 अवंशे द्यामस्तभायद्बृहन्तमा रोदसी अपृणदन्तरिक्षम् ।
2.015.02 स धारयत्पृथिवीं पप्रथच्च सोमस्य ता मद इन्द्रश्चकार ॥
2.015.03 सद्मेव प्राचो वि मिमाय मानैर्वज्रेण खान्यतृणन्नदीनाम् ।
2.015.03 वृथासृजत्पथिभिर्दीर्घयाथैः सोमस्य ता मद इन्द्रश्चकार ॥
2.015.04 स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ ।
2.015.04 सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार ॥
2.015.05 स ईं महीं धुनिमेतोररम्णात्सो अस्नातॄनपारयत्स्वस्ति ।
2.015.05 त उत्स्नाय रयिमभि प्र तस्थुः सोमस्य ता मद इन्द्रश्चकार ॥
2.015.06 सोदञ्चं सिन्धुमरिणान्महित्वा वज्रेणान उषसः सं पिपेष ।
2.015.06 अजवसो जविनीभिर्विवृश्चन्सोमस्य ता मद इन्द्रश्चकार ॥
2.015.07 स विद्वां अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक् ।
2.015.07 प्रति श्रोण स्थाद्व्यनगचष्ट सोमस्य ता मद इन्द्रश्चकार ॥
2.015.08 भिनद्वलमङ्गिरोभिर्गृणानो वि पर्वतस्य दृंहितान्यैरत् ।
2.015.08 रिणग्रोधांसि कृत्रिमाण्येषां सोमस्य ता मद इन्द्रश्चकार ॥
2.015.09 स्वप्नेनाभ्युप्या चुमुरिं धुनिं च जघन्थ दस्युं प्र दभीतिमावः ।
2.015.09 रम्भी चिदत्र विविदे हिरण्यं सोमस्य ता मद इन्द्रश्चकार ॥
2.015.10 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.015.10 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.016.01 प्र वः सतां ज्येष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे ।
2.016.01 इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद्युवानमवसे हवामहे ॥
2.016.02 यस्मादिन्द्राद्बृहतः किं चनेमृते विश्वान्यस्मिन्सम्भृताधि वीर्या ।
2.016.02 जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि क्रतुम् ॥
2.016.03 न क्षोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः ।
2.016.03 न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु ॥
2.016.04 विश्वे ह्यस्मै यजताय धृष्णवे क्रतुं भरन्ति वृषभाय सश्चते ।
2.016.04 वृषा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वृषभेण भानुना ॥
2.016.05 वृष्णः कोशः पवते मध्व ऊर्मिर्वृषभान्नाय वृषभाय पातवे ।
2.016.05 वृषणाध्वर्यू वृषभासो अद्रयो वृषणं सोमं वृषभाय सुष्वति ॥
2.016.06 वृषा ते वज्र उत ते वृषा रथो वृषणा हरी वृषभाण्यायुधा ।
2.016.06 वृष्णो मदस्य वृषभ त्वमीशिष इन्द्र सोमस्य वृषभस्य तृप्णुहि ॥
2.016.07 प्र ते नावं न समने वचस्युवं ब्रह्मणा यामि सवनेषु दाधृषिः ।
2.016.07 कुविन्नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे ॥
2.016.08 पुरा सम्बाधादभ्या ववृत्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी ।
2.016.08 सकृत्सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वृषणो नसीमहि ॥
2.016.09 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.016.09 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.017.01 तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते ।
2.017.01 विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत् ॥
2.017.02 स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत् ।
2.017.02 शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत ॥
2.017.03 अधाकृणोः प्रथमं वीर्यं महद्यदस्याग्रे ब्रह्मणा शुष्ममैरयः ।
2.017.03 रथेष्ठेन हर्यश्वेन विच्युताः प्र जीरयः सिस्रते सध्र्यक्पृथक् ॥
2.017.04 अधा यो विश्वा भुवनाभि मज्मनेशानकृत्प्रवया अभ्यवर्धत ।
2.017.04 आद्रोदसी ज्योतिषा वह्निरातनोत्सीव्यन्तमांसि दुधिता समव्ययत् ॥
2.017.05 स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः ।
2.017.05 अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः ॥
2.017.06 सास्मा अरं बाहुभ्यां यं पिताकृणोद्विश्वस्मादा जनुषो वेदसस्परि ।
2.017.06 येना पृथिव्यां नि क्रिविं शयध्यै वज्रेण हत्व्यवृणक्तुविष्वणिः ॥
2.017.07 अमाजूरिव पित्रोः सचा सती समानादा सदसस्त्वामिये भगम् ।
2.017.07 कृधि प्रकेतमुप मास्या भर दद्धि भागं तन्वो येन मामहः ॥
2.017.08 भोजं त्वामिन्द्र वयं हुवेम ददिष्ट्वमिन्द्रापांसि वाजान् ।
2.017.08 अविड्ढीन्द्र चित्रया न ऊती कृधि वृषन्निन्द्र वस्यसो नः ॥
2.017.09 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.017.09 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.018.01 प्राता रथो नवो योजि सस्निश्चतुर्युगस्त्रिकशः सप्तरश्मिः ।
2.018.01 दशारित्रो मनुष्यः स्वर्षाः स इष्टिभिर्मतिभी रंह्यो भूत् ॥
2.018.02 सास्मा अरं प्रथमं स द्वितीयमुतो तृतीयं मनुषः स होता ।
2.018.02 अन्यस्या गर्भमन्य ऊ जनन्त सो अन्येभिः सचते जेन्यो वृषा ॥
2.018.03 हरी नु कं रथ इन्द्रस्य योजमायै सूक्तेन वचसा नवेन ।
2.018.03 मो षु त्वामत्र बहवो हि विप्रा नि रीरमन्यजमानासो अन्ये ॥
2.018.04 आ द्वाभ्यां हरिभ्यामिन्द्र याह्या चतुर्भिरा षड्भिर्हूयमानः ।
2.018.04 आष्टाभिर्दशभिः सोमपेयमयं सुतः सुमख मा मृधस्कः ॥
2.018.05 आ विंशत्या त्रिंशता याह्यर्वाङा चत्वारिंशता हरिभिर्युजानः ।
2.018.05 आ पञ्चाशता सुरथेभिरिन्द्रा षष्ट्या सप्तत्या सोमपेयम् ॥
2.018.06 आशीत्या नवत्या याह्यर्वाङा शतेन हरिभिरुह्यमानः ।
2.018.06 अयं हि ते शुनहोत्रेषु सोम इन्द्र त्वाया परिषिक्तो मदाय ॥
2.018.07 मम ब्रह्मेन्द्र याह्यच्छा विश्वा हरी धुरि धिष्वा रथस्य ।
2.018.07 पुरुत्रा हि विहव्यो बभूथास्मिञ्छूर सवने मादयस्व ॥
2.018.08 न म इन्द्रेण सख्यं वि योषदस्मभ्यमस्य दक्षिणा दुहीत ।
2.018.08 उप ज्येष्ठे वरूथे गभस्तौ प्रायेप्राये जिगीवांसः स्याम ॥
2.018.09 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.018.09 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.019.01 अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य प्रयसः ।
2.019.01 यस्मिन्निन्द्रः प्रदिवि वावृधान ओको दधे ब्रह्मण्यन्तश्च नरः ॥
2.019.02 अस्य मन्दानो मध्वो वज्रहस्तोऽहिमिन्द्रो अर्णोवृतं वि वृश्चत् ।
2.019.02 प्र यद्वयो न स्वसराण्यच्छा प्रयांसि च नदीनां चक्रमन्त ॥
2.019.03 स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम् ।
2.019.03 अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत् ॥
2.019.04 सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद्दाशुषे हन्ति वृत्रम् ।
2.019.04 सद्यो यो नृभ्यो अतसाय्यो भूत्पस्पृधानेभ्यः सूर्यस्य सातौ ॥
2.019.05 स सुन्वत इन्द्रः सूर्यमा देवो रिणङ्मर्त्याय स्तवान् ।
2.019.05 आ यद्रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन् ॥
2.019.06 स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय ।
2.019.06 दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य ॥
2.019.07 एवा त इन्द्रोचथमहेम श्रवस्या न त्मना वाजयन्तः ।
2.019.07 अश्याम तत्साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः ॥
2.019.08 एवा ते गृत्समदाः शूर मन्मावस्यवो न वयुनानि तक्षुः ।
2.019.08 ब्रह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः ॥
2.019.09 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.019.09 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.020.01 वयं ते वय इन्द्र विद्धि षु णः प्र भरामहे वाजयुर्न रथम् ।
2.020.01 विपन्यवो दीध्यतो मनीषा सुम्नमियक्षन्तस्त्वावतो नॄन् ॥
2.020.02 त्वं न इन्द्र त्वाभिरूती त्वायतो अभिष्टिपासि जनान् ।
2.020.02 त्वमिनो दाशुषो वरूतेत्थाधीरभि यो नक्षति त्वा ॥
2.020.03 स नो युवेन्द्रो जोहूत्रः सखा शिवो नरामस्तु पाता ।
2.020.03 यः शंसन्तं यः शशमानमूती पचन्तं च स्तुवन्तं च प्रणेषत् ॥
2.020.04 तमु स्तुष इन्द्रं तं गृणीषे यस्मिन्पुरा वावृधुः शाशदुश्च ।
2.020.04 स वस्वः कामं पीपरदियानो ब्रह्मण्यतो नूतनस्यायोः ॥
2.020.05 सो अङ्गिरसामुचथा जुजुष्वान्ब्रह्मा तूतोदिन्द्रो गातुमिष्णन् ।
2.020.05 मुष्णन्नुषसः सूर्येण स्तवानश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
2.020.06 स ह श्रुत इन्द्रो नाम देव ऊर्ध्वो भुवन्मनुषे दस्मतमः ।
2.020.06 अव प्रियमर्शसानस्य साह्वाञ्छिरो भरद्दासस्य स्वधावान् ॥
2.020.07 स वृत्रहेन्द्रः कृष्णयोनीः पुरन्दरो दासीरैरयद्वि ।
2.020.07 अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत् ॥
2.020.08 तस्मै तवस्यमनु दायि सत्रेन्द्राय देवेभिरर्णसातौ ।
2.020.08 प्रति यदस्य वज्रं बाह्वोर्धुर्हत्वी दस्यून्पुर आयसीर्नि तारीत् ॥
2.020.09 नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी ।
2.020.09 शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥

2.021.01 विश्वजिते धनजिते स्वर्जिते सत्राजिते नृजित उर्वराजिते ।
2.021.01 अश्वजिते गोजिते अब्जिते भरेन्द्राय सोमं यजताय हर्यतम् ॥
2.021.02 अभिभुवेऽभिभङ्गाय वन्वतेऽषाळ्हाय सहमानाय वेधसे ।
2.021.02 तुविग्रये वह्नये दुष्टरीतवे सत्रासाहे नम इन्द्राय वोचत ॥
2.021.03 सत्रासाहो जनभक्षो जनंसहश्च्यवनो युध्मो अनु जोषमुक्षितः ।
2.021.03 वृतञ्चयः सहुरिर्विक्ष्वारित इन्द्रस्य वोचं प्र कृतानि वीर्या ॥
2.021.04 अनानुदो वृषभो दोधतो वधो गम्भीर ऋष्वो असमष्टकाव्यः ।
2.021.04 रध्रचोदः श्नथनो वीळितस्पृथुरिन्द्रः सुयज्ञ उषसः स्वर्जनत् ॥
2.021.05 यज्ञेन गातुमप्तुरो विविद्रिरे धियो हिन्वाना उशिजो मनीषिणः ।
2.021.05 अभिस्वरा निषदा गा अवस्यव इन्द्रे हिन्वाना द्रविणान्याशत ॥
2.021.06 इन्द्र श्रेष्ठानि द्रविणानि धेहि चित्तिं दक्षस्य सुभगत्वमस्मे ।
2.021.06 पोषं रयीणामरिष्टिं तनूनां स्वाद्मानं वाचः सुदिनत्वमह्नाम् ॥

2.022.01 त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत् ।
2.022.01 स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
2.022.02 अध त्विषीमां अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।
2.022.02 अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
2.022.03 साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।
2.022.03 दाता राध स्तुवते काम्यं वसु सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः ॥
2.022.04 तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतम् ।
2.022.04 यद्देवस्य शवसा प्रारिणा असुं रिणन्नपः ।
2.022.04 भुवद्विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम् ॥

2.023.01 गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् ।
2.023.01 ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥
2.023.02 देवाश्चित्ते असुर्य प्रचेतसो बृहस्पते यज्ञियं भागमानशुः ।
2.023.02 उस्रा इव सूर्यो ज्योतिषा महो विश्वेषामिज्जनिता ब्रह्मणामसि ॥
2.023.03 आ विबाध्या परिरापस्तमांसि च ज्योतिष्मन्तं रथमृतस्य तिष्ठसि ।
2.023.03 बृहस्पते भीमममित्रदम्भनं रक्षोहणं गोत्रभिदं स्वर्विदम् ॥
2.023.04 सुनीतिभिर्नयसि त्रायसे जनं यस्तुभ्यं दाशान्न तमंहो अश्नवत् ।
2.023.04 ब्रह्मद्विषस्तपनो मन्युमीरसि बृहस्पते महि तत्ते महित्वनम् ॥
2.023.05 न तमंहो न दुरितं कुतश्चन नारातयस्तितिरुर्न द्वयाविनः ।
2.023.05 विश्वा इदस्माद्ध्वरसो वि बाधसे यं सुगोपा रक्षसि ब्रह्मणस्पते ॥
2.023.06 त्वं नो गोपाः पथिकृद्विचक्षणस्तव व्रताय मतिभिर्जरामहे ।
2.023.06 बृहस्पते यो नो अभि ह्वरो दधे स्वा तं मर्मर्तु दुच्छुना हरस्वती ॥
2.023.07 उत वा यो नो मर्चयादनागसोऽरातीवा मर्तः सानुको वृकः ।
2.023.07 बृहस्पते अप तं वर्तया पथः सुगं नो अस्यै देववीतये कृधि ॥
2.023.08 त्रातारं त्वा तनूनां हवामहेऽवस्पर्तरधिवक्तारमस्मयुम् ।
2.023.08 बृहस्पते देवनिदो नि बर्हय मा दुरेवा उत्तरं सुम्नमुन्नशन् ॥
2.023.09 त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि ।
2.023.09 या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥
2.023.10 त्वया वयमुत्तमं धीमहे वयो बृहस्पते पप्रिणा सस्निना युजा ।
2.023.10 मा नो दुःशंसो अभिदिप्सुरीशत प्र सुशंसा मतिभिस्तारिषीमहि ॥
2.023.11 अनानुदो वृषभो जग्मिराहवं निष्टप्ता शत्रुं पृतनासु सासहिः ।
2.023.11 असि सत्य ऋणया ब्रह्मणस्पत उग्रस्य चिद्दमिता वीळुहर्षिणः ॥
2.023.12 अदेवेन मनसा यो रिषण्यति शासामुग्रो मन्यमानो जिघांसति ।
2.023.12 बृहस्पते मा प्रणक्तस्य नो वधो नि कर्म मन्युं दुरेवस्य शर्धतः ॥
2.023.13 भरेषु हव्यो नमसोपसद्यो गन्ता वाजेषु सनिता धनंधनम् ।
2.023.13 विश्वा इदर्यो अभिदिप्स्वो मृधो बृहस्पतिर्वि ववर्हा रथां इव ॥
2.023.14 तेजिष्ठया तपनी रक्षसस्तप ये त्वा निदे दधिरे दृष्टवीर्यम् ।
2.023.14 आविस्तत्कृष्व यदसत्त उक्थ्यं बृहस्पते वि परिरापो अर्दय ॥
2.023.15 बृहस्पते अति यदर्यो अर्हाद्द्युमद्विभाति क्रतुमज्जनेषु ।
2.023.15 यद्दीदयच्छवस ऋतप्रजात तदस्मासु द्रविणं धेहि चित्रम् ॥
2.023.16 मा न स्तेनेभ्यो ये अभि द्रुहस्पदे निरामिणो रिपवोऽन्नेषु जागृधुः ।
2.023.16 आ देवानामोहते वि व्रयो हृदि बृहस्पते न परः साम्नो विदुः ॥
2.023.17 विश्वेभ्यो हि त्वा भुवनेभ्यस्परि त्वष्टाजनत्साम्नःसाम्नः कविः ।
2.023.17 स ऋणचिदृणया ब्रह्मणस्पतिर्द्रुहो हन्ता मह ऋतस्य धर्तरि ॥
2.023.18 तव श्रिये व्यजिहीत पर्वतो गवां गोत्रमुदसृजो यदङ्गिरः ।
2.023.18 इन्द्रेण युजा तमसा परीवृतं बृहस्पते निरपामौब्जो अर्णवम् ॥
2.023.19 ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
2.023.19 विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

2.024.01 सेमामविड्ढि प्रभृतिं य ईशिषेऽया विधेम नवया महा गिरा ।
2.024.01 यथा नो मीढ्वान्स्तवते सखा तव बृहस्पते सीषधः सोत नो मतिम् ॥
2.024.02 यो नन्त्वान्यनमन्न्योजसोतादर्दर्मन्युना शम्बराणि वि ।
2.024.02 प्राच्यावयदच्युता ब्रह्मणस्पतिरा चाविशद्वसुमन्तं वि पर्वतम् ॥
2.024.03 तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता ।
2.024.03 उद्गा आजदभिनद्ब्रह्मणा वलमगूहत्तमो व्यचक्षयत्स्वः ॥
2.024.04 अश्मास्यमवतं ब्रह्मणस्पतिर्मधुधारमभि यमोजसातृणत् ।
2.024.04 तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥
2.024.05 सना ता का चिद्भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः ।
2.024.05 अयतन्ता चरतो अन्यदन्यदिद्या चकार वयुना ब्रह्मणस्पतिः ॥
2.024.06 अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमं गुहा हितम् ।
2.024.06 ते विद्वांसः प्रतिचक्ष्यानृता पुनर्यत उ आयन्तदुदीयुराविशम् ॥
2.024.07 ऋतावानः प्रतिचक्ष्यानृता पुनरात आ तस्थुः कवयो महस्पथः ।
2.024.07 ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम् ॥
2.024.08 ऋतज्येन क्षिप्रेण ब्रह्मणस्पतिर्यत्र वष्टि प्र तदश्नोति धन्वना ।
2.024.08 तस्य साध्वीरिषवो याभिरस्यति नृचक्षसो दृशये कर्णयोनयः ॥
2.024.09 स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः ।
2.024.09 चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा ॥
2.024.10 विभु प्रभु प्रथमं मेहनावतो बृहस्पतेः सुविदत्राणि राध्या ।
2.024.10 इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः ॥
2.024.11 योऽवरे वृजने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ ।
2.024.11 स देवो देवान्प्रति पप्रथे पृथु विश्वेदु ता परिभूर्ब्रह्मणस्पतिः ॥
2.024.12 विश्वं सत्यं मघवाना युवोरिदापश्चन प्र मिनन्ति व्रतं वाम् ।
2.024.12 अच्छेन्द्राब्रह्मणस्पती हविर्नोऽन्नं युजेव वाजिना जिगातम् ॥
2.024.13 उताशिष्ठा अनु शृण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना ।
2.024.13 वीळुद्वेषा अनु वश ऋणमाददिः स ह वाजी समिथे ब्रह्मणस्पतिः ॥
2.024.14 ब्रह्मणस्पतेरभवद्यथावशं सत्यो मन्युर्महि कर्मा करिष्यतः ।
2.024.14 यो गा उदाजत्स दिवे वि चाभजन्महीव रीतिः शवसासरत्पृथक् ॥
2.024.15 ब्रह्मणस्पते सुयमस्य विश्वहा रायः स्याम रथ्यो वयस्वतः ।
2.024.15 वीरेषु वीरां उप पृङ्धि नस्त्वं यदीशानो ब्रह्मणा वेषि मे हवम् ॥
2.024.16 ब्रह्मणस्पते त्वमस्य यन्ता सूक्तस्य बोधि तनयं च जिन्व ।
2.024.16 विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

2.025.01 इन्धानो अग्निं वनवद्वनुष्यतः कृतब्रह्मा शूशुवद्रातहव्य इत् ।
2.025.01 जातेन जातमति स प्र सर्सृते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
2.025.02 वीरेभिर्वीरान्वनवद्वनुष्यतो गोभी रयिं पप्रथद्बोधति त्मना ।
2.025.02 तोकं च तस्य तनयं च वर्धते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
2.025.03 सिन्धुर्न क्षोदः शिमीवां ऋघायतो वृषेव वध्रींरभि वष्ट्योजसा ।
2.025.03 अग्नेरिव प्रसितिर्नाह वर्तवे यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
2.025.04 तस्मा अर्षन्ति दिव्या असश्चतः स सत्वभिः प्रथमो गोषु गच्छति ।
2.025.04 अनिभृष्टतविषिर्हन्त्योजसा यंयं युजं कृणुते ब्रह्मणस्पतिः ॥
2.025.05 तस्मा इद्विश्वे धुनयन्त सिन्धवोऽच्छिद्रा शर्म दधिरे पुरूणि ।
2.025.05 देवानां सुम्ने सुभगः स एधते यंयं युजं कृणुते ब्रह्मणस्पतिः ॥

2.026.01 ऋजुरिच्छंसो वनवद्वनुष्यतो देवयन्निददेवयन्तमभ्यसत् ।
2.026.01 सुप्रावीरिद्वनवत्पृत्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम् ॥
2.026.02 यजस्व वीर प्र विहि मनायतो भद्रं मनः कृणुष्व वृत्रतूर्ये ।
2.026.02 हविष्कृणुष्व सुभगो यथाससि ब्रह्मणस्पतेरव आ वृणीमहे ॥
2.026.03 स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरते धना नृभिः ।
2.026.03 देवानां यः पितरमाविवासति श्रद्धामना हविषा ब्रह्मणस्पतिम् ॥
2.026.04 यो अस्मै हव्यैर्घृतवद्भिरविधत्प्र तं प्राचा नयति ब्रह्मणस्पतिः ।
2.026.04 उरुष्यतीमंहसो रक्षती रिषोऽंहोश्चिदस्मा उरुचक्रिरद्भुतः ॥

2.027.01 इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राजभ्यो जुह्वा जुहोमि ।
2.027.01 शृणोतु मित्रो अर्यमा भगो नस्तुविजातो वरुणो दक्षो अंशः ॥
2.027.02 इमं स्तोमं सक्रतवो मे अद्य मित्रो अर्यमा वरुणो जुषन्त ।
2.027.02 आदित्यासः शुचयो धारपूता अवृजिना अनवद्या अरिष्टाः ॥
2.027.03 त आदित्यास उरवो गभीरा अदब्धासो दिप्सन्तो भूर्यक्षाः ।
2.027.03 अन्तः पश्यन्ति वृजिनोत साधु सर्वं राजभ्यः परमा चिदन्ति ॥
2.027.04 धारयन्त आदित्यासो जगत्स्था देवा विश्वस्य भुवनस्य गोपाः ।
2.027.04 दीर्घाधियो रक्षमाणा असुर्यमृतावानश्चयमाना ऋणानि ॥
2.027.05 विद्यामादित्या अवसो वो अस्य यदर्यमन्भय आ चिन्मयोभु ।
2.027.05 युष्माकं मित्रावरुणा प्रणीतौ परि श्वभ्रेव दुरितानि वृज्याम् ॥
2.027.06 सुगो हि वो अर्यमन्मित्र पन्था अनृक्षरो वरुण साधुरस्ति ।
2.027.06 तेनादित्या अधि वोचता नो यच्छता नो दुष्परिहन्तु शर्म ॥
2.027.07 पिपर्तु नो अदिती राजपुत्राति द्वेषांस्यर्यमा सुगेभिः ।
2.027.07 बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
2.027.08 तिस्रो भूमीर्धारयन्त्रींरुत द्यून्त्रीणि व्रता विदथे अन्तरेषाम् ।
2.027.08 ऋतेनादित्या महि वो महित्वं तदर्यमन्वरुण मित्र चारु ॥
2.027.09 त्री रोचना दिव्या धारयन्त हिरण्ययाः शुचयो धारपूताः ।
2.027.09 अस्वप्नजो अनिमिषा अदब्धा उरुशंसा ऋजवे मर्त्याय ॥
2.027.10 त्वं विश्वेषां वरुणासि राजा ये च देवा असुर ये च मर्ताः ।
2.027.10 शतं नो रास्व शरदो विचक्षेऽश्यामायूंषि सुधितानि पूर्वा ॥
2.027.11 न दक्षिणा वि चिकिते न सव्या न प्राचीनमादित्या नोत पश्चा ।
2.027.11 पाक्या चिद्वसवो धीर्या चिद्युष्मानीतो अभयं ज्योतिरश्याम् ॥
2.027.12 यो राजभ्य ऋतनिभ्यो ददाश यं वर्धयन्ति पुष्टयश्च नित्याः ।
2.027.12 स रेवान्याति प्रथमो रथेन वसुदावा विदथेषु प्रशस्तः ॥
2.027.13 शुचिरपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः ।
2.027.13 नकिष्टं घ्नन्त्यन्तितो न दूराद्य आदित्यानां भवति प्रणीतौ ॥
2.027.14 अदिते मित्र वरुणोत मृळ यद्वो वयं चकृमा कच्चिदागः ।
2.027.14 उर्वश्यामभयं ज्योतिरिन्द्र मा नो दीर्घा अभि नशन्तमिस्राः ॥
2.027.15 उभे अस्मै पीपयतः समीची दिवो वृष्टिं सुभगो नाम पुष्यन् ।
2.027.15 उभा क्षयावाजयन्याति पृत्सूभावर्धौ भवतः साधू अस्मै ॥
2.027.16 या वो माया अभिद्रुहे यजत्राः पाशा आदित्या रिपवे विचृत्ताः ।
2.027.16 अश्वीव तां अति येषं रथेनारिष्टा उरावा शर्मन्स्याम ॥
2.027.17 माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
2.027.17 मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

2.028.01 इदं कवेरादित्यस्य स्वराजो विश्वानि सान्त्यभ्यस्तु मह्ना ।
2.028.01 अति यो मन्द्रो यजथाय देवः सुकीर्तिं भिक्षे वरुणस्य भूरेः ॥
2.028.02 तव व्रते सुभगासः स्याम स्वाध्यो वरुण तुष्टुवांसः ।
2.028.02 उपायन उषसां गोमतीनामग्नयो न जरमाणा अनु द्यून् ॥
2.028.03 तव स्याम पुरुवीरस्य शर्मन्नुरुशंसस्य वरुण प्रणेतः ।
2.028.03 यूयं नः पुत्रा अदितेरदब्धा अभि क्षमध्वं युज्याय देवाः ॥
2.028.04 प्र सीमादित्यो असृजद्विधर्तां ऋतं सिन्धवो वरुणस्य यन्ति ।
2.028.04 न श्राम्यन्ति न वि मुचन्त्येते वयो न पप्तू रघुया परिज्मन् ॥
2.028.05 वि मच्छ्रथाय रशनामिवाग ऋध्याम ते वरुण खामृतस्य ।
2.028.05 मा तन्तुश्छेदि वयतो धियं मे मा मात्रा शार्यपसः पुर ऋतोः ॥
2.028.06 अपो सु म्यक्ष वरुण भियसं मत्सम्राळ् ऋतावोऽनु मा गृभाय ।
2.028.06 दामेव वत्साद्वि मुमुग्ध्यंहो नहि त्वदारे निमिषश्चनेशे ॥
2.028.07 मा नो वधैर्वरुण ये त इष्टावेनः कृण्वन्तमसुर भ्रीणन्ति ।
2.028.07 मा ज्योतिषः प्रवसथानि गन्म वि षू मृधः शिश्रथो जीवसे नः ॥
2.028.08 नमः पुरा ते वरुणोत नूनमुतापरं तुविजात ब्रवाम ।
2.028.08 त्वे हि कं पर्वते न श्रितान्यप्रच्युतानि दूळभ व्रतानि ॥
2.028.09 पर ऋणा सावीरध मत्कृतानि माहं राजन्नन्यकृतेन भोजम् ।
2.028.09 अव्युष्टा इन्नु भूयसीरुषास आ नो जीवान्वरुण तासु शाधि ॥
2.028.10 यो मे राजन्युज्यो वा सखा वा स्वप्ने भयं भीरवे मह्यमाह ।
2.028.10 स्तेनो वा यो दिप्सति नो वृको वा त्वं तस्माद्वरुण पाह्यस्मान् ॥
2.028.11 माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
2.028.11 मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

2.029.01 धृतव्रता आदित्या इषिरा आरे मत्कर्त रहसूरिवागः ।
2.029.01 शृण्वतो वो वरुण मित्र देवा भद्रस्य विद्वां अवसे हुवे वः ॥
2.029.02 यूयं देवाः प्रमतिर्यूयमोजो यूयं द्वेषांसि सनुतर्युयोत ।
2.029.02 अभिक्षत्तारो अभि च क्षमध्वमद्या च नो मृळयतापरं च ॥
2.029.03 किमू नु वः कृणवामापरेण किं सनेन वसव आप्येन ।
2.029.03 यूयं नो मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात ॥
2.029.04 हये देवा यूयमिदापय स्थ ते मृळत नाधमानाय मह्यम् ।
2.029.04 मा वो रथो मध्यमवाळ् ऋते भून्मा युष्मावत्स्वापिषु श्रमिष्म ॥
2.029.05 प्र व एको मिमय भूर्यागो यन्मा पितेव कितवं शशास ।
2.029.05 आरे पाशा आरे अघानि देवा मा माधि पुत्रे विमिव ग्रभीष्ट ॥
2.029.06 अर्वाञ्चो अद्या भवता यजत्रा आ वो हार्दि भयमानो व्ययेयम् ।
2.029.06 त्राध्वं नो देवा निजुरो वृकस्य त्राध्वं कर्तादवपदो यजत्राः ॥
2.029.07 माहं मघोनो वरुण प्रियस्य भूरिदाव्न आ विदं शूनमापेः ।
2.029.07 मा रायो राजन्सुयमादव स्थां बृहद्वदेम विदथे सुवीराः ॥

2.030.01 ऋतं देवाय कृण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः ।
2.030.01 अहरहर्यात्यक्तुरपां कियात्या प्रथमः सर्ग आसाम् ॥
2.030.02 यो वृत्राय सिनमत्राभरिष्यत्प्र तं जनित्री विदुष उवाच ।
2.030.02 पथो रदन्तीरनु जोषमस्मै दिवेदिवे धुनयो यन्त्यर्थम् ॥
2.030.03 ऊर्ध्वो ह्यस्थादध्यन्तरिक्षेऽधा वृत्राय प्र वधं जभार ।
2.030.03 मिहं वसान उप हीमदुद्रोत्तिग्मायुधो अजयच्छत्रुमिन्द्रः ॥
2.030.04 बृहस्पते तपुषाश्नेव विध्य वृकद्वरसो असुरस्य वीरान् ।
2.030.04 यथा जघन्थ धृषता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र ॥
2.030.05 अव क्षिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः ।
2.030.05 तोकस्य सातौ तनयस्य भूरेरस्मां अर्धं कृणुतादिन्द्र गोनाम् ॥
2.030.06 प्र हि क्रतुं वृहथो यं वनुथो रध्रस्य स्थो यजमानस्य चोदौ ।
2.030.06 इन्द्रासोमा युवमस्मां अविष्टमस्मिन्भयस्थे कृणुतमु लोकम् ॥
2.030.07 न मा तमन्न श्रमन्नोत तन्द्रन्न वोचाम मा सुनोतेति सोमम् ।
2.030.07 यो मे पृणाद्यो ददद्यो निबोधाद्यो मा सुन्वन्तमुप गोभिरायत् ॥
2.030.08 सरस्वति त्वमस्मां अविड्ढि मरुत्वती धृषती जेषि शत्रून् ।
2.030.08 त्यं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वृषभं शण्डिकानाम् ॥
2.030.09 यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य ।
2.030.09 बृहस्पत आयुधैर्जेषि शत्रून्द्रुहे रीषन्तं परि धेहि राजन् ॥
2.030.10 अस्माकेभिः सत्वभिः शूर शूरैर्वीर्या कृधि यानि ते कर्त्वानि ।
2.030.10 ज्योगभूवन्ननुधूपितासो हत्वी तेषामा भरा नो वसूनि ॥
2.030.11 तं वः शर्धं मारुतं सुम्नयुर्गिरोप ब्रुवे नमसा दैव्यं जनम् ।
2.030.11 यथा रयिं सर्ववीरं नशामहा अपत्यसाचं श्रुत्यं दिवेदिवे ॥

2.031.01 अस्माकं मित्रावरुणावतं रथमादित्यै रुद्रैर्वसुभिः सचाभुवा ।
2.031.01 प्र यद्वयो न पप्तन्वस्मनस्परि श्रवस्यवो हृषीवन्तो वनर्षदः ॥
2.031.02 अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम् ।
2.031.02 यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः ॥
2.031.03 उत स्य न इन्द्रो विश्वचर्षणिर्दिवः शर्धेन मारुतेन सुक्रतुः ।
2.031.03 अनु नु स्थात्यवृकाभिरूतिभी रथं महे सनये वाजसातये ॥
2.031.04 उत स्य देवो भुवनस्य सक्षणिस्त्वष्टा ग्नाभिः सजोषा जूजुवद्रथम् ।
2.031.04 इळा भगो बृहद्दिवोत रोदसी पूषा पुरन्धिरश्विनावधा पती ॥
2.031.05 उत त्ये देवी सुभगे मिथूदृशोषासानक्ता जगतामपीजुवा ।
2.031.05 स्तुषे यद्वां पृथिवि नव्यसा वच स्थातुश्च वयस्त्रिवया उपस्तिरे ॥
2.031.06 उत वः शंसमुशिजामिव श्मस्यहिर्बुध्न्योऽज एकपादुत ।
2.031.06 त्रित ऋभुक्षाः सविता चनो दधेऽपां नपादाशुहेमा धिया शमि ॥
2.031.07 एता वो वश्म्युद्यता यजत्रा अतक्षन्नायवो नव्यसे सम् ।
2.031.07 श्रवस्यवो वाजं चकानाः सप्तिर्न रथ्यो अह धीतिमश्याः ॥

2.032.01 अस्य मे द्यावापृथिवी ऋतायतो भूतमवित्री वचसः सिषासतः ।
2.032.01 ययोरायुः प्रतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे ॥
2.032.02 मा नो गुह्या रिप आयोरहन्दभन्मा न आभ्यो रीरधो दुच्छुनाभ्यः ।
2.032.02 मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत्त्वेमहे ॥
2.032.03 अहेळता मनसा श्रुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम् ।
2.032.03 पद्याभिराशुं वचसा च वाजिनं त्वां हिनोमि पुरुहूत विश्वहा ॥
2.032.04 राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना ।
2.032.04 सीव्यत्वपः सूच्याच्छिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥
2.032.05 यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि ।
2.032.05 ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा ॥
2.032.06 सिनीवालि पृथुष्टुके या देवानामसि स्वसा ।
2.032.06 जुषस्व हव्यमाहुतं प्रजां देवि दिदिड्ढि नः ॥
2.032.07 या सुबाहुः स्वङ्गुरिः सुषूमा बहुसूवरी ।
2.032.07 तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन ॥
2.032.08 या गुङ्गूर्या सिनीवाली या राका या सरस्वती ।
2.032.08 इन्द्राणीमह्व ऊतये वरुणानीं स्वस्तये ॥

2.033.01 आ ते पितर्मरुतां सुम्नमेतु मा नः सूर्यस्य संदृशो युयोथाः ।
2.033.01 अभि नो वीरो अर्वति क्षमेत प्र जायेमहि रुद्र प्रजाभिः ॥
2.033.02 त्वादत्तेभी रुद्र शन्तमेभिः शतं हिमा अशीय भेषजेभिः ।
2.033.02 व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
2.033.03 श्रेष्ठो जातस्य रुद्र श्रियासि तवस्तमस्तवसां वज्रबाहो ।
2.033.03 पर्षि णः पारमंहसः स्वस्ति विश्वा अभीती रपसो युयोधि ॥
2.033.04 मा त्वा रुद्र चुक्रुधामा नमोभिर्मा दुष्टुती वृषभ मा सहूती ।
2.033.04 उन्नो वीरां अर्पय भेषजेभिर्भिषक्तमं त्वा भिषजां शृणोमि ॥
2.033.05 हवीमभिर्हवते यो हविर्भिरव स्तोमेभी रुद्रं दिषीय ।
2.033.05 ऋदूदरः सुहवो मा नो अस्यै बभ्रुः सुशिप्रो रीरधन्मनायै ॥
2.033.06 उन्मा ममन्द वृषभो मरुत्वान्त्वक्षीयसा वयसा नाधमानम् ।
2.033.06 घृणीव च्छायामरपा अशीया विवासेयं रुद्रस्य सुम्नम् ॥
2.033.07 क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
2.033.07 अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥
2.033.08 प्र बभ्रवे वृषभाय श्वितीचे महो महीं सुष्टुतिमीरयामि ।
2.033.08 नमस्या कल्मलीकिनं नमोभिर्गृणीमसि त्वेषं रुद्रस्य नाम ॥
2.033.09 स्थिरेभिरङ्गैः पुरुरूप उग्रो बभ्रुः शुक्रेभिः पिपिशे हिरण्यैः ।
2.033.09 ईशानादस्य भुवनस्य भूरेर्न वा उ योषद्रुद्रादसुर्यम् ॥
2.033.10 अर्हन्बिभर्षि सायकानि धन्वार्हन्निष्कं यजतं विश्वरूपम् ।
2.033.10 अर्हन्निदं दयसे विश्वमभ्वं न वा ओजीयो रुद्र त्वदस्ति ॥
2.033.11 स्तुहि श्रुतं गर्तसदं युवानं मृगं न भीममुपहत्नुमुग्रम् ।
2.033.11 मृळा जरित्रे रुद्र स्तवानोऽन्यं ते अस्मन्नि वपन्तु सेनाः ॥
2.033.12 कुमारश्चित्पितरं वन्दमानं प्रति नानाम रुद्रोपयन्तम् ।
2.033.12 भूरेर्दातारं सत्पतिं गृणीषे स्तुतस्त्वं भेषजा रास्यस्मे ॥
2.033.13 या वो भेषजा मरुतः शुचीनि या शन्तमा वृषणो या मयोभु ।
2.033.13 यानि मनुरवृणीता पिता नस्ता शं च योश्च रुद्रस्य वश्मि ॥
2.033.14 परि णो हेती रुद्रस्य वृज्याः परि त्वेषस्य दुर्मतिर्मही गात् ।
2.033.14 अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय मृळ ॥
2.033.15 एवा बभ्रो वृषभ चेकितान यथा देव न हृणीषे न हंसि ।
2.033.15 हवनश्रुन्नो रुद्रेह बोधि बृहद्वदेम विदथे सुवीराः ॥

2.034.01 धारावरा मरुतो धृष्ण्वोजसो मृगा न भीमास्तविषीभिरर्चिनः ।
2.034.01 अग्नयो न शुशुचाना ऋजीषिणो भृमिं धमन्तो अप गा अवृण्वत ॥
2.034.02 द्यावो न स्तृभिश्चितयन्त खादिनो व्यभ्रिया न द्युतयन्त वृष्टयः ।
2.034.02 रुद्रो यद्वो मरुतो रुक्मवक्षसो वृषाजनि पृश्न्याः शुक्र ऊधनि ॥
2.034.03 उक्षन्ते अश्वां अत्यां इवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः ।
2.034.03 हिरण्यशिप्रा मरुतो दविध्वतः पृक्षं याथ पृषतीभिः समन्यवः ॥
2.034.04 पृक्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः ।
2.034.04 पृषदश्वासो अनवभ्रराधस ऋजिप्यासो न वयुनेषु धूर्षदः ॥
2.034.05 इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजदृष्टयः ।
2.034.05 आ हंसासो न स्वसराणि गन्तन मधोर्मदाय मरुतः समन्यवः ॥
2.034.06 आ नो ब्रह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन ।
2.034.06 अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम् ॥
2.034.07 तं नो दात मरुतो वाजिनं रथ आपानं ब्रह्म चितयद्दिवेदिवे ।
2.034.07 इषं स्तोतृभ्यो वृजनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः ॥
2.034.08 यद्युञ्जते मरुतो रुक्मवक्षसोऽश्वान्रथेषु भग आ सुदानवः ।
2.034.08 धेनुर्न शिश्वे स्वसरेषु पिन्वते जनाय रातहविषे महीमिषम् ॥
2.034.09 यो नो मरुतो वृकताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः ।
2.034.09 वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः ॥
2.034.10 चित्रं तद्वो मरुतो याम चेकिते पृश्न्या यदूधरप्यापयो दुहुः ।
2.034.10 यद्वा निदे नवमानस्य रुद्रियास्त्रितं जराय जुरतामदाभ्याः ॥
2.034.11 तान्वो महो मरुत एवयाव्नो विष्णोरेषस्य प्रभृथे हवामहे ।
2.034.11 हिरण्यवर्णान्ककुहान्यतस्रुचो ब्रह्मण्यन्तः शंस्यं राध ईमहे ॥
2.034.12 ते दशग्वाः प्रथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो व्युष्टिषु ।
2.034.12 उषा न रामीररुणैरपोर्णुते महो ज्योतिषा शुचता गोअर्णसा ॥
2.034.13 ते क्षोणीभिररुणेभिर्नाञ्जिभी रुद्रा ऋतस्य सदनेषु वावृधुः ।
2.034.13 निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णं दधिरे सुपेशसम् ॥
2.034.14 तां इयानो महि वरूथमूतय उप घेदेना नमसा गृणीमसि ।
2.034.14 त्रितो न यान्पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे ॥
2.034.15 यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम् ।
2.034.15 अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु ॥

2.035.01 उपेमसृक्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे ।
2.035.01 अपां नपादाशुहेमा कुवित्स सुपेशसस्करति जोषिषद्धि ॥
2.035.02 इमं स्वस्मै हृद आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत् ।
2.035.02 अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान ॥
2.035.03 समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पृणन्ति ।
2.035.03 तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः ॥
2.035.04 तमस्मेरा युवतयो युवानं मर्मृज्यमानाः परि यन्त्यापः ।
2.035.04 स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घृतनिर्णिगप्सु ॥
2.035.05 अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम् ।
2.035.05 कृता इवोप हि प्रसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम् ॥
2.035.06 अश्वस्यात्र जनिमास्य च स्वर्द्रुहो रिषः सम्पृचः पाहि सूरीन् ।
2.035.06 आमासु पूर्षु परो अप्रमृष्यं नारातयो वि नशन्नानृतानि ॥
2.035.07 स्व आ दमे सुदुघा यस्य धेनुः स्वधां पीपाय सुभ्वन्नमत्ति ।
2.035.07 सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति ॥
2.035.08 यो अप्स्वा शुचिना दैव्येन ऋतावाजस्र उर्विया विभाति ।
2.035.08 वया इदन्या भुवनान्यस्य प्र जायन्ते वीरुधश्च प्रजाभिः ॥
2.035.09 अपां नपादा ह्यस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः ।
2.035.09 तस्य ज्येष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः ॥
2.035.10 हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः ।
2.035.10 हिरण्ययात्परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै ॥
2.035.11 तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम् ।
2.035.11 यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य ॥
2.035.12 अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः ।
2.035.12 सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैः परि वन्द ऋग्भिः ॥
2.035.13 स ईं वृषाजनयत्तासु गर्भं स ईं शिशुर्धयति तं रिहन्ति ।
2.035.13 सो अपां नपादनभिम्लातवर्णोऽन्यस्येवेह तन्वा विवेष ॥
2.035.14 अस्मिन्पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसम् ।
2.035.14 आपो नप्त्रे घृतमन्नं वहन्तीः स्वयमत्कैः परि दीयन्ति यह्वीः ॥
2.035.15 अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुवृक्तिम् ।
2.035.15 विश्वं तद्भद्रं यदवन्ति देवा बृहद्वदेम विदथे सुवीराः ॥

2.036.01 तुभ्यं हिन्वानो वसिष्ट गा अपोऽधुक्षन्सीमविभिरद्रिभिर्नरः ।
2.036.01 पिबेन्द्र स्वाहा प्रहुतं वषट्कृतं होत्रादा सोमं प्रथमो य ईशिषे ॥
2.036.02 यज्ञैः सम्मिश्लाः पृषतीभिरृष्टिभिर्यामञ्छुभ्रासो अञ्जिषु प्रिया उत ।
2.036.02 आसद्या बर्हिर्भरतस्य सूनवः पोत्रादा सोमं पिबता दिवो नरः ॥
2.036.03 अमेव नः सुहवा आ हि गन्तन नि बर्हिषि सदतना रणिष्टन ।
2.036.03 अथा मन्दस्व जुजुषाणो अन्धसस्त्वष्टर्देवेभिर्जनिभिः सुमद्गणः ॥
2.036.04 आ वक्षि देवां इह विप्र यक्षि चोशन्होतर्नि षदा योनिषु त्रिषु ।
2.036.04 प्रति वीहि प्रस्थितं सोम्यं मधु पिबाग्नीध्रात्तव भागस्य तृप्णुहि ॥
2.036.05 एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः ।
2.036.05 तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥
2.036.06 जुषेथां यज्ञं बोधतं हवस्य मे सत्तो होता निविदः पूर्व्या अनु ।
2.036.06 अच्छा राजाना नम एत्यावृतं प्रशास्त्रादा पिबतं सोम्यं मधु ॥

2.037.01 मन्दस्व होत्रादनु जोषमन्धसोऽध्वर्यवः स पूर्णां वष्ट्यासिचम् ।
2.037.01 तस्मा एतं भरत तद्वशो ददिर्होत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
2.037.02 यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते ।
2.037.02 अध्वर्युभिः प्रस्थितं सोम्यं मधु पोत्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
2.037.03 मेद्यन्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते ।
2.037.03 आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥
2.037.04 अपाद्धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत प्रयो हितम् ।
2.037.04 तुरीयं पात्रममृक्तममर्त्यं द्रविणोदाः पिबतु द्राविणोदसः ॥
2.037.05 अर्वाञ्चमद्य यय्यं नृवाहणं रथं युञ्जाथामिह वां विमोचनम् ।
2.037.05 पृङ्क्तं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू ॥
2.037.06 जोष्यग्ने समिधं जोष्याहुतिं जोषि ब्रह्म जन्यं जोषि सुष्टुतिम् ।
2.037.06 विश्वेभिर्विश्वां ऋतुना वसो मह उशन्देवां उशतः पायया हविः ॥

2.038.01 उदु ष्य देवः सविता सवाय शश्वत्तमं तदपा वह्निरस्थात् ।
2.038.01 नूनं देवेभ्यो वि हि धाति रत्नमथाभजद्वीतिहोत्रं स्वस्तौ ॥
2.038.02 विश्वस्य हि श्रुष्टये देव ऊर्ध्वः प्र बाहवा पृथुपाणिः सिसर्ति ।
2.038.02 आपश्चिदस्य व्रत आ निमृग्रा अयं चिद्वातो रमते परिज्मन् ॥
2.038.03 आशुभिश्चिद्यान्वि मुचाति नूनमरीरमदतमानं चिदेतोः ।
2.038.03 अह्यर्षूणां चिन्न्ययां अविष्यामनु व्रतं सवितुर्मोक्यागात् ॥
2.038.04 पुनः समव्यद्विततं वयन्ती मध्या कर्तोर्न्यधाच्छक्म धीरः ।
2.038.04 उत्संहायास्थाद्व्यृतूंरदर्धररमतिः सविता देव आगात् ॥
2.038.05 नानौकांसि दुर्यो विश्वमायुर्वि तिष्ठते प्रभवः शोको अग्नेः ।
2.038.05 ज्येष्ठं माता सूनवे भागमाधादन्वस्य केतमिषितं सवित्रा ॥
2.038.06 समाववर्ति विष्ठितो जिगीषुर्विश्वेषां कामश्चरताममाभूत् ।
2.038.06 शश्वां अपो विकृतं हित्व्यागादनु व्रतं सवितुर्दैव्यस्य ॥
2.038.07 त्वया हितमप्यमप्सु भागं धन्वान्वा मृगयसो वि तस्थुः ।
2.038.07 वनानि विभ्यो नकिरस्य तानि व्रता देवस्य सवितुर्मिनन्ति ॥
2.038.08 याद्राध्यं वरुणो योनिमप्यमनिशितं निमिषि जर्भुराणः ।
2.038.08 विश्वो मार्ताण्डो व्रजमा पशुर्गात्स्थशो जन्मानि सविता व्याकः ॥
2.038.09 न यस्येन्द्रो वरुणो न मित्रो व्रतमर्यमा न मिनन्ति रुद्रः ।
2.038.09 नारातयस्तमिदं स्वस्ति हुवे देवं सवितारं नमोभिः ॥
2.038.10 भगं धियं वाजयन्तः पुरन्धिं नराशंसो ग्नास्पतिर्नो अव्याः ।
2.038.10 आये वामस्य संगथे रयीणां प्रिया देवस्य सवितुः स्याम ॥
2.038.11 अस्मभ्यं तद्दिवो अद्भ्यः पृथिव्यास्त्वया दत्तं काम्यं राध आ गात् ।
2.038.11 शं यत्स्तोतृभ्य आपये भवात्युरुशंसाय सवितर्जरित्रे ॥

2.039.01 ग्रावाणेव तदिदर्थं जरेथे गृध्रेव वृक्षं निधिमन्तमच्छ ।
2.039.01 ब्रह्माणेव विदथ उक्थशासा दूतेव हव्या जन्या पुरुत्रा ॥
2.039.02 प्रातर्यावाणा रथ्येव वीराजेव यमा वरमा सचेथे ।
2.039.02 मेने इव तन्वा शुम्भमाने दम्पतीव क्रतुविदा जनेषु ॥
2.039.03 शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः ।
2.039.03 चक्रवाकेव प्रति वस्तोरुस्रार्वाञ्चा यातं रथ्येव शक्रा ॥
2.039.04 नावेव नः पारयतं युगेव नभ्येव न उपधीव प्रधीव ।
2.039.04 श्वानेव नो अरिषण्या तनूनां खृगलेव विस्रसः पातमस्मान् ॥
2.039.05 वातेवाजुर्या नद्येव रीतिरक्षी इव चक्षुषा यातमर्वाक् ।
2.039.05 हस्ताविव तन्वे शम्भविष्ठा पादेव नो नयतं वस्यो अच्छ ॥
2.039.06 ओष्ठाविव मध्वास्ने वदन्ता स्तनाविव पिप्यतं जीवसे नः ।
2.039.06 नासेव नस्तन्वो रक्षितारा कर्णाविव सुश्रुता भूतमस्मे ॥
2.039.07 हस्तेव शक्तिमभि संददी नः क्षामेव नः समजतं रजांसि ।
2.039.07 इमा गिरो अश्विना युष्मयन्तीः क्ष्णोत्रेणेव स्वधितिं सं शिशीतम् ॥
2.039.08 एतानि वामश्विना वर्धनानि ब्रह्म स्तोमं गृत्समदासो अक्रन् ।
2.039.08 तानि नरा जुजुषाणोप यातं बृहद्वदेम विदथे सुवीराः ॥

2.040.01 सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः ।
2.040.01 जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्नमृतस्य नाभिम् ॥
2.040.02 इमौ देवौ जायमानौ जुषन्तेमौ तमांसि गूहतामजुष्टा ।
2.040.02 आभ्यामिन्द्रः पक्वमामास्वन्तः सोमापूषभ्यां जनदुस्रियासु ॥
2.040.03 सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ।
2.040.03 विषूवृतं मनसा युज्यमानं तं जिन्वथो वृषणा पञ्चरश्मिम् ॥
2.040.04 दिव्यन्यः सदनं चक्र उच्चा पृथिव्यामन्यो अध्यन्तरिक्षे ।
2.040.04 तावस्मभ्यं पुरुवारं पुरुक्षुं रायस्पोषं वि ष्यतां नाभिमस्मे ॥
2.040.05 विश्वान्यन्यो भुवना जजान विश्वमन्यो अभिचक्षाण एति ।
2.040.05 सोमापूषणाववतं धियं मे युवाभ्यां विश्वाः पृतना जयेम ॥
2.040.06 धियं पूषा जिन्वतु विश्वमिन्वो रयिं सोमो रयिपतिर्दधातु ।
2.040.06 अवतु देव्यदितिरनर्वा बृहद्वदेम विदथे सुवीराः ॥

2.041.01 वायो ये ते सहस्रिणो रथासस्तेभिरा गहि ।
2.041.01 नियुत्वान्सोमपीतये ॥
2.041.02 नियुत्वान्वायवा गह्ययं शुक्रो अयामि ते ।
2.041.02 गन्तासि सुन्वतो गृहम् ॥
2.041.03 शुक्रस्याद्य गवाशिर इन्द्रवायू नियुत्वतः ।
2.041.03 आ यातं पिबतं नरा ॥
2.041.04 अयं वां मित्रावरुणा सुतः सोम ऋतावृधा ।
2.041.04 ममेदिह श्रुतं हवम् ॥
2.041.05 राजानावनभिद्रुहा ध्रुवे सदस्युत्तमे ।
2.041.05 सहस्रस्थूण आसाते ॥
2.041.06 ता सम्राजा घृतासुती आदित्या दानुनस्पती ।
2.041.06 सचेते अनवह्वरम् ॥
2.041.07 गोमदू षु नासत्याश्वावद्यातमश्विना ।
2.041.07 वर्ती रुद्रा नृपाय्यम् ॥
2.041.08 न यत्परो नान्तर आदधर्षद्वृषण्वसू ।
2.041.08 दुःशंसो मर्त्यो रिपुः ॥
2.041.09 ता न आ वोळ्हमश्विना रयिं पिशङ्गसंदृशम् ।
2.041.09 धिष्ण्या वरिवोविदम् ॥
2.041.10 इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
2.041.10 स हि स्थिरो विचर्षणिः ॥
2.041.11 इन्द्रश्च मृळयाति नो न नः पश्चादघं नशत् ।
2.041.11 भद्रं भवाति नः पुरः ॥
2.041.12 इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत् ।
2.041.12 जेता शत्रून्विचर्षणिः ॥
2.041.13 विश्वे देवास आ गत शृणुता म इमं हवम् ।
2.041.13 एदं बर्हिर्नि षीदत ॥
2.041.14 तीव्रो वो मधुमां अयं शुनहोत्रेषु मत्सरः ।
2.041.14 एतं पिबत काम्यम् ॥
2.041.15 इन्द्रज्येष्ठा मरुद्गणा देवासः पूषरातयः ।
2.041.15 विश्वे मम श्रुता हवम् ॥
2.041.16 अम्बितमे नदीतमे देवितमे सरस्वति ।
2.041.16 अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि ॥
2.041.17 त्वे विश्वा सरस्वति श्रितायूंषि देव्याम् ।
2.041.17 शुनहोत्रेषु मत्स्व प्रजां देवि दिदिड्ढि नः ॥
2.041.18 इमा ब्रह्म सरस्वति जुषस्व वाजिनीवति ।
2.041.18 या ते मन्म गृत्समदा ऋतावरि प्रिया देवेषु जुह्वति ॥
2.041.19 प्रेतां यज्ञस्य शम्भुवा युवामिदा वृणीमहे ।
2.041.19 अग्निं च हव्यवाहनम् ॥
2.041.20 द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् ।
2.041.20 यज्ञं देवेषु यच्छताम् ॥
2.041.21 आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः ।
2.041.21 इहाद्य सोमपीतये ॥

2.042.01 कनिक्रदज्जनुषं प्रब्रुवाण इयर्ति वाचमरितेव नावम् ।
2.042.01 सुमङ्गलश्च शकुने भवासि मा त्वा का चिदभिभा विश्व्या विदत् ॥
2.042.02 मा त्वा श्येन उद्वधीन्मा सुपर्णो मा त्वा विददिषुमान्वीरो अस्ता ।
2.042.02 पित्र्यामनु प्रदिशं कनिक्रदत्सुमङ्गलो भद्रवादी वदेह ॥
2.042.03 अव क्रन्द दक्षिणतो गृहाणां सुमङ्गलो भद्रवादी शकुन्ते ।
2.042.03 मा न स्तेन ईशत माघशंसो बृहद्वदेम विदथे सुवीराः ॥

2.043.01 प्रदक्षिणिदभि गृणन्ति कारवो वयो वदन्त ऋतुथा शकुन्तयः ।
2.043.01 उभे वाचौ वदति सामगा इव गायत्रं च त्रैष्टुभं चानु राजति ॥
2.043.02 उद्गातेव शकुने साम गायसि ब्रह्मपुत्र इव सवनेषु शंससि ।
2.043.02 वृषेव वाजी शिशुमतीरपीत्या सर्वतो नः शकुने भद्रमा वद विश्वतो नः शकुने पुण्यमा वद ॥
2.043.03 आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः ।
2.043.03 यदुत्पतन्वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥