Rig Veda

Rig Veda Sixth Mandala [ऋग्वेद]

6.001.01 त्वं ह्यग्ने प्रथमो मनोतास्या धियो अभवो दस्म होता ।
6.001.01 त्वं सीं वृषन्नकृणोर्दुष्टरीतु सहो विश्वस्मै सहसे सहध्यै ॥
6.001.02 अधा होता न्यसीदो यजीयानिळस्पद इषयन्नीड्यः सन् ।
6.001.02 तं त्वा नरः प्रथमं देवयन्तो महो राये चितयन्तो अनु ग्मन् ॥
6.001.03 वृतेव यन्तं बहुभिर्वसव्यैस्त्वे रयिं जागृवांसो अनु ग्मन् ।
6.001.03 रुशन्तमग्निं दर्शतं बृहन्तं वपावन्तं विश्वहा दीदिवांसम् ॥
6.001.04 पदं देवस्य नमसा व्यन्तः श्रवस्यवः श्रव आपन्नमृक्तम् ।
6.001.04 नामानि चिद्दधिरे यज्ञियानि भद्रायां ते रणयन्त संदृष्टौ ॥
6.001.05 त्वां वर्धन्ति क्षितयः पृथिव्यां त्वां राय उभयासो जनानाम् ।
6.001.05 त्वं त्राता तरणे चेत्यो भूः पिता माता सदमिन्मानुषाणाम् ॥
6.001.06 सपर्येण्यः स प्रियो विक्ष्वग्निर्होता मन्द्रो नि षसादा यजीयान् ।
6.001.06 तं त्वा वयं दम आ दीदिवांसमुप ज्ञुबाधो नमसा सदेम ॥
6.001.07 तं त्वा वयं सुध्यो नव्यमग्ने सुम्नायव ईमहे देवयन्तः ।
6.001.07 त्वं विशो अनयो दीद्यानो दिवो अग्ने बृहता रोचनेन ॥
6.001.08 विशां कविं विश्पतिं शश्वतीनां नितोशनं वृषभं चर्षणीनाम् ।
6.001.08 प्रेतीषणिमिषयन्तं पावकं राजन्तमग्निं यजतं रयीणाम् ॥
6.001.09 सो अग्न ईजे शशमे च मर्तो यस्त आनट्समिधा हव्यदातिम् ।
6.001.09 य आहुतिं परि वेदा नमोभिर्विश्वेत्स वामा दधते त्वोतः ॥
6.001.10 अस्मा उ ते महि महे विधेम नमोभिरग्ने समिधोत हव्यैः ।
6.001.10 वेदी सूनो सहसो गीर्भिरुक्थैरा ते भद्रायां सुमतौ यतेम ॥
6.001.11 आ यस्ततन्थ रोदसी वि भासा श्रवोभिश्च श्रवस्यस्तरुत्रः ।
6.001.11 बृहद्भिर्वाजै स्थविरेभिरस्मे रेवद्भिरग्ने वितरं वि भाहि ॥
6.001.12 नृवद्वसो सदमिद्धेह्यस्मे भूरि तोकाय तनयाय पश्वः ।
6.001.12 पूर्वीरिषो बृहतीरारेअघा अस्मे भद्रा सौश्रवसानि सन्तु ॥
6.001.13 पुरूण्यग्ने पुरुधा त्वाया वसूनि राजन्वसुता ते अश्याम् ।
6.001.13 पुरूणि हि त्वे पुरुवार सन्त्यग्ने वसु विधते राजनि त्वे ॥

6.002.01 त्वं हि क्षैतवद्यशोऽग्ने मित्रो न पत्यसे ।
6.002.01 त्वं विचर्षणे श्रवो वसो पुष्टिं न पुष्यसि ॥
6.002.02 त्वां हि ष्मा चर्षणयो यज्ञेभिर्गीर्भिरीळते ।
6.002.02 त्वां वाजी यात्यवृको रजस्तूर्विश्वचर्षणिः ॥
6.002.03 सजोषस्त्वा दिवो नरो यज्ञस्य केतुमिन्धते ।
6.002.03 यद्ध स्य मानुषो जनः सुम्नायुर्जुह्वे अध्वरे ॥
6.002.04 ऋधद्यस्ते सुदानवे धिया मर्तः शशमते ।
6.002.04 ऊती ष बृहतो दिवो द्विषो अंहो न तरति ॥
6.002.05 समिधा यस्त आहुतिं निशितिं मर्त्यो नशत् ।
6.002.05 वयावन्तं स पुष्यति क्षयमग्ने शतायुषम् ॥
6.002.06 त्वेषस्ते धूम ऋण्वति दिवि षञ्छुक्र आततः ।
6.002.06 सूरो न हि द्युता त्वं कृपा पावक रोचसे ॥
6.002.07 अधा हि विक्ष्वीड्योऽसि प्रियो नो अतिथिः ।
6.002.07 रण्वः पुरीव जूर्यः सूनुर्न त्रययाय्यः ॥
6.002.08 क्रत्वा हि द्रोणे अज्यसेऽग्ने वाजी न कृत्व्यः ।
6.002.08 परिज्मेव स्वधा गयोऽत्यो न ह्वार्यः शिशुः ॥
6.002.09 त्वं त्या चिदच्युताग्ने पशुर्न यवसे ।
6.002.09 धामा ह यत्ते अजर वना वृश्चन्ति शिक्वसः ॥
6.002.10 वेषि ह्यध्वरीयतामग्ने होता दमे विशाम् ।
6.002.10 समृधो विश्पते कृणु जुषस्व हव्यमङ्गिरः ॥
6.002.11 अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
6.002.11 वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥

6.003.01 अग्ने स क्षेषदृतपा ऋतेजा उरु ज्योतिर्नशते देवयुष्टे ।
6.003.01 यं त्वं मित्रेण वरुणः सजोषा देव पासि त्यजसा मर्तमंहः ॥
6.003.02 ईजे यज्ञेभिः शशमे शमीभिरृधद्वारायाग्नये ददाश ।
6.003.02 एवा चन तं यशसामजुष्टिर्नांहो मर्तं नशते न प्रदृप्तिः ॥
6.003.03 सूरो न यस्य दृशतिररेपा भीमा यदेति शुचतस्त आ धीः ।
6.003.03 हेषस्वतः शुरुधो नायमक्तोः कुत्रा चिद्रण्वो वसतिर्वनेजाः ॥
6.003.04 तिग्मं चिदेम महि वर्पो अस्य भसदश्वो न यमसान आसा ।
6.003.04 विजेहमानः परशुर्न जिह्वां द्रविर्न द्रावयति दारु धक्षत् ॥
6.003.05 स इदस्तेव प्रति धादसिष्यञ्छिशीत तेजोऽयसो न धाराम् ।
6.003.05 चित्रध्रजतिररतिर्यो अक्तोर्वेर्न द्रुषद्वा रघुपत्मजंहाः ॥
6.003.06 स ईं रेभो न प्रति वस्त उस्राः शोचिषा रारपीति मित्रमहाः ।
6.003.06 नक्तं य ईमरुषो यो दिवा नॄनमर्त्यो अरुषो यो दिवा नॄन् ॥
6.003.07 दिवो न यस्य विधतो नवीनोद्वृषा रुक्ष ओषधीषु नूनोत् ।
6.003.07 घृणा न यो ध्रजसा पत्मना यन्ना रोदसी वसुना दं सुपत्नी ॥
6.003.08 धायोभिर्वा यो युज्येभिरर्कैर्विद्युन्न दविद्योत्स्वेभिः शुष्मैः ।
6.003.08 शर्धो वा यो मरुतां ततक्ष ऋभुर्न त्वेषो रभसानो अद्यौत् ॥

6.004.01 यथा होतर्मनुषो देवताता यज्ञेभिः सूनो सहसो यजासि ।
6.004.01 एवा नो अद्य समना समानानुशन्नग्न उशतो यक्षि देवान् ॥
6.004.02 स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात् ।
6.004.02 विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥
6.004.03 द्यावो न यस्य पनयन्त्यभ्वं भासांसि वस्ते सूर्यो न शुक्रः ।
6.004.03 वि य इनोत्यजरः पावकोऽश्नस्य चिच्छिश्नथत्पूर्व्याणि ॥
6.004.04 वद्मा हि सूनो अस्यद्मसद्वा चक्रे अग्निर्जनुषाज्मान्नम् ।
6.004.04 स त्वं न ऊर्जसन ऊर्जं धा राजेव जेरवृके क्षेष्यन्तः ॥
6.004.05 नितिक्ति यो वारणमन्नमत्ति वायुर्न राष्ट्र्यत्येत्यक्तून् ।
6.004.05 तुर्याम यस्त आदिशामरातीरत्यो न ह्रुतः पततः परिह्रुत् ॥
6.004.06 आ सूर्यो न भानुमद्भिरर्कैरग्ने ततन्थ रोदसी वि भासा ।
6.004.06 चित्रो नयत्परि तमांस्यक्तः शोचिषा पत्मन्नौशिजो न दीयन् ॥
6.004.07 त्वां हि मन्द्रतममर्कशोकैर्ववृमहे महि नः श्रोष्यग्ने ।
6.004.07 इन्द्रं न त्वा शवसा देवता वायुं पृणन्ति राधसा नृतमाः ॥
6.004.08 नू नो अग्नेऽवृकेभिः स्वस्ति वेषि रायः पथिभिः पर्ष्यंहः ।
6.004.08 ता सूरिभ्यो गृणते रासि सुम्नं मदेम शतहिमाः सुवीराः ॥

6.005.01 हुवे वः सूनुं सहसो युवानमद्रोघवाचं मतिभिर्यविष्ठम् ।
6.005.01 य इन्वति द्रविणानि प्रचेता विश्ववाराणि पुरुवारो अध्रुक् ॥
6.005.02 त्वे वसूनि पुर्वणीक होतर्दोषा वस्तोरेरिरे यज्ञियासः ।
6.005.02 क्षामेव विश्वा भुवनानि यस्मिन्सं सौभगानि दधिरे पावके ॥
6.005.03 त्वं विक्षु प्रदिवः सीद आसु क्रत्वा रथीरभवो वार्याणाम् ।
6.005.03 अत इनोषि विधते चिकित्वो व्यानुषग्जातवेदो वसूनि ॥
6.005.04 यो नः सनुत्यो अभिदासदग्ने यो अन्तरो मित्रमहो वनुष्यात् ।
6.005.04 तमजरेभिर्वृषभिस्तव स्वैस्तपा तपिष्ठ तपसा तपस्वान् ॥
6.005.05 यस्ते यज्ञेन समिधा य उक्थैरर्केभिः सूनो सहसो ददाशत् ।
6.005.05 स मर्त्येष्वमृत प्रचेता राया द्युम्नेन श्रवसा वि भाति ॥
6.005.06 स तत्कृधीषितस्तूयमग्ने स्पृधो बाधस्व सहसा सहस्वान् ।
6.005.06 यच्छस्यसे द्युभिरक्तो वचोभिस्तज्जुषस्व जरितुर्घोषि मन्म ॥
6.005.07 अश्याम तं काममग्ने तवोती अश्याम रयिं रयिवः सुवीरम् ।
6.005.07 अश्याम वाजमभि वाजयन्तोऽश्याम द्युम्नमजराजरं ते ॥

6.006.01 प्र नव्यसा सहसः सूनुमच्छा यज्ञेन गातुमव इच्छमानः ।
6.006.01 वृश्चद्वनं कृष्णयामं रुशन्तं वीती होतारं दिव्यं जिगाति ॥
6.006.02 स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः ।
6.006.02 यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥
6.006.03 वि ते विष्वग्वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति ।
6.006.03 तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धृषता रुजन्तः ॥
6.006.04 ये ते शुक्रासः शुचयः शुचिष्मः क्षां वपन्ति विषितासो अश्वाः ।
6.006.04 अध भ्रमस्त उर्विया वि भाति यातयमानो अधि सानु पृश्नेः ॥
6.006.05 अध जिह्वा पापतीति प्र वृष्णो गोषुयुधो नाशनिः सृजाना ।
6.006.05 शूरस्येव प्रसितिः क्षातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि ॥
6.006.06 आ भानुना पार्थिवानि ज्रयांसि महस्तोदस्य धृषता ततन्थ ।
6.006.06 स बाधस्वाप भया सहोभि स्पृधो वनुष्यन्वनुषो नि जूर्व ॥
6.006.07 स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम् ।
6.006.07 चन्द्रं रयिं पुरुवीरं बृहन्तं चन्द्र चन्द्राभिर्गृणते युवस्व ॥

6.007.01 मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् ।
6.007.01 कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥
6.007.02 नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।
6.007.02 वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥
6.007.03 त्वद्विप्रो जायते वाज्यग्ने त्वद्वीरासो अभिमातिषाहः ।
6.007.03 वैश्वानर त्वमस्मासु धेहि वसूनि राजन्स्पृहयाय्याणि ॥
6.007.04 त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।
6.007.04 तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥
6.007.05 वैश्वानर तव तानि व्रतानि महान्यग्ने नकिरा दधर्ष ।
6.007.05 यज्जायमानः पित्रोरुपस्थेऽविन्दः केतुं वयुनेष्वह्नाम् ॥
6.007.06 वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अमृतस्य केतुना ।
6.007.06 तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुः सप्त विस्रुहः ॥
6.007.07 वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः ।
6.007.07 परि यो विश्वा भुवनानि पप्रथेऽदब्धो गोपा अमृतस्य रक्षिता ॥

6.008.01 पृक्षस्य वृष्णो अरुषस्य नू सहः प्र नु वोचं विदथा जातवेदसः ।
6.008.01 वैश्वानराय मतिर्नव्यसी शुचिः सोम इव पवते चारुरग्नये ॥
6.008.02 स जायमानः परमे व्योमनि व्रतान्यग्निर्व्रतपा अरक्षत ।
6.008.02 व्यन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्पृशत् ॥
6.008.03 व्यस्तभ्नाद्रोदसी मित्रो अद्भुतोऽन्तर्वावदकृणोज्ज्योतिषा तमः ।
6.008.03 वि चर्मणीव धिषणे अवर्तयद्वैश्वानरो विश्वमधत्त वृष्ण्यम् ॥
6.008.04 अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुरृग्मियम् ।
6.008.04 आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥
6.008.05 युगेयुगे विदथ्यं गृणद्भ्योऽग्ने रयिं यशसं धेहि नव्यसीम् ।
6.008.05 पव्येव राजन्नघशंसमजर नीचा नि वृश्च वनिनं न तेजसा ॥
6.008.06 अस्माकमग्ने मघवत्सु धारयानामि क्षत्रमजरं सुवीर्यम् ।
6.008.06 वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः ॥
6.008.07 अदब्धेभिस्तव गोपाभिरिष्टेऽस्माकं पाहि त्रिषधस्थ सूरीन् ।
6.008.07 रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर प्र च तारी स्तवानः ॥

6.009.01 अहश्च कृष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः ।
6.009.01 वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि ॥
6.009.02 नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः ।
6.009.02 कस्य स्वित्पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा ॥
6.009.03 स इत्तन्तुं स वि जानात्योतुं स वक्त्वान्यृतुथा वदाति ।
6.009.03 य ईं चिकेतदमृतस्य गोपा अवश्चरन्परो अन्येन पश्यन् ॥
6.009.04 अयं होता प्रथमः पश्यतेममिदं ज्योतिरमृतं मर्त्येषु ।
6.009.04 अयं स जज्ञे ध्रुव आ निषत्तोऽमर्त्यस्तन्वा वर्धमानः ॥
6.009.05 ध्रुवं ज्योतिर्निहितं दृशये कं मनो जविष्ठं पतयत्स्वन्तः ।
6.009.05 विश्वे देवाः समनसः सकेता एकं क्रतुमभि वि यन्ति साधु ॥
6.009.06 वि मे कर्णा पतयतो वि चक्षुर्वीदं ज्योतिर्हृदय आहितं यत् ।
6.009.06 वि मे मनश्चरति दूरआधीः किं स्विद्वक्ष्यामि किमु नू मनिष्ये ॥
6.009.07 विश्वे देवा अनमस्यन्भियानास्त्वामग्ने तमसि तस्थिवांसम् ।
6.009.07 वैश्वानरोऽवतूतये नोऽमर्त्योऽवतूतये नः ॥

6.010.01 पुरो वो मन्द्रं दिव्यं सुवृक्तिं प्रयति यज्ञे अग्निमध्वरे दधिध्वम् ।
6.010.01 पुर उक्थेभिः स हि नो विभावा स्वध्वरा करति जातवेदाः ॥
6.010.02 तमु द्युमः पुर्वणीक होतरग्ने अग्निभिर्मनुष इधानः ।
6.010.02 स्तोमं यमस्मै ममतेव शूषं घृतं न शुचि मतयः पवन्ते ॥
6.010.03 पीपाय स श्रवसा मर्त्येषु यो अग्नये ददाश विप्र उक्थैः ।
6.010.03 चित्राभिस्तमूतिभिश्चित्रशोचिर्व्रजस्य साता गोमतो दधाति ॥
6.010.04 आ यः पप्रौ जायमान उर्वी दूरेदृशा भासा कृष्णाध्वा ।
6.010.04 अध बहु चित्तम ऊर्म्यायास्तिरः शोचिषा ददृशे पावकः ॥
6.010.05 नू नश्चित्रं पुरुवाजाभिरूती अग्ने रयिं मघवद्भ्यश्च धेहि ।
6.010.05 ये राधसा श्रवसा चात्यन्यान्सुवीर्येभिश्चाभि सन्ति जनान् ॥
6.010.06 इमं यज्ञं चनो धा अग्न उशन्यं त आसानो जुहुते हविष्मान् ।
6.010.06 भरद्वाजेषु दधिषे सुवृक्तिमवीर्वाजस्य गध्यस्य सातौ ॥
6.010.07 वि द्वेषांसीनुहि वर्धयेळां मदेम शतहिमाः सुवीराः ॥

6.011.01 यजस्व होतरिषितो यजीयानग्ने बाधो मरुतां न प्रयुक्ति ।
6.011.01 आ नो मित्रावरुणा नासत्या द्यावा होत्राय पृथिवी ववृत्याः ॥
6.011.02 त्वं होता मन्द्रतमो नो अध्रुगन्तर्देवो विदथा मर्त्येषु ।
6.011.02 पावकया जुह्वा वह्निरासाग्ने यजस्व तन्वं तव स्वाम् ॥
6.011.03 धन्या चिद्धि त्वे धिषणा वष्टि प्र देवाञ्जन्म गृणते यजध्यै ।
6.011.03 वेपिष्ठो अङ्गिरसां यद्ध विप्रो मधु च्छन्दो भनति रेभ इष्टौ ॥
6.011.04 अदिद्युतत्स्वपाको विभावाग्ने यजस्व रोदसी उरूची ।
6.011.04 आयुं न यं नमसा रातहव्या अञ्जन्ति सुप्रयसं पञ्च जनाः ॥
6.011.05 वृञ्जे ह यन्नमसा बर्हिरग्नावयामि स्रुग्घृतवती सुवृक्तिः ।
6.011.05 अम्यक्षि सद्म सदने पृथिव्या अश्रायि यज्ञः सूर्ये न चक्षुः ॥
6.011.06 दशस्या नः पुर्वणीक होतर्देवेभिरग्ने अग्निभिरिधानः ।
6.011.06 रायः सूनो सहसो वावसाना अति स्रसेम वृजनं नांहः ॥

6.012.01 मध्ये होता दुरोणे बर्हिषो राळ् अग्निस्तोदस्य रोदसी यजध्यै ।
6.012.01 अयं स सूनुः सहस ऋतावा दूरात्सूर्यो न शोचिषा ततान ॥
6.012.02 आ यस्मिन्त्वे स्वपाके यजत्र यक्षद्राजन्सर्वतातेव नु द्यौः ।
6.012.02 त्रिषधस्थस्ततरुषो न जंहो हव्या मघानि मानुषा यजध्यै ॥
6.012.03 तेजिष्ठा यस्यारतिर्वनेराट्तोदो अध्वन्न वृधसानो अद्यौत् ।
6.012.03 अद्रोघो न द्रविता चेतति त्मन्नमर्त्योऽवर्त्र ओषधीषु ॥
6.012.04 सास्माकेभिरेतरी न शूषैरग्नि ष्टवे दम आ जातवेदाः ।
6.012.04 द्र्वन्नो वन्वन्क्रत्वा नार्वोस्रः पितेव जारयायि यज्ञैः ॥
6.012.05 अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम् ।
6.012.05 सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥
6.012.06 स त्वं नो अर्वन्निदाया विश्वेभिरग्ने अग्निभिरिधानः ।
6.012.06 वेषि रायो वि यासि दुच्छुना मदेम शतहिमाः सुवीराः ॥

6.013.01 त्वद्विश्वा सुभग सौभगान्यग्ने वि यन्ति वनिनो न वयाः ।
6.013.01 श्रुष्टी रयिर्वाजो वृत्रतूर्ये दिवो वृष्टिरीड्यो रीतिरपाम् ॥
6.013.02 त्वं भगो न आ हि रत्नमिषे परिज्मेव क्षयसि दस्मवर्चाः ।
6.013.02 अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेः ॥
6.013.03 स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम् ।
6.013.03 यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥
6.013.04 यस्ते सूनो सहसो गीर्भिरुक्थैर्यज्ञैर्मर्तो निशितिं वेद्यानट् ।
6.013.04 विश्वं स देव प्रति वारमग्ने धत्ते धान्यं पत्यते वसव्यैः ॥
6.013.05 ता नृभ्य आ सौश्रवसा सुवीराग्ने सूनो सहसः पुष्यसे धाः ।
6.013.05 कृणोषि यच्छवसा भूरि पश्वो वयो वृकायारये जसुरये ॥
6.013.06 वद्मा सूनो सहसो नो विहाया अग्ने तोकं तनयं वाजि नो दाः ।
6.013.06 विश्वाभिर्गीर्भिरभि पूर्तिमश्यां मदेम शतहिमाः सुवीराः ॥

6.014.01 अग्ना यो मर्त्यो दुवो धियं जुजोष धीतिभिः ।
6.014.01 भसन्नु ष प्र पूर्व्य इषं वुरीतावसे ॥
6.014.02 अग्निरिद्धि प्रचेता अग्निर्वेधस्तम ऋषिः ।
6.014.02 अग्निं होतारमीळते यज्ञेषु मनुषो विशः ॥
6.014.03 नाना ह्यग्नेऽवसे स्पर्धन्ते रायो अर्यः ।
6.014.03 तूर्वन्तो दस्युमायवो व्रतैः सीक्षन्तो अव्रतम् ॥
6.014.04 अग्निरप्सामृतीषहं वीरं ददाति सत्पतिम् ।
6.014.04 यस्य त्रसन्ति शवसः संचक्षि शत्रवो भिया ॥
6.014.05 अग्निर्हि विद्मना निदो देवो मर्तमुरुष्यति ।
6.014.05 सहावा यस्यावृतो रयिर्वाजेष्ववृतः ॥
6.014.06 अच्छा नो मित्रमहो देव देवानग्ने वोचः सुमतिं रोदस्योः ।
6.014.06 वीहि स्वस्तिं सुक्षितिं दिवो नॄन्द्विषो अंहांसि दुरिता तरेम ता तरेम तवावसा तरेम ॥

6.015.01 इममू षु वो अतिथिमुषर्बुधं विश्वासां विशां पतिमृञ्जसे गिरा ।
6.015.01 वेतीद्दिवो जनुषा कच्चिदा शुचिर्ज्योक्चिदत्ति गर्भो यदच्युतम् ॥
6.015.02 मित्रं न यं सुधितं भृगवो दधुर्वनस्पतावीड्यमूर्ध्वशोचिषम् ।
6.015.02 स त्वं सुप्रीतो वीतहव्ये अद्भुत प्रशस्तिभिर्महयसे दिवेदिवे ॥
6.015.03 स त्वं दक्षस्यावृको वृधो भूरर्यः परस्यान्तरस्य तरुषः ।
6.015.03 रायः सूनो सहसो मर्त्येष्वा छर्दिर्यच्छ वीतहव्याय सप्रथो भरद्वाजाय सप्रथः ॥
6.015.04 द्युतानं वो अतिथिं स्वर्णरमग्निं होतारं मनुषः स्वध्वरम् ।
6.015.04 विप्रं न द्युक्षवचसं सुवृक्तिभिर्हव्यवाहमरतिं देवमृञ्जसे ॥
6.015.05 पावकया यश्चितयन्त्या कृपा क्षामन्रुरुच उषसो न भानुना ।
6.015.05 तूर्वन्न यामन्नेतशस्य नू रण आ यो घृणे न ततृषाणो अजरः ॥
6.015.06 अग्निमग्निं वः समिधा दुवस्यत प्रियम्प्रियं वो अतिथिं गृणीषणि ।
6.015.06 उप वो गीर्भिरमृतं विवासत देवो देवेषु वनते हि वार्यं देवो देवेषु वनते हि नो दुवः ॥
6.015.07 समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवम् ।
6.015.07 विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसम् ॥
6.015.08 त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।
6.015.08 देवासश्च मर्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥
6.015.09 विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे ।
6.015.09 यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥
6.015.10 तं सुप्रतीकं सुदृशं स्वञ्चमविद्वांसो विदुष्टरं सपेम ।
6.015.10 स यक्षद्विश्वा वयुनानि विद्वान्प्र हव्यमग्निरमृतेषु वोचत् ॥
6.015.11 तमग्ने पास्युत तं पिपर्षि यस्त आनट्कवये शूर धीतिम् ।
6.015.11 यज्ञस्य वा निशितिं वोदितिं वा तमित्पृणक्षि शवसोत राया ॥
6.015.12 त्वमग्ने वनुष्यतो नि पाहि त्वमु नः सहसावन्नवद्यात् ।
6.015.12 सं त्वा ध्वस्मन्वदभ्येतु पाथः सं रयि स्पृहयाय्यः सहस्री ॥
6.015.13 अग्निर्होता गृहपतिः स राजा विश्वा वेद जनिमा जातवेदाः ।
6.015.13 देवानामुत यो मर्त्यानां यजिष्ठः स प्र यजतामृतावा ॥
6.015.14 अग्ने यदद्य विशो अध्वरस्य होतः पावकशोचे वेष्ट्वं हि यज्वा ।
6.015.14 ऋता यजासि महिना वि यद्भूर्हव्या वह यविष्ठ या ते अद्य ॥
6.015.15 अभि प्रयांसि सुधितानि हि ख्यो नि त्वा दधीत रोदसी यजध्यै ।
6.015.15 अवा नो मघवन्वाजसातावग्ने विश्वानि दुरिता तरेम ता तरेम तवावसा तरेम ॥
6.015.16 अग्ने विश्वेभिः स्वनीक देवैरूर्णावन्तं प्रथमः सीद योनिम् ।
6.015.16 कुलायिनं घृतवन्तं सवित्रे यज्ञं नय यजमानाय साधु ॥
6.015.17 इममु त्यमथर्ववदग्निं मन्थन्ति वेधसः ।
6.015.17 यमङ्कूयन्तमानयन्नमूरं श्याव्याभ्यः ॥
6.015.18 जनिष्वा देववीतये सर्वताता स्वस्तये ।
6.015.18 आ देवान्वक्ष्यमृतां ऋतावृधो यज्ञं देवेषु पिस्पृशः ॥
6.015.19 वयमु त्वा गृहपते जनानामग्ने अकर्म समिधा बृहन्तम् ।
6.015.19 अस्थूरि नो गार्हपत्यानि सन्तु तिग्मेन नस्तेजसा सं शिशाधि ॥

6.016.01 त्वमग्ने यज्ञानां होता विश्वेषां हितः ।
6.016.01 देवेभिर्मानुषे जने ॥
6.016.02 स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।
6.016.02 आ देवान्वक्षि यक्षि च ॥
6.016.03 वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।
6.016.03 अग्ने यज्ञेषु सुक्रतो ॥
6.016.04 त्वामीळे अध द्विता भरतो वाजिभिः शुनम् ।
6.016.04 ईजे यज्ञेषु यज्ञियम् ॥
6.016.05 त्वमिमा वार्या पुरु दिवोदासाय सुन्वते ।
6.016.05 भरद्वाजाय दाशुषे ॥
6.016.06 त्वं दूतो अमर्त्य आ वहा दैव्यं जनम् ।
6.016.06 शृण्वन्विप्रस्य सुष्टुतिम् ॥
6.016.07 त्वामग्ने स्वाध्यो मर्तासो देववीतये ।
6.016.07 यज्ञेषु देवमीळते ॥
6.016.08 तव प्र यक्षि संदृशमुत क्रतुं सुदानवः ।
6.016.08 विश्वे जुषन्त कामिनः ॥
6.016.09 त्वं होता मनुर्हितो वह्निरासा विदुष्टरः ।
6.016.09 अग्ने यक्षि दिवो विशः ॥
6.016.10 अग्न आ याहि वीतये गृणानो हव्यदातये ।
6.016.10 नि होता सत्सि बर्हिषि ॥
6.016.11 तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।
6.016.11 बृहच्छोचा यविष्ठ्य ॥
6.016.12 स नः पृथु श्रवाय्यमच्छा देव विवाससि ।
6.016.12 बृहदग्ने सुवीर्यम् ॥
6.016.13 त्वामग्ने पुष्करादध्यथर्वा निरमन्थत ।
6.016.13 मूर्ध्नो विश्वस्य वाघतः ॥
6.016.14 तमु त्वा दध्यङ्ङृषिः पुत्र ईधे अथर्वणः ।
6.016.14 वृत्रहणं पुरन्दरम् ॥
6.016.15 तमु त्वा पाथ्यो वृषा समीधे दस्युहन्तमम् ।
6.016.15 धनञ्जयं रणेरणे ॥
6.016.16 एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।
6.016.16 एभिर्वर्धास इन्दुभिः ॥
6.016.17 यत्र क्व च ते मनो दक्षं दधस उत्तरम् ।
6.016.17 तत्रा सदः कृणवसे ॥
6.016.18 नहि ते पूर्तमक्षिपद्भुवन्नेमानां वसो ।
6.016.18 अथा दुवो वनवसे ॥
6.016.19 आग्निरगामि भारतो वृत्रहा पुरुचेतनः ।
6.016.19 दिवोदासस्य सत्पतिः ॥
6.016.20 स हि विश्वाति पार्थिवा रयिं दाशन्महित्वना ।
6.016.20 वन्वन्नवातो अस्तृतः ॥
6.016.21 स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता ।
6.016.21 बृहत्ततन्थ भानुना ॥
6.016.22 प्र वः सखायो अग्नये स्तोमं यज्ञं च धृष्णुया ।
6.016.22 अर्च गाय च वेधसे ॥
6.016.23 स हि यो मानुषा युगा सीदद्धोता कविक्रतुः ।
6.016.23 दूतश्च हव्यवाहनः ॥
6.016.24 ता राजाना शुचिव्रतादित्यान्मारुतं गणम् ।
6.016.24 वसो यक्षीह रोदसी ॥
6.016.25 वस्वी ते अग्ने संदृष्टिरिषयते मर्त्याय ।
6.016.25 ऊर्जो नपादमृतस्य ॥
6.016.26 क्रत्वा दा अस्तु श्रेष्ठोऽद्य त्वा वन्वन्सुरेक्णाः ।
6.016.26 मर्त आनाश सुवृक्तिम् ॥
6.016.27 ते ते अग्ने त्वोता इषयन्तो विश्वमायुः ।
6.016.27 तरन्तो अर्यो अरातीर्वन्वन्तो अर्यो अरातीः ॥
6.016.28 अग्निस्तिग्मेन शोचिषा यासद्विश्वं न्यत्रिणम् ।
6.016.28 अग्निर्नो वनते रयिम् ॥
6.016.29 सुवीरं रयिमा भर जातवेदो विचर्षणे ।
6.016.29 जहि रक्षांसि सुक्रतो ॥
6.016.30 त्वं नः पाह्यंहसो जातवेदो अघायतः ।
6.016.30 रक्षा णो ब्रह्मणस्कवे ॥
6.016.31 यो नो अग्ने दुरेव आ मर्तो वधाय दाशति ।
6.016.31 तस्मान्नः पाह्यंहसः ॥
6.016.32 त्वं तं देव जिह्वया परि बाधस्व दुष्कृतम् ।
6.016.32 मर्तो यो नो जिघांसति ॥
6.016.33 भरद्वाजाय सप्रथः शर्म यच्छ सहन्त्य ।
6.016.33 अग्ने वरेण्यं वसु ॥
6.016.34 अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।
6.016.34 समिद्धः शुक्र आहुतः ॥
6.016.35 गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।
6.016.35 सीदन्नृतस्य योनिमा ॥
6.016.36 ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।
6.016.36 अग्ने यद्दीदयद्दिवि ॥
6.016.37 उप त्वा रण्वसंदृशं प्रयस्वन्तः सहस्कृत ।
6.016.37 अग्ने ससृज्महे गिरः ॥
6.016.38 उप च्छायामिव घृणेरगन्म शर्म ते वयम् ।
6.016.38 अग्ने हिरण्यसंदृशः ॥
6.016.39 य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।
6.016.39 अग्ने पुरो रुरोजिथ ॥
6.016.40 आ यं हस्ते न खादिनं शिशुं जातं न बिभ्रति ।
6.016.40 विशामग्निं स्वध्वरम् ॥
6.016.41 प्र देवं देववीतये भरता वसुवित्तमम् ।
6.016.41 आ स्वे योनौ नि षीदतु ॥
6.016.42 आ जातं जातवेदसि प्रियं शिशीतातिथिम् ।
6.016.42 स्योन आ गृहपतिम् ॥
6.016.43 अग्ने युक्ष्वा हि ये तवाश्वासो देव साधवः ।
6.016.43 अरं वहन्ति मन्यवे ॥
6.016.44 अच्छा नो याह्या वहाभि प्रयांसि वीतये ।
6.016.44 आ देवान्सोमपीतये ॥
6.016.45 उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।
6.016.45 शोचा वि भाह्यजर ॥
6.016.46 वीती यो देवं मर्तो दुवस्येदग्निमीळीताध्वरे हविष्मान् ।
6.016.46 होतारं सत्ययजं रोदस्योरुत्तानहस्तो नमसा विवासेत् ॥
6.016.47 आ ते अग्न ऋचा हविर्हृदा तष्टं भरामसि ।
6.016.47 ते ते भवन्तूक्षण ऋषभासो वशा उत ॥
6.016.48 अग्निं देवासो अग्रियमिन्धते वृत्रहन्तमम् ।
6.016.48 येना वसून्याभृता तृळ्हा रक्षांसि वाजिना ॥

6.017.01 पिबा सोममभि यमुग्र तर्द ऊर्वं गव्यं महि गृणान इन्द्र ।
6.017.01 वि यो धृष्णो वधिषो वज्रहस्त विश्वा वृत्रममित्रिया शवोभिः ॥
6.017.02 स ईं पाहि य ऋजीषी तरुत्रो यः शिप्रवान्वृषभो यो मतीनाम् ।
6.017.02 यो गोत्रभिद्वज्रभृद्यो हरिष्ठाः स इन्द्र चित्रां अभि तृन्धि वाजान् ॥
6.017.03 एवा पाहि प्रत्नथा मन्दतु त्वा श्रुधि ब्रह्म वावृधस्वोत गीर्भिः ।
6.017.03 आविः सूर्यं कृणुहि पीपिहीषो जहि शत्रूंरभि गा इन्द्र तृन्धि ॥
6.017.04 ते त्वा मदा बृहदिन्द्र स्वधाव इमे पीता उक्षयन्त द्युमन्तम् ।
6.017.04 महामनूनं तवसं विभूतिं मत्सरासो जर्हृषन्त प्रसाहम् ॥
6.017.05 येभिः सूर्यमुषसं मन्दसानोऽवासयोऽप दृळ्हानि दर्द्रत् ।
6.017.05 महामद्रिं परि गा इन्द्र सन्तं नुत्था अच्युतं सदसस्परि स्वात् ॥
6.017.06 तव क्रत्वा तव तद्दंसनाभिरामासु पक्वं शच्या नि दीधः ।
6.017.06 और्णोर्दुर उस्रियाभ्यो वि दृळ्होदूर्वाद्गा असृजो अङ्गिरस्वान् ॥
6.017.07 पप्राथ क्षां महि दंसो व्युर्वीमुप द्यामृष्वो बृहदिन्द्र स्तभायः ।
6.017.07 अधारयो रोदसी देवपुत्रे प्रत्ने मातरा यह्वी ऋतस्य ॥
6.017.08 अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय ।
6.017.08 अदेवो यदभ्यौहिष्ट देवान्स्वर्षाता वृणत इन्द्रमत्र ॥
6.017.09 अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः ।
6.017.09 अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥
6.017.10 अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम् ।
6.017.10 निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥
6.017.11 वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषां इन्द्र तुभ्यम् ।
6.017.11 पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥
6.017.12 आ क्षोदो महि वृतं नदीनां परिष्ठितमसृज ऊर्मिमपाम् ।
6.017.12 तासामनु प्रवत इन्द्र पन्थां प्रार्दयो नीचीरपसः समुद्रम् ॥
6.017.13 एवा ता विश्वा चकृवांसमिन्द्रं महामुग्रमजुर्यं सहोदाम् ।
6.017.13 सुवीरं त्वा स्वायुधं सुवज्रमा ब्रह्म नव्यमवसे ववृत्यात् ॥
6.017.14 स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान् ।
6.017.14 भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥
6.017.15 अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥

6.018.01 तमु ष्टुहि यो अभिभूत्योजा वन्वन्नवातः पुरुहूत इन्द्रः ।
6.018.01 अषाळ्हमुग्रं सहमानमाभिर्गीर्भिर्वर्ध वृषभं चर्षणीनाम् ॥
6.018.02 स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमां ऋजीषी ।
6.018.02 बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥
6.018.03 त्वं ह नु त्यददमायो दस्यूंरेकः कृष्टीरवनोरार्याय ।
6.018.03 अस्ति स्विन्नु वीर्यं तत्त इन्द्र न स्विदस्ति तदृतुथा वि वोचः ॥
6.018.04 सदिद्धि ते तुविजातस्य मन्ये सहः सहिष्ठ तुरतस्तुरस्य ।
6.018.04 उग्रमुग्रस्य तवसस्तवीयोऽरध्रस्य रध्रतुरो बभूव ॥
6.018.05 तन्नः प्रत्नं सख्यमस्तु युष्मे इत्था वदद्भिर्वलमङ्गिरोभिः ।
6.018.05 हन्नच्युतच्युद्दस्मेषयन्तमृणोः पुरो वि दुरो अस्य विश्वाः ॥
6.018.06 स हि धीभिर्हव्यो अस्त्युग्र ईशानकृन्महति वृत्रतूर्ये ।
6.018.06 स तोकसाता तनये स वज्री वितन्तसाय्यो अभवत्समत्सु ॥
6.018.07 स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे ।
6.018.07 स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥
6.018.08 स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च ।
6.018.08 वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥
6.018.09 उदावता त्वक्षसा पन्यसा च वृत्रहत्याय रथमिन्द्र तिष्ठ ।
6.018.09 धिष्व वज्रं हस्त आ दक्षिणत्राभि प्र मन्द पुरुदत्र मायाः ॥
6.018.10 अग्निर्न शुष्कं वनमिन्द्र हेती रक्षो नि धक्ष्यशनिर्न भीमा ।
6.018.10 गम्भीरय ऋष्वया यो रुरोजाध्वानयद्दुरिता दम्भयच्च ॥
6.018.11 आ सहस्रं पथिभिरिन्द्र राया तुविद्युम्न तुविवाजेभिरर्वाक् ।
6.018.11 याहि सूनो सहसो यस्य नू चिददेव ईशे पुरुहूत योतोः ॥
6.018.12 प्र तुविद्युम्नस्य स्थविरस्य घृष्वेर्दिवो ररप्शे महिमा पृथिव्याः ।
6.018.12 नास्य शत्रुर्न प्रतिमानमस्ति न प्रतिष्ठिः पुरुमायस्य सह्योः ॥
6.018.13 प्र तत्ते अद्या करणं कृतं भूत्कुत्सं यदायुमतिथिग्वमस्मै ।
6.018.13 पुरू सहस्रा नि शिशा अभि क्षामुत्तूर्वयाणं धृषता निनेथ ॥
6.018.14 अनु त्वाहिघ्ने अध देव देवा मदन्विश्वे कवितमं कवीनाम् ।
6.018.14 करो यत्र वरिवो बाधिताय दिवे जनाय तन्वे गृणानः ॥
6.018.15 अनु द्यावापृथिवी तत्त ओजोऽमर्त्या जिहत इन्द्र देवाः ।
6.018.15 कृष्वा कृत्नो अकृतं यत्ते अस्त्युक्थं नवीयो जनयस्व यज्ञैः ॥

6.019.01 महां इन्द्रो नृवदा चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः ।
6.019.01 अस्मद्र्यग्वावृधे वीर्यायोरुः पृथुः सुकृतः कर्तृभिर्भूत् ॥
6.019.02 इन्द्रमेव धिषणा सातये धाद्बृहन्तमृष्वमजरं युवानम् ।
6.019.02 अषाळ्हेन शवसा शूशुवांसं सद्यश्चिद्यो वावृधे असामि ॥
6.019.03 पृथू करस्ना बहुला गभस्ती अस्मद्र्यक्सं मिमीहि श्रवांसि ।
6.019.03 यूथेव पश्वः पशुपा दमूना अस्मां इन्द्राभ्या ववृत्स्वाजौ ॥
6.019.04 तं व इन्द्रं चतिनमस्य शाकैरिह नूनं वाजयन्तो हुवेम ।
6.019.04 यथा चित्पूर्वे जरितार आसुरनेद्या अनवद्या अरिष्टाः ॥
6.019.05 धृतव्रतो धनदाः सोमवृद्धः स हि वामस्य वसुनः पुरुक्षुः ।
6.019.05 सं जग्मिरे पथ्या रायो अस्मिन्समुद्रे न सिन्धवो यादमानाः ॥
6.019.06 शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम् ।
6.019.06 विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥
6.019.07 यस्ते मदः पृतनाषाळ् अमृध्र इन्द्र तं न आ भर शूशुवांसम् ।
6.019.07 येन तोकस्य तनयस्य सातौ मंसीमहि जिगीवांसस्त्वोताः ॥
6.019.08 आ नो भर वृषणं शुष्ममिन्द्र धनस्पृतं शूशुवांसं सुदक्षम् ।
6.019.08 येन वंसाम पृतनासु शत्रून्तवोतिभिरुत जामींरजामीन् ॥
6.019.09 आ ते शुष्मो वृषभ एतु पश्चादोत्तरादधरादा पुरस्तात् ।
6.019.09 आ विश्वतो अभि समेत्वर्वाङिन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥
6.019.10 नृवत्त इन्द्र नृतमाभिरूती वंसीमहि वामं श्रोमतेभिः ।
6.019.10 ईक्षे हि वस्व उभयस्य राजन्धा रत्नं महि स्थूरं बृहन्तम् ॥
6.019.11 मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
6.019.11 विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥
6.019.12 जनं वज्रिन्महि चिन्मन्यमानमेभ्यो नृभ्यो रन्धया येष्वस्मि ।
6.019.12 अधा हि त्वा पृथिव्यां शूरसातौ हवामहे तनये गोष्वप्सु ॥
6.019.13 वयं त एभिः पुरुहूत सख्यैः शत्रोःशत्रोरुत्तर इत्स्याम ।
6.019.13 घ्नन्तो वृत्राण्युभयानि शूर राया मदेम बृहता त्वोताः ॥

6.020.01 द्यौर्न य इन्द्राभि भूमार्यस्तस्थौ रयिः शवसा पृत्सु जनान् ।
6.020.01 तं नः सहस्रभरमुर्वरासां दद्धि सूनो सहसो वृत्रतुरम् ॥
6.020.02 दिवो न तुभ्यमन्विन्द्र सत्रासुर्यं देवेभिर्धायि विश्वम् ।
6.020.02 अहिं यद्वृत्रमपो वव्रिवांसं हन्नृजीषिन्विष्णुना सचानः ॥
6.020.03 तूर्वन्नोजीयान्तवसस्तवीयान्कृतब्रह्मेन्द्रो वृद्धमहाः ।
6.020.03 राजाभवन्मधुनः सोम्यस्य विश्वासां यत्पुरां दर्त्नुमावत् ॥
6.020.04 शतैरपद्रन्पणय इन्द्रात्र दशोणये कवयेऽर्कसातौ ।
6.020.04 वधैः शुष्णस्याशुषस्य मायाः पित्वो नारिरेचीत्किं चन प्र ॥
6.020.05 महो द्रुहो अप विश्वायु धायि वज्रस्य यत्पतने पादि शुष्णः ।
6.020.05 उरु ष सरथं सारथये करिन्द्रः कुत्साय सूर्यस्य सातौ ॥
6.020.06 प्र श्येनो न मदिरमंशुमस्मै शिरो दासस्य नमुचेर्मथायन् ।
6.020.06 प्रावन्नमीं साप्यं ससन्तं पृणग्राया समिषा सं स्वस्ति ॥
6.020.07 वि पिप्रोरहिमायस्य दृळ्हाः पुरो वज्रिञ्छवसा न दर्दः ।
6.020.07 सुदामन्तद्रेक्णो अप्रमृष्यमृजिश्वने दात्रं दाशुषे दाः ॥
6.020.08 स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः ।
6.020.08 आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥
6.020.09 स ईं स्पृधो वनते अप्रतीतो बिभ्रद्वज्रं वृत्रहणं गभस्तौ ।
6.020.09 तिष्ठद्धरी अध्यस्तेव गर्ते वचोयुजा वहत इन्द्रमृष्वम् ॥
6.020.10 सनेम तेऽवसा नव्य इन्द्र प्र पूरव स्तवन्त एना यज्ञैः ।
6.020.10 सप्त यत्पुरः शर्म शारदीर्दर्द्धन्दासीः पुरुकुत्साय शिक्षन् ॥
6.020.11 त्वं वृध इन्द्र पूर्व्यो भूर्वरिवस्यन्नुशने काव्याय ।
6.020.11 परा नववास्त्वमनुदेयं महे पित्रे ददाथ स्वं नपातम् ॥
6.020.12 त्वं धुनिरिन्द्र धुनिमतीरृणोरपः सीरा न स्रवन्तीः ।
6.020.12 प्र यत्समुद्रमति शूर पर्षि पारया तुर्वशं यदुं स्वस्ति ॥
6.020.13 तव ह त्यदिन्द्र विश्वमाजौ सस्तो धुनीचुमुरी या ह सिष्वप् ।
6.020.13 दीदयदित्तुभ्यं सोमेभिः सुन्वन्दभीतिरिध्मभृतिः पक्थ्यर्कैः ॥

6.021.01 इमा उ त्वा पुरुतमस्य कारोर्हव्यं वीर हव्या हवन्ते ।
6.021.01 धियो रथेष्ठामजरं नवीयो रयिर्विभूतिरीयते वचस्या ॥
6.021.02 तमु स्तुष इन्द्रं यो विदानो गिर्वाहसं गीर्भिर्यज्ञवृद्धम् ।
6.021.02 यस्य दिवमति मह्ना पृथिव्याः पुरुमायस्य रिरिचे महित्वम् ॥
6.021.03 स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार ।
6.021.03 कदा ते मर्ता अमृतस्य धामेयक्षन्तो न मिनन्ति स्वधावः ॥
6.021.04 यस्ता चकार स कुह स्विदिन्द्रः कमा जनं चरति कासु विक्षु ।
6.021.04 कस्ते यज्ञो मनसे शं वराय को अर्क इन्द्र कतमः स होता ॥
6.021.05 इदा हि ते वेविषतः पुराजाः प्रत्नास आसुः पुरुकृत्सखायः ।
6.021.05 ये मध्यमास उत नूतनास उतावमस्य पुरुहूत बोधि ॥
6.021.06 तं पृच्छन्तोऽवरासः पराणि प्रत्ना त इन्द्र श्रुत्यानु येमुः ।
6.021.06 अर्चामसि वीर ब्रह्मवाहो यादेव विद्म तात्त्वा महान्तम् ॥
6.021.07 अभि त्वा पाजो रक्षसो वि तस्थे महि जज्ञानमभि तत्सु तिष्ठ ।
6.021.07 तव प्रत्नेन युज्येन सख्या वज्रेण धृष्णो अप ता नुदस्व ॥
6.021.08 स तु श्रुधीन्द्र नूतनस्य ब्रह्मण्यतो वीर कारुधायः ।
6.021.08 त्वं ह्यापिः प्रदिवि पितॄणां शश्वद्बभूथ सुहव एष्टौ ॥
6.021.09 प्रोतये वरुणं मित्रमिन्द्रं मरुतः कृष्वावसे नो अद्य ।
6.021.09 प्र पूषणं विष्णुमग्निं पुरन्धिं सवितारमोषधीः पर्वतांश्च ॥
6.021.10 इम उ त्वा पुरुशाक प्रयज्यो जरितारो अभ्यर्चन्त्यर्कैः ।
6.021.10 श्रुधी हवमा हुवतो हुवानो न त्वावां अन्यो अमृत त्वदस्ति ॥
6.021.11 नू म आ वाचमुप याहि विद्वान्विश्वेभिः सूनो सहसो यजत्रैः ।
6.021.11 ये अग्निजिह्वा ऋतसाप आसुर्ये मनुं चक्रुरुपरं दसाय ॥
6.021.12 स नो बोधि पुरएता सुगेषूत दुर्गेषु पथिकृद्विदानः ।
6.021.12 ये अश्रमास उरवो वहिष्ठास्तेभिर्न इन्द्राभि वक्षि वाजम् ॥

6.022.01 य एक इद्धव्यश्चर्षणीनामिन्द्रं तं गीर्भिरभ्यर्च आभिः ।
6.022.01 यः पत्यते वृषभो वृष्ण्यावान्सत्यः सत्वा पुरुमायः सहस्वान् ॥
6.022.02 तमु नः पूर्वे पितरो नवग्वाः सप्त विप्रासो अभि वाजयन्तः ।
6.022.02 नक्षद्दाभं ततुरिं पर्वतेष्ठामद्रोघवाचं मतिभिः शविष्ठम् ॥
6.022.03 तमीमह इन्द्रमस्य रायः पुरुवीरस्य नृवतः पुरुक्षोः ।
6.022.03 यो अस्कृधोयुरजरः स्वर्वान्तमा भर हरिवो मादयध्यै ॥
6.022.04 तन्नो वि वोचो यदि ते पुरा चिज्जरितार आनशुः सुम्नमिन्द्र ।
6.022.04 कस्ते भागः किं वयो दुध्र खिद्वः पुरुहूत पुरूवसोऽसुरघ्नः ॥
6.022.05 तं पृच्छन्ती वज्रहस्तं रथेष्ठामिन्द्रं वेपी वक्वरी यस्य नू गीः ।
6.022.05 तुविग्राभं तुविकूर्मिं रभोदां गातुमिषे नक्षते तुम्रमच्छ ॥
6.022.06 अया ह त्यं मायया वावृधानं मनोजुवा स्वतवः पर्वतेन ।
6.022.06 अच्युता चिद्वीळिता स्वोजो रुजो वि दृळ्हा धृषता विरप्शिन् ॥
6.022.07 तं वो धिया नव्यस्या शविष्ठं प्रत्नं प्रत्नवत्परितंसयध्यै ।
6.022.07 स नो वक्षदनिमानः सुवह्मेन्द्रो विश्वान्यति दुर्गहाणि ॥
6.022.08 आ जनाय द्रुह्वणे पार्थिवानि दिव्यानि दीपयोऽन्तरिक्षा ।
6.022.08 तपा वृषन्विश्वतः शोचिषा तान्ब्रह्मद्विषे शोचय क्षामपश्च ॥
6.022.09 भुवो जनस्य दिव्यस्य राजा पार्थिवस्य जगतस्त्वेषसंदृक् ।
6.022.09 धिष्व वज्रं दक्षिण इन्द्र हस्ते विश्वा अजुर्य दयसे वि मायाः ॥
6.022.10 आ संयतमिन्द्र णः स्वस्तिं शत्रुतूर्याय बृहतीममृध्राम् ।
6.022.10 यया दासान्यार्याणि वृत्रा करो वज्रिन्सुतुका नाहुषाणि ॥
6.022.11 स नो नियुद्भिः पुरुहूत वेधो विश्ववाराभिरा गहि प्रयज्यो ।
6.022.11 न या अदेवो वरते न देव आभिर्याहि तूयमा मद्र्यद्रिक् ॥

6.023.01 सुत इत्त्वं निमिश्ल इन्द्र सोमे स्तोमे ब्रह्मणि शस्यमान उक्थे ।
6.023.01 यद्वा युक्ताभ्यां मघवन्हरिभ्यां बिभ्रद्वज्रं बाह्वोरिन्द्र यासि ॥
6.023.02 यद्वा दिवि पार्ये सुष्विमिन्द्र वृत्रहत्येऽवसि शूरसातौ ।
6.023.02 यद्वा दक्षस्य बिभ्युषो अबिभ्यदरन्धयः शर्धत इन्द्र दस्यून् ॥
6.023.03 पाता सुतमिन्द्रो अस्तु सोमं प्रणेनीरुग्रो जरितारमूती ।
6.023.03 कर्ता वीराय सुष्वय उ लोकं दाता वसु स्तुवते कीरये चित् ॥
6.023.04 गन्तेयान्ति सवना हरिभ्यां बभ्रिर्वज्रं पपिः सोमं ददिर्गाः ।
6.023.04 कर्ता वीरं नर्यं सर्ववीरं श्रोता हवं गृणत स्तोमवाहाः ॥
6.023.05 अस्मै वयं यद्वावान तद्विविष्म इन्द्राय यो नः प्रदिवो अपस्कः ।
6.023.05 सुते सोमे स्तुमसि शंसदुक्थेन्द्राय ब्रह्म वर्धनं यथासत् ॥
6.023.06 ब्रह्माणि हि चकृषे वर्धनानि तावत्त इन्द्र मतिभिर्विविष्मः ।
6.023.06 सुते सोमे सुतपाः शन्तमानि राण्ड्या क्रियास्म वक्षणानि यज्ञैः ॥
6.023.07 स नो बोधि पुरोळाशं रराणः पिबा तु सोमं गोऋजीकमिन्द्र ।
6.023.07 एदं बर्हिर्यजमानस्य सीदोरुं कृधि त्वायत उ लोकम् ॥
6.023.08 स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु ।
6.023.08 प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥
6.023.09 तं वः सखायः सं यथा सुतेषु सोमेभिरीं पृणता भोजमिन्द्रम् ।
6.023.09 कुवित्तस्मा असति नो भराय न सुष्विमिन्द्रोऽवसे मृधाति ॥
6.023.10 एवेदिन्द्रः सुते अस्तावि सोमे भरद्वाजेषु क्षयदिन्मघोनः ।
6.023.10 असद्यथा जरित्र उत सूरिरिन्द्रो रायो विश्ववारस्य दाता ॥

6.024.01 वृषा मद इन्द्रे श्लोक उक्था सचा सोमेषु सुतपा ऋजीषी ।
6.024.01 अर्चत्र्यो मघवा नृभ्य उक्थैर्द्युक्षो राजा गिरामक्षितोतिः ॥
6.024.02 ततुरिर्वीरो नर्यो विचेताः श्रोता हवं गृणत उर्व्यूतिः ।
6.024.02 वसुः शंसो नरां कारुधाया वाजी स्तुतो विदथे दाति वाजम् ॥
6.024.03 अक्षो न चक्र्योः शूर बृहन्प्र ते मह्ना रिरिचे रोदस्योः ।
6.024.03 वृक्षस्य नु ते पुरुहूत वया व्यूतयो रुरुहुरिन्द्र पूर्वीः ॥
6.024.04 शचीवतस्ते पुरुशाक शाका गवामिव स्रुतयः संचरणीः ।
6.024.04 वत्सानां न तन्तयस्त इन्द्र दामन्वन्तो अदामानः सुदामन् ॥
6.024.05 अन्यदद्य कर्वरमन्यदु श्वोऽसच्च सन्मुहुराचक्रिरिन्द्रः ।
6.024.05 मित्रो नो अत्र वरुणश्च पूषार्यो वशस्य पर्येतास्ति ॥
6.024.06 वि त्वदापो न पर्वतस्य पृष्ठादुक्थेभिरिन्द्रानयन्त यज्ञैः ।
6.024.06 तं त्वाभिः सुष्टुतिभिर्वाजयन्त आजिं न जग्मुर्गिर्वाहो अश्वाः ॥
6.024.07 न यं जरन्ति शरदो न मासा न द्याव इन्द्रमवकर्शयन्ति ।
6.024.07 वृद्धस्य चिद्वर्धतामस्य तनू स्तोमेभिरुक्थैश्च शस्यमाना ॥
6.024.08 न वीळवे नमते न स्थिराय न शर्धते दस्युजूताय स्तवान् ।
6.024.08 अज्रा इन्द्रस्य गिरयश्चिदृष्वा गम्भीरे चिद्भवति गाधमस्मै ॥
6.024.09 गम्भीरेण न उरुणामत्रिन्प्रेषो यन्धि सुतपावन्वाजान् ।
6.024.09 स्था ऊ षु ऊर्ध्व ऊती अरिषण्यन्नक्तोर्व्युष्टौ परितक्म्यायाम् ॥
6.024.10 सचस्व नायमवसे अभीक इतो वा तमिन्द्र पाहि रिषः ।
6.024.10 अमा चैनमरण्ये पाहि रिषो मदेम शतहिमाः सुवीराः ॥

6.025.01 या त ऊतिरवमा या परमा या मध्यमेन्द्र शुष्मिन्नस्ति ।
6.025.01 ताभिरू षु वृत्रहत्येऽवीर्न एभिश्च वाजैर्महान्न उग्र ॥
6.025.02 आभि स्पृधो मिथतीररिषण्यन्नमित्रस्य व्यथया मन्युमिन्द्र ।
6.025.02 आभिर्विश्वा अभियुजो विषूचीरार्याय विशोऽव तारीर्दासीः ॥
6.025.03 इन्द्र जामय उत येऽजामयोऽर्वाचीनासो वनुषो युयुज्रे ।
6.025.03 त्वमेषां विथुरा शवांसि जहि वृष्ण्यानि कृणुही पराचः ॥
6.025.04 शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते ।
6.025.04 तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥
6.025.05 नहि त्वा शूरो न तुरो न धृष्णुर्न त्वा योधो मन्यमानो युयोध ।
6.025.05 इन्द्र नकिष्ट्वा प्रत्यस्त्येषां विश्वा जातान्यभ्यसि तानि ॥
6.025.06 स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते ।
6.025.06 वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥
6.025.07 अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता ।
6.025.07 अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥
6.025.08 अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वमनु वृत्रहत्ये ।
6.025.08 अनु क्षत्रमनु सहो यजत्रेन्द्र देवेभिरनु ते नृषह्ये ॥
6.025.09 एवा न स्पृधः समजा समत्स्विन्द्र रारन्धि मिथतीरदेवीः ।
6.025.09 विद्याम वस्तोरवसा गृणन्तो भरद्वाजा उत त इन्द्र नूनम् ॥

6.026.01 श्रुधी न इन्द्र ह्वयामसि त्वा महो वाजस्य सातौ वावृषाणाः ।
6.026.01 सं यद्विशोऽयन्त शूरसाता उग्रं नोऽवः पार्ये अहन्दाः ॥
6.026.02 त्वां वाजी हवते वाजिनेयो महो वाजस्य गध्यस्य सातौ ।
6.026.02 त्वां वृत्रेष्विन्द्र सत्पतिं तरुत्रं त्वां चष्टे मुष्टिहा गोषु युध्यन् ॥
6.026.03 त्वं कविं चोदयोऽर्कसातौ त्वं कुत्साय शुष्णं दाशुषे वर्क् ।
6.026.03 त्वं शिरो अमर्मणः पराहन्नतिथिग्वाय शंस्यं करिष्यन् ॥
6.026.04 त्वं रथं प्र भरो योधमृष्वमावो युध्यन्तं वृषभं दशद्युम् ।
6.026.04 त्वं तुग्रं वेतसवे सचाहन्त्वं तुजिं गृणन्तमिन्द्र तूतोः ॥
6.026.05 त्वं तदुक्थमिन्द्र बर्हणा कः प्र यच्छता सहस्रा शूर दर्षि ।
6.026.05 अव गिरेर्दासं शम्बरं हन्प्रावो दिवोदासं चित्राभिरूती ॥
6.026.06 त्वं श्रद्धाभिर्मन्दसानः सोमैर्दभीतये चुमुरिमिन्द्र सिष्वप् ।
6.026.06 त्वं रजिं पिठीनसे दशस्यन्षष्टिं सहस्रा शच्या सचाहन् ॥
6.026.07 अहं चन तत्सूरिभिरानश्यां तव ज्याय इन्द्र सुम्नमोजः ।
6.026.07 त्वया यत्स्तवन्ते सधवीर वीरास्त्रिवरूथेन नहुषा शविष्ठ ॥
6.026.08 वयं ते अस्यामिन्द्र द्युम्नहूतौ सखायः स्याम महिन प्रेष्ठाः ।
6.026.08 प्रातर्दनिः क्षत्रश्रीरस्तु श्रेष्ठो घने वृत्राणां सनये धनानाम् ॥

6.027.01 किमस्य मदे किं वस्य पीताविन्द्रः किमस्य सख्ये चकार ।
6.027.01 रणा वा ये निषदि किं ते अस्य पुरा विविद्रे किमु नूतनासः ॥
6.027.02 सदस्य मदे सद्वस्य पीताविन्द्रः सदस्य सख्ये चकार ।
6.027.02 रणा वा ये निषदि सत्ते अस्य पुरा विविद्रे सदु नूतनासः ॥
6.027.03 नहि नु ते महिमनः समस्य न मघवन्मघवत्त्वस्य विद्म ।
6.027.03 न राधसोराधसो नूतनस्येन्द्र नकिर्ददृश इन्द्रियं ते ॥
6.027.04 एतत्त्यत्त इन्द्रियमचेति येनावधीर्वरशिखस्य शेषः ।
6.027.04 वज्रस्य यत्ते निहतस्य शुष्मात्स्वनाच्चिदिन्द्र परमो ददार ॥
6.027.05 वधीदिन्द्रो वरशिखस्य शेषोऽभ्यावर्तिने चायमानाय शिक्षन् ।
6.027.05 वृचीवतो यद्धरियूपीयायां हन्पूर्वे अर्धे भियसापरो दर्त् ॥
6.027.06 त्रिंशच्छतं वर्मिण इन्द्र साकं यव्यावत्यां पुरुहूत श्रवस्या ।
6.027.06 वृचीवन्तः शरवे पत्यमानाः पात्रा भिन्दाना न्यर्थान्यायन् ॥
6.027.07 यस्य गावावरुषा सूयवस्यू अन्तरू षु चरतो रेरिहाणा ।
6.027.07 स सृञ्जयाय तुर्वशं परादाद्वृचीवतो दैववाताय शिक्षन् ॥
6.027.08 द्वयां अग्ने रथिनो विंशतिं गा वधूमतो मघवा मह्यं सम्राट् ।
6.027.08 अभ्यावर्ती चायमानो ददाति दूणाशेयं दक्षिणा पार्थवानाम् ॥

6.028.01 आ गावो अग्मन्नुत भद्रमक्रन्सीदन्तु गोष्ठे रणयन्त्वस्मे ।
6.028.01 प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥
6.028.02 इन्द्रो यज्वने पृणते च शिक्षत्युपेद्ददाति न स्वं मुषायति ।
6.028.02 भूयोभूयो रयिमिदस्य वर्धयन्नभिन्ने खिल्ये नि दधाति देवयुम् ॥
6.028.03 न ता नशन्ति न दभाति तस्करो नासामामित्रो व्यथिरा दधर्षति ।
6.028.03 देवांश्च याभिर्यजते ददाति च ज्योगित्ताभिः सचते गोपतिः सह ॥
6.028.04 न ता अर्वा रेणुककाटो अश्नुते न संस्कृतत्रमुप यन्ति ता अभि ।
6.028.04 उरुगायमभयं तस्य ता अनु गावो मर्तस्य वि चरन्ति यज्वनः ॥
6.028.05 गावो भगो गाव इन्द्रो मे अच्छान्गावः सोमस्य प्रथमस्य भक्षः ।
6.028.05 इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥
6.028.06 यूयं गावो मेदयथा कृशं चिदश्रीरं चित्कृणुथा सुप्रतीकम् ।
6.028.06 भद्रं गृहं कृणुथ भद्रवाचो बृहद्वो वय उच्यते सभासु ॥
6.028.07 प्रजावतीः सूयवसं रिशन्तीः शुद्धा अपः सुप्रपाणे पिबन्तीः ।
6.028.07 मा व स्तेन ईशत माघशंसः परि वो हेती रुद्रस्य वृज्याः ॥
6.028.08 उपेदमुपपर्चनमासु गोषूप पृच्यताम् ।
6.028.08 उप ऋषभस्य रेतस्युपेन्द्र तव वीर्ये ॥

6.029.01 इन्द्रं वो नरः सख्याय सेपुर्महो यन्तः सुमतये चकानाः ।
6.029.01 महो हि दाता वज्रहस्तो अस्ति महामु रण्वमवसे यजध्वम् ॥
6.029.02 आ यस्मिन्हस्ते नर्या मिमिक्षुरा रथे हिरण्यये रथेष्ठाः ।
6.029.02 आ रश्मयो गभस्त्यो स्थूरयोराध्वन्नश्वासो वृषणो युजानाः ॥
6.029.03 श्रिये ते पादा दुव आ मिमिक्षुर्धृष्णुर्वज्री शवसा दक्षिणावान् ।
6.029.03 वसानो अत्कं सुरभिं दृशे कं स्वर्ण नृतविषिरो बभूथ ॥
6.029.04 स सोम आमिश्लतमः सुतो भूद्यस्मिन्पक्तिः पच्यते सन्ति धानाः ।
6.029.04 इन्द्रं नर स्तुवन्तो ब्रह्मकारा उक्था शंसन्तो देववाततमाः ॥
6.029.05 न ते अन्तः शवसो धाय्यस्य वि तु बाबधे रोदसी महित्वा ।
6.029.05 आ ता सूरिः पृणति तूतुजानो यूथेवाप्सु समीजमान ऊती ॥
6.029.06 एवेदिन्द्रः सुहव ऋष्वो अस्तूती अनूती हिरिशिप्रः सत्वा ।
6.029.06 एवा हि जातो असमात्योजाः पुरू च वृत्रा हनति नि दस्यून् ॥

6.030.01 भूय इद्वावृधे वीर्यायं एको अजुर्यो दयते वसूनि ।
6.030.01 प्र रिरिचे दिव इन्द्रः पृथिव्या अर्धमिदस्य प्रति रोदसी उभे ॥
6.030.02 अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति ।
6.030.02 दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥
6.030.03 अद्या चिन्नू चित्तदपो नदीनां यदाभ्यो अरदो गातुमिन्द्र ।
6.030.03 नि पर्वता अद्मसदो न सेदुस्त्वया दृळ्हानि सुक्रतो रजांसि ॥
6.030.04 सत्यमित्तन्न त्वावां अन्यो अस्तीन्द्र देवो न मर्त्यो ज्यायान् ।
6.030.04 अहन्नहिं परिशयानमर्णोऽवासृजो अपो अच्छा समुद्रम् ॥
6.030.05 त्वमपो वि दुरो विषूचीरिन्द्र दृळ्हमरुजः पर्वतस्य ।
6.030.05 राजाभवो जगतश्चर्षणीनां साकं सूर्यं जनयन्द्यामुषासम् ॥

6.031.01 अभूरेको रयिपते रयीणामा हस्तयोरधिथा इन्द्र कृष्टीः ।
6.031.01 वि तोके अप्सु तनये च सूरेऽवोचन्त चर्षणयो विवाचः ॥
6.031.02 त्वद्भियेन्द्र पार्थिवानि विश्वाच्युता चिच्च्यावयन्ते रजांसि ।
6.031.02 द्यावाक्षामा पर्वतासो वनानि विश्वं दृळ्हं भयते अज्मन्ना ते ॥
6.031.03 त्वं कुत्सेनाभि शुष्णमिन्द्राशुषं युध्य कुयवं गविष्टौ ।
6.031.03 दश प्रपित्वे अध सूर्यस्य मुषायश्चक्रमविवे रपांसि ॥
6.031.04 त्वं शतान्यव शम्बरस्य पुरो जघन्थाप्रतीनि दस्योः ।
6.031.04 अशिक्षो यत्र शच्या शचीवो दिवोदासाय सुन्वते सुतक्रे भरद्वाजाय गृणते वसूनि ॥
6.031.05 स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम् ।
6.031.05 याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥

6.032.01 अपूर्व्या पुरुतमान्यस्मै महे वीराय तवसे तुराय ।
6.032.01 विरप्शिने वज्रिणे शन्तमानि वचांस्यासा स्थविराय तक्षम् ॥
6.032.02 स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः ।
6.032.02 स्वाधीभिरृक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥
6.032.03 स वह्निभिरृक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय ।
6.032.03 पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥
6.032.04 स नीव्याभिर्जरितारमच्छा महो वाजेभिर्महद्भिश्च शुष्मैः ।
6.032.04 पुरुवीराभिर्वृषभ क्षितीनामा गिर्वणः सुविताय प्र याहि ॥
6.032.05 स सर्गेण शवसा तक्तो अत्यैरप इन्द्रो दक्षिणतस्तुराषाट् ।
6.032.05 इत्था सृजाना अनपावृदर्थं दिवेदिवे विविषुरप्रमृष्यम् ॥

6.033.01 य ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् ।
6.033.01 सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥
6.033.02 त्वां हीन्द्रावसे विवाचो हवन्ते चर्षणयः शूरसातौ ।
6.033.02 त्वं विप्रेभिर्वि पणींरशायस्त्वोत इत्सनिता वाजमर्वा ॥
6.033.03 त्वं तां इन्द्रोभयां अमित्रान्दासा वृत्राण्यार्या च शूर ।
6.033.03 वधीर्वनेव सुधितेभिरत्कैरा पृत्सु दर्षि नृणां नृतम ॥
6.033.04 स त्वं न इन्द्राकवाभिरूती सखा विश्वायुरविता वृधे भूः ।
6.033.04 स्वर्षाता यद्ध्वयामसि त्वा युध्यन्तो नेमधिता पृत्सु शूर ॥
6.033.05 नूनं न इन्द्रापराय च स्या भवा मृळीक उत नो अभिष्टौ ।
6.033.05 इत्था गृणन्तो महिनस्य शर्मन्दिवि ष्याम पार्ये गोषतमाः ॥

6.034.01 सं च त्वे जग्मुर्गिर इन्द्र पूर्वीर्वि च त्वद्यन्ति विभ्वो मनीषाः ।
6.034.01 पुरा नूनं च स्तुतय ऋषीणां पस्पृध्र इन्द्रे अध्युक्थार्का ॥
6.034.02 पुरुहूतो यः पुरुगूर्त ऋभ्वां एकः पुरुप्रशस्तो अस्ति यज्ञैः ।
6.034.02 रथो न महे शवसे युजानोऽस्माभिरिन्द्रो अनुमाद्यो भूत् ॥
6.034.03 न यं हिंसन्ति धीतयो न वाणीरिन्द्रं नक्षन्तीदभि वर्धयन्तीः ।
6.034.03 यदि स्तोतारः शतं यत्सहस्रं गृणन्ति गिर्वणसं शं तदस्मै ॥
6.034.04 अस्मा एतद्दिव्यर्चेव मासा मिमिक्ष इन्द्रे न्ययामि सोमः ।
6.034.04 जनं न धन्वन्नभि सं यदापः सत्रा वावृधुर्हवनानि यज्ञैः ॥
6.034.05 अस्मा एतन्मह्याङ्गूषमस्मा इन्द्राय स्तोत्रं मतिभिरवाचि ।
6.034.05 असद्यथा महति वृत्रतूर्य इन्द्रो विश्वायुरविता वृधश्च ॥

6.035.01 कदा भुवन्रथक्षयाणि ब्रह्म कदा स्तोत्रे सहस्रपोष्यं दाः ।
6.035.01 कदा स्तोमं वासयोऽस्य राया कदा धियः करसि वाजरत्नाः ॥
6.035.02 कर्हि स्वित्तदिन्द्र यन्नृभिर्नॄन्वीरैर्वीरान्नीळयासे जयाजीन् ।
6.035.02 त्रिधातु गा अधि जयासि गोष्विन्द्र द्युम्नं स्वर्वद्धेह्यस्मे ॥
6.035.03 कर्हि स्वित्तदिन्द्र यज्जरित्रे विश्वप्सु ब्रह्म कृणवः शविष्ठ ।
6.035.03 कदा धियो न नियुतो युवासे कदा गोमघा हवनानि गच्छाः ॥
6.035.04 स गोमघा जरित्रे अश्वश्चन्द्रा वाजश्रवसो अधि धेहि पृक्षः ।
6.035.04 पीपिहीषः सुदुघामिन्द्र धेनुं भरद्वाजेषु सुरुचो रुरुच्याः ॥
6.035.05 तमा नूनं वृजनमन्यथा चिच्छूरो यच्छक्र वि दुरो गृणीषे ।
6.035.05 मा निररं शुक्रदुघस्य धेनोराङ्गिरसान्ब्रह्मणा विप्र जिन्व ॥

6.036.01 सत्रा मदासस्तव विश्वजन्याः सत्रा रायोऽध ये पार्थिवासः ।
6.036.01 सत्रा वाजानामभवो विभक्ता यद्देवेषु धारयथा असुर्यम् ॥
6.036.02 अनु प्र येजे जन ओजो अस्य सत्रा दधिरे अनु वीर्याय ।
6.036.02 स्यूमगृभे दुधयेऽर्वते च क्रतुं वृञ्जन्त्यपि वृत्रहत्ये ॥
6.036.03 तं सध्रीचीरूतयो वृष्ण्यानि पौंस्यानि नियुतः सश्चुरिन्द्रम् ।
6.036.03 समुद्रं न सिन्धव उक्थशुष्मा उरुव्यचसं गिर आ विशन्ति ॥
6.036.04 स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः ।
6.036.04 पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥
6.036.05 स तु श्रुधि श्रुत्या यो दुवोयुर्द्यौर्न भूमाभि रायो अर्यः ।
6.036.05 असो यथा नः शवसा चकानो युगेयुगे वयसा चेकितानः ॥

6.037.01 अर्वाग्रथं विश्ववारं त उग्रेन्द्र युक्तासो हरयो वहन्तु ।
6.037.01 कीरिश्चिद्धि त्वा हवते स्वर्वानृधीमहि सधमादस्ते अद्य ॥
6.037.02 प्रो द्रोणे हरयः कर्माग्मन्पुनानास ऋज्यन्तो अभूवन् ।
6.037.02 इन्द्रो नो अस्य पूर्व्यः पपीयाद्द्युक्षो मदस्य सोम्यस्य राजा ॥
6.037.03 आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः ।
6.037.03 अभि श्रव ऋज्यन्तो वहेयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥
6.037.04 वरिष्ठो अस्य दक्षिणामियर्तीन्द्रो मघोनां तुविकूर्मितमः ।
6.037.04 यया वज्रिवः परियास्यंहो मघा च धृष्णो दयसे वि सूरीन् ॥
6.037.05 इन्द्रो वाजस्य स्थविरस्य दातेन्द्रो गीर्भिर्वर्धतां वृद्धमहाः ।
6.037.05 इन्द्रो वृत्रं हनिष्ठो अस्तु सत्वा ता सूरिः पृणति तूतुजानः ॥

6.038.01 अपादित उदु नश्चित्रतमो महीं भर्षद्द्युमतीमिन्द्रहूतिम् ।
6.038.01 पन्यसीं धीतिं दैव्यस्य यामञ्जनस्य रातिं वनते सुदानुः ॥
6.038.02 दूराच्चिदा वसतो अस्य कर्णा घोषादिन्द्रस्य तन्यति ब्रुवाणः ।
6.038.02 एयमेनं देवहूतिर्ववृत्यान्मद्र्यगिन्द्रमियमृच्यमाना ॥
6.038.03 तं वो धिया परमया पुराजामजरमिन्द्रमभ्यनूष्यर्कैः ।
6.038.03 ब्रह्मा च गिरो दधिरे समस्मिन्महांश्च स्तोमो अधि वर्धदिन्द्रे ॥
6.038.04 वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म ।
6.038.04 वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥
6.038.05 एवा जज्ञानं सहसे असामि वावृधानं राधसे च श्रुताय ।
6.038.05 महामुग्रमवसे विप्र नूनमा विवासेम वृत्रतूर्येषु ॥

6.039.01 मन्द्रस्य कवेर्दिव्यस्य वह्नेर्विप्रमन्मनो वचनस्य मध्वः ।
6.039.01 अपा नस्तस्य सचनस्य देवेषो युवस्व गृणते गोअग्राः ॥
6.039.02 अयमुशानः पर्यद्रिमुस्रा ऋतधीतिभिरृतयुग्युजानः ।
6.039.02 रुजदरुग्णं वि वलस्य सानुं पणींर्वचोभिरभि योधदिन्द्रः ॥
6.039.03 अयं द्योतयदद्युतो व्यक्तून्दोषा वस्तोः शरद इन्दुरिन्द्र ।
6.039.03 इमं केतुमदधुर्नू चिदह्नां शुचिजन्मन उषसश्चकार ॥
6.039.04 अयं रोचयदरुचो रुचानोऽयं वासयद्व्यृतेन पूर्वीः ।
6.039.04 अयमीयत ऋतयुग्भिरश्वैः स्वर्विदा नाभिना चर्षणिप्राः ॥
6.039.05 नू गृणानो गृणते प्रत्न राजन्निषः पिन्व वसुदेयाय पूर्वीः ।
6.039.05 अप ओषधीरविषा वनानि गा अर्वतो नॄनृचसे रिरीहि ॥

6.040.01 इन्द्र पिब तुभ्यं सुतो मदायाव स्य हरी वि मुचा सखाया ।
6.040.01 उत प्र गाय गण आ निषद्याथा यज्ञाय गृणते वयो धाः ॥
6.040.02 अस्य पिब यस्य जज्ञान इन्द्र मदाय क्रत्वे अपिबो विरप्शिन् ।
6.040.02 तमु ते गावो नर आपो अद्रिरिन्दुं समह्यन्पीतये समस्मै ॥
6.040.03 समिद्धे अग्नौ सुत इन्द्र सोम आ त्वा वहन्तु हरयो वहिष्ठाः ।
6.040.03 त्वायता मनसा जोहवीमीन्द्रा याहि सुविताय महे नः ॥
6.040.04 आ याहि शश्वदुशता ययाथेन्द्र महा मनसा सोमपेयम् ।
6.040.04 उप ब्रह्माणि शृणव इमा नोऽथा ते यज्ञस्तन्वे वयो धात् ॥
6.040.05 यदिन्द्र दिवि पार्ये यदृधग्यद्वा स्वे सदने यत्र वासि ।
6.040.05 अतो नो यज्ञमवसे नियुत्वान्सजोषाः पाहि गिर्वणो मरुद्भिः ॥

6.041.01 अहेळमान उप याहि यज्ञं तुभ्यं पवन्त इन्दवः सुतासः ।
6.041.01 गावो न वज्रिन्स्वमोको अच्छेन्द्रा गहि प्रथमो यज्ञियानाम् ॥
6.041.02 या ते काकुत्सुकृता या वरिष्ठा यया शश्वत्पिबसि मध्व ऊर्मिम् ।
6.041.02 तया पाहि प्र ते अध्वर्युरस्थात्सं ते वज्रो वर्ततामिन्द्र गव्युः ॥
6.041.03 एष द्रप्सो वृषभो विश्वरूप इन्द्राय वृष्णे समकारि सोमः ।
6.041.03 एतं पिब हरिव स्थातरुग्र यस्येशिषे प्रदिवि यस्ते अन्नम् ॥
6.041.04 सुतः सोमो असुतादिन्द्र वस्यानयं श्रेयाञ्चिकितुषे रणाय ।
6.041.04 एतं तितिर्व उप याहि यज्ञं तेन विश्वास्तविषीरा पृणस्व ॥
6.041.05 ह्वयामसि त्वेन्द्र याह्यर्वाङरं ते सोमस्तन्वे भवाति ।
6.041.05 शतक्रतो मादयस्वा सुतेषु प्रास्मां अव पृतनासु प्र विक्षु ॥

6.042.01 प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।
6.042.01 अरङ्गमाय जग्मयेऽपश्चाद्दघ्वने नरे ॥
6.042.02 एमेनं प्रत्येतन सोमेभिः सोमपातमम् ।
6.042.02 अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ॥
6.042.03 यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।
6.042.03 वेदा विश्वस्य मेधिरो धृषत्तंतमिदेषते ॥
6.042.04 अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतम् ।
6.042.04 कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्परत् ॥

6.043.01 यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयः ।
6.043.01 अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.02 यस्य तीव्रसुतं मदं मध्यमन्तं च रक्षसे ।
6.043.02 अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.03 यस्य गा अन्तरश्मनो मदे दृळ्हा अवासृजः ।
6.043.03 अयं स सोम इन्द्र ते सुतः पिब ॥
6.043.04 यस्य मन्दानो अन्धसो माघोनं दधिषे शवः ।
6.043.04 अयं स सोम इन्द्र ते सुतः पिब ॥

6.044.01 यो रयिवो रयिन्तमो यो द्युम्नैर्द्युम्नवत्तमः ।
6.044.01 सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
6.044.02 यः शग्मस्तुविशग्म ते रायो दामा मतीनाम् ।
6.044.02 सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
6.044.03 येन वृद्धो न शवसा तुरो न स्वाभिरूतिभिः ।
6.044.03 सोमः सुतः स इन्द्र तेऽस्ति स्वधापते मदः ॥
6.044.04 त्यमु वो अप्रहणं गृणीषे शवसस्पतिम् ।
6.044.04 इन्द्रं विश्वासाहं नरं मंहिष्ठं विश्वचर्षणिम् ॥
6.044.05 यं वर्धयन्तीद्गिरः पतिं तुरस्य राधसः ।
6.044.05 तमिन्न्वस्य रोदसी देवी शुष्मं सपर्यतः ॥
6.044.06 तद्व उक्थस्य बर्हणेन्द्रायोपस्तृणीषणि ।
6.044.06 विपो न यस्योतयो वि यद्रोहन्ति सक्षितः ॥
6.044.07 अविदद्दक्षं मित्रो नवीयान्पपानो देवेभ्यो वस्यो अचैत् ।
6.044.07 ससवान्स्तौलाभिर्धौतरीभिरुरुष्या पायुरभवत्सखिभ्यः ॥
6.044.08 ऋतस्य पथि वेधा अपायि श्रिये मनांसि देवासो अक्रन् ।
6.044.08 दधानो नाम महो वचोभिर्वपुर्दृशये वेन्यो व्यावः ॥
6.044.09 द्युमत्तमं दक्षं धेह्यस्मे सेधा जनानां पूर्वीररातीः ।
6.044.09 वर्षीयो वयः कृणुहि शचीभिर्धनस्य सातावस्मां अविड्ढि ॥
6.044.10 इन्द्र तुभ्यमिन्मघवन्नभूम वयं दात्रे हरिवो मा वि वेनः ।
6.044.10 नकिरापिर्ददृशे मर्त्यत्रा किमङ्ग रध्रचोदनं त्वाहुः ॥
6.044.11 मा जस्वने वृषभ नो ररीथा मा ते रेवतः सख्ये रिषाम ।
6.044.11 पूर्वीष्ट इन्द्र निष्षिधो जनेषु जह्यसुष्वीन्प्र वृहापृणतः ॥
6.044.12 उदभ्राणीव स्तनयन्नियर्तीन्द्रो राधांस्यश्व्यानि गव्या ।
6.044.12 त्वमसि प्रदिवः कारुधाया मा त्वादामान आ दभन्मघोनः ॥
6.044.13 अध्वर्यो वीर प्र महे सुतानामिन्द्राय भर स ह्यस्य राजा ।
6.044.13 यः पूर्व्याभिरुत नूतनाभिर्गीर्भिर्वावृधे गृणतामृषीणाम् ॥
6.044.14 अस्य मदे पुरु वर्पांसि विद्वानिन्द्रो वृत्राण्यप्रती जघान ।
6.044.14 तमु प्र होषि मधुमन्तमस्मै सोमं वीराय शिप्रिणे पिबध्यै ॥
6.044.15 पाता सुतमिन्द्रो अस्तु सोमं हन्ता वृत्रं वज्रेण मन्दसानः ।
6.044.15 गन्ता यज्ञं परावतश्चिदच्छा वसुर्धीनामविता कारुधायाः ॥
6.044.16 इदं त्यत्पात्रमिन्द्रपानमिन्द्रस्य प्रियममृतमपायि ।
6.044.16 मत्सद्यथा सौमनसाय देवं व्यस्मद्द्वेषो युयवद्व्यंहः ॥
6.044.17 एना मन्दानो जहि शूर शत्रूञ्जामिमजामिं मघवन्नमित्रान् ।
6.044.17 अभिषेणां अभ्यादेदिशानान्पराच इन्द्र प्र मृणा जही च ॥
6.044.18 आसु ष्मा णो मघवन्निन्द्र पृत्स्वस्मभ्यं महि वरिवः सुगं कः ।
6.044.18 अपां तोकस्य तनयस्य जेष इन्द्र सूरीन्कृणुहि स्मा नो अर्धम् ॥
6.044.19 आ त्वा हरयो वृषणो युजाना वृषरथासो वृषरश्मयोऽत्याः ।
6.044.19 अस्मत्राञ्चो वृषणो वज्रवाहो वृष्णे मदाय सुयुजो वहन्तु ॥
6.044.20 आ ते वृषन्वृषणो द्रोणमस्थुर्घृतप्रुषो नोर्मयो मदन्तः ।
6.044.20 इन्द्र प्र तुभ्यं वृषभिः सुतानां वृष्णे भरन्ति वृषभाय सोमम् ॥
6.044.21 वृषासि दिवो वृषभः पृथिव्या वृषा सिन्धूनां वृषभ स्तियानाम् ।
6.044.21 वृष्णे त इन्दुर्वृषभ पीपाय स्वादू रसो मधुपेयो वराय ॥
6.044.22 अयं देवः सहसा जायमान इन्द्रेण युजा पणिमस्तभायत् ।
6.044.22 अयं स्वस्य पितुरायुधानीन्दुरमुष्णादशिवस्य मायाः ॥
6.044.23 अयमकृणोदुषसः सुपत्नीरयं सूर्ये अदधाज्ज्योतिरन्तः ।
6.044.23 अयं त्रिधातु दिवि रोचनेषु त्रितेषु विन्ददमृतं निगूळ्हम् ॥
6.044.24 अयं द्यावापृथिवी वि ष्कभायदयं रथमयुनक्सप्तरश्मिम् ।
6.044.24 अयं गोषु शच्या पक्वमन्तः सोमो दाधार दशयन्त्रमुत्सम् ॥

6.045.01 य आनयत्परावतः सुनीती तुर्वशं यदुम् ।
6.045.01 इन्द्रः स नो युवा सखा ॥
6.045.02 अविप्रे चिद्वयो दधदनाशुना चिदर्वता ।
6.045.02 इन्द्रो जेता हितं धनम् ॥
6.045.03 महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
6.045.03 नास्य क्षीयन्त ऊतयः ॥
6.045.04 सखायो ब्रह्मवाहसेऽर्चत प्र च गायत ।
6.045.04 स हि नः प्रमतिर्मही ॥
6.045.05 त्वमेकस्य वृत्रहन्नविता द्वयोरसि ।
6.045.05 उतेदृशे यथा वयम् ॥
6.045.06 नयसीद्वति द्विषः कृणोष्युक्थशंसिनः ।
6.045.06 नृभिः सुवीर उच्यसे ॥
6.045.07 ब्रह्माणं ब्रह्मवाहसं गीर्भिः सखायमृग्मियम् ।
6.045.07 गां न दोहसे हुवे ॥
6.045.08 यस्य विश्वानि हस्तयोरूचुर्वसूनि नि द्विता ।
6.045.08 वीरस्य पृतनाषहः ॥
6.045.09 वि दृळ्हानि चिदद्रिवो जनानां शचीपते ।
6.045.09 वृह माया अनानत ॥
6.045.10 तमु त्वा सत्य सोमपा इन्द्र वाजानां पते ।
6.045.10 अहूमहि श्रवस्यवः ॥
6.045.11 तमु त्वा यः पुरासिथ यो वा नूनं हिते धने ।
6.045.11 हव्यः स श्रुधी हवम् ॥
6.045.12 धीभिरर्वद्भिरर्वतो वाजां इन्द्र श्रवाय्यान् ।
6.045.12 त्वया जेष्म हितं धनम् ॥
6.045.13 अभूरु वीर गिर्वणो महां इन्द्र धने हिते ।
6.045.13 भरे वितन्तसाय्यः ॥
6.045.14 या त ऊतिरमित्रहन्मक्षूजवस्तमासति ।
6.045.14 तया नो हिनुही रथम् ॥
6.045.15 स रथेन रथीतमोऽस्माकेनाभियुग्वना ।
6.045.15 जेषि जिष्णो हितं धनम् ॥
6.045.16 य एक इत्तमु ष्टुहि कृष्टीनां विचर्षणिः ।
6.045.16 पतिर्जज्ञे वृषक्रतुः ॥
6.045.17 यो गृणतामिदासिथापिरूती शिवः सखा ।
6.045.17 स त्वं न इन्द्र मृळय ॥
6.045.18 धिष्व वज्रं गभस्त्यो रक्षोहत्याय वज्रिवः ।
6.045.18 सासहीष्ठा अभि स्पृधः ॥
6.045.19 प्रत्नं रयीणां युजं सखायं कीरिचोदनम् ।
6.045.19 ब्रह्मवाहस्तमं हुवे ॥
6.045.20 स हि विश्वानि पार्थिवां एको वसूनि पत्यते ।
6.045.20 गिर्वणस्तमो अध्रिगुः ॥
6.045.21 स नो नियुद्भिरा पृण कामं वाजेभिरश्विभिः ।
6.045.21 गोमद्भिर्गोपते धृषत् ॥
6.045.22 तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
6.045.22 शं यद्गवे न शाकिने ॥
6.045.23 न घा वसुर्नि यमते दानं वाजस्य गोमतः ।
6.045.23 यत्सीमुप श्रवद्गिरः ॥
6.045.24 कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।
6.045.24 शचीभिरप नो वरत् ॥
6.045.25 इमा उ त्वा शतक्रतोऽभि प्र णोनुवुर्गिरः ।
6.045.25 इन्द्र वत्सं न मातरः ॥
6.045.26 दूणाशं सख्यं तव गौरसि वीर गव्यते ।
6.045.26 अश्वो अश्वायते भव ॥
6.045.27 स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
6.045.27 न स्तोतारं निदे करः ॥
6.045.28 इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः ।
6.045.28 वत्सं गावो न धेनवः ॥
6.045.29 पुरूतमं पुरूणां स्तोतॄणां विवाचि ।
6.045.29 वाजेभिर्वाजयताम् ॥
6.045.30 अस्माकमिन्द्र भूतु ते स्तोमो वाहिष्ठो अन्तमः ।
6.045.30 अस्मान्राये महे हिनु ॥
6.045.31 अधि बृबुः पणीनां वर्षिष्ठे मूर्धन्नस्थात् ।
6.045.31 उरुः कक्षो न गाङ्ग्यः ॥
6.045.32 यस्य वायोरिव द्रवद्भद्रा रातिः सहस्रिणी ।
6.045.32 सद्यो दानाय मंहते ॥
6.045.33 तत्सु नो विश्वे अर्य आ सदा गृणन्ति कारवः ।
6.045.33 बृबुं सहस्रदातमं सूरिं सहस्रसातमम् ॥

6.046.01 त्वामिद्धि हवामहे साता वाजस्य कारवः ।
6.046.01 त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥
6.046.02 स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।
6.046.02 गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ॥
6.046.03 यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयम् ।
6.046.03 सहस्रमुष्क तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥
6.046.04 बाधसे जनान्वृषभेव मन्युना घृषौ मीळ्ह ऋचीषम ।
6.046.04 अस्माकं बोध्यविता महाधने तनूष्वप्सु सूर्ये ॥
6.046.05 इन्द्र ज्येष्ठं न आ भरं ओजिष्ठं पपुरि श्रवः ।
6.046.05 येनेमे चित्र वज्रहस्त रोदसी ओभे सुशिप्र प्राः ॥
6.046.06 त्वामुग्रमवसे चर्षणीसहं राजन्देवेषु हूमहे ।
6.046.06 विश्वा सु नो विथुरा पिब्दना वसोऽमित्रान्सुषहान्कृधि ॥
6.046.07 यदिन्द्र नाहुषीष्वां ओजो नृम्णं च कृष्टिषु ।
6.046.07 यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि पौंस्या ॥
6.046.08 यद्वा तृक्षौ मघवन्द्रुह्यावा जने यत्पूरौ कच्च वृष्ण्यम् ।
6.046.08 अस्मभ्यं तद्रिरीहि सं नृषाह्येऽमित्रान्पृत्सु तुर्वणे ॥
6.046.09 इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तिमत् ।
6.046.09 छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥
6.046.10 ये गव्यता मनसा शत्रुमादभुरभिप्रघ्नन्ति धृष्णुया ।
6.046.10 अध स्मा नो मघवन्निन्द्र गिर्वणस्तनूपा अन्तमो भव ॥
6.046.11 अध स्मा नो वृधे भवेन्द्र नायमवा युधि ।
6.046.11 यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥
6.046.12 यत्र शूरासस्तन्वो वितन्वते प्रिया शर्म पितॄणाम् ।
6.046.12 अध स्मा यच्छ तन्वे तने च छर्दिरचित्तं यावय द्वेषः ॥
6.046.13 यदिन्द्र सर्गे अर्वतश्चोदयासे महाधने ।
6.046.13 असमने अध्वनि वृजिने पथि श्येनां इव श्रवस्यतः ॥
6.046.14 सिन्धूंरिव प्रवण आशुया यतो यदि क्लोशमनु ष्वणि ।
6.046.14 आ ये वयो न वर्वृतत्यामिषि गृभीता बाह्वोर्गवि ॥

6.047.01 स्वादुष्किलायं मधुमां उतायं तीव्रः किलायं रसवां उतायम् ।
6.047.01 उतो न्वस्य पपिवांसमिन्द्रं न कश्चन सहत आहवेषु ॥
6.047.02 अयं स्वादुरिह मदिष्ठ आस यस्येन्द्रो वृत्रहत्ये ममाद ।
6.047.02 पुरूणि यश्च्यौत्ना शम्बरस्य वि नवतिं नव च देह्यो हन् ॥
6.047.03 अयं मे पीत उदियर्ति वाचमयं मनीषामुशतीमजीगः ।
6.047.03 अयं षळ् उर्वीरमिमीत धीरो न याभ्यो भुवनं कच्चनारे ॥
6.047.04 अयं स यो वरिमाणं पृथिव्या वर्ष्माणं दिवो अकृणोदयं सः ।
6.047.04 अयं पीयूषं तिसृषु प्रवत्सु सोमो दाधारोर्वन्तरिक्षम् ॥
6.047.05 अयं विदच्चित्रदृशीकमर्णः शुक्रसद्मनामुषसामनीके ।
6.047.05 अयं महान्महता स्कम्भनेनोद्द्यामस्तभ्नाद्वृषभो मरुत्वान् ॥
6.047.06 धृषत्पिब कलशे सोममिन्द्र वृत्रहा शूर समरे वसूनाम् ।
6.047.06 माध्यन्दिने सवन आ वृषस्व रयिस्थानो रयिमस्मासु धेहि ॥
6.047.07 इन्द्र प्र णः पुरएतेव पश्य प्र नो नय प्रतरं वस्यो अच्छ ।
6.047.07 भवा सुपारो अतिपारयो नो भवा सुनीतिरुत वामनीतिः ॥
6.047.08 उरुं नो लोकमनु नेषि विद्वान्स्वर्वज्ज्योतिरभयं स्वस्ति ।
6.047.08 ऋष्वा त इन्द्र स्थविरस्य बाहू उप स्थेयाम शरणा बृहन्ता ॥
6.047.09 वरिष्ठे न इन्द्र वन्धुरे धा वहिष्ठयोः शतावन्नश्वयोरा ।
6.047.09 इषमा वक्षीषां वर्षिष्ठां मा नस्तारीन्मघवन्रायो अर्यः ॥
6.047.10 इन्द्र मृळ मह्यं जीवातुमिच्छ चोदय धियमयसो न धाराम् ।
6.047.10 यत्किं चाहं त्वायुरिदं वदामि तज्जुषस्व कृधि मा देववन्तम् ॥
6.047.11 त्रातारमिन्द्रमवितारमिन्द्रं हवेहवे सुहवं शूरमिन्द्रम् ।
6.047.11 ह्वयामि शक्रं पुरुहूतमिन्द्रं स्वस्ति नो मघवा धात्विन्द्रः ॥
6.047.12 इन्द्रः सुत्रामा स्ववां अवोभिः सुमृळीको भवतु विश्ववेदाः ।
6.047.12 बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य पतयः स्याम ॥
6.047.13 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ।
6.047.13 स सुत्रामा स्ववां इन्द्रो अस्मे आराच्चिद्द्वेषः सनुतर्युयोतु ॥
6.047.14 अव त्वे इन्द्र प्रवतो नोर्मिर्गिरो ब्रह्माणि नियुतो धवन्ते ।
6.047.14 उरू न राधः सवना पुरूण्यपो गा वज्रिन्युवसे समिन्दून् ॥
6.047.15 क ईं स्तवत्कः पृणात्को यजाते यदुग्रमिन्मघवा विश्वहावेत् ।
6.047.15 पादाविव प्रहरन्नन्यमन्यं कृणोति पूर्वमपरं शचीभिः ॥
6.047.16 शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः ।
6.047.16 एधमानद्विळ् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥
6.047.17 परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिरेति ।
6.047.17 अनानुभूतीरवधून्वानः पूर्वीरिन्द्रः शरदस्तर्तरीति ॥
6.047.18 रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ।
6.047.18 इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दश ॥
6.047.19 युजानो हरिता रथे भूरि त्वष्टेह राजति ।
6.047.19 को विश्वाहा द्विषतः पक्ष आसत उतासीनेषु सूरिषु ॥
6.047.20 अगव्यूति क्षेत्रमागन्म देवा उर्वी सती भूमिरंहूरणाभूत् ।
6.047.20 बृहस्पते प्र चिकित्सा गविष्टावित्था सते जरित्र इन्द्र पन्थाम् ॥
6.047.21 दिवेदिवे सदृशीरन्यमर्धं कृष्णा असेधदप सद्मनो जाः ।
6.047.21 अहन्दासा वृषभो वस्नयन्तोदव्रजे वर्चिनं शम्बरं च ॥
6.047.22 प्रस्तोक इन्नु राधसस्त इन्द्र दश कोशयीर्दश वाजिनोऽदात् ।
6.047.22 दिवोदासादतिथिग्वस्य राधः शाम्बरं वसु प्रत्यग्रभीष्म ॥
6.047.23 दशाश्वान्दश कोशान्दश वस्त्राधिभोजना ।
6.047.23 दशो हिरण्यपिण्डान्दिवोदासादसानिषम् ॥
6.047.24 दश रथान्प्रष्टिमतः शतं गा अथर्वभ्यः ।
6.047.24 अश्वथः पायवेऽदात् ॥
6.047.25 महि राधो विश्वजन्यं दधानान्भरद्वाजान्सार्ञ्जयो अभ्ययष्ट ॥
6.047.26 वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः ।
6.047.26 गोभिः संनद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥
6.047.27 दिवस्पृथिव्याः पर्योज उद्भृतं वनस्पतिभ्यः पर्याभृतं सहः ।
6.047.27 अपामोज्मानं परि गोभिरावृतमिन्द्रस्य वज्रं हविषा रथं यज ॥
6.047.28 इन्द्रस्य वज्रो मरुतामनीकं मित्रस्य गर्भो वरुणस्य नाभिः ।
6.047.28 सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
6.047.29 उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् ।
6.047.29 स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥
6.047.30 आ क्रन्दय बलमोजो न आ धा नि ष्टनिहि दुरिता बाधमानः ।
6.047.30 अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिरसि वीळयस्व ॥
6.047.31 आमूरज प्रत्यावर्तयेमाः केतुमद्दुन्दुभिर्वावदीति ।
6.047.31 समश्वपर्णाश्चरन्ति नो नरोऽस्माकमिन्द्र रथिनो जयन्तु ॥

6.048.01 यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।
6.048.01 प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषम् ॥
6.048.02 ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।
6.048.02 भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनाम् ॥
6.048.03 वृषा ह्यग्ने अजरो महान्विभास्यर्चिषा ।
6.048.03 अजस्रेण शोचिषा शोशुचच्छुचे सुदीतिभिः सु दीदिहि ॥
6.048.04 महो देवान्यजसि यक्ष्यानुषक्तव क्रत्वोत दंसना ।
6.048.04 अर्वाचः सीं कृणुह्यग्नेऽवसे रास्व वाजोत वंस्व ॥
6.048.05 यमापो अद्रयो वना गर्भमृतस्य पिप्रति ।
6.048.05 सहसा यो मथितो जायते नृभिः पृथिव्या अधि सानवि ॥
6.048.06 आ यः पप्रौ भानुना रोदसी उभे धूमेन धावते दिवि ।
6.048.06 तिरस्तमो ददृश ऊर्म्यास्वा श्यावास्वरुषो वृषा श्यावा अरुषो वृषा ॥
6.048.07 बृहद्भिरग्ने अर्चिभिः शुक्रेण देव शोचिषा ।
6.048.07 भरद्वाजे समिधानो यविष्ठ्य रेवन्नः शुक्र दीदिहि द्युमत्पावक दीदिहि ॥
6.048.08 विश्वासां गृहपतिर्विशामसि त्वमग्ने मानुषीणाम् ।
6.048.08 शतं पूर्भिर्यविष्ठ पाह्यंहसः समेद्धारं शतं हिमा स्तोतृभ्यो ये च ददति ॥
6.048.09 त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।
6.048.09 अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥
6.048.10 पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
6.048.10 अग्ने हेळांसि दैव्या युयोधि नोऽदेवानि ह्वरांसि च ॥
6.048.11 आ सखायः सबर्दुघां धेनुमजध्वमुप नव्यसा वचः ।
6.048.11 सृजध्वमनपस्फुराम् ॥
6.048.12 या शर्धाय मारुताय स्वभानवे श्रवोऽमृत्यु धुक्षत ।
6.048.12 या मृळीके मरुतां तुराणां या सुम्नैरेवयावरी ॥
6.048.13 भरद्वाजायाव धुक्षत द्विता ।
6.048.13 धेनुं च विश्वदोहसमिषं च विश्वभोजसम् ॥
6.048.14 तं व इन्द्रं न सुक्रतुं वरुणमिव मायिनम् ।
6.048.14 अर्यमणं न मन्द्रं सृप्रभोजसं विष्णुं न स्तुष आदिशे ॥
6.048.15 त्वेषं शर्धो न मारुतं तुविष्वण्यनर्वाणं पूषणं सं यथा शता ।
6.048.15 सं सहस्रा कारिषच्चर्षणिभ्य आं आविर्गूळ्हा वसू करत्सुवेदा नो वसू करत् ॥
6.048.16 आ मा पूषन्नुप द्रव शंसिषं नु ते अपिकर्ण आघृणे ।
6.048.16 अघा अर्यो अरातयः ॥
6.048.17 मा काकम्बीरमुद्वृहो वनस्पतिमशस्तीर्वि हि नीनशः ।
6.048.17 मोत सूरो अह एवा चन ग्रीवा आदधते वेः ॥
6.048.18 दृतेरिव तेऽवृकमस्तु सख्यम् ।
6.048.18 अच्छिद्रस्य दधन्वतः सुपूर्णस्य दधन्वतः ॥
6.048.19 परो हि मर्त्यैरसि समो देवैरुत श्रिया ।
6.048.19 अभि ख्यः पूषन्पृतनासु नस्त्वमवा नूनं यथा पुरा ॥
6.048.20 वामी वामस्य धूतयः प्रणीतिरस्तु सूनृता ।
6.048.20 देवस्य वा मरुतो मर्त्यस्य वेजानस्य प्रयज्यवः ॥
6.048.21 सद्यश्चिद्यस्य चर्कृतिः परि द्यां देवो नैति सूर्यः ।
6.048.21 त्वेषं शवो दधिरे नाम यज्ञियं मरुतो वृत्रहं शवो ज्येष्ठं वृत्रहं शवः ॥
6.048.22 सकृद्ध द्यौरजायत सकृद्भूमिरजायत ।
6.048.22 पृश्न्या दुग्धं सकृत्पयस्तदन्यो नानु जायते ॥

6.049.01 स्तुषे जनं सुव्रतं नव्यसीभिर्गीर्भिर्मित्रावरुणा सुम्नयन्ता ।
6.049.01 त आ गमन्तु त इह श्रुवन्तु सुक्षत्रासो वरुणो मित्रो अग्निः ॥
6.049.02 विशोविश ईड्यमध्वरेष्वदृप्तक्रतुमरतिं युवत्योः ।
6.049.02 दिवः शिशुं सहसः सूनुमग्निं यज्ञस्य केतुमरुषं यजध्यै ॥
6.049.03 अरुषस्य दुहितरा विरूपे स्तृभिरन्या पिपिशे सूरो अन्या ।
6.049.03 मिथस्तुरा विचरन्ती पावके मन्म श्रुतं नक्षत ऋच्यमाने ॥
6.049.04 प्र वायुमच्छा बृहती मनीषा बृहद्रयिं विश्ववारं रथप्राम् ।
6.049.04 द्युतद्यामा नियुतः पत्यमानः कविः कविमियक्षसि प्रयज्यो ॥
6.049.05 स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः ।
6.049.05 येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥
6.049.06 पर्जन्यवाता वृषभा पृथिव्याः पुरीषाणि जिन्वतमप्यानि ।
6.049.06 सत्यश्रुतः कवयो यस्य गीर्भिर्जगत स्थातर्जगदा कृणुध्वम् ॥
6.049.07 पावीरवी कन्या चित्रायुः सरस्वती वीरपत्नी धियं धात् ।
6.049.07 ग्नाभिरच्छिद्रं शरणं सजोषा दुराधर्षं गृणते शर्म यंसत् ॥
6.049.08 पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्यानळ् अर्कम् ।
6.049.08 स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥
6.049.09 प्रथमभाजं यशसं वयोधां सुपाणिं देवं सुगभस्तिमृभ्वम् ।
6.049.09 होता यक्षद्यजतं पस्त्यानामग्निस्त्वष्टारं सुहवं विभावा ॥
6.049.10 भुवनस्य पितरं गीर्भिराभी रुद्रं दिवा वर्धया रुद्रमक्तौ ।
6.049.10 बृहन्तमृष्वमजरं सुषुम्नमृधग्घुवेम कविनेषितासः ॥
6.049.11 आ युवानः कवयो यज्ञियासो मरुतो गन्त गृणतो वरस्याम् ।
6.049.11 अचित्रं चिद्धि जिन्वथा वृधन्त इत्था नक्षन्तो नरो अङ्गिरस्वत् ॥
6.049.12 प्र वीराय प्र तवसे तुरायाजा यूथेव पशुरक्षिरस्तम् ।
6.049.12 स पिस्पृशति तन्वि श्रुतस्य स्तृभिर्न नाकं वचनस्य विपः ॥
6.049.13 यो रजांसि विममे पार्थिवानि त्रिश्चिद्विष्णुर्मनवे बाधिताय ।
6.049.13 तस्य ते शर्मन्नुपदद्यमाने राया मदेम तन्वा तना च ॥
6.049.14 तन्नोऽहिर्बुध्न्यो अद्भिरर्कैस्तत्पर्वतस्तत्सविता चनो धात् ।
6.049.14 तदोषधीभिरभि रातिषाचो भगः पुरन्धिर्जिन्वतु प्र राये ॥
6.049.15 नु नो रयिं रथ्यं चर्षणिप्रां पुरुवीरं मह ऋतस्य गोपाम् ।
6.049.15 क्षयं दाताजरं येन जनान्स्पृधो अदेवीरभि च क्रमाम विश आदेवीरभ्यश्नवाम ॥

6.050.01 हुवे वो देवीमदितिं नमोभिर्मृळीकाय वरुणं मित्रमग्निम् ।
6.050.01 अभिक्षदामर्यमणं सुशेवं त्रातॄन्देवान्सवितारं भगं च ॥
6.050.02 सुज्योतिषः सूर्य दक्षपितॄननागास्त्वे सुमहो वीहि देवान् ।
6.050.02 द्विजन्मानो य ऋतसापः सत्याः स्वर्वन्तो यजता अग्निजिह्वाः ॥
6.050.03 उत द्यावापृथिवी क्षत्रमुरु बृहद्रोदसी शरणं सुषुम्ने ।
6.050.03 महस्करथो वरिवो यथा नोऽस्मे क्षयाय धिषणे अनेहः ॥
6.050.04 आ नो रुद्रस्य सूनवो नमन्तामद्या हूतासो वसवोऽधृष्टाः ।
6.050.04 यदीमर्भे महति वा हितासो बाधे मरुतो अह्वाम देवान् ॥
6.050.05 मिम्यक्ष येषु रोदसी नु देवी सिषक्ति पूषा अभ्यर्धयज्वा ।
6.050.05 श्रुत्वा हवं मरुतो यद्ध याथ भूमा रेजन्ते अध्वनि प्रविक्ते ॥
6.050.06 अभि त्यं वीरं गिर्वणसमर्चेन्द्रं ब्रह्मणा जरितर्नवेन ।
6.050.06 श्रवदिद्धवमुप च स्तवानो रासद्वाजां उप महो गृणानः ॥
6.050.07 ओमानमापो मानुषीरमृक्तं धात तोकाय तनयाय शं योः ।
6.050.07 यूयं हि ष्ठा भिषजो मातृतमा विश्वस्य स्थातुर्जगतो जनित्रीः ॥
6.050.08 आ नो देवः सविता त्रायमाणो हिरण्यपाणिर्यजतो जगम्यात् ।
6.050.08 यो दत्रवां उषसो न प्रतीकं व्यूर्णुते दाशुषे वार्याणि ॥
6.050.09 उत त्वं सूनो सहसो नो अद्या देवां अस्मिन्नध्वरे ववृत्याः ।
6.050.09 स्यामहं ते सदमिद्रातौ तव स्यामग्नेऽवसा सुवीरः ॥
6.050.10 उत त्या मे हवमा जग्म्यातं नासत्या धीभिर्युवमङ्ग विप्रा ।
6.050.10 अत्रिं न महस्तमसोऽमुमुक्तं तूर्वतं नरा दुरितादभीके ॥
6.050.11 ते नो रायो द्युमतो वाजवतो दातारो भूत नृवतः पुरुक्षोः ।
6.050.11 दशस्यन्तो दिव्याः पार्थिवासो गोजाता अप्या मृळता च देवाः ॥
6.050.12 ते नो रुद्रः सरस्वती सजोषा मीळ्हुष्मन्तो विष्णुर्मृळन्तु वायुः ।
6.050.12 ऋभुक्षा वाजो दैव्यो विधाता पर्जन्यावाता पिप्यतामिषं नः ॥
6.050.13 उत स्य देवः सविता भगो नोऽपां नपादवतु दानु पप्रिः ।
6.050.13 त्वष्टा देवेभिर्जनिभिः सजोषा द्यौर्देवेभिः पृथिवी समुद्रैः ॥
6.050.14 उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः ।
6.050.14 विश्वे देवा ऋतावृधो हुवाना स्तुता मन्त्राः कविशस्ता अवन्तु ॥
6.050.15 एवा नपातो मम तस्य धीभिर्भरद्वाजा अभ्यर्चन्त्यर्कैः ।
6.050.15 ग्ना हुतासो वसवोऽधृष्टा विश्वे स्तुतासो भूता यजत्राः ॥

6.051.01 उदु त्यच्चक्षुर्महि मित्रयोरां एति प्रियं वरुणयोरदब्धम् ।
6.051.01 ऋतस्य शुचि दर्शतमनीकं रुक्मो न दिव उदिता व्यद्यौत् ॥
6.051.02 वेद यस्त्रीणि विदथान्येषां देवानां जन्म सनुतरा च विप्रः ।
6.051.02 ऋजु मर्तेषु वृजिना च पश्यन्नभि चष्टे सूरो अर्य एवान् ॥
6.051.03 स्तुष उ वो मह ऋतस्य गोपानदितिं मित्रं वरुणं सुजातान् ।
6.051.03 अर्यमणं भगमदब्धधीतीनच्छा वोचे सधन्यः पावकान् ॥
6.051.04 रिशादसः सत्पतींरदब्धान्महो राज्ञः सुवसनस्य दातॄन् ।
6.051.04 यूनः सुक्षत्रान्क्षयतो दिवो नॄनादित्यान्याम्यदितिं दुवोयु ॥
6.051.05 द्यौष्पितः पृथिवि मातरध्रुगग्ने भ्रातर्वसवो मृळता नः ।
6.051.05 विश्व आदित्या अदिते सजोषा अस्मभ्यं शर्म बहुलं वि यन्त ॥
6.051.06 मा नो वृकाय वृक्ये समस्मा अघायते रीरधता यजत्राः ।
6.051.06 यूयं हि ष्ठा रथ्यो नस्तनूनां यूयं दक्षस्य वचसो बभूव ॥
6.051.07 मा व एनो अन्यकृतं भुजेम मा तत्कर्म वसवो यच्चयध्वे ।
6.051.07 विश्वस्य हि क्षयथ विश्वदेवाः स्वयं रिपुस्तन्वं रीरिषीष्ट ॥
6.051.08 नम इदुग्रं नम आ विवासे नमो दाधार पृथिवीमुत द्याम् ।
6.051.08 नमो देवेभ्यो नम ईश एषां कृतं चिदेनो नमसा विवासे ॥
6.051.09 ऋतस्य वो रथ्यः पूतदक्षानृतस्य पस्त्यसदो अदब्धान् ।
6.051.09 तां आ नमोभिरुरुचक्षसो नॄन्विश्वान्व आ नमे महो यजत्राः ॥
6.051.10 ते हि श्रेष्ठवर्चसस्त उ नस्तिरो विश्वानि दुरिता नयन्ति ।
6.051.10 सुक्षत्रासो वरुणो मित्रो अग्निरृतधीतयो वक्मराजसत्याः ॥
6.051.11 ते न इन्द्रः पृथिवी क्षाम वर्धन्पूषा भगो अदितिः पञ्च जनाः ।
6.051.11 सुशर्माणः स्ववसः सुनीथा भवन्तु नः सुत्रात्रासः सुगोपाः ॥
6.051.12 नू सद्मानं दिव्यं नंशि देवा भारद्वाजः सुमतिं याति होता ।
6.051.12 आसानेभिर्यजमानो मियेधैर्देवानां जन्म वसूयुर्ववन्द ॥
6.051.13 अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यम् ।
6.051.13 दविष्ठमस्य सत्पते कृधी सुगम् ॥
6.051.14 ग्रावाणः सोम नो हि कं सखित्वनाय वावशुः ।
6.051.14 जही न्यत्रिणं पणिं वृको हि षः ॥
6.051.15 यूयं हि ष्ठा सुदानव इन्द्रज्येष्ठा अभिद्यवः ।
6.051.15 कर्ता नो अध्वन्ना सुगं गोपा अमा ॥
6.051.16 अपि पन्थामगन्महि स्वस्तिगामनेहसम् ।
6.051.16 येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

6.052.01 न तद्दिवा न पृथिव्यानु मन्ये न यज्ञेन नोत शमीभिराभिः ।
6.052.01 उब्जन्तु तं सुभ्वः पर्वतासो नि हीयतामतियाजस्य यष्टा ॥
6.052.02 अति वा यो मरुतो मन्यते नो ब्रह्म वा यः क्रियमाणं निनित्सात् ।
6.052.02 तपूंषि तस्मै वृजिनानि सन्तु ब्रह्मद्विषमभि तं शोचतु द्यौः ॥
6.052.03 किमङ्ग त्वा ब्रह्मणः सोम गोपां किमङ्ग त्वाहुरभिशस्तिपां नः ।
6.052.03 किमङ्ग नः पश्यसि निद्यमानान्ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
6.052.04 अवन्तु मामुषसो जायमाना अवन्तु मा सिन्धवः पिन्वमानाः ।
6.052.04 अवन्तु मा पर्वतासो ध्रुवासोऽवन्तु मा पितरो देवहूतौ ॥
6.052.05 विश्वदानीं सुमनसः स्याम पश्येम नु सूर्यमुच्चरन्तम् ।
6.052.05 तथा करद्वसुपतिर्वसूनां देवां ओहानोऽवसागमिष्ठः ॥
6.052.06 इन्द्रो नेदिष्ठमवसागमिष्ठः सरस्वती सिन्धुभिः पिन्वमाना ।
6.052.06 पर्जन्यो न ओषधीभिर्मयोभुरग्निः सुशंसः सुहवः पितेव ॥
6.052.07 विश्वे देवास आ गत शृणुता म इमं हवम् ।
6.052.07 एदं बर्हिर्नि षीदत ॥
6.052.08 यो वो देवा घृतस्नुना हव्येन प्रतिभूषति ।
6.052.08 तं विश्व उप गच्छथ ॥
6.052.09 उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।
6.052.09 सुमृळीका भवन्तु नः ॥
6.052.10 विश्वे देवा ऋतावृध ऋतुभिर्हवनश्रुतः ।
6.052.10 जुषन्तां युज्यं पयः ॥
6.052.11 स्तोत्रमिन्द्रो मरुद्गणस्त्वष्टृमान्मित्रो अर्यमा ।
6.052.11 इमा हव्या जुषन्त नः ॥
6.052.12 इमं नो अग्ने अध्वरं होतर्वयुनशो यज ।
6.052.12 चिकित्वान्दैव्यं जनम् ॥
6.052.13 विश्वे देवाः शृणुतेमं हवं मे ये अन्तरिक्षे य उप द्यवि ष्ठ ।
6.052.13 ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ॥
6.052.14 विश्वे देवा मम शृण्वन्तु यज्ञिया उभे रोदसी अपां नपाच्च मन्म ।
6.052.14 मा वो वचांसि परिचक्ष्याणि वोचं सुम्नेष्विद्वो अन्तमा मदेम ॥
6.052.15 ये के च ज्मा महिनो अहिमाया दिवो जज्ञिरे अपां सधस्थे ।
6.052.15 ते अस्मभ्यमिषये विश्वमायुः क्षप उस्रा वरिवस्यन्तु देवाः ॥
6.052.16 अग्नीपर्जन्याववतं धियं मेऽस्मिन्हवे सुहवा सुष्टुतिं नः ।
6.052.16 इळामन्यो जनयद्गर्भमन्यः प्रजावतीरिष आ धत्तमस्मे ॥
6.052.17 स्तीर्णे बर्हिषि समिधाने अग्नौ सूक्तेन महा नमसा विवासे ।
6.052.17 अस्मिन्नो अद्य विदथे यजत्रा विश्वे देवा हविषि मादयध्वम् ॥

6.053.01 वयमु त्वा पथस्पते रथं न वाजसातये ।
6.053.01 धिये पूषन्नयुज्महि ॥
6.053.02 अभि नो नर्यं वसु वीरं प्रयतदक्षिणम् ।
6.053.02 वामं गृहपतिं नय ॥
6.053.03 अदित्सन्तं चिदाघृणे पूषन्दानाय चोदय ।
6.053.03 पणेश्चिद्वि म्रदा मनः ॥
6.053.04 वि पथो वाजसातये चिनुहि वि मृधो जहि ।
6.053.04 साधन्तामुग्र नो धियः ॥
6.053.05 परि तृन्धि पणीनामारया हृदया कवे ।
6.053.05 अथेमस्मभ्यं रन्धय ॥
6.053.06 वि पूषन्नारया तुद पणेरिच्छ हृदि प्रियम् ।
6.053.06 अथेमस्मभ्यं रन्धय ॥
6.053.07 आ रिख किकिरा कृणु पणीनां हृदया कवे ।
6.053.07 अथेमस्मभ्यं रन्धय ॥
6.053.08 यां पूषन्ब्रह्मचोदनीमारां बिभर्ष्याघृणे ।
6.053.08 तया समस्य हृदयमा रिख किकिरा कृणु ॥
6.053.09 या ते अष्ट्रा गोओपशाघृणे पशुसाधनी ।
6.053.09 तस्यास्ते सुम्नमीमहे ॥
6.053.10 उत नो गोषणिं धियमश्वसां वाजसामुत ।
6.053.10 नृवत्कृणुहि वीतये ॥

6.054.01 सं पूषन्विदुषा नय यो अञ्जसानुशासति ।
6.054.01 य एवेदमिति ब्रवत् ॥
6.054.02 समु पूष्णा गमेमहि यो गृहां अभिशासति ।
6.054.02 इम एवेति च ब्रवत् ॥
6.054.03 पूष्णश्चक्रं न रिष्यति न कोशोऽव पद्यते ।
6.054.03 नो अस्य व्यथते पविः ॥
6.054.04 यो अस्मै हविषाविधन्न तं पूषापि मृष्यते ।
6.054.04 प्रथमो विन्दते वसु ॥
6.054.05 पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ।
6.054.05 पूषा वाजं सनोतु नः ॥
6.054.06 पूषन्ननु प्र गा इहि यजमानस्य सुन्वतः ।
6.054.06 अस्माकं स्तुवतामुत ॥
6.054.07 माकिर्नेशन्माकीं रिषन्माकीं सं शारि केवटे ।
6.054.07 अथारिष्टाभिरा गहि ॥
6.054.08 शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम् ।
6.054.08 ईशानं राय ईमहे ॥
6.054.09 पूषन्तव व्रते वयं न रिष्येम कदा चन ।
6.054.09 स्तोतारस्त इह स्मसि ॥
6.054.10 परि पूषा परस्ताद्धस्तं दधातु दक्षिणम् ।
6.054.10 पुनर्नो नष्टमाजतु ॥

6.055.01 एहि वां विमुचो नपादाघृणे सं सचावहै ।
6.055.01 रथीरृतस्य नो भव ॥
6.055.02 रथीतमं कपर्दिनमीशानं राधसो महः ।
6.055.02 रायः सखायमीमहे ॥
6.055.03 रायो धारास्याघृणे वसो राशिरजाश्व ।
6.055.03 धीवतोधीवतः सखा ॥
6.055.04 पूषणं न्वजाश्वमुप स्तोषाम वाजिनम् ।
6.055.04 स्वसुर्यो जार उच्यते ॥
6.055.05 मातुर्दिधिषुमब्रवं स्वसुर्जारः शृणोतु नः ।
6.055.05 भ्रातेन्द्रस्य सखा मम ॥
6.055.06 आजासः पूषणं रथे निशृम्भास्ते जनश्रियम् ।
6.055.06 देवं वहन्तु बिभ्रतः ॥

6.056.01 य एनमादिदेशति करम्भादिति पूषणम् ।
6.056.01 न तेन देव आदिशे ॥
6.056.02 उत घा स रथीतमः सख्या सत्पतिर्युजा ।
6.056.02 इन्द्रो वृत्राणि जिघ्नते ॥
6.056.03 उतादः परुषे गवि सूरश्चक्रं हिरण्ययम् ।
6.056.03 न्यैरयद्रथीतमः ॥
6.056.04 यदद्य त्वा पुरुष्टुत ब्रवाम दस्र मन्तुमः ।
6.056.04 तत्सु नो मन्म साधय ॥
6.056.05 इमं च नो गवेषणं सातये सीषधो गणम् ।
6.056.05 आरात्पूषन्नसि श्रुतः ॥
6.056.06 आ ते स्वस्तिमीमह आरेअघामुपावसुम् ।
6.056.06 अद्या च सर्वतातये श्वश्च सर्वतातये ॥

6.057.01 इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
6.057.01 हुवेम वाजसातये ॥
6.057.02 सोममन्य उपासदत्पातवे चम्वोः सुतम् ।
6.057.02 करम्भमन्य इच्छति ॥
6.057.03 अजा अन्यस्य वह्नयो हरी अन्यस्य सम्भृता ।
6.057.03 ताभ्यां वृत्राणि जिघ्नते ॥
6.057.04 यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
6.057.04 तत्र पूषाभवत्सचा ॥
6.057.05 तां पूष्णः सुमतिं वयं वृक्षस्य प्र वयामिव ।
6.057.05 इन्द्रस्य चा रभामहे ॥
6.057.06 उत्पूषणं युवामहेऽभीशूंरिव सारथिः ।
6.057.06 मह्या इन्द्रं स्वस्तये ॥

6.058.01 शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि ।
6.058.01 विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥
6.058.02 अजाश्वः पशुपा वाजपस्त्यो धियञ्जिन्वो भुवने विश्वे अर्पितः ।
6.058.02 अष्ट्रां पूषा शिथिरामुद्वरीवृजत्संचक्षाणो भुवना देव ईयते ॥
6.058.03 यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति ।
6.058.03 ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥
6.058.04 पूषा सुबन्धुर्दिव आ पृथिव्या इळस्पतिर्मघवा दस्मवर्चाः ।
6.058.04 यं देवासो अददुः सूर्यायै कामेन कृतं तवसं स्वञ्चम् ॥

6.059.01 प्र नु वोचा सुतेषु वां वीर्या यानि चक्रथुः ।
6.059.01 हतासो वां पितरो देवशत्रव इन्द्राग्नी जीवथो युवम् ॥
6.059.02 बळ् इत्था महिमा वामिन्द्राग्नी पनिष्ठ आ ।
6.059.02 समानो वां जनिता भ्रातरा युवं यमाविहेहमातरा ॥
6.059.03 ओकिवांसा सुते सचां अश्वा सप्ती इवादने ।
6.059.03 इन्द्रा न्वग्नी अवसेह वज्रिणा वयं देवा हवामहे ॥
6.059.04 य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा ।
6.059.04 जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥
6.059.05 इन्द्राग्नी को अस्य वां देवौ मर्तश्चिकेतति ।
6.059.05 विषूचो अश्वान्युयुजान ईयत एकः समान आ रथे ॥
6.059.06 इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।
6.059.06 हित्वी शिरो जिह्वया वावदच्चरत्त्रिंशत्पदा न्यक्रमीत् ॥
6.059.07 इन्द्राग्नी आ हि तन्वते नरो धन्वानि बाह्वोः ।
6.059.07 मा नो अस्मिन्महाधने परा वर्क्तं गविष्टिषु ॥
6.059.08 इन्द्राग्नी तपन्ति माघा अर्यो अरातयः ।
6.059.08 अप द्वेषांस्या कृतं युयुतं सूर्यादधि ॥
6.059.09 इन्द्राग्नी युवोरपि वसु दिव्यानि पार्थिवा ।
6.059.09 आ न इह प्र यच्छतं रयिं विश्वायुपोषसम् ॥
6.059.10 इन्द्राग्नी उक्थवाहसा स्तोमेभिर्हवनश्रुता ।
6.059.10 विश्वाभिर्गीर्भिरा गतमस्य सोमस्य पीतये ॥

6.060.01 श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् ।
6.060.01 इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥
6.060.02 ता योधिष्टमभि गा इन्द्र नूनमपः स्वरुषसो अग्न ऊळ्हाः ।
6.060.02 दिशः स्वरुषस इन्द्र चित्रा अपो गा अग्ने युवसे नियुत्वान् ॥
6.060.03 आ वृत्रहणा वृत्रहभिः शुष्मैरिन्द्र यातं नमोभिरग्ने अर्वाक् ।
6.060.03 युवं राधोभिरकवेभिरिन्द्राग्ने अस्मे भवतमुत्तमेभिः ॥
6.060.04 ता हुवे ययोरिदं पप्ने विश्वं पुरा कृतम् ।
6.060.04 इन्द्राग्नी न मर्धतः ॥
6.060.05 उग्रा विघनिना मृध इन्द्राग्नी हवामहे ।
6.060.05 ता नो मृळात ईदृशे ॥
6.060.06 हतो वृत्राण्यार्या हतो दासानि सत्पती ।
6.060.06 हतो विश्वा अप द्विषः ॥
6.060.07 इन्द्राग्नी युवामिमेऽभि स्तोमा अनूषत ।
6.060.07 पिबतं शम्भुवा सुतम् ॥
6.060.08 या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।
6.060.08 इन्द्राग्नी ताभिरा गतम् ॥
6.060.09 ताभिरा गच्छतं नरोपेदं सवनं सुतम् ।
6.060.09 इन्द्राग्नी सोमपीतये ॥
6.060.10 तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।
6.060.10 कृष्णा कृणोति जिह्वया ॥
6.060.11 य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।
6.060.11 द्युम्नाय सुतरा अपः ॥
6.060.12 ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।
6.060.12 इन्द्रमग्निं च वोळ्हवे ॥
6.060.13 उभा वामिन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै ।
6.060.13 उभा दाताराविषां रयीणामुभा वाजस्य सातये हुवे वाम् ॥
6.060.14 आ नो गव्येभिरश्व्यैर्वसव्यैरुप गच्छतम् ।
6.060.14 सखायौ देवौ सख्याय शम्भुवेन्द्राग्नी ता हवामहे ॥
6.060.15 इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः ।
6.060.15 वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥

6.061.01 इयमददाद्रभसमृणच्युतं दिवोदासं वध्र्यश्वाय दाशुषे ।
6.061.01 या शश्वन्तमाचखादावसं पणिं ता ते दात्राणि तविषा सरस्वति ॥
6.061.02 इयं शुष्मेभिर्बिसखा इवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः ।
6.061.02 पारावतघ्नीमवसे सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः ॥
6.061.03 सरस्वति देवनिदो नि बर्हय प्रजां विश्वस्य बृसयस्य मायिनः ।
6.061.03 उत क्षितिभ्योऽवनीरविन्दो विषमेभ्यो अस्रवो वाजिनीवति ॥
6.061.04 प्र णो देवी सरस्वती वाजेभिर्वाजिनीवती ।
6.061.04 धीनामवित्र्यवतु ॥
6.061.05 यस्त्वा देवि सरस्वत्युपब्रूते धने हिते ।
6.061.05 इन्द्रं न वृत्रतूर्ये ॥
6.061.06 त्वं देवि सरस्वत्यवा वाजेषु वाजिनि ।
6.061.06 रदा पूषेव नः सनिम् ॥
6.061.07 उत स्या नः सरस्वती घोरा हिरण्यवर्तनिः ।
6.061.07 वृत्रघ्नी वष्टि सुष्टुतिम् ॥
6.061.08 यस्या अनन्तो अह्रुतस्त्वेषश्चरिष्णुरर्णवः ।
6.061.08 अमश्चरति रोरुवत् ॥
6.061.09 सा नो विश्वा अति द्विषः स्वसॄरन्या ऋतावरी ।
6.061.09 अतन्नहेव सूर्यः ॥
6.061.10 उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।
6.061.10 सरस्वती स्तोम्या भूत् ॥
6.061.11 आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् ।
6.061.11 सरस्वती निदस्पातु ॥
6.061.12 त्रिषधस्था सप्तधातुः पञ्च जाता वर्धयन्ती ।
6.061.12 वाजेवाजे हव्या भूत् ॥
6.061.13 प्र या महिम्ना महिनासु चेकिते द्युम्नेभिरन्या अपसामपस्तमा ।
6.061.13 रथ इव बृहती विभ्वने कृतोपस्तुत्या चिकितुषा सरस्वती ॥
6.061.14 सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् ।
6.061.14 जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥

6.062.01 स्तुषे नरा दिवो अस्य प्रसन्ताश्विना हुवे जरमाणो अर्कैः ।
6.062.01 या सद्य उस्रा व्युषि ज्मो अन्तान्युयूषतः पर्युरू वरांसि ॥
6.062.02 ता यज्ञमा शुचिभिश्चक्रमाणा रथस्य भानुं रुरुचू रजोभिः ।
6.062.02 पुरू वरांस्यमिता मिमानापो धन्वान्यति याथो अज्रान् ॥
6.062.03 ता ह त्यद्वर्तिर्यदरध्रमुग्रेत्था धिय ऊहथुः शश्वदश्वैः ।
6.062.03 मनोजवेभिरिषिरैः शयध्यै परि व्यथिर्दाशुषो मर्त्यस्य ॥
6.062.04 ता नव्यसो जरमाणस्य मन्मोप भूषतो युयुजानसप्ती ।
6.062.04 शुभं पृक्षमिषमूर्जं वहन्ता होता यक्षत्प्रत्नो अध्रुग्युवाना ॥
6.062.05 ता वल्गू दस्रा पुरुशाकतमा प्रत्ना नव्यसा वचसा विवासे ।
6.062.05 या शंसते स्तुवते शम्भविष्ठा बभूवतुर्गृणते चित्रराती ॥
6.062.06 ता भुज्युं विभिरद्भ्यः समुद्रात्तुग्रस्य सूनुमूहथू रजोभिः ।
6.062.06 अरेणुभिर्योजनेभिर्भुजन्ता पतत्रिभिरर्णसो निरुपस्थात् ॥
6.062.07 वि जयुषा रथ्या यातमद्रिं श्रुतं हवं वृषणा वध्रिमत्याः ।
6.062.07 दशस्यन्ता शयवे पिप्यथुर्गामिति च्यवाना सुमतिं भुरण्यू ॥
6.062.08 यद्रोदसी प्रदिवो अस्ति भूमा हेळो देवानामुत मर्त्यत्रा ।
6.062.08 तदादित्या वसवो रुद्रियासो रक्षोयुजे तपुरघं दधात ॥
6.062.09 य ईं राजानावृतुथा विदधद्रजसो मित्रो वरुणश्चिकेतत् ।
6.062.09 गम्भीराय रक्षसे हेतिमस्य द्रोघाय चिद्वचस आनवाय ॥
6.062.10 अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन ।
6.062.10 सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥
6.062.11 आ परमाभिरुत मध्यमाभिर्नियुद्भिर्यातमवमाभिरर्वाक् ।
6.062.11 दृळ्हस्य चिद्गोमतो वि व्रजस्य दुरो वर्तं गृणते चित्रराती ॥

6.063.01 क्व त्या वल्गू पुरुहूताद्य दूतो न स्तोमोऽविदन्नमस्वान् ।
6.063.01 आ यो अर्वाङ्नासत्या ववर्त प्रेष्ठा ह्यसथो अस्य मन्मन् ॥
6.063.02 अरं मे गन्तं हवनायास्मै गृणाना यथा पिबाथो अन्धः ।
6.063.02 परि ह त्यद्वर्तिर्याथो रिषो न यत्परो नान्तरस्तुतुर्यात् ॥
6.063.03 अकारि वामन्धसो वरीमन्नस्तारि बर्हिः सुप्रायणतमम् ।
6.063.03 उत्तानहस्तो युवयुर्ववन्दा वां नक्षन्तो अद्रय आञ्जन् ॥
6.063.04 ऊर्ध्वो वामग्निरध्वरेष्वस्थात्प्र रातिरेति जूर्णिनी घृताची ।
6.063.04 प्र होता गूर्तमना उराणोऽयुक्त यो नासत्या हवीमन् ॥
6.063.05 अधि श्रिये दुहिता सूर्यस्य रथं तस्थौ पुरुभुजा शतोतिम् ।
6.063.05 प्र मायाभिर्मायिना भूतमत्र नरा नृतू जनिमन्यज्ञियानाम् ॥
6.063.06 युवं श्रीभिर्दर्शताभिराभिः शुभे पुष्टिमूहथुः सूर्यायाः ।
6.063.06 प्र वां वयो वपुषेऽनु पप्तन्नक्षद्वाणी सुष्टुता धिष्ण्या वाम् ॥
6.063.07 आ वां वयोऽश्वासो वहिष्ठा अभि प्रयो नासत्या वहन्तु ।
6.063.07 प्र वां रथो मनोजवा असर्जीषः पृक्ष इषिधो अनु पूर्वीः ॥
6.063.08 पुरु हि वां पुरुभुजा देष्णं धेनुं न इषं पिन्वतमसक्राम् ।
6.063.08 स्तुतश्च वां माध्वी सुष्टुतिश्च रसाश्च ये वामनु रातिमग्मन् ॥
6.063.09 उत म ऋज्रे पुरयस्य रघ्वी सुमीळ्हे शतं पेरुके च पक्वा ।
6.063.09 शाण्डो दाद्धिरणिनः स्मद्दिष्टीन्दश वशासो अभिषाच ऋष्वान् ॥
6.063.10 सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात् ।
6.063.10 भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥
6.063.11 आ वां सुम्ने वरिमन्सूरिभिः ष्याम् ॥

6.064.01 उदु श्रिय उषसो रोचमाना अस्थुरपां नोर्मयो रुशन्तः ।
6.064.01 कृणोति विश्वा सुपथा सुगान्यभूदु वस्वी दक्षिणा मघोनी ॥
6.064.02 भद्रा ददृक्ष उर्विया वि भास्युत्ते शोचिर्भानवो द्यामपप्तन् ।
6.064.02 आविर्वक्षः कृणुषे शुम्भमानोषो देवि रोचमाना महोभिः ॥
6.064.03 वहन्ति सीमरुणासो रुशन्तो गावः सुभगामुर्विया प्रथानाम् ।
6.064.03 अपेजते शूरो अस्तेव शत्रून्बाधते तमो अजिरो न वोळ्हा ॥
6.064.04 सुगोत ते सुपथा पर्वतेष्ववाते अपस्तरसि स्वभानो ।
6.064.04 सा न आ वह पृथुयामन्नृष्वे रयिं दिवो दुहितरिषयध्यै ॥
6.064.05 सा वह योक्षभिरवातोषो वरं वहसि जोषमनु ।
6.064.05 त्वं दिवो दुहितर्या ह देवी पूर्वहूतौ मंहना दर्शता भूः ॥
6.064.06 उत्ते वयश्चिद्वसतेरपप्तन्नरश्च ये पितुभाजो व्युष्टौ ।
6.064.06 अमा सते वहसि भूरि वाममुषो देवि दाशुषे मर्त्याय ॥

6.065.01 एषा स्या नो दुहिता दिवोजाः क्षितीरुच्छन्ती मानुषीरजीगः ।
6.065.01 या भानुना रुशता राम्यास्वज्ञायि तिरस्तमसश्चिदक्तून् ॥
6.065.02 वि तद्ययुररुणयुग्भिरश्वैश्चित्रं भान्त्युषसश्चन्द्ररथाः ।
6.065.02 अग्रं यज्ञस्य बृहतो नयन्तीर्वि ता बाधन्ते तम ऊर्म्यायाः ॥
6.065.03 श्रवो वाजमिषमूर्जं वहन्तीर्नि दाशुष उषसो मर्त्याय ।
6.065.03 मघोनीर्वीरवत्पत्यमाना अवो धात विधते रत्नमद्य ॥
6.065.04 इदा हि वो विधते रत्नमस्तीदा वीराय दाशुष उषासः ।
6.065.04 इदा विप्राय जरते यदुक्था नि ष्म मावते वहथा पुरा चित् ॥
6.065.05 इदा हि त उषो अद्रिसानो गोत्रा गवामङ्गिरसो गृणन्ति ।
6.065.05 व्यर्केण बिभिदुर्ब्रह्मणा च सत्या नृणामभवद्देवहूतिः ॥
6.065.06 उच्छा दिवो दुहितः प्रत्नवन्नो भरद्वाजवद्विधते मघोनि ।
6.065.06 सुवीरं रयिं गृणते रिरीह्युरुगायमधि धेहि श्रवो नः ॥

6.066.01 वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम् ।
6.066.01 मर्तेष्वन्यद्दोहसे पीपाय सकृच्छुक्रं दुदुहे पृश्निरूधः ॥
6.066.02 ये अग्नयो न शोशुचन्निधाना द्विर्यत्त्रिर्मरुतो वावृधन्त ।
6.066.02 अरेणवो हिरण्ययास एषां साकं नृम्णैः पौंस्येभिश्च भूवन् ॥
6.066.03 रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाधृविर्भरध्यै ।
6.066.03 विदे हि माता महो मही षा सेत्पृश्निः सुभ्वे गर्भमाधात् ॥
6.066.04 न य ईषन्ते जनुषोऽया न्वन्तः सन्तोऽवद्यानि पुनानाः ।
6.066.04 निर्यद्दुह्रे शुचयोऽनु जोषमनु श्रिया तन्वमुक्षमाणाः ॥
6.066.05 मक्षू न येषु दोहसे चिदया आ नाम धृष्णु मारुतं दधानाः ।
6.066.05 न ये स्तौना अयासो मह्ना नू चित्सुदानुरव यासदुग्रान् ॥
6.066.06 त इदुग्राः शवसा धृष्णुषेणा उभे युजन्त रोदसी सुमेके ।
6.066.06 अध स्मैषु रोदसी स्वशोचिरामवत्सु तस्थौ न रोकः ॥
6.066.07 अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद्यमजत्यरथीः ।
6.066.07 अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन् ॥
6.066.08 नास्य वर्ता न तरुता न्वस्ति मरुतो यमवथ वाजसातौ ।
6.066.08 तोके वा गोषु तनये यमप्सु स व्रजं दर्ता पार्ये अध द्योः ॥
6.066.09 प्र चित्रमर्कं गृणते तुराय मारुताय स्वतवसे भरध्वम् ।
6.066.09 ये सहांसि सहसा सहन्ते रेजते अग्ने पृथिवी मखेभ्यः ॥
6.066.10 त्विषीमन्तो अध्वरस्येव दिद्युत्तृषुच्यवसो जुह्वो नाग्नेः ।
6.066.10 अर्चत्रयो धुनयो न वीरा भ्राजज्जन्मानो मरुतो अधृष्टाः ॥
6.066.11 तं वृधन्तं मारुतं भ्राजदृष्टिं रुद्रस्य सूनुं हवसा विवासे ।
6.066.11 दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्पृध्रन् ॥

6.067.01 विश्वेषां वः सतां ज्येष्ठतमा गीर्भिर्मित्रावरुणा वावृधध्यै ।
6.067.01 सं या रश्मेव यमतुर्यमिष्ठा द्वा जनां असमा बाहुभिः स्वैः ॥
6.067.02 इयं मद्वां प्र स्तृणीते मनीषोप प्रिया नमसा बर्हिरच्छ ।
6.067.02 यन्तं नो मित्रावरुणावधृष्टं छर्दिर्यद्वां वरूथ्यं सुदानू ॥
6.067.03 आ यातं मित्रावरुणा सुशस्त्युप प्रिया नमसा हूयमाना ।
6.067.03 सं यावप्नस्थो अपसेव जनाञ्छ्रुधीयतश्चिद्यतथो महित्वा ॥
6.067.04 अश्वा न या वाजिना पूतबन्धू ऋता यद्गर्भमदितिर्भरध्यै ।
6.067.04 प्र या महि महान्ता जायमाना घोरा मर्ताय रिपवे नि दीधः ॥
6.067.05 विश्वे यद्वां मंहना मन्दमानाः क्षत्रं देवासो अदधुः सजोषाः ।
6.067.05 परि यद्भूथो रोदसी चिदुर्वी सन्ति स्पशो अदब्धासो अमूराः ॥
6.067.06 ता हि क्षत्रं धारयेथे अनु द्यून्दृंहेथे सानुमुपमादिव द्योः ।
6.067.06 दृळ्हो नक्षत्र उत विश्वदेवो भूमिमातान्द्यां धासिनायोः ॥
6.067.07 ता विग्रं धैथे जठरं पृणध्या आ यत्सद्म सभृतयः पृणन्ति ।
6.067.07 न मृष्यन्ते युवतयोऽवाता वि यत्पयो विश्वजिन्वा भरन्ते ॥
6.067.08 ता जिह्वया सदमेदं सुमेधा आ यद्वां सत्यो अरतिरृते भूत् ।
6.067.08 तद्वां महित्वं घृतान्नावस्तु युवं दाशुषे वि चयिष्टमंहः ॥
6.067.09 प्र यद्वां मित्रावरुणा स्पूर्धन्प्रिया धाम युवधिता मिनन्ति ।
6.067.09 न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो न पुत्राः ॥
6.067.10 वि यद्वाचं कीस्तासो भरन्ते शंसन्ति के चिन्निविदो मनानाः ।
6.067.10 आद्वां ब्रवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा ॥
6.067.11 अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्कृधोयु ।
6.067.11 अनु यद्गाव स्फुरानृजिप्यं धृष्णुं यद्रणे वृषणं युनजन् ॥

6.068.01 श्रुष्टी वां यज्ञ उद्यतः सजोषा मनुष्वद्वृक्तबर्हिषो यजध्यै ।
6.068.01 आ य इन्द्रावरुणाविषे अद्य महे सुम्नाय मह आववर्तत् ॥
6.068.02 ता हि श्रेष्ठा देवताता तुजा शूराणां शविष्ठा ता हि भूतम् ।
6.068.02 मघोनां मंहिष्ठा तुविशुष्म ऋतेन वृत्रतुरा सर्वसेना ॥
6.068.03 ता गृणीहि नमस्येभिः शूषैः सुम्नेभिरिन्द्रावरुणा चकाना ।
6.068.03 वज्रेणान्यः शवसा हन्ति वृत्रं सिषक्त्यन्यो वृजनेषु विप्रः ॥
6.068.04 ग्नाश्च यन्नरश्च वावृधन्त विश्वे देवासो नरां स्वगूर्ताः ।
6.068.04 प्रैभ्य इन्द्रावरुणा महित्वा द्यौश्च पृथिवि भूतमुर्वी ॥
6.068.05 स इत्सुदानुः स्ववां ऋतावेन्द्रा यो वां वरुण दाशति त्मन् ।
6.068.05 इषा स द्विषस्तरेद्दास्वान्वंसद्रयिं रयिवतश्च जनान् ॥
6.068.06 यं युवं दाश्वध्वराय देवा रयिं धत्थो वसुमन्तं पुरुक्षुम् ।
6.068.06 अस्मे स इन्द्रावरुणावपि ष्यात्प्र यो भनक्ति वनुषामशस्तीः ॥
6.068.07 उत नः सुत्रात्रो देवगोपाः सूरिभ्य इन्द्रावरुणा रयिः ष्यात् ।
6.068.07 येषां शुष्मः पृतनासु साह्वान्प्र सद्यो द्युम्ना तिरते ततुरिः ॥
6.068.08 नू न इन्द्रावरुणा गृणाना पृङ्क्तं रयिं सौश्रवसाय देवा ।
6.068.08 इत्था गृणन्तो महिनस्य शर्धोऽपो न नावा दुरिता तरेम ॥
6.068.09 प्र सम्राजे बृहते मन्म नु प्रियमर्च देवाय वरुणाय सप्रथः ।
6.068.09 अयं य उर्वी महिना महिव्रतः क्रत्वा विभात्यजरो न शोचिषा ॥
6.068.10 इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रता ।
6.068.10 युवो रथो अध्वरं देववीतये प्रति स्वसरमुप याति पीतये ॥
6.068.11 इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम् ।
6.068.11 इदं वामन्धः परिषिक्तमस्मे आसद्यास्मिन्बर्हिषि मादयेथाम् ॥

6.069.01 सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य ।
6.069.01 जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥
6.069.02 या विश्वासां जनितारा मतीनामिन्द्राविष्णू कलशा सोमधाना ।
6.069.02 प्र वां गिरः शस्यमाना अवन्तु प्र स्तोमासो गीयमानासो अर्कैः ॥
6.069.03 इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना ।
6.069.03 सं वामञ्जन्त्वक्तुभिर्मतीनां सं स्तोमासः शस्यमानास उक्थैः ॥
6.069.04 आ वामश्वासो अभिमातिषाह इन्द्राविष्णू सधमादो वहन्तु ।
6.069.04 जुषेथां विश्वा हवना मतीनामुप ब्रह्माणि शृणुतं गिरो मे ॥
6.069.05 इन्द्राविष्णू तत्पनयाय्यं वां सोमस्य मद उरु चक्रमाथे ।
6.069.05 अकृणुतमन्तरिक्षं वरीयोऽप्रथतं जीवसे नो रजांसि ॥
6.069.06 इन्द्राविष्णू हविषा वावृधानाग्राद्वाना नमसा रातहव्या ।
6.069.06 घृतासुती द्रविणं धत्तमस्मे समुद्र स्थः कलशः सोमधानः ॥
6.069.07 इन्द्राविष्णू पिबतं मध्वो अस्य सोमस्य दस्रा जठरं पृणेथाम् ।
6.069.07 आ वामन्धांसि मदिराण्यग्मन्नुप ब्रह्माणि शृणुतं हवं मे ॥
6.069.08 उभा जिग्यथुर्न परा जयेथे न परा जिग्ये कतरश्चनैनोः ।
6.069.08 इन्द्रश्च विष्णो यदपस्पृधेथां त्रेधा सहस्रं वि तदैरयेथाम् ॥

6.070.01 घृतवती भुवनानामभिश्रियोर्वी पृथ्वी मधुदुघे सुपेशसा ।
6.070.01 द्यावापृथिवी वरुणस्य धर्मणा विष्कभिते अजरे भूरिरेतसा ॥
6.070.02 असश्चन्ती भूरिधारे पयस्वती घृतं दुहाते सुकृते शुचिव्रते ।
6.070.02 राजन्ती अस्य भुवनस्य रोदसी अस्मे रेतः सिञ्चतं यन्मनुर्हितम् ॥
6.070.03 यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति ।
6.070.03 प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥
6.070.04 घृतेन द्यावापृथिवी अभीवृते घृतश्रिया घृतपृचा घृतावृधा ।
6.070.04 उर्वी पृथ्वी होतृवूर्ये पुरोहिते ते इद्विप्रा ईळते सुम्नमिष्टये ॥
6.070.05 मधु नो द्यावापृथिवी मिमिक्षतां मधुश्चुता मधुदुघे मधुव्रते ।
6.070.05 दधाने यज्ञं द्रविणं च देवता महि श्रवो वाजमस्मे सुवीर्यम् ॥
6.070.06 ऊर्जं नो द्यौश्च पृथिवी च पिन्वतां पिता माता विश्वविदा सुदंससा ।
6.070.06 संरराणे रोदसी विश्वशम्भुवा सनिं वाजं रयिमस्मे समिन्वताम् ॥

6.071.01 उदु ष्य देवः सविता हिरण्यया बाहू अयंस्त सवनाय सुक्रतुः ।
6.071.01 घृतेन पाणी अभि प्रुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि ॥
6.071.02 देवस्य वयं सवितुः सवीमनि श्रेष्ठे स्याम वसुनश्च दावने ।
6.071.02 यो विश्वस्य द्विपदो यश्चतुष्पदो निवेशने प्रसवे चासि भूमनः ॥
6.071.03 अदब्धेभिः सवितः पायुभिष्ट्वं शिवेभिरद्य परि पाहि नो गयम् ।
6.071.03 हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नो अघशंस ईशत ॥
6.071.04 उदु ष्य देवः सविता दमूना हिरण्यपाणिः प्रतिदोषमस्थात् ।
6.071.04 अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरि वामम् ॥
6.071.05 उदू अयां उपवक्तेव बाहू हिरण्यया सविता सुप्रतीका ।
6.071.05 दिवो रोहांस्यरुहत्पृथिव्या अरीरमत्पतयत्कच्चिदभ्वम् ॥
6.071.06 वाममद्य सवितर्वाममु श्वो दिवेदिवे वाममस्मभ्यं सावीः ।
6.071.06 वामस्य हि क्षयस्य देव भूरेरया धिया वामभाजः स्याम ॥

6.072.01 इन्द्रासोमा महि तद्वां महित्वं युवं महानि प्रथमानि चक्रथुः ।
6.072.01 युवं सूर्यं विविदथुर्युवं स्वर्विश्वा तमांस्यहतं निदश्च ॥
6.072.02 इन्द्रासोमा वासयथ उषासमुत्सूर्यं नयथो ज्योतिषा सह ।
6.072.02 उप द्यां स्कम्भथु स्कम्भनेनाप्रथतं पृथिवीं मातरं वि ॥
6.072.03 इन्द्रासोमावहिमपः परिष्ठां हथो वृत्रमनु वां द्यौरमन्यत ।
6.072.03 प्रार्णांस्यैरयतं नदीनामा समुद्राणि पप्रथुः पुरूणि ॥
6.072.04 इन्द्रासोमा पक्वमामास्वन्तर्नि गवामिद्दधथुर्वक्षणासु ।
6.072.04 जगृभथुरनपिनद्धमासु रुशच्चित्रासु जगतीष्वन्तः ॥
6.072.05 इन्द्रासोमा युवमङ्ग तरुत्रमपत्यसाचं श्रुत्यं रराथे ।
6.072.05 युवं शुष्मं नर्यं चर्षणिभ्यः सं विव्यथुः पृतनाषाहमुग्रा ॥

6.073.01 यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
6.073.01 द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति ॥
6.073.02 जनाय चिद्य ईवत उ लोकं बृहस्पतिर्देवहूतौ चकार ।
6.073.02 घ्नन्वृत्राणि वि पुरो दर्दरीति जयञ्छत्रूंरमित्रान्पृत्सु साहन् ॥
6.073.03 बृहस्पतिः समजयद्वसूनि महो व्रजान्गोमतो देव एषः ।
6.073.03 अपः सिषासन्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः ॥

6.074.01 सोमारुद्रा धारयेथामसुर्यं प्र वामिष्टयोऽरमश्नुवन्तु ।
6.074.01 दमेदमे सप्त रत्ना दधाना शं नो भूतं द्विपदे शं चतुष्पदे ॥
6.074.02 सोमारुद्रा वि वृहतं विषूचीममीवा या नो गयमाविवेश ।
6.074.02 आरे बाधेथां निरृतिं पराचैरस्मे भद्रा सौश्रवसानि सन्तु ॥
6.074.03 सोमारुद्रा युवमेतान्यस्मे विश्वा तनूषु भेषजानि धत्तम् ।
6.074.03 अव स्यतं मुञ्चतं यन्नो अस्ति तनूषु बद्धं कृतमेनो अस्मत् ॥
6.074.04 तिग्मायुधौ तिग्महेती सुशेवौ सोमारुद्राविह सु मृळतं नः ।
6.074.04 प्र नो मुञ्चतं वरुणस्य पाशाद्गोपायतं नः सुमनस्यमाना ॥

6.075.01 जीमूतस्येव भवति प्रतीकं यद्वर्मी याति समदामुपस्थे ।
6.075.01 अनाविद्धया तन्वा जय त्वं स त्वा वर्मणो महिमा पिपर्तु ॥
6.075.02 धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम ।
6.075.02 धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
6.075.03 वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना ।
6.075.03 योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥
6.075.04 ते आचरन्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे ।
6.075.04 अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
6.075.05 बह्वीनां पिता बहुरस्य पुत्रश्चिश्चा कृणोति समनावगत्य ।
6.075.05 इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
6.075.06 रथे तिष्ठन्नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः ।
6.075.06 अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥
6.075.07 तीव्रान्घोषान्कृण्वते वृषपाणयोऽश्वा रथेभिः सह वाजयन्तः ।
6.075.07 अवक्रामन्तः प्रपदैरमित्रान्क्षिणन्ति शत्रूंरनपव्ययन्तः ॥
6.075.08 रथवाहनं हविरस्य नाम यत्रायुधं निहितमस्य वर्म ।
6.075.08 तत्रा रथमुप शग्मं सदेम विश्वाहा वयं सुमनस्यमानाः ॥
6.075.09 स्वादुषंसदः पितरो वयोधाः कृच्छ्रेश्रितः शक्तीवन्तो गभीराः ।
6.075.09 चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
6.075.10 ब्राह्मणासः पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा ।
6.075.10 पूषा नः पातु दुरितादृतावृधो रक्षा माकिर्नो अघशंस ईशत ॥
6.075.11 सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता ।
6.075.11 यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यमिषवः शर्म यंसन् ॥
6.075.12 ऋजीते परि वृङ्धि नोऽश्मा भवतु नस्तनूः ।
6.075.12 सोमो अधि ब्रवीतु नोऽदितिः शर्म यच्छतु ॥
6.075.13 आ जङ्घन्ति सान्वेषां जघनां उप जिघ्नते ।
6.075.13 अश्वाजनि प्रचेतसोऽश्वान्समत्सु चोदय ॥
6.075.14 अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
6.075.14 हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥
6.075.15 आलाक्ता या रुरुशीर्ष्ण्यथो यस्या अयो मुखम् ।
6.075.15 इदं पर्जन्यरेतस इष्वै देव्यै बृहन्नमः ॥
6.075.16 अवसृष्टा परा पत शरव्ये ब्रह्मसंशिते ।
6.075.16 गच्छामित्रान्प्र पद्यस्व मामीषां कं चनोच्छिषः ॥
6.075.17 यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव ।
6.075.17 तत्रा नो ब्रह्मणस्पतिरदितिः शर्म यच्छतु विश्वाहा शर्म यच्छतु ॥
6.075.18 मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजामृतेनानु वस्ताम् ।
6.075.18 उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥
6.075.19 यो नः स्वो अरणो यश्च निष्ट्यो जिघांसति ।
6.075.19 देवास्तं सर्वे धूर्वन्तु ब्रह्म वर्म ममान्तरम् ॥

Advertisements

Categories: Rig Veda

Tagged as: