Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Rig Veda » Rig Veda Third Mandala [ऋग्वेद]

Rig Veda Third Mandala [ऋग्वेद]

3.001.01 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।[First mantram] 3.062.18 गृणाना जमदग्निना योनावृतस्य सीदतम् ।[Last Mantram]

3.001.01 सोमस्य मा तवसं वक्ष्यग्ने वह्निं चकर्थ विदथे यजध्यै ।
3.001.01 देवां अच्छा दीद्यद्युञ्जे अद्रिं शमाये अग्ने तन्वं जुषस्व ॥
3.001.02 प्राञ्चं यज्ञं चकृम वर्धतां गीः समिद्भिरग्निं नमसा दुवस्यन् ।
3.001.02 दिवः शशासुर्विदथा कवीनां गृत्साय चित्तवसे गातुमीषुः ॥
3.001.03 मयो दधे मेधिरः पूतदक्षो दिवः सुबन्धुर्जनुषा पृथिव्याः ।
3.001.03 अविन्दन्नु दर्शतमप्स्वन्तर्देवासो अग्निमपसि स्वसॄणाम् ॥
3.001.04 अवर्धयन्सुभगं सप्त यह्वीः श्वेतं जज्ञानमरुषं महित्वा ।
3.001.04 शिशुं न जातमभ्यारुरश्वा देवासो अग्निं जनिमन्वपुष्यन् ॥
3.001.05 शुक्रेभिरङ्गै रज आततन्वान्क्रतुं पुनानः कविभिः पवित्रैः ।
3.001.05 शोचिर्वसानः पर्यायुरपां श्रियो मिमीते बृहतीरनूनाः ॥
3.001.06 वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः ।
3.001.06 सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः ॥
3.001.07 स्तीर्णा अस्य संहतो विश्वरूपा घृतस्य योनौ स्रवथे मधूनाम् ।
3.001.07 अस्थुरत्र धेनवः पिन्वमाना मही दस्मस्य मातरा समीची ॥
3.001.08 बभ्राणः सूनो सहसो व्यद्यौद्दधानः शुक्रा रभसा वपूंषि ।
3.001.08 श्चोतन्ति धारा मधुनो घृतस्य वृषा यत्र वावृधे काव्येन ॥
3.001.09 पितुश्चिदूधर्जनुषा विवेद व्यस्य धारा असृजद्वि धेनाः ।
3.001.09 गुहा चरन्तं सखिभिः शिवेभिर्दिवो यह्वीभिर्न गुहा बभूव ॥
3.001.10 पितुश्च गर्भं जनितुश्च बभ्रे पूर्वीरेको अधयत्पीप्यानाः ।
3.001.10 वृष्णे सपत्नी शुचये सबन्धू उभे अस्मै मनुष्ये नि पाहि ॥
3.001.11 उरौ महां अनिबाधे ववर्धापो अग्निं यशसः सं हि पूर्वीः ।
3.001.11 ऋतस्य योनावशयद्दमूना जामीनामग्निरपसि स्वसॄणाम् ॥
3.001.12 अक्रो न बभ्रिः समिथे महीनां दिदृक्षेयः सूनवे भाऋजीकः ।
3.001.12 उदुस्रिया जनिता यो जजानापां गर्भो नृतमो यह्वो अग्निः ॥
3.001.13 अपां गर्भं दर्शतमोषधीनां वना जजान सुभगा विरूपम् ।
3.001.13 देवासश्चिन्मनसा सं हि जग्मुः पनिष्ठं जातं तवसं दुवस्यन् ॥
3.001.14 बृहन्त इद्भानवो भाऋजीकमग्निं सचन्त विद्युतो न शुक्राः ।
3.001.14 गुहेव वृद्धं सदसि स्वे अन्तरपार ऊर्वे अमृतं दुहानाः ॥
3.001.15 ईळे च त्वा यजमानो हविर्भिरीळे सखित्वं सुमतिं निकामः ।
3.001.15 देवैरवो मिमीहि सं जरित्रे रक्षा च नो दम्येभिरनीकैः ॥
3.001.16 उपक्षेतारस्तव सुप्रणीतेऽग्ने विश्वानि धन्या दधानाः ।
3.001.16 सुरेतसा श्रवसा तुञ्जमाना अभि ष्याम पृतनायूंरदेवान् ॥
3.001.17 आ देवानामभवः केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान् ।
3.001.17 प्रति मर्तां अवासयो दमूना अनु देवान्रथिरो यासि साधन् ॥
3.001.18 नि दुरोणे अमृतो मर्त्यानां राजा ससाद विदथानि साधन् ।
3.001.18 घृतप्रतीक उर्विया व्यद्यौदग्निर्विश्वानि काव्यानि विद्वान् ॥
3.001.19 आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ।
3.001.19 अस्मे रयिं बहुलं संतरुत्रं सुवाचं भागं यशसं कृधी नः ॥
3.001.20 एता ते अग्ने जनिमा सनानि प्र पूर्व्याय नूतनानि वोचम् ।
3.001.20 महान्ति वृष्णे सवना कृतेमा जन्मञ्जन्मन्निहितो जातवेदाः ॥
3.001.21 जन्मञ्जन्मन्निहितो जातवेदा विश्वामित्रेभिरिध्यते अजस्रः ।
3.001.21 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
3.001.22 इमं यज्ञं सहसावन्त्वं नो देवत्रा धेहि सुक्रतो रराणः ।
3.001.22 प्र यंसि होतर्बृहतीरिषो नोऽग्ने महि द्रविणमा यजस्व ॥
3.001.23 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.001.23 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.002.01 वैश्वानराय धिषणामृतावृधे घृतं न पूतमग्नये जनामसि ।
3.002.01 द्विता होतारं मनुषश्च वाघतो धिया रथं न कुलिशः समृण्वति ॥
3.002.02 स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः ।
3.002.02 हव्यवाळ् अग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः ॥
3.002.03 क्रत्वा दक्षस्य तरुषो विधर्मणि देवासो अग्निं जनयन्त चित्तिभिः ।
3.002.03 रुरुचानं भानुना ज्योतिषा महामत्यं न वाजं सनिष्यन्नुप ब्रुवे ॥
3.002.04 आ मन्द्रस्य सनिष्यन्तो वरेण्यं वृणीमहे अह्रयं वाजमृग्मियम् ।
3.002.04 रातिं भृगूणामुशिजं कविक्रतुमग्निं राजन्तं दिव्येन शोचिषा ॥
3.002.05 अग्निं सुम्नाय दधिरे पुरो जना वाजश्रवसमिह वृक्तबर्हिषः ।
3.002.05 यतस्रुचः सुरुचं विश्वदेव्यं रुद्रं यज्ञानां साधदिष्टिमपसाम् ॥
3.002.06 पावकशोचे तव हि क्षयं परि होतर्यज्ञेषु वृक्तबर्हिषो नरः ।
3.002.06 अग्ने दुव इच्छमानास आप्यमुपासते द्रविणं धेहि तेभ्यः ॥
3.002.07 आ रोदसी अपृणदा स्वर्महज्जातं यदेनमपसो अधारयन् ।
3.002.07 सो अध्वराय परि णीयते कविरत्यो न वाजसातये चनोहितः ॥
3.002.08 नमस्यत हव्यदातिं स्वध्वरं दुवस्यत दम्यं जातवेदसम् ।
3.002.08 रथीरृतस्य बृहतो विचर्षणिरग्निर्देवानामभवत्पुरोहितः ॥
3.002.09 तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः ।
3.002.09 तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः ॥
3.002.10 विशां कविं विश्पतिं मानुषीरिषः सं सीमकृण्वन्स्वधितिं न तेजसे ।
3.002.10 स उद्वतो निवतो याति वेविषत्स गर्भमेषु भुवनेषु दीधरत् ॥
3.002.11 स जिन्वते जठरेषु प्रजज्ञिवान्वृषा चित्रेषु नानदन्न सिंहः ।
3.002.11 वैश्वानरः पृथुपाजा अमर्त्यो वसु रत्ना दयमानो वि दाशुषे ॥
3.002.12 वैश्वानरः प्रत्नथा नाकमारुहद्दिवस्पृष्ठं भन्दमानः सुमन्मभिः ।
3.002.12 स पूर्ववज्जनयञ्जन्तवे धनं समानमज्मं पर्येति जागृविः ॥
3.002.13 ऋतावानं यज्ञियं विप्रमुक्थ्यमा यं दधे मातरिश्वा दिवि क्षयम् ।
3.002.13 तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे ॥
3.002.14 शुचिं न यामन्निषिरं स्वर्दृशं केतुं दिवो रोचनस्थामुषर्बुधम् ।
3.002.14 अग्निं मूर्धानं दिवो अप्रतिष्कुतं तमीमहे नमसा वाजिनं बृहत् ॥
3.002.15 मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम् ।
3.002.15 रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे ॥

3.003.01 वैश्वानराय पृथुपाजसे विपो रत्ना विधन्त धरुणेषु गातवे ।
3.003.01 अग्निर्हि देवां अमृतो दुवस्यत्यथा धर्माणि सनता न दूदुषत् ॥
3.003.02 अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः ।
3.003.02 क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः ॥
3.003.03 केतुं यज्ञानां विदथस्य साधनं विप्रासो अग्निं महयन्त चित्तिभिः ।
3.003.03 अपांसि यस्मिन्नधि संदधुर्गिरस्तस्मिन्सुम्नानि यजमान आ चके ॥
3.003.04 पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनं च वाघताम् ।
3.003.04 आ विवेश रोदसी भूरिवर्पसा पुरुप्रियो भन्दते धामभिः कविः ॥
3.003.05 चन्द्रमग्निं चन्द्ररथं हरिव्रतं वैश्वानरमप्सुषदं स्वर्विदम् ।
3.003.05 विगाहं तूर्णिं तविषीभिरावृतं भूर्णिं देवास इह सुश्रियं दधुः ॥
3.003.06 अग्निर्देवेभिर्मनुषश्च जन्तुभिस्तन्वानो यज्ञं पुरुपेशसं धिया ।
3.003.06 रथीरन्तरीयते साधदिष्टिभिर्जीरो दमूना अभिशस्तिचातनः ॥
3.003.07 अग्ने जरस्व स्वपत्य आयुन्यूर्जा पिन्वस्व समिषो दिदीहि नः ।
3.003.07 वयांसि जिन्व बृहतश्च जागृव उशिग्देवानामसि सुक्रतुर्विपाम् ॥
3.003.08 विश्पतिं यह्वमतिथिं नरः सदा यन्तारं धीनामुशिजं च वाघताम् ।
3.003.08 अध्वराणां चेतनं जातवेदसं प्र शंसन्ति नमसा जूतिभिर्वृधे ॥
3.003.09 विभावा देवः सुरणः परि क्षितीरग्निर्बभूव शवसा सुमद्रथः ।
3.003.09 तस्य व्रतानि भूरिपोषिणो वयमुप भूषेम दम आ सुवृक्तिभिः ॥
3.003.10 वैश्वानर तव धामान्या चके येभिः स्वर्विदभवो विचक्षण ।
3.003.10 जात आपृणो भुवनानि रोदसी अग्ने ता विश्वा परिभूरसि त्मना ॥
3.003.11 वैश्वानरस्य दंसनाभ्यो बृहदरिणादेकः स्वपस्यया कविः ।
3.003.11 उभा पितरा महयन्नजायताग्निर्द्यावापृथिवी भूरिरेतसा ॥

3.004.01 समित्समित्सुमना बोध्यस्मे शुचाशुचा सुमतिं रासि वस्वः ।
3.004.01 आ देव देवान्यजथाय वक्षि सखा सखीन्सुमना यक्ष्यग्ने ॥
3.004.02 यं देवासस्त्रिरहन्नायजन्ते दिवेदिवे वरुणो मित्रो अग्निः ।
3.004.02 सेमं यज्ञं मधुमन्तं कृधी नस्तनूनपाद्घृतयोनिं विधन्तम् ॥
3.004.03 प्र दीधितिर्विश्ववारा जिगाति होतारमिळः प्रथमं यजध्यै ।
3.004.03 अच्छा नमोभिर्वृषभं वन्दध्यै स देवान्यक्षदिषितो यजीयान् ॥
3.004.04 ऊर्ध्वो वां गातुरध्वरे अकार्यूर्ध्वा शोचींषि प्रस्थिता रजांसि ।
3.004.04 दिवो वा नाभा न्यसादि होता स्तृणीमहि देवव्यचा वि बर्हिः ॥
3.004.05 सप्त होत्राणि मनसा वृणाना इन्वन्तो विश्वं प्रति यन्नृतेन ।
3.004.05 नृपेशसो विदथेषु प्र जाता अभीमं यज्ञं वि चरन्त पूर्वीः ॥
3.004.06 आ भन्दमाने उषसा उपाके उत स्मयेते तन्वा विरूपे ।
3.004.06 यथा नो मित्रो वरुणो जुजोषदिन्द्रो मरुत्वां उत वा महोभिः ॥
3.004.07 दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
3.004.07 ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
3.004.08 आ भारती भारतीभिः सजोषा इळा देवैर्मनुष्येभिरग्निः ।
3.004.08 सरस्वती सारस्वतेभिरर्वाक्तिस्रो देवीर्बर्हिरेदं सदन्तु ॥
3.004.09 तन्नस्तुरीपमध पोषयित्नु देव त्वष्टर्वि रराणः स्यस्व ।
3.004.09 यतो वीरः कर्मण्यः सुदक्षो युक्तग्रावा जायते देवकामः ॥
3.004.10 वनस्पतेऽव सृजोप देवानग्निर्हविः शमिता सूदयाति ।
3.004.10 सेदु होता सत्यतरो यजाति यथा देवानां जनिमानि वेद ॥
3.004.11 आ याह्यग्ने समिधानो अर्वाङिन्द्रेण देवैः सरथं तुरेभिः ।
3.004.11 बर्हिर्न आस्तामदितिः सुपुत्रा स्वाहा देवा अमृता मादयन्ताम् ॥

3.005.01 प्रत्यग्निरुषसश्चेकितानोऽबोधि विप्रः पदवीः कवीनाम् ।
3.005.01 पृथुपाजा देवयद्भिः समिद्धोऽप द्वारा तमसो वह्निरावः ॥
3.005.02 प्रेद्वग्निर्वावृधे स्तोमेभिर्गीर्भि स्तोतॄणां नमस्य उक्थैः ।
3.005.02 पूर्वीरृतस्य संदृशश्चकानः सं दूतो अद्यौदुषसो विरोके ॥
3.005.03 अधाय्यग्निर्मानुषीषु विक्ष्वपां गर्भो मित्र ऋतेन साधन् ।
3.005.03 आ हर्यतो यजतः सान्वस्थादभूदु विप्रो हव्यो मतीनाम् ॥
3.005.04 मित्रो अग्निर्भवति यत्समिद्धो मित्रो होता वरुणो जातवेदाः ।
3.005.04 मित्रो अध्वर्युरिषिरो दमूना मित्रः सिन्धूनामुत पर्वतानाम् ॥
3.005.05 पाति प्रियं रिपो अग्रं पदं वेः पाति यह्वश्चरणं सूर्यस्य ।
3.005.05 पाति नाभा सप्तशीर्षाणमग्निः पाति देवानामुपमादमृष्वः ॥
3.005.06 ऋभुश्चक्र ईड्यं चारु नाम विश्वानि देवो वयुनानि विद्वान् ।
3.005.06 ससस्य चर्म घृतवत्पदं वेस्तदिदग्नी रक्षत्यप्रयुच्छन् ॥
3.005.07 आ योनिमग्निर्घृतवन्तमस्थात्पृथुप्रगाणमुशन्तमुशानः ।
3.005.07 दीद्यानः शुचिरृष्वः पावकः पुनःपुनर्मातरा नव्यसी कः ॥
3.005.08 सद्यो जात ओषधीभिर्ववक्षे यदी वर्धन्ति प्रस्वो घृतेन ।
3.005.08 आप इव प्रवता शुम्भमाना उरुष्यदग्निः पित्रोरुपस्थे ॥
3.005.09 उदु ष्टुतः समिधा यह्वो अद्यौद्वर्ष्मन्दिवो अधि नाभा पृथिव्याः ।
3.005.09 मित्रो अग्निरीड्यो मातरिश्वा दूतो वक्षद्यजथाय देवान् ॥
3.005.10 उदस्तम्भीत्समिधा नाकमृष्वोऽग्निर्भवन्नुत्तमो रोचनानाम् ।
3.005.10 यदी भृगुभ्यः परि मातरिश्वा गुहा सन्तं हव्यवाहं समीधे ॥
3.005.11 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.005.11 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.006.01 प्र कारवो मनना वच्यमाना देवद्रीचीं नयत देवयन्तः ।
3.006.01 दक्षिणावाड्वाजिनी प्राच्येति हविर्भरन्त्यग्नये घृताची ॥
3.006.02 आ रोदसी अपृणा जायमान उत प्र रिक्था अध नु प्रयज्यो ।
3.006.02 दिवश्चिदग्ने महिना पृथिव्या वच्यन्तां ते वह्नयः सप्तजिह्वाः ॥
3.006.03 द्यौश्च त्वा पृथिवी यज्ञियासो नि होतारं सादयन्ते दमाय ।
3.006.03 यदी विशो मानुषीर्देवयन्तीः प्रयस्वतीरीळते शुक्रमर्चिः ॥
3.006.04 महान्सधस्थे ध्रुव आ निषत्तोऽन्तर्द्यावा माहिने हर्यमाणः ।
3.006.04 आस्क्रे सपत्नी अजरे अमृक्ते सबर्दुघे उरुगायस्य धेनू ॥
3.006.05 व्रता ते अग्ने महतो महानि तव क्रत्वा रोदसी आ ततन्थ ।
3.006.05 त्वं दूतो अभवो जायमानस्त्वं नेता वृषभ चर्षणीनाम् ॥
3.006.06 ऋतस्य वा केशिना योग्याभिर्घृतस्नुवा रोहिता धुरि धिष्व ।
3.006.06 अथा वह देवान्देव विश्वान्स्वध्वरा कृणुहि जातवेदः ॥
3.006.07 दिवश्चिदा ते रुचयन्त रोका उषो विभातीरनु भासि पूर्वीः ।
3.006.07 अपो यदग्न उशधग्वनेषु होतुर्मन्द्रस्य पनयन्त देवाः ॥
3.006.08 उरौ वा ये अन्तरिक्षे मदन्ति दिवो वा ये रोचने सन्ति देवाः ।
3.006.08 ऊमा वा ये सुहवासो यजत्रा आयेमिरे रथ्यो अग्ने अश्वाः ॥
3.006.09 ऐभिरग्ने सरथं याह्यर्वाङ्नानारथं वा विभवो ह्यश्वाः ।
3.006.09 पत्नीवतस्त्रिंशतं त्रींश्च देवाननुष्वधमा वह मादयस्व ॥
3.006.10 स होता यस्य रोदसी चिदुर्वी यज्ञंयज्ञमभि वृधे गृणीतः ।
3.006.10 प्राची अध्वरेव तस्थतुः सुमेके ऋतावरी ऋतजातस्य सत्ये ॥
3.006.11 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.006.11 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.007.01 प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः ।
3.007.01 परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥
3.007.02 दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः ।
3.007.02 ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥
3.007.03 आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् ।
3.007.03 प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥
3.007.04 महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति ।
3.007.04 व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥
3.007.05 जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति ।
3.007.05 दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥
3.007.06 उतो पितृभ्यां प्रविदानु घोषं महो महद्भ्यामनयन्त शूषम् ।
3.007.06 उक्षा ह यत्र परि धानमक्तोरनु स्वं धाम जरितुर्ववक्ष ॥
3.007.07 अध्वर्युभिः पञ्चभिः सप्त विप्राः प्रियं रक्षन्ते निहितं पदं वेः ।
3.007.07 प्राञ्चो मदन्त्युक्षणो अजुर्या देवा देवानामनु हि व्रता गुः ॥
3.007.08 दैव्या होतारा प्रथमा न्यृञ्जे सप्त पृक्षासः स्वधया मदन्ति ।
3.007.08 ऋतं शंसन्त ऋतमित्त आहुरनु व्रतं व्रतपा दीध्यानाः ॥
3.007.09 वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः ।
3.007.09 देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥
3.007.10 पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः ।
3.007.10 उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥
3.007.11 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.007.11 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.008.01 अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते मधुना दैव्येन ।
3.008.01 यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥
3.008.02 समिद्धस्य श्रयमाणः पुरस्ताद्ब्रह्म वन्वानो अजरं सुवीरम् ।
3.008.02 आरे अस्मदमतिं बाधमान उच्छ्रयस्व महते सौभगाय ॥
3.008.03 उच्छ्रयस्व वनस्पते वर्ष्मन्पृथिव्या अधि ।
3.008.03 सुमिती मीयमानो वर्चो धा यज्ञवाहसे ॥
3.008.04 युवा सुवासाः परिवीत आगात्स उ श्रेयान्भवति जायमानः ।
3.008.04 तं धीरासः कवय उन्नयन्ति स्वाध्यो मनसा देवयन्तः ॥
3.008.05 जातो जायते सुदिनत्वे अह्नां समर्य आ विदथे वर्धमानः ।
3.008.05 पुनन्ति धीरा अपसो मनीषा देवया विप्र उदियर्ति वाचम् ॥
3.008.06 यान्वो नरो देवयन्तो निमिम्युर्वनस्पते स्वधितिर्वा ततक्ष ।
3.008.06 ते देवासः स्वरवस्तस्थिवांसः प्रजावदस्मे दिधिषन्तु रत्नम् ॥
3.008.07 ये वृक्णासो अधि क्षमि निमितासो यतस्रुचः ।
3.008.07 ते नो व्यन्तु वार्यं देवत्रा क्षेत्रसाधसः ॥
3.008.08 आदित्या रुद्रा वसवः सुनीथा द्यावाक्षामा पृथिवी अन्तरिक्षम् ।
3.008.08 सजोषसो यज्ञमवन्तु देवा ऊर्ध्वं कृण्वन्त्वध्वरस्य केतुम् ॥
3.008.09 हंसा इव श्रेणिशो यतानाः शुक्रा वसानाः स्वरवो न आगुः ।
3.008.09 उन्नीयमानाः कविभिः पुरस्ताद्देवा देवानामपि यन्ति पाथः ॥
3.008.10 शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम् ।
3.008.10 वाघद्भिर्वा विहवे श्रोषमाणा अस्मां अवन्तु पृतनाज्येषु ॥
3.008.11 वनस्पते शतवल्शो वि रोह सहस्रवल्शा वि वयं रुहेम ।
3.008.11 यं त्वामयं स्वधितिस्तेजमानः प्रणिनाय महते सौभगाय ॥

3.009.01 सखायस्त्वा ववृमहे देवं मर्तास ऊतये ।
3.009.01 अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥
3.009.02 कायमानो वना त्वं यन्मातॄरजगन्नपः ।
3.009.02 न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥
3.009.03 अति तृष्टं ववक्षिथाथैव सुमना असि ।
3.009.03 प्रप्रान्ये यन्ति पर्यन्य आसते येषां सख्ये असि श्रितः ॥
3.009.04 ईयिवांसमति स्रिधः शश्वतीरति सश्चतः ।
3.009.04 अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥
3.009.05 ससृवांसमिव त्मनाग्निमित्था तिरोहितम् ।
3.009.05 ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥
3.009.06 तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन ।
3.009.06 विश्वान्यद्यज्ञां अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥
3.009.07 तद्भद्रं तव दंसना पाकाय चिच्छदयति ।
3.009.07 त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥
3.009.08 आ जुहोता स्वध्वरं शीरं पावकशोचिषम् ।
3.009.08 आशुं दूतमजिरं प्रत्नमीड्यं श्रुष्टी देवं सपर्यत ॥
3.009.09 त्रीणि शता त्री सहस्राण्यग्निं त्रिंशच्च देवा नव चासपर्यन् ।
3.009.09 औक्षन्घृतैरस्तृणन्बर्हिरस्मा आदिद्धोतारं न्यसादयन्त ॥

3.010.01 त्वामग्ने मनीषिणः सम्राजं चर्षणीनाम् ।
3.010.01 देवं मर्तास इन्धते समध्वरे ॥
3.010.02 त्वां यज्ञेष्वृत्विजमग्ने होतारमीळते ।
3.010.02 गोपा ऋतस्य दीदिहि स्वे दमे ॥
3.010.03 स घा यस्ते ददाशति समिधा जातवेदसे ।
3.010.03 सो अग्ने धत्ते सुवीर्यं स पुष्यति ॥
3.010.04 स केतुरध्वराणामग्निर्देवेभिरा गमत् ।
3.010.04 अञ्जानः सप्त होतृभिर्हविष्मते ॥
3.010.05 प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
3.010.05 विपां ज्योतींषि बिभ्रते न वेधसे ॥
3.010.06 अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः ।
3.010.06 महे वाजाय द्रविणाय दर्शतः ॥
3.010.07 अग्ने यजिष्ठो अध्वरे देवान्देवयते यज ।
3.010.07 होता मन्द्रो वि राजस्यति स्रिधः ॥
3.010.08 स नः पावक दीदिहि द्युमदस्मे सुवीर्यम् ।
3.010.08 भवा स्तोतृभ्यो अन्तमः स्वस्तये ॥
3.010.09 तं त्वा विप्रा विपन्यवो जागृवांसः समिन्धते ।
3.010.09 हव्यवाहममर्त्यं सहोवृधम् ॥

3.011.01 अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
3.011.01 स वेद यज्ञमानुषक् ॥
3.011.02 स हव्यवाळ् अमर्त्य उशिग्दूतश्चनोहितः ।
3.011.02 अग्निर्धिया समृण्वति ॥
3.011.03 अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
3.011.03 अर्थं ह्यस्य तरणि ॥
3.011.04 अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
3.011.04 वह्निं देवा अकृण्वत ॥
3.011.05 अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
3.011.05 तूर्णी रथः सदा नवः ॥
3.011.06 साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
3.011.06 अग्निस्तुविश्रवस्तमः ॥
3.011.07 अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।
3.011.07 क्षयं पावकशोचिषः ॥
3.011.08 परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
3.011.08 विप्रासो जातवेदसः ॥
3.011.09 अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
3.011.09 त्वे देवास एरिरे ॥

3.012.01 इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यम् ।
3.012.01 अस्य पातं धियेषिता ॥
3.012.02 इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।
3.012.02 अया पातमिमं सुतम् ॥
3.012.03 इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।
3.012.03 ता सोमस्येह तृम्पताम् ॥
3.012.04 तोशा वृत्रहणा हुवे सजित्वानापराजिता ।
3.012.04 इन्द्राग्नी वाजसातमा ॥
3.012.05 प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।
3.012.05 इन्द्राग्नी इष आ वृणे ॥
3.012.06 इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतम् ।
3.012.06 साकमेकेन कर्मणा ॥
3.012.07 इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।
3.012.07 ऋतस्य पथ्या अनु ॥
3.012.08 इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।
3.012.08 युवोरप्तूर्यं हितम् ॥
3.012.09 इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।
3.012.09 तद्वां चेति प्र वीर्यम् ॥

3.013.01 प्र वो देवायाग्नये बर्हिष्ठमर्चास्मै ।
3.013.01 गमद्देवेभिरा स नो यजिष्ठो बर्हिरा सदत् ॥
3.013.02 ऋतावा यस्य रोदसी दक्षं सचन्त ऊतयः ।
3.013.02 हविष्मन्तस्तमीळते तं सनिष्यन्तोऽवसे ॥
3.013.03 स यन्ता विप्र एषां स यज्ञानामथा हि षः ।
3.013.03 अग्निं तं वो दुवस्यत दाता यो वनिता मघम् ॥
3.013.04 स नः शर्माणि वीतयेऽग्निर्यच्छतु शन्तमा ।
3.013.04 यतो नः प्रुष्णवद्वसु दिवि क्षितिभ्यो अप्स्वा ॥
3.013.05 दीदिवांसमपूर्व्यं वस्वीभिरस्य धीतिभिः ।
3.013.05 ऋक्वाणो अग्निमिन्धते होतारं विश्पतिं विशाम् ॥
3.013.06 उत नो ब्रह्मन्नविष उक्थेषु देवहूतमः ।
3.013.06 शं नः शोचा मरुद्वृधोऽग्ने सहस्रसातमः ॥
3.013.07 नू नो रास्व सहस्रवत्तोकवत्पुष्टिमद्वसु ।
3.013.07 द्युमदग्ने सुवीर्यं वर्षिष्ठमनुपक्षितम् ॥

3.014.01 आ होता मन्द्रो विदथान्यस्थात्सत्यो यज्वा कवितमः स वेधाः ।
3.014.01 विद्युद्रथः सहसस्पुत्रो अग्निः शोचिष्केशः पृथिव्यां पाजो अश्रेत् ॥
3.014.02 अयामि ते नमौक्तिं जुषस्व ऋतावस्तुभ्यं चेतते सहस्वः ।
3.014.02 विद्वां आ वक्षि विदुषो नि षत्सि मध्य आ बर्हिरूतये यजत्र ॥
3.014.03 द्रवतां त उषसा वाजयन्ती अग्ने वातस्य पथ्याभिरच्छ ।
3.014.03 यत्सीमञ्जन्ति पूर्व्यं हविर्भिरा वन्धुरेव तस्थतुर्दुरोणे ॥
3.014.04 मित्रश्च तुभ्यं वरुणः सहस्वोऽग्ने विश्वे मरुतः सुम्नमर्चन् ।
3.014.04 यच्छोचिषा सहसस्पुत्र तिष्ठा अभि क्षितीः प्रथयन्सूर्यो नॄन् ॥
3.014.05 वयं ते अद्य ररिमा हि काममुत्तानहस्ता नमसोपसद्य ।
3.014.05 यजिष्ठेन मनसा यक्षि देवानस्रेधता मन्मना विप्रो अग्ने ॥
3.014.06 त्वद्धि पुत्र सहसो वि पूर्वीर्देवस्य यन्त्यूतयो वि वाजाः ।
3.014.06 त्वं देहि सहस्रिणं रयिं नोऽद्रोघेण वचसा सत्यमग्ने ॥
3.014.07 तुभ्यं दक्ष कविक्रतो यानीमा देव मर्तासो अध्वरे अकर्म ।
3.014.07 त्वं विश्वस्य सुरथस्य बोधि सर्वं तदग्ने अमृत स्वदेह ॥

3.015.01 वि पाजसा पृथुना शोशुचानो बाधस्व द्विषो रक्षसो अमीवाः ।
3.015.01 सुशर्मणो बृहतः शर्मणि स्यामग्नेरहं सुहवस्य प्रणीतौ ॥
3.015.02 त्वं नो अस्या उषसो व्युष्टौ त्वं सूर उदिते बोधि गोपाः ।
3.015.02 जन्मेव नित्यं तनयं जुषस्व स्तोमं मे अग्ने तन्वा सुजात ॥
3.015.03 त्वं नृचक्षा वृषभानु पूर्वीः कृष्णास्वग्ने अरुषो वि भाहि ।
3.015.03 वसो नेषि च पर्षि चात्यंहः कृधी नो राय उशिजो यविष्ठ ॥
3.015.04 अषाळ्हो अग्ने वृषभो दिदीहि पुरो विश्वाः सौभगा संजिगीवान् ।
3.015.04 यज्ञस्य नेता प्रथमस्य पायोर्जातवेदो बृहतः सुप्रणीते ॥
3.015.05 अच्छिद्रा शर्म जरितः पुरूणि देवां अच्छा दीद्यानः सुमेधाः ।
3.015.05 रथो न सस्निरभि वक्षि वाजमग्ने त्वं रोदसी नः सुमेके ॥
3.015.06 प्र पीपय वृषभ जिन्व वाजानग्ने त्वं रोदसी नः सुदोघे ।
3.015.06 देवेभिर्देव सुरुचा रुचानो मा नो मर्तस्य दुर्मतिः परि ष्ठात् ॥
3.015.07 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.015.07 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.016.01 अयमग्निः सुवीर्यस्येशे महः सौभगस्य ।
3.016.01 राय ईशे स्वपत्यस्य गोमत ईशे वृत्रहथानाम् ॥
3.016.02 इमं नरो मरुतः सश्चता वृधं यस्मिन्रायः शेवृधासः ।
3.016.02 अभि ये सन्ति पृतनासु दूढ्यो विश्वाहा शत्रुमादभुः ॥
3.016.03 स त्वं नो रायः शिशीहि मीढ्वो अग्ने सुवीर्यस्य ।
3.016.03 तुविद्युम्न वर्षिष्ठस्य प्रजावतोऽनमीवस्य शुष्मिणः ॥
3.016.04 चक्रिर्यो विश्वा भुवनाभि सासहिश्चक्रिर्देवेष्वा दुवः ।
3.016.04 आ देवेषु यतत आ सुवीर्य आ शंस उत नृणाम् ॥
3.016.05 मा नो अग्नेऽमतये मावीरतायै रीरधः ।
3.016.05 मागोतायै सहसस्पुत्र मा निदेऽप द्वेषांस्या कृधि ॥
3.016.06 शग्धि वाजस्य सुभग प्रजावतोऽग्ने बृहतो अध्वरे ।
3.016.06 सं राया भूयसा सृज मयोभुना तुविद्युम्न यशस्वता ॥

3.017.01 समिध्यमानः प्रथमानु धर्मा समक्तुभिरज्यते विश्ववारः ।
3.017.01 शोचिष्केशो घृतनिर्णिक्पावकः सुयज्ञो अग्निर्यजथाय देवान् ॥
3.017.02 यथायजो होत्रमग्ने पृथिव्या यथा दिवो जातवेदश्चिकित्वान् ।
3.017.02 एवानेन हविषा यक्षि देवान्मनुष्वद्यज्ञं प्र तिरेममद्य ॥
3.017.03 त्रीण्यायूंषि तव जातवेदस्तिस्र आजानीरुषसस्ते अग्ने ।
3.017.03 ताभिर्देवानामवो यक्षि विद्वानथा भव यजमानाय शं योः ॥
3.017.04 अग्निं सुदीतिं सुदृशं गृणन्तो नमस्यामस्त्वेड्यं जातवेदः ।
3.017.04 त्वां दूतमरतिं हव्यवाहं देवा अकृण्वन्नमृतस्य नाभिम् ॥
3.017.05 यस्त्वद्धोता पूर्वो अग्ने यजीयान्द्विता च सत्ता स्वधया च शम्भुः ।
3.017.05 तस्यानु धर्म प्र यजा चिकित्वोऽथ नो धा अध्वरं देववीतौ ॥

3.018.01 भवा नो अग्ने सुमना उपेतौ सखेव सख्ये पितरेव साधुः ।
3.018.01 पुरुद्रुहो हि क्षितयो जनानां प्रति प्रतीचीर्दहतादरातीः ॥
3.018.02 तपो ष्वग्ने अन्तरां अमित्रान्तपा शंसमररुषः परस्य ।
3.018.02 तपो वसो चिकितानो अचित्तान्वि ते तिष्ठन्तामजरा अयासः ॥
3.018.03 इध्मेनाग्न इच्छमानो घृतेन जुहोमि हव्यं तरसे बलाय ।
3.018.03 यावदीशे ब्रह्मणा वन्दमान इमां धियं शतसेयाय देवीम् ॥
3.018.04 उच्छोचिषा सहसस्पुत्र स्तुतो बृहद्वयः शशमानेषु धेहि ।
3.018.04 रेवदग्ने विश्वामित्रेषु शं योर्मर्मृज्मा ते तन्वं भूरि कृत्वः ॥
3.018.05 कृधि रत्नं सुसनितर्धनानां स घेदग्ने भवसि यत्समिद्धः ।
3.018.05 स्तोतुर्दुरोणे सुभगस्य रेवत्सृप्रा करस्ना दधिषे वपूंषि ॥

3.019.01 अग्निं होतारं प्र वृणे मियेधे गृत्सं कविं विश्वविदममूरम् ।
3.019.01 स नो यक्षद्देवताता यजीयान्राये वाजाय वनते मघानि ॥
3.019.02 प्र ते अग्ने हविष्मतीमियर्म्यच्छा सुद्युम्नां रातिनीं घृताचीम् ।
3.019.02 प्रदक्षिणिद्देवतातिमुराणः सं रातिभिर्वसुभिर्यज्ञमश्रेत् ॥
3.019.03 स तेजीयसा मनसा त्वोत उत शिक्ष स्वपत्यस्य शिक्षोः ।
3.019.03 अग्ने रायो नृतमस्य प्रभूतौ भूयाम ते सुष्टुतयश्च वस्वः ॥
3.019.04 भूरीणि हि त्वे दधिरे अनीकाग्ने देवस्य यज्यवो जनासः ।
3.019.04 स आ वह देवतातिं यविष्ठ शर्धो यदद्य दिव्यं यजासि ॥
3.019.05 यत्त्वा होतारमनजन्मियेधे निषादयन्तो यजथाय देवाः ।
3.019.05 स त्वं नो अग्नेऽवितेह बोध्यधि श्रवांसि धेहि नस्तनूषु ॥

3.020.01 अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः ।
3.020.01 सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥
3.020.02 अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः ।
3.020.02 तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥
3.020.03 अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम ।
3.020.03 याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥
3.020.04 अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा ।
3.020.04 स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥
3.020.05 दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् ।
3.020.05 अश्विना मित्रावरुणा भगं च वसून्रुद्रां आदित्यां इह हुवे ॥

3.021.01 इमं नो यज्ञममृतेषु धेहीमा हव्या जातवेदो जुषस्व ।
3.021.01 स्तोकानामग्ने मेदसो घृतस्य होतः प्राशान प्रथमो निषद्य ॥
3.021.02 घृतवन्तः पावक ते स्तोका श्चोतन्ति मेदसः ।
3.021.02 स्वधर्मन्देववीतये श्रेष्ठं नो धेहि वार्यम् ॥
3.021.03 तुभ्यं स्तोका घृतश्चुतोऽग्ने विप्राय सन्त्य ।
3.021.03 ऋषिः श्रेष्ठः समिध्यसे यज्ञस्य प्राविता भव ॥
3.021.04 तुभ्यं श्चोतन्त्यध्रिगो शचीव स्तोकासो अग्ने मेदसो घृतस्य ।
3.021.04 कविशस्तो बृहता भानुनागा हव्या जुषस्व मेधिर ॥
3.021.05 ओजिष्ठं ते मध्यतो मेद उद्भृतं प्र ते वयं ददामहे ।
3.021.05 श्चोतन्ति ते वसो स्तोका अधि त्वचि प्रति तान्देवशो विहि ॥

3.022.01 अयं सो अग्निर्यस्मिन्सोममिन्द्रः सुतं दधे जठरे वावशानः ।
3.022.01 सहस्रिणं वाजमत्यं न सप्तिं ससवान्सन्स्तूयसे जातवेदः ॥
3.022.02 अग्ने यत्ते दिवि वर्चः पृथिव्यां यदोषधीष्वप्स्वा यजत्र ।
3.022.02 येनान्तरिक्षमुर्वाततन्थ त्वेषः स भानुरर्णवो नृचक्षाः ॥
3.022.03 अग्ने दिवो अर्णमच्छा जिगास्यच्छा देवां ऊचिषे धिष्ण्या ये ।
3.022.03 या रोचने परस्तात्सूर्यस्य याश्चावस्तादुपतिष्ठन्त आपः ॥
3.022.04 पुरीष्यासो अग्नयः प्रावणेभिः सजोषसः ।
3.022.04 जुषन्तां यज्ञमद्रुहोऽनमीवा इषो महीः ॥
3.022.05 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.022.05 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.023.01 निर्मथितः सुधित आ सधस्थे युवा कविरध्वरस्य प्रणेता ।
3.023.01 जूर्यत्स्वग्निरजरो वनेष्वत्रा दधे अमृतं जातवेदाः ॥
3.023.02 अमन्थिष्टां भारता रेवदग्निं देवश्रवा देववातः सुदक्षम् ।
3.023.02 अग्ने वि पश्य बृहताभि रायेषां नो नेता भवतादनु द्यून् ॥
3.023.03 दश क्षिपः पूर्व्यं सीमजीजनन्सुजातं मातृषु प्रियम् ।
3.023.03 अग्निं स्तुहि दैववातं देवश्रवो यो जनानामसद्वशी ॥
3.023.04 नि त्वा दधे वर आ पृथिव्या इळायास्पदे सुदिनत्वे अह्नाम् ।
3.023.04 दृषद्वत्यां मानुष आपयायां सरस्वत्यां रेवदग्ने दिदीहि ॥
3.023.05 इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध ।
3.023.05 स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥

3.024.01 अग्ने सहस्व पृतना अभिमातीरपास्य ।
3.024.01 दुष्टरस्तरन्नरातीर्वर्चो धा यज्ञवाहसे ॥
3.024.02 अग्न इळा समिध्यसे वीतिहोत्रो अमर्त्यः ।
3.024.02 जुषस्व सू नो अध्वरम् ॥
3.024.03 अग्ने द्युम्नेन जागृवे सहसः सूनवाहुत ।
3.024.03 एदं बर्हिः सदो मम ॥
3.024.04 अग्ने विश्वेभिरग्निभिर्देवेभिर्महया गिरः ।
3.024.04 यज्ञेषु य उ चायवः ॥
3.024.05 अग्ने दा दाशुषे रयिं वीरवन्तं परीणसम् ।
3.024.05 शिशीहि नः सूनुमतः ॥

3.025.01 अग्ने दिवः सूनुरसि प्रचेतास्तना पृथिव्या उत विश्ववेदाः ।
3.025.01 ऋधग्देवां इह यजा चिकित्वः ॥
3.025.02 अग्निः सनोति वीर्याणि विद्वान्सनोति वाजममृताय भूषन् ।
3.025.02 स नो देवां एह वहा पुरुक्षो ॥
3.025.03 अग्निर्द्यावापृथिवी विश्वजन्ये आ भाति देवी अमृते अमूरः ।
3.025.03 क्षयन्वाजैः पुरुश्चन्द्रो नमोभिः ॥
3.025.04 अग्न इन्द्रश्च दाशुषो दुरोणे सुतावतो यज्ञमिहोप यातम् ।
3.025.04 अमर्धन्ता सोमपेयाय देवा ॥
3.025.05 अग्ने अपां समिध्यसे दुरोणे नित्यः सूनो सहसो जातवेदः ।
3.025.05 सधस्थानि महयमान ऊती ॥

3.026.01 वैश्वानरं मनसाग्निं निचाय्या हविष्मन्तो अनुषत्यं स्वर्विदम् ।
3.026.01 सुदानुं देवं रथिरं वसूयवो गीर्भी रण्वं कुशिकासो हवामहे ॥
3.026.02 तं शुभ्रमग्निमवसे हवामहे वैश्वानरं मातरिश्वानमुक्थ्यम् ।
3.026.02 बृहस्पतिं मनुषो देवतातये विप्रं श्रोतारमतिथिं रघुष्यदम् ॥
3.026.03 अश्वो न क्रन्दञ्जनिभिः समिध्यते वैश्वानरः कुशिकेभिर्युगेयुगे ।
3.026.03 स नो अग्निः सुवीर्यं स्वश्व्यं दधातु रत्नममृतेषु जागृविः ॥
3.026.04 प्र यन्तु वाजास्तविषीभिरग्नयः शुभे सम्मिश्लाः पृषतीरयुक्षत ।
3.026.04 बृहदुक्षो मरुतो विश्ववेदसः प्र वेपयन्ति पर्वतां अदाभ्याः ॥
3.026.05 अग्निश्रियो मरुतो विश्वकृष्टय आ त्वेषमुग्रमव ईमहे वयम् ।
3.026.05 ते स्वानिनो रुद्रिया वर्षनिर्णिजः सिंहा न हेषक्रतवः सुदानवः ॥
3.026.06 व्रातंव्रातं गणंगणं सुशस्तिभिरग्नेर्भामं मरुतामोज ईमहे ।
3.026.06 पृषदश्वासो अनवभ्रराधसो गन्तारो यज्ञं विदथेषु धीराः ॥
3.026.07 अग्निरस्मि जन्मना जातवेदा घृतं मे चक्षुरमृतं म आसन् ।
3.026.07 अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥
3.026.08 त्रिभिः पवित्रैरपुपोद्ध्यर्कं हृदा मतिं ज्योतिरनु प्रजानन् ।
3.026.08 वर्षिष्ठं रत्नमकृत स्वधाभिरादिद्द्यावापृथिवी पर्यपश्यत् ॥
3.026.09 शतधारमुत्समक्षीयमाणं विपश्चितं पितरं वक्त्वानाम् ।
3.026.09 मेळिं मदन्तं पित्रोरुपस्थे तं रोदसी पिपृतं सत्यवाचम् ॥

3.027.01 प्र वो वाजा अभिद्यवो हविष्मन्तो घृताच्या ।
3.027.01 देवाञ्जिगाति सुम्नयुः ॥
3.027.02 ईळे अग्निं विपश्चितं गिरा यज्ञस्य साधनम् ।
3.027.02 श्रुष्टीवानं धितावानम् ॥
3.027.03 अग्ने शकेम ते वयं यमं देवस्य वाजिनः ।
3.027.03 अति द्वेषांसि तरेम ॥
3.027.04 समिध्यमानो अध्वरेऽग्निः पावक ईड्यः ।
3.027.04 शोचिष्केशस्तमीमहे ॥
3.027.05 पृथुपाजा अमर्त्यो घृतनिर्णिक्स्वाहुतः ।
3.027.05 अग्निर्यज्ञस्य हव्यवाट् ॥
3.027.06 तं सबाधो यतस्रुच इत्था धिया यज्ञवन्तः ।
3.027.06 आ चक्रुरग्निमूतये ॥
3.027.07 होता देवो अमर्त्यः पुरस्तादेति मायया ।
3.027.07 विदथानि प्रचोदयन् ॥
3.027.08 वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।
3.027.08 विप्रो यज्ञस्य साधनः ॥
3.027.09 धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।
3.027.09 दक्षस्य पितरं तना ॥
3.027.10 नि त्वा दधे वरेण्यं दक्षस्येळा सहस्कृत ।
3.027.10 अग्ने सुदीतिमुशिजम् ॥
3.027.11 अग्निं यन्तुरमप्तुरमृतस्य योगे वनुषः ।
3.027.11 विप्रा वाजैः समिन्धते ॥
3.027.12 ऊर्जो नपातमध्वरे दीदिवांसमुप द्यवि ।
3.027.12 अग्निमीळे कविक्रतुम् ॥
3.027.13 ईळेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।
3.027.13 समग्निरिध्यते वृषा ॥
3.027.14 वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।
3.027.14 तं हविष्मन्त ईळते ॥
3.027.15 वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।
3.027.15 अग्ने दीद्यतं बृहत् ॥

3.028.01 अग्ने जुषस्व नो हविः पुरोळाशं जातवेदः ।
3.028.01 प्रातःसावे धियावसो ॥
3.028.02 पुरोळा अग्ने पचतस्तुभ्यं वा घा परिष्कृतः ।
3.028.02 तं जुषस्व यविष्ठ्य ॥
3.028.03 अग्ने वीहि पुरोळाशमाहुतं तिरोअह्न्यम् ।
3.028.03 सहसः सूनुरस्यध्वरे हितः ॥
3.028.04 माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व ।
3.028.04 अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः ॥
3.028.05 अग्ने तृतीये सवने हि कानिषः पुरोळाशं सहसः सूनवाहुतम् ।
3.028.05 अथा देवेष्वध्वरं विपन्यया धा रत्नवन्तममृतेषु जागृविम् ॥
3.028.06 अग्ने वृधान आहुतिं पुरोळाशं जातवेदः ।
3.028.06 जुषस्व तिरोअह्न्यम् ॥

3.029.01 अस्तीदमधिमन्थनमस्ति प्रजननं कृतम् ।
3.029.01 एतां विश्पत्नीमा भराग्निं मन्थाम पूर्वथा ॥
3.029.02 अरण्योर्निहितो जातवेदा गर्भ इव सुधितो गर्भिणीषु ।
3.029.02 दिवेदिव ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ॥
3.029.03 उत्तानायामव भरा चिकित्वान्सद्यः प्रवीता वृषणं जजान ।
3.029.03 अरुषस्तूपो रुशदस्य पाज इळायास्पुत्रो वयुनेऽजनिष्ट ॥
3.029.04 इळायास्त्वा पदे वयं नाभा पृथिव्या अधि ।
3.029.04 जातवेदो नि धीमह्यग्ने हव्याय वोळ्हवे ॥
3.029.05 मन्थता नरः कविमद्वयन्तं प्रचेतसममृतं सुप्रतीकम् ।
3.029.05 यज्ञस्य केतुं प्रथमं पुरस्तादग्निं नरो जनयता सुशेवम् ॥
3.029.06 यदी मन्थन्ति बाहुभिर्वि रोचतेऽश्वो न वाज्यरुषो वनेष्वा ।
3.029.06 चित्रो न यामन्नश्विनोरनिवृतः परि वृणक्त्यश्मनस्तृणा दहन् ॥
3.029.07 जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः ।
3.029.07 यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु ॥
3.029.08 सीद होतः स्व उ लोके चिकित्वान्सादया यज्ञं सुकृतस्य योनौ ।
3.029.08 देवावीर्देवान्हविषा यजास्यग्ने बृहद्यजमाने वयो धाः ॥
3.029.09 कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ ।
3.029.09 अयमग्निः पृतनाषाट्सुवीरो येन देवासो असहन्त दस्यून् ॥
3.029.10 अयं ते योनिरृत्वियो यतो जातो अरोचथाः ।
3.029.10 तं जानन्नग्न आ सीदाथा नो वर्धया गिरः ॥
3.029.11 तनूनपादुच्यते गर्भ आसुरो नराशंसो भवति यद्विजायते ।
3.029.11 मातरिश्वा यदमिमीत मातरि वातस्य सर्गो अभवत्सरीमणि ॥
3.029.12 सुनिर्मथा निर्मथितः सुनिधा निहितः कविः ।
3.029.12 अग्ने स्वध्वरा कृणु देवान्देवयते यज ॥
3.029.13 अजीजनन्नमृतं मर्त्यासोऽस्रेमाणं तरणिं वीळुजम्भम् ।
3.029.13 दश स्वसारो अग्रुवः समीचीः पुमांसं जातमभि सं रभन्ते ॥
3.029.14 प्र सप्तहोता सनकादरोचत मातुरुपस्थे यदशोचदूधनि ।
3.029.14 न नि मिषति सुरणो दिवेदिवे यदसुरस्य जठरादजायत ॥
3.029.15 अमित्रायुधो मरुतामिव प्रयाः प्रथमजा ब्रह्मणो विश्वमिद्विदुः ।
3.029.15 द्युम्नवद्ब्रह्म कुशिकास एरिर एकएको दमे अग्निं समीधिरे ॥
3.029.16 यदद्य त्वा प्रयति यज्ञे अस्मिन्होतश्चिकित्वोऽवृणीमहीह ।
3.029.16 ध्रुवमया ध्रुवमुताशमिष्ठाः प्रजानन्विद्वां उप याहि सोमम् ॥

3.030.01 इच्छन्ति त्वा सोम्यासः सखायः सुन्वन्ति सोमं दधति प्रयांसि ।
3.030.01 तितिक्षन्ते अभिशस्तिं जनानामिन्द्र त्वदा कश्चन हि प्रकेतः ॥
3.030.02 न ते दूरे परमा चिद्रजांस्या तु प्र याहि हरिवो हरिभ्याम् ।
3.030.02 स्थिराय वृष्णे सवना कृतेमा युक्ता ग्रावाणः समिधाने अग्नौ ॥
3.030.03 इन्द्रः सुशिप्रो मघवा तरुत्रो महाव्रातस्तुविकूर्मिरृघावान् ।
3.030.03 यदुग्रो धा बाधितो मर्त्येषु क्व त्या ते वृषभ वीर्याणि ॥
3.030.04 त्वं हि ष्मा च्यावयन्नच्युतान्येको वृत्रा चरसि जिघ्नमानः ।
3.030.04 तव द्यावापृथिवी पर्वतासोऽनु व्रताय निमितेव तस्थुः ॥
3.030.05 उताभये पुरुहूत श्रवोभिरेको दृळ्हमवदो वृत्रहा सन् ।
3.030.05 इमे चिदिन्द्र रोदसी अपारे यत्संगृभ्णा मघवन्काशिरित्ते ॥
3.030.06 प्र सू त इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्नेतु शत्रून् ।
3.030.06 जहि प्रतीचो अनूचः पराचो विश्वं सत्यं कृणुहि विष्टमस्तु ॥
3.030.07 यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं सः ।
3.030.07 भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः ॥
3.030.08 सहदानुं पुरुहूत क्षियन्तमहस्तमिन्द्र सं पिणक्कुणारुम् ।
3.030.08 अभि वृत्रं वर्धमानं पियारुमपादमिन्द्र तवसा जघन्थ ॥
3.030.09 नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ ।
3.030.09 अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः ॥
3.030.10 अलातृणो वल इन्द्र व्रजो गोः पुरा हन्तोर्भयमानो व्यार ।
3.030.10 सुगान्पथो अकृणोन्निरजे गाः प्रावन्वाणीः पुरुहूतं धमन्तीः ॥
3.030.11 एको द्वे वसुमती समीची इन्द्र आ पप्रौ पृथिवीमुत द्याम् ।
3.030.11 उतान्तरिक्षादभि नः समीक इषो रथीः सयुजः शूर वाजान् ॥
3.030.12 दिशः सूर्यो न मिनाति प्रदिष्टा दिवेदिवे हर्यश्वप्रसूताः ।
3.030.12 सं यदानळ् अध्वन आदिदश्वैर्विमोचनं कृणुते तत्त्वस्य ॥
3.030.13 दिदृक्षन्त उषसो यामन्नक्तोर्विवस्वत्या महि चित्रमनीकम् ।
3.030.13 विश्वे जानन्ति महिना यदागादिन्द्रस्य कर्म सुकृता पुरूणि ॥
3.030.14 महि ज्योतिर्निहितं वक्षणास्वामा पक्वं चरति बिभ्रती गौः ।
3.030.14 विश्वं स्वाद्म सम्भृतमुस्रियायां यत्सीमिन्द्रो अदधाद्भोजनाय ॥
3.030.15 इन्द्र दृह्य यामकोशा अभूवन्यज्ञाय शिक्ष गृणते सखिभ्यः ।
3.030.15 दुर्मायवो दुरेवा मर्त्यासो निषङ्गिणो रिपवो हन्त्वासः ॥
3.030.16 सं घोषः शृण्वेऽवमैरमित्रैर्जही न्येष्वशनिं तपिष्ठाम् ।
3.030.16 वृश्चेमधस्ताद्वि रुजा सहस्व जहि रक्षो मघवन्रन्धयस्व ॥
3.030.17 उद्वृह रक्षः सहमूलमिन्द्र वृश्चा मध्यं प्रत्यग्रं शृणीहि ।
3.030.17 आ कीवतः सललूकं चकर्थ ब्रह्मद्विषे तपुषिं हेतिमस्य ॥
3.030.18 स्वस्तये वाजिभिश्च प्रणेतः सं यन्महीरिष आसत्सि पूर्वीः ।
3.030.18 रायो वन्तारो बृहतः स्यामास्मे अस्तु भग इन्द्र प्रजावान् ॥
3.030.19 आ नो भर भगमिन्द्र द्युमन्तं नि ते देष्णस्य धीमहि प्ररेके ।
3.030.19 ऊर्व इव पप्रथे कामो अस्मे तमा पृण वसुपते वसूनाम् ॥
3.030.20 इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
3.030.20 स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
3.030.21 आ नो गोत्रा दर्दृहि गोपते गाः समस्मभ्यं सनयो यन्तु वाजाः ।
3.030.21 दिवक्षा असि वृषभ सत्यशुष्मोऽस्मभ्यं सु मघवन्बोधि गोदाः ॥
3.030.22 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.030.22 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.031.01 शासद्वह्निर्दुहितुर्नप्त्यं गाद्विद्वां ऋतस्य दीधितिं सपर्यन् ।
3.031.01 पिता यत्र दुहितुः सेकमृञ्जन्सं शग्म्येन मनसा दधन्वे ॥
3.031.02 न जामये तान्वो रिक्थमारैक्चकार गर्भं सनितुर्निधानम् ।
3.031.02 यदी मातरो जनयन्त वह्निमन्यः कर्ता सुकृतोरन्य ऋन्धन् ॥
3.031.03 अग्निर्जज्ञे जुह्वा रेजमानो महस्पुत्रां अरुषस्य प्रयक्षे ।
3.031.03 महान्गर्भो मह्या जातमेषां मही प्रवृद्धर्यश्वस्य यज्ञैः ॥
3.031.04 अभि जैत्रीरसचन्त स्पृधानं महि ज्योतिस्तमसो निरजानन् ।
3.031.04 तं जानतीः प्रत्युदायन्नुषासः पतिर्गवामभवदेक इन्द्रः ॥
3.031.05 वीळौ सतीरभि धीरा अतृन्दन्प्राचाहिन्वन्मनसा सप्त विप्राः ।
3.031.05 विश्वामविन्दन्पथ्यामृतस्य प्रजानन्नित्ता नमसा विवेश ॥
3.031.06 विदद्यदी सरमा रुग्णमद्रेर्महि पाथः पूर्व्यं सध्र्यक्कः ।
3.031.06 अग्रं नयत्सुपद्यक्षराणामच्छा रवं प्रथमा जानती गात् ॥
3.031.07 अगच्छदु विप्रतमः सखीयन्नसूदयत्सुकृते गर्भमद्रिः ।
3.031.07 ससान मर्यो युवभिर्मखस्यन्नथाभवदङ्गिराः सद्यो अर्चन् ॥
3.031.08 सतःसतः प्रतिमानं पुरोभूर्विश्वा वेद जनिमा हन्ति शुष्णम् ।
3.031.08 प्र णो दिवः पदवीर्गव्युरर्चन्सखा सखींरमुञ्चन्निरवद्यात् ॥
3.031.09 नि गव्यता मनसा सेदुरर्कैः कृण्वानासो अमृतत्वाय गातुम् ।
3.031.09 इदं चिन्नु सदनं भूर्येषां येन मासां असिषासन्नृतेन ॥
3.031.10 सम्पश्यमाना अमदन्नभि स्वं पयः प्रत्नस्य रेतसो दुघानाः ।
3.031.10 वि रोदसी अतपद्घोष एषां जाते निष्ठामदधुर्गोषु वीरान् ॥
3.031.11 स जातेभिर्वृत्रहा सेदु हव्यैरुदुस्रिया असृजदिन्द्रो अर्कैः ।
3.031.11 उरूच्यस्मै घृतवद्भरन्ती मधु स्वाद्म दुदुहे जेन्या गौः ॥
3.031.12 पित्रे चिच्चक्रुः सदनं समस्मै महि त्विषीमत्सुकृतो वि हि ख्यन् ।
3.031.12 विष्कभ्नन्त स्कम्भनेना जनित्री आसीना ऊर्ध्वं रभसं वि मिन्वन् ॥
3.031.13 मही यदि धिषणा शिश्नथे धात्सद्योवृधं विभ्वं रोदस्योः ।
3.031.13 गिरो यस्मिन्ननवद्याः समीचीर्विश्वा इन्द्राय तविषीरनुत्ताः ॥
3.031.14 मह्या ते सख्यं वश्मि शक्तीरा वृत्रघ्ने नियुतो यन्ति पूर्वीः ।
3.031.14 महि स्तोत्रमव आगन्म सूरेरस्माकं सु मघवन्बोधि गोपाः ॥
3.031.15 महि क्षेत्रं पुरु श्चन्द्रं विविद्वानादित्सखिभ्यश्चरथं समैरत् ।
3.031.15 इन्द्रो नृभिरजनद्दीद्यानः साकं सूर्यमुषसं गातुमग्निम् ॥
3.031.16 अपश्चिदेष विभ्वो दमूनाः प्र सध्रीचीरसृजद्विश्वश्चन्द्राः ।
3.031.16 मध्वः पुनानाः कविभिः पवित्रैर्द्युभिर्हिन्वन्त्यक्तुभिर्धनुत्रीः ॥
3.031.17 अनु कृष्णे वसुधिती जिहाते उभे सूर्यस्य मंहना यजत्रे ।
3.031.17 परि यत्ते महिमानं वृजध्यै सखाय इन्द्र काम्या ऋजिप्याः ॥
3.031.18 पतिर्भव वृत्रहन्सूनृतानां गिरां विश्वायुर्वृषभो वयोधाः ।
3.031.18 आ नो गहि सख्येभिः शिवेभिर्महान्महीभिरूतिभिः सरण्यन् ॥
3.031.19 तमङ्गिरस्वन्नमसा सपर्यन्नव्यं कृणोमि सन्यसे पुराजाम् ।
3.031.19 द्रुहो वि याहि बहुला अदेवीः स्वश्च नो मघवन्सातये धाः ॥
3.031.20 मिहः पावकाः प्रतता अभूवन्स्वस्ति नः पिपृहि पारमासाम् ।
3.031.20 इन्द्र त्वं रथिरः पाहि नो रिषो मक्षूमक्षू कृणुहि गोजितो नः ॥
3.031.21 अदेदिष्ट वृत्रहा गोपतिर्गा अन्तः कृष्णां अरुषैर्धामभिर्गात् ।
3.031.21 प्र सूनृता दिशमान ऋतेन दुरश्च विश्वा अवृणोदप स्वाः ॥
3.031.22 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.031.22 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.032.01 इन्द्र सोमं सोमपते पिबेमं माध्यन्दिनं सवनं चारु यत्ते ।
3.032.01 प्रप्रुथ्या शिप्रे मघवन्नृजीषिन्विमुच्या हरी इह मादयस्व ॥
3.032.02 गवाशिरं मन्थिनमिन्द्र शुक्रं पिबा सोमं ररिमा ते मदाय ।
3.032.02 ब्रह्मकृता मारुतेना गणेन सजोषा रुद्रैस्तृपदा वृषस्व ॥
3.032.03 ये ते शुष्मं ये तविषीमवर्धन्नर्चन्त इन्द्र मरुतस्त ओजः ।
3.032.03 माध्यन्दिने सवने वज्रहस्त पिबा रुद्रेभिः सगणः सुशिप्र ॥
3.032.04 त इन्न्वस्य मधुमद्विविप्र इन्द्रस्य शर्धो मरुतो य आसन् ।
3.032.04 येभिर्वृत्रस्येषितो विवेदामर्मणो मन्यमानस्य मर्म ॥
3.032.05 मनुष्वदिन्द्र सवनं जुषाणः पिबा सोमं शश्वते वीर्याय ।
3.032.05 स आ ववृत्स्व हर्यश्व यज्ञैः सरण्युभिरपो अर्णा सिसर्षि ॥
3.032.06 त्वमपो यद्ध वृत्रं जघन्वां अत्यां इव प्रासृजः सर्तवाजौ ।
3.032.06 शयानमिन्द्र चरता वधेन वव्रिवांसं परि देवीरदेवम् ॥
3.032.07 यजाम इन्नमसा वृद्धमिन्द्रं बृहन्तमृष्वमजरं युवानम् ।
3.032.07 यस्य प्रिये ममतुर्यज्ञियस्य न रोदसी महिमानं ममाते ॥
3.032.08 इन्द्रस्य कर्म सुकृता पुरूणि व्रतानि देवा न मिनन्ति विश्वे ।
3.032.08 दाधार यः पृथिवीं द्यामुतेमां जजान सूर्यमुषसं सुदंसाः ॥
3.032.09 अद्रोघ सत्यं तव तन्महित्वं सद्यो यज्जातो अपिबो ह सोमम् ।
3.032.09 न द्याव इन्द्र तवसस्त ओजो नाहा न मासाः शरदो वरन्त ॥
3.032.10 त्वं सद्यो अपिबो जात इन्द्र मदाय सोमं परमे व्योमन् ।
3.032.10 यद्ध द्यावापृथिवी आविवेशीरथाभवः पूर्व्यः कारुधायाः ॥
3.032.11 अहन्नहिं परिशयानमर्ण ओजायमानं तुविजात तव्यान् ।
3.032.11 न ते महित्वमनु भूदध द्यौर्यदन्यया स्फिग्या क्षामवस्थाः ॥
3.032.12 यज्ञो हि त इन्द्र वर्धनो भूदुत प्रियः सुतसोमो मियेधः ।
3.032.12 यज्ञेन यज्ञमव यज्ञियः सन्यज्ञस्ते वज्रमहिहत्य आवत् ॥
3.032.13 यज्ञेनेन्द्रमवसा चक्रे अर्वागैनं सुम्नाय नव्यसे ववृत्याम् ।
3.032.13 य स्तोमेभिर्वावृधे पूर्व्येभिर्यो मध्यमेभिरुत नूतनेभिः ॥
3.032.14 विवेष यन्मा धिषणा जजान स्तवै पुरा पार्यादिन्द्रमह्नः ।
3.032.14 अंहसो यत्र पीपरद्यथा नो नावेव यान्तमुभये हवन्ते ॥
3.032.15 आपूर्णो अस्य कलशः स्वाहा सेक्तेव कोशं सिसिचे पिबध्यै ।
3.032.15 समु प्रिया आववृत्रन्मदाय प्रदक्षिणिदभि सोमास इन्द्रम् ॥
3.032.16 न त्वा गभीरः पुरुहूत सिन्धुर्नाद्रयः परि षन्तो वरन्त ।
3.032.16 इत्था सखिभ्य इषितो यदिन्द्रा दृळ्हं चिदरुजो गव्यमूर्वम् ॥
3.032.17 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.032.17 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.033.01 प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने ।
3.033.01 गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पयसा जवेते ॥
3.033.02 इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः ।
3.033.02 समाराणे ऊर्मिभिः पिन्वमाने अन्या वामन्यामप्येति शुभ्रे ॥
3.033.03 अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वीं सुभगामगन्म ।
3.033.03 वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥
3.033.04 एना वयं पयसा पिन्वमाना अनु योनिं देवकृतं चरन्तीः ।
3.033.04 न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥
3.033.05 रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः ।
3.033.05 प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य सूनुः ॥
3.033.06 इन्द्रो अस्मां अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् ।
3.033.06 देवोऽनयत्सविता सुपाणिस्तस्य वयं प्रसवे याम उर्वीः ॥
3.033.07 प्रवाच्यं शश्वधा वीर्यं तदिन्द्रस्य कर्म यदहिं विवृश्चत् ।
3.033.07 वि वज्रेण परिषदो जघानायन्नापोऽयनमिच्छमानाः ॥
3.033.08 एतद्वचो जरितर्मापि मृष्ठा आ यत्ते घोषानुत्तरा युगानि ।
3.033.08 उक्थेषु कारो प्रति नो जुषस्व मा नो नि कः पुरुषत्रा नमस्ते ॥
3.033.09 ओ षु स्वसारः कारवे शृणोत ययौ वो दूरादनसा रथेन ।
3.033.09 नि षू नमध्वं भवता सुपारा अधोअक्षाः सिन्धवः स्रोत्याभिः ॥
3.033.10 आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन ।
3.033.10 नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥
3.033.11 यदङ्ग त्वा भरताः संतरेयुर्गव्यन्ग्राम इषित इन्द्रजूतः ।
3.033.11 अर्षादह प्रसवः सर्गतक्त आ वो वृणे सुमतिं यज्ञियानाम् ॥
3.033.12 अतारिषुर्भरता गव्यवः समभक्त विप्रः सुमतिं नदीनाम् ।
3.033.12 प्र पिन्वध्वमिषयन्तीः सुराधा आ वक्षणाः पृणध्वं यात शीभम् ॥
3.033.13 उद्व ऊर्मिः शम्या हन्त्वापो योक्त्राणि मुञ्चत ।
3.033.13 मादुष्कृतौ व्येनसाघ्न्यौ शूनमारताम् ॥

3.034.01 इन्द्रः पूर्भिदातिरद्दासमर्कैर्विदद्वसुर्दयमानो वि शत्रून् ।
3.034.01 ब्रह्मजूतस्तन्वा वावृधानो भूरिदात्र आपृणद्रोदसी उभे ॥
3.034.02 मखस्य ते तविषस्य प्र जूतिमियर्मि वाचममृताय भूषन् ।
3.034.02 इन्द्र क्षितीनामसि मानुषीणां विशां दैवीनामुत पूर्वयावा ॥
3.034.03 इन्द्रो वृत्रमवृणोच्छर्धनीतिः प्र मायिनाममिनाद्वर्पणीतिः ।
3.034.03 अहन्व्यंसमुशधग्वनेष्वाविर्धेना अकृणोद्राम्याणाम् ॥
3.034.04 इन्द्रः स्वर्षा जनयन्नहानि जिगायोशिग्भिः पृतना अभिष्टिः ।
3.034.04 प्रारोचयन्मनवे केतुमह्नामविन्दज्ज्योतिर्बृहते रणाय ॥
3.034.05 इन्द्रस्तुजो बर्हणा आ विवेश नृवद्दधानो नर्या पुरूणि ।
3.034.05 अचेतयद्धिय इमा जरित्रे प्रेमं वर्णमतिरच्छुक्रमासाम् ॥
3.034.06 महो महानि पनयन्त्यस्येन्द्रस्य कर्म सुकृता पुरूणि ।
3.034.06 वृजनेन वृजिनान्सं पिपेष मायाभिर्दस्यूंरभिभूत्योजाः ॥
3.034.07 युधेन्द्रो मह्ना वरिवश्चकार देवेभ्यः सत्पतिश्चर्षणिप्राः ।
3.034.07 विवस्वतः सदने अस्य तानि विप्रा उक्थेभिः कवयो गृणन्ति ॥
3.034.08 सत्रासाहं वरेण्यं सहोदां ससवांसं स्वरपश्च देवीः ।
3.034.08 ससान यः पृथिवीं द्यामुतेमामिन्द्रं मदन्त्यनु धीरणासः ॥
3.034.09 ससानात्यां उत सूर्यं ससानेन्द्रः ससान पुरुभोजसं गाम् ।
3.034.09 हिरण्ययमुत भोगं ससान हत्वी दस्यून्प्रार्यं वर्णमावत् ॥
3.034.10 इन्द्र ओषधीरसनोदहानि वनस्पतींरसनोदन्तरिक्षम् ।
3.034.10 बिभेद वलं नुनुदे विवाचोऽथाभवद्दमिताभिक्रतूनाम् ॥
3.034.11 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.034.11 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.035.01 तिष्ठा हरी रथ आ युज्यमाना याहि वायुर्न नियुतो नो अच्छ ।
3.035.01 पिबास्यन्धो अभिसृष्टो अस्मे इन्द्र स्वाहा ररिमा ते मदाय ॥
3.035.02 उपाजिरा पुरुहूताय सप्ती हरी रथस्य धूर्ष्वा युनज्मि ।
3.035.02 द्रवद्यथा सम्भृतं विश्वतश्चिदुपेमं यज्ञमा वहात इन्द्रम् ॥
3.035.03 उपो नयस्व वृषणा तपुष्पोतेमव त्वं वृषभ स्वधावः ।
3.035.03 ग्रसेतामश्वा वि मुचेह शोणा दिवेदिवे सदृशीरद्धि धानाः ॥
3.035.04 ब्रह्मणा ते ब्रह्मयुजा युनज्मि हरी सखाया सधमाद आशू ।
3.035.04 स्थिरं रथं सुखमिन्द्राधितिष्ठन्प्रजानन्विद्वां उप याहि सोमम् ॥
3.035.05 मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये ।
3.035.05 अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः ॥
3.035.06 तवायं सोमस्त्वमेह्यर्वाङ्छश्वत्तमं सुमना अस्य पाहि ।
3.035.06 अस्मिन्यज्ञे बर्हिष्या निषद्या दधिष्वेमं जठर इन्दुमिन्द्र ॥
3.035.07 स्तीर्णं ते बर्हिः सुत इन्द्र सोमः कृता धाना अत्तवे ते हरिभ्याम् ।
3.035.07 तदोकसे पुरुशाकाय वृष्णे मरुत्वते तुभ्यं राता हवींषि ॥
3.035.08 इमं नरः पर्वतास्तुभ्यमापः समिन्द्र गोभिर्मधुमन्तमक्रन् ।
3.035.08 तस्यागत्या सुमना ऋष्व पाहि प्रजानन्विद्वान्पथ्या अनु स्वाः ॥
3.035.09 यां आभजो मरुत इन्द्र सोमे ये त्वामवर्धन्नभवन्गणस्ते ।
3.035.09 तेभिरेतं सजोषा वावशानोऽग्नेः पिब जिह्वया सोममिन्द्र ॥
3.035.10 इन्द्र पिब स्वधया चित्सुतस्याग्नेर्वा पाहि जिह्वया यजत्र ।
3.035.10 अध्वर्योर्वा प्रयतं शक्र हस्ताद्धोतुर्वा यज्ञं हविषो जुषस्व ॥
3.035.11 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.035.11 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.036.01 इमामू षु प्रभृतिं सातये धाः शश्वच्छश्वदूतिभिर्यादमानः ।
3.036.01 सुतेसुते वावृधे वर्धनेभिर्यः कर्मभिर्महद्भिः सुश्रुतो भूत् ॥
3.036.02 इन्द्राय सोमाः प्रदिवो विदाना ऋभुर्येभिर्वृषपर्वा विहायाः ।
3.036.02 प्रयम्यमानान्प्रति षू गृभायेन्द्र पिब वृषधूतस्य वृष्णः ॥
3.036.03 पिबा वर्धस्व तव घा सुतास इन्द्र सोमासः प्रथमा उतेमे ।
3.036.03 यथापिबः पूर्व्यां इन्द्र सोमां एवा पाहि पन्यो अद्या नवीयान् ॥
3.036.04 महां अमत्रो वृजने विरप्श्युग्रं शवः पत्यते धृष्ण्वोजः ।
3.036.04 नाह विव्याच पृथिवी चनैनं यत्सोमासो हर्यश्वममन्दन् ॥
3.036.05 महां उग्रो वावृधे वीर्याय समाचक्रे वृषभः काव्येन ।
3.036.05 इन्द्रो भगो वाजदा अस्य गावः प्र जायन्ते दक्षिणा अस्य पूर्वीः ॥
3.036.06 प्र यत्सिन्धवः प्रसवं यथायन्नापः समुद्रं रथ्येव जग्मुः ।
3.036.06 अतश्चिदिन्द्रः सदसो वरीयान्यदीं सोमः पृणति दुग्धो अंशुः ॥
3.036.07 समुद्रेण सिन्धवो यादमाना इन्द्राय सोमं सुषुतं भरन्तः ।
3.036.07 अंशुं दुहन्ति हस्तिनो भरित्रैर्मध्वः पुनन्ति धारया पवित्रैः ॥
3.036.08 ह्रदा इव कुक्षयः सोमधानाः समी विव्याच सवना पुरूणि ।
3.036.08 अन्ना यदिन्द्रः प्रथमा व्याश वृत्रं जघन्वां अवृणीत सोमम् ॥
3.036.09 आ तू भर माकिरेतत्परि ष्ठाद्विद्मा हि त्वा वसुपतिं वसूनाम् ।
3.036.09 इन्द्र यत्ते माहिनं दत्रमस्त्यस्मभ्यं तद्धर्यश्व प्र यन्धि ॥
3.036.10 अस्मे प्र यन्धि मघवन्नृजीषिन्निन्द्र रायो विश्ववारस्य भूरेः ।
3.036.10 अस्मे शतं शरदो जीवसे धा अस्मे वीराञ्छश्वत इन्द्र शिप्रिन् ॥
3.036.11 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.036.11 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.037.01 वार्त्रहत्याय शवसे पृतनाषाह्याय च ।
3.037.01 इन्द्र त्वा वर्तयामसि ॥
3.037.02 अर्वाचीनं सु ते मन उत चक्षुः शतक्रतो ।
3.037.02 इन्द्र कृण्वन्तु वाघतः ॥
3.037.03 नामानि ते शतक्रतो विश्वाभिर्गीर्भिरीमहे ।
3.037.03 इन्द्राभिमातिषाह्ये ॥
3.037.04 पुरुष्टुतस्य धामभिः शतेन महयामसि ।
3.037.04 इन्द्रस्य चर्षणीधृतः ॥
3.037.05 इन्द्रं वृत्राय हन्तवे पुरुहूतमुप ब्रुवे ।
3.037.05 भरेषु वाजसातये ॥
3.037.06 वाजेषु सासहिर्भव त्वामीमहे शतक्रतो ।
3.037.06 इन्द्र वृत्राय हन्तवे ॥
3.037.07 द्युम्नेषु पृतनाज्ये पृत्सुतूर्षु श्रवस्सु च ।
3.037.07 इन्द्र साक्ष्वाभिमातिषु ॥
3.037.08 शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
3.037.08 इन्द्र सोमं शतक्रतो ॥
3.037.09 इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
3.037.09 इन्द्र तानि त आ वृणे ॥
3.037.10 अगन्निन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
3.037.10 उत्ते शुष्मं तिरामसि ॥
3.037.11 अर्वावतो न आ गह्यथो शक्र परावतः ।
3.037.11 उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि ॥

3.038.01 अभि तष्टेव दीधया मनीषामत्यो न वाजी सुधुरो जिहानः ।
3.038.01 अभि प्रियाणि मर्मृशत्पराणि कवींरिच्छामि संदृशे सुमेधाः ॥
3.038.02 इनोत पृच्छ जनिमा कवीनां मनोधृतः सुकृतस्तक्षत द्याम् ।
3.038.02 इमा उ ते प्रण्यो वर्धमाना मनोवाता अध नु धर्मणि ग्मन् ॥
3.038.03 नि षीमिदत्र गुह्या दधाना उत क्षत्राय रोदसी समञ्जन् ।
3.038.03 सं मात्राभिर्ममिरे येमुरुर्वी अन्तर्मही समृते धायसे धुः ॥
3.038.04 आतिष्ठन्तं परि विश्वे अभूषञ्छ्रियो वसानश्चरति स्वरोचिः ।
3.038.04 महत्तद्वृष्णो असुरस्य नामा विश्वरूपो अमृतानि तस्थौ ॥
3.038.05 असूत पूर्वो वृषभो ज्यायानिमा अस्य शुरुधः सन्ति पूर्वीः ।
3.038.05 दिवो नपाता विदथस्य धीभिः क्षत्रं राजाना प्रदिवो दधाथे ॥
3.038.06 त्रीणि राजाना विदथे पुरूणि परि विश्वानि भूषथः सदांसि ।
3.038.06 अपश्यमत्र मनसा जगन्वान्व्रते गन्धर्वां अपि वायुकेशान् ॥
3.038.07 तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः ।
3.038.07 अन्यदन्यदसुर्यं वसाना नि मायिनो ममिरे रूपमस्मिन् ॥
3.038.08 तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत् ।
3.038.08 आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे ॥
3.038.09 युवं प्रत्नस्य साधथो महो यद्दैवी स्वस्तिः परि णः स्यातम् ।
3.038.09 गोपाजिह्वस्य तस्थुषो विरूपा विश्वे पश्यन्ति मायिनः कृतानि ॥
3.038.10 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.038.10 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.039.01 इन्द्रं मतिर्हृद आ वच्यमानाच्छा पतिं स्तोमतष्टा जिगाति ।
3.039.01 या जागृविर्विदथे शस्यमानेन्द्र यत्ते जायते विद्धि तस्य ॥
3.039.02 दिवश्चिदा पूर्व्या जायमाना वि जागृविर्विदथे शस्यमाना ।
3.039.02 भद्रा वस्त्राण्यर्जुना वसाना सेयमस्मे सनजा पित्र्या धीः ॥
3.039.03 यमा चिदत्र यमसूरसूत जिह्वाया अग्रं पतदा ह्यस्थात् ।
3.039.03 वपूंषि जाता मिथुना सचेते तमोहना तपुषो बुध्न एता ॥
3.039.04 नकिरेषां निन्दिता मर्त्येषु ये अस्माकं पितरो गोषु योधाः ।
3.039.04 इन्द्र एषां दृंहिता माहिनावानुद्गोत्राणि ससृजे दंसनावान् ॥
3.039.05 सखा ह यत्र सखिभिर्नवग्वैरभिज्ञ्वा सत्वभिर्गा अनुग्मन् ।
3.039.05 सत्यं तदिन्द्रो दशभिर्दशग्वैः सूर्यं विवेद तमसि क्षियन्तम् ॥
3.039.06 इन्द्रो मधु सम्भृतमुस्रियायां पद्वद्विवेद शफवन्नमे गोः ।
3.039.06 गुहा हितं गुह्यं गूळ्हमप्सु हस्ते दधे दक्षिणे दक्षिणावान् ॥
3.039.07 ज्योतिर्वृणीत तमसो विजानन्नारे स्याम दुरितादभीके ।
3.039.07 इमा गिरः सोमपाः सोमवृद्ध जुषस्वेन्द्र पुरुतमस्य कारोः ॥
3.039.08 ज्योतिर्यज्ञाय रोदसी अनु ष्यादारे स्याम दुरितस्य भूरेः ।
3.039.08 भूरि चिद्धि तुजतो मर्त्यस्य सुपारासो वसवो बर्हणावत् ॥
3.039.09 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.039.09 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.040.01 इन्द्र त्वा वृषभं वयं सुते सोमे हवामहे ।
3.040.01 स पाहि मध्वो अन्धसः ॥
3.040.02 इन्द्र क्रतुविदं सुतं सोमं हर्य पुरुष्टुत ।
3.040.02 पिबा वृषस्व तातृपिम् ॥
3.040.03 इन्द्र प्र णो धितावानं यज्ञं विश्वेभिर्देवेभिः ।
3.040.03 तिर स्तवान विश्पते ॥
3.040.04 इन्द्र सोमाः सुता इमे तव प्र यन्ति सत्पते ।
3.040.04 क्षयं चन्द्रास इन्दवः ॥
3.040.05 दधिष्वा जठरे सुतं सोममिन्द्र वरेण्यम् ।
3.040.05 तव द्युक्षास इन्दवः ॥
3.040.06 गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
3.040.06 इन्द्र त्वादातमिद्यशः ॥
3.040.07 अभि द्युम्नानि वनिन इन्द्रं सचन्ते अक्षिता ।
3.040.07 पीत्वी सोमस्य वावृधे ॥
3.040.08 अर्वावतो न आ गहि परावतश्च वृत्रहन् ।
3.040.08 इमा जुषस्व नो गिरः ॥
3.040.09 यदन्तरा परावतमर्वावतं च हूयसे ।
3.040.09 इन्द्रेह तत आ गहि ॥

3.041.01 आ तू न इन्द्र मद्र्यग्घुवानः सोमपीतये ।
3.041.01 हरिभ्यां याह्यद्रिवः ॥
3.041.02 सत्तो होता न ऋत्वियस्तिस्तिरे बर्हिरानुषक् ।
3.041.02 अयुज्रन्प्रातरद्रयः ॥
3.041.03 इमा ब्रह्म ब्रह्मवाहः क्रियन्त आ बर्हिः सीद ।
3.041.03 वीहि शूर पुरोळाशम् ॥
3.041.04 रारन्धि सवनेषु ण एषु स्तोमेषु वृत्रहन् ।
3.041.04 उक्थेष्विन्द्र गिर्वणः ॥
3.041.05 मतयः सोमपामुरुं रिहन्ति शवसस्पतिम् ।
3.041.05 इन्द्रं वत्सं न मातरः ॥
3.041.06 स मन्दस्वा ह्यन्धसो राधसे तन्वा महे ।
3.041.06 न स्तोतारं निदे करः ॥
3.041.07 वयमिन्द्र त्वायवो हविष्मन्तो जरामहे ।
3.041.07 उत त्वमस्मयुर्वसो ॥
3.041.08 मारे अस्मद्वि मुमुचो हरिप्रियार्वाङ्याहि ।
3.041.08 इन्द्र स्वधावो मत्स्वेह ॥
3.041.09 अर्वाञ्चं त्वा सुखे रथे वहतामिन्द्र केशिना ।
3.041.09 घृतस्नू बर्हिरासदे ॥

3.042.01 उप नः सुतमा गहि सोममिन्द्र गवाशिरम् ।
3.042.01 हरिभ्यां यस्ते अस्मयुः ॥
3.042.02 तमिन्द्र मदमा गहि बर्हिष्ठां ग्रावभिः सुतम् ।
3.042.02 कुविन्न्वस्य तृप्णवः ॥
3.042.03 इन्द्रमित्था गिरो ममाच्छागुरिषिता इतः ।
3.042.03 आवृते सोमपीतये ॥
3.042.04 इन्द्रं सोमस्य पीतये स्तोमैरिह हवामहे ।
3.042.04 उक्थेभिः कुविदागमत् ॥
3.042.05 इन्द्र सोमाः सुता इमे तान्दधिष्व शतक्रतो ।
3.042.05 जठरे वाजिनीवसो ॥
3.042.06 विद्मा हि त्वा धनञ्जयं वाजेषु दधृषं कवे ।
3.042.06 अधा ते सुम्नमीमहे ॥
3.042.07 इममिन्द्र गवाशिरं यवाशिरं च नः पिब ।
3.042.07 आगत्या वृषभिः सुतम् ॥
3.042.08 तुभ्येदिन्द्र स्व ओक्ये सोमं चोदामि पीतये ।
3.042.08 एष रारन्तु ते हृदि ॥
3.042.09 त्वां सुतस्य पीतये प्रत्नमिन्द्र हवामहे ।
3.042.09 कुशिकासो अवस्यवः ॥

3.043.01 आ याह्यर्वाङुप वन्धुरेष्ठास्तवेदनु प्रदिवः सोमपेयम् ।
3.043.01 प्रिया सखाया वि मुचोप बर्हिस्त्वामिमे हव्यवाहो हवन्ते ॥
3.043.02 आ याहि पूर्वीरति चर्षणीरां अर्य आशिष उप नो हरिभ्याम् ।
3.043.02 इमा हि त्वा मतय स्तोमतष्टा इन्द्र हवन्ते सख्यं जुषाणाः ॥
3.043.03 आ नो यज्ञं नमोवृधं सजोषा इन्द्र देव हरिभिर्याहि तूयम् ।
3.043.03 अहं हि त्वा मतिभिर्जोहवीमि घृतप्रयाः सधमादे मधूनाम् ॥
3.043.04 आ च त्वामेता वृषणा वहातो हरी सखाया सुधुरा स्वङ्गा ।
3.043.04 धानावदिन्द्रः सवनं जुषाणः सखा सख्युः शृणवद्वन्दनानि ॥
3.043.05 कुविन्मा गोपां करसे जनस्य कुविद्राजानं मघवन्नृजीषिन् ।
3.043.05 कुविन्म ऋषिं पपिवांसं सुतस्य कुविन्मे वस्वो अमृतस्य शिक्षाः ॥
3.043.06 आ त्वा बृहन्तो हरयो युजाना अर्वागिन्द्र सधमादो वहन्तु ।
3.043.06 प्र ये द्विता दिव ऋञ्जन्त्याताः सुसम्मृष्टासो वृषभस्य मूराः ॥
3.043.07 इन्द्र पिब वृषधूतस्य वृष्ण आ यं ते श्येन उशते जभार ।
3.043.07 यस्य मदे च्यावयसि प्र कृष्टीर्यस्य मदे अप गोत्रा ववर्थ ॥
3.043.08 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.043.08 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.044.01 अयं ते अस्तु हर्यतः सोम आ हरिभिः सुतः ।
3.044.01 जुषाण इन्द्र हरिभिर्न आ गह्या तिष्ठ हरितं रथम् ॥
3.044.02 हर्यन्नुषसमर्चयः सूर्यं हर्यन्नरोचयः ।
3.044.02 विद्वांश्चिकित्वान्हर्यश्व वर्धस इन्द्र विश्वा अभि श्रियः ॥
3.044.03 द्यामिन्द्रो हरिधायसं पृथिवीं हरिवर्पसम् ।
3.044.03 अधारयद्धरितोर्भूरि भोजनं ययोरन्तर्हरिश्चरत् ॥
3.044.04 जज्ञानो हरितो वृषा विश्वमा भाति रोचनम् ।
3.044.04 हर्यश्वो हरितं धत्त आयुधमा वज्रं बाह्वोर्हरिम् ॥
3.044.05 इन्द्रो हर्यन्तमर्जुनं वज्रं शुक्रैरभीवृतम् ।
3.044.05 अपावृणोद्धरिभिरद्रिभिः सुतमुद्गा हरिभिराजत ॥

3.045.01 आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
3.045.01 मा त्वा के चिन्नि यमन्विं न पाशिनोऽति धन्वेव तां इहि ॥
3.045.02 वृत्रखादो वलंरुजः पुरां दर्मो अपामजः ।
3.045.02 स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृळ्हा चिदारुजः ॥
3.045.03 गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ।
3.045.03 प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥
3.045.04 आ नस्तुजं रयिं भरांशं न प्रतिजानते ।
3.045.04 वृक्षं पक्वं फलमङ्कीव धूनुहीन्द्र सम्पारणं वसु ॥
3.045.05 स्वयुरिन्द्र स्वराळ् असि स्मद्दिष्टिः स्वयशस्तरः ।
3.045.05 स वावृधान ओजसा पुरुष्टुत भवा नः सुश्रवस्तमः ॥

3.046.01 युध्मस्य ते वृषभस्य स्वराज उग्रस्य यून स्थविरस्य घृष्वेः ।
3.046.01 अजूर्यतो वज्रिणो वीर्याणीन्द्र श्रुतस्य महतो महानि ॥
3.046.02 महां असि महिष वृष्ण्येभिर्धनस्पृदुग्र सहमानो अन्यान् ।
3.046.02 एको विश्वस्य भुवनस्य राजा स योधया च क्षयया च जनान् ॥
3.046.03 प्र मात्राभी रिरिचे रोचमानः प्र देवेभिर्विश्वतो अप्रतीतः ।
3.046.03 प्र मज्मना दिव इन्द्रः पृथिव्याः प्रोरोर्महो अन्तरिक्षादृजीषी ॥
3.046.04 उरुं गभीरं जनुषाभ्युग्रं विश्वव्यचसमवतं मतीनाम् ।
3.046.04 इन्द्रं सोमासः प्रदिवि सुतासः समुद्रं न स्रवत आ विशन्ति ॥
3.046.05 यं सोममिन्द्र पृथिवीद्यावा गर्भं न माता बिभृतस्त्वाया ।
3.046.05 तं ते हिन्वन्ति तमु ते मृजन्त्यध्वर्यवो वृषभ पातवा उ ॥

3.047.01 मरुत्वां इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।
3.047.01 आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥
3.047.02 सजोषा इन्द्र सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ।
3.047.02 जहि शत्रूंरप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
3.047.03 उत ऋतुभिरृतुपाः पाहि सोममिन्द्र देवेभिः सखिभिः सुतं नः ।
3.047.03 यां आभजो मरुतो ये त्वान्वहन्वृत्रमदधुस्तुभ्यमोजः ॥
3.047.04 ये त्वाहिहत्ये मघवन्नवर्धन्ये शाम्बरे हरिवो ये गविष्टौ ।
3.047.04 ये त्वा नूनमनुमदन्ति विप्राः पिबेन्द्र सोमं सगणो मरुद्भिः ॥
3.047.05 मरुत्वन्तं वृषभं वावृधानमकवारिं दिव्यं शासमिन्द्रम् ।
3.047.05 विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥

3.048.01 सद्यो ह जातो वृषभः कनीनः प्रभर्तुमावदन्धसः सुतस्य ।
3.048.01 साधोः पिब प्रतिकामं यथा ते रसाशिरः प्रथमं सोम्यस्य ॥
3.048.02 यज्जायथास्तदहरस्य कामेऽंशोः पीयूषमपिबो गिरिष्ठाम् ।
3.048.02 तं ते माता परि योषा जनित्री महः पितुर्दम आसिञ्चदग्रे ॥
3.048.03 उपस्थाय मातरमन्नमैट्ट तिग्ममपश्यदभि सोममूधः ।
3.048.03 प्रयावयन्नचरद्गृत्सो अन्यान्महानि चक्रे पुरुधप्रतीकः ॥
3.048.04 उग्रस्तुराषाळ् अभिभूत्योजा यथावशं तन्वं चक्र एषः ।
3.048.04 त्वष्टारमिन्द्रो जनुषाभिभूयामुष्या सोममपिबच्चमूषु ॥
3.048.05 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.048.05 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.049.01 शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन् ।
3.049.01 यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः ॥
3.049.02 यं नु नकिः पृतनासु स्वराजं द्विता तरति नृतमं हरिष्ठाम् ।
3.049.02 इनतमः सत्वभिर्यो ह शूषैः पृथुज्रया अमिनादायुर्दस्योः ॥
3.049.03 सहावा पृत्सु तरणिर्नार्वा व्यानशी रोदसी मेहनावान् ।
3.049.03 भगो न कारे हव्यो मतीनां पितेव चारुः सुहवो वयोधाः ॥
3.049.04 धर्ता दिवो रजसस्पृष्ट ऊर्ध्वो रथो न वायुर्वसुभिर्नियुत्वान् ।
3.049.04 क्षपां वस्ता जनिता सूर्यस्य विभक्ता भागं धिषणेव वाजम् ॥
3.049.05 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.049.05 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.050.01 इन्द्रः स्वाहा पिबतु यस्य सोम आगत्या तुम्रो वृषभो मरुत्वान् ।
3.050.01 ओरुव्यचाः पृणतामेभिरन्नैरास्य हविस्तन्वः काममृध्याः ॥
3.050.02 आ ते सपर्यू जवसे युनज्मि ययोरनु प्रदिवः श्रुष्टिमावः ।
3.050.02 इह त्वा धेयुर्हरयः सुशिप्र पिबा त्वस्य सुषुतस्य चारोः ॥
3.050.03 गोभिर्मिमिक्षुं दधिरे सुपारमिन्द्रं ज्यैष्ठ्याय धायसे गृणानाः ।
3.050.03 मन्दानः सोमं पपिवां ऋजीषिन्समस्मभ्यं पुरुधा गा इषण्य ॥
3.050.04 इमं कामं मन्दया गोभिरश्वैश्चन्द्रवता राधसा पप्रथश्च ।
3.050.04 स्वर्यवो मतिभिस्तुभ्यं विप्रा इन्द्राय वाहः कुशिकासो अक्रन् ॥
3.050.05 शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
3.050.05 शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥

3.051.01 चर्षणीधृतं मघवानमुक्थ्यमिन्द्रं गिरो बृहतीरभ्यनूषत ।
3.051.01 वावृधानं पुरुहूतं सुवृक्तिभिरमर्त्यं जरमाणं दिवेदिवे ॥
3.051.02 शतक्रतुमर्णवं शाकिनं नरं गिरो म इन्द्रमुप यन्ति विश्वतः ।
3.051.02 वाजसनिं पूर्भिदं तूर्णिमप्तुरं धामसाचमभिषाचं स्वर्विदम् ॥
3.051.03 आकरे वसोर्जरिता पनस्यतेऽनेहस स्तुभ इन्द्रो दुवस्यति ।
3.051.03 विवस्वतः सदन आ हि पिप्रिये सत्रासाहमभिमातिहनं स्तुहि ॥
3.051.04 नृणामु त्वा नृतमं गीर्भिरुक्थैरभि प्र वीरमर्चता सबाधः ।
3.051.04 सं सहसे पुरुमायो जिहीते नमो अस्य प्रदिव एक ईशे ॥
3.051.05 पूर्वीरस्य निष्षिधो मर्त्येषु पुरू वसूनि पृथिवी बिभर्ति ।
3.051.05 इन्द्राय द्याव ओषधीरुतापो रयिं रक्षन्ति जीरयो वनानि ॥
3.051.06 तुभ्यं ब्रह्माणि गिर इन्द्र तुभ्यं सत्रा दधिरे हरिवो जुषस्व ।
3.051.06 बोध्यापिरवसो नूतनस्य सखे वसो जरितृभ्यो वयो धाः ॥
3.051.07 इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य ।
3.051.07 तव प्रणीती तव शूर शर्मन्ना विवासन्ति कवयः सुयज्ञाः ॥
3.051.08 स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः ।
3.051.08 जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे ॥
3.051.09 अप्तूर्ये मरुत आपिरेषोऽमन्दन्निन्द्रमनु दातिवाराः ।
3.051.09 तेभिः साकं पिबतु वृत्रखादः सुतं सोमं दाशुषः स्वे सधस्थे ॥
3.051.10 इदं ह्यन्वोजसा सुतं राधानां पते ।
3.051.10 पिबा त्वस्य गिर्वणः ॥
3.051.11 यस्ते अनु स्वधामसत्सुते नि यच्छ तन्वम् ।
3.051.11 स त्वा ममत्तु सोम्यम् ॥
3.051.12 प्र ते अश्नोतु कुक्ष्योः प्रेन्द्र ब्रह्मणा शिरः ।
3.051.12 प्र बाहू शूर राधसे ॥

3.052.01 धानावन्तं करम्भिणमपूपवन्तमुक्थिनम् ।
3.052.01 इन्द्र प्रातर्जुषस्व नः ॥
3.052.02 पुरोळाशं पचत्यं जुषस्वेन्द्रा गुरस्व च ।
3.052.02 तुभ्यं हव्यानि सिस्रते ॥
3.052.03 पुरोळाशं च नो घसो जोषयासे गिरश्च नः ।
3.052.03 वधूयुरिव योषणाम् ॥
3.052.04 पुरोळाशं सनश्रुत प्रातःसावे जुषस्व नः ।
3.052.04 इन्द्र क्रतुर्हि ते बृहन् ॥
3.052.05 माध्यन्दिनस्य सवनस्य धानाः पुरोळाशमिन्द्र कृष्वेह चारुम् ।
3.052.05 प्र यत्स्तोता जरिता तूर्ण्यर्थो वृषायमाण उप गीर्भिरीट्टे ॥
3.052.06 तृतीये धानाः सवने पुरुष्टुत पुरोळाशमाहुतं मामहस्व नः ।
3.052.06 ऋभुमन्तं वाजवन्तं त्वा कवे प्रयस्वन्त उप शिक्षेम धीतिभिः ॥
3.052.07 पूषण्वते ते चकृमा करम्भं हरिवते हर्यश्वाय धानाः ।
3.052.07 अपूपमद्धि सगणो मरुद्भिः सोमं पिब वृत्रहा शूर विद्वान् ॥
3.052.08 प्रति धाना भरत तूयमस्मै पुरोळाशं वीरतमाय नृणाम् ।
3.052.08 दिवेदिवे सदृशीरिन्द्र तुभ्यं वर्धन्तु त्वा सोमपेयाय धृष्णो ॥

3.053.01 इन्द्रापर्वता बृहता रथेन वामीरिष आ वहतं सुवीराः ।
3.053.01 वीतं हव्यान्यध्वरेषु देवा वर्धेथां गीर्भिरिळया मदन्ता ॥
3.053.02 तिष्ठा सु कं मघवन्मा परा गाः सोमस्य नु त्वा सुषुतस्य यक्षि ।
3.053.02 पितुर्न पुत्रः सिचमा रभे त इन्द्र स्वादिष्ठया गिरा शचीवः ॥
3.053.03 शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् ।
3.053.03 एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम् ॥
3.053.04 जायेदस्तं मघवन्सेदु योनिस्तदित्त्वा युक्ता हरयो वहन्तु ।
3.053.04 यदा कदा च सुनवाम सोममग्निष्ट्वा दूतो धन्वात्यच्छ ॥
3.053.05 परा याहि मघवन्ना च याहीन्द्र भ्रातरुभयत्रा ते अर्थम् ।
3.053.05 यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो रासभस्य ॥
3.053.06 अपाः सोममस्तमिन्द्र प्र याहि कल्याणीर्जाया सुरणं गृहे ते ।
3.053.06 यत्रा रथस्य बृहतो निधानं विमोचनं वाजिनो दक्षिणावत् ॥
3.053.07 इमे भोजा अङ्गिरसो विरूपा दिवस्पुत्रासो असुरस्य वीराः ।
3.053.07 विश्वामित्राय ददतो मघानि सहस्रसावे प्र तिरन्त आयुः ॥
3.053.08 रूपंरूपं मघवा बोभवीति मायाः कृण्वानस्तन्वं परि स्वाम् ।
3.053.08 त्रिर्यद्दिवः परि मुहूर्तमागात्स्वैर्मन्त्रैरनृतुपा ऋतावा ॥
3.053.09 महां ऋषिर्देवजा देवजूतोऽस्तभ्नात्सिन्धुमर्णवं नृचक्षाः ।
3.053.09 विश्वामित्रो यदवहत्सुदासमप्रियायत कुशिकेभिरिन्द्रः ॥
3.053.10 हंसा इव कृणुथ श्लोकमद्रिभिर्मदन्तो गीर्भिरध्वरे सुते सचा ।
3.053.10 देवेभिर्विप्रा ऋषयो नृचक्षसो वि पिबध्वं कुशिकाः सोम्यं मधु ॥
3.053.11 उप प्रेत कुशिकाश्चेतयध्वमश्वं राये प्र मुञ्चता सुदासः ।
3.053.11 राजा वृत्रं जङ्घनत्प्रागपागुदगथा यजाते वर आ पृथिव्याः ॥
3.053.12 य इमे रोदसी उभे अहमिन्द्रमतुष्टवम् ।
3.053.12 विश्वामित्रस्य रक्षति ब्रह्मेदं भारतं जनम् ॥
3.053.13 विश्वामित्रा अरासत ब्रह्मेन्द्राय वज्रिणे ।
3.053.13 करदिन्नः सुराधसः ॥
3.053.14 किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् ।
3.053.14 आ नो भर प्रमगन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥
3.053.15 ससर्परीरमतिं बाधमाना बृहन्मिमाय जमदग्निदत्ता ।
3.053.15 आ सूर्यस्य दुहिता ततान श्रवो देवेष्वमृतमजुर्यम् ॥
3.053.16 ससर्परीरभरत्तूयमेभ्योऽधि श्रवः पाञ्चजन्यासु कृष्टिषु ।
3.053.16 सा पक्ष्या नव्यमायुर्दधाना यां मे पलस्तिजमदग्नयो ददुः ॥
3.053.17 स्थिरौ गावौ भवतां वीळुरक्षो मेषा वि वर्हि मा युगं वि शारि ।
3.053.17 इन्द्रः पातल्ये ददतां शरीतोररिष्टनेमे अभि नः सचस्व ॥
3.053.18 बलं धेहि तनूषु नो बलमिन्द्रानळुत्सु नः ।
3.053.18 बलं तोकाय तनयाय जीवसे त्वं हि बलदा असि ॥
3.053.19 अभि व्ययस्व खदिरस्य सारमोजो धेहि स्पन्दने शिंशपायाम् ।
3.053.19 अक्ष वीळो वीळित वीळयस्व मा यामादस्मादव जीहिपो नः ॥
3.053.20 अयमस्मान्वनस्पतिर्मा च हा मा च रीरिषत् ।
3.053.20 स्वस्त्या गृहेभ्य आवसा आ विमोचनात् ॥
3.053.21 इन्द्रोतिभिर्बहुलाभिर्नो अद्य याच्छ्रेष्ठाभिर्मघवञ्छूर जिन्व ।
3.053.21 यो नो द्वेष्ट्यधरः सस्पदीष्ट यमु द्विष्मस्तमु प्राणो जहातु ॥
3.053.22 परशुं चिद्वि तपति शिम्बलं चिद्वि वृश्चति ।
3.053.22 उखा चिदिन्द्र येषन्ती प्रयस्ता फेनमस्यति ॥
3.053.23 न सायकस्य चिकिते जनासो लोधं नयन्ति पशु मन्यमानाः ।
3.053.23 नावाजिनं वाजिना हासयन्ति न गर्दभं पुरो अश्वान्नयन्ति ॥
3.053.24 इम इन्द्र भरतस्य पुत्रा अपपित्वं चिकितुर्न प्रपित्वम् ।
3.053.24 हिन्वन्त्यश्वमरणं न नित्यं ज्यावाजं परि णयन्त्याजौ ॥

3.054.01 इमं महे विदथ्याय शूषं शश्वत्कृत्व ईड्याय प्र जभ्रुः ।
3.054.01 शृणोतु नो दम्येभिरनीकैः शृणोत्वग्निर्दिव्यैरजस्रः ॥
3.054.02 महि महे दिवे अर्चा पृथिव्यै कामो म इच्छञ्चरति प्रजानन् ।
3.054.02 ययोर्ह स्तोमे विदथेषु देवाः सपर्यवो मादयन्ते सचायोः ॥
3.054.03 युवोरृतं रोदसी सत्यमस्तु महे षु णः सुविताय प्र भूतम् ।
3.054.03 इदं दिवे नमो अग्ने पृथिव्यै सपर्यामि प्रयसा यामि रत्नम् ॥
3.054.04 उतो हि वां पूर्व्या आविविद्र ऋतावरी रोदसी सत्यवाचः ।
3.054.04 नरश्चिद्वां समिथे शूरसातौ ववन्दिरे पृथिवि वेविदानाः ॥
3.054.05 को अद्धा वेद क इह प्र वोचद्देवां अच्छा पथ्या का समेति ।
3.054.05 ददृश्र एषामवमा सदांसि परेषु या गुह्येषु व्रतेषु ॥
3.054.06 कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती ।
3.054.06 नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने ॥
3.054.07 समान्या वियुते दूरेअन्ते ध्रुवे पदे तस्थतुर्जागरूके ।
3.054.07 उत स्वसारा युवती भवन्ती आदु ब्रुवाते मिथुनानि नाम ॥
3.054.08 विश्वेदेते जनिमा सं विविक्तो महो देवान्बिभ्रती न व्यथेते ।
3.054.08 एजद्ध्रुवं पत्यते विश्वमेकं चरत्पतत्रि विषुणं वि जातम् ॥
3.054.09 सना पुराणमध्येम्यारान्महः पितुर्जनितुर्जामि तन्नः ।
3.054.09 देवासो यत्र पनितार एवैरुरौ पथि व्युते तस्थुरन्तः ॥
3.054.10 इमं स्तोमं रोदसी प्र ब्रवीम्यृदूदराः शृणवन्नग्निजिह्वाः ।
3.054.10 मित्रः सम्राजो वरुणो युवान आदित्यासः कवयः पप्रथानाः ॥
3.054.11 हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः ।
3.054.11 देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम् ॥
3.054.12 सुकृत्सुपाणिः स्ववां ऋतावा देवस्त्वष्टावसे तानि नो धात् ।
3.054.12 पूषण्वन्त ऋभवो मादयध्वमूर्ध्वग्रावाणो अध्वरमतष्ट ॥
3.054.13 विद्युद्रथा मरुत ऋष्टिमन्तो दिवो मर्या ऋतजाता अयासः ।
3.054.13 सरस्वती शृणवन्यज्ञियासो धाता रयिं सहवीरं तुरासः ॥
3.054.14 विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन् ।
3.054.14 उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः ॥
3.054.15 इन्द्रो विश्वैर्वीर्यैः पत्यमान उभे आ पप्रौ रोदसी महित्वा ।
3.054.15 पुरन्दरो वृत्रहा धृष्णुषेणः संगृभ्या न आ भरा भूरि पश्वः ॥
3.054.16 नासत्या मे पितरा बन्धुपृच्छा सजात्यमश्विनोश्चारु नाम ।
3.054.16 युवं हि स्थो रयिदौ नो रयीणां दात्रं रक्षेथे अकवैरदब्धा ॥
3.054.17 महत्तद्वः कवयश्चारु नाम यद्ध देवा भवथ विश्व इन्द्रे ।
3.054.17 सख ऋभुभिः पुरुहूत प्रियेभिरिमां धियं सातये तक्षता नः ॥
3.054.18 अर्यमा णो अदितिर्यज्ञियासोऽदब्धानि वरुणस्य व्रतानि ।
3.054.18 युयोत नो अनपत्यानि गन्तोः प्रजावान्नः पशुमां अस्तु गातुः ॥
3.054.19 देवानां दूतः पुरुध प्रसूतोऽनागान्नो वोचतु सर्वताता ।
3.054.19 शृणोतु नः पृथिवी द्यौरुतापः सूर्यो नक्षत्रैरुर्वन्तरिक्षम् ॥
3.054.20 शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः ।
3.054.20 आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम् ॥
3.054.21 सदा सुगः पितुमां अस्तु पन्था मध्वा देवा ओषधीः सं पिपृक्त ।
3.054.21 भगो मे अग्ने सख्ये न मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥
3.054.22 स्वदस्व हव्या समिषो दिदीह्यस्मद्र्यक्सं मिमीहि श्रवांसि ।
3.054.22 विश्वां अग्ने पृत्सु ताञ्जेषि शत्रूनहा विश्वा सुमना दीदिही नः ॥

3.055.01 उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः ।
3.055.01 व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम् ॥
3.055.02 मो षू णो अत्र जुहुरन्त देवा मा पूर्वे अग्ने पितरः पदज्ञाः ।
3.055.02 पुराण्योः सद्मनोः केतुरन्तर्महद्देवानामसुरत्वमेकम् ॥
3.055.03 वि मे पुरुत्रा पतयन्ति कामाः शम्यच्छा दीद्ये पूर्व्याणि ।
3.055.03 समिद्धे अग्नावृतमिद्वदेम महद्देवानामसुरत्वमेकम् ॥
3.055.04 समानो राजा विभृतः पुरुत्रा शये शयासु प्रयुतो वनानु ।
3.055.04 अन्या वत्सं भरति क्षेति माता महद्देवानामसुरत्वमेकम् ॥
3.055.05 आक्षित्पूर्वास्वपरा अनूरुत्सद्यो जातासु तरुणीष्वन्तः ।
3.055.05 अन्तर्वतीः सुवते अप्रवीता महद्देवानामसुरत्वमेकम् ॥
3.055.06 शयुः परस्तादध नु द्विमाताबन्धनश्चरति वत्स एकः ।
3.055.06 मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम् ॥
3.055.07 द्विमाता होता विदथेषु सम्राळ् अन्वग्रं चरति क्षेति बुध्नः ।
3.055.07 प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम् ॥
3.055.08 शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत् ।
3.055.08 अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम् ॥
3.055.09 नि वेवेति पलितो दूत आस्वन्तर्महांश्चरति रोचनेन ।
3.055.09 वपूंषि बिभ्रदभि नो वि चष्टे महद्देवानामसुरत्वमेकम् ॥
3.055.10 विष्णुर्गोपाः परमं पाति पाथः प्रिया धामान्यमृता दधानः ।
3.055.10 अग्निष्टा विश्वा भुवनानि वेद महद्देवानामसुरत्वमेकम् ॥
3.055.11 नाना चक्राते यम्या वपूंषि तयोरन्यद्रोचते कृष्णमन्यत् ।
3.055.11 श्यावी च यदरुषी च स्वसारौ महद्देवानामसुरत्वमेकम् ॥
3.055.12 माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची ।
3.055.12 ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम् ॥
3.055.13 अन्यस्या वत्सं रिहती मिमाय कया भुवा नि दधे धेनुरूधः ।
3.055.13 ऋतस्य सा पयसापिन्वतेळा महद्देवानामसुरत्वमेकम् ॥
3.055.14 पद्या वस्ते पुरुरूपा वपूंष्यूर्ध्वा तस्थौ त्र्यविं रेरिहाणा ।
3.055.14 ऋतस्य सद्म वि चरामि विद्वान्महद्देवानामसुरत्वमेकम् ॥
3.055.15 पदे इव निहिते दस्मे अन्तस्तयोरन्यद्गुह्यमाविरन्यत् ।
3.055.15 सध्रीचीना पथ्या सा विषूची महद्देवानामसुरत्वमेकम् ॥
3.055.16 आ धेनवो धुनयन्तामशिश्वीः सबर्दुघाः शशया अप्रदुग्धाः ।
3.055.16 नव्यानव्या युवतयो भवन्तीर्महद्देवानामसुरत्वमेकम् ॥
3.055.17 यदन्यासु वृषभो रोरवीति सो अन्यस्मिन्यूथे नि दधाति रेतः ।
3.055.17 स हि क्षपावान्स भगः स राजा महद्देवानामसुरत्वमेकम् ॥
3.055.18 वीरस्य नु स्वश्व्यं जनासः प्र नु वोचाम विदुरस्य देवाः ।
3.055.18 षोळ्हा युक्ताः पञ्चपञ्चा वहन्ति महद्देवानामसुरत्वमेकम् ॥
3.055.19 देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान ।
3.055.19 इमा च विश्वा भुवनान्यस्य महद्देवानामसुरत्वमेकम् ॥
3.055.20 मही समैरच्चम्वा समीची उभे ते अस्य वसुना न्यृष्टे ।
3.055.20 शृण्वे वीरो विन्दमानो वसूनि महद्देवानामसुरत्वमेकम् ॥
3.055.21 इमां च नः पृथिवीं विश्वधाया उप क्षेति हितमित्रो न राजा ।
3.055.21 पुरःसदः शर्मसदो न वीरा महद्देवानामसुरत्वमेकम् ॥
3.055.22 निष्षिध्वरीस्त ओषधीरुतापो रयिं त इन्द्र पृथिवी बिभर्ति ।
3.055.22 सखायस्ते वामभाजः स्याम महद्देवानामसुरत्वमेकम् ॥

3.056.01 न ता मिनन्ति मायिनो न धीरा व्रता देवानां प्रथमा ध्रुवाणि ।
3.056.01 न रोदसी अद्रुहा वेद्याभिर्न पर्वता निनमे तस्थिवांसः ॥
3.056.02 षड्भारां एको अचरन्बिभर्त्यृतं वर्षिष्ठमुप गाव आगुः ।
3.056.02 तिस्रो महीरुपरास्तस्थुरत्या गुहा द्वे निहिते दर्श्येका ॥
3.056.03 त्रिपाजस्यो वृषभो विश्वरूप उत त्र्युधा पुरुध प्रजावान् ।
3.056.03 त्र्यनीकः पत्यते माहिनावान्स रेतोधा वृषभः शश्वतीनाम् ॥
3.056.04 अभीक आसां पदवीरबोध्यादित्यानामह्वे चारु नाम ।
3.056.04 आपश्चिदस्मा अरमन्त देवीः पृथग्व्रजन्तीः परि षीमवृञ्जन् ॥
3.056.05 त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट् ।
3.056.05 ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः ॥
3.056.06 त्रिरा दिवः सवितर्वार्याणि दिवेदिव आ सुव त्रिर्नो अह्नः ।
3.056.06 त्रिधातु राय आ सुवा वसूनि भग त्रातर्धिषणे सातये धाः ॥
3.056.07 त्रिरा दिवः सविता सोषवीति राजाना मित्रावरुणा सुपाणी ।
3.056.07 आपश्चिदस्य रोदसी चिदुर्वी रत्नं भिक्षन्त सवितुः सवाय ॥
3.056.08 त्रिरुत्तमा दूणशा रोचनानि त्रयो राजन्त्यसुरस्य वीराः ।
3.056.08 ऋतावान इषिरा दूळभासस्त्रिरा दिवो विदथे सन्तु देवाः ॥

3.057.01 प्र मे विविक्वां अविदन्मनीषां धेनुं चरन्तीं प्रयुतामगोपाम् ।
3.057.01 सद्यश्चिद्या दुदुहे भूरि धासेरिन्द्रस्तदग्निः पनितारो अस्याः ॥
3.057.02 इन्द्रः सु पूषा वृषणा सुहस्ता दिवो न प्रीताः शशयं दुदुह्रे ।
3.057.02 विश्वे यदस्यां रणयन्त देवाः प्र वोऽत्र वसवः सुम्नमश्याम् ॥
3.057.03 या जामयो वृष्ण इच्छन्ति शक्तिं नमस्यन्तीर्जानते गर्भमस्मिन् ।
3.057.03 अच्छा पुत्रं धेनवो वावशाना महश्चरन्ति बिभ्रतं वपूंषि ॥
3.057.04 अच्छा विवक्मि रोदसी सुमेके ग्राव्णो युजानो अध्वरे मनीषा ।
3.057.04 इमा उ ते मनवे भूरिवारा ऊर्ध्वा भवन्ति दर्शता यजत्राः ॥
3.057.05 या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची ।
3.057.05 तयेह विश्वां अवसे यजत्राना सादय पायया चा मधूनि ॥
3.057.06 या ते अग्ने पर्वतस्येव धारासश्चन्ती पीपयद्देव चित्रा ।
3.057.06 तामस्मभ्यं प्रमतिं जातवेदो वसो रास्व सुमतिं विश्वजन्याम् ॥

3.058.01 धेनुः प्रत्नस्य काम्यं दुहानान्तः पुत्रश्चरति दक्षिणायाः ।
3.058.01 आ द्योतनिं वहति शुभ्रयामोषस स्तोमो अश्विनावजीगः ॥
3.058.02 सुयुग्वहन्ति प्रति वामृतेनोर्ध्वा भवन्ति पितरेव मेधाः ।
3.058.02 जरेथामस्मद्वि पणेर्मनीषां युवोरवश्चकृमा यातमर्वाक् ॥
3.058.03 सुयुग्भिरश्वैः सुवृता रथेन दस्राविमं शृणुतं श्लोकमद्रेः ।
3.058.03 किमङ्ग वां प्रत्यवर्तिं गमिष्ठाहुर्विप्रासो अश्विना पुराजाः ॥
3.058.04 आ मन्येथामा गतं कच्चिदेवैर्विश्वे जनासो अश्विना हवन्ते ।
3.058.04 इमा हि वां गोऋजीका मधूनि प्र मित्रासो न ददुरुस्रो अग्रे ॥
3.058.05 तिरः पुरू चिदश्विना रजांस्याङ्गूषो वां मघवाना जनेषु ।
3.058.05 एह यातं पथिभिर्देवयानैर्दस्राविमे वां निधयो मधूनाम् ॥
3.058.06 पुराणमोकः सख्यं शिवं वां युवोर्नरा द्रविणं जह्नाव्याम् ।
3.058.06 पुनः कृण्वानाः सख्या शिवानि मध्वा मदेम सह नू समानाः ॥
3.058.07 अश्विना वायुना युवं सुदक्षा नियुद्भिष्च सजोषसा युवाना ।
3.058.07 नासत्या तिरोअह्न्यं जुषाणा सोमं पिबतमस्रिधा सुदानू ॥
3.058.08 अश्विना परि वामिषः पुरूचीरीयुर्गीर्भिर्यतमाना अमृध्राः ।
3.058.08 रथो ह वामृतजा अद्रिजूतः परि द्यावापृथिवी याति सद्यः ॥
3.058.09 अश्विना मधुषुत्तमो युवाकुः सोमस्तं पातमा गतं दुरोणे ।
3.058.09 रथो ह वां भूरि वर्पः करिक्रत्सुतावतो निष्कृतमागमिष्ठः ॥

3.059.01 मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
3.059.01 मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥
3.059.02 प्र स मित्र मर्तो अस्तु प्रयस्वान्यस्त आदित्य शिक्षति व्रतेन ।
3.059.02 न हन्यते न जीयते त्वोतो नैनमंहो अश्नोत्यन्तितो न दूरात् ॥
3.059.03 अनमीवास इळया मदन्तो मितज्ञवो वरिमन्ना पृथिव्याः ।
3.059.03 आदित्यस्य व्रतमुपक्षियन्तो वयं मित्रस्य सुमतौ स्याम ॥
3.059.04 अयं मित्रो नमस्यः सुशेवो राजा सुक्षत्रो अजनिष्ट वेधाः ।
3.059.04 तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम ॥
3.059.05 महां आदित्यो नमसोपसद्यो यातयज्जनो गृणते सुशेवः ।
3.059.05 तस्मा एतत्पन्यतमाय जुष्टमग्नौ मित्राय हविरा जुहोत ॥
3.059.06 मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि ।
3.059.06 द्युम्नं चित्रश्रवस्तमम् ॥
3.059.07 अभि यो महिना दिवं मित्रो बभूव सप्रथाः ।
3.059.07 अभि श्रवोभिः पृथिवीम् ॥
3.059.08 मित्राय पञ्च येमिरे जना अभिष्टिशवसे ।
3.059.08 स देवान्विश्वान्बिभर्ति ॥
3.059.09 मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।
3.059.09 इष इष्टव्रता अकः ॥

3.060.01 इहेह वो मनसा बन्धुता नर उशिजो जग्मुरभि तानि वेदसा ।
3.060.01 याभिर्मायाभिः प्रतिजूतिवर्पसः सौधन्वना यज्ञियं भागमानश ॥
3.060.02 याभिः शचीभिश्चमसां अपिंशत यया धिया गामरिणीत चर्मणः ।
3.060.02 येन हरी मनसा निरतक्षत तेन देवत्वमृभवः समानश ॥
3.060.03 इन्द्रस्य सख्यमृभवः समानशुर्मनोर्नपातो अपसो दधन्विरे ।
3.060.03 सौधन्वनासो अमृतत्वमेरिरे विष्ट्वी शमीभिः सुकृतः सुकृत्यया ॥
3.060.04 इन्द्रेण याथ सरथं सुते सचां अथो वशानां भवथा सह श्रिया ।
3.060.04 न वः प्रतिमै सुकृतानि वाघतः सौधन्वना ऋभवो वीर्याणि च ॥
3.060.05 इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितं सुतं सोममा वृषस्वा गभस्त्योः ।
3.060.05 धियेषितो मघवन्दाशुषो गृहे सौधन्वनेभिः सह मत्स्वा नृभिः ॥
3.060.06 इन्द्र ऋभुमान्वाजवान्मत्स्वेह नोऽस्मिन्सवने शच्या पुरुष्टुत ।
3.060.06 इमानि तुभ्यं स्वसराणि येमिरे व्रता देवानां मनुषश्च धर्मभिः ॥
3.060.07 इन्द्र ऋभुभिर्वाजिभिर्वाजयन्निह स्तोमं जरितुरुप याहि यज्ञियम् ।
3.060.07 शतं केतेभिरिषिरेभिरायवे सहस्रणीथो अध्वरस्य होमनि ॥

3.061.01 उषो वाजेन वाजिनि प्रचेता स्तोमं जुषस्व गृणतो मघोनि ।
3.061.01 पुराणी देवि युवतिः पुरन्धिरनु व्रतं चरसि विश्ववारे ॥
3.061.02 उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती ।
3.061.02 आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥
3.061.03 उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः ।
3.061.03 समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥
3.061.04 अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी ।
3.061.04 स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥
3.061.05 अच्छा वो देवीमुषसं विभातीं प्र वो भरध्वं नमसा सुवृक्तिम् ।
3.061.05 ऊर्ध्वं मधुधा दिवि पाजो अश्रेत्प्र रोचना रुरुचे रण्वसंदृक् ॥
3.061.06 ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् ।
3.061.06 आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥
3.061.07 ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश ।
3.061.07 मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥

3.062.01 इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
3.062.01 क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥
3.062.02 अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
3.062.02 सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥
3.062.03 अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
3.062.03 अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥
3.062.04 बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
3.062.04 रास्व रत्नानि दाशुषे ॥
3.062.05 शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
3.062.05 अनाम्योज आ चके ॥
3.062.06 वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
3.062.06 बृहस्पतिं वरेण्यम् ॥
3.062.07 इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
3.062.07 अस्माभिस्तुभ्यं शस्यते ॥
3.062.08 तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
3.062.08 वधूयुरिव योषणाम् ॥
3.062.09 यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
3.062.09 स नः पूषाविता भुवत् ॥
3.062.10 तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
3.062.10 धियो यो नः प्रचोदयात् ॥
3.062.11 देवस्य सवितुर्वयं वाजयन्तः पुरन्ध्या ।
3.062.11 भगस्य रातिमीमहे ॥
3.062.12 देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
3.062.12 नमस्यन्ति धियेषिताः ॥
3.062.13 सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
3.062.13 ऋतस्य योनिमासदम् ॥
3.062.14 सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
3.062.14 अनमीवा इषस्करत् ॥
3.062.15 अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
3.062.15 सोमः सधस्थमासदत् ॥
3.062.16 आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
3.062.16 मध्वा रजांसि सुक्रतू ॥
3.062.17 उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
3.062.17 द्राघिष्ठाभिः शुचिव्रता ॥
3.062.18 गृणाना जमदग्निना योनावृतस्य सीदतम् ।
3.062.18 पातं सोममृतावृधा ॥