Sanskrit

Divyabadane Sardula karnabadanam -दिव्यावदाने शार्दूल कर्णावदानं

श्री दिव्यावदाने शार्दूल कर्णावदानं

त्रिशङ्कुः

ॐ नमो रत्नत्रयाय

1.1 एवं मया श्रुतम्। एकसिन् समये भगवान् श्रावस्त्यां विहरति स्म। जेतवनेऽनाथपिण्डदस्यआरामे।
1.2 अथआयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत्। अथ आयुष्मान् आनन्दः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यो येनान्यतमम् उदपानं तेनउपसंक्रान्तः।
1.3 तेन खलु समयेन तस्मिन्न् उदपाने प्रकृतिर् नाम मातङ्गदारिका उदकम् उद्धरते स्म। अथआयुष्मान् आनन्दः प्रकृतिं मातङ्गदारिकाम् एतद् अवोचत्। देहि मे भगिनि पानीयं पास्यामि।

1.4 एवं किते प्रकृतिर् मातङ्गदारिकायुष्मन्तम् आनन्दम् इदम् अवोचत्। मातङ्गदारिकाहम् अस्मि भदन्तानन्द। नअहं ते भगिनि कुलं वा जातिं वा च्छामि। अपि तु सचेत्ते परित्यक्तं पानीयं देहि पास्यामि।
1.5 अथ प्रकृतिर् मातङ्गदारिकायुष्मन्तम् आनन्दाय पानीयम् अदात्। अथआयुष्मान् आनन्दः पानीयं पीत्वा प्रक्रान्तः।
1.6 अथ प्रकृतिर् मातङ्गदारिकायुष्मन्त आनन्द्स्य शरीरे मुखे स्वरे साधु च सुष्ठु च निमित्तम् उद्गृहीत्वा योनिशो मनसिकारेणाविष्टा संरागचित्तम् उत्पादयति स्म । आर्यो मे आनन्दः स्वामी स्याद् इति । माता च मे महाविद्याधरी सा शक्ष्यत्य् आर्यम् आनन्दम् आनयितुम्।
2.1 अथ प्रकृतिर् मातङ्गदारिका पानीयघटम् आदाय येन चण्डालगृहं तेनउपसंक्रम्य पानीयघटम् एकान्ते निक्षिप्य स्वां जननीम् इदम् अवोचत्।
2.2 यत् खल्व् एवम् अम्ब जानीया आनन्दो नाम श्रमणो महाश्रमणगौतमस्य श्रावक उपस्थायकस् तम् अहं स्वामिनम् इच्छामि। शक्ष्यसि तम् अम्ब आनयितुम्।
2.3 सा ताम् अवोचत्। शक्ताऽहं पुत्रि आनन्दम् आनयितुं। स्थापयित्वा यो मृतः स्याद् यो वा वीतरागः। अपि च राजा प्रसेनजित् कौशलः श्रमणगौतमम् अतीव सेवते भजते पर्युपासते। यदि जानीयात् सोऽयं चण्डालकुलस्यानर्थाय प्रतिपद्येत। श्रमणश् च गौतमो वीतरागः श्रूयते। वीतरागस्य [मन्त्राः] पुनः सर्वमन्त्रान् अभिभवन्ति।
2.4 एवम् उक्ता प्रकृतिर् मातङ्गदारिका मातरम् इदम् अवोचत्। स चेद् अम्ब श्रमणो गौतमा वीतरागस्तस्यअन्तिकाच् छ्रमणम् आनन्दं न प्रतिलप्स्ये जीवितं परित्यजेयं स चेत् प्रतिलिप्स्ये जीवामि।
2.5 मा ते पुत्रि जीवितं परित्यजसि आनयामि श्रमणम् आनन्दम्।
2.6 अथ प्रकृतेर् मातङ्गदारिकाया माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीम् आलिप्य दर्भान् संस्तीर्यअग्निं प्रज्वाल्यअष्टशतम् अर्कपुष्पाणां गृहीत्वा मन्त्रान् आवर्तयमाना एकैकम् अर्कपुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म। तत्रइयं विद्या भवतिः
3.1 अमले विमले कुङ्कुमे सुमने। येन बद्धाऽसि विद्युत्। इच्छया देवो वर्षति विद्योतति गजेति विस्मयं महाराजस्य समभिवर्धायितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्योः शिखिग्रहा देवा विशिखिग्र)हा देवा आनन्दस्यआगमनाय संगमनाय क्रमणाय ग्रहणाय जुहोमि स्वाहा।
3.2 अथआयुष्मत आनन्दस्य चित्तम् आक्षिप्तं। स विहारान् निष्क्रम्य येन चण्डालगृहं तेनउपसंक्रामति स्म।
3.3 अद्राक्षीच् चण्डाली आयुष्मन्तम् आनन्दं दूराद् एवआगच्छन्तं। दृष्ट्वा च पुनः प्रकृतिं दुहितरम् इदम् अवोचत्। अयम् असौ पुत्रि श्रमण आनन्द आगच्छति शयनं प्रज्ञपय।
3.4 अथ प्रकृतिर् मातङ्गदारिका हृष्टतुष्टा प्रमुदितमना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म।
3.5 अथआयुष्मान् आनन्दो येन चण्डालगृहं तेनउपसंक्रान्तः। उपसंक्रम्य वेदीम् उपनिश्रित्याऽस्थात्। एकान्तस्थितः स पुनर् आयुष्मान् आनन्दः प्रारोदीद्। अश्रूणि प्रवर्तयमान एवम् आह। व्यसनप्राप्तोऽहम् अस्मि न च मे भगवान् समन्वाहरति।
3.6 अथ भगवान् आयुष्मन्तम् आनन्दं समन्वाहरति स्म। समन्वाहृत्य संबुद्धमन्त्रैश् चण्डालमन्त्रान् प्रतिहन्ति स्म। तत्रइयं विद्याः।
3.7 स्थितिर् अच्युतिः सुनीतिः। स्वस्ति सर्वप्राणिभ्यः।

4.1 सरः प्रसन्नं निर्दोषं प्रशान्तं सर्वतोऽभयं।
ईतयो यत्र शाम्यन्ति भयानि चलितानि च।
4.2 तद् वै देवा नम्स्यन्ति सर्वसिद्धाश् च योगिनः।
एतेन सत्यवाक्येन स्वस्त्याआनन्दाय भिक्षवे॥

4.3 अथआयुष्मान् आनन्दः प्रतिहतचण्डालमन्त्रश् चण्डालगृहान् निष्क्रम्य येन स्वको विहारस् तेनउपसंक्रमितुम् आरब्धः।

4.4 अद्राक्षीत् प्रकृतिर् मातङ्गदारिका। आनन्दम् आयुष्मन्तं प्रतिगच्छन्तं दृष्ट्वा च पुनः स्वां जननीम् इदम् अवोचत्। अयम् असौ मातः श्रमण आनन्दः प्रतिगच्छति। ताम् आह माता। नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। तेन मम मन्त्राः प्रतिहता भविष्यन्ति। प्रकृतिर् आह। किं पुनर् अम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नअस्माकं। ताम् आह माता। बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नअस्माकं। ये पुत्रि मन्ताः सर्वलोकस्य प्रभवन्ति तान् मन्त्रान् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। न पुनर् लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुं। एवं बलवत्तराः अवमणस्य गौतमस्य मन्त्राः।

4.5 अथआयुष्मान् आनन्दो येन भगवांस् तेनउपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वाएकान्तेऽस्थात्।

4.6 एकान्तस्थितम् आयुष्मन्तम् आनन्दं भगवान् इदम् अवोचत्। उद्गृह्ण त्वम् आनन्द इमां षडक्षरीविद्यां धारय वाचय पर्यवाप्नुहि। आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपसिकानां हिताय सुखाय। इयम् आनन्द षड्क्षरीविद्या षड्भिः सम्यक् संबुद्धैर् भाषिता चतुर्भिश् च महाराजैः शक्रेण देवानाम् इन्द्रेण ब्रह्मणा च सहापतिना। मया चएतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता। त्वम् अप्य् एतर्ह्य् आनन्द तां धारय वाचय पर्यवाप्नुहि। यद् उत तद् यथा:

5.1 अण्डरे पाण्डरे कारण्डे केयूरेऽर्चिहस्ते खरग्रीवे बन्धुमति चीरमति धरविध चिलिमिले विलोडय विषाणि लोके। विष चल चल। गोलमति गण्डविले चिलिमिले सअतिनिम्ने यथा संविभक्तगोलमति गण्डविलायै स्वाहा।
5.2 यः कश् चिद् आनन्दषडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात् स यदि वधअर्हो भवेत् दण्डेन मुच्यते। दण्डअर्हः प्रहारेण प्रहारअर्हः परिभाषणया परिभाषणअर्हो रोमहर्षणेन रोमहर्षणअर्हः पुनर् एव मुच्यते।
5.3 नअहम् आनन्द तं समनुपश्यामि सदेवलोके समारलोके सब्रह्मलोके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषिकायां सअसुरायां यस् त्व् अनया षडक्षयं विद्यया रक्षायां कृतायां रक्षासूत्रे बाहौ बद्धे स्वस्त्ययने कृतेऽभिभवितुं शक्रोति वर्जयित्वा पौराणं कर्मविपाकम्।

6.1 अथ प्रकृतिर् मातङ्गदारिका तस्या एव रात्र्या अत्ययात् शिरःस्नाताऽनाहत दूष्यप्रावृता मुक्तामाल्यआभरणा येन श्रावस्तो नगरी तेनउपसंक्रम्य नगरद्वारे कपाटमूले निश्रित्याऽस्थात्। आयुष्मन्तम् आनन्दम् आगमयमाना। नियतम् अनेन मार्गेणआनन्दो भिक्षुरागम् इष्यतिइति।
6.2 अथआयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्। ददर्श प्रकृतिर् मातङ्गदारिकआयुष्मन्तम् आनन्दं। दूरत एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दं ष्ठतः ष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति आयुष्मन्तम् आनन्दम् आमन्त्रयमाणा।
6.3 ददर्शायुष्मानानन्दः प्रकृतिं मातङ्गदारिकां। ष्ठतः ष्ठतः समनुबद्धां दृष्ट्वा च पुनर् जेह्रीय्माणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वेकान्तेऽस्थाद्। एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्। इयं मे भगवन् प्रकृतिर् मातङ्गदारिका ष्ठतः ष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशामि तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। त्राहि मे भगवन् त्राहि मे सुगत।
6.4 एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्। मा भेर् मा भेर् इति। अथ भगवान् प्रकृतिं मातङ्गदारिकाम् इदम् अवोचत्। हिं ते प्रकृते मातङ्गदारिके आनन्देन भिक्षुणा। प्रकृतिर् आह। स्वामिनं भदन्तम् आनन्दम् इच्छामि। भगवान् आह। अनुज्ञातासि प्रकृते मातापितृभ्याम् आनन्दाय। अनुज्ञातास्मि भगवन्न् अनुज्ञातास्मि सुगत। भगवान् आह। तेन हि सम्मुखं ममानुज्ञापय्य त्वम्।

7.1 अथ प्रकृतिर् मातङ्गदारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्ता। येन स्वकौ मातापितरौ तेनउपसंक्रान्ता। उपसंक्रम्य मातापित्रोः पादान् शिरसा वन्दित्वाएकान्तेऽस्थाद्। एकान्तस्थिता स्वकौ माता पितराव् इदम् अवोचत्। सम्मुखं मेऽम्ब तात श्रमणस्य गौतमस्यानन्दायोत्सृजतम्।
7.2 अथ प्रकृतेर् मातङ्गदारिकाया मातापितरौ प्रकृतिम् आदाय यन भगवाम्स् तेनउपसंक्रान्तौ। उअप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वाएकान्ते न्यषीदतां। अथ प्रकृतिर् मातङ्गदारिका भगवतः पादौ शिरसा बन्दित्वा एकान्तेऽस्थाद्। एकान्तस्थिता भगवन्तम् एतद् अवोचत्। इमौ तौ भगवन् मातापितराव् आगतौ।
7.3 अथ भगवान् प्रकृतेर् मातङ्गदारिकाया मातापितराव् इदम् अवोच्त्। अनुज्ञाता युवाभ्यां प्रकृतिर् मातङ्गदारिकानन्दायेति। ताव् आहुतुः। अनुज्ञाता भगवन्न् अनुज्ञाता सुगत। तेन हि यूयं प्रकृतिम् अपहाय गच्छत स्वगृहम्।
7.4 अथ प्रकृतेर् मातङ्गदारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्तौ।
7.5 अथ प्रकृतेर् मातङ्गदारिकाया मातापितराव् अचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्गदारिकाम् इद्म् अवोचत्। अर्थिकासि प्रकृते आनन्देन भिक्षुणा। प्रकृतिर् आह। अर्थिकास्मि भगवन्न् अर्थिकास्मि सुगत। तेन हि प्रकृते य आनन्दस्य वेशः स त्वया धारयितव्यः। सा आह। धारयामि भगवन् धारयामि सुगत। प्रव्राजयतु मां सुगत प्रव्राजयतु मां भगवान्।

8.1 अथ भगवान् प्रकृतिं मातङ्गदारिकाम् इदम् अवोचत्। एहि त्वं भिक्षुणि चर ब्रह्मचर्यम्।

8.2 एवम् उक्ते प्रकृतिर् मातङ्गदारिका भगवता मुण्डा काषायप्रावृता। अथ भगवान् प्रकृतिं मातङ्गदारिकाम् एहि भिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, समुत्तेजयति स्म, संप्रहर्षयति स्म। येयं कथा दीर्घरात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया।तद् यथा। दानकथा शीलकथा स्वर्गकथा कामेष्व् आदीनवं निःसरणं भयं संक्लेशव्यवदानं बोधिपक्षांस् तान् धर्मान् भग्वान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म।
8.3 अथ प्रकृतिर् भिक्षुणी भगवता धर्म्यय कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्टचित्ता कल्याणचित्ता मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताऽखिलचित्ता भव्या धर्मदेशितम् आज्ञातुम्।
9.1 यदा च भगवान् ज्ञातः प्रकृतिं भिक्षुणीं हृष्टचित्तां कल्याणचित्तां मुदितचित्तां विनिवरणचित्तां भव्यां प्रतिबलां सामुत्कर्पिकीं धर्मदेशनाम् आज्ञातुं तदा येयं भगवतां बुद्धानां चतुरार्यसत्यप्रतिवेधिकी सामुत्कर्षिकी धर्मदेशना, यद् उत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर् भिक्षुण्या विस्तरेण संप्रकाशयति स्म।
9.2 अथ प्रकृतिभिक्षुणी तस्मिन्न् एवासने निषण्णा चतुरार्यसत्यान्यभिज्ञातासित्। दुःखं सुमुदयं निरोधं मार्गं॥ तद् यथा वस्ताम् अपगतकालकं रजनोपगतं रङ्गउदके प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णीयाद् एवम् एव प्रकृतिर् भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्यसत्यानि अभिसमयति स्म, तद् यथा दुःखं सुमुदयं निरोधं मार्गम्।
9.3 अथ प्रकृतिर् भिक्षुणी कृष्टधर्मा प्राप्तधर्मा विदितधर्मा अकोप्यधर्मा पर्यवसितधर्मअधिगतअर्थलाभसंवृत्ता तीर्णकाङ्क्षाविचिकित्सा विगतकथंकथा वैशारद्यप्राप्ताऽपरप्रत्ययाऽनन्यनेया शास्तुः शासनेऽनुधर्मचारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तम् इदम् अवोचत्।
9.4 अत्ययो मे भगवन्न् अत्ययो मे सुगत। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञजातीया याहम् आनन्दं भिक्षुं स्वामिवादेन समुदाचर्षं। सअहं भदन्तात्ययमत्ययतः पश्यामि। अत्ययम् अत्ययतो दृष्ट्वा देशयामि। अत्ययम् अत्ययत आविष्करोमि। आयत्यां संवरम् आपद्ये। अतस् तस्या मम भगवन्न् अत्ययम् अत्ययतो जानातु प्रतिगृह्णातु अनुकम्पाम् उपादाय। भगवान् आह। आयत्यां संवराय स्थित्वा त्वं प्रकृतेऽत्ययम् अत्ययतोऽध्यागमः। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञजातीय त्वम् आनन्दं भिक्षुं स्वामिवादेन अमुदाचरसिइति। यतश् च त्वं प्रकृतेऽत्ययं जानासि अत्ययं पश्यसि आयत्यां च संवरम् आपद्यसे, अहम् अपि तेऽत्ययम् अत्ययतो गृह्णामि। वृद्धिर् एव ते प्रकृते प्रतिकाङ्क्षतव्या कुशलानां धर्माणां न हानिः।

10.1 अथ प्रकृतिर् भिक्षुणी भगवताअभिनन्दिता अनुशिष्टा एकाव्यपकृष्टाऽप्रमत्ता आतापिनी स्मृतिम् अती संप्रजाना प्रहितानि विविक्तानि विहरति स्म। यद् अर्थं कुलदुहितरः केशान् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयाआगाराद् अनागारिकां प्रव्रजन्ति तदनुत्तरब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञय साक्षात् कृत्यउपसंपद्य प्रवेदयते स्म। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नअपरमस्माद् भवं प्रजानामिइति।

10.2 अश्रौषुः श्रावस्तेयका ब्राह्मणगृहपतयो भगवता किल चन्डालदारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायन्ति। कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्चर्यां चरिष्यति। कथं हि नाम चण्डालदारिका ब्रह्मक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति।

11.1 अश्रौषीद् राजा प्रसेनजित् कौशलो भगवता चण्डालदारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायाति। कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्चर्यां चरिष्यति। कथं ब्राह्मणक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति।

11.2 विमृष्य च भदरं यानं योजयित्वा भद्रं यानम् अभिरुह्य संबहुलैश् च श्रावस्तेयैर् ब्राह्मणगृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म। येन जेतवनम् अनाथपिण्डदस्यआरामस् तेनउपसंक्रान्तः। तस्य खलु यावती यानस्य भूमिस् तावद् यानेन गत्वा स यानाद् अवतीर्य पत्तिकायपरिवृतः पत्तिकायपुरस्कृतः पद्भ्याम् एवआरामं प्राविक्षत्। प्रविश्य येन भगवांस् तेनउपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मणक्षतिर्यगृहपतयो भगवतः पादौ शिरसा वन्दित्वाएकान्ते निषण्णाः। अप्य् ऐकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्यएकान्ते निषण्णाः। अप्य् ऐकस्या भगवतः पुरतः स्वकस्वकानि मातापैतृकाणि नामगोत्राणि अनुश्राव्यएकान्ते निषण्णाः। अप्य् ऐकत्य येन भगवांस् तेनअञ्जलिं प्रणम्यएकान्ते निषण्णाः। अप्य् ऐकत्यास् तूष्णीं भूता एकान्ते निषण्णाः।

11.3 अथ भगवान् राजानं प्रसेनजितं कौशलम् आरभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मणक्षत्रियगृहपतीनां चेतसा चित्तम् आज्ञाय प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य भिक्षूनाम् अन्त्रयते स्म। इच्छथ यूयं भिक्षवस् तथाआगतस्य सम्मुखं प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य धर्मकथां श्रोतुम्।

11.4 भिक्षवो भगवन्तम् आहुः । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य धर्मकथां कथायेत्। यद् भगवतः (12) श्रुत्वा भिक्षवो धारयिष्यन्ति। भगवान् आह। तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। एवं साधु भगवन्न् इति ते भिक्षवो भगवतः प्रत्यश्रौषुः। भगवांस् तान् इदम् अवोचत्।

12.1 भूतपूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गातटेऽतिमुक्तकदलीपाटलकआमलकी वनगहनप्रदेशे तत्र त्रिशङ्कुर् नाम मातङ्गराजः प्रतिवसति स्म। संबहुलैश् च मातङ्गसहस्रैः सार्धं। स पुनर् भिक्षवस् त्रिशङ्कुर् मातङ्गरजः पूर्वजन्मअधीतान् वेदान् समनुस्मरति स्म सअङ्गउपाङ्गान् सरहस्यान् सनिघण्टकैटभान् सअक्षरप्रभेदान् इतिहासपञ्चमानन्यानि च शास्त्राणि। पदको वैयाकरणो लोकायतयज्ञमन्त्रे महापुरुषलक्षणे निष्णातो निष्काङ्क्षो भाष्यं च यथार्धर्मं वेदव्रतपदान्य् अनुश्रुतं च भाषते स्म।
12.2 तस्य त्रिशङ्कुर् मातङ्गराजस्य शार्दूअकर्णो नाम कुमारोऽभूद् उत्पन्नः। रूपतश् च कुलतश् च शीलतश् च गुणतश् च सर्वगुणैश् चउपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभवर्णपुष्कलतया समन्वागतः।
12.3 अथ त्रिशङ्कुर् मातङ्गराजः।शार्दूलकर्णं कुमारं पूर्वजन्माधीतान् वेदान् अध्यापयति स्म। यद् उत सअङ्गउपाङ्गान् सरहस्यान् सनिघण्टकैटभान् सअक्षरप्रभेदान् इतिहासपञ्चमानन्यानि च शास्त्राणि भाष्यं च यथाधर्मं वेदव्रतपदानि।
12.4 अथ त्रिशङ्कोर् मातङ्गराजस्यएतद् अभवत्। अयं मम पुत्रः शार्दूलकर्णो नाम कुमारः। उपेतो रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्वगुणउपेतोऽभिरूपो (13) दर्शनीयः प्रासादिकः परमया च वर्णपुष्कलतया समन्वागतः। चीर्णव्रतोऽधीतमन्त्रो वेदपारगः। समयोऽयं यन् न्य् अहम् अस्य निवेशनधर्मं करिष्ये। तत् कुतो न्य् अवं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयम् इति।

13.1 तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते स्म। समप्तउत्सदं सतृणकाष्ठउदकं धान्यसहगतं राज्ञाऽग्निदत्तेन ब्रह्मदेयं दत्तम्।
13.2 पुष्करसारी पुनर् ब्राह्मण उपेतः मातृतः पितृतः संशुद्धो गृहिण्यामनाक्षिप्तो जातिवादेन गोत्रवादेन यावद् आसप्तममातामहपितामहं। युगपद् उपाध्यायोऽध्यापको मन्त्रधरस् त्रयाणां वेदानां पारगः सअङ्गउपाङ्गानां सरहस्यानां सनिघण्टकैटभानां सअक्षरप्रभेदानाम् इतिहासपञ्चमानां सदृशव्याकर्ता पदको वैयाकरणः। लोकायतयज्ञमन्त्रमहापुरुषलक्षणेषु पारगः। स्फीतम् उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते।
13.3 पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता भूता। उपेता रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्वगुणउपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती।
13.4 अथ त्रिशङ्कोर् मातङ्गराजस्यएतद् अभवत्। अस्त्य् उत्तरपूर्वेणउत्कूटो नाम द्रोणमुखः, तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। उपेतो मातृतः पितृतो (14) यावत् तत्रैवेदिके प्रवचने विस्तरेण। स चउत्कूटं द्रोणमुखं परिभ्ङ्क्ते। ससप्तउत्सदं सतृणकाष्ठउदकं धान्यभोगैः सहगतं राज्ञाऽग्निदत्तेन ब्रह्मदेयं दत्तम्।

14.1 तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता उपेता रूपतश् च कुलतश् च शीलतश् च सर्वगुणउपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता। शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतिति।
14.2 अत्र त्रिशङ्कुर् मातङ्गराज एतम् एवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूषकालसमये सर्वश्वेतं वडवा रथम् अभिरुह्य महता श्वपाकगणेनामात्यगणेन परिवृतश् चण्डालकुलनगरान् निष्क्रम्यउत्तरेन प्रागच्छद्येनोत्कूटं द्रोणमुखम्।
14.3 अथ त्रिशङ्कुर् मातङ्गराज उत्कूटस्यउत्तरपूर्वेण सुमनस्कं नामउद्यानं नानावृक्षसंच्छन्नं नानावृक्षकुसुमितं नानाद्विजनिकूजितं नन्दनम् इव देवानां तद् उपसंक्रान्तः। उपसंक्रम्य ब्राह्मणं पुष्करसारिणम् आगमयमानोऽस्थात्। ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुम् इहागमिष्यतिइति।
14.4 अथ ब्राह्मणः पुष्करसारी तस्या एव रात्र्या अत्ययात् सर्वश्वेतं वडवारथम् अभिरुह्य शिष्यगणप्रिवृतः पञ्चमात्रैर् माणवकशतेः पुरस्कृत उत्कूटान् निर्य्ति स्म, ब्राह्मणकान् मन्त्रान् वाचयितुम्।

15.1 अद्राक्षीत् त्रिशङ्कुर् मातङ्गराजो ब्राह्मणं पुष्करसारिणं सूर्यम् इवउदयन्तं तेजसा ज्वलन्तम् इव हुतवहं यज्ञम् इव ब्राह्मणपरिवृतं शक्रम् इव देवगणपरिवृतं हैमवन्तम् इवौषधिभिः समुद्रम् इव रत्नैश् चन्द्रम् इव नक्षत्रैर् वैश्रवणम् इव यक्षगणैर् ब्रह्माणम् इव देवर्षिगणैः परिवृतं शोभमानं। दूरत एवागच्छन्तं दृष्ट्वा चैनं प्रत्युद्गम्य यथाधर्मं कृत्वेदम् अवोचत्।
15.2 अहं भोः पुष्करसारिन् स्वागतम् आयाहि। कार्यं च ते वक्ष्यामि तच् छ्रूयतां। एवम् उक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुमातङ्गराजम् इदम् अवोचत्।
15.3 न हि भोस् त्रिशङ्को शक्यं ब्राह्मणेन सह भोः कारं कर्तुं।
15.4 अहं भोः पुष्करसारिन् शक्नोमि भोः कारं कर्तुं। यच्छक्यं मे कर्तुं भवति नैव तच्छक्यं ते कर्तुं। अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यसमारम्भाः पूर्वसमारब्धा भवन्ति। यद् उत आत्मार्थं वा परार्थं वात्मीयार्थं (16) वा सर्वभूतसंग्रहार्थं वा। इदं चअत्र महत्तरं कार्यं यत् ते व्याख्यास्यामि तच् छ्रूयतां। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्याअर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तं दास्यामि।

16.1 इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य भृशं ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च क्वेषं च म्रक्ष्यं च तत्प्रत्ययात् संजनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वाऽक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्।
16.2 धिग् ग्राम्यविषय। चण्डाल। नेदं श्वपाकवचनं युक्तं। यस्त्वं ब्राह्मणं वेदपारगं हीनश् चण्डालयोनिजो भूत्वा इच्छस्य् अवमर्दितुं। भो दुर्मते।

16.3 प्रकृतिं त्वं न जानासि; आत्मानं चअभिमन्यसे।
बालअग्रे सर्षपं मा भो स्थापय(मा)क्लेशम् आगमः।
16.4 मा प्रार्थयाऽप्रार्थनीयां वायुं पाशेन बन्धय।

17.1 न हि चामीकरं मूढ भवेद् भस्म कदाचन।
प्रकाशे बान्धकारे किं विशेषो नोपलभ्यते॥
17.2 चण्डालयोनिजस् त्वं हि द्विजातिः पुनर् अप्य् अहं।
हीनः श्रेष्ठेन सम्बन्धं मूढ प्राथयसे कथं॥

17.3 चण्डालयोनिभूतस् त्वम् अहम् अस्मि द्विजातिजः।
17.3 न हि श्रेष्ठः प्रहीनेन सम्बन्धं कर्तुम् इच्छति॥
17.4 श्रेष्ठाः श्रेष्ठैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः।
17.4 विद्यया ये तु सम्पन्नाः संशुद्धश् चरणेन च॥
17.5 जात्या चैवान् अभिक्षिप्ता मन्त्रैः परमतां गताः।
17.5 अध्यापका मन्त्रधरास् त्रिषु वेदेषु पारगाः॥
17.6 निघण्टकैटभान् वेदान् ब्राह्मण ये ह्य् अधीयते।
17.6 तैस् तादृशैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः॥
17.7 न हि श्रेष्ठो हि हीनेन सम्बन्धं कर्तुम् इच्छति।
17.7 प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुं॥
17.8 यद् अस्माभिश् च सम्बन्धम् इह त्वं कर्तुम् इच्छसि।
17.8 जुगुप्सितः सर्वलोके कृपणःपुरुषाधमः।
17.8 गच्छ त्वं वृषल क्षिप्रं किम् अस्मान् अवमन्यसे॥
18.1 चण्डालाः सह चण्डालैः पुक्कशाः सह पुक्कशैः।
18.1 कुर्वन्तीहैव सम्बन्धं जातिभिर् जातिर् एव च॥
18.2 ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह।
18.2 सार्धं वैश्यास् तथा वैश्यैः शूद्राः शूद्रैस् तथा सह॥
18.3 सदृशाः सदृशैः सार्धम् आवहन्ति परस्परं।
18.3 न हि कुर्वन्ति चण्डालाः सम्बन्धं ब्राह्मणैः सह॥
18.4 सर्वजातिविहीनोऽसि सर्ववर्णजुगुप्सितः।
18.4 कथं हीनश् च श्रेष्ठेन सम्बन्धं कर्तुम् इच्छसि॥
18.5 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्गराज इदम् अवोचत्।
18.6 यथा भस्मनि सौवर्णे विशेष; उपलभ्यते।
18.6 ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥
18.7 यथा प्रकाशतमसोर् विशेष; उपलभ्यते।
18.7 ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥
18.8 न हि ब्राह्मण; आकाशान् मरुतो वा समुत्थितः।
18.8 भित्वा वा थिवीं जातो जातवेदा यथारणेः॥
18.9 ब्राह्मणा योनितो जाताश् चण्डाला; अपि योनितः।
18.9 श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणं॥
18.10 ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिर् उच्यते।
18.10 वर्णास् तथाएव वाअप्य् अन्ये का नु तत्र विशेषता॥
19.1 यत् किञ् चित् पापकं कर्म किल्विषं कलिर् एव च।
19.1 सत्त्वानाम् उपघाताय ब्राह्मणैस् तत् प्रकाशितं॥
19.2 इति कर्माणि चएतानि प्रकाशितानि ब्राह्मणैः।
19.2 कर्मभिर् दारुणैश् चअपि “पुण्योऽहं ब्रूवते द्विजाः॥
19.3 मांसं खादितुकामैस् तु ब्राह्मणैर् उपकल्पितं।
19.3 मन्त्रैर् हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्य् अजैडकाः॥
19.4 यद्य् एष मार्गः स्वर्ताय कस्मान् न ब्राह्मणा ह्य् अमी।
19.4 आत्मानम् अथवा बन्धून् मन्त्रैः संप्रोक्षयन्ति वै॥
19.5 मातरं पितरं चएव भ्रातरं भगिनीं तथा।
19.5 पुत्रं दुहितरं भार्यां द्विजा न प्रोक्षयन्त्य् अमी॥
19.6 मित्रं ज्ञातिं सखीं वाअपि ये वा विषयवासिनः।
19.6 प्रोक्षितास् तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिं॥
19.7 सर्वे यज्ञैः समाहुता गमिष्यन्ति सतां गतिं।
19.7 पशुभिः किं नु भो यष्टैर् आत्मानं किं न यक्ष्यसे॥
19.8 न प्रोक्षणैर् न मन्त्रैश् च स्वर्गं गच्छन्त्य् अजैडकाः।
19.8 न ह्य् एष मार्गः स्वर्गाय मिथ्याप्रोक्षणम् उच्यते॥
19.9 ब्राह्मणैर् औद्रचित्तैस् तु पर्यायो ह्य् एष चिन्तितः।
19.9 मांसं खादितुकामैस् तु प्रोक्षणं कल्पितं पशोः॥
19.10 अन्यच् चअहं प्रवक्ष्यामि ब्राह्मणैर् यत् प्रकल्पितं।
19.10 पातका हि समाख्याता ब्राह्मणेषु चतुर्विधाः॥

20.1 सुवर्णचौर्यं मद्यं च गुरुदाराअभिमर्दनं।
20.1 ब्रह्माघ्नता च चत्वारः पातका ब्राह्मणेष्व् अमी॥
20.2 सुवर्णहरणं वर्ज्यं स्तेयम् अन्यन्न विद्यते।
20.2 सुवर्णं यो हरेद् विप्रः स तेनऽब्राह्मणो भवेत्॥
20.3 सुरापानं न पातव्यम् अन्यपानं यथेष्टतः।
20.3 सुरां तु यः पिवेद् विप्रः स तेनअब्राह्मणो भवेत्॥
20.4 गुरुदारा न गन्तव्या; अन्यदारा यथेष्टतः।
20.4 गुरुदारां तु यो गच्छेत् स तेनअब्राह्मणो भवेत्॥
20.5 न हन्याद् ब्राह्मणं ह्य् एकं हन्याद् अन्यान् अनेकशः।
20.5 हयात्त ब्राह्मणं यो वै स तेनअब्राह्मणो भवेत्॥
20.6 इत्य् एते पातका ह्य् उक्ता ब्राह्मणेषु चतुर्विधाः।
20.6 भवन्त्य् अब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥
20.7 कृत्वा चतुर्णम् एकैकं भवेद् अब्राह्मणस् तु सः।
20.7 लभते न च सामीचीं ब्राह्मणाणां समागमे।
20.7 आसनं चउदकं चएव व्युत्थानं स न चअर्हति॥
20.8 तस्य निःसरनं दृष्टं ब्राह्मणैः पतितस्य तु।
20.8 व्रतं वै स समादाय पुनर् ब्राह्मणतां व्रजेत्॥
20.9 असौ द्वादशवर्षाणि धारयित्वा खराजिनं।
20.9 खाट्वाङ्गम् उच्छ्रितं कृत्वा मृतशीर्षे च भोजनं॥

21.1 एतद् व्रतं समादाय निश्चयेन निरन्तरं।
21.1 पूर्णे द्वादशमे वर्षे पुनर् ब्राह्मणतां व्रजेत्॥
21.2 इति निःसरणं दृष्टं ब्राह्मणैस् तु तपस्विभिः।
21.2 कुमार्गगामिभिर् मूढैर् अनिःसरणदर्शिभिः॥

21.3 तद् इदं ब्राह्मण ते ब्रवीमि, संज्ञामात्रकम् इदं लोकस्य यद् इदम् उच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इत्य् वा। सर्वम् इदम् एकम् एवेति विज्ञय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्याअर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि। इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च चत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वाऽक्षिणी परिवर्त्य नकुलपिङ्गलां दूष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्।

22.1 असमीक्ष्यैतत्त्वया हि कृता संज्ञेयम् ईदृशी।
22.1 एकैव जातिर् लोकेऽस्मिन् सामान्या न थग्विधा॥
22.2 कथं श्वपाकजातीयो ब्राह्मणं वेदपारगं।
22.2 निहीनयोनिजो भूत्वा विमर्दितुम् इहइच्छसि॥

22.3 राजानः खलु वृषल प्रति[वि]भागज्ञा भवन्ति। तद् यथा देशधर्मे वा नगरधर्मे वा ग्रामधर्मे वा निगमधम वा शुल्कधर्मे वा आवाहधर्मे वा विवाहधर्मे वा पूर्वकर्मसु वा। चत्वार इमे वृषल वर्णाः। यद् उत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। तेषां विवाहधर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। तद् यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति। तिस्रः क्षत्रियस्य भार्या भवन्ति। क्षत्रिया वैश्या शूद्री चेति। वैश्यस्य द्वे भार्ये भवतः। वैश्या शूद्री चेति। शूद्रस्य अव् एका भार्या भवति शूद्री एव। एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति।तद् यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चेति। क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति। वैश्यस्य द्वौ पुत्रौ, वैश्यः शूद्र इति। शूद्रस्य त्व् एक एव पुत्रो भवति यद् उत शूद्र एव।

22.4 ते ब्राह्मणाः पुनर् वृषल ब्रह्मणः पुत्राः। औरसा मुखतो जाताः। उरस्तो बाहुतः क्षत्रियाः। नाभितो वैश्याः। पद्भ्यां शूद्राः।

22.5 ब्रह्मणाअयं खलु वृषल लोकः सर्वभूतानि निर्मितानि।
23.1 तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
23.1 वैश्यास्त्रितीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥ इति॥

23.2 स त्वं वृषल चतुर्थेऽपि वर्णे न संदृश्यसे। अहं चअग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे। परमार्थं च संयोगमाकाङ्क्षसि प्रणश्य त्वं वृषल क्षिप्रं । मा चअस्माकम् अवमंस्थाः।
23.3 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्गराज इदम् अवोचत्। इदम् अत्र ब्राह्मण शृणु यद् ब्रवीमि। ब्रह्मणाअयं लोकः, सर्वभूतानि निर्मितानि।
23.4 तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
23.4 वैश्यास् त्रृतीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥इति॥

23.5 सपादजङ्घाः सनखाः समांसाः सपार्श्वष्ठाश् च नरा भवन्ति।
23.5 एकांशतो नास्ति यतो विशेषो वर्णाश् च चत्वार इतो न सन्ति॥
23.6 अथो विशेषः प्रवतोस्ति कश्चित् तद् ब्रूहि यच् चअनुमतं यथा ते।
23.6 अथो विशेषः प्रवरो हि नास्ति वर्णाश् च चत्वार इतो न सन्ति॥
24.1 यथा हि दाउरुका बालाः क्रीडमाना महापथे।
24.1 पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते॥
24.2 इदं क्षीरम् इदं दधि; इदं मांसम् इदं घृतं।
24.2 न च बालस्य वचनात् पांशवोऽन्नं भवन्ति हि॥
24.3 वर्णास् तथाइव चत्वारो यथा ब्राह्मण भाषसे।
24.3 पांशुपुञ्जाभिधानेन योगो [यः को] प्य् एष न विद्यते॥
24.4 न केशेन न कर्णाभ्यां न शीर्षण न चक्षुषा।
24.4 न मुखेन न नासया न ग्रीवय न बाहुना॥
24.5 नोरसाप्यथ पार्श्वाभ्यां न ष्ठेनउदरेण च।
24.5 नोरुभ्याम् अथ जञ्ङ्हाभ्यां पाणिपादनखेन च॥
24.6 न स्वरेण न वर्णेन न सर्वांशैर् न मैथुनैः।
24.6 नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते॥
24.7 यथा हि जातिष्व् अन्यासु लिङ्गं योनिः थक् थक्।
24.7 सामान्यं कारणं तत्र किं वा जातिषु मन्यसे॥
24.8 सशीर्षकाश् चअथ नरास्थियुक्ताः सचर्मकाः सेन्द्रियसोदराश् च।
24.8 एकांशतो नास्ति यतो विशेषो वर्णा न युक्ताश् चतुरोऽभिधातुं॥
24.9 अथास्ति कश्चित् प्रवरो विशेषस् तद् ब्रूहि यच्चानुमतं यथा ते।
24.9 अथो विशेषः प्रवरोऽत्र नास्ति वर्णा न युक्ताश् चतुरोभिधातुं॥
25.1 दोषो ह्य् अयं चअत्र भवेद् अयुक्तो यद् यत् त्वया चअभिहितं निदाने।
25.1 श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच् चअत्र मन्ये शृणुचोद्यमानं॥
25.2 यच् चअत्र युक्तं विषमं समं वा तात् ते प्रवक्ष्यामि नियुज्यमानः।
25.2 दोषो हि यश् चअपि भवेद् अयुक्तो वक्ष्यामि ते ह्य् उत्तरतउत्तरं च।
25.3 श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्मअधिपत्यप्रभवा मनुष्याः॥

25.4 अनुमानम् अपि ते ब्राह्मण यदि प्रमाणं, तत्र यद् ब्रवीषि ब्रह्मा एक इति तस्मात् प्रजा अपि एकजात्या एव। वयम् अप्य् एकजात्या भवामः। यच् च व्रवीषि ब्रह्मणाअयं लोकः सर्वभूतानि च निर्मितानिइति। स चेत्ते ब्राह्मण इदं प्रमाणं, तद् इदं ते ब्राह्मण अयुक्तं यद् ब्रवीषि चत्वारो वर्णा ब्राह्मणाः क्षत्रिया वैश्या शूद्राश् चेति।

25.4 अपि तु ब्राह्मण मिथ्या मम वचो भवेत् यदि ब्राह्मण संवादेन मुनुष्यजातेर् नानाकरणं प्रज्ञायते। यद् उत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वाऽ’कारतो वा योनितो वाऽ’हारतो वा सम्भावतो वा नानाकरणं प्रज्ञायते।

26.1 तद् यथाअपि भोः पुष्करसारिन् गवाश् च गर्दभो ष्ट्रमृगपक्ष्यजैडकानामण्डजजरायुजसंस्वेदजौपपादुकानांनानाकरनं प्रज्ञायते। यद् उत पादतोऽपि मुखतोपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसम्भवतोऽपि नानाकरणं प्रज्ञायते नचएवं तेषां चतुर्णां वर्णानां नानाकरणं प्रज्ञायते। तत् तस्मात् सर्वम् इदम् एकम् इति।

26.2 अपि च। ब्राह्मणामीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीजपूरककपित्थाक्षोडनारिकेलतिनिशकरञ्जआदीनां नानाकरणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नानाकरणं प्रज्ञायते। न चएवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
26.3 तद् यथा ब्राह्मणामीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारस्सप्तपर्ण शिरीषकोविदारस्यन्दन चन्दनशिंशपैरण्डखदिर आदीनां नानाकरणं प्रज्ञायते।
26.4 यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च विशेष उपलभ्यते। न चएवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
26.5 तद् यथा भोः पुष्करसारिन्न् अमीषां क्षीरवृक्षाणाम् उदुम्बरप्लक्षाश्वत्थन्यग्रोधवल्गुकेत्य् एवम् आदीनां नानाकरणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग् भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नानाकरणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
26.6 तद् यथा पुष्करसारिन्न् अमीषाम् अपि फलबैषज्यवृक्षाणाम् आमलकीहरीतकीविभीतकी फरसकआदीनाम् अन्यासाम् अपि विविधानाम् ओषधीनां ग्रामजानां पार्वतीयानां तृणवनस्पतीनां नानाकरणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नानाकरणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
27.1 तद् यथा स्थलजानां पुष्पवृक्षाणाम् अतिमुक्तकचम्पकपाटलानां सुमना वार्षिकाधनष्कारिकआदीनां नानाकरणं प्रज्ञायते। यद् उतो रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नानाकरणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
27.2 तद् यथा ब्राह्मणाम् ईषाम् अपि जलजानां पुष्पाणां पद्मउत्पलसौगन्धिकमृदुगन्धिकआदीनां नानाकरणं प्रज्ञायते। यद् उत रूपतश् च गन्धतश् च संस्थानतश् च वणतश् च नानाकरणं प्रज्ञायते। नत्वेव वर्णानां नानाकरणं प्रज्ञायते। तद् यथा पुष्करसारिन् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। तस्माद् एकम् एवइदं सर्वम् इति।

27.3 अप्य् अन्यत् ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथ्आ
27.3 शिरः सतारं गगनम् आकाशम् उदरं तथा॥
27.4 पर्वताश् चअप्य् उभाव् ऊरू पादौ च धरणीतलं।
27.4 सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती॥
27.5 अश्रूण्य् अवोचद् वर्षाऽस्य नद्यः प्रस्रावम् एव च।
27.5 सागराश् चअप्य् अमेध्यं वै; एवं ब्रह्मा प्रजापतिः॥
28.1 परीक्षस्व त्वं ब्रह्मणः स्वलक्षणं। यस्माद् ब्रह्मणो ब्राह्मणा उत्पन्नास् तस्मात् क्षत्रिया अपि वैश्या अपि शूद्रा अप्य् उत्पन्नाः।
28.2 एवं प्रसूतिर् यदि तत्वतः स्यात् ततो हि स्याद् वर्णकृतो विशेषः।
28.2 यदि ब्राह्मणा ब्रह्मलोकं व्रजेयुस् त्रयश् च वर्णा न व्रजेयुः स्वर्गं।
28.2 एवं भवेद् वर्णकृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥
28.3 यस्माद् धि वर्णश् चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा।
28.3 यतस् तपश् चआर्षम् इह प्रशस्तं तस्माद् द्विजातेर् न विशेषणं स्याद्॥
28.4 यदि ब्राह्मणः स्याद् इहैक एव द्विजिह्वश् चतुःश्रवणस् तथाएव।
28.4 चतुर्विषाणो बहुपाद् द्विशीर्ष एवं कृते वर्णकृतो विशेषः॥
29.1 रागैश् च नाम परघातनं च एवं प्रकारं च विहेठनं च।
29.1 सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्य् अकल्याणकृतानि विप्रैः॥
29.2 युद्धं विवादं कलहान्य् अभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर् हि।
29.2 अथर्वणः कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥
29.3 पापेच्छता बहुजनवञ्चनं च शाठ्यं च धौर्त्यं च तथाएव कल्पं।
29.3 एवं परेषाम् अहितं विचिन्त्य कदा च ते स्वर्गम् इतो व्रजेयुः॥
29.4 ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्य् उपेताः।
29.4 अहिंसका ये दम संयमे रतास् ते ब्राह्मणा ब्रह्मपुरं व्रजन्ति॥
29.5 सहअस्थिमांसः सनखः सचर्मा दुःखं सुखं मूत्रपुरीषम् एकं।
29.5 पञ्चइन्द्रियैर् नास्ति यतो विशेषस् तस्मान् न वै वर्णचतुष्क एषः॥

29.6 तद् यथा नाम ब्राह्मण कस्यचित् पुरुषस्य चत्वारः पुत्रा भवेयुः। स तेषां नामानि कुर्यान् नन्दक इति वा जीवक इति वा अशोक इति वा शतायुर् इति वा । इष्टाश् च पुनर् भो एतस्य पुरुषस्य पुत्रा भवेयुः। तत्र यो नन्दकः स नन्देत्। यो जीवकः स ईवेत्। योऽशोकः स न शोचेत्। यः शतायुः स वर्षशतं जीवेत्।
30.1 नामतः पुनर् ब्राह्मण तेषां नानाकरणं प्रज्ञायते न जातितः। तत्कस्य हेतोः। इह खलु पुनर् ब्राह्मण पितृतः पुत्रो जाय्ते। तस्माच् च तत्रेदं व्याकरणं भवति:
30.2 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
30.2 यद्य् एवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित्॥
30.3 परीक्षस्व ब्राह्मण संयगेव कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूत्र इति।
30.4 सर्वे काणाश् च कुब्जाश् च सर्वेऽपस्मारिणोपि वा।
30.4 किलासिनः कुष्ठिनश् च गौराः कृष्णाः ॥

30.5 प्रतिष्ठिताः सममज्जानखत्वचपार्श्वउदरवक्त्राः प्रजा हि ताः स्वकर्मणा। एवं गते ब्राह्मण नैव भवति विशेषः। को जातिकृतो विशेषः।
30.6 यस्मान् न जातेर् विशेषणोऽस्ति तस्मान् न वै वर्णचतुष्क एव।

31.1 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रम् इदं लोकस्य यद् इदं ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाल इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्याअर्थाय यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

31.2 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारीदम् अवोचत्। किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अथर्ववेदोऽधीतः, आयुर्वेदोऽधीतः कल्पाध्यायो पि। अध्यात्मम् अपि मृगचक्रं वा नक्षत्रगणो वा तिथिक्रमगणो वा त्वयाधीतः। कर्मचक्रं वा त्वयाधिगतं। अथवाऽङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता। अथवा राहुचैर्तं वा शुक्रचरितं वा ग्रहचरितं वा त्वयाधीतं। अथवा लोकायतें भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतः।

32.1 एवम् उक्ते त्रिशङ्कुर् मातङ्गराहः पुष्करसारिणं ब्राह्मणम् एतद् अवोचत्। एतच् च मया ब्राह्मणाधीतं भूयश् चउत्तरं । यद् अपि ते ब्राह्मण एवं स्याद् अहम् अस्मि मन्त्रेषु पारं प्राप्त इति। तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। न खल्व् एवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानाम् एतद् अभवत्। यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं।

32.2 अथ ब्राह्मण सत्त्वानामसदृशानां चउभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा। तेऽमी क्षत्रिया इति संज्ञा उदपादि। अथात्र ब्राह्मण तद् अन्यतमानां सत्तानाम् एतद् अभवत्। परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। यन्नु वयं स्वपरिग्रहम् अपहायारण्यायतनं गत्वा तृणकाष्ठशाखापर्णपलाशकानुपसंहृत्य तृणकुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेन इति।

32.3 अथ ते सत्त्वास् तं स्वकं परिग्रहम् अपहायारण्यायतनं गत्वा तृणकाष्ठशाखापत्रपर्णपलाशकैस् तृणकुटिं वा पर्णकुटिकां वा कृत्वा तत्रएव प्रविश्य ध्यायन्ति स्म। ते तत्र सायम् आसनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश् च ग्रामं पिण्डाय प्रविशन्ति स्म।

32.4 अथ तेषां ग्रामवासिनां सत्त्वानाम् एतद् अभवत्। दुष्करकारका वत भोः सत्त्वा ये स्वकं परिग्रहम् उतृज्य ग्रामनिगमजनपदेभ्यो बहिर् निर्गतास् तेषां बहिर्मनस्का ब्राह्यणा इति संज्ञा उदपादि। ते च पुनर् ग्रामवासिनः सत्त्वास् तान् अतीव सत्कुर्वन्ति स्म। तेषां च दातव्यं मन्यन्ते स्म।
33.1 अथ तेषाम् एव सत्त्वानाम् अन्यतमे सत्त्वास् तानि ध्यानान्य् असंभावयन्तो ग्रामेष्व् अवतीर्य मन्त्रपदान् स्वाध्यायन्ति स्म। तांस् ते ग्रामनिवासिन आहुः — न लेवलम् इमे सत्त्वा इमेऽध्यापकाः, तेषाम् अध्यापका इति लोके संज्ञा उदपादि।
33.2 अयं हेतुर् अयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय। अथान्यतमे सत्त्वा विवेककालप्रतिसंयुक्तान् कर्मअन्तान् विविधान् अर्थप्रतिसंयुक्तान् कुर्वन्ति स्म। तेषां वैश्या इति संज्ञा उदपादि।
33.3 अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म। तेषां शूद्रा इति संज्ञा उदपादि।
33.4 भूतपूर्वं ब्राहम्ण अन्यतमः सत्त्वो वधूम् आदाय रथम् आरुह्यान्यतम् अस्मिन्न् अरण्यप्रदेशे गतः। तत्र च रथो भग्नः। तस्मान् मातङ्गम [मा त्वं गमः] इति संज्ञा उदपादि।
33.5 क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्र्वृत्ता। भाष्येण च पर्षदं रञ्जयति धर्मेण शीलब्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाऽभूत्।
33.6 ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति तेषां वणिज इति संज्ञा (34) उदपादि। ततश् चअन्ये सत्त्वाः प्रव्रजन्ति स्म। प्रव्रजित्वा परान् जयन्ति क्लेशान् जयन्तिइति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि।
34.1 अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। तां ते प्रवक्ष्यामि।

35.1 ब्रह्मा लोकेऽस्मिन् इमान् वेदान् वाचयति। ब्रह्मा देवानां परमतापसः। इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म। इन्द्रः कौशिकोऽरणेमि गौतमं वेदान् वाचयति। अरणेमि गौतमः श्वेतकेतुं वेदान् वाचयति। श्वेतकेतुः शुकं पण्डितं वेदान् वाचयति। शुकः पण्डितश् च वेदान् विभजति स्म। तद् यथा पुष्यो बह्व्ऋचानां पंक्तिश् छन्तोगानाम् एकविंशतिर् अध्वर्यवः। क्रतुर् अर्थवणिकानां। बह्व्ऋचानाम् एते ब्राह्मणाः। सर्वे ते व्याख्यायन्ते। पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः। तद् यथा शुक्ला वल्कला माण्डव्या इति। तत्र दश शुक्लाः। अष्टौ वल्कलाः। सप्त माण्डव्याः। इतीयं ब्राह्मण बह्व्ऋचानां शाखा। पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः।
35.2 अनुमानम् अपि ब्राह्मण प्रमाणं छन्दोगानां। ब्राह्मणाः सर्व एते छन्दोगाः। पंक्तिर् एत्य् एका भूत्वा सअशीतिसहस्रधा भिन्ना। तद् यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्मसमा महासमा महायागिकाः सअत्यम् उग्राः समन्तवेदाः।
36.1 तत्र शीलवल्का विंशतिः। अरणेमिका विंशतिः। लौकाक्षाश् चत्वारिंशत्। कौथुमानां शतं। ब्रह्मसमानां शतं। महासमानां पञ्चशतानि। महायागिकानां शतं। सअत्यम् उग्राणां शतं । समन्तवेदानां शतं। इतीयं ब्राह्मणछन्दोगानां शाखा। पंक्तिर् इत्य् एका भूत्वा सअशीति सहस्रधा भिन्ना।
36.2 अनुमानम् अपि प्रमाणम् अध्वर्यूणां। एते ब्राह्मणा एकविंशत्य् अध्वर्यवो भूत्वा एकउत्तरशतधा भिन्नाः। तद् यथा कठाः कंइना वाजसनेयिनो जातुकर्णाः प्रोष्ठपदा ऋषयः। तत्र दश कठा दश कणिमा एकादश वाजसनेयिनः।त्रयोदश जातुकर्नाः। षोडश प्रोष्ठपदाः। एक चत्वारिंशद् ऋषयः। इतीयं ब्राह्मणाध्वर्यूणां शाखा। एकविंशत्यध्वर्यवो भूत्वा एकउत्तरशतधा भिन्नाः।

36.3 अनुमानम् अपि ब्राह्मण प्रमाणम् अथर्वणिकानां । एते मन्त्राः सर्वे तेऽथर्वणिकाः। क्रतुर् एको भूत्वा द्विधा भिन्नः। द्विधा भूत्वा चतुर्धा भिन्नः।चतुर्धा भूत्वाऽष्टधा भिन्नः। अष्टधा भूत्वा [नव]दशधा भिन्नः। इतीयं ब्राह्मणाथर्वणिकानां शाखा। क्रतुर् एकः षोडशउत्तरद्वादशशतधा भिन्नः।

36.4 अनुमानम् अपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादशभेदशतानि षोडशभेदाश् च ये ब्राह्मणैः पौराणैः सम्यग् दृष्टाः। छन्दसि वा व्याकरणे वा लोकायते वा पदमीमांसायां वा न चैषामूहापोहः प्रज्ञायते। यद् उत एकजात्यो नामेति विदित्वा बन्धुर् भवितुम् अर्हति। तत् ते व्राह्मण ब्रवीमि संज्ञामात्रकम् एतल् लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्याअर्थाय यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

37.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारी तुष्णींभूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात्।

37.2 ददर्श त्रिशङ्कुर् मातङ्गराजो ब्राह्मणं पुष्करसारिणं तृष्णींभूतं मद्गुभूतं स्रस्तस्कन्धम् अधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अब्रवीत्। यद् अपि ते ब्राह्मण एवं स्याद् असदृशेन सह सम्बन्धो भविष्यतिइति। न पुनस्त्वया ब्राह्मणएवं द्रष्टव्यं। (38)तत् कस्य हेतोः। ये प्रमाणश्रुतिशीलप्रञ्ञादयो गुणा अग्य्रा लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्ते। यद् अपि ते ब्राह्मण एवं स्यात् — ये वाजपियं यज्ञं यजन्ति। अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्त इति। न पुनर्ब्राह्मण त्वयएवं द्रष्टव्यं। तत् कस्य हेतोः।वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञं च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति। तस्मात् ते ब्राह्मण ब्रवीमि न ह्य् एष मार्गः स्वर्गाय। अहं ते ब्राह्मण मार्गं स्वर्गाय व्याखामि। तच् छृणु।
38.1 शीलं रक्षेत मेधावी प्रार्थयानः सुखत्रयं।
38.1 प्रशंसां वित्तलाभं च प्रेत्य स्वर्गे च मोदनं॥
38.2 यैर् ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः। यैर् अश्वमेधो यैः पुरुषमेधो यैः शाम्यप्राशो यैर् निरर्गडो यज्ञ इष्टः, परिगृहीतस् तैर् निरर्गलं च कामैः कामः। इतो नाकः पर्येष्यते। ये ब्राह्मण इतः पश्चाद् वाजपेयं यज्ञं यक्ष्यन्ति येऽश्वमेधं पुरुषमेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति ते निरर्थकं महाविघातं संयोक्ष्यन्ति।
38.3 तस्मात् ते ब्राह्मन ब्रवीमि — एहि त्वं मया सार्धं सम्बन्धं योजयस्वा। तत् कस्य हेतोः। धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। अपि च।

39.1 श्रद्धा शीलं तपस्त्यागः श्रुतिर् ज्ञानं दयैव च।
39.1 दर्शनं सर्ववेदानां स्वर्गव्रतपदानि वै॥
39.2 प्रमाणम् अष्टप्रकारं स्वर्गाय। तद् एभिर् अष्टाभिः प्रकारैः स्वर्गगमनम् इष्यते। ये प्रायेण जानन्ति विशेषेण खल्व् अप्य् अनेकैर् विविधरि यज्ञैः। अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्ते। तद् यथा अदितिर् देवानां माता। दिवित् दानवानां। मनुर् मानवानां। सुरभिः सौरभेयानां। विनता सुपर्णानां। कद्रुर् नागानां। थिवी भूतानां माता सर्वबीजानां। मरुतां महामहः। महाकाश्यपं मनसा विदन्ति ऋषयः।

39.3 अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्तगोत्राणि व्याख्यास्यामि तानि श्रूयन्तां। तद् यथा गौतमा वात्स्याः कौत्साः कौशिकाः काश्यपा वाशिष्ठा माण्डव्या इत्य् एतानि ब्राह्मण सप्तगोत्राणि। एषाम् एकैकं गोत्रं सप्तधा भिन्नं। अत्र ये गौतमास् ते कौथुमास्ते गर्गास् ते भरद्वाजास्त आर्ष्टिषेणास् ते वैखानसास् ते (40) वज्रपादाः। तत्र ये वात्स्यास्त आत्रेयास् ते मैत्रेयास् ते भार्गवास् ते सावर्ण्या स्ते सलोलास् ते बहुजाताः। तत्र ये कौत्सास् ते मौद्गल्यायनास् ते गौणायनास् ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोमभुवाः[वह्}। तत्र ये कौशिकास् ते कात्यायनास् ते दर्भकात्यायनास् ते वल्कलिनस् ते पक्षिणस् ते लौकाक्षास् ते लोहितआयनाः (लोहित्यायनाः) । तत्र ये काश्यपास् ते मण्डनास् ते इष्टास् ते शौण्डायनास् ते रोचनेयास् तेऽनपेक्षास् तेऽग्निवेश्याः। तत्र ये वःशिष्ठास् ते जातुकर्ण्यास् ते धान्यायनास् ते पाराशरास् ते व्याघ्रनखास् त आण्डायनस्त औपमन्यवाः। तत्र ये माण्डव्यास् ते भाण्डायनास् ते धौम्रायणास् ते कात्यायनास् ते खल्व् अवाहनास् ते सुगन्धारायणास् ते कापिष्ठलायनाः।

40.1 इत्य् एतानि ब्राह्मण एवम् एकोनपञ्चाशद् गोत्राणि ब्राह्मणैः पौराणैः सम्यग् दृष्टानि छन्दसि व्याकरणे पदमीमांसायां। अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। तानि अन्यैर् न ज्ञायन्ते।
40.2 यद् उतैकत्वम् इति विदित्वा भवान् बन्धुर् भवितुम् अर्हति। तस्मात् ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकम् इदं लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं । पुत्राय मे शार्दूलकर्णाय प्रकृतिंदुहितरम् उत्सृज भार्याअर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

41.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारी तृष्णीं भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत्। अद्राक्षीत् त्रिशङ्कुर् मातङ्गराजः पुष्करसारिणं ब्राह्मणं तूष्णीं भूतं मद्गुभूतं स्रस्तस्कन्धम् अभोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अवोचत्।

41.2 यादृशं वाप्यते बीजं तादृशं लभ्यते फलं।
41.2 प्रजापतेर् हि चैकत्वे निर्विशेषो भवत्य् अतः॥
41.3 न चइन्द्रियाणां नानात्वं क्रियाभेदश् च दृश्यते।
41.3 ब्राह्मणे वान्यजातौ वा नैषां किञ्चिद् विशिष्यते॥
41.4 न ह्य् आत्मनः समुत्कर्षः श्रेष्ठ त्वम् इह युज्यते।
41.4 शुक्रशोणितसम्भूतं योनितो ह्य् उभयं समं॥
41.5 चातुर्वर्ण्यं प्रवक्ष्यामि पशुधर्मकथां तव।
41.5 भवेत् ते भगिनी भार्या नैतद् ब्राह्मण युज्यते॥
41.6 यदि तावद् अयं लोको ब्रह्मणा जनितः स्वयं।
41.6 ब्राह्मणी ब्राह्मणस्वसा क्षत्रिया क्षत्रियस्वसा॥
41.7 अथ वैश्यस्य वैश्या वै शूद्रा शूद्रस्य वा पुनः।
41.7 न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥
41.8 न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।
41.8 नीचैश् चउच्चैश् च दूश्यन्ते सत्त्वा नानाआश्रयाः थक्॥
41.9 तेषां च जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा।
41.9 अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तते॥
42.1 ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्य् अथर्वाणं।
42.1 इतिहासो निघण्टश् च कुतश् छन्दो निरर्थकं॥
42.2 अस्माकम् अप्य् अध्ययने मैत्री विद्या तथा शिखी।
42.2 संक्रामणी प्रकामणी स्तम्भनी कामरूपिणी॥
42.3 मनोजवा च गान्धारी घोरी विद्या वशङ्करी।
42.3 काकवाणी च मन्त्रं च; इन्द्रजालं च भञ्जनी॥

42.4 अस्माकम् आसीत् पुरुषा विद्यास्वाख्यातपण्डिताः।
42.4 मणिपुष्पाश् च; ऋषयो भास्वराश् च महर्षयः॥
42.5 संप्राप्ता देवता;ऋद्धिं किं चिकित्सासि विद्यया।
42.5 अशिक्षिताश् च चण्डाला ब्राह्मणा वेदपारगाः॥
42.6 कपिञ्जलाद्या जनितो मन्त्राणां पारभिंगतः।
42.6 न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यसे॥
43.1अ निषाद्यजनयत्काली पुत्रं द्वैपायानं मुनिं।
43.1ब् उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महातपं।
43.2 न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
43.2 क्षत्रिया रेणुका नाम जज्ञे रामं महामुनिं।
43.2 पण्डितं च विनीतं च सर्वशास्त्रविशारदं।
43.3 न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
43.3 ये च ते मनुजा; आसन् तेजसा तपसा युताः।
43.4 पण्डिताश् च विनीताश् च लोके च; ऋषिसम्मताः।
43.4 न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥
43.5 संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास् तथा।
43.5 वैश्या चएव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥

43.6 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रकम् इदंलोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूदर इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भर्यर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

44.1 इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्ब्राह्मणः पुस्करसारी त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्। किं गोत्रो भवान्। आह आत्रेयगोत्रोऽस्मि। हिंपूर्वः। आह। आत्रेयः। किंचरणःआह कालेयमैत्रायणीयः। कति प्रवराः। आह त्रयः प्रवराः। तद् यथा वात्स्याः कौत्स्या भरद्वाजाश् च। के भवन्तः सब्रह्मचारिणः। छन्दोगाः। कति छन्तोगानां भेदाः। षट्। ते कतमे। आह। तद् यथा। कौथुमाः। चअरायणीयाः। लाङ्गलाः। सौवर्चसाः। कापिञ्जलेयाः। आर्ष्टिषेणा इति।

44.2 किं भवतो मातृजं गोत्रं। आह। पाराशरीयं। पठतु भवान् सावित्रीं। कथं भवति। कत्यक्षरा सावित्री। कथिगण्डा। कतिपदा।

44.3 चतुर्विंशत्यक्षरा सावित्री। त्रिगण्डा। अष्टाक्षरपदा। उच्चारयतु भवान् सावित्रीं।अथ खलु भोः पुष्करसारिन् सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। तच् छ्रूयतां।

44.4 कथयतु भवान्।

44.5 भूतपूर्वं ब्राह्मणातीतेऽध्वनि वसुर् नाम ऋषिर् भूव। पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। तेन तत्र तक्षकदुहिता कपिला नाम आसादिता भार्याअर्थं। स तत्र संरक्तचित्तस् तया कन्यया सार्धं मैथुनम् अगच्छत्। स ऋषि (45) ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हमाणस् तस्यां वेलायां सावित्रीं भाषते स्म। तद् यथा।

45.1 ओं भूर् भुवः स्वः। तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात् ।
45.2 इति हि ब्राह्मण अज्ञानशोधनार्थम् इमम् एव मन्त्रं स ब्राह्मणो दिवारात्रं जपति स्म। इयं ब्राह्मणानां सावित्री। पूर्वजः प्रजापतिः
45.3 जटिलस्तापसो भूत्वा गहनं वनम् आश्रितः।
45.3 गम्भीराव् अभासे तत्र ह्य् आत्मारामस् तपोरतः।
45.4 देवस्य श्रेष्ठकं भीजनम् अपनाभ्यो पविष्ट इमंमन्त्रम् अजपत्। इयं क्षत्रियाणां सावित्री।
45.5 ओं चित्रं हि वैश्यकन्यका। अथ सा कन्या अर्थतः प्रवीणा।
46.1 इयं वैश्यानां सावित्री। ओम् अतपः सुतपः। जीवेम शरदां शतं। पश्येम शरदां शतं। इयं शूद्राणां सावित्री। ओं भूर् भुवः स्वः।
46.2 कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः।
46.2 तस्माद् भवन्तः प्रजहन्तु कामान् ततोऽतुलं प्राप्स्य् अथ ब्रह्मलोकं।
46.3 इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश् च सम्यक् संबुद्धैर् अभ्यनुमोदिता। ……

46.4 पठ भोस् त्रिशङ्को नक्षत्रवंशं। अथ किं ।
भोः कथयतु भवान् ।
श्रूयतां भोः पुष्करसारिन् नक्षत्रवंशं कथयिष्यामि। तद् यथा।
46.5 कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वस्ह्ः पुष्यः अश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी । इत्य् एतानि भोः पुष्करसारिन्न् अष्टाविंशतिनक्षत्राणी।
46.6 कतितारकाणि कतिसंस्थानानि कतिमुहूर्तयोगानि किम्आहाराणि किंदैवतानि किंगोत्राणि।
46.7 कृत्तिका भोः पुष्करसारिन् नक्षत्रं षट्तारं क्षुरसंस्थानं त्रिंशन्मुहूर्तयोगं (47) दध्याहारम् अग्निदैवतं वैश्यायनीयं गोत्रेण। रोहिणीनक्षत्रं पञ्चतारकं शकटाकृतिसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मृगमांसाहारं प्रजापतिदैवतं भारद्वाजं गोत्रेण। मृगशिरानक्षत्रं त्रितारं मृगशीर्षसंस्थानं त्रिंशन् मुहूर्तयोगं फलमूलाहारं सोमदैवतं मृगायणीयं गोत्रेण। आर्द्रनक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं सर्पिर्मण्डाहारं सूर्यदैवतं हारीतीतायनीयं गोत्रेण। पुनर्वसुनक्षत्रं द्वितारं पदसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मध्य्?आहारम् अदितिदैवतं वाशिष्ठं गोत्रेण। पुष्यनक्षत्रं त्रितारं वर्धमानसंस्थानं त्रिशन्मुहूर्तयोगं मधुमण्डाहारं बृहस्पतिदैवतम् औपमन्यवीयं गोत्रेण। अश्लेषानक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं पायसभोजनं सर्पदैवतं मैत्रायणीयं गोत्रेण।

47.1 इतिइमानि भोः पुष्करसारिन् सप्तनक्षत्राणि पूर्वद्वारकाणि। मघानक्षत्रं पञ्चतारं नदीकुब्जसंस्थानं त्रिशन्मुहूर्तयोगं तिलकृसराहारं पितृदैवतं पिङ्गलायनीयं गोत्रेण। पूर्वफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं त्रिशन् मुहूर्तयोगं विल्वभोजनं भवदेवतं गौतमीयं गोत्रेण। उत्तरफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं गोधूममत्स्याहारम् अर्यमादैवतं कौशिकं गोत्रेण। हस्तनक्षत्रं पञ्चतारं हस्तसंस्थानं त्रिंशन्मुहूर्तयोगं श्यामाकभोजनं सूर्यदैवतं काश्यपं गोत्रेण। चित्रानक्षत्रम् एकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मुद्गकृसरघृतपूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण।

48.1 स्वातीनक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण। विशाखानक्षत्रं द्वितारं विषाणसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं तिलपुष्पाहारम् इन्द्राग्निदैवतं शांखायनीयं गोत्रेण।
49.1.इत्य् एतानि भोः पुष्करसारिन् सप्तनक्षत्राणि दक्षिणाद्वारकाणि।

49.2 अनुराधानक्षत्रं चतुस्तारं रत्नाबलीसंस्थानं त्रिशन्मुहूर्तयोगं सुरामांसाहारं मित्रदैवतम् आलंबायनीयं गोत्रेण। ज्येष्ठानक्षत्रं त्रितारं यवमध्यसंस्थानं पञ्चदशमुहूर्तयोगं शालियवागुभोजनम् इन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण। मूलनक्षत्रं सप्ततारं वृश्चिकसंस्थानं त्रिशन्मुहूर्तयोगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण। पूर्वाषाढानक्षत्रं चतुस्तारं गोविक्रमसंस्थानं त्रिशन्मुहूर्तयोगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण। उत्तराषाढानक्षत्रं चतुस्तारं गजविक्रमसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मधुलाजाहारं विश्वदैवतं मौद्गलायनीयं गोत्रेण। अभिजिन्नक्षत्रं त्रितारं गोशीर्ससंस्थानं षण्मुहूर्तयोगं (50) वायुआहारं ब्रह्मदैवतं ब्रह्मावतीयं गोत्रेण। श्रवणानक्षत्रं त्रितारं यवमध्यसंस्थानं त्रिंशन्मुहूर्तयोगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण।

50.1 इत्य् एतानि भोः पुष्करसारिन् सप्तनक्षत्राणि पश्चिमद्वारकाणि।
50.2 धनिष्ठानक्षत्रं चतुस्तारं शकुनसंस्थानं त्रिंशन्मुहूर्तयोगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण। शतभिषानक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण। पूर्वभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं मांसरुधिराहारम् अहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण। उत्तरभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं (51)मांसाहारम् अर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण। रेवतीनक्षत्रम् एकतारं तिलकसंस्थानं त्रिशन्मुहूर्तयोगं दध्याहारं पूषदैवतम् अष्टभगिनीयं गोत्रेण। अश्विनीनक्षत्रं द्वितारं तुरगशीर्षसंस्थानं त्रिंशन्मुहूर्तयोगं मधुपायसभोजनं गन्धर्वदैवतं मैत्रायाणीयं गोत्रेण। भरणीनक्षत्रं त्रितारं भगसंस्थानं त्रिंशन्मुहूर्तयोगं तिलतण्डूलाहारं यमदैवतं भार्गवीयं गोत्रेण।
51.1 इत्य् एतानि भोः पुष्करसारिन् सप्तनक्षत्राणि उत्तरद्वारकाणि।
51.2 अमीषां भोः प्प्पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तयोगानि। तद् यथा। रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति।
51.3 पञ्चनक्षत्राणि पञ्चदशमुहूर्तयोगानि। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। एकोऽभिजित् षण्मुहूर्तयोगः। अवशिष्टानि त्रिंशन्मुहूर्तयोगानि।
52.1 अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्वद्वारिकाणां कृत्तिका प्रथमा नामाश्लेषा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणां दक्षिणद्वारिकाणां मघा प्रथमा नाम विशाखा पश्चिमा नाम। अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणाम् अनुराधा प्रथमा नाम श्रवणा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणाम् उत्तरद्वारिकाणां धनिष्ठा प्रथमा नाम भरणी पश्चिमा नाम।
53.2 अमीषां भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां सप्त बलानि। कतमानि सप्त। यद् उत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वस्ह्ः स्वातिश् च। त्रीणि दारुणानि। आर्द्रा अश्लेषा भरणी चेति। चत्वारि सम्माननीयानि। यद् उत त्रीणि उत्तराणि रोहिणी चेति। पञ्च मृदुकानि। श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। पञ्च धारणीयानि। हस्ता चित्रा अश्लेषा मघा अभिजिच् चेति। चत्वारि क्षिप्रकरणीयानि। यद् उत कृत्तिका मृगशिरा पुष्या अश्विनी चेति।

नक्षत्राणां योगः

52.3 अमीषां भोः पुष्करसारिन्न् अष्टविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति। ऋषभानुसारी योगः। वत्सानुसारी योगः। युगनद्धो योगः। तत्र नक्षत्रं यदि पुरस्ताद् गच्छति चन्द्रश् च ष्ठतः, अयम् उच्यते ऋषभानुसारी योग इति। यद् उत चन्द्रः पुरस्ताद् गच्छति नक्षत्रं च ष्ठतः, तदा भवति वत्सानुसारी योगः। यदि पुनश् चन्द्रो नक्षत्रं चउभौ समौ युगपद् गच्छतः, तदायम् उच्यते युगनद्धो योग इति।

53.1 अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि तच् छ्रूयतां। तद् यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस् ताराधिपतिश् चेति। रात्रिदिवसयोर् ह्रासवृद्धी
53.2 एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश् च भवति। तद् उच्यते।
53.3 हेमन्तानां द्वितीये मासि रोहिण्याम् अष्टम्यां द्वादशमुहूर्तो दिवसो भवति। अष्टादशमुहूर्ता रात्रिः। ग्रीष्माणां पश्चिमे मासे रोहिण्याम् अष्टम्याम् अष्टादशमुहूर्तो दिवसो भवति। द्वादशमुहूर्ता रात्रिः। वर्षाणां पश्चिमे मासे रोहिण्याम् अष्टम्यां चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः।
53.4 किं भोस् त्रिशङ्को रात्रिदिवसानां प्रस्थानं। दिवसानुदिवसं। किं पक्षस्य प्रस्थानं। (54)प्रतिपद्। किं संवत्सरस्य प्रस्थानं। पौषः। किम् ऋतूनां प्रस्थानं।

मुहूर्तनामानि

54.1 किं भोस् त्रिशङ्को क्षणस्य परिमाणं । किं लवस्य। किं मुहूर्तस्य।
54.2 तद् यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणः। विंशत्यधिकं तत्क्षणशतम् एकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमसम्बन्धेन त्रिंशन्मुहूर्तम् एकं रात्रिदिवसम् अनुमीयते। तेषां मुहूर्तानाम् इमानि नामानि भवन्ति।
54.3 आदित्य उदयति षण्णवतिपौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। द्वादशपौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति। षट्पौरुषायां छायायां शरपथो नाम मुहूर्तो भवति।
55.1 पञ्चपौरुषायां छायायाम् अतिसमृद्धो नाम मुहूर्तो भवत्। चतुःपौरुषायां छायायाम् उद्गतो नाम मुहूर्तो भवति। त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। परिवृत्ते मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति।
55.2 चतुःपौरुषायां छायायां बलो नाम मुहूर्तो भवति। पञ्चपौरुषायां छययं विजयो नाम मुहूर्तः। षट्पौरुषायां छायायां सर्वरसो नाम मुहूर्तः। द्वादशपरुषायां छायायां वसुर् नाम मुहूर्तः। षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। अवतरमाण आदित्ये षण्णवतिपौरुषायां छायायां परभयो नाम मुहूर्तो भवति।
55.3 इत्य् एतानि दिवसस्य मुहूर्तानि।
55.4 अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि।अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ततस् तारावचरो नाम मुहूर्तः। संयमो नाम मुहूर्तः (56) सांप्रैयको नाम मुहूर्तः। अनन्तो नाम मुहूर्तः। गर्दभा नाम मुहूर्तः। राक्षसो नाम मुहूर्तः। स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः। अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः। दितिर् नाम मुहूर्तः। आतपाग्निर् नाम मुहूर्त। अभिजिन् नाम मुहूर्तः। इत्य् एतानि रात्रेर् मुहूर्तनामानि। इति भोः पुष्करसारिन् इमानि त्रिशन् मुहूर्तानि यैर् अहोरात्रं प्रज्ञायते।
56.1 तत्क्षणः क्षणो लवो मुहूर्तः । तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। षष्टितमो भागो लवस्य क्षणः। विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। तद् यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणःः। विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमयोगेन त्रिंशन्मुहूर्तम् एकम् अहोरात्रं। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादशमासाः संवत्सरः। चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः सुमुखो वज्रको रोहितो बलो विजयः सर्वरसो वसुः सुन्दरः परभयः। रौद्रस् तारावचरः संयमः सांप्रैयकोऽन्नन्तो गर्दभो राक्षसोऽवयवो ब्रह्मा दितिर् अर्को विधमनो आग्नेय आतपाग्निर् अभिजित्।
57.1 इतिइमानि मुहूर्तानां नामानि।

कालउत्पत्तिः

57.2 कालोत्पत्तिम् अपि ते ब्राह्मण वक्ष्यामि शृणु ।
57.2 कालस्य किं प्रमाणम् इति तद् उच्यते।
57.3 द्वावक्षिनिमेषाव् एको लवः। अस्टौ लवा एका काष्ठा। षोडशकाष्ठा एका कला। कलानां त्रिंशदेको नाडिका। तत्र द्वे नाडिक एको मुहूर्तः।
57.4 नाडिकायाः पुनः किं प्रमाणं। तद् उच्यते।
57.5 द्रोणं सलिलस्यैकं। तद्धरणतो द्वे पलशते भवतः। नालिकाछिद्रस्य किं प्रमाणं। सुवर्णमात्रं। उपरि चतुर्अङ्गुला सुवर्णशलाका कर्तव्या। (58) वृत्तपरिमण्डला समान्ताच् चतुरस्रा आयता। यदा चएवं शीर्येत तत् तोयं घटस्य तदैका नाडिका। एतेन नालिकाप्रमाणेन विभक्ते द्वे नाडिक एको मुहूर्तः। एतेन भो ब्राह्मण त्रिंशन् मुहूर्ताः। यै रात्रिदिवसा अनुमीयन्त इति।
58.1 ततः षोडश निमेषा एका काष्ठा। षोडश काष्ठा एका कला। षष्टिकला एको मुहूर्तः। त्रिंशन्मुहूर्ता एकम् अहोरात्रम्। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादशमासाः संवत्सरः।
58.2 एतेन पुनरक्षिनिमेषेण षोडशकोटयोऽष्टपञ्चाशच् च शतसहस्राणि अष्टाशीतिसहस्राणि स एवं मापितः। तच् च ब्राह्मण कालोत्पत्तिर् व्याख्याता।

क्रोशयोजनउत्पत्तिः

58.3 सृणु ब्राह्मण क्रोशयोजनानाम् उत्पत्तिं। सप्त परमाणव एकोऽणुर् भवति। सप्ताणवः सर्वसूक्ष्मं दृस्यते। तद् एकं वातायनरजः। वातायनरजांसि सप्त, शशकरजः। सप्त शशकरजांस्य् एडकरजः। सप्त एडकरजांश्येकं गोरजः। सप्तगोरजांस्य् एका यूका। सप्तयूका एका लिक्षा। सप्तलिक्षा एको यवः। सप्त यवा एकाङ्गुलिः। द्वादशाङ्गुलयो वितस्तिः। द्वे वितस्ती एको हस्तः। चत्वारो हस्ता एकं धनुः। धनुःसहस्रम् एकः क्रोशः। चत्वारः क्रोशा एको मागधयोजनः। योजनस्य प्रमाणं पिण्डितां।
59.1 परमाणूनां कोटिशतसहस्राणि चतुर्विंशतिश् चैकोनत्रिंशत्कोटिसहस्राणि द्वादश च शतसहस्राणि। एवं मापितं योजनम् इति।
59.2 शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिं। तत्कथयतु भवान्।
59.3 द्वादश यवा माषकः। षोडश मासका एकः कर्षः।सुवर्णस्य परिमाणं पिण्डितम् इति। द्वे कोटी पञ्चविंशतिश् च सहस्राणि पञ्चशतान्य् अष्टौ च परमाणवः। एवं मापिता ब्राह्मण सुवर्णस्य परिमाणउत्पत्तिः।
59.4 शृणु ब्राह्मण पलप्रमाणं। चतुःषष्टिमाषकाः पलं मागधकं। मागधकया तुलया पलस्य परिमाणं पिण्डितं। परमाणूनाम् अष्टकोटयः सप्तचत्वारिंशच् च शतसहस्राणि सप्त च सहस्राणि द्वे शतेऽशीतिश् च परमाणवः। एवं मापितं ब्राह्मण पलस्य परिमाणम् इति।
59.5 शृणु ब्राह्मण रसपरिमाणस्यउत्पत्तिं। चतुर्विंशतिपलानि मागधकः। प्रस्थः। तत् रसपरिमाणं। मागधकया तुलया प्रस्थास्य परिमाणं पिण्डितं। द्वे कोटिशते तिस्रश् च कोटय एकोनतिंशच् च शतसहस्राणि चतुःसप्तति (60) सहस्राणि सप्त च शतानि विंशतिश् च परमाणवः। एवं मापिता ब्राह्मण रसमानस्यउत्पत्तिर् इति।
60.1 शृणु ब्राह्मण धान्यपरिमाणस्यउत्पत्तिं। एकोनत्रिंशतिपलान्य् एककर्षेणोनानि मागधः प्रस्थः। मापितं धान्यपरिमाणं। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितं। कोटिशतम् अष्टपञ्चाशच् च कोटयो द्विर् अशीतिश् च शत सहस्राणि एकषष्टिश् च सहस्राणि पञ्चशतानि त्रिंशच् च परमाणवः। एवं मापितं ब्राह्मण धान्यस्य परिमाणम् इति।

नक्षत्रव्याकरणं

60.2 पठ भोस् त्रिशङ्को नक्षत्रव्याकरनं नामअध्यायं। अथ खलु भो ब्राह्मण नक्षत्रव्याकरनं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान्।
61.1 कृत्तिकासु जातो मानवो यशस्वी भवति। रोहिण्यां जातः सुभगो भवति भोगवांश् च। मृगशिरसि जातो युद्धार्थी भवति। आर्द्रायां जात उत्सोऽन्नपानानां भवति। पुनर्वसौ जातः कृषिमान् भवति गोरक्षश् च। पुष्ये जातः शीलवान् भवति। अश्लेषायां जातः कामुको भवति। मघायां जातो मतिमान् भवति, महाआत्मा च। पूर्वफल्गुन्यां जातोऽल्पअयुष्को भवति। उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश् च। हस्ते जातश् चौरो भवति। चित्रायां जातो नृत्यगीतकुशलो भवति, आभरणविधिज्ञश् च। स्वात्यां जातो गणको भवति, गणकमहामात्रो वा। विशाखायां जातो राजभटो भवति। अनुराधायां जातो वाणिजको भवति सार्थिकः। ज्येष्ठायां जातोऽल्पअयुष्को भवति, अल्पभोगश् च। मूले जातः पुत्रवान् भवति, यशस्वी च। पूर्वाषाढायां जातो योगाचारो भवति। उत्तराषाढायां जातो भक्तेश्वरः कुलीनश् च भवति। अभिजिति जातः कीर्तिमान् पुरुषो भवति। श्रवणे जातो (62) राजपूजितो भवति। धनिष्ठायां जातो धनाढ्यो भवति। शतभिषायां जातो मूलिको भवति। पूर्वभाद्रपदायां जातश् चौरसेनापतिर् भवति। उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश् च। रेवत्यां जातो नाविको भवति। अश्विन्यां जातोऽश्ववाणिजको भवति। भरण्यां जातो वध्यघातको भवति। अयं भोः पुष्करसारिन् नक्षत्रव्याकरणो नाम।

नक्षत्रनिर्देशः

62.1 पठ भोस् त्रिशङ्को नक्षत्रनिर्देशं नामअध्यायं। अथ भोः पुष्करसारिन् नक्षत्रनिर्देशं नामअध्यायं व्याख्यास्यामि तच् छ्रूयतां । कथयतु भवान्।
62.2 कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।
62.2 प्रभूरत्नोज्वलं चएव तन् नगरं विनिर्दिशेत्॥
62.3 रोहिण्यां तु निविष्टं वै नगरं तद् विनिर्दिशेत्।
62.3 धार्मिकोऽत्र जनो भूयात् प्रभूतधनसञ्चयः।
62.3 विद्याप्रकृतिसम्पन्नः स्वदाराभिर् अतोऽपि च॥
62.4 मृगशीर्षे निविष्टं तु स्त्रीभिर् गोभिर् धनैस् तथा।
62.4 माल्यभोगैश् च सङ्कीर्णम् अद्भुतैश् च पुरस्कृतं॥
63.1 आर्द्रायां मत्स्यमांसानि भक्ष्यभोज्यधनानि च।
63.1 भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुरे॥
63.2 पुनर्वसौ निविष्टे तु नगरं दीप्यते श्रिया।
63.2 प्रभूतधनधान्यं च भूत्वा वाअपि विनश्यति॥
63.3 स्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।
63.3 युक्ताः श्रिया च धर्मिष्ठास् तथिव चिरजीविनः॥
63.4 तेजस्विनश् च दीर्घायुर्धनधान्यरसान्विताः।
63.4 वनस्पतिस् तथा क्षिप्रं पुष्येत् तत्र पुनः पुनः॥
63.5 अश्लेषायां निविष्टे तु दुर्भगाः कलहप्रियाः।
63.5 दुःशीला दुःखभाजश् च निवसन्ति नराधमाः॥
63.6 मघायां च निविष्टे तु विद्यावन्तो महाधनाः।
63.6 स्वदाराअभिरता मर्त्या जायन्ते सुपराक्रमाः॥
64.1 फल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभं।
64.1 गन्धोपेतानि धन्यानि निविष्टे नगरे भवेत्॥
64.2 उत्तरायां तु फाल्गुन्यां धान्यानि च धनानि च।
64.2 मूर्खा जना जिताः स्त्रीभिर् निविष्टे नगरे भवेत्॥
64.3 हस्ते च विनिविष्टे तु विद्यावन्तो महाधनाः।
64.3 परस्परं च रुचितं शयनं नगरे भवेत्॥
64.4 चित्रायां च निविष्टे तु स्त्रीजिताः सर्वमानवाः।
64.4 श्रीमत्कान्तं च नगरं ज्वलन्तं तद् विनिर्दिशेत्॥
64.5 स्वात्यां पुरे निविष्टे तु प्रभूतधनसञ्चयाः।
64.5 लुब्धाः क्रूराश् च मूर्खाश् च प्रभूता नगरे भवेत्॥
64.6 विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।
64.6 यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेद्॥
64.7 अनुराधानिविष्टे तु धर्मशीला जितेन्द्रियाः।
64.7 स्वदारनिरताः पुण्या जपहोमपरायणाः॥
65.1 ज्येष्ठायां सन्निविष्टं तु बहुरत्नधनान्वितैः।
65.1 सत्त्वैर् वेदविदैः पूर्णं शश्वत्समभिवर्धते॥
65.2 मूलेन सनिविष्टं तु पुरं धान्यधनान्वितं।
65.2 दुःशीलजनसङ्कीर्णं पांसुना च विनश्यति॥
65.3 पूर्वाषाढानिविष्टं तु पुरं स्याद् धनधान्यभाक्।
65.3 लुब्धाः क्रूराश् च मूर्खाश् च निवसन्ति नराधमाः॥
65.4 निविष्टे तूत्तरायां च धनधान्यसमुच्चयः।
65.4 विद्याप्रकृतिसम्पन्नो जनश् च कलहप्रियः॥
65.5 अभिजिति निविष्टे तु नगरे तत्र मोदिताः।
65.5 नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥
65.6 श्रवणायां निविष्टं तु पुरं धान्यधनान्वितं।
65.6 अरोगिजनभूयिष्ठसहितं तद् विनिर्दिशेत्॥
65.7 धनिष्ठायां निविष्टं तु स्त्रीजितं पुरम् आदिशेत्।
65.7 प्रभूतवस्त्रमाल्यं च कामभोगविविर्जितम्॥
65.8 पुरे शतभिषायुक्त मूर्खशाठ्यप्रिया जहाः।
65.8 स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥
66.1 पुरे प्रोष्ठपदाध्यक्षे नरास् तत्र सुखप्रियाः।
66.1 परोपतापिनो मूर्खा मानकामविवर्जिताः॥
66.2 उत्तरायां निविष्टे तु शश्वद्वृद्धिर् अनुत्तरा।
66.2 पूर्णं च धनधान्याभ्यां रत्नाढ्यं च विनिर्दिशेत्॥
66.3 पुरे निविष्टे रैवत्यां सुन्दरी जनता भवेत्।
66.3 खरोष्ट्रं चएव गावश् च प्रभूतधनधान्यता॥
66.4 अश्विन्यां विनिविष्टं तु नगरं शिवम् आदिशेत्।
66.4 अरोगिजनसम्पूर्णं दर्शनीयजनाकुलम्॥
66.5 भरण्यां सन्निविष्टे तु दुर्भगाः कलहप्रियाः।
66.5 दुःशीला दुःखभाजश् च वसन्ति पुरुषाधमाः॥
66.6 पुराणि राष्ट्रणि तथा गृहाणि नक्षत्रयोगं प्रसमीक्ष्य विद्वान्।
66.6 इष्टे प्रशस्ते च निवेशयेत् तु पूर्वे च जन्मेऽधिगतं मयेदं॥
67.1 अयं भोः पुष्करसारिन् नक्षत्रनिर्देशो नामअध्यायः। नक्षत्राणां स्थाननिर्देशः
67.2 अथ खलु भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां स्थाननिर्देशं नामअध्यायं प्रवक्ष्यामि। एतच् छ्रूयतां।
67.3 कथयतु भगवान्।

67.4 कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्गमगधानां । रोहिणी सर्वप्रजायाः। मृगशिरा विदेहानां राजोपसेवकानां च। एवम् आर्द्रा क्षत्रियाणां ब्राह्मणानं च। पुनर्वसुः सौपर्णानां। पुष्यनक्षत्रं सर्वेषाम् अवदातवदातवसनानां। राजपदसेवकानां च। अश्लेषा नागानां हैमवतानां च। मघानक्षत्रं गौडिकानां। पूर्वफल्गुनी चौराणां। उत्तरफल्गुनी अवन्तीनां। हस्ता सौराष्ट्रिकाणां। चित्रा पक्षिणां द्विपदानां। स्वाती सर्वेषां प्रव्रज्यासमापन्नानां। विशाखा औदकानां। अनुराधा वाणिजकानां शाकटिकानां च। ज्येष्ठा दौवालिकानां। (68) मूला पथिकानां। पूर्वाषाढा वाह्लीकानां च। उत्तराषाढा काम्बोजानां। अभिजित् सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च। श्रवणा घादकानां चौराणां च। धनिष्ठा कुरुपाञ्चालानां। शतभिषा मौलिकानाम् आर्थवणिकानां च। पूर्वभाद्रपदा गन्धिकानां यवनकाम्बोजानां च। उत्तरभाद्रपदा गन्धर्वाणां। रेवती नाविकानां च। अश्विनी अश्ववाणिजानां च। भरणी भद्रपदकर्मणां भद्रकायाकानां च।

68.1 अयं भोः पुष्करसारिन् नक्षत्राणां स्थाननिर्देशव्याकरणो नामअध्यायः।

ऋतुवर्षः

68.2 त्रिशङ्को ऋतुवर्षं नामअध्यायं।

तद् अहं वक्ष्ये श्रूयतां।

कथयतु भगवान्।

68.3 कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। वर्षो दशरात्रिकः। श्रवणायुक्तप्रोष्ठपदायाम् अग्नोदको वर्षारात्रो भवति। पश्चाद् वर्षं संजनयति। हेमन्ते ग्रीष्मे ग्रीणि चअत्र भयप्रग्रहाणि भवन्ति। अग्निभयं शस्त्रभयं चउदकभयं च भवति। उक्तं कृत्तिकासु।
69.1 रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकविंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। द्वौ चअत्र रोगौ प्रबलौ भवतः। कुक्षिरोगश् चक्षूरोगश् च। चौरबहुलाश् चअत्र दिशो भवन्ति। उक्तं च रोहिण्यां।
69.2 मृगशिरसि ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। सारोपरोधो वर्षारात्रः। पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् चअत्र (70) राजानो भवन्ति। क्षेमिणः सुनीतिकाश् च दिशो भवन्ति। मुदिताश् चअत्र जनपदा भवन्ति। उक्तं मृगशिरसि।
70.1 आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टादशाढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। निधयश् च रक्षयितव्याः। चौरबहुलाश् चअत्र दिशो भवन्ति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। त्रयश् चअत्र रोगाः प्रबला भवन्ति। ज्वरः श्वासो गलग्रहश् च। बालानां दारकदारिकाणां च मरणं भवति। इत्य् उक्तम् आर्द्रायां।
70.2 पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति। नवत्याढकानि प्रवर्षति। महामेघान् उत्पादयति। आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। अनन्तरं च निरन्तरेण प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। उक्तं पुनर्वसौ।
71.1 पुष्ये ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति द्वात्रिंशदाढकानि प्रवर्षति। अत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। व्यक्तं प्रधानवर्षाणि भवन्ति। सस्यं च निष्पादयति। ब्राह्मणक्षत्रियाणां च विरोधो भवति। दंष्ट्रिणश् चअत्र प्रबला भवन्ति। तत्र त्रयो रोगाश् च भवन्ति। गण्डाः पिटकाः पामानि च । इत्य् उक्तं पुष्ये।
71.2 अश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकविंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। विषमाश् च वायवो वान्ति। संविग्नाश् चअत्र ज्ञानिनो राजानश् च भवन्ति। एषो वर्षः सर्वसस्यानि सम्पादयति। जायापतिकानां राजामात्यानां च विरोधो भवति। उक्तम् अश्लेषायां।
71.3 मघायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि (72) प्रवर्षति। एषो वर्षः सर्वसस्यानि सम्पादयति। मृगपक्षिपशुमनुष्याणां चअत्र गर्भा विनश्यन्ति। जनमरणं चअत्र भविष्यतिइति। उक्तं मघायां।
72.1 पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। एषो वर्षः सर्वसस्यानि सम्पादयति। तच् च सस्यं जनयित्वा परचक्रपीडिता मनुष्या न सुखेनोपभुञ्जते। पशूनां मणुष्याणां चअत्र गर्भाः सुखिनो भवन्ति। उक्तं पूर्वफल्गुन्यां।
72.2 उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि प्रवर्षति। एषो वर्षः सर्वसस्यानि च सम्पादयति। निक्षिप्तशस्त्राश् चअत्र राजानो भवन्ति। ब्रह्मक्षत्रिययोश् च विरोधो भवति। क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। चउक्तम् उत्तरफल्गुन्यां।
72.3 हस्ते ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकोनपञ्चाशदाढकानि प्रवर्षति। देवश् च तद् यथा परिक्षिपति। पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्पसाराण्य् अल्पोदकानि। दुर्भिक्षश् चअत्र भविष्यति। उक्तं हस्ते।
73.1 चित्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। सारोपरोधस् ततः पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। मुदिताश् चअत्र जनपदा भवन्ति। उक्तं चित्रायां।
73.2 स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकविंशत्याढकानि प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। चौराश् चअत्र बलवत्तरा भवन्ति। उक्तं स्वात्यां।
73.3 विशाखायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि (74) प्रवर्षति। एषा वर्षः सर्वसस्यानि सम्पादयति। राजानश् चअत्र छिद्रयुक्ता भवन्ति। अग्निदाहाश् चअत्र प्रबला भवन्ति। दंष्ट्रिणश् चअत्र बलवन्तोऽपि क्षयं गच्छन्ति। उक्तं विशाखायां।
74.1 अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। मित्राणि चअत्र दृढानि भवन्ति। उक्तम् अनुराधायां।
74.2 ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति। तत्र कृषिकर्मान् तानि प्रतिसंहर्तव्यानि। युगवरत्राणि वर्जयितव्यानि। स्वधान्यानि उपसंहर्तव्यानि। अग्नयः प्रतिसंहर्तव्याः। लाङ्गलानि प्रतिसंहर्तव्यानि। अवश्यम् अनेन जनपदेन विनष्टव्यं भवति। परचक्रपीडितो भवति। उक्तं ज्येष्ठायां।
74.3 मूले ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुषष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। चौरबहुलाश् चअत्र दिशो भवन्ति। त्रयश् चअत्र व्याधयो बलवन्तो भवन्ति। वातगण्डः पार्श्वशूलम् अक्षिरोगश् च। पुष्पफलानि चअत्र समृद्धानि भवन्ति। निक्षिप्तशस्त्राश् चअत्र राजानो भवन्ति। उक्तं मूले।

75.1 पूर्वस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। द्वौ चअत्र ग्राहौ भवतः । प्रोष्ठपदे वाऽश्वयुजौ वा पक्षे। एषो वर्षः सर्वसस्यानि सम्पादयति। द्वौ चअत्र रोगौ प्रबलौ भवतः। कुक्षिरोगोऽक्षिरोगश् च । उक्तं पूर्वाषाढायां।
75.2 उत्तरस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। महास्रोतांसि चअत्र प्रवहन्ति। अग्रोदका चअत्र वर्षा भवति। सर्वसस्यानि निष्पादयति। त्रयश् चअत्र रोगाः प्रबला भवन्ति। गण्डः कच्छः कण्ठरोग इति। उक्तम् उत्तराषाढायाम्॥
75.3 अभिजिति ग्रीष्माणां पश्चिमे मासे यद्य् अत्र प्रवर्षति चतुःषष्ट्य्आढाकानि प्रवर्षति। मण्डलवर्षं च देवः प्रवर्षति। पश्चाद् वर्षः सस्यं जनयति। औदकानां भूतानाम् उत्सर्गो भवति। उक्तम् अभिजिति।

76.1 श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुष्षष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो वर्षति। पश्चाद् वर्षा सस्यं सम्पादयति। औदकानां भूतानाम् उत्सर्गो भवति। व्याधिबहुलाश् च नरा भवन्ति। राजानश् च तीव्रदण्डा भवन्ति। उक्तं श्रवणे।
76.2 धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकपञ्चाशदाढकानि प्रवर्षति। विभक्ताश् चअत्र वर्षा भवन्ति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। दुर्मुखो रात्रौ वर्षो भवति। सस्यानि सम्पादयति। एकश् चअत्र रोगो भवति। गण्डविकारः। शस्त्रसमादानाश् च राजानो भवन्ति। उक्तं धनिष्ठायां।
76.3 शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषो वर्षः सर्वसस्यानि सम्पादयति। चक्रसमारूढा जनपदा भवन्ति। मनुष्या दारकदारिकाश् च स्कन्धे कृत्वा देशअन्तरं गच्छन्ति। उक्तं शतभिषायं।
77.1 पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। वर्षामुखे चअत्र एकोनविंशति रात्रिकोऽवग्रहो भवति। पुष्पसस्यं च नाशयति। एताश् च वर्षा बहुचौरा भवन्ति। द्वौ चअत्र महाव्याधी भवतः। प्रथमं पित्ततापज्वरो भवति। पश्चाद् बलवान् महाग्रहो भवति। मर्त्यानां नारीणां च मरणं भवति। उक्तं पूर्वभाद्रपदायां।
77.2 उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। महास्रोतांसि प्रवहन्ति। ग्रामनगरनिगमाः स्रोतसा उह्यन्ते। चत्वारश् चअत्र व्याधयः प्रबला भवन्ति। तद् यथा कुक्षिरोगोऽक्षिरोगः (78) काशो ज्वरश् चेति। बालानां दारकदारिकाणां मरणां भवति। अत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। एताश् च वर्षाः पुष्पाणि फलानि च सम्पादयन्ति। उक्तम् उत्तरभाद्रपदायां।
78.1 रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकषष्ट्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा परिभुञ्जते। निक्षिप्तशस्त्रदण्डाश् च राजानो भवन्ति। अनुद्विग्नाश् च जनपदा भवन्ति। उद्विग्नाश् च दानपतयो भवन्ति। देवनक्षत्रसमायुक्ताश् च जनपदा भवन्ति। मित्राणि समायुक्तानि भवन्ति। उक्तं रेवत्यां।
78.2 अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टचत्वारिंशदाढकानि प्रवर्षति। यच् च मध्ये वर्षा भवति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा वर्षा सर्वसस्यानि सम्पादयति। (79) भयसमायुक्ताश् चअत्र जनपदा भवन्ति। चौराश् च प्रबला भवन्ति। उक्तम् अश्विन्यां।
79.1 भरण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। दुर्भिक्षस् चअत्र भवति। जरामरणं जनानां भवति। राजानश् चअत्र अन्योन्यघातका भवन्ति। पुत्रपौत्राणां च कलहो भवति। उक्तं भरण्यां।

79.2 अयं भोः पुष्करसारिन् नक्षत्रर्तुवर्षाध्यायः॥

राहुग्रहे फलविपाकः

79.3 अमीषां भोः पुष्करसारिन्न् अश्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।

79.4 कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्रग्रहो भवति कलिङ्गमगधानाम् उपपीडा भवति। यदि रोहिण्यां चन्द्रग्रहो भवति प्रजानाम् उपपीडा भवति। यदि मृगशिरसि चन्द्रग्रहो भवति विदेहानां जनपदानाम् उपपीडा भवति। राजोपसेवकनां च। एवम् आर्द्रायां पुनर्वसौ पुष्ये च वक्तव्यं। अश्लेषायां यदि चन्द्रग्रहो भवति नागानां हैमवतानां च पीडा भवति। यदि मघासु चन्द्रग्रहो भवति गौडिकानाम् उपपीडा भवति। यदि पूर्वफल्गुन्यां सोमो गृह्यते चौराणाम् उपपीडा भवति।

80 यद्य् उत्तरफल्गुन्यां सोमो गृह्यतेऽवन्तीनाम् उपपीडा भवति। यदि हस्तेषु सोमो गृह्यते सौराष्ट्रिकाणाम् उपपीडा भवति। यदि चित्रायां सोमो गृह्यते पक्षिणां द्विपदानां च पीडा भवति। यदि स्वात्यां सोमो गृह्यते सर्वेषां प्रव्रज्यासमापन्नानाम् उपपीडा भवति। यद्य् अनुराधासु सोमो गृह्यते वणिजानाम् उपपीडा भवति शाकटिकानां च। यदि ज्येष्ठायां सोमो गृह्यते दौवालिकानां पीडा भवति। यदि मूले सोमो गृह्यतेऽध्वगानां पीडा भवति। यदि पूर्वाषाढायां सोमो गृह्यतेऽवन्तीनां पीडा भवति। यद्य् उत्तराषाढायां सोमो गृह्यते काम्बोजकानां पीडा भवति। बाह्लीकानां च। यद्य् अभिजिति सोमो गृह्यते दक्षिणापथिकानां पीडा भवति। ताम्रपर्णिकानां च। यदि श्रवणेषु सोमो गृह्यते चौराणां घातकानां चउपपीडा भवति। यदि धनिष्ठायां सोमो गृह्यते कुरुपाञ्चालनां पीडा भवति। यदि शतभिषायां सोमो गृह्यते मौलिकानाम् आथर्वणिकानां च पीडा भवति। यदि पूर्वभाद्रपदायां सोमो गृह्यते गान्धिकानां यवनकाम्बोजकानां च पीडा भवति। यद्य् उत्तरभाद्रपदायां सोमो गृह्यते गन्धर्वाणां पीडा भवति। यदि रेवत्यां सोमो गृह्यते नाविकानां पीडा भवति। यद्य् अश्च्विणिजानां पीडा भवति। यदि भरण्यां सोमो गृह्यते भरुकच्छानां पीडा भवति।

81.1 एवं भोः पुष्करसारिन् नक्षत्रे चन्द्रग्रहो भवति तस्य तस्य देशस्य पीडा भवति। इत्य् उक्तो राहुग्रहफलविपाकाध्यायः।

नक्षत्रकर्मनिर्देशः

81.2 प्रतिनक्षत्रवंशशास्त्रे यथोक्तं कर्म तच् छृणु।
81.3 उच्यमानम् इदं विप्र;ऋषीणां वचनं यथा।
81.3 षट्तारां कृत्तिकां विद्याद् आश्रयं तासु कारयेत्।
81.3 अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश् च यः॥
81.4 सर्पिर्विलोडयेत् तत्र गवां वेश्म च कारयेत्।
81.4 अजैडकाश् च क्रेतव्या गवां च वृषम् उत्सृजेत्॥
81.5 अश्मसारमयं भाण्डं सर्वम् अत्र तु कारयेत्।
81.5 हिरण्यकारकर्मअन्तमिष्व् अस्त्रं चउपकारयेत्॥
81.6 मेतृको मापयेद् अत्र कुटिकाग्निनिवेशनं।
81.6 पीतलोहितपुष्पाणां बीजान्य् अत्र तु घापयेत्॥
82.1 गृहं च मापयेत् अत्र तथाऽवासं प्रकल्पयेत्।
82.1 नवं च छादयेद् वस्त्रं क्रयणं नअत्र कारयेत्॥
82.2 क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्।
82.2 परपीडाम् अथात्रैव विद्वान् नैव प्रयोजयेत्॥
82.3 शस्त्राणि क्षुरकर्माणि सर्वाण्य् अत्र तु कारयेत्।
82.3 तेजसानि च भाण्डानि कारयेच् च क्रीणीत च॥
82.4 आयुष्यं च शिरःस्नानां स्त्रीणां विष्कम्भणानि च।
82.4 प्रवर्षणं चेद् देवस्य नअत्र वैरं प्रशाम्यति॥
82.5 क्रोधनो हर्षणः शूरस् तेजस्वी साहसप्रियः।
82.5 आयुष्मांश् च यशस्वी च यज्ञशीलोऽत्र जायते॥कृत्तिकासु
82.6 सर्वं कृषिपदं कर्म रोहिण्यां संप्रयोजयेत्।
82.6 क्षेत्रवस्तुविहारांश् च नवं वेश्म च कारयेत्॥
82.7 प्रयोजयेच् चक्रान् वारान् दासांश् चएव गृहे पशून्।
82.7 वापयेत् सर्वबीजानि ध्रुवं वासांसि कारयेत्॥
83.1 ऋणं न दद्यात् तत्रएव वैरम् अत्र तु वर्धते।
83.1 संग्रामं च सुरायोगं द्वयम् एव विवर्जयेत्॥
83.2 प्रवर्षणं च देवस्य जन्म चअत्र प्रशस्यते।
83.2 सानुक्रोशः क्षमायुक्तः स्त्रीकामो भक्षलोलुपः।
83.2 आयुष्मान् पशुमान् धन्यो महाभोगोऽत्र जायते॥रोहिण्यां॥
83.3 सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश् च तारकाः।
83.3 मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्।
83.3 यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्॥
83.3 सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च।
83.3 राजप्रासादवलभीछत्राण्य् अपि च कारयेत्॥
83.4 सर्वकर्मकथाः कुर्याच् चर्यावासान् न कारयेत्।
83.4 उष्ट्रांश् च बलीवर्दांश् च दमयेद् अपि कृष्टये॥
83.5 आच्छादयेन् नवं वासश् चअलङ्कारं च कारयेत्।
83.5 द्विजातीनां तु कर्माणि सर्वाण्य् एवात्र कारयेत्॥
83.6 प्रवर्षणं च देवस्य सुवृष्टिं चअत्र निर्दिशेत्।
83.6 स्वप्नशीलस् तथा त्रासी मेधावी स च जायते॥मृगशिरसि॥
84.1 आर्द्रायां मृगयेद् अर्थान् भद्रं कर्म च कारयेत्।
84.1 क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्॥
84.2 उदपानपरीखांश् च तडागान्य् अत्र कारयेत्।
84.2 ऊहेत(ऊहयेत्) प्रथमां वृष्टिं विक्रीणीयाच् च नअत्र गां।
84.2 तिलपीडानि कर्माणि शौण्डिकानां तथापणं॥
84.3 पीडयेद् इक्षुदण्डानि; इक्षुबीजानि वापयेत्।
84.3 प्रवर्षणं च देवस्य विद्याद् बहुपरिस्रवं।
84.3 क्रोधनो मृगयाशीलो माम्सकामोऽत्र जायते॥आर्द्रायां॥
84.4 पुनर्वसौ तु युक्तेऽत्र कुर्याद् वै व्रतधारणं।
84.4 गोदानं चउपनायनं सर्वम् अत्र प्रसिध्यति॥
84.5 प्रजायमानां प्रमदां गृहीत्वा गृहम् आनयेत्।
84.5 पुनः पुनर् यदीच्छेत तत्र कर्माणि कारयेत्॥
85.1 चिकित्सनं न कुर्वीत यदीच्छेन् न पराभवं।
85.1 प्रवर्षणं च देवस्य जन्म चअत्र प्रशस्यते॥
85.2 अलीलश् चअत्र जायेत स्त्रीलोलश् चअपि मानवः।
85.2 चित्रशीलश् च नैकत्रार्पितचित्तः स; उच्यते॥पुनर्वसौ॥
85.3 धन्यं यशस्यम् आयुष्यं पुष्ये नित्यं प्रयोजयेत्।
85.3 सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
85.4 राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्।
85.4 राजानम् अभिपिञ्चेद् च; अलंकुर्यात् स्वकां तनु॥
85.5 श्मश्रुकर्माणि कुर्याच् च वपनं नखलोमतः।
85.5 पुरोहितं च कुर्वीत ध्वजअग्रं च प्रकारयेत्॥
85.6 प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्।
85.6 न च रोगो न चौरश् च क्षेमं चअत्र सदा भवेत्॥
85.7 पुष्येण नित्ययुक्तः सन् सर्वकर्माणि साधयेत्।
85.7 वैरेणात्रोपनाहैश् च ये जनास् तान् विवर्जयेत्।
85.7 आयुष्मांश् च यशस्वी च महाभोगः प्रजायते॥पुष्ये॥
86.1 सिध्यते दारुणं कर्म; अश्लेषायां च कारयेत्।
86.1 कुर्याद् आभरणान्य् अत्र प्राकारम् उपकल्पयेत्॥
86.2 देहबन्धं नदीबन्धं सन्धिकर्म च कारयेत्।
86.2 प्रभूतदंशमशकं वर्षं मन्दं च वर्षति।
86.2 क्रोधनः स्वप्नशीलश् च कुहकश् चअत्र जायते॥अश्लेषायां॥
86.3 मघासु सर्वधान्यानि वापयेत् संहरेद् अपि।
86.3 संघातकर्म कुर्वीत सुमुखं चअत्र कारयेत्॥
86.4 कोष्ठआगाराणि कुर्वीत फलं चअत्र निवेशयत्।
86.4 सर्वदा पितृदेवेभ्यः श्राद्धं चैवअत्र कारयेत्॥
86.5 सस्यानां बहुलीभावो यदि देवोऽत्र वर्षति।
86.5 सुहृच् च द्वारिकश् चएव रसकामश् च जायते।
86.5 आयुष्मान् बहुपुत्रश् च स्त्रीकामो भक्तलोलुपः॥
86.6 संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते।
86.6 दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्॥मघासु॥
87.1 फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्।
87.1 विशेषाद् आमलक्यादि फलानाम् उपकारयेत्॥
87.2 कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्।
87.2 कन्याप्रवहनार्थाय विहारं चएव कारयेत्॥
87.3 वेश्मानि कारयेत् तत्र वश्य(वैश्य)म् अत्र प्रयोजयेत्।
87.3 भागं ये चउपजीवन्ति तेषां कर्म प्रयोजयेत्॥
87.4 अव्यक्तकेशोऽकेशः सुभगश् चअत्र जायते।
87.4 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
87.4 नष्टं विद्धं कृतं चअपि न तद् अस्तिइति निर्दिशेत्॥पूर्वफल्गुन्यां॥
87.5 उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्।
87.5 मेधावी दर्शनीयश् च यशस्वी चअत्र जायते॥
87.6 अथात्र नष्टं दग्धं वा सर्वम् अस्तिइति निर्दिशेत्।
87.6 प्रवर्षणं च देवस्य विद्यात् संपदनुत्तमां॥उत्तरफल्गुन्यां॥
88.1 हस्तेन लघुकर्माणि सर्वाण्य् एव प्रयोजयेत्।
88.1 सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
88.2 हस्त्यारोहं महामात्रं पुष्करिणीं च कारयेत्।
88.2 चौर्यं च सिध्यते तत्र तच् च विद्वान् विवर्जयेत्॥
88.3 प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्।
88.3 अथात्र जातं जानीयाच् छूरं चौरं विचक्षणं।
88.3 कुशलं सर्वविद्यासु; आरोगं चिरजीविनं॥हस्ते॥
88.4 चित्रायाम् आहतं वस्त्रं भूषणानि च कारयेत्।
88.4 राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्॥
88.5 हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्।
88.5 अलङ्कुर्यात् तथात्मानं गन्धमाल्यविलेपनैः॥
88.6 गणकानां च विद्यां च वाद्यं नर्तनगायनं।
88.6 पूर्विकां रूपकारांश् च रथकारांश् च शिक्षयेत्।
88.6 चित्रकरांश् च लेखकान् पुस्तकर्म च कारयेत्॥
89.1 प्रवर्षणं च देवस्य चित्रवर्षं विनिर्दिशेत्।
89.1 मेधावी दर्शनीयश् च चित्राक्षो भक्तलोलुपः॥
89.2 मृदुशीलश् च भीरुश् च चलचित्तः कुतूहली।
89.2 आयुष्मान् सुभगश् चएव स्त्रीलोलश् चअत्र जायते॥चित्रायां॥
89.3 स्वात्यां प्रयोजयेद् योधान् अश्वान् अश्वतरीं खरान्।
89.3 क्षिप्रं गमनीयं भक्ष्यं लङ्घकान् अध्वमानिकान्॥
89.4 भेरीमृदङ्गपणवान् मुरजान् चउपनाहयेत्।
89.4 आवाहंश् च विवाहंश् च सौहृद्यं चअत्र कारयेत्॥
89.5 निर्वासनम् अमित्राणां स्वयं न प्रवसेद् गृहात्।
89.5 प्रवर्षणं च देवस्य वातवृष्टिर् अभीक्ष्णशः।
89.5 मेधावी रोगबहुलश् चलचित्तश् च जायते॥स्वातौ॥
89.6 लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्।
89.6 यवगोधूमकर्मअन्तान् शमीधान्यं च वर्जयेत्॥
89.7 शालयस् तिलमाषाश् च ये च वृक्षाः सुशाखिनः।

90.1 रोपयेत् तान् विशाखासु गृहकर्म च कारयेत्।
90.1 शिरःस्नानानि कुर्वीत मेध्यं प्रायश् च कारयेत्॥
90.2 प्रवर्षणं च देवस्य विद्यात् कल्पपरिस्रवं।
90.2 मनस्वी दर्शनीयश् च मेधावी चअत्र जायते।
90.2 क्रोधनोऽल्पसुतश् चएव दुर्भगो भक्तलोलुपः॥विशाखासु॥
90.3 अनुराधासु कुर्वीत मित्रैः सद्भिश् च सङ्गतिं।
90.3 सर्वाणि मृदुकर्माणि माधुर्यं चअत्र कारयेत्॥
90.4 क्षौरं च कारयेत् अत्र शस्त्रकर्माणि कारयेत्।
90.4 संयुक्तान्तप्रयोगांश् च सन्धिं कुर्याच् च नित्यशः।
90.4 नष्टं पर्युपतप्तं वा स्वल्पायसेन(यासंवि)निर्दिशेत्॥
90.5 सुहृन्मित्रकृतश् चअत्र धर्मशीलश् च जायते।
90.5 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥अनुराधायां॥
90.6 ज्येष्ठायां पूर्वकारी स्याद् राजानं चअभिषिञ्चयेत्।
90.6 नगरं निगमं ग्रामं मापयेद् आरभेत च।
90.6 क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्॥
91.1 भ्रातृणां भवति ज्येष्ठो ज्येष्टायां योऽभिजायते।
91.1 आयुष्मांश् च यशस्वी च विद्वत्सु च कुतूहली॥
91.2 प्रासादम् आरोहेच् चअत्र गजम् अश्वं रथं तथा।
91.2 ग्रामनिगमराष्ट्रेषु स्थापयेच् छ्रेष्ठिनां बलं॥
91.3 नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्।
91.3 दारुणान्य् अत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्।
91.3 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥ज्येष्ठायां॥
91.4 मूले तु मूलजातानि मूलकन्दालुकान्य् अपि।
91.4 सूलाद्यानि च सर्वाणि बीजान्य् अत्र प्रयोजयेत्॥

91.5 ऋणं वै यत् पुराणं स्याद् अर्थो चअस्याग्रतः स्थितः।
91.5 मूले सिद्धर्थम् आरभ्यं तथा सर्वं वराङ्गकं॥
91.6 चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।
91.6 नदीषु स्नपनं चएव मूले सर्वान् प्रयोजयेत्॥
92.1 दारुणान्य् अत्र सिध्यन्ति मङ्गलानि च कारयेत्।
92.1 किण्वयोगान् सुरायोगान् न कुर्याच् छत्रुभिः सह॥
92.2 धनवान् बहुपुत्रश् च मूलवान् अत्र जायते।
92.2 अथात्र नष्टं दग्धं वा नैतद् अस्तिइति निर्दिशेत्।
92.2 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥मूले॥
92.3 आषाढायां च पूर्वस्यां सरितश् च सरांसि च।
92.3 वापीकूपप्रपाश् चएव तडागानि च कारयेत्॥
92.4 उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च।
92.4 आरामांश् च प्रकुर्वीत भैक्षकांश् च प्रयोजयेत्।
92.4 यानि चउग्राणि कर्माणि सिध्यन्त्य् अत्र तु तानि च॥
92.5 नष्टं पर्युपतप्तं वा नैतद् अस्तिइति निर्दिशेत्।
92.5 आयुष्मान् पुण्यशीलश् च दर्शनीयोऽत्र जायते॥पूर्वाषाढे॥
92.6 उत्तरस्याम् आषाढायां वैराणि न समाचरेत्।
92.6 वाययेत् सर्ववासांसि नवं नाच्छादयेद् इति॥
93.1 न संहरेद् भेदयेद् वा वास्तुकर्म न सिध्यति।
93.1 शालाकर्म गवआदीनां ग्रामे ग्रामणिनस् तथा।
93.1च् श्रेणविन्धं च राजा नु समयं चअत्र कारयेत्॥
93.2 प्रगल्भश् च सभाशीलः कृती चअत्र प्रजायते।
93.2 सुहृदाम् अभियोगी च मन्त्रभाष्ये विचक्षणः॥
93.3 नष्टं वाअप्य् उपतप्तं वा; अस्तीत्य् एवं विनिर्दिशेत्।
93.3 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तराषाढायां॥
93.4 अभिजिति न कुर्वीत ब्रह्मदेवस्य ह्य् अर्चनं॥अभिजिति॥
93.5 श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।
93.5 गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥
93.6 कर्णयोर् वेधनं कुर्याद् राजानं चअभिषिञ्चयेत्।
93.6 द्विजातीनां तु कर्माणि सर्वाण्य् एव प्रयोजयेत्॥
94.7 बलिकृत्यानि कुर्वीत दर्शयेच् च बलान्य् अपि।
94.7 मेधावी अरोगी बलवान् यज्ञशीलोऽत्र जायते॥
94.8 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
94.8 नष्टं च लभ्यते तत्र श्रवनस्थे निशाकरे॥श्रवणे॥
94.9 धनिष्ठा लघु नक्षत्रं सर्वकर्मसु पूजितं।
94.9 अधीत्य ब्राह्मणः स्नायाद् राजानम् अभिषिञ्चयेत्॥
94.10 सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्।
94.10 श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेश्व् अपि॥
94.11 मेधावी च यशस्वी च महाभोगी महाधनः॥
94.11 बह्व्अपत्यो मृदुर् दान्तो महाआत्मा चअत्र जायते।
94.11च् प्रवर्षणं च देवस्य विद्याच् चअत्र सुवृष्टितां॥धनिष्ठायां॥
94.12 नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत्।
94.12 कीर्तिकर्म च कुर्वीत सिध्यन्त्य् आथर्वणानि च॥
94.13 प्रसारयेच् च पण्यानि शौण्डिकं च प्रयोजयेत्।
94.13 अदधिं खानायेत् तत्र तिलमाषांश् च वापयेत्॥
95.1 (95)सामुद्रिकाणि पण्याणि नाविनश् च प्रयोजयेत्।
95.1 आदेयं च तदाऽदद्याद् व्ययं चअत्र न कारयेत्॥
95.2 सन्धिपालान् द्वारपालांल् लेखकांश् च प्रयोजयेत्।
95.2 भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्॥
95.3 निधिं वा खानयेत् तत्र निदध्याद् अपि वा निधिं।
95.3 धनं चअत्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्॥
95.4 अथात्र मृगयेन् नष्टं लभ्यते तच् चिराद् अपि।
95.4 अरोगी क्रोधनश् चअत्र स्वप्नशीलश् च जायते।
95.4 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥शतभिषायां॥
95.5 पूर्वभाद्रपदायोगे क्रूराणां सिद्धिर् उच्यते।
95.5 नष्टविद्धोपतप्तं वा नैतद् अस्तिइति निर्दिशेत्॥
95.6 दीर्घश्रोत्रो महाभोगो ज्ञातीनां च सदाप्रियः।
95.6 महाधनोऽक्रूरकर्मा निःक्रोहश् चअत्र जायते।
95.6 प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्॥पूर्वभाद्रपदे॥
96.1 उत्तरस्यां तु कुर्वीत; आयुष्यं पुष्टिकर्म च।
96.1 न च दक्षिनतो गच्छेत् पुरं चअत्र प्रदापयेत्॥
96.2 आयुष्मांश् च यशस्वी च धनवांश् चअत्र जायते।
96.2 अत्रअपि त्रिगुणं विन्देद् आदानं यदि वा व्ययं।
96.2 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तरभाद्रपदे॥
96.3 रेवत्यां रत्न रजतं धनधान्यं प्रयोजयेत्।
96.3 कोष्ठआगाराणि कुर्वीत किण्वं चअत्र न कारयेत्॥
96.4 सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च।
96.4 गोसङ्घं स्थापयेच् चअत्र गोशालां चअत्र कारयेत्।
96.4 आच्छादयेन् नवं वस्त्रं हिरण्यम् अपि धारयेत्॥
96.5 भिक्षुको दानशीलश् च दरिद्रश् चअनसूयकः।
96.5 ज्ञातीनां सेवको नित्यं धर्मज्ञश् चअत्र जायते।
96.5 सुवृष्टिं नष्टलाभं च रेवत्याम् अभिनिर्दिशेत्॥रेवत्यां॥
97.1 स्त्रीपुंसम् अश्विना युञ्ज्याद् अश्वशालां च कारयेत्।
97.1 अश्वान् प्रयोजयेद् अत्र रथं चअत्र प्रयोजयेत्॥
97.2 ऋणः प्रयोगः कर्तव्यो बीजान्य् अत्र प्रवापयेत्।
97.2 यानानि च हयान् दम्यान् दन्तिनश् च प्रयोजयेत्॥
97.3 भैषज्यं भोजयेद् अत्र भिषक्कर्म च कारयेत्।
97.3 मेधावी दर्शनीयश् च राजयोग्यश् च सम्पदा॥
97.4 अरोगो बलवांच् छूरः सुभगो ह्य् अत्र जायते।
97.4 सुवृष्टिं नष्टलाभं च; अश्विन्याम् अभिनिर्दिशेत्॥अश्विन्यां॥
97.5 त्रितारां भरणीं विद्यात् क्रूरकर्माणि साधयेत्।
97.5 भृत्यांश् च भृतकांश् चअपि वृणुयाद् दर्शयेत् तथा॥
97.6 भूतिं चउपनयेद् अत्र भार्यां च न विवाहयेत्।
97.6 उत्कटको वञ्चतकः कूटसाक्षी च तन्द्रिजः॥
98.1 विधिज्ञः पापचारित्रः कदर्यश् चअत्र जायते।
98.1 जायते चअत्र दुःशीलो गुरूणाम् अभ्यसूयकः।
98.1 परोपतापी लुब्धश् च परव्याहारगोचरः॥भरण्यां॥
98.2 सप्तविंशतिनक्षत्रे कृत्तिकादि यदा भवेत्।
98.2 भरण्यन्तानि; ऋक्षाणीमां प्रतिपादयेत् क्रियां॥
98.3 तेषां मध्ये यदा सर्वे शस्यान्य् ओषधयोऽपि च।
98.3 वनस्पतयश् च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।
98.3 सर्वं प्रतिपादयितव्यम् उक्तनक्षत्रकर्मसु॥

98.4 उक्तो नक्षत्रकर्मनिर्देशो नामअध्यायः॥

ध्रुवक्षिप्रअर्धरात्रिकाणि नक्षत्राणि

98.5 चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवाणि भवन्ति तानि व्याख्यास्यामि। तच् छृणु। तद् यथा। त्रीणि उत्तराणि रोहिणी च। क्षेमेऽध्यावसेत्। (99) बीजानि चअत्र रोपयेद्। निवेशतं चअत्र कल्पयेत्। राजानं चअभिषिञ्चयेत्। यानि चअन्यानि उक्तानि कर्माणि तानि कारयेत्।
99.1 अथ नष्टं दग्धं वा विद्धं चअपि हृतं च वा।
99.1 एवम् अभिनिर्दिष्टां वा स्वस्ति क्षिप्रं भविष्यति॥
99.2 अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च।
99.2 मङ्गलीयो महाभोगी महायोगी भविष्यति॥
99.3 चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्रानि भवन्ति। तद् यथा पुष्यो हस्ताभिजिद् अश्विनो चेति। एषु क्षिप्राणि कर्माणि कारयेच् च विचक्षणः। स्वाध्यायं मन्त्रसमारम्भं प्रवासप्रस्थानं गाश् च तुरङ्गान् अप्य् अत्र योजयेत्। धूयाणि युक्तकर्माणि चओषधीकर्माणि च। भेषज्यानि सर्वाण्य् अत्र प्रयोजयेत्।
99.4 तत्र यज्ञसमारम्भं चातुर्मास्यं च कारयेत्। अथात्र नष्टं दग्धं वा विद्धं वा स्वस्ति भविष्यतिइति वक्तव्यं।
99.5 अथात्र जातकं विद्यान् मङ्गलीयं यशस्विनं।
99.5 महाभोगं च राजानं महायोगिनम् ईश्वरं॥
99.6 महाधनं महाभोगं तथा च महद्उत्तमं।
99.6 क्षत्रियं दानशीलं च ब्रह्मणं च पुरोहितं॥इति।
99.7 पञ्च खलु भोः पुष्करसारिन् नक्षत्रानि दारुणानि भवन्ति।तद् यथा।
99.8 मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।
99.8 अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥
99.9 इति वक्तव्यं । अर्धरात्रिकाणि षट्। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा (100)शतभिषा भरणी चेति। नवंशाः षड्ग्रासा द्विक्षेत्राणि। रोहिणी पुनर्वसुर् विशाखा च। त्रीणी उत्तराणि चेति। उभयतो विभागानि। पञ्चदशक्षेत्राणि। कृत्तिका च मघा मूला ग्रीणि पूर्वाणि। इमानि षट् पूर्वभागिनानि। मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनो चेति। इमानि नव नक्षत्राणि पश्चाद् भागीयानि त्रिंशन्मुहूर्तयोगानि क्षेत्राणि च।
100.1 अपि च ब्राह्मण शुभाश् च मुहूर्ता भवन्ति। अशुभाश् च मुहूर्ता भवन्ति। शुभअशुभाश् च मुहूर्ता भवन्ति। संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभमुहूर्तसमापत्तयो भवन्ति तदा शोभना भवन्ति। यदाऽशुभमुहूर्तसमापत्तयो भवन्ति तदा न शोभना भवन्ति। यदा तु पुनः शुभाश् चअशुभाश् च समापत्तयो भवन्ति तदा साधारना भवन्ति।

रात्रिदिवसयोर् ह्रासवृद्धी

100.2 अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर् वा भवतिइति तद् उच्यते। वर्षाणां प्रथमे मासे पुष्यनक्षत्रम् अमावास्यां भवति। श्रवणा पूर्णमास्यां। अष्टादशमुहूर्तो दिवसो भवति। द्वादशमुहूर्ता रात्रिः। षोडशाङ्गुलकाष्ठस्य मध्याह्नेऽर्धाङ्गुलायां छायायाम् आदित्यः परिवर्तते। आषाढा रात्रिं नयति। मृगशिरसि आदित्यो गतो भवति। वर्षाणां द्वितीये मासे मघाऽमावास्यां भवति भाद्रपदा पूर्णमास्यां। सप्तदश मुहूर्तो दिवसो भवति। त्रयोदशमुहूर्ता रात्रिः। द्विअङ्गुलायां छायायाम् आदित्यः परिवर्तते। श्रवणा रात्रिं नयति। पुष्य आदित्यो गतो भवति। वर्षाणां तृतीये मासे फल्गुन्यम् अमावास्यायां भवति। अश्विनी पूर्णमास्यां। षोडशमुहूर्तो दिवसो भवति। चतुर्दशमुहूर्ता रात्रिः। चतुर्अङ्गुलायां छायायाम् आदित्यः परिवर्तते। पूर्वभाद्रपदा रात्रिं नयति। मघाआदित्यो गतो भवति। वर्षाणां चतुर्थे मासे चित्राम् अमावास्यायां भवति कृत्तिका पूर्णमास्यां। पञ्चदशमुहूर्तो भवति दिवसः। पञ्चदशमुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। अश्विनो रात्रिं नयति। फलुगुन्याम् आदित्यो गतो भवति।

101.1 हेमन्तानां प्रथमे मासेऽनुराधाऽमावास्यं भवति। मृगशिरा पूर्णमास्यां। चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। कृत्तिका रात्रिं नयति। चित्रायाम् आदित्यो गतो भवति। हेमन्तानां द्वितीये मासेऽमावास्यां ज्येष्ठा भवति। पुष्यः पूर्णमास्यां। त्रयोदशमुहूर्तो दिवसो भवति। सप्तदशमुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मृगशिरा रात्रिं नयति। विशाखायाम् आदित्यो गतो भवति। हेमन्तानां तृतीये मासे पूर्वाषाढाम् अवास्यां भवति। मघा पूर्णमास्यं। द्वादशमुहूर्तो दिवसो भवति। अष्टादशमुहूर्ता रात्रिः। द्वादशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। पुष्यो रात्रिं नयति। ज्येष्ठायाम् आदित्यो गतो भवति। हेमन्तानां चतुर्थे मासे श्रवणाम् आवास्यं भवति। फल्गुनी पूर्णमास्यां। त्रयोदश मुहूर्तो दिवसो भवति। सप्तदशमुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मघा रात्रिं नयति। आषाढायाम् आदित्यो गतो भवति।

102.1 ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदाम् आवास्ययं भवति। चित्रा पूर्णमास्यां चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। फल्गुनी रात्रिं नयति। श्रवणायाम् आदित्यो गतो भवति। ग्रीष्माणां द्वितीये मासेऽश्विनी अमावास्यायां भवति। विशाखा पूर्णमास्यां। पञ्चदशमुहूर्तो दिवसो भवति। पञ्चदशमुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। चित्रा रात्रिं नयति। उत्तरायां भाद्रपदायाम् आदित्यो गतो भवति। ग्रीष्मानां तृतीये मासे कृत्तिकाम् अमावास्यायां भवति। ज्येष्ठा पूर्णमास्यां। षोडशमुहूर्तो दिवसो भवति। चतुर्दशमुहूर्ता रात्रिः। चतुर्अङ्गुलायां छायायाम् आदित्याः परिवर्तते। विशाखा रात्रिं नयति। कृत्तिकायाम् आदित्यो गतो भवति। ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति। उत्तराषाढा पूर्णमास्यां। सप्तदशमुहूर्तो दिवसो भवति। त्रयोदशमुहूर्ता रात्रिः। मध्याह्ने द्विअङ्गुलायां छायायाम् आदित्यः परिवर्तते। ज्येष्ठा रात्रिं नयति। पुष्य आदित्यो गतो भवति।

103.1 संवत्सरम् अन्वेषणतो मुहूर्तविशेषणैः सर्वाणि चएतानि (नक्षताणि) भागानुभगेनअमावास्ययं पूर्णमास्यं च युज्यन्ते। ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यं। तत्र तृतीये वर्षेऽधिको मासो युज्यते। षण्णां मासानाम् अहोरात्राणि समानि भवन्ति। अतः षण्मासाद् दिवसो वधते। षण्मासाद् रात्रिर् वर्धते। षण्मासाद् दिवसो मासे मासे समम् एव हीयते। षण्मासाद् रात्रिर् मासे मासे परिहीयते।

104.1 षण्मासाद् आदित्यः परिवर्तते। उत्तरां दिशं संचरति। षण्मासाद् दक्षिणां दिशं। षण्मासात् समुद्(र्)ए उदकपरिमाणस्य ह्रासो वृद्धिश् च भवति। सूर्यगत्या चन्द्रगत्या च समुद्रउदकवेलाअभिवृद्धिर् भवति। अत्र गणनाप्रतिजागरणास्मरम् इत्य् एवम् एष संवत्सरो व्याख्यातो भवति।

ग्रहः

104.2 चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश् च। इमे ग्रहाः। एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायो। एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश् चइमे मण्डलचारिणः।

नक्षत्रमण्डलं

104.3 भरणी कृत्तिका रोहिणी मृगशिरा एतत् साधारणं प्रथमं मण्डलं। आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत् साधारनं द्वितीयं मण्डलं। मघा अथ फल्गुनद्वयं हस्तो चित्रा एतत् साधारणं तृतीयं मण्डलं। स्वाती विशाखा अनुराधा एतत् साधारणं चतुर्थं मण्डलं। ज्येष्ठा मूलाषाढाद्वयम् अत्र सर्वाणि महाभायानि भवन्ति। इदं पञ्चमं मण्डलं। अभिजिच् छ्रवणा धनिष्ठा शतबिषा उभे भाद्रपदे चैतत् साधारणं षष्ठं मण्डलं। रेवती अविनी चैतत् साधारणं सप्तमं मण्डलं। संवत्सरम् एतेषु यद् यन् नक्षत्रमण्डलं पीडयति तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या।

105.1 द्वादशमुहूर्तानि दिवसे ध्रुवाणि द्वादश रात्रौ। षण्मुहूर्ताः सञ्चारिणः। कतमे षट्। नैरृतो वरुणो वायवो भर्गो देवो रौद्रो विचारी च। इतीमे सञ्चारिणः षट्।

मुहूर्त

105.2 अथात्र श्रावणे मासे पूर्णेऽष्टादशमुहूर्ते दिवसे सूर्यउदये च चतुरोजा नाम मुहूर्तो भवति। रोहितस्य च मुहूर्तस्य बलस्य चअन्तरे मध्याह्नो भवति। सूर्यावतारे तु विचारी नाम मुहूर्तो भवति। द्वादशमुहूर्तायां रात्राव् अवतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। आतापाग्निर् एवं नाम मुहूर्तो रात्र्यवसाने भवति। भाद्रपदे मासे पूर्णे सप्तदशमुहूर्ते दिवसे सूर्यउदये च चतुरोजा एवं नाम मुहूर्ता भवति। मध्याह्नेऽभिजितो नाम मुहूर्तो भवति। सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। त्रयोदशमुहूर्तायां रात्राव् अवतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। अर्धरात्रे महाभयो वायावो नाम मुहूर्तो भवति।

106.1 रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति। अश्वयुजे मासे पूर्णे षोडशमुहूर्तो दिवसो भवति। सूर्यउदये चतुरोजा नाम मुहूर्तो भवति। समुद्गतस्य च मुहूर्तस्य अभिजितस्य चअन्तरे मध्याह्नो भवति। सूर्यावतारे भर्गो देवो नाम मुहूर्तो भवति।

106.2 चतुर्दशमुहूर्तायां रात्राव् अवतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेणअर्धरात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

106.3 कार्त्तिके मासे पूर्णे दिवसः समरात्रिर् भवति। पञ्चदशमुहूर्तो दिवसो भवति पञ्चदशमुहूर्तो रात्रिः। समानेऽहोरात्रे सूर्यउदये चतुरोजा एवं नाम मुहूर्तो भवति। संमुखो नाम मुहूर्तो भवति मध्याह्ने। सन्ततो नाम मुहूर्तः (107) सूर्यावतारे। रात्राव् अवतीर्णमात्र सूर्ये भ्र्गो देवो नाम मुहूर्तो भवति। अर्धरात्रेऽभिजिन् मुहूर्तो भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

107.1 मार्गशीर्षे मासे च पूर्णे चतुर्दशमुहूर्ते दिवसे सूर्यउदये चतुरोजा एवं नाम मुहूर्तो भवति। विरतस्य संमुखस्य च मुहूर्तस्यअन्तरे मध्याह्नो भवति। सूर्यअवतारे वरुणो नाम मुहूर्तो भवति। षोडशमुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति। राक्षसस्याभिजितस्य च मुहूर्तस्यअन्तरेऽर्धरात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

107.2 पौषमासे पूर्णे त्रयोदशमुहूर्ते दिवसे सूर्यउदये चतुरोजा एवं नम मुहूर्तो भवति। मध्याह्ने विरतो नाम मुहूर्तो भवति। सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। सप्तदशमुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। अर्धरात्रे राक्षसो नाम मुहूर्तो भव्ति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

107.3 माघमासे पूर्णे द्वादशमुहूर्ते दिवसे सूर्यउदये चतुरोजा नाम मुहूर्तो भवति। सावित्रस्य च विरतस्य च मुहूर्तस्यअन्तरेण मध्याह्नो भवति। सूर्यावतारे विजयो नाम मुहूर्तो भवति। अष्टादशमुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। गर्दभस्य मुहूर्तस्य च राक्षसस्य चअन्तरम् अर्धरात्रं भवति। रात्र्यवसान आतपाग्निर् एवं नाम मुहूर्तो भवति।

108.1 यथा श्रावणे तथा माघे। यथा भाद्रपदे तथा फाल्गुने। यथाऽस्वयुजे तथा चैत्र। यथा कार्त्तिके तथा वैशाखे। यथा मार्गशीर्षे तथा ज्यैष्ठे। यथा पौषे तथाऽषाढे। एवम् एतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यं। नक्षत्रविचरणं नाम प्रथमोऽध्यायाः।

108.2 यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन चउत्कर्षापकर्षौ कर्तव्यौ। हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्धमासे वा। द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्रअन्तरे दिवसे कला वर्धते रात्रौ कला हीयते। %

भूमिकम्पनिर्देशः

108.3 चत्वारो महाराजानो ध्रियते यैर् वसुन्धरा।
अतिवृद्धिर् विशुद्धश् च वर्धमानः थक्श्रवाः॥
108.4 महाभूतानि चत्वारि कम्पयन्ति वसुन्धरां।
108.4 आपो इन्द्रश् च वायुश् च तथाग्निर् भगवान् अपि॥
108.5 त्रयस् तु ते यत्र भवन्ति पक्षे षडेकमासे तु भवन्ति वेगाः।
108.5 परस्य चक्रस्य निदर्शनं स्यात् प्रकम्पते यत्र मही त्व् अभीक्ष्णं॥
109.1 विशाखा दशरात्री अयाज् ज्येष्ठा द्वादशरात्रिका।
109.1 पञ्चविंशतिर् आषाढा श्रवणा पञ्चसप्ततिः॥
109.2 रात्रिशतं भाद्रपदे क्रतुर् अश्वयुजे स्मृतः।
109.2 अध्यर्धं तु पञ्चपञ्चाशन् माघे रात्रिशतं स्मृतं।
109.3 अर्ध्यर्धं फाल्गुने मासे चैत्रे त्रिंशत् तु रात्रयः।
109.3 विपाको भूमिवेगानाम् अतः कम्पः प्रवर्तते॥
109.4 यदा सर्वेषु मासेषु सततं कम्पते मही।
109.4 वृक्षास् तथा चलन्ति स्म जलं वा यदि कम्पते।
109.4 पर्वतः पर्णवत् कम्पेद् भयम् अत्र विनिर्दिशेत्॥
110.1 नगराण्य् अथ वा ग्रामा घोषा ये चअत्र संश्रिताः।
110.1 शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥
110.2 अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च।
110.2 अनावासा दिशो विद्याद् भूमिचालविचालिताः॥
110.3 कृत्तिकासु चलेद् भूमिर् ग्रामेषु नगरेषु वा।
110.3 अभीक्ष्णं मुच्यते ह्य् अग्निर् दहते सतृनालयान्॥
110.4 कृष्णाग्निर् अशनेः पातः, कर्मारा; आहिताश्रयाः।
110.4 आगाराश् च निवर्तन्ते संवर्तेनेव धातवः॥
110.5 ये जाता ये च संवृद्धा ये च तं ग्रामम् आश्रिताः।
110.5 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
110.6 रोहिण्यां चलिता भूमिः सर्वबीजविनाशनं।
110.6 प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता॥
111.1 गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशं।
111.1 दुर्भिक्षव्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥
111.2 महाआत्मानश् च राजानः श्रीमन्तश् च नरोत्तमाः।
111.2 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
111.3 मृगशीर्षे चलेद् भूमिर् ओषधीनां विनाशनं।
111.3 चिकित्सकाः श्रोत्रियाश् च घटकाः सोमयाजकाः॥
111.4 सोमपीताश् च ये विप्रा वानप्रस्थाश् च तापसाः।
111.4 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
111.5 आर्द्रायां चलिता भूमिर् वृक्षा नश्यन्ति क्षीरिणः।
111.5 अन्नपानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥
111.6 कूपखाः परिखाखाश् च पापका ये च तस्कराः।
111.6 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
111.7 पुनर्वसौ चलेद् भूमिर् मण्डलं कुण्डिकाअपि च।
111.7 वागुरिकाः कारण्डवाश् चक्रिणः शुकसारिकाः॥
111.8 अर्भका भ्रमकाराश् च मांसिकाः शङ्खवाणिजाः।
111.8 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
112.1 पुष्येण च चलेद् भूमिर् ब्राह्मणा नायकास् तथा।
112.1 दुरङ्गमा वाणिजकाः सार्थवाहाश् च ये नराः॥
112.2 पार्थिवाः पार्वतीयाश् च ये च तद् भक्तिगोचराः।
112.2 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः।
112.2 शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥
112.3 अश्लेषायां चलेद् भूमिर् नागाः सर्वे सरीसृपाः।
112.3 कीटाः पिपीलिकाः श्वाना; एकखुराश् च ये मृगाः॥
112.4 वैद्या विसकराश् चअपि ये च सत्वा दरीश्रयाः।
112.4 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
112.5 मघासु चलिता भूमिर् महाराजोऽत्र तप्यते।
112.5 ये च श्राद्धा निवर्तन्ते समाजा; उत्सवास् तथा।
112.5 यज्ञाश् च देवकृत्यं च सर्वम् अत्र निवर्तते॥
112.6 ये जाता ये च संवृद्धा ये चअन्येऽप्य् अग्रपण्डिताः।
112.6 गन्धर्वाश् च विनश्यन्ति नरा ये च महाकुलाः।
112.6 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
112.7 फल्गुन्यां चलिता भूमिर् ऋतुर् व्यावर्तते तदा।
112.7 त्रियग्वातश् चएव वाति कृतं नश्यति शाश्वतं।
112.7 पथिकाश् चउपतप्यन्ति माषयाच्योपजीविकाः॥
113.1 धर्मे रता; आसनिका ये च शुल्कोपजीविनः।
113.1 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.2 चलत्य् उत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।
113.2 सार्थवाहा; आसनिका ये च शिल्पोपजीविनः॥
113.3 अङ्गाविदेहमगधा नैरृताः स्त्रीपरिग्रहाः।
113.3 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.4 हस्तेन चलिता भूमिः कुम्भकार चिकित्सकाः।
113.4 गणमुख्या महामात्राः सेनाध्यक्षाश् च ये नराः॥
113.5 तारमका (?) नारपटा (?) विप्सरः (?) कौटिका; अपि।
113.5 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.6 चित्रायां चलिता भूमिः कारुका; उपकल्पकाः।
113.6 कुमार्यः सर्वरत्नं च सस्यानां बीजकैः सह॥
113.7 वङ्गा दशार्णकुरवश् चेदिमाहिषकास् तथा।
113.7 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.8 स्वातौ प्रचलिता भूमिश् चौरा ये च कुशीलकाः।
113.8 हिंसका ये च तत् कर्मरताऽभ्यर्थितमूषकाः॥
113.9 हिमवत; उत्तरेण वायुभक्षास् तपस्विनः।
113.9 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥

114.1 विशाखायां चलेद् भूमिर् महाशैलक्षयो भवेत्।
114.1 उग्रा वाताः प्रवान्त्य् अत्र; अश्मकैरकुशलिनः॥
114.2 अनुराधे चलेद् भूमिर् दस्यूनाम् अनयो महान्।
114.2 विटा द्यूतकराश् चएव ग्रन्थिभेदाश् च ये नराः॥
114.3 अन्ध्राः पुण्ड्राः पुलिन्दाश् च भये तिष्ठन्त्य् अनाश्रिताः॥
114.3 मित्रभेदश् च बलवान् तदा जगति जायते॥
114.4 ज्येष्ठायां चलिता भूमिर् महाराजः प्रतप्यते।
114.4 वायसा वृषभा व्याडास् तथा चण्डमृगाश् च ये॥
114.5 कुरवः शूरसेनाश् च मल्ला बाह्लीकनिग्रहाः।
114.5 प्रत्यर्थिकेन शीघ्रेण ये च तद् भक्तिभाजनाः।
114.5 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
114.6 मूलेन चलिता भूमिश् चतुष्पद्द्विपदास् तथा।
114.6 ग्रहाश्रयाः पिशाचाश् च ये च सत्त्वा दरीश्रयाः।
114.6 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
115.1 दुर्भिक्षं च करोत्य् आशु धान्यम् अल्पउदकं भवेत्।
115.1 दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥
115.2 पूर्वाषाढे चलेद् भूमिर् जलजा मत्स्यशुक्तिकाः।
115.2 शिशुमारा; उद्रकाश् च नक्रा मकरकच्छपाः॥
115.3 जातिगोत्रप्रधानाश् च धनिनोऽथ विचक्षणाः।
115.3 द्वितीयाभिजाताश् च महाविद्याकराश् च ये।
115.3 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
115.4 उत्तरस्यां चलेद् भूमिः शिल्पिनाम् अनयो महान्।
115.4 अयस्काराः स्थापतयस् त्रपुकाराश् च तक्षकाः॥
115.5 दरिद्रा धनिनश् चअपि शिल्पिनो विविधा; अपि।
115.5 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः।
115.5 ग्रामकुटानि च घ्नन्ति सचलस्थावराणि च॥
115.6 वैष्णवे चलिता भूमिस् तदेति यद् अनीप्सितं।

116.1 अध्यापकाः शास्त्रविदः कवयो मन्त्रपारगाः।
116.1 युगन्धराः शूरसेना; अभिराजाः पटच्चराः॥
116.2 कुशण्डाः शरदण्डाश् च ये नरा राजपूजिताः।
116.2 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
116.3 धनिष्ठायां चलेद् भूमिर् धनिना मनयो महान्।
116.3 महेश्वरास् तथा महानागराः श्रेष्ठिनस् तथा॥
116.4 प्रचण्डाः स्वस्तिमन्तश् च भद्रकारा युगन्धराः।
116.4 पारिकूलाश् च भोज्याश् च ह्य् अन्ये सन्नागरा; अपि।
116.4 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
116.5 वारुण्ये चलिता भूमिर् औदकेष्व् अनयो महान्।
116.5 हस्तिनोऽश्वखरोष्ट्राश् च स्पर्शम् अर्च्छन्ति दारुणं॥
116.6 तदासौ वीरकान् मद्रान् बाह्लीकान् केकयान् अपि।
116.6 अनाश्रयांश् चक्रवाकाञ् जनस्थान् अपि पीडयेत्॥
117.1 साजेन चलिता भूमी राक्षसान् घातकांस् तथा।
117.1 औरभ्रिकान् सौकरिकान् सौवीरांश् च निपातयेत्॥
117.2 वणिज्यजीविनो वैश्यान् शूद्रांश् च करीतीन् अपि।
117.2 यवनान् मालवाद्यांश् च ग्रन्थिभेदांश् च नाशयेत्॥
117.3 अहिर्बुध्न्ये चलेद् भूमिर् वणिजाम् अनयो महान्।
117.3 धर्मे रताश् च ये सिद्धा ये च शौक्तिककर्मिणः॥
117.4 शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियान् आर्जुनायनान्।
117.4 सिन्धुराजधनुष्पानीन् सर्वान् अर्दयतेऽचिरात्॥
117.5 रेवत्यां चलिता भूमिः संग्रामः स्यात् सुदारुणः।
117.5 ग्रामघाताश् च वर्तन्ते ग्रामो ग्रामं च हिंसति॥
117.6 नौचरान् उदकाजीवान् रमठान् भरुकच्छकान्।
117.6 सुधन्वान् अभिसारांश् च सर्वसेनांश् च निर्दहेत्॥
118.1 अश्विन्यां चलिता भूमिर् अश्वानाम् अनयो महान्।
118.1 ग्रामघाताश् च वर्तन्ते भ्राता भ्रातॄन् जिघांसति॥
118.2 या चअत्र गभम् आधत्ते ये च जाताश् च तान् इह।
118.2 त्रीणि वर्षाण्य् अतो दुःखम् उपैति च निरन्तरं॥
118.3 सहिताश् चित्रगर्भाश् च ये ह्य् अन्ये चअङ्गनाजनाः।
118.3 आर्जुनायना राजन्याः सुष्ठु त्रींश् चअपि हिंसति॥
118.4 भरण्यां चलिता भूमिश् चौराणाम् अनयो महान्।
118.4 विटा द्यूतकराश् चएव ग्रन्थिभेदाश् च ये नराः॥
118.5 आदर्शचक्राटाधूर्तास् तथा बन्धनरक्षकाः।
118.5 अन्तावशायिनः पापाश् चरन्ति ये तु दुर्जनाः।
118.5 तेऽपि तत्र विपद्यन्ते भूमिचालविचालिताः॥
118.6 वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
118.6 सप्ताहाभ्यन्तरात् तत्र मेघो भवति प्रार्थितः॥
119.1 स्निग्धो ह्य् अङ्जनसंकाशो महापर्वतसन्निभः।
119.1 इन्द्रश् न वर्षते तत्र महर्षेर् वचनं यथा॥
119.1 [एवं निगदितं नार्थैर् इन्द्रश् चअत्र प्रवर्षति॥]
119.2 स्वस्तिका कारसंकाशा; इन्द्रवज्रध्वयोपमाः।
119.2 दृश्यन्तेऽभ्रा हि सन्ध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥
119.3 तदा नभसि जायन्ते मेघा डाडिम्बसन्निभाः।
119.3 लक्षणं तादृशं दृष्ट्वा विद्यात् तान्न् इन्द्रकम्पितान्।
119.3 स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
119.4 अतीव तत्र विश्वस्तः सर्वबीजानि वापयेत्।
119.4 व्यवहारांश् च कुर्वीरन् निर्भयास् तत्र वाणिजाः।
119.4 सर्वेषां भूमिकम्पानां प्रशस्ता; इन्द्रकंपिताः॥
119.5 वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
119.5 सप्ताहाभ्यन्तरे तत्र मेघः संच्छादयेन् नभः॥

120.1 ततोऽनुबद्धा जायन्ते; अभ्राः कौशेयसन्निभाः।
120.1 अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशं॥
120.2 शिशुमारउद्रकाणां मत्स्यमकरसन्निभाः।
120.2 दृश्यन्तेऽभ्राश् च सन्ध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥
120.3 लक्षणं तादृशं दृष्ट्वा विद्यात् ताञ् जलकम्पितान्।
120.3 स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
120.4 स्थालेषु गिरिकूटेषु क्षेत्रेषूपवनेषु च।
120.4 स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा॥
120.5 पञ्केणअपि जलेनअपि नश्येयू रजसाअपि वा।
120.5 एतेषां भूमिकम्पानां प्रशस्ता जलकम्पिताः॥
120.6 वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
120.6 सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥
120.7 दृश्यते कपिला सन्ध्या चन्द्रसूर्यौ तु लोहिताउ।
120.7 लक्षणं तादृशं दृष्ट्वा जानीयाद् वायुकम्पितान्॥
121.1 ततो भवति निर्देशो महर्षेर् वचनं यथा।
121.1 न तत्र प्रवसेत् प्राज्ञ; आत्मानं चअत्र गोपयेत्॥
121.2 गुह्यम् आवरणं कुर्यात् प्राकारपरिखां खनेत्।
121.2 प्रातिसीमा विरुध्यन्ते नराणां जायते भयं॥
121.3 एतेषां भूमिकम्पनं सर्वेषां कीर्तिता गुणाः।
121.3 विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥
121.4 कम्पितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
121.4 सप्ताहाभ्यन्तरात् तत्र; उल्कापाताः सुदारुणाः॥
121.5 सन्ध्या च लोहिता भाति चन्द्रसूर्यौ तु लोहितौ।
121.5 लक्षणं तादृशं दृष्ट्वा विज्ञेया; अग्निकम्पिताः॥
121.6 अग्निर् दहति काष्ठानि रक्षितानि धनानि च।
121.6 दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशं॥
121.7 वीणाश् च दिवि दृश्यन्ते नवमासान् न वर्षति।
121.7 एतेषां भूमिकम्पानां जघन्या; अग्निकम्पिताः॥
121.8अ जयति; अहनि पूर्वे क्षत्रियान् पार्थिवांश् च।
121.8ब् हयगजरथमुख्यान् मन्त्रिणो मध्यमअह्ने।
122.1 व्यथयति; आपरअह्णे गोपशून् वैश्यशूद्रान्।
122.1 प्रदहति निशिसन्ध्या तस्करअनन्तवासान्॥
122.2अ रजनिम् इह प्रदोषे हिंसते म्लेच्छसंघान्।
122.2ब् स्त्रियम् अपि च नपुंसश् चअर्धरात्रेष्व् अनन्तान्।
122.2च् कृषिवणिग् उपजीव्यान् हन्ति यामे तृतीये।
122.2द् व्यथयति सुरपक्षं रौद्रकर्मअन्तकृष्णे॥
122.3अ प्रदहति शशिपक्षे याज्ञिकं ब्रह्मक्षत्रं।
122.3ब् श्रपयति शुचिवृत्ताम् एव धर्मे प्रधानान्।
122.3च् विदुषि च मृदुभावं विन्दते यो ह्य् अधीते।
122.3द् स भवति नृपपूज्यो बाह्मणो देवदर्शी॥
123.1 बृहस्पतेश् च चत्वारि समानि शुभकर्मणा।
123.1 चत्वारि सूर्यकर्माणि तुल्यानि शुक्रकर्मणा।
123.1 सोमकर्माणि चत्वारि ब्रह्मकर्म च तत्समं॥
123.2 अयं भोः पुष्करसारिन् भूमिकम्पनिर्देशो नामअध्यायः।

व्याधिसमुत्थानं

123.3 अथ भोः पुष्करसारिन् अमीषाम् अष्टाविंशतीनां नक्षत्राणां रोगउत्पत्तिं नामअध्यायं व्याख्यामि।

तच् छ्रूयतां। कथयतु भगवान्।

123.4 कृत्तिकासुउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
123.4 चतूरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
123.5 अग्निर् हि देवता तत्र दध्ना ह्य् अस्य बलिं हरेत्।
123.5 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
123.6 रोहिण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
123.6 पञ्चरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
123.7 देवः प्रजापतिस् तत्र शुद्धमाल्यैर् बलिं हरेत्।
123.7 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
123.8 व्याधिर् मृगशिरोभुतः स्त्रियो वा पुरुषस्य वा।
123.8 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
123.9 सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्।
123.9 अनेन बलिदानेन तस्माद् रोगाद् विमुच्यते॥
124.1 आद्रायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
124.1 दशरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
124.2 रुद्रो हि देवता तत्र पायसेन बलिं हरेत्।
124.2 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.3 पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
124.3 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
124.4 आदित्यो देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
124.4 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.5 पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
124.5 स्तोककालं भवेत् तस्य पञ्चरात्राद् विमुच्यते॥
124.6 देवो बृहस्पतिस् तत्र गन्धमाल्यैर् बलिं हरेत्।
124.6 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.7 अश्लेषायां भवेद् व्याधिः स्त्रियो वा पुरुषस्य वा।
124.7 न तं वैद्याश् चिकित्सन्तु सर्पस् तत्र तु दैवतः॥
124.8 मघासमुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
124.8 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
124.9 पितरो देवतास् तत्र कृसरेण बलिं हरेत्।
124.9 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.10 पूर्वफाल्गुनीजा व्याधिः स्त्रिया वा पुरुषस्य वा।
124.10 सप्तरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
125.1 (125) अर्यमा देवता तत्र गन्धमाल्यैर् बलिं हरेत्।

भग

125.1 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.2 उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
125.2 न तं वैद्याश् चिकित्सन्तु भगो प्य् अत्र तु देवता॥

अर्यमन्

125.3 हस्तेनाप्य् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
125.3 पञ्चरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
125.4 रविर् हि देवता तत्र गन्धपुष्पैर् बलिं हरेत्।
125.4 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.5 चित्रायाम् उत्त्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
125.5 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
125.6 त्वष्टा हि देवता तत्र घृतम् उद्गैर् बलिं हरेत्।
125.6 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.7 स्वात्यां समुत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
125.7 क्लेशितो हि भवेद् व्याधिः पञ्चविंशतिरात्रिकः॥
125.8 देवताअत्र भवेद् वायुश् चित्रमाल्यैर् बलिं हरेत्।
125.8 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.9 विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
125.9 गुरुकोऽसौ भवेद् व्याधिर् अहान्य् एकोनविंशतिः॥
126.1इन्द्राग्नीदेवते तत्र गन्धमाल्यैर् बलिं हरेत्।
126.1 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.2 अनुराधाउत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
126.2 अर्धमासं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
126.3 मित्रो हि देवता तत्र घृतपात्रं बलिं हरेत्।
126.3 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.4 ज्येष्ठायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
126.4 क्लेशिको हि भवेद् व्याधिर् अहोरात्रत्रयोदश॥
126.5 इन्द्रो हि देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
126.5 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.6 मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
126.6 मासिको हि भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
126.7 नैरृतिर् देवता तत्र मद्यमांसैर् बलिं हरेत्।
126.7 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.8 पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
126.8 सांक्लेशिको भवेद् व्याधिर् अष्टौ मासान् न संशयः॥
126.9 आपो हि देवतास् तत्र कृसरेण बलिं हरेत्।
126.9 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.10 उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
126.10 सप्तरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
126.11 विश्वो हि देवता तत्र पायसेन बलिं हरेत्।
126.11 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.1 (127) अभिजिद् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.1 षण्मासान् संभवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
127.2 विष्णुश् च देवता तत्र दधिमण्डं बलिं हरेत्।
127.2 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.3 श्रवणेनउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.3 गुरुको हि भवेद् व्याधिः पूर्णं द्वादशमासिकं॥
127.4 विष्णुर् हि देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
127.4 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.5 धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
127.5 गुरुको हे भवेद् व्याधिः पूर्णमासान् त्रयोदश॥
127.6 वसवो देवतास् तत्र घृतमाल्यैर् बलिं हरेत्।
127.6 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.7 शतभिषाउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.7 त्रयोदशदिवस् तत्र ततश् चऊर्ध्वं विमुच्यते॥
127.8 वरुणो देवता तत्र पायसेन बलिं हरेत्।
127.8 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.9 पूर्वभद्रउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.9 न तं वैद्याश् चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥
127.10 उत्तरभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.10 सप्तरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
128.1 (128) अर्यमा देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
128.1 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
128.2 रेवत्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
128.2 मृदुको हि भवेद् व्याधिर् अष्टाविंशतिरात्रिकः॥
128.3 पूषा हि देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
128.3 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
128.4 अश्विन्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
128.4 सांक्लेशिको भवेद् व्याधिः पञ्चविंशतिरात्रिकः॥
128.5 गन्धर्वो देवता तत्र यावकेन बलिं हरेत्।
गन्धर्व
128.5 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
128.6 भरण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
128.6 न तं वैद्याश् चिकित्सन्तु यमस् तत्र तु दैवतः।
128.7 शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥
128.7 अयं भोः पुष्करसारिन् व्याधिसमुत्थानो नामअध्यायः।

बन्धननिर्मोक्षः

128.8 अथ खलु भोः पुष्करसारिन् बन्धननिर्मोक्षं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
129.1 कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतिइति वक्तव्यः। रोहिण्यां बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतिइति। मृगशिरसि बद्धो वा रुद्धो वा एकविंशति रात्रेण मोक्ष्यतिइति। आर्द्रायां बद्धो वा रुद्धो वाऽर्धमासेन मोक्ष्यतिइति। पुनर्वसौ रुद्धो वा बद्धो वा सप्तरात्रेन। पुष्ये त्रिरात्रेण। अश्लेषायां त्रिंशद्रात्रेण। मघासु षोडशरात्रेण। चित्रायां सप्तरात्रेण। स्वात्यां दशरात्रेण। विशाखायां षड्विंशद्रात्रेण। अनुराधायाम् एकत्रिंशद् रात्रेण। ज्येष्ठायाम् अष्टादशरात्रेण। मूले षट्त्रिंशद् रात्रेण। पूर्वाषाढायां चतुर्दशरात्रेण। उत्तराषाढायां चतुर्दशरात्रेण। अभिजिति षड्रात्रेण। श्रवणे धनिष्ठायां शतभिषायां पूर्वभद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्दशरात्रेण। अश्विन्यां त्रिरात्रेण। भरण्यां बद्धो वा रुद्धो वा परिक्लेशम् अवाप्स्यतिइति वक्तव्यः।
129.2 अयं भोः पुष्करसारिन् बन्धननिर्मोक्षो नामअध्याय।

तिलकअध्यायः

129.3 अथ बोः पुस्करसारिन् तिलकअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
129.4 मूर्ध्नि तु यस्यास् तिलकोऽस्ति सूक्ष्मः स्निग्धो भवेत् पद्मसमानवर्णः।
129.5 राजा तु तस्या भवतिइह भर्ता स्तनउपरिष्टात् प्रतिबिम्बम् आहुः॥
130.1 शीर्षे तु यस्यास् तिलकअलकः स्यात् सूक्ष्मो भवेद् अञ्जनचूर्णवर्णः।
130.1 सेनापतिस् तस्या भवेद् धि भर्ता स्तनअन्तरेऽस्याः प्रतिबिम्बकं स्यात्॥
130.2 भ्रूवोन्तरेऽस्यास् तिलकअलकः स्याद् दुष्चारिणीं तां प्रमदां वदन्ति।
130.2 पञ्चएव तस्याः पतयो भवन्ति बह्व्अन्नपानं लभते च नारी॥
131.1 गण्डस्य नासादिकम् अध्यदेशे भवेच् च बिम्बं तिलकस्य यस्याः।
131.1 तां शोकभाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बम् आहुः॥
131.2 कर्णे तु यस्यास् तिलकअलकः स्याद् बहुश्रुतां तां प्रमदां वदन्ति।
131.2 बहुश्रूतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात्॥
131.3 यस्यउत्तरोष्ठे तिलकअलकः स्यात् तां भिन्नसत्यां प्रमदां वदन्ति।
131.3 कृच्छ्रेण सा वै लभते हि वृत्तिम् ऊरौ तु तस्यास् तिलबिम्बम् आहुः॥
132.1 यस्याऽधरोष्ठे तिलकअलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
132.1 मिष्टअन्नपानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात्॥
132.2 चिबुके तु यस्यास् तिलकअलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
132.2 मिष्टअन्नपानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्॥
132.3 अयं भोः पुष्करसारिंस् तिलकअध्यायो नामअध्यायः।
132.4 अथ खलु भोः पुष्करसारिन् नक्षत्रजन्मगुणं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान् त्रिशङ्क्को।
132.5अ कृत्तिकासु नरो जातस् तेजस्वी प्रियसाहसः।
132.5ब् भवेच् छूरस् तथा चण्डः प्रियवादी च मानवः॥
132.6अ रोहिण्यां पुरुषो जातो धनवान् धर्मिकस् तथा।
132.6ब् व्यवसायी स्थिरः शूरो ध्रुवं चअस्य सदा मुखं॥
133.1 जातो मृगशिरे यस् तु मृदुः सौम्यस् तु मानवः।
133.1 दर्शनीयो भवेच् चअसौ स्त्रीकान्तस् तु विशेषतः॥
133.2 आर्द्राजातस् तु हिंसात्मा चण्डः परमजल्पकः।
133.2 रोद्रकर्मा भवेच् चअसाव् ईश्चरश् च शतैर् महान्॥
133.3 जातः पुनर्वसौ यस् तु ह्य् अलोलो बुद्धिमान् नरः।
133.3 धर्मशीलो भवेच् चअसौ जातक्रोधश् च मानवः॥
133.4 पुष्येण पुरुषो जातस् तेजस्वी ब्राह्मणो भवेत्।
133.4 क्षत्रियश् च भवेद् राजा वैश्यसूद्रौ च पूजितौ॥
133.5 श्वसनः क्रोधनः क्रूरो ह्य् अश्लेषासम्भवो नरः।
133.5 दुर्मनुष्यश् च चण्डश् च; इति सर्वम् इहादिशेत्॥
133.6 बहुप्रज्ञः श्राद्धकरो बहुभाग्यस् तथाएव च।
133.6 धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्॥
133.7 पूर्वफाल्गुनीजातस् तु यः कश्चित् पुरुषो भवेत्।
133.7 अर्धम् अबुच्छिशीलश् च गुरुदाराअभिमर्दकः॥
133.8 उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।
133.8 दिव्यज्ञानश् च विज्ञाने पुरुषः सुभगो भवेत्॥
133.9 हस्ते जातश् च शुद्धआत्मा विक्रान्तो मृदुभोजनः।
133.9 सेनापत्यम् च कुरुतेऽस्तेयकर्मा भवेद् असौ॥
133.10 चित्रासु जातश् चित्राअक्षस् तथा चित्रकथाकरः।
133.10 दर्शनीयो बहुस्त्रीकश् चित्रशीलो भवेन् नरः॥
134.1 स्वात्यां च पुरुषो जातो बन्धुश् लाघी चिचक्षणः।
134.1 मृदुकः पानशौण्डश् च मित्रकारी विचारवान्॥
134.2 विशाखासु नरो जातस् तेजस्वी द्रव्यवान् महान्।
134.2 शूरो विक्रमवान् दक्षः सुभगश् च भवेद् असौ॥
134.3 अनुराधाउद्भवो मर्त्यो मित्रवान् संग्रही नरः।
134.3 शुचिश् चएव कृतज्ञश् च धर्मआत्मा च भवेच् च सः॥
134.4 ज्येष्ठासु पुरुषो जातो मित्रवान् अभिजायते।
134.4 धनुर्वेदअभिरामश् च नारीषु कुरुते मनः॥
134.5 मूलेषु पुरुषो जातोऽकृतज्ञः स्याद् अधर्मिकः।
134.5 दृढो वीरो भवेच् चअसौ किल्विषी च स मानवः॥
134.6 आषाढासु च पूर्वासु मत्सरी चलितइन्द्रियः।
134.6 मत्स्यमांसप्रियश् चअपि घातकः स्यात् स मानवः॥
134.7 सअनुक्रोशश् च दाता च विद्यानिष्ठः सुहृज्जनः।
134.7 विश्वदैवे नरो जातो भवेद् अपि च निश्चितः॥
134.8 आचार्यः शास्त्रकर्ता च विश्वासी च क्रियापरः।
134.8 श्रवणे जत; आयुष्मान् श्रीमांश् च पुरुषो भवेत्॥
134.9 अनवस्थितचित्तश् च च्चित्रद्रव्यश् च मानवः।
134.9 धनिष्ठासु भवेज् जातः पुरुषः सर्वशाङ्कितः॥
135.1 वारुणे यदि नक्षत्रे जातो भवति मानवः।
135.1 परुषो क्वेषशीलश् च परिवादी च सर्वशः॥
135.2 जातो भाद्रपदायां तु पूर्वस्याम् इह मानवः।
135.2 चारित्रगुणयुक्तश् च कृतज्ञो मुखरस् तथा॥
135.3 उत्तरस्यां नरो जातो भविष्यति विचक्षणः।
135.3 मेधावी बह्व् अपत्यश् च धर्मशीलो महाधनः॥
135.4 रेवत्यां पुरुषो जातो धर्मआत्मा ज्ञातिसेवकः।
135.4 दरिद्रोऽल्पधनो नित्यं दायको नअनुसूयकः॥
135.5 अश्विन्यां पुरुषो जातो भवय् अतिविचक्षणः।
135.5 महाजनप्रियश् चअपि शूरश् च सुभगश् च सः॥
135.6 भरण्यां पुरुषो जातः पापाचारोऽविचक्षणः।
135.6 कन्दर्पे दातुकामश् च परतश् चउपजीवकः॥
135.7 अयं भोः पुष्करसारिन्न् नक्षत्रजन्मगुणो नामअध्यायः।
135.8 पठ भोस् त्रिशङ्को उत्पातचक्रं नामअध्यायं। कथयति च।

1 उत्पातचक्रनिर्देशः

1.1 अष्टाविंशतिपर्यन्तकृत्स्ने नक्षत्रमण्डले।
1.1 दिव्या विकारा दृश्यन्ते सूर्यचन्द्रग्रहादिषु॥
1.2 माघस्य प्रथमे पक्षे शैलो वा पार्थिवा यदि।
1.2 धूमवृष्टिर् हि; आदित्ये; उदयति प्रदृश्यते।
1.2 विद्युतो वाअथ दृश्यन्ते तदा विद्याज् जनक्षयं॥
1.3 अश्विन्याम् अर्कतो धूमो निर्गच्छन्न् अपि छादयेत्।
1.3 अनावृष्टिं तदा विद्यात् पूर्णवर्षाणि द्वादश॥
1.4 भरण्यां माघमासे तु पीतसूर्योऽथ दृश्यते।
1.4 समन्ताद् वध्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
1.5 फाल्गुने कृत्तिकायां तु; आदित्ये परिखो यदि।
1.5 नश्यन्ति कर्वटास् तत्र यदि देवो न वर्षति॥
1.6 चैत्रमासे यदा पुष्ये सूर्ये कृष्णां प्रदृश्यते।
1.6 अचिरोदयकाले तु क्षितिपालोऽवरुध्यते॥
1.7 वैशाखमासे चअर्द्रायाम् आदित्यः प्रतिसूर्यकः।
1.7 संग्रामं तत्र जानीयाद् उभौ घात्येते पार्थिवौ॥
1.8 गृह्येतां चन्द्रसूर्यौ वा ज्यैष्ठे भरणिज्येष्ठयोः।
1.8 सअमात्यो वध्यते राजा राष्ट्रे दुर्भिक्षम् आदिशेत्॥
1.9 आषाढे च यदाआदित्ये पूर्वभाद्रपदे स्थिते।
1.9 सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले ब्रणः॥
1.10 परचक्रेण तद्राष्ट्रं षण्मासान् पीड्यते तदा।
1.10 क्षितिपालश् च सअमात्यः पुत्रदारेण वध्यते॥
1.11 पूर्वायां चउत्तराषाढायाम् आषाढे गृह्यते शशी।
1.11 विद्याद् दुर्भिक्षकलह रोगांश् चअत्र विनिर्दिशेत्॥
1.12 मासेऽथ श्रावणे मूले चन्द्रसूर्यौ न भासतः।
1.12 स्फुलिङ्गाश् चअत्र दृश्यन्ते विद्याद् रोगभयं महत्॥
1.13 मासेऽश्वयुजि गृह्येतां एकपक्षेन्दुभास्करो।(प्.137)
1.13 राजपुत्रसहस्राणां तदा जायेत संक्षयः॥
1.14 अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्त्तिके।
1.14 चन्द्रसूर्याव् अग्निवर्णौ रक्तवर्णे नभस्तले॥
1.15 रविवद् भाति तद्राष्ट्रं विनश्येत पुनः पुनः।
1.15 राज्ञां विद्याद् धतानां वै भूमिः पास्त्यति शोणितं॥
1.16 भरण्यां माघमासे तु कृष्णो वायुः समुत्थितः।
1.16 छादयेच् चन्द्रसूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥
1.17 मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतं।
1.17 वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथाअपरे॥
1.18 सहआदित्येन चन्द्रेऽथ यदा कश्चिद् ग्रहश् चरेत्।
1.18 वायुर् वा विषमो वातिइ विद्याद् राजवधं तदा॥
1.19 अशन्युल्के तु वैशाखे; आदित्येन सहउत्थिते।
1.19 षण्मासअभ्यन्तरेणअथ राष्ट्रे व्यसनम् आदिशेत्॥
1.20 ज्येष्ठमासे यदाआदित्यो ग्रहतो निर्गतो भवेत्।
1.20 आदित्यस्यउपघातेन ग्रहाः सर्वेऽथ पीडिताः॥
1.21 ज्येष्ठे च पांशुर् वर्षेत; आदित्यः परिविष्यते।
1.21 क्षितिपालसहस्राणां एक; एकस् तु वध्यते॥
1.22 आषाढे वायवो वान्ति गच्छन्तो भरणीस्थिताः।
1.22 उदपानानि शुष्यन्ते सर्वशस्यं च शुष्यति॥
1.23 श्रावणे वायवः पीताः सदा कृष्णं नभस्तलं।
1.23 भयं तत्र विजानीयात् समन्तात् समुपस्थितं॥
1.24 श्रावणे वर्षते ह्य् अग्निः पूर्वभाद्रपदे दिवा।
1.24 मेघाः शब्दम् उत्कुर्वन्ति रोगदुर्भिक्षम् आदिशेत्॥
1.25 यदा भाद्रपदे मासे नभः स्याच् छन्नगर्जितं।(प्.138)
1.25 परचक्रं तदा राष्ट्रे हरते धनसञ्चयं॥
1.26 अश्वयुजि वातवृष्टिः स्याद् आगत्यउत्तरां दिशं।
1.26 पातयेच् चएवम् आघातं कृत्स्नं राष्ट्रं विनश्यति॥
1.27 कार्त्तिके शुक्लत्रयोदश्यां यदा चन्द्रे धनुर् भवेत्।
1.27 समन्तान् नश्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
1.28 उल्कापाता ह्य् अशनयो माघमासे भवन्ति वा।
1.28 अश्विन्यां विषये तत्र प्रजाऽश्वासेन वध्यते॥
1.29 मासे तु फाल्गुने यत्र; आग्निवर्षं नभस्तलात्।
1.29 भवेच् छब्दस् तदाकाशे तद्राष्ट्रं नश्यते लघु॥
1.30 स्वात्यां चैत्रे यदा वर्षं निरुद्धं वातवर्षितं।
1.30 दृश्यतइन्द्रधनुः क्षिप्रं नगरं तद् विनश्यते॥
1.31 भरण्यां ज्येष्ठमासे तु शब्द; उत्तरतो भवेत्।
1.31 पीतवर्णं तदाकाशं परचक्रभयं भवेत्॥
1.32 आषाढे मासि पुष्येऽथ दृश्यन्ते व्योग्नि विद्युतः।
1.32 सतृणउदकवृष्टिभिस् त्रिभागं मुच्यते प्रजा॥
1.33 श्रावणे तु यदा मूले बहु देवः प्रवर्षति।
1.33 दृश्यतइन्द्रधनुस् तत्र क्षत्रियाणां महद्भयं॥
1.34 मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।
1.34 सुकृच्छ्रा वायवो वान्ति महद्रोगभयं तदा॥
1.35 मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः।
1.35 क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु दता प्रजा॥
1.36 भरण्याम् अश्वयुजे शब्द उपरिष्टाद् भवेद् यदि।
1.36 सतृणं चउत्सृजेत् पांशुं तापसानां महद्भयं॥
1.37 कार्त्तिके तु यदाआर्द्रायां शब्दः श्रयेत भैरवः।
1.37 चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्॥
1.38 मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत्।(प्.139)
1.38 वातातुरस् तदा राष्ट्रे व्याधिर् भवति दारुणः॥
1.39 पौषमासे यदा स्वात्यां शब्दो भवति भैरवः।
1.39 अभीक्ष्णं विद्युद् आकाशे पण्डितानां महद्भयं॥
1.40 माघे शुक्ले तु निर्घातो नित्यं शाम्येद् वसुन्धरां।
1.40 जानीयात् तृतीये वर्षे सकलं राष्ट्रविभ्रमं॥
1.41 ज्येष्ठायां फाल्गुने मासे कृष्णवायुः समाकुलः।
1.41 अभीक्ष्णं कम्पते भूमिर् ब्रह्मचारिभयं तदा॥
1.42 पूर्वभाद्रपदायां तु चैत्रे कम्पेत् क्षितिर् दिवा।
1.42 तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान् महद्भयं॥
1.43 पूर्वायां चेद् आषाढायां रात्रौ चैत्रे च निश्चलेत्।
1.43 असिभिर् हन्यते राजा हन्यते च महाजनः॥
1.44 वैशाखे कम्पिता भूमिः कृष्णपक्षे ह्य् अभीक्ष्णशः।
1.44 अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्॥
1.45 ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद् वसुन्धरा।
1.45 विद्याद् योधसहस्राणां मही पास्यति शोणितं॥
1.46 ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते।
1.46 प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्॥
1.47 आषाढे कम्पते भूमिः पुष्यनक्षत्रसंस्थिते।
1.47 शस्यं विनश्यते तत्र कलिकर्म च जायते॥
1.48 प्रकम्पन्ते यदा चैत्या; आद्रायां वा मघासु वा।
1.48 ज्वलेयुः प्रपतेयुर् वा नश्येद् राष्ट्रं तदा लघु॥
1.49 चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च।
1.49 सराष्ट्रः क्षितिपस् तत्र न चिरान् नाशम् अर्च्छति॥
1.50 श्रावणे कम्पते भूमिः पूर्वभाद्रपदास्थिते।(प्.140)
1.50 सदा पराजितो राजा चौरराष्ट्रे च वध्यते॥
1.51 कार्त्तिके क्षितिकम्पेन यदा चैत्यं विशीर्यते।
1.51 द्वारं वा नगरस्यअथ भूयिष्ठं नश्यते प्रजा॥
1.52 वामे वा कषीणे चन्द्रोः शृङ्गे तिष्ठेद् बृहस्पतिः।
1.52 महाभोगा विनश्येयुः प्रकाशाः थिवीश्वराः॥
1.53 सूर्याचन्द्रमसोः सृङ्गे लोहितअङ्गो यदाऽरुहेत्।
1.53 क्रूरअक्षमन्त्रिकात् पीडां प्रत्यन्तानां विनिर्दिशेत्॥
1.54 शनैश्चरो यदा शृङ्गे सोमस्यअभिरुहेत् तदा।
1.54 ज्ञेयं रोगभयं घोरं दुर्भिक्षं चअत्र निर्दिशेत्॥
1.55 राहुणा निगृहीतस् तु चउल्ल्कया हन्यते शशी।
1.55 षण्मासअभ्यन्तरात् तत्र राज्ञो व्यसनम् आदिशेत्॥
1.56 यस्य चैवअथ नक्षत्रे शशी सूर्यो विगृह्यते।
1.56 राहुणा क्षितियो राज्यैः सह पीडाम् अवाप्नुयात्॥
1.57 राज्ञो वै चअथ नक्षत्रे चन्द्रं केतुर् यदा विशेत्।
1.57 प्रत्यन्तराजभिः सार्धं शस्त्राम् ऊर्च्छां विनिर्दिशेत्॥
1.58 चन्द्रमध्यगतः शुक्रः फाल्गुन्याथ मघा यदा।
1.58 सर्वधान्यानि शुष्येयुस् तदा रोगं विनिर्दिशेत्॥
1.59 बृहस्पतिश् च शुक्रश् च लोहितअङ्गः शनैश्चरः।
1.59 लिख्यन्ति सोमशृङ्गस्य तदा विद्यान् महद्भयं॥
1.60 धूमकेतुर् महाभागः पुष्यम् आरुह्य तिष्ठति।
1.60 चतुर्दिशं तदा विंच्यात् परचक्रैः पराभवं॥
1.61 मघायां लोहितअङ्गो वा श्रवणे वा बृहस्पतिः।
1.61 तिष्ठेत् संवत्सरत्रीणि भयं विद्यात् समागरं॥
1.62 तिष्ठेच् छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन।
1.62 व्याकुर्यान् नियतम् अत्र क्षत्रियाणां महद्भयं॥
1.63 विशाखायां समीपस्थौ बृहस्पतिशनैश्चरौ।(प्.141)
1.63 सोमो वा रविणा सार्धं परचक्रभयं तदा॥
1.64 काकाः श्येनाश् च बृध्राश् च वसेयुः सहिता मुदा।
1.64 मैथुनं वारितं वेयुः परैः सह रणस् तदा॥
1.65 श्येनो हस्तिनिवासे वा; अभिरोहेत् पुनः पुनः।
1.65 परचक्रेण युद्धं तु भवेच् चअपि पुनः पुनः
1.66 कन्या प्रसूयते यत्र चतुर्हस्ता चतुस्तनी।
1.66 स्त्रीणाम् एव भवेत् तत्र मरणं ह्य् अतिदारुणं॥
1.67 गर्भस्था दारका यत्र हसन्ति च वदन्ति च।
1.67 तस्य देशस्य जानीयाद् विनाशं समुपस्थितं॥
1.68 एकपादां स्त्रिपादांश् च चतुर्अङ्गांस् तथाएव च।
1.68 नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनम् आदिशेत्॥
1.69 सूयन्ते विकृतान् गर्भान् सन्तानान् भयव्यञ्जनान्।
1.69 प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥
1.70 लघुहस्तशीर्षमुखान् मानुषं कायम् अश्रितान्।
1.70 प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥
1.71 खराश् च महिषाश् चअपि पशवोऽथ तथाविधाः।
1.71 द्वित्रिशीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥
1.72 शृगालश्वानमकरहयरूपाश् च मानवाः।
1.72 जायन्ते यत्र देशे तु स देशो लघु नश्यति॥
1.73 पादाव् उभौ यदा वैश्या गुर्विणी संप्रसूयते।
1.73 देशस्य विलयं ब्रूयात् परचक्रेण दारुणं॥
1.74 पूर्वार्धः पक्षिनरयोर् गर्भो यत्र प्रसूयते।
1.74 राजा वा राजामात्यो वा सह देशेन नश्यति॥
1.75 कुम्भाण्डो जायते यत्र द्विसुखोऽथ चतुर्मुखः।
1.75 त्रिनेत्रस् त्रिमुखो वाअपि विद्यात् तत्र महद्भयं॥
1.76 सौकरेण तु वक्रेण शरीरं मानुषं यदि।
1.76 सूतं चतुर्दिशं राष्ट्रं हन्यात् तत्र न संशयः॥
1.77 आदित्यस्य तु रूपेण मानुषो यत्र जायते।
1.77 विभ्रमात् सकलं राष्ट्रं विनाशम् उपगच्छति॥
1.78 उत्तानशायी बालस् तु देशं यत्र द्विजोत्तमः।
1.78 दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यतेइ॥
1.79 कुक्षिं भित्वा यदा बालो गर्भान् निष्क्रमते स्वयं।
1.79 अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥
1.80 गर्भस्थाः सूकरा; उष्ट्राः सर्पाश् च शकुनिस् तथा।
1.80 स्त्रीणां गर्भात् प्रसूयन्ते देशे तु भयम् आदिशेत्॥
1.81 पौरुषं गार्दभं चअथ सौकरं चअर्धविग्रहं।
1.81 गावो यत्र प्रसूयन्ते निर्दिशेद् भयम् आगतं॥
1.82 नारी गृह्णाति गर्भं वा; अदृष्टस्तनरूपिणी।
1.82 विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत्॥
1.83 जटी दीर्घनखो यत्र सुकृष्णः परुषच्छविः।
1.83 सजनो जायते यत्र राष्ट्रं साधिपतिं दहेत्॥
1.84 अग्रीवा दन्तसहिता जायन्ते यत्र बालकाः।
1.84 शुष्येत सकलं शस्यं जनश् च विलयं व्रजेत्।
1.85 एकबाहुरशीर्षोऽथ गर्भो यत्र प्रसूयते।
1.85 स्वयं क्षुभ्येत तद्राष्ट्रं विनश्येत न संशयः॥
1.86 फले फलं यदा पश्येत् पुष्पे वा पुष्पम् आश्रितं।
1.86 गर्भाः स्रवेयुर् नारीणां युवराजश् च वध्यते॥
1.87 अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च।
1.87 लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत्॥
1.88 वृक्षउपरिष्टात् पश्येद् वा स्रवन्तम् आत्मशोणितम्।
1.88 कूजमानं पतङ्गं वा तदा विद्यान् महद्भयं॥
1.89 वृक्षाणां मण्डपानां वा छाया न परिवर्तते।
1.89 चतुर्वर्णभयं तत्र कलिकर्म च जायते॥
1.90 पुष्प्येग्रुः पादपा यत्र विविधाः पुष्पजातयः।
1.90 कल्पवृक्षप्रकृतयस् ततो विद्यान् महद्भयं॥
1.91 अनावर्तं यदा पुष्पं फलं चअपि प्रदृश्यते।
1.91 विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत्॥
1.92 स्थानास्थानं गता वृक्षा दृश्येयुर् यत्र कुत्रचित्।
1.92 पूर्वप्रतिष्ठिता राजा न चिरेण विचाल्यते॥
1.93 दैवअसुरं च संग्रामं पश्येद् अद्भुतदर्शनं।
1.93 शस्त्रं मूर्च्छयते तत्र तस्करैश् चअपि पूर्ववत्॥
1.94 कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यते।
1.94 परचक्रात् तदा विद्याद् अत्यर्थं तत्प्रराजयं॥
1.95 देवता यत्र देशे तु नृत्यन्ति च हसन्ति च।
1.95 अश्रूणि पातयेयुर् वा तदा विद्यान् महद्भयं॥
1.96 देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।
1.96 चलेयुर् अथवा यत्र क्षितिपोऽन्यो भवेत् तदा॥
1.97 शिवलिङं यदा कम्पेद् गगने वाअथ दृश्यते।
1.97 निमज्जते धरण्यां वा ध्रुवं राजवधो भवेत्॥
1.98 प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च।
1.98 प्रस्विद्येयुः प्रधावेयुर् अन्यो राजा भविष्यति॥
1.99 अचलो वा चलेत् स्थानाच् चलं वाअप्य् अचलं भवेत्।
1.99 अमात्यो हन्ति राजानं कलहं चअत्र निर्दिशेत्॥
1.100 वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश।
1.100 अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्भयं॥
1.101 वर्षते कुसुमं यत्र रक्तविन्दुम् अथअपि वा।
1.101 प्राणिनो विविधान् वाअपि विद्याच् चौरभयं तदा॥
1.102 यूपाः पुराणा निगमा देवआगाराणि चैतियाः।
1.102 नगराण्य् अथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥
1.103 इन्दुर् वा दीपवृक्सो वा दीपो यत्र न दीप्यते।
1.103 राज्यकामः कुमारो वा क्षुभ्येद् विटपकोऽपि वा॥
1.104 अन्तःपुरे यदा नीडां कुर्वते मधुमक्षिकाः।
1.104 अस्त्रं वाअपि गृहं दह्याद् राज्ञो व्यसनम् आदिशेत्॥
1.105 पतेद् अन्तःपुरे विद्युद् वृक्षे वाअप्य् आश्रमे तथा।
1.105 पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥
1.106 प्राकारे वाऽयुधागारे गोपुरास्थानकेषु वा।
1.106 वायसः कुरुते नीडं सअमात्यो ध्वंसते नृपः॥
1.107 अनाहतेभ्यस् तूर्येह्भ्यः स्वयं शब्दो विनिश्चरेत्।
1.107 स्वचक्रक्षोभदोषेण सर्वं राष्ट्रं विलुप्यते॥
1.108 मांसशोणितवर्षं वा पत्रपुष्पफलानि वा।
1.108 यदाभिवर्षेत् तद्वर्षं चक्रै राष्ट्रं विलुप्यते॥
1.109 मधुफाणितपुष्पाणि गन्धवर्षाण्य् अथअपि वा।
1.109 दिशो दाहाश् च दृश्येयुर् मारदुर्भिक्षलक्षणं॥
1.110 मेघः समन्ततो गर्जेद् उपवर्षेत् सचातकं।
1.110 शोणितं सकरकं स्यात् तदा विद्यात् पराद् भयं॥
1.111 विद्युच् च पतते घोरा करकाणां च वर्षणं।
1.111 गन्धर्वनगरं चअथ दृष्ट्वा विद्यान् महद्भयं॥
1.112 शशी शोणितसंकाशो मध्ये कृष्णो विवर्णवान् ।
1.112 सामन्तकेन पीड्यते विद्याद् राष्ट्रे महद्भयं॥
1.113 प्रदीपितअग्निसंकाशो यदा दृश्येत चन्द्रमाः।
1.113 गगनं दह्यते तत्र लोकपीडा ज्वरेण च॥
1.114 यदा गैरिकसंकाशः क्षिप्रम् एवउपशाम्यति।
1.114 वर्षणस्यआगमो विद्याद् यदि वायुः प्रवायते॥
1.115 सन्ध्यायां धूम्रवर्णायां दृश्येतेन्दुश् च भास्करः।
1.115 विच्छिन्नो ब्रह्मरूपेण वर्षं तत्र विनिर्दिशेद्॥
1.116 नाप्सु मज्जति नअप्य् अग्नौ पूर्ववच् च न दृश्यते।
1.116 अग्निर् उत्पत्स्यते तत्र कोष्ठआगारं दहेत सः॥
1.117 ध्वजअग्रे वायसो यत्र लम्बपक्षो विधावते।
1.117 उदकं संहरेत् क्षिप्रम् अग्नितः सुमहद्भयं॥
1.118 जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयं।
1.118 अनावृष्टिं तदा ब्रूयाद् दुर्भिक्षं च महद्भयं॥
1.119 पुरद्वारे यदाआगच्छेत् स्वयम् आरण्यको मृगः।
1.119 चक्रद्वयेऽपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत्॥
1.120 त्रिशीर्षः पञ्चशीर्षो वा यदा सर्पोऽथ दृश्यते।
1.120 अनावृष्ट्या तदा विद्यात् सर्वशस्यं विनश्यति॥
1.121 कुशूलो यत्र दृश्येत कम्पयन् तु वसुन्धरां।
1.121 कोष्ठआगाराणि नश्येयुर् ये चअन्ये धनसञ्चयाः।
1.122 सर्प; उद्यतशीर्षस् तु युध्यते पुरुषैः सह।
1.122 चक्रद्वयाद् रोगतश् च विद्यात् तत्र महद्भयं॥
1.123 बिल; एकत्र बहवः सर्पाः सुपरिवेष्टिताः।
1.123 शस्त्रमृत्युं तदा विद्यात् क्षत्रियाणां महद्भयं॥
1.124 निश्चरन्त्य् अवधानेन खड्गाः प्रज्वलिता यदा।
1.124 ततस् तं न चिरात् पश्येत् संग्रामं प्रत्युपस्थितं॥
1.125 काकः श्येनश् च गृध्रो वा यस्य नीयेत मूर्धनि।(146)
1.125 षण्मासअभ्यन्तरे राजा म्रियते सपुरोहितः॥
1.126 प्रासादाश् च प्रकम्पन्ते शरणानि गृहाणि च।
1.126 महाबलं च वध्येत राष्ट्रस्य राजपालकः॥
1.127 वज्रउद्धृता दिशः सर्वाः कृष्णपक्षे चतुर्दिशं।
1.127 वर्षेयुः शोणितं यत्र क्षितिपालोऽत्र वध्यते॥
1.128 सूर्यस्यउदयकाले तु महोल्का निपतेद् यदा।
1.128 राजपुत्रसहस्राणां भूमिः पास्याति शोणितं॥
1.129 वृक्षाः सर्पाः प्रकम्पेयुर् मुच्येयुस् त्वचो वा तथा।
1.129 सर्वस्मिन् एव राष्ट्रे तु विद्याच् छत्रुभयं महत्॥
1.130 दिने ह्य् उल्काप्रयुक्तिर् वा ज्वलन्ती यदि दृश्यते।
1.130 रक्तउत्पादं तदा विद्यात् संग्रामं भीमदर्शनं॥
1.131 असिं प्रज्वलितं पश्येत् तोमरं चक्रम् एव च।
1.131 विद्यात् पश्यन्ति शस्त्राणि संग्रामं भीमदर्शनं॥
1.132 दीर्घम् उच्छ्वसते वाऽश्वः अश्रूणि च निपातयेत्।
1.132 पादेन कर्षते शीघ्रं युद्धे राजवधो ध्रुवं॥
1.133 काकश् चेद् गृहम् आरुह्य हा पुत्र; इति वाशति।
1.133 सर्वः प्रणश्यते देशो नगरग्रामकर्वटः॥
1.134 अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।
1.134 विनाशं तस्य देशस्य नियमाच् छीघ्रम् आदिशेत्॥
1.135 आरवन्ति यदा घोरं मेघा वृकमृगास् तथा।
1.135 विनाशं तस्य देशस्य विद्याच् छीघ्रम् उपस्थितं॥
1.136 छिन्नस्रोता भवेन् नद्यश् चिरकारवहा; अपि।
1.136 गृहाः शून्योदकेनअपि शुष्कास् तत्र भयं भवेत्॥
1.137 प्रतिस्रोता यदा नद्यो वहन्त्य् अप्रतिवारिताः।
1.137 नित्योद्विग्ना जनपदा निर्दिशेच् च जनक्षयं॥
1.138 धनूंष्य् आकृZयमाणानि धूमायन्ति ज्वलन्ति च ।
1.138 अन्यद् वाअपि प्रहरणं परेभ्यो जायते भयं॥
1.139 मयूरग्रीवसंकाशः परिवेशो निशाकरे।
1.139 विद्याद् राजसहस्राणां मही पास्यति शोणितं॥
1.140 नराणां प्रमदानां च रतिहर्षो न जायते।
1.140 सर्वत्र शोकचिन्ता वा महत् तत्र भयं भवेत्॥
1.141 निर्ग्रन्था; ऋषयः सन्तो देशान् प्रक्रमेयुर् यतः।
1.141 नदीं भित्वा निकुञ्जान्वा स देशो नश्यतेऽचिरात्॥
1.142 यत्रौषध्यश् च विरसा जलं च परिहीयते।
1.142 विद्याद् देशं तम् उत्सृष्टं देवताऋषिसाधुभिः॥
1.143 मत्स्याः कूर्माश् च सर्पाश् च म्रियन्ते यत्र जाङ्गलाः।
1.143 धनस्कन्धः स्त्रियास् तत्र सपत्नैर् विप्रलोप्स्यते॥
1.144 अपूर्वाः पक्षिणो यत्र स्थले वारिणि; एव वा।
1.144 दृश्येयुः परचक्रेण धनस्कन्धो विलोप्स्यते॥
1.145 महापथो यदा कक्षैः प्रसृतैर् अपथो भवेत्।
1.145 सग्रामकर्वटं राष्ट्रं पुत्रेण सह नश्यते॥
1.146 नानोत्पातचक्रनिर्देशो नामअध्यायः।
1.147 पठ भोस् त्रिशङ्को पुरुषपिन्याध्यायं। अथ किं। कथयतु भगवान् ।
1.148 अथ खलु भोः पुष्करसारिन् पुरुषपिन्याध्यायं व्याखामि तच् छ्रूयतां। कथयतु भगवान्।
1.149 अष्टाविंशतिः पुष्करसारिन् नक्षत्राणि प्रकीर्तितानि। यानि चन्द्रसूर्यनिःसृतान्य् अनुवहन्ति। तत्र सुकुगृष्ट्या अष्टाङ्गुलप्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं (प्.148) दैर्घ्येण ज्ञातव्यं। एकाक्षगृष्टिः शीर्षमूर्ध्नि एकपादतलं भवेत्। चतुर्दश गृष्टयो नक्षत्राणां पदं यत्र संदृश्यते। तद् अन्यथा न भवति। नक्षत्रे यत्र यो जातस् तत्र तत्र संकृश्यते।

2 पुरुषपिन्यः

2.1 कृत्तिकायां हि जातस्य मुखे वै चतुर्अङ्गुलः।
2.1 पिन्यो दक्षिणतो यस्य लोमशः कृष्णलोहितः॥
2.2 भोगवान् यशसा युक्तः पण्डितो ज्वलति श्रिया।
2.2 कृत्तिकास्व् अथ जातस्य भवत्य् एतद् धि लक्षणं॥
2.3 दृश्यते व्रण; एवायं यस्य वै चतुर्अङ्गुलः।
2.3 रोहिण्यां जातकः सोऽपि विद्वान् धर्मरतः सदा॥
2.4 मण्डितो भोगसम्पन्नो ह्रीयुक्तश् चअपि सर्वतः।
2.4 शूरो विजयसम्पन्नो नित्यं शत्रुप्रमर्दकः॥
2.5 ग्रीवायाम् अर्धगृष्ट्या तु दाहो यस्य प्रदृश्यते।
2.5 मृगशीर्षे ह्य् असौ जातः शूरो भोगसमर्पितः॥
2.6 अर्धद्वितीयगृष्ट्या तु पिन्यो वामे हि यस्य तु।
2.6 आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश् च सः॥
2.7 वामे कक्षे व्रणो यस्य कृष्णश् चएव पुनर्वसौ।
2.7 धनधान्यसमृद्धो हि जायते स्वल्पमेधसः॥
2.8 तथाएव पुष्ये जातोऽसौ दृश्यते वरलक्षणः।
2.8 चक्रमध्ये च हस्ते च सूर्यश् चन्द्रो विराजते॥
2.9 अर्धप्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।
2.9 परिमण्डलश् च कायेन जितक्लेशोऽपि नायकः॥
2.10 हृदये यस्य दाहः स्याद् श्लेषायां कलिप्रियः।
2.10 दुःशीलो दुःखसंवासो मैथुनाभिर् अतश् च सः॥
2.11 अध; उरसि ष्ठे वा यस्य व्रणः प्रदृश्यते।
2.11 मघायां धनवान् जातो महाआत्म धार्मिको नरः॥
2.12 नाभ्यां दक्षिणवामाभ्यां व्रणो यस्य प्रदृश्यते।
2.12 पूर्वफाल्गुनीजातोऽसौ मत्सरी चअल्पजीवितः॥
2.13 चतुर्अङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यते।
2.13 उत्तरफाल्गुनीजातो भोगशीलः श्रुतोद्यतः॥
2.14 श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यते।
2.14 चौरः शठश् च मायावी मन्दपुण्योऽल्पमेधसः॥
2.15 व्यंजने यस्य पिन्यस् तु दृश्यते नियमेनहि।
2.15 चित्राजातः स चेद् रोगी नृत्यगीतरतस् तथा॥
2.16 व्यञ्जनेऽपि च; ऊर्ध्वे वा पीतः पिन्यःप्रदृश्यते।
2.16 जातः स्वात्याम् असौ लुब्धो गुणद्विष्टो ह्य् अपण्डितः॥
2.17 कुगृष्ट्या यस्य; ऊरूभ्यां पिन्यो लोहित; एव हि।
2.17 आकीर्णो नरनारीभिर् विशाखायां भटोऽग्रणीः॥
2.18 विद्वान् शूरो जितमित्रो नित्यं सौख्यपरायणः।
2.18 श्रिया धृत्या च सम्पन्नोऽच्युतः स्वरुपपद्यते॥
2.19 द्वितीयगृष्ट्याम् ऊरुभ्याम् अङ्गे यस्य प्रदृश्यते।
2.19 शीलवान् अनुराधायां धर्मभोगसमन्वितः॥
2.20 अधो यस्यइह चऊरुभ्यां पिन्यो ज्येष्ठे स जायते।
2.20 अल्पअयुर् अप्रियो दुःखी दुःशीलः कृपणस् तथा॥

2.21 जानुभ्याम् ऊर्ध्वतः सूक्ष्मो व्रणो यस्यइह दृश्यते।
मूलेन भाग्यवान् जातः स्वगृहं नाशयेल् लघु॥
2.22 पूर्वाषाढासु जातस्य पिन्यः स्याज् जानुमण्डले।
2.22 दायको धर्म; आसङ्ग्यच्युतः स्वर्गपरायणः॥
2.23 उत्तरायाम् आषाढायां जातस्य तिलकस् त्रिके।
2.23 यदि दृश्येत् स मेधावी भोगवान् स्याज् जनप्रियः॥
2.24 द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।
2.24 सत्यप्रियस् तथारोगोऽच्युतः स्वर्गं च गच्छति॥
2.25 धनिष्ठायां च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
2.25 क्रोधनो मन्दरागश् च प्राज्ञो भोगविवर्जितः॥
2.26 द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
2.26 मूर्खः शतभिषायां तु म्रियते ह्य् अदकेन सः॥
2.27 अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।
2.27 परोपतापको मूर्खो दरिद्रश् चौर; इत्य् अपि॥
2.28 कुगुष्ट्या यस्य पिन्यः स्याज् जातो भाद्रपदउत्तरे।
2.28 दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥
2.29 उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यते।
2.29 रेवत्यां जायते नीचो नापितः स हवत्य् अपि॥
2.30 अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यते।
2.30 अरोगो बलवान् नित्यम् अश्विन्यां जात; एव सः॥
2.31 अथ पाणितले पिन्यो भरण्याम् अक्षयः स्मृतः।
2.31 वध्यघातश् च दुःशीलः स्यान् नरकपरायणः॥
2.32 नक्षत्राणां पदं ह्य् एतद् येन चर्या प्रजायते।
2.32 एतद् धि लोकप्रज्ञानं लोको यत्र समाश्रितः॥

इति पिन्याध्यायाः॥

2.33 अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नामअध्यायं व्याखास्यामि। तच् छ्रूयतां। कथयतु भगवान् त्रिसङ्कुः।

3.1 अतः ऊर्ध्वं प्रवक्ष्यामि सर्वस्थानगतं पुनः।
3.1 स्त्रीणां च पुरुषाणां च पिटकं सर्वकर्मकं॥
3.2 लाभअलाभं सुखं दुःखं जीवितं मरणं तथा।
3.2 प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधतां॥
3.3 तत्राभिघातदग्धा वा तिलास् तद् रूपका; अपि।
3.3 विस्फोटवर्नभेदाश् च पिटकाभिहिताः स्मृताः॥
3.4 श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत्।
3.4 क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥
3.5 शूद्राणाम् असितः श्रेष्ठो विवर्णो म्लेच्छजातिषु।
3.5 यदा सवर्णपिटको मूर्ध्नि राजा महान् स्मृतः।
3.6 शीर्षे तु धनधान्याभ्यां कान्तये सुभगाय च।
3.6 उपघातं भ्रूवोर् विद्यात् स्त्रीलाभो भ्रूवसङ्गमे॥
3.7 अक्षिस्थाने तु पिटकःकरोति प्रियदर्शनं।
3.7 अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवं॥
3.8 अश्रूपातः ध्रुवं शोकः श्रवणे गोषु नाशकः।
3.8 कर्णपीठे विभूषाय नासावंशे तु जातये॥
3.9 नासागण्डे पुत्रलाभं वस्त्रलाभं ध्रुवं वदेत्।
3.9 नासअग्रे जातेनाप्नोति गन्धभोगान् अभीप्सितान्॥
3.10 उत्तरोष्ठे तथाधरे चअन्नपानं शुभअशुभं।
3.10 चिबुके हनुदेशे च धनं गावः सतां श्रियः॥
3.11 गले तु दानम् आप्नोति पानम् आभरणानि च।
3.11 शिरःसन्धौ च ग्रीवायां शिरश्छेदनम् आदिशेत्॥
3.12 जातोऽयं शिरसो मूले हनुनि च धनक्षयः।
3.12 भैक्षचर्या भवेत् सन्धौ हृदये प्रियसङ्गमः॥
3.13 ष्ठे तु दुःखशय्यायै; अन्नपानक्षयाय च।
3.13 पार्श्वे तु सुखशय्यायै स्तने तु सुतजन्यता॥
3.14 जातेन शिवम् आप्नोति न चअप्रियसमागमः।
3.14 बाह्वोः शत्रुविनाशाय युक्तं स्त्रीलाभ; एव च॥
3.15 ददात्य् आभरणं जातः प्रबाह्वोः कुर्परे क्षुधा।
3.15 मणिबन्धे नियमनमंसाभ्यां हर्ष; एव च॥
3.16 सौभगं धनलाभंच जातः पाणौ ददाति च।
3.16 पुष्पितो ह्य् एकदेशे तु दशनेषु नखेषु च॥
3.17 जातेन हृदि जानीयाद् भ्रातृपुत्रसमागमं।
3.17 जठरे सोमदानाय नाभ्यां स्त्रीलाभम् आदिशेत्॥
3.18 जघने व्यसनं विद्यान् नार्य दौःशील्यम् एव च।
3.18 पुत्रोत्पत्तिस् तु वृषणे लिङ्गे भार्या तु शोभना॥
3.19 ष्ठान्ते सुखभागित्वं स्फिचि चअपि धनक्षयः।
3.19 ऊरुजाताश् च पिटका धनसौभाग्यदायकाः॥
3.20 जानौ शत्रुभयं विद्यात् तथाएव च धनक्षयं।
3.20 जानुसंधौ विजानीयान् मेढ्रके ह्य् अथ जातकैः।
3.20 विजयं ज्ञानलाभं च पुत्रजन्म विनिर्दिशेत्॥
3.21 स्त्रीलाभं वक्षसि चएव भवेद् अन्यो निरर्थकः।
3.21 जङ्घायां परसेवा तु परदेशात् तु भुज्यते॥
3.22 मणिबन्धे तु पिटको बन्धनं निर्दिशेद् ध्रुवं।(प्.153)
3.22 परिवाधं स लभते बन्धनं च न संशयः।
3.22 पार्श्वे गुल्फे च जानीयाच् छस्त्रेण मरणं ध्रुवं॥
3.23 अङ्गुलीषु ध्रुवं शोको व्याधिश् चअङ्गुलिपर्वसु।
3.23 प्रवासं प्रवसेन् नित्यं तथाएवउत्तरपादके॥
3.24 यस्य पादतले जातस् तथा हस्ततलेऽपि च।
3.24 धनं धान्यं सुता गावः स्त्रियो यानानि चअप्नुयात्॥
3.25 स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलं।
3.25 स्थानस्थे विपुलं दद्यात् फलं नृणां शुभोदयं॥
3.26 विवर्णो विपरीतश् च फलं सर्वं प्रयच्छति।
3.26 पुंसां मध्ये ये स्निग्धाश् च देशे दक्षिणतश् च ये।
3.26 तथा चअभ्यन्तरे चएव स्थाने तु प्रतिपूजिताः॥
3.27 स्त्रीणां मृदुषु देशेषु वक्त्रान् तेषु च पर्वतः।
3.27 तत्त्वं विज्ञाय पिन्यानं स्थानं वर्णं च जन्म च॥
3.28 स्थानअस्थानं च मतिमान् विकारं गतिम् एव च।
3.28 आदिशेत् तु नरः पश्चाद् यथएवं समुदाहृतं॥
3.29 वामभागे तु नारीणां विज्ञेएयाः पिटकाः शुभाः।
3.29 दक्षिणे तु मनुष्याणां भवन्ति ह्य् अर्थसाधकाः॥
3.30 विपरीतास् तु पिटका मोघास् तु बहवः स्मृताः।
3.30 यथोक्तानं च सन्धिस्थाः सर्वे विफलदाः स्मृताः॥
3.31 सिद्धाः ध्रुवा व्रणा भिद्यास् तथा सद्यःकृताश् च ये।
3.31 धर्मकीलसमाश् चएव सर्वे ते पिटकाः स्मृताः॥
3.32 गुणदोषाश् च सर्वेषां तथाअप्य्अन्ये प्रकीर्त्तिताः।
3.32 इत्य् आह भगवांस् त्रिशङ्कुः शिष्येभ्यो नित्यदर्शनं॥
3.33 न नखेन न शस्त्रेण नआयसेन कथंचन।(प्.154)
3.33 काञ्चनेन सुवर्णेन दहेद् विप्रांश् च भोजयेद्॥
3.34 अयं भोः पुष्करसारिन् पिटकाध्यायनामअध्यायः।

3.35 अथ खलु भोः पुष्करसारिन् स्वप्नअध्यायं व्याख्यास्यामि।

तच् छ्रूयतां। अथ किं। कथयतु भगवान्।

3 पिटकाध्यायः

4 स्वप्नअध्यायः

4.1 शुभअशुभं च स्वप्नानां यत् फलं समुदाहृतं।
4.1 देवताब्राह्मणौ गावौ बह्निं प्रज्वलितं तथा।
4.1 यस् तु पश्यति स्वप्नअन्ते कुटुम्बं तस्य वर्धते॥
4.2 यस् तु पश्यति स्वप्नअन्ते राजान्नं कुञ्जरं हयं।
4.2 सुवर्णं वृषभं चएव कुटुम्बं तस्य वर्धते।
4.3 सारसांश् च शुकान् हंसान् क्रौञ्चान् श्वेतांश् च पक्षिणः।
4.3 यस् तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धते।
4.4 समृद्धानि च शस्यानि नवानि सुरभीणि च।
4.4 पद्मिनीं पुष्पितां चअपि पुर्णकुम्भांस् तथाएव च॥
4.5 प्रसन्नम् उदकं चएव पुष्पाणि विविधानि च।
4.5 यस् तु पश्यति स्वप्नअन्ते कुटुम्बं तस्य वर्धते॥
4.6 पाणौ पादेऽथ वा जानौ शस्तेर्ण धनुषाअपि वा।
4.6 प्रहारा यस्य दीयन्ते तस्यअम्बरोऽभिवर्धते॥
4.7 ताराचन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस् तथा।
4.7 यस् तु पश्यति स्वप्नअन्ते कुटुम्बं तस्य वर्धते॥
4.8 अश्वष्ठं गजस्कन्धं यानानि शयनानि च।
4.8 योऽभिरोहति स्वप्नअन्ते महद्ऐश्वर्यम् आप्नुयात्॥
4.9 पतितश् चअरुहेद् भूयस् तत्रस्थश् च विबुध्यते।(प्.155)
4.9 ऐश्वर्यधनलाभाय नष्टलाभाय निर्दिशेत्॥
4.10 गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति।
4.10 तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥

4.11 प्रपातं पर्वतं चएव योऽभिरोहति मानवः।
4.11 तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
4.12 आसने शयने यने शरीरेऽथ गृहे क्षयः।
4.12 येषाम् आरोहणं शस्तं तेषाम् आरोहणात् क्षयः।
4.12 येषाम् आरोहणाद् दोषास् तेषाम् आरोहणाद् गुणाः॥
4.13 त्रिसाहस्रं भवेत् कण्ठे दश शीर्षस्य छेदने।
4.13 राज्यं शतसहस्रं वा लभते शीर्षभक्षणे॥
4.14 शुष्कां नदीं ह्रदं वाअपि शून्यआगारप्रवेशनं।
4.14 शुष्कउदपानं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयं॥
4.15 शृगालं मानुषं नग्नं गोधावृश्चिकसूकरं।
4.15 अजां वा पश्यतः स्वप्ने व्याधिक्लेशं विनिर्दिशेत्॥
4.16 काकं श्येनम् उलूकं वा गृध्रं वाअप्य् अथ वर्तकं।
4.16 मयूरं पश्यतः स्वप्ने तस्य व्यसनम् आदिशेत्॥
4.17 नग्नं पश्यति ह्य् आत्मानं पांशुना ध्वस्तम् एव वा।
4.17 कर्दमेनउपलिप्तं वा व्याधिक्लेशम् अवाप्नुयात्॥
4.18 कुण्ड्थाः स्त्रियोऽथ संलोक्य चौरान् द्यूतकरांस् तथा।
4.18 कुशीलांश् चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयं॥
4.19 वमिमूत्रपुरीषाणि विरेकं वसानो जनः।
4.19 उद्वर्तनं वा कुर्वाणः स्वप्नअन्ते रोगम् अर्च्छति॥
4.20 ध्वजं छत्रं वितानं वा स्वप्नअन्ते यस्य धार्यते।
4.20 तत्रस्थोऽपि विबुध्येत महद्ऐश्वर्यम् आदिशेत्॥
4.21अ अन्त्रैस् तु यस्य नगरं समन्तात् परिवार्यते।(प्.156)
4.21 ग्रसते चन्द्रसूर्यौ तु महद्ऐश्वर्यम् आदिशेत्॥
4.22 मनुष्यं भूमिभागं वा स्वप्नअन्ते ग्रसते यदि।
4.22 ह्रदश् च वा समुद्रोऽयं महद्ऐश्वर्यम् आप्नुयात्॥
4.23 धनुः प्रहरणं शस्त्रं रक्तम् आभरणं ध्वजं।
4.23 कवचं वा लभेत् स्वप्ने धनलाभं विनिर्दिशेत्॥
4.24 प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयं।
4.24 तोरणं नगरं द्वारं चन्द्रआदित्यौ सतारकौ।
4.24 स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनम् आदिशेत्॥
4.25 उदयं चन्द्रसूर्याणं स्वप्ने दृष्टं प्रशस्यते।
4.25 तयोर् अस्तं गतं दृष्ट्वा राज्ञो व्यसनम् आदिशेत्॥
4.26 श्मशानवृक्षयूपं वा नरो यद्य् अभिरोहति।
4.26 वल्मीकं भस्मराशिं वा स्वप्ने व्यसनम् आदिशेत्॥
4.27 कृष्णवस्त्रा तु या नारी काली कामयते नरं।
4.27 करवीरस्रजा स्वप्ने तदन्तं तस्य जीवितं॥
4.28 तमसि प्रविशेत् स्वप्ने शम्भोर् वा चअमरं तथा।
4.28 वृक्षाद् वा प्रपतेत् स्वप्ने मरणं तस्य निर्दिशेत्॥
4.29 वृक्षां काष्ठं तृणं वाअपि विरुचं यस् तु पश्यति।
4.29 स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत्॥
4.30 देवो वा वर्षते यत्र यत्र चएवअशनिः पतेत्।
4.30 भूमिर् वा कम्पते यत्र स्वप्ने व्यसनम् आदिशेत्॥
4.31 चन्द्रआदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।
4.31 पतितौ पतमानौ वा चक्षुस् तस्य विनश्यति॥
4.32 काषायप्रावृतां मुण्डां नारीं मलिनवाससं।
4.32 नीलरक्तअम्बरां दृष्ट्वा; आयासम् अधिगच्छति॥
4.33 त्रपुसीसे; अयस्ताम्रलोहरजतम् अञ्जनं।
4.33 लब्ध्वा तु पुरुषः स्वप्ने धननाशं समर्च्छति॥
4.34 गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यते।
4.34 वादित्रवाद्यमानैर् वा; आयासं तत्र निर्दिशेत्॥
4.35 कर्दमे यदि वा पङ्के सिकतास्ववसीदति।
4.35 तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥
4.36 अष्टापदैर् अथान्यैर् वा क्रीडेज् जयपराजये।
4.36 क्रीडेद् अकुशलाङ्कैर् वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥
4.37 आसने शयने यने वास्त्रे साभरणे गृहे।
4.37 नष्टे भ्रष्टे विशीर्णे वा; आयासम् अधिगच्छति॥
4.38 सुरामैरेयपानानि शार्करम् आसवं मधु।
4.38 पिवते पुरुषः स्वप्ने; आयासम् अधिगच्छति॥
4.39 प्रसन्नेऽम्भसि चआदर्शे छायां पश्यति नात्मनः।
4.39 उत्पद्यते ध्रुवं तस्य स्कन्धन्यासो न संशयः॥
4.40 अभीक्ष्णं वर्षते देवो जलं पांशुम् अथअपि वा।
4.40 अङ्गारं वाअपि वर्षेत मरणं तत्र निर्दिशेत्॥
4.41 जनघातं विजानीयात् तत्र देशे महाभयं।
4.41 रज्जु जालेन वा स्वप्ने परचक्राद् विनिर्दिशेत्॥
4.42 उदकेन समन्ताद् वै नगरं परिवार्यते।
4.42 जालेनान्येन वा स्वप्ने परचक्रउद्गमो भवेत्॥
4.43 तैलकर्दमलिप्तअङ्गो रक्तकण्ठगुणो नरः।
4.43 गायते हसते चएव प्रहारं तस्य निर्दिशेत्॥
4.44 यं कृष्णवसना नारी; आर्द्रा वा मलिनाथ वा।
4.44 परिष्वजेत् नरं स्वप्ने बन्धनं तस्य निर्दिशेत्॥
4.45 कृष्णसर्पो यदि स्वप्ने ह्य् अभिरोहति यं नरं।
4.45 गात्राणि वेष्टयेद् वाअपि बन्धनं तस्य निर्दिशेत्॥
4.46 लताभिः स्थाणुवृन्दैर् वा यन्त्रै वा परिवार्यते।
4.46 स्वप्नअन्ते पुरुषो यस् तु बन्धनं तस्य निर्दिशेत्॥
4.47 यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।
4.47 यस्य छिद्येरन् स्वप्नअन्ते बन्धनात् स विमुच्यते॥
4.48 विषमाणि च निम्नानि पर्वतान् नगराणि च।
4.48 यस् तु पश्यति स्वप्नअन्ते क्षिप्रं क्लेशाद् विमुच्यते॥
4.49 पूतना वा पिशाचा वा दुश्चला मलिनाअथ वा।
4.49 एवंरूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥
4.50 सुस्नातं च सुवेशं च सुगन्धं शुक्लवाससं।
4.50 पुरुषं वाअथ नारीं वा दृष्ट्वा स्वप्ने महत्सुखं॥

4.51 तृणं वृक्षम अथो काष्ठं विरूढं यत्र दृश्यते।
गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्यक्षयो भवेत्॥
4.52 भद्रासने वाश्भ्यासीनो शयने वा सुसंस्कृते।
4.52 नरो वा लभते नारीं नारी वा लभते नरं॥
4.53 नरः शुक्लम् अथो वस्त्रं शुक्लगन्धअनुलेपितं।
4.53 स्वप्नअन्ते यस् तु पश्येत स्त्रीलाभं तस्य निर्दिशेत्॥
4.54 यस् तु ह्य् अन्नानि पश्येत भूषणं निगडैस् तथा।
4.54 नरस् तु लभते भार्यां नारी वा लभते पतिं॥
4.55 मेखलां कर्णिकां मालां स्त्रीणाम् आभरणानि च।
4.55 लब्ध्वा नरो लभेद् भार्यां नारी च लभते पतिं॥
4.56 कुञ्जरं वृषभं नागं चन्द्रआदित्यौ सतारकौ।
4.56 अभिवदेत या नारी पतिं सा लभतेऽचिरात्॥
4.57 एषाम् अन्यतमः कुषौ प्रविशेच् च यदि स्त्रियाः।
4.57 सा काले सर्वपूर्णअङ्गं श्रीमत्पुत्रं प्रसूयते॥
4.58 फलानि च समग्राणि वनानि हरितानि च॥
4.58 स्वप्नअन्ते लभते नारी श्रीमत्पुत्रं प्रसूयते॥
4.59 उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलं।(प्.159)
4.59 लब्धा नारी तु स्वप्नअन्ते श्रीमत्पुत्रं प्रसूयते॥
4.60 उपायनसूत्रयोर् अन्तः सज्जं तत्र तु पिण्डकं।
4.60 स्वप्ने या लभते नारी साअपि पुत्रं प्रसूयते।
4.60 यमं तु भाजनं चअपि यमं तु सा प्रसूयते॥
4.61 म्लायन्तीम् अथ ग्रीष्मान् ते तरुणीम् आत्मिकाम् अपि।
4.61 शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्षमरणं भवेत्॥
4.62 बाहवो यस्य वर्धन्ते चक्षुर् अङ्गुलयोऽपि वा।
4.62 ज्ञातयो तस्य वर्धन्ते शत्रुणां मरणं भवेत्॥
4.63 बध्यन्ते बाहवो यस्य चक्षुश् च व्याकुलं भवेत्।
4.63 बाहुर् वा प्रपतेद् यस्य स्वपक्षमरनं भवेत्॥
4.64 देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।
4.64 स्वप्ने प्रयच्छते यस्याः पुत्रस् तस्याः प्रजायते॥
4.65 अपकृष्टो रुदन्यो वा नग्नोऽथ मलिनः कृशः।
4.65 क्रोधं व (लचुन) विनिर्दिशेत्॥
4.66 चर्म यन्त्रं गणितं वा कीलं वाअथ किलाटकं।
4.66 स्वप्ने लब्ध्वा च प्राप्नु[जानी]याद् ध्रुवं वस्त्रआगमो भवेत्॥
4.67 अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः।
4.67 स्वप्ने यथा ते जल्पन्ति स तथाअर्थो भविष्यति॥

4.68 (लचुन) पूर्वविचिन्तितं।
यच् चअनुस्मरते दृष्ट्वा यच् चअपि बहु पश्यति॥
4.69 अभ्युत्थितो यथा मार्गे स्वप्नअन्ते प्रतिबुध्यते।
4.69 विषमं वा तथाअध्वानं छिद्रं वा प्रतिपद्यते॥
4.70 अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यते।(प्.160)
4.70 गृहाणां करणं शस्तं भेदनं न प्रशस्यते॥
4.71 निर्मलं गगनं शस्तं समेघं न प्रशस्यते॥
4.71 प्रसन्नम् उदकं शस्तं कलुषं न प्रशस्यते।
4.72 अध्वानं गमनं शस्तं न क्वचित् संनिवर्तनं।
4.72 सुवर्णदर्शनं शस्तं धारणं न प्रशस्यते॥
4.73 मांसस्य दर्शनं साधु भक्षणं न प्रशस्यते।
4.73 मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यते॥
4.74 थिवी हरिता शस्ता विवर्णा न प्रशस्यते।
4.74 यानस्यआरोहणं शस्तं पतनं न प्रशस्यते॥
4.75 स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यते।
4.75 प्रच्छन्नदर्शनं शस्तं नग्नं नैव प्रशस्यते॥
4.76 माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यते।
4.76 गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यते॥
4.77 मृदुः प्रशस्यते वातो नअतिवातः प्रशस्यते।
4.77 व्याधितो मलिनः शस्तो भूषितो न प्रशस्यते।
4.77 पर्वतआरोहणं शस्तं न तु तत्रअवतारणं॥
4.78 धूम्रा घना दुन्दुभिशङ्खशब्दो वातोऽभ्रवृष्टिश् च तथा समन्तात्।
4.78 सर्वस्थिराणां च चलश् च यः स्याद् ये चअन्तरे दोषकृता विकाराः॥
4.79 पूर्वेषु रूपेषु यथावद् इष्टा राजर्षयो देवगणाश् च सर्वे।
4.79 यद् ब्राह्मणगात्रविकर्तनं च; एतानि सर्वाण्य् अपि शोभनानि॥
4.80 यत् पूर्वरूपेषु भवेत् प्रशस्तं दुःस्वप्नम् एतानि शमं नयन्ति।
4.80 गावः प्रदानं द्विजपूजनं च दुःस्वप्नम् एतेन परिजितं स्यात्॥
4.81 देवं च यं भक्तिगतो मनुष्यस् तं तु परांश् चअर्चयितुं यतेत।(प्.161)
4.81 स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सरअन्तेऽस्य विपाकम् आहुः॥
4.82 षण्मासिकं यच् च भवेद् द्वितीये षट्पाक्षिकं यत् तु भवेत् तृतीये।
4.82 अध्यर्धमासे तरम् एव यत् स्यात् फलेच् चतुर्थे रजनीप्रभाते॥
4.83 द्विजोत्तमे वा तिलपात्रदानं शान्तिक्रियाः स्वस्त्ययनप्रयोगाः।
4.83 पूजा गुरूणां परिमिष्टम् अन्नं दुःस्वप्नम् एतानि विनाशयन्ति॥
4.84 अयं भोः पुष्करसारिन् स्वप्नअध्यायनामअध्यायः। अथ खलु भोः पुष्करसारिन्न् अपरम् अपि स्वप्नअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।

5 अपरः स्वप्नअध्यायः

5.1 शुभअशुभानां स्वप्नानां यत् फलं समुदाहृतं।
5.1 निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्वतः॥
5.2 जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।
5.2 न तु भयं भवेत् तस्य जानीयाद् एव बुद्धिमान्॥
5.3 यस्य तु यो भवेच् छत्रुर् यस्य विधेयम् इच्छति।
5.3 स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर् भविष्यति॥
5.4 रजन्यां पुरिमे यामे योऽद्राक्षीत् सुखदुःखदं।
5.4 अध्वानं चिरकालेन तथा ह्य् एष निवर्तते॥
5.5 मध्यमे भवते नैव क्षिप्रं भवति पश्चिमे।
5.5 वैवार्गं त्वरितं दृष्ट्वा स्त्रीलाभम् अभिनिर्दिशेत्॥
5.6 दृष्ट्वा जलचरान् मत्स्यान् एवं जानीत बुद्धिमान्।
5.6 यत् किञ्चिद् आरभिष्यामि क्षिप्रम् एव भविष्यति॥
5.7 चम्पायां धृषणं हस्ते धृषेत् स्वप्नअन्तरेषु वा।
5.7 प्रतिबुद्धो विजानीयाद् वर्णम् एवं भविष्यति॥
5.8 सर्वाणि खलु पानानि मधुराणि सुखानि च।
5.8 यस् तु पिबति स्वप्नअन्ते स च लाभैः प्रयुज्यते॥
5.9 श्वशृगालैर् भक्ष्यतेऽत्र स्वप्ने संपरिवार्यते।(प्.162)
5.9 प्रतिबुद्धस् तु जानीयात् शत्रुर् एव प्रमूर्च्छति॥
5.10 उपरि काका गृध्राश् च धावन्त्य् उपरि यान्ति च।
5.10 प्रतिबद्धो विजानीयाच् छत्रुर् मा वधयिष्यति॥
5.11 यस्य परगृहश्वानो द्वारे मूत्रं प्रकुर्वते।
5.11 प्रतिबुद्धो विजानीयाद् भार्या मे जारम् इच्छति॥
5.12 एकश् च धरणौ पादो द्वितीयः शिरसि स्थितः।
5.12 प्रतिबुद्धो विजानीयाद् राज्यलाभो भविष्यति॥
5.13 समुद्रं यदि पश्येद् वा पातुम् इच्छति तज्जलं।
5.13 प्रतिबुद्धो विजानीयाद् राज्यलाभो भविष्यति॥
5.14 वृक्षं पर्वतम् आरुह्य नागं च तुरगं तथा।
5.14 प्रतिबुद्धो विजानीयाद् राज्यलाभो भविष्यति॥
5.15 यस् तु स्वप्नअन्तरे पश्येत् पितॄन् यान् इह चअन्यथा।
5.15 तथा माता पिता चएव तस्य जीवन्ति ते चिरं॥
5.16 यस् तु स्वप्नअन्तरे पश्येत् केशश्मश्रूविकर्तितं।
5.16 प्रतिबुद्धो विजानीयाद् अर्थसिद्धिर् भविष्यति॥
5.17 आननं चउदके दृष्ट्वा मध्येऽग्नौ च विधावितं।
5.17 प्रतिबुद्धो विजानीयाद् कुलवृद्धिर् भविष्यति॥
5.18 धावनं लङ्घनं चएव ग्रामाणां परिवर्तनं।
5.18 प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
5.19 चौराणाम् अपि सामग्रीं स्वप्नअन्ते यस् तु पश्यति।
5.19 प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
5.20 कृष्णसर्पगृहीतं तु स्वप्नअन्ते यस् तु पश्यति।
5.20 प्रतिबुद्धो विजानीयाच् छत्रुपीडा भविष्यति॥
5.21 कटकान् कर्णिकाश् चएव हंसकेयूरकुण्डलं।(प्.163)
5.21 यस् तु चआभरणं पश्येद् बन्धुवर्गो भविष्यति॥
5.22 कुड्ये च गृहप्राकारे धावतीह परस्परं।
5.22 नाविके धनसंयोगे; अंगते क्षणयं खजः॥
5.23 यस् तु स्वप्नअन्तरे पश्येच् चआत्मानम् अग्नितापितं।
5.23 प्रतिबुद्धो विजानीयाज् ज्वरं क्षिप्रं भविष्यति॥
5.24 राजानं कुपितं दृष्ट्वा; आत्मानं मलिनीकृतं।
5.24 प्रतिबुद्धो विजानीयात् कुटुम्बं तस्य नश्यति॥
5.25 काष्ठभारं तृणं चएव बहुभारम् अभीक्ष्णशः।
5.25 आत्मनः शिरसो दृष्ट्वा गुरुव्याधिर् भविष्यति॥
5.26 यस्तु बानरयुक्तेन गच्छते पुर् इमां दिशं।
5.26 प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ह्य् अपश्चिमा॥
5.27 चन्द्रसूर्यौ च संगृह्य पाणिना परिमार्जति॥
5.27 प्रतिबुद्धो विजानीयाद् आर्यधर्मागमो हि सः॥
5.28 सुमनां वार्षिकं [कीं] चएव कुमुदान्य् उत्पलानि च।
5.28 यस्तु पश्यति स्वप्नअन्ते दक्षिणीयसमागमः॥
5.29 ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकं।
5.29 प्रतिबुद्धो विजानीयाद् यक्षा मे ह्य् अनुकम्पकाः॥
5.30 रुधिरेण विल्लिप्तस्य स्नात्वा चैवआत्मलोहितैः।
5.30 प्रतिबुद्धो विजानीयाद् ऐश्वर्याधिसमागमः॥
5.31 मुद्गमाषयवांश् चएव धान्यं ज्वलनदर्शनं।
5.31 यस् तु स्वप्नअन्तरे पश्येत् सुभिक्षं तत्र निर्दिशेत्॥
5.32 सुवर्णं च तथा रूप्यं मुक्ताहारं तथाइव च।
5.32 यस् तु स्वप्नअन्तरे पश्यन् निधिं तत्र विनिर्दिशेत्॥
5.33 बन्धनं बहु दृष्ट्वा तु छेदनं कुट्टनं तथा।
5.33 प्रतिबुद्धो विजानीयाद् अर्थसिद्धिर् भविष्यति॥
5.34 अयं भोः पुष्करसारिन्न् अपरः स्वप्नअध्यायः।
5.35 अथ खलु भोः पुष्करसारिन् मासपरीक्षानामअध्यायं व्याख्यास्यामि। तच् छूयतां। कथयतु भगवांस् त्रिशङ्कुः॥

6 मासपरीक्षा

6.1 यदि फाल्गुने मासे निर्घोष उपरि भवेत् मनुष्याणां मरणं चोदयति। नवचन्द्रो लोहितआभासो दृश्यते। सर्वसस्यअनुत्पत्तिं चोदयति। यदि देवो गर्जति प्रथमं महासस्यानि भवन्ति। पश्चिमसस्यं न भवेत्। कलहं चोदयति।
6.2 यदि चैत्रे मासे देवो गर्जति तदा सर्वसस्यसमुत्पत्तिं चोदयति। यदि चन्द्रग्रहो भवति महान् सन्निपातो भवति। शून्यानि ग्रामक्षेत्राणि भविष्यन्ति। यदि नीहारं भूमिं छादयति सुभिक्षं चोदयति।
6.3 यदि वैशाखे मासे देवो गर्जति सुभिक्षं चोदयति। यदि पूर्वे पश्चिमे शङ्खे चन्द्रग्रहो भवति क्षेमं चोदयति। यदि चउल्कापातो भवति यस्मिंश् च जनपदे निपतति तत्र देशे प्रधानपुरुषस्य विनाशो भवति। यदि भूमिचालो भवति सुभिक्षं चोदयति।
6.4 यदि जेय्ष्ठे मासे देवो गर्जति रोगं चोदयति। यदि सूर्यग्रहो भवति मनुष्याणां विनाशं चोदयति। पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किञ्चिन् निमित्तं लक्ष्यते तदा क्षेमं चोदयति। यदि मध्यरात्रौ चन्द्रग्रहो भवति मनुष्याणाम् अन्योन्यघातं चोदयति। यदि चउपरि निर्घोषो भवति अध्यक्षपुरुषस्य पीडां चोदयति। परचक्रागमं चेति।
6.5 आषाढे मासे यदि सूर्यग्रहो रुचिरआभासो भवति सुभिक्षं चोदयति। यदि चन्द्रग्रहो भवति रोगं चोदयति। यदि विद्युन् निश्चरति कल्पाणं चोदयति। यदि नीहारं भूमिं छादयति।
6.6 श्रावणमासे यदि सूर्यग्रहो भवति राज्यं परिवर्तते। यदि चन्द्रग्रहो भवति प्रथमे मासे दुर्भिक्षं चोदयति। शरभैः शोभनशस्यनाशो भविष्यति। यदि (प्.165) तारका यत्र देशे पतन्ति तत्र युद्धं चोदयति। यदि चअतिशयं भूमिचालो भवति रोगं चोदयति। यदि निर्घोषो भवति तत्र गृहे यो गृहस्वामी भवति तस्य विनाशं चोदयति। अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यं। आवाहो विवाहो न कर्तव्यः। परिभूतो भवति।
6.7 यद्य् अश्वयुजे मासे देवो गर्जति मनुष्याणां विनाशनं चोदयति। यदि सूर्यउपरागो भवति महापुरुषविनाशं चोदयति। यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते सुभिक्षं चोदयति। यदि भूमिचालो भवति आकुलं चोदयति। परराजा देशं हनिष्यति। तत्र च मनुष्या अन्योन्यं वधयिष्यन्तिइति चोदयति।
6.8 यदि कार्त्तिके मासे देवो वर्षति महद्आकुलं चोदयति। प्राणकाश् च धान्यं खादिष्यन्ति। यद्य् एकअन्तरूपं वातो वाति तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। महाआत्मनः पुरुषस्य विनाशं चोदयति। यदि पूर्वे यामे उत्पातो भवति महावर्षं भवति। महापुरुषस्य च मरणं भवति। यदि निर्घोषो भवति रोगं चोदयति।
6.9 यदि मार्गशीर्षे मासि देवो गर्जति शस्यविनाशो भवति। अन्यश् च तत्र स्वामी भवति। यदि चआकाशे निर्घोषो भवति यत् पूर्वभागीया मनुष्यास् तेषाम् आमयं चोदयति। यदि भूमिचालो भवति यस् तत्र जनपदे प्रधानपुरुषो स वधान् मोक्ष्यति।
6.10 यदि पौषे मासे देवो गर्जति प्रथमे यामे जनपदनाशो भवति। द्वितीये महाआत्मनः पुरुषस्य बन्धनं चोदयति। प्रथमे यामे च यदि चन्द्रउपरागो भवति लोहितवर्णश् च दृश्यते उदकआगमं चोदयति। महाआत्ममनुष्यं चोदयति। यदि सूर्यग्रहो भवति शुद्धपुरुषणां रणं। यदि तारकाः पतन्त्यो विदृश्यन्ते तत्र जनपदे आकुलं चोदयति। यत्य् आकाशे निर्घोषो भवति मनुष्याणां मरणं चोदयति। यदि द्वितीये निर्घोषो भवति अम्नुष्याश् चौरैर् हन्यन्ते। यद्य् अत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृस्यते सस्यं संचोदयति। यदि भूमिचालो भवति महामनुष्यस्य मरणं भवति। अत्रैव मासे देवस्थानं कर्तव्यं। वृक्षा रोपयितव्याः। सूलवास्तु प्रतिष्ठापयितव्यं।
6.11 अयं भोः पुष्करसारिन् मासपरीक्षानामअध्यायः।

6.12 अथ खलु भोः पुष्करसारिन् खञ्जरीटकज्ञानंनामअध्यायं व्याख्यास्यामि।

तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥म्छेच्केद्

7 खञ्जरीटकज्ञानं

7.1 खञ्जरीटकशास्त्रं वै पर्वते गन्धमादने।
7.1 कुचरैर् दृश्यते सौम्यकुचरस्य महाभयं॥
7.2 यानि तानि निमित्तानि दर्शयेत् खञ्जरीटकः।
7.2 प्रचरतो भवेद् दृष्ट्वा पञ्चउत्तरपदो द्विजः॥
7.3 तत्र सर्वे प्रवर्तेयुर् यत्र येषु भवेद् भवेत्।
7.3 शाद्वले बहुचेलत्वं गोमयेषु प्रबन्धता॥
7.4 कञ्चारे बहुचेलत्वं कर्दमे बहुभक्षता।
7.4 कृकरे स्वल्पचेलत्वं पुरीषे तु दृशं श्रवः॥
7.5 भस्मे विवादम् अफलं वालुकायां तु संभ्रमः।
7.5 देवद्वारे तु सम्मानं पद्मेषु बहुवित्तता।
7.5 फलेऽर्थअनुगुणं प्रोक्तं पुष्पेषु प्रियसंअमः॥
7.6 भयं प्राकारशृङ्गेषु कटकेष्व् अरिदर्शनं।
7.6 पक्षया चरते व्याधिः पतितो मृत्युम् आदिशेत्॥
7.7 सुगन्धतैलभूतानि मेथुने निधिदर्शनं।
7.7 वृक्षअग्रे विद्यते पानं गृहेष्व् अथ … लसः॥
7.8 देशभङ्गः प्रवादे च बन्धनं विग्रहीकृते।
7.8 अमृतं च स्थितं दृष्ट्वा; ओदनं नअत्र संशयः॥
7.9 गवां ष्ठे ध्रुवं सिद्धिर् अश्वष्ठे ध्रुवं जयः।
7.9 अविकानाम् अजानां च ष्ठे सर्वत्र शस्यते॥
7.10 उष्ट्रष्ठे घ्रुवं क्लेशः श्वानष्ठे च विद्रवः।
7.10 ष्ठे च गर्दभस्यइह मरणं नअत्र संशयः॥
7.11 कीले तु मरणं विद्याद् यूपअग्रे च न संशयः।
7.11 कुम्भस्थाने श्मशाने वा मृतो वा यत्र दृश्यते॥
7.12 अन्तरीक्षे प्रडीनं तु; अफलं तु विनिर्दिशेत्।
7.12 दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकं।
7.12 यथास्थानंअं यथावर्णं मनुष्याणां विनिर्दिशेत्॥
7.13 विषमे स्वल्पकक्षेषु प्रसक्तः कलहो भवेत्।
7.13 समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत्।
7.13 नद्यां तु शैलवाहिन्यां प्रवासम् अभिनिर्दिशेत्॥
7.14 काष्ठेषु नातिका चिन्ता तथाअस्थिषु धनक्षयः।
7.14 यां दिशं समुदागच्छत् पञ्चउत्तरपदः खगः।
7.14 तां दिशं गमनं विद्याद् यथा तस्य तथा पुनः॥
7.15 कीटा वाअथ पतङ्गा वा भयं यद् इह दृश्यते।
7.15 प्रचुराअपि यदा ज्ञेया नरस्यअस्थीनि निर्दिशेत्॥
7.16 अपां समीपे गजमस्तके वा सूर्यउदये ब्राह्मणसन्निधौ वा।
7.16 मुख्य प्रकाशेऽप्य् अहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥
7.17 मातङ्गराजो मतिमांस् त्रिशङ्कुः प्रोवाच तत्त्वं कञ्जनं च शास्त्रं।
7.17 स्निग्धे सरुक्षे विषमे समे च आदेश यद् दोषगुणैर् यथोक्तैः।
7.17 तमादिशेत् तत्र समीक्ष्य विद्वान् शुभअशुभं तत्फलम् आदिशेच् च॥
7.18 अयं भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामअध्यायः।

7.19 अथ खलु भोः पुष्करसारिन् शिवारुतं नामअध्यायंव्याख्यास्यामि।

तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः।

8.शिवारुतं

8.1 नमः सर्वेषाम् आर्याणां। नमः सर्वेषां सत्यवादिनां। तेषां सर्वेषां तपसा वीर्येण च इमं शिवारुतं नामअध्यायं व्याखामि।
8.2 इत्य् आह भगवांस् त्रिशङ्कुः। शाण्डिल्यम् इदम् अब्रवीत्। यादृशं च यथा वाशेत् तेषां सर्वेषां वाशान् शृणोथ मे। पूर्वस्यां दिशि यदि वाशेत् शिवा पूर्वमुखं स्थित्वा त्रीन् वारान् वाशेद् वृद्धिं निवेदयति। चतुरो वारान् यदि वाशेद् अत्र मङ्गलं निवेदयति। पञ्च वारान् वाशेद् वर्षां निवेदयति। षड्वारान् वाशेत् परचक्रभयं निवेदयति। सप्तवारान् वाशेद् बन्धनं निवेदयति। अष्ट वारान् वाशेत् प्रियसमागमं निवेदयति। अभीक्ष्णं वाशेत् परचक्रभयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.3 दक्षिणायां दक्षिणमुखं स्थित्वा त्रिवारान् वाशेद् `अतृ अतृ’ कुरुते मरणं तत्र निवेदयति। चतुरो वारान् वाशति दक्षिणमुखं स्थित्वा दक्षिणाया एव दिशायाः प्रियसमागमं निवेदयति। अर्थलाभं च निवेदयति। पञ्चवारान् वाशेद् अर्थं निवेदयति। षड्वारान् वाशेत् सिद्धिं निवेदयति। सप्तवारान् वाशेद् विवादकलहं निवेदयति। अष्टवारान् वाशेद् भयं निवेदयति। अभीक्ष्णं वाशेद् आकुलं निवेदयति। एत्य् आह भगवांस् त्रिशङ्कुः।
8.4 पश्चिमायां पश्चिमअभिमुखं स्थित्वा शिवा त्रिवारान् वाशति मरणं निवेदयति। चतुर्वारान् वाशति बन्धनं निवेदयति। पञ्चवारान् वाशति वर्षं निवेदयति। षड्वारान् वाशति अन्नपानं निवेदयति। सप्तवारान् वाशति मैथुनं निवेदयति। अष्टवारान् वाशति अर्थसिद्धिं निवेदयति। अभीक्ष्णं वाशति महामेघं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.5 उत्तरस्यां दिशि उत्तरअभिमुखं स्थित्वा त्रिवारान् वाशति पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। चतुर्वारान् वाशति राजप्रतिभयं निवेदयति। पञ्चवारान् शाशति विवादं निवेदयति। षड्वारान् वाशति कुशलं निवेदयति। सप्तवारान् वाशति वर्षां निवेदयति। अष्टवारान् वाशति राजकुलदण्डं निवेदयति। (प्.169)अभीक्ष्णं वाशति यक्षराक्षसपिशाचकुम्भाण्डभयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.6 दिशि विदिशि चएव गिरिप्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ मे। अमूं तुष्येत् पिपासार्ता विद्यासिद्ध्यै तथाएव च। 8.7 विद्यालम्भं धनलम्भं निर्दिशेच् च विचक्षणः। 8.7 तीर्थआकारवृक्षमूले वाशती यदि दृश्यते॥ 8.8 सर्वत्र सिद्धिं निर्दिशेत्। न च शृगालभये शिवा (वा) मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यं। गन्धपुष्पउपहारेण शुश्रूषा कर्तव्या। एवम् अर्चायमाना (?) सर्वसिद्धिं निवेदयिष्यति। एवंसर्वेऽर्थास् तस्य सिध्यन्ति त्रिशङ्कोर् वचनं यथा । क्रौष्ट्रिको यदि वाशति अर्थलम्भं निवेदयति। अधोमुखो यदि वाशति निधानं तत्र निवेदयति। ऊर्ध्वमुखो यदि वाशति वर्षां तत्र निवेदयति। द्विपथे यदि वाशति पूर्वमुखं स्थित्वा अर्थलाभं निवेदयति। दक्षिणअभिमुखो यदि वाशति यथा प्रियसमागमनं निवेदयति। द्विपथे पश्चिमअभिमुखो यदि वाशति कलहं विवादं विग्रहं मरणं च निवेदयति। कूपकण्ठके यदि वाशति अर्थं तत्र निवेदयति। शाद्वले यदि वाशति अर्थसिद्धिं निवेदयति। अतिमृदुकं यदि वाशति व्याधिकं तत्र निवेदयति। गीतहारेण यदि वाशति अर्थम् अनर्थं च निवेदयति। त्रिभिर् वारैर् अर्थं चतुर्भिर् अनर्थं पञ्चभिः प्रियसमागमं षड्भिर् भोजनं सप्तभिर् भयम् अष्टभिर् विग्रहं विवादं च। इत्य् आह भगवांस् त्रिसङ्कुः।
8.9 अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे । नानाआहारे यदि वाशति मार्गे संस्थितस्यअपि सर्वं वक्ष्यामि तं शृणोथ मे। संप्रस्थितस्य पुरुषस्य शिवा वाशति वा या पूर्वमुखं स्थित्वा क्षिप्रगमनम् अर्थसिद्धिं निवेदयति। अथ दक्षिणमुखं वाशति या अर्थसिद्धिं निवेदयति। पञ्चान् मुखं वाशति भयं निवेदयति। अथउत्तरमुखं वाशति अर्थलाभं निवेदयति। अथ संप्रस्थितस्य वाशति या पुरतः स्थित्वा उपक्लेशं निवेदयति। अथ दक्षिणे वाशति यदि दक्षिणमुखा एव दिशः (प्.170) कर्मसिद्धिं च निवेदयति। पश्चिमतो यदि वाशति चौरतोऽहितम् अस्य दुःखदौर्मनस्यं निवेदयति। अथ मार्गे व्रजतो दक्षिणतो वाशति महाव्याधिम् अनर्थं चौरा मुषन्ति तन् निवेदयति। ग्लानस्य यदि वाशति दक्षिणमुखं,न स चिकित्सितुं शक्यो मृत्युदूतेन चोदितः। ग्लानस्य यदि वाशति उत्तरमुखं स्थित्वा आरोग्यधनलाभं च निवेदयति। अथ मूर्ध्ना वाशति या उपक्रेशं निवेदयति। अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते यमशासनं [निवेदयति]। नानाआहारे यदि वाशति, या संक्षोभं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.10 शिवा पुरतः पुरुषस्य मार्गप्रयातस्य यदि वाशति, या अग्रतः क्षेममार्गं विज्ञापयति। अर्थसिद्धिं निवेदयति। मार्गं व्रजतोऽस्य शिवा वामेनआगत्य गच्छते दक्षिणमुखं क्षेममार्गं विजानीयाद् अर्थसिद्धिं च निवेदयति। मार्गे व्रजतः पुरुषस्य शिवा वामेनआगत्य पुरता वाशति या तथा सभयं मार्गं विज्ञापयति। निवर्तेत विचक्षणः। दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत न तन् मार्गेण गन्तव्यं त्रिशङ्कुवचनं यथा । पुरतः शिवा गत्वा अग्रतश् च निषीदति सभयं मार्गं विजानीयात्। निवर्तेत विचक्षणः। शिवा पुरत आगत्य वामेन परिवर्तते भयम् एतीहऽ तेनअपि भयं जानीयाद् विचक्षणः। सेनायाम् आवाहितायां शिवा वशति पश्चिमं निवर्तनं निवेदयति। यदि गच्छेत् पराजयः। सेना न गच्छेत्। सेनायां व्रजमानायां शिवा आगच्छेद् अग्रतः सेनाजयं निवेदयति। परचक्रपराजयं च निवेदयति। सार्थस्य व्रजमानस्य शिवा गच्छत्य् अग्रतः क्षेममार्गं निवेदयति। अर्थसिद्धिं तथाएव च। पुरुषस्य पथि व्रजतो वामतो वाशति मार्गं निवेदयति।तन्मार्गेण [हि} गन्तव्यं त्रिशङ्कुवचनं यथा।
8.11 ग्रामस्य नगरस्यअपि चैत्यस्थाने तथाएव च। पूर्वेणउत्तरेणअपि शिवा वाशति क्षेमं तत्र निवेदयति। दक्षिणे पश्चिमे यदि वाशति या भयं तत्र निवेदयति। 8.12 वामतो न प्रशंसन्ति तथाएव विदिशासु च। 8.12 अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा। 8.13 अधरां तु भयं वक्ष्ये त्रिशङ्कुवचनं यथा॥ 8.13 मधुस्वरांशिवां ज्ञात्वा काले वेले उपस्थिते।(प्.171) 8.14 क्षेमं चैवअर्थसिद्धिश् च चिन्तितव्यं विचक्षणैः॥ 8.15 व्याधिर् उपद्रवाश् च,सव तु प्रशमं यान्ति त्रिशङ्कुवचनं यथा । शिवारुतस्यउपचारो दिग्विदिशासु निमित्ता ग्रहीतव्याः। यः शिवाया दिवसो भवति स दिवसो ज्ञातव्यः। पुष्पगन्धमाल्यउपहारस् तद्दिवसे उपपादयितव्यः। नित्यं देवतागुरुकेण भवितव्यं। दैव्यागुरुकेण भवितव्यं। देव्यै शुश्रूषा कर्तव्या। सर्वार्थान् सम्पादयिष्यति। सर्वकार्याणि निवेदयति।
8.16 यत् किञ्चित् कार्यम् आरभिष्यति तत्सर्वं निवेदयति। देव्यै सर्ज्जरसो गुग्गुलु च धूपयितव्यं। पुष्पबलिश् च यथाकाले दापयितव्यः। इत्य् आह भगवांस् त्रिशङ्कुः।
8.17 शिवारुतकथानेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।
8.18 नम आरण्यायै। चीरिण्यै स्वाहा सर्ज्जरसधूपं।
8.19 अयं भोः पुष्करसारिन् शिवारुतनामअध्यायः।

8.20 अथातः पुष्करसारिन् पाणिलेखानामअध्यायं व्याख्यास्यामि।

तच् छ्रूयतां।

अथ किं कथयतु भगवांस् त्रिशङ्कुः।

9 पाणिलेखा

9.1 अथातः संप्रवक्ष्यामि नराणां करसंस्थितं।
लक्षणं सुखदुःखानां जीवितं मरणं तथा॥
9.2 अङ्गुष्ठमूलम् आश्रित्य ऊर्ध्वरेखा प्रवर्तते।
तत्र जातं सुखतरं द्वितीया ज्ञानम् अन्तरे॥
9.3 तृतीया सा लेखा यत्र प्रदेशिन्या प्रवर्तते।
तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्विधाः॥
9.4 अपर्वसु च पर्वाणि नक्ष्त्राणाम् उपद्रवः।
द्विनिःसृतो विशुद्धआत्मा जीवेद् वर्षशतं हि सः॥
9.5 त्रिंशत् त्रिभागेन जायीयाद् अर्धे पञ्चाशद् आयुषः।
सप्ततिस् त्र्यंशभागेषु अत्यन्तानुगते शतं॥
9.6 आउइर्;एल्जा प्रदृश्यएवं व्यन्तरायः प्रकाश्यते।
नक्षत्रसंज्ञया ज्ञेया मनुजैर् अर्थशस् तथा॥
9.7 अङ्गुष्ठउदरमार्गे तु यावत्यो यस्य राजयः।
तस्यापत्यानि जानीयात् तावन्ति नअत्र संशयः॥
9.8 दीर्घायुषं विजानीयाद् दीर्घलेखा तु या भवेत्।
ह्रस्वायुषं विजानीयाद् ध्रस्वलेखा तु या भवेत्॥
9.9 अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेद्।
दिवा तु जन्म निर्दिष्टम् अङ्गुष्ठयवके ध्रवं॥
9.10 अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत्।
लग्नं पुंसंज्ञको ज्ञेयोऽहोरात्रं विनिर्दिशेत्॥
9.11 दिवसं जन्म निर्दिशेद् रात्रौ स्त्रीसंज्ञको भवेत्।(प्.173)
रात्रिः सन्ध्या समाख्याता भागैर् अन्यैर् न संशयः।
9.11 पुंसंज्ञाद् उदयं तेषाम् अहोरात्रान्तिकं वदेत्॥
9.12 अङ्गुष्ठमूले यवके शले सौख्यं विधीयते।
अश्वाद् भद्रं विजानीयाद् अङ्गुष्ठयवकेष्व् इह॥
9.13 यवमाला च मत्स्यः स्याद् अङ्गुष्ठयवको रतौ।
बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत्॥
9.14 यस्य स्याद् यवकश् चअपि चअपो वा स्वस्तिकस् तथा।
तलेषु येषु दृश्यन्ते धन्यास् ते पुरुषा ह्य् अमी॥
9.15 मत्स्यो धान्यं भवेद् भोगायामिषादौ यवे धनं।
भोगसौभाग्यं जानीयान् मीनादौ नअत्र संशयः॥
9.16 पताकाभिर् ध्वजैर् वाअपि शक्तिभिस् तोमरैस् तथा।
तलस्थाइर् अङ्कुशैश् चअपि विज्ञेयः थिवीपतिः।
राजवंशप्रसूतं च राजमात्रं विनिर्दिशेत्॥
9.17 प्रेक्ष्यन्ते शाख्या पञ्च हस्ते चत्वार एव च।
क्षत्रियो वा भवेद् भोगी राजभिश् चअपि सत्कृतः॥
9.18 वैश्योऽथ क्षत्रियो वाग्मी धनधान्यं न संशयः।
शूद्रो विपुलभागी स्यात् पर्वशीलोऽथ नैष्ठिकः॥
9.19 सततम् अभिपूज्यः स्यात् सर्वेषां च प्रियंवदः।
विशीलः शीलकुञ्चो वा बहुभिर् न बहुस् तथा॥
9.20 श्यामवर्णाऽथ भिन्ना वा सा लेखा दुःखभागिनी।
क्तिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करथिताः।
9.20 महाभोगो महाविद्वान् जीवेद् वर्षशतं च सः॥
9.21 अजपदं राजछत्रं शङ्खचक्रपुरस्कृतं।
तलेषु यस्य दृश्यन्ते तं विद्यात् थिवीपतिं॥
9.22 भगस् तु भाग्याय ध्वजैः पताकैर् हस्त्यश्वमालाङ्कुशतश् च राजा।
मत्स्यो नु पानाय यवो धनाय वेदिस् तु यज्ञाय गवां च गोष्ठः॥
9.23 अनामिकापर्व अतिक्रमेद् यदि कनिष्ठिका वर्षशतं स जीवति।
समेत्वशीतिर् वर्षाणि सप्तभिर् यथा नदीनां भरिताय निर्दिशेद्॥
9.24 शरीरवर्णप्रभवां तु लेखां सवैशिखां वर्णविहीनकां च।
समीक्ष्य नीचोत्तममध्यमानां दारिद्य्र्मध्ये चरतां विजानतां॥
9.25 अभ्यञ्जनोद्वर्तन सत्करी[षैर]ध्यक्ष चूर्णैश् च विमृज्य पाणिं।
प्रक्षाल्य चैकअन्तरघृष्टलेखाम् एकाग्रचित्तस् तु करं परीक्षेत्॥
9.26 वलयसमनराधिपं भजन्त्यः समनुगता मणिबन्धने तु तिस्रः।
द्विर् अपि च स भवअन्तरे महाआत्मा विप्पुलधनश्रिय आह वस्त्रलाभः॥
9.27 ददति सततम् उन्नतस् तु पाणिर् भवति चिराय तु दीर्घपीनपाणिः।
परिपतति शिराविरुद्धपाणिर् धनम् अधिगच्छति मांसगूढपाणिः॥
9.28 सुदृश[करतलैश् च]साधवस्ते कुटिलकृतैर् विनिमीलितैश् च धूर्ताः।
भवति रुधिरसन्निभः सुरक्तश् चिरम् इह पिण्डितपाणिरीश्वरः स्यात्॥
9.29 धृतरुचिरमनाः शिलारविन्दैर् ज्वलनकषाय सुवर्णपाणिरा[जि]।
भवति बहुधनो निगूढपाणिश् चिरम् इह जीवति पानभोगभोगी॥
9.30 सुभग इह तथोष्णदीर्घपाणिर् ध्रुवम् इह शीतलपाणिकस् तु शण्ठः।
इह हि बहुधनो बलेन युक्तः सुतनु सुसञ्चितपाणिरेखको यः॥
9.31 धनम् उपनयतीह पाणिलेखा कृतजनिता जलवच् च या सुदीर्घा।
जलवदनुगता सुवर्णवर्णा धनम् अधिगच्छति निम्नशोन्नता या॥
9.32 धनम् उपलभते सुरक्तपाणिर् विपुलमथो च निरन्तराङ्गुलिः स्यात्।
बलिपुरुषम् अपि त्यजेद्धि वित्तं दितविवशा च विशीर्णवर्णलेखा॥
9.33 अपगतघृतवर्णपाणिलेखो भवति नरो धनवान् बलेन युक्तः।
असुभृति सदृशा भवेत् तथा भूषणवृत[रूपवती शुभा]एकभार्या॥
9.34 भवति बहुधनो धनैर् विहीनः श्रुतम् अधिगम्य विशालपाणिलेखः।
सु ऋजुभिर् अहिनीलनिर्मला भिः करतलराजि भिरीश्वरः स धन्य:॥
9.35 अयं भोः पुष्करसारिन् करतललेखानाम् आध्यायः।

अथ खलु भोः पुष्करसारिन् वायसरुतं नामअध्यायं व्याखास्यामि तच् छ्रूयतां।

अथ किं। कथयतु भगवांस् त्रिशङ्कुः।

नमोऽर्हतां।

तेषां नमस्कृत्वा।

10 वायसरुतं

10.1 इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभअशुभं।
10.1 जयम् पराजयं चएव लाभअलाभं तथाएव च॥
10.2 सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा।
10.2 वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥
10.3 देवाः प्रवदन्ति श्रेष्ठा वायसानां नमा नमः।
10.3 आगता मानुषं लोकं वायसा बलिभोजनाः॥
10.4 प्रस्थितस्य यदाऽध्वानम् अग्रतो वायसो भवेत्।
10.4 व्याहरन् क्षीरवृक्षस्थो निर्दिशेद् अर्थसिद्धितां॥
10.5 स्वरेण परितुष्टेन फलवृक्षसमाश्रितः।
10.5 पुनर् आगमनं चएव सिद्धर् अर्थनिवेदितं॥
10.6 विवृद्धवृक्षपत्राणि मधुरं चअनुवासति।(प्.176)
10.6 असूपं निर्दिशेद् भोज्यं गुडमिश्रं तु गोरसं॥
10.7 दृष्टस् तु तुण्डपादेन आत्मनः परिमार्जति।
10.7 पायसं सर्पिषा मिश्रं तत्र विद्यान्नसंशयः॥
10.8 रूक्षं निर्घर्षते तुण्डं शिरश् च परिमार्जति।
10.8 सफलं वृक्षम् आस्थाय ध्रुवं मांसेन भोजनं॥
10.9 लोचयति व्याहरति फलवृक्षसमाश्रितः।
10.9 व्याधेन च हतं मांसं निवेदयति भोजनं॥
10.10 घोरं व्याहरते कार्यं वायसो वृक्षमाश्रितः।
10.10 कलहं संग्रामभयं तत्र विद्यान्न संशयः॥
10.11 शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
10.11 कलहं सुमहत् कृत्वा न चअर्थं तत्र सिध्यति॥
10.12 क्षीरवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
10.12 क्रमेण युगमात्रेण न च्चार्थं तत्र सिध्यति॥
10.13 शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
10.13 तत्क्षणं सन्निवेदेति तत्र चौरभयं भवेत्॥
10.14 शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
10.14 ष्ठेन दर्शयेद् भारं क्षुधापीडां च निर्दिशेत्॥
10.15 पक्षं विधूयमानो यः पश्यन् पथस्य वाशति।
10.15 न तत्र गमनं कुर्याच् चौरैः पथम् उपद्रुतं॥
10.16 रज्जुं वा फलकं वाअपि यदि कर्षति वायसः।
10.16 न तत्र गमनं श्रेयश् चौरैः पथम् उपद्रुतं॥
10.17 गोमये शुष्ककाष्ठे वा यदि वाशति वायसः।
10.17 कलहः कुवचो व्याधिर् न चअर्थं तत्र सिध्यति॥
10.18 तृणं वा यदि वा काष्ठं दर्शयेच् च यदा खगः।
10.18 पुरतः शुष्कपाणिस् तु तत्र चौरभयं भवेत्॥
10.19 सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत्।
10.19 निपतेत् सार्थमध्येऽस्मिन् चौरसैन्यं न संशयः॥
10.20 यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः।
10.20 शुष्कवृक्षे निषीदित्वा तत्र विद्यान् महाभयं॥
10.21 भीतस् त्रस्तः परीतश् च यस् तु व्याहरते खगः।
10.21 परिबाधन् दिशः सर्वास् तत्र भयम् उपस्थितं॥
10.22 गच्छन्तं समनुगच्छेत् पुरः स्थित्वा तु व्याहरेत्।
10.22 न तत्र गमनं क्कुर्यान् मार्गम् अत्र प्रशातनं॥
10.23 वास्तुमध्ये प्रतिस्थाने क्षामं दीनं च व्याहरेत्।
10.23 व्याधिं तत्र विजानीयाद् वासे वा गृहस्वामिनां॥
10.24 शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः।
10.24 दूराद् अभ्यागतं ज्ञात्वा प्रसिद्धिं चअभिनिर्दिशेत्॥
10.25 गर्गरे घटके चएव स्थालिकपिठरेषु वा।
10.25 निषण्णो वाशते काकः प्रसिद्धं गमनं ध्रुवं॥
10.26 आसने शयने वाअपि स्थितो वाशति वायसः।
10.26 प्रसिद्धं गमनं ब्रूयात् प्रोषितेन समागमः॥
10.27 ब्रह्मस्थाने निषीदित्वा ध्रुवं वाशति वायसः।
10.27 अर्थलाभं विजानीयाद् धनलाभं च आकरेत्॥
10.28 ब्रह्मस्थाने निषीदित्वा क्षामं दीनं च वाशति।
10.28 सन्धिस्थाने हरेच् चौरस् तत्र वै नास्ति संशयः॥
10.29 देवतादेवतानां च देवस्यउपवनानि च।
10.29 यस्य वाचं वदेत् तस्यअर्थलाभं विनिर्दिशेत्॥
10.30 लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः।
10.30 यस्याहरेत् पुरस्तस्य स्वर्णलाभं विनिर्दिशेत्॥
10.31 पात्रं च पात्रकं चएव मृत्तिकावरभाजनं।
10.31 यस्य यस्य हरेत् तस्य द्रव्यलाभं विनिर्दिशेत्॥

10.32 सङ्घीभूत्वा युगमात्रं शुभं तिष्ठति वायसः।
काष्ठं वा वायसा यत्र गृहम् आरोपयन्ति च।
10.32 निगदन्त्य् अत्र विजानीयाद् याचकात् तु महाभयं॥
नीलं पीतं लोहितं च प्रतिसंहरणानि च।
10.33 निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत्॥

10.34 ग्रामन्ते भयम् आख्याति काको वा वाशति ध्रुवं।
10.34 प्रत्येकतो वा वाशन्ति विद्यात् तत्र महाभयं॥
10.35 वायसोऽस्थि गृहीत्वा वै प्रगच्छेद् अनुदक्षिणं।
10.35 निषीदन् सफले वृक्षे स वदेन् मांसभोजनं॥
10.36 यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः।
10.36 अभ्यन्तरे सप्तरात्रान् मरणं तस्य निर्दिशेत्॥
10.37 करके चउदके चएव स्निग्धदेशेषु वाशति।
10.37 ऊर्ध्वमुखं निरीक्षन्तु जगद्वृष्टिं विनिर्दिशेत्॥
10.38 स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति।
10.38 ऊर्ध्वमुखं तथा वक्ति वातवृष्टिं विनिर्दिशेत्॥
10.39 कायं किलकिलायन्तु स्निग्धदेशेषु वाशति।
10.39 वक्षो विध्न्वन्वायसः सद्यो वृष्टिं विनिर्दिशेत्॥

10.40 स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति।
10.40 सक्षरसद्रवं भागं वाशति भोजनं भवेत्॥
10.41 प्रकारे तोरणअग्रे वा यदि वाशति वायसः।
10.41 अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत्॥
10.42 मण्डलानि वावर्तानि बहिर् वा नगरस्य च।
10.42 वैरं च विग्रहं घोरं तत्र चएव विनिर्दिशेत्॥
10.43 ग्रामे वा नगरे वाअपि कुर्वते यत्र मण्डलं।(प्.179)
10.43 ऊर्ध्वमुखं वाशन्तो वै विषण्णत्वं समुत्थितं॥
10.44 पूर्वेण चएव ग्रामस्य यदा सूयति वायसी।
10.44 अल्पोदकेनोत्प्लवन्ति वनानि नगराणि च॥
10.45 पुरस्ताद् दक्षिणे पार्श्वे यदि सूयति वायसी।
10.45 वर्षति प्रथमे मासे पश्चाद् देवो न वर्षति।
10.45 कृष्णधान्यानि वर्धन्ते माषधान्यं विनश्यति॥
10.46 दक्षिणे वृक्षशिकह्रे यदा सूयति वायसी।
10.46 मण्डूककीटकम् अक्षा चौरश् च बहुलीभवेत्॥
10.47 पश्चिमउत्तरपार्श्वे तु यदा सूयति वायसी।
10.47 मध्यमं च भवेद् वर्षं मध्यशस्यं च जायते॥
10.48 पश्चिमउत्तरपार्श्वे तु यदा सूयति वायसी।
10.48 अशनिर् निपतेत् तत्र भयं च मृगपक्षीणां॥
10.49 उत्तरे वृक्षशिखरे यदा सूयति वायसी।
10.49 पूर्वम् उप्तं विजानीयाच् छस्यं समुपजायते॥
10.50 उपरि वृक्षशिखरे यदा सूयति वायसी।
10.50 अल्पउदकं विजानीयात् स्थले बीजानि रोपयेत्॥
10.51 यदा तु मध्ये वृक्षस्य निलयं करोति वायसी।
10.51 मध्यमं वर्षते वर्षं मध्यशस्यं प्रजायते॥
10.52 स्कन्धमूले तु वृक्षस्य यदा सूयति वायसी।
10.52 अनावृष्टिर् भवेद् घोरा दुर्भिक्षं तत्र निर्दिशेत्॥
10.53 चतुरः पञ्च वा पोतान् यदा सूयति वायसी।
10.53 सुभिक्षं च भवेत् तत्र फलानाम् उदितं भवेत्॥
10.54 अयं भोः पुष्करसारिन् वायसरुतं नामअध्यायः।

10.55 अथ खलु भोः पुष्करसारिन् द्वारलक्षणं नामअध्यायं व्याख्यास्यामि तच् छ्रूयतां।

अथ किं।

कथयतु भगवांस् त्रिशङ्कुः।

11 द्वारलक्षणं

11.1 माहेन्द्रम् अथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतः।
11.1 दक्षिणे तु दिशो भागे पूषा च पित्र्यम् एव च॥
11.2 सुग्रीवं पुष्पदन्तं च पश्चिमेनात्र निर्दिशेत्।
11.2 भल्लातकं राजयक्ष्मं विद्याद् उत्तरतः शुभं॥
11.3 जन्मसंपद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनं।
11.3 अथ वै धन्मित्रं च परमं मैत्रम् एव च॥
11.4 उवाच विधिवत् प्राज्ञो विश्वकर्मा महामतिः।
11.4 वास्तूनां गुणदौषौ च प्रवक्ष्याम्य् अनुपूर्वशः॥
11.5 समं स्याच् चतुरस्रं च विस्तीर्णा चएव मृत्तिका।
11.5 क्षीरवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यते॥
11.6 पूर्वायतनतया वास्तु रथचक्राकृति च यत्।
11.6 रक्तपांशुर् भवेद् यत्र राज्ञां तत् तु प्रशस्यते॥
11.7 त्रिकोणं कुशसंस्तीर्णम् उत्तानं मधुरं च यत्।
11.7 व्यायाम् अतो जलं चएव वास्तु तस्य धनौषधी॥
11.8 अङ्गाराकारसंस्थानं गोमुखं शकटाकृति।
11.8 अनावास्यं च तत् प्रोक्तं यच् च पुत्रक्षयावहं॥
11.9 यत् तु कञ्जलकक्षैस् तत् त्यक्तं वर्षोदकेन च।(प्.181)
11.9 अपसव्यउदकं चएव दूरतः परिवर्जयेत्॥
11.10 विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलं।
11.10 दश द्वादशकं वैश्ये शूद्रस्य तत्र लेखनं॥
11.11 वास्तुपूर्वउत्तरे देशे गोकुलं तत्र् कारयेत्।
11.11 तथाएव चअग्निशालां तु पूर्वदक्षिणतो दिशे॥
11.12 वर्षवृष्यायुधागारान् दक्षीणेन निवेशयेत्।
11.12 पश्चिमउत्तरतश् चअत्र वणिग्भाण्डं निवेशयेत्॥
11.13 उत्तरायां तु कर्तव्यं वर्चः स्थानाम् अनुत्तरं।
11.13 ऐशान्याम् एव सर्वाणि प्रासादश् च पुरोमुखः॥
11.14 अविधिपरिवर्तेन तत्र वैरं वधो भवेत्।
11.14 रचितसर्वद्वाराणाम् आयामो द्विगुणो मतः॥
11.15 कुर्यात् सुरभवनानां यथेष्टं द्वारकाण्य् अपि।
11.15 तद्द्वारबाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥
11.16 विद्विषस्य सलोकस्य द्वारे स्यान् नु करग्रहः।
11.16 महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥
11.17 सत्ये मृदुर् मृगे सूरोऽन्तरीक्षे धनक्षयः।
11.17 वायव्ये तु बहुव्याधिर् भगे भाग्यविपर्ययः॥
11.18 पुष्पे तु सुभगो नित्यं वितथेऽप्य् अशुभो भवेत्।
11.18 शोके भूतविकारः स्यात् सोषे तस्य विषण्णता॥
11.19 बल्लातके गृहे वासो राजयक्ष्मे समावृतिः।(प्.182)
11.19 ह्रदे रेणु परिश्राव आदित्ये तु कलिर् ध्रुवं॥
11.20 नागराजे नागभयं महश्चेएद् दीर्घम् आयुषं।
11.20 भवेद् अस्य च यद् द्वारं तत्रअग्निभयम् आदिशेत्॥
11.21 क्षयं विद्यात् तस्य तस्य धनस्य च कुलस्य च।
11.21 यमे मृत्युं विजानीयात् कुले श्रेष्ठउत्तमस्य च।
11.21 भृङ्गिराजे त् मतिमान् गन्धर्वे गन्धमाल्यता॥
11.22 भृङ्गे क्रोधः कलिश् चएव पितरि भोगसम्पदः।
11.22 दौवारिके स्वल्पधनं सुग्रीवे राजपूजितः॥
11.23 पुष्पदन्ते धनावाप्तिर् वरुणे जलचित्रता।
11.23 असुररे मरणं घोरं रोगे तु बहुदोषता॥
11.24 बलींश् च उपहारांश् च प्रवक्ष्यांइ यथागृहं।
11.24 चिचित्रैर् विदिशैर् गन्धैः प्रैपूज्य बलिं हरेत्॥
11.25 कलत्रे हेतुबीजानि मध्यमेऽर्जितम् एव तु।
11.25 महेन्द्रे मुक्तपुष्पाणि पावके च पयो दधि॥
11.26 आदित्ये परिदेयं तु भक्तं चएव प्रियङ्गवः।
11.26 अन्तरीक्षे जलं दिव्यं पुष्पाणि जलजानि च॥
11.27 नन्दा प्रतिपादा ज्ञेया षष्ठी त्रयोदशी जया।
11.27 तासु तासु ध्रुवं कुर्यात् प्राज्ञो ह्य् एवं विचक्षणः॥
11.28 अयं भोः पुष्करसारिन् द्वारलक्षणं नामअध्यायः।

11.29 अथ खलु भोः पुष्करसारिन् द्वादशराशिकं नामअध्यायं व्याखास्यामि।

तच् छ्रूयतां। अथ किं ।

कथायतु भगवान् त्रिशङ्कुः।

12 द्वादशरीशिकः

12.1 अतः परं प्रवक्ष्यामि चित्तविज्ञानकाण्डकं।
12.1 यथा दृष्टान्तेनैवैनं नराणां समुदाहृतं॥
12.2 तद् अहं संप्रवक्ष्यामि चित्तविज्ञानम् उत्तमं।
12.2 द्वादशैव तु चित्तास् ते ये लोके प्रचरन्ति वै॥
12.3 तान् अहं संप्रवक्ष्यामि शृणु तत्त्वेन मे ततः।
12.3 द्वादशएव तु कुर्याच् च मण्डलानि विचक्षणः
12.4 प्रथमं मेषो नाम स्याद् द्वितीयं तु वृषः स्मृतः।
12.4 तृतीयं मिथुनं नाम चतुर्थं चअपि कर्कटः॥
12.5 पञ्चमं चअपि सिंहस् तु षष्ठं कन्या इति स्मृतं।
12.5 तुला तु सप्तमं ज्ञेया वृश्चिकस् तु तह्ताष्टमं॥
12.6 द्नवी तु नवमं ज्ञेया दशमं मकरः स्मृतः।
12.6 कुम्भश् चैकादशं ज्ञेयो द्वादशं मीन उच्यते॥
12.7 होरा शरीरं जातस्य द्वितीये चिन्तितं धनं।
12.7 तृतीये भ्रातुर चएव चतुर्थे स्वजनस् तथा॥
12.8 चिन्त्यते पञ्चमे पुत्रः षष्ठे मण्डले शत्रुता।
12.8 सप्तमे दारसंयोगो ह्य् अष्टमे नैधनं स्मृतं॥
12.9 नवमे चिन्त्यते धर्मो दशमे दर्मजं फलं।
12.9 एकादशे चअर्थलाभो द्वादशे व्यर्थसंभवः॥
12.10 एते द्वादशचित्तास् तु यथा दृष्टा महर्षिभिः।
12.10 सर्वभूतात्मभूताश् च यथाज्ञेयास्त देहिनां॥
12.11 आगस्त्य च्छते कश्चित् प्रथमं मण्डलं स्शेत्।
12.11 शिरस् तु स्शते यश् च शब्दश् च उपलक्ष्यते॥
12.12 व्याधितं चएव ह्य् आत्मानम् आग्नेयाश् च विनष्टयः।
12.12 यदि ब्रूयात् तदा तस्य आत्मार्थं चिन्तितं भवेत्॥
12.13 काञ्चनं रजतं ताम्रं लौहं चएव भृशं हवेत्।
12.13 स च सर्वगतश् चएव अग्निर् अश्नाति निश्चितं॥
12.14 एतादृशं दृष्ट्वोत्पातम् आग्नेयं तस्य निर्दिशेत्।
12.14 यादृशश् च भवेच् छब्दस् तादृशं तेन चिन्तितं॥
12.15 पुरुषः कश्चिद् आगत्य द्वितीयं मण्डलं स्शेत्।
12.15 ग्रीवां वा परिमार्जयेद् गलं च चिबुकं पुनः॥
12.16 यदि शब्दश् च श्रूयेत दृष्टा गावस् तथाएव च।
12.16 ईदृशं च दृट्वोत्पातं गोशब्दं तत्र निर्दिशेत्।
12.16 अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितम्॥
12.17 पुरुषः कश्चिद् आगत्य तृतीयं मण्डलं स्शेत्।
12.17 मार्जयेन् मुखदेशं तु स्त्रीचित्तं तस्य निर्दिशेत्॥
12.18 अथ शब्दो भवेत् तत्र श्रूयन्तां तादृशास् तु ते।
12.18 जातं प्रजातम् उपजातं तथा जातो भविष्यति॥
12.19 एतादृशं दृZट्वोत्पातं गर्भं तस्य विनिर्दिशेत्।
12.19 अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
12.20 पुरुषः कश्चिद् आगत्य चतुर्थं मण्डलं स्शेत्।
12.20 कच्छपं स्शते यस् तु कलहं तत्र निर्दिशेत्।
12.20 स्वजनं व्यवहारस् तु सति कलहे न संशयः॥
12.21 आकट्टा कट्टेति शब्दा भवन्ति च निरन्तरं।
12.21 एतादृशं दृष्ट्वाउत्पातं कलहं तत्र न्रिदिशेत्॥
12.22 पुरुषः कश्चिद् आगत्य पञ्चमं मण्डलं स्शेत्।
12.22 हृदयं स्शते यस् तु अपत्यं तत्र चिन्तितं॥
12.23 प्रवासकश् च विज्ञेयः परग्रामगतो मृतः।
12.23 शस्त्रद्रव्यं च यत् तस्य ब्राह्मणानं कुले स्थितं॥
12.24 अथ शब्दो भवेत् तत्र यं दृष्ट्वा तु महर्षिभिः।
12.24 पुत्रपुत्रेति यच्छब्दो यद् गतं गतम् एव च।
12.24 एतादृशं दृष्ट्वाउत्पातं मरणं तत्र निर्दिशेत्॥
12.25 पुरुषः कश् चिद् आगत्य षष्ठं तु मण्डलं स्शेत्।
12.25 स्शते चअपि पार्श्वानि गात्रचिन्ता तु चिन्तिता॥
12.26 विग्रहस् तु महाघोरः शत्रुश् चअपि प्रवध्यते।
12.26 अथ वा तत्र ये शब्दाः श्रोतव्यास् ते न संशयः॥
12.27 अयं तु प्रक्षरश् चएव हतश् च विहतस् तथा।
12.27 एतादृशं दृZट्वाउत्पातम् अरिविग्रहम् आदिशेत्।
12.27 अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
12.28 पुरुषः कश्चिद् आगताय् सप्तमं मण्डलं स्शेत्।
12.28 हस्तेन मर्दयेद् हस्तं तथा नाडीं च मर्दयेद्॥
12.29 निवेशचिन्ता विज्ञेया अन्यग्रामगता भवेत्।
12.29 तत्रेमे भवन्ति शब्दाः श्रोतव्या भूमिम् इच्छता॥
12.30 स्थितं निविष्टं वर्तञ् च कृतं हस्तगतं तथा।
12.30 एतादृशं दृष्ट्वाउत्पातं निवेशं तस्य निर्दिशेत्।
12.30 यादृशो वा श्रुतः शब्दस् तादृशं तेन चिन्तितं॥
12.31 पुरुषः कश्चिद् आगत्य अष्टमं मण्डलं स्शेत्।
12.31 उदरं चएव फिचकं द्वे इमे परिमार्जयेत्॥
12.32 निधनं दृश्यते तस्य मरणं चअपि दृश्यते।
12.32 यदि भवेद् भवेन् मृत्युर् यश् चअन्यप्रियसङ्गमः॥
12.33 तत्रेमे शब्दाः श्रोतव्या मृत एव भविष्यति।
12.33 एतादृशं दृष्ट्वाउत्पातं व्यापत्तिं तस्य निर्दिशेत्॥
12.34 पुरुषः कश् चिद् आगत्य नवमं मण्डलं स्शेत्।
12.34 ऊरुं च स्शते भूया धर्मचिन्ता च चिन्तिता॥
12.35 तत्र शब्दाश् च श्रोतव्या भवन्ति हि न संशयः॥
12.35 यज हि याजकश् चएव यजमानस् तथाइव च।
12.35 शब्दानेवंविधान् श्रूत्वा यज्ञचिन्तां तु निर्दिशेत्॥
12.36 पुरुषः कश्चिद् आगत्य दशमं मण्डलं स्शेत्।
12.36 कर्मचिन्ता विचिन्त्येति गृहकर्म न संशयः॥
12.37 स्शते जानुनी चएव कर्मचिन्तां तु निर्दिशेत्।
12.37 तत्र शब्दा अह्ब्वन्तीमे श्रोतव्याश् च न संशयः॥
12.38 भूमिकर्म च क्षेत्रं च क्षेत्रकर्म तथाइव च।
12.38 एतादृशं दृट्वाउत्पातं कर्मचिन्तां विनिर्दिसेत्॥
12.39 पुरुषः कश्चिद् आगत्य एकादशं तु संस्शेत्।
12.39 जङ्घे तु स्शते भूयो ह्य् अर्थलाभं विनिर्दिशेत्॥
12.40 तत्रेमे शब्दाः श्रोतव्या भवन्तीह न संशयः।
12.40 पणसुवर्णचेलानि धान्यं समणिकुण्डलं॥
12.41 एतादृशं रवं श्रूत्वा हिरण्यं तस्य निर्दिशेत्।
12.41 अथ वा यादृशः शब्दस् तादृशं फलम् आदिशेत्॥
12.42 पुरुषः कश्चिद् आगत्य द्वादशं मण्डलं स्शेत्।
12.42 पादौ च स्शते च्छन् चित्तं वाअप्य् अनर्थिकं॥
12.43 यस् तु तच् चिन्तितो ह्य् अर्थआशा आगन्तुका च या।
12.43 अथ वा शब्दाः श्रोतव्या निमित्तज्ञानपारगैः॥
12.44 निराशश् चएव घोषश् च निराशं तस्य निर्दिशेत्।
12.44 अथ वा यादृशः शब्दस् तादृशं तेन चिन्तितं॥
12.45 अयं भोः पुष्करसारिन् द्वादशराशिको नामअध्यायः।
12.46 अथ खलु भोः पुष्करसारिन् कन्यालक्षणं नामअध्यायं व्याखास्यामि। तच् छ्रूयतां । अथ किं। कथयतु भग्वांस् त्रिशङ्कुः॥

13 कन्यालक्षणं

13.1 तत्वं विज्ञायते येन येन शुभम् उपस्थितं।
13.1 निन्दितं च प्रशस्तं च स्त्रीणां वक्ष्यामि लक्षणं॥
13.2 पितरं मातरम् चएव मातुलं भ्रातरं तथा।
13.2 विम्बाद् विम्बं परीक्षेत त्रिशङ्कुवचनं यथा॥
13.3 मुहूर्ते तिथिसम्पन्ने नक्षत्रे चअपि पूजिते।
13.3 तद् विज्ञैः सह सङ्गम्य कन्यां पश्येत शास्त्रवित्॥
13.4 हस्तौ पादौ निरीक्षेत नखानि ह्य् अङ्गुलीस् तथा।
13.4 पाणिलेखाश् च जञ्घए च कटिनाभ्यूरुम् एव च॥
13.5 ओष्ठौ जिह्वां च दन्तांश् च कपोलौ नासिकां तथा।
13.5 अक्षिभ्रवौ ललाटं च कर्णौ केशांस् तथाएव च॥
13.6 रोमराजीं सवरं वर्णं मन्त्रितं गतिम् एव च।(प्.188)
13.6 मतिं सत्त्वं समीक्षेत कन्यानां शास्त्रकोविदः।
13.6 तत्र पूर्वं परीक्षेत स्वयम् एव विचक्षणः॥
13.7 कंसस्वरा मेघवर्णा नारी मधुरलोचना।
13.7 अष्टौ पुत्रान् प्रसूयेत दासीदासैः समावृता॥
13.8 अव्यावर्ताश् चत्वारो यस्याः सर्वे चएव प्रदक्षिणाः।
13.8 समगात्रविभक्ताङ्गी पुत्रानष्टौ प्रसूयते॥
13.9 मण्डूककुक्षिर् या नारी सैश्वर्यम् अधिगच्छति।
13.9 धन्यान् सा जनयेत् पुत्रांस् तेषां प्रीतिं च भुञ्जते॥
13.10 यस्याः पाणितले व्यक्तः कच्छपः स्वस्तिको धवजः।
13.10 अङ्कुशं कुण्डलं माला दृश्यन्ते सुप्रतिष्ठिताः।
13.10 एकं सा जनयेत् पुत्रं तं च राजानम् आदिशेत्॥
13.11 यस्याः पाणौ प्रकृश्येत कोष्ठआगारं सतोरणं।
13.11 अपि दासकुले जाता राजपत्नी भविष्यति॥
13.12 द्वात्रिंशद् दशना यस्याः सर्वे गोक्षीरपाण्डराः।
13.12 समशिखरि स्निग्धाभा राजानं सा प्रसूयते॥
13.13 स्निग्धा कारण्डवप्रेक्षा हरिणाक्षी तनुत्वचा।
13.13 रक्तउष्ठजिह्वा सुमुखी राजानम् उपतिष्ठति॥
13.14 सूक्ष्मा च तुङ्गनासा च मुक्तम् आरक्तिमोदरी।
13.14 सुभ्रूः सुवरकेशान्ता सा तु कन्या बहुप्रजा॥
13.15 अङ्गुल्यः संहिताः कान्ता नखाः कमलसन्निभाः।
13.15 सुऋजुरक्तचरणा सा कन्या सुखमेधते॥
13.16 यस्यावर्तौ समौ स्निघ्दौ उभौ पार्श्वौ सुसंस्थितौ।
13.16 …………………राजपत्नी तु सा भवेत्॥
13.17 प्रदक्षिणं प्रक्रमेत प्रेक्षते च प्रदक्षिणं ।
13.17 प्रदक्षिणसमाचारां कन्यां भार्याअर्थम् आवहेत्॥
13.18 ऊरू जङ्घे च पार्श्वे च तथा विक्रमः संस्थितः।
13.18 रक्तअन्ते विपुले नेत्रे सा कन्या सुखमेधते॥
13.19 मृगअक्षी मृगजङ्घा च मृगग्रीवा मृगउदरी।
13.19 युक्तनामा तु या नारी राजानम् उपतिष्ठिते॥
13.20 यस्यअग्रललिताः केशा मुखं च परिमण्डलं।
13.20 नाभिः प्रदक्षिणआवर्ता सा कन्या कुलवर्धिनी॥
13.21 नअतिदीर्घा नअतिह्रस्वा सुप्रतिष्ठतनुत्वचा।
13.21 सुखसंस्पर्शकेशअग्रा सौभाग्यं नअतिवर्तते॥
13.22 कान्तजिह्वा तु या नारी रक्तउष्ठी प्रियभाषिणी।
13.22 तादृशीं वरयेत् प्राज्ञो गृहअर्थं सुखमेधिनीं॥
13.23 नीलउत्पलसुवर्णआभा दीर्घअङ्गुलि तला तु या।
13.23 सहस्राणां बहूनां तु स्वामिनी सा भविष्यति॥
13.24 धनधान्यैः समायुक्तां आयुषा यशसा श्रिया।
13.24 कन्यां लक्षणसम्पन्नां प्राप्य वर्धति मानवः॥
13.25 कीर्तितास् तु मया धन्या मङ्गल्यलक्षणाः स्त्रियः।
13.25 अप्रशस्तं प्रवक्ष्यामि यथाउद्देशेन लक्षणं॥
13.26 ऊर्ध्वप्रेक्षी अधःप्रेक्षी या च तिर्यक् च प्रेक्षिणी।
13.26 उद्भ्रान्ता विपुलाक्षी च वर्जनीया विचक्षणैः॥
13.27 भिन्नअग्रशतिका रूक्षाः केशआ यस्याः प्रलम्भिकाः॥
13.27 चित्रअवली चित्रगात्रा भवति कामचारिणी॥
13.28 कामुका पिङ्गला चएव गौरी चैवअतिकालिका।
13.28 अतिदीर्घा अतिह्रस्वा वर्जनीय विचक्षणैः॥
13.29 यस्यअस्त्रीणि प्रलम्बन्ति ललाटम् उदरं स्फिचौ ।
13.29 त्रींश् च सा पुरुषान् हन्ति देवरं श्वशुरं पतिं॥
13.30 पार्श्वतो रोमराजी तु विनता च कटिर् भवेत्।
13.30 दीर्घम् आयुर् अवाप्नोति दीर्घकालं च दुःखिता॥
13.31 काकजङ्घा च या नारी रक्तअक्षी वर्धस्वरा।
13.31 निःसुखा च निराशा च वर्जिता नष्टबान्धवा॥
13.32 अतिस्थूलउदरं यस्याः प्रलम्बो निम्रसन्निभः।
13.32 अत्यन्तम् अवशा नारी बहुपुत्रा सुदुःखिता॥
13.33 या तु सर्वसमाचारा मृद्वङ्गी समतां गता।
13.33 सर्वैः समैर् गुणैर् युक्ता विज्ञेया कामचारिणी॥
13.34 यस्या रोमचिते जङ्घे मुखं च परिमण्डलं।
13.34 पुत्रं वा भ्रातरं वाअपि जारम् इच्छति तादृशी॥
13.35 यस्या बाहुप्रकोष्ठौ द्वौ रोमराजीसमावृतौ।
13.35 उत्तरोष्ठे च रोमाणि सा तु भक्षयते पतिं॥
13.36 यस्य हस्तौ च पादाउ च छिद्रौ दन्तअन्तराणि च।
13.36 पतिनाउपार्जितं द्रव्यं न तस्या रमते गृहे॥
13.37 तस्यास् तु व्रजमानायाः स्फुटन्ते पर्वसन्धयः।
13.37 सा ज्ञेया दुःखबहुला सुखं नैवअधिगच्छति॥
13.38 यस्याः कनिष्ठिका पादे भूमिं न स्शतेऽङ्गुलिः।
13.38 कौमारं सा पतिं स्यक्त्वा आत्मनः कुरुते प्रियं॥
13.39 अनामाङ्गुलिः पादस्य महीं न स्शतेऽङ्गुलिः।
13.39 न सा रमति कौमारं बन्धकीत्वेन जीवति॥
13.40 यस्याः प्रदेशिनी पादेऽङ्गुल्ष्ठं समतिक्रमेत्।
13.40 कुमारी कुरुते जारं यौवनस्था विशेषतः॥
13.41 आवर्तः ष्ठतो यस्या नाभी सा चअनुबन्धति।
13.41 न सा रमति कौमारं द्वितीयं लभते पतिं॥
13.42 विकृता स्थिरजाला च रूक्षगण्डशिरोरुहा।
13.42 अपि राजकुले जाता दासीत्वम् अधिगच्छति॥
13.43 यस्यास् तु हसमानाया गण्डे जायति कूपकं।
13.43 अग्निकार्येऽपि सा गत्वा क्षिप्रं दोषं करिष्यति॥
13.44 समअसमगता सुभ्रूर् गण्डआवर्ता च य भवेत्।
13.44 प्रलम्भोष्ठी तु या नारी नैकत्र रमते चिरं॥
13.45 लम्बउदरी स्थूलशिरा रक्तअक्षी पिङ्गलआनना।
13.45 अष्टौ भक्षयते वीरान् नवमे तिष्ठते चिरं॥
13.46 न देविका न नदिका न च दैवतनामिका।
13.46 वृक्षगुल्मसनामा च वर्जयीया विचक्षणैः॥
13.47 नक्षत्रनामा या नारी या च गोत्रसनामिका।
13.47 सुगुप्ता रक्षिता वाअपि मनसा पापाम् आचरेत्॥
13.48 दारान् विवर्जयेद् एतान् या मया परिकीर्तिताः।
13.48 प्रशस्ता यास् तु पूर्वोक्तास् तादृशीयान् नरः सदा॥
13.49 पद्मअङ्कुशस्वस्तिकवर्धमानैश् चक्रध्वजाभ्यां कलशेन पाणौ॥
13.49 शङ्खआतपत्रउत्तमलक्षणैश् च सम्पत्तये साधु भवन्ति कन्याः॥
13.50 अयं भोः पुष्करसारिन् कन्यालक्षणं नामअध्यायः।
13.51 अथ खलु भोः पुष्करसारिन् वस्त्रअध्यायं व्याखास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥

14 वस्त्रअध्यायः

14.1 कृत्तिकासु दहत्य् अग्निर् अर्थलाभाय रोहिणी।
14.1 मृगशिरा मूषीदंशा आर्द्रा प्राणविनाशिनी॥
14.2 पुनर्वसुश् च धन्या स्यात् पुष्ये वै वस्त्रवान् भवेत्।
14.2 अश्लेषासु भवेन् मोषः श्मशानं मघया व्रजेत्॥
14.3 फाल्गुनीसु भवेद् विद्या उत्तरासु च वस्त्रवान्।
14.3 हस्तासु हस्तकर्माणि चित्रायां गमनं ध्रुवं॥
14.4 स्वात्यां च शोभनं वस्त्रं विशाखा प्रियदर्शनं।
14.4 बहुवस्त्रा चअनुराधा ज्येष्ठा वस्त्रविनाश्नी॥
14.5 मूलेन क्लेदयेद् वास आषाढा रोगसम्भवा।
14.5 उत्तरा मृष्टभोजी स्याच् छ्रवणे चक्षुषो रुजं॥
14.6 धनिष्ठा धान्यबहुला विद्याच् छतभिषे भयं।
14.6 पूर्वभाद्रपदे तोयं पुत्रलाभाय चउत्तरा॥
14.7 रेवती धनलाभाय अश्विनी वस्त्रलाभदा।
14.7 भरणी च भयआकीर्णा चौरगम्या च सा भवेत्॥
14.8 अयं भोः पुष्करसारिन् वस्त्रअध्यायः।
14.8 अथ खलु भोः पुष्करसारिन् लुङ्गाध्यायं प्रवक्ष्यामि। तच् छ्रूयतां। अथ किं।कथयतु भगवान् त्रिशङ्कुः॥

15 लुङ्गाध्यायः (प्.193)

15.1 कुत्रउत्पन्ना इमे बीजाः शस्यानां च यवादयः।
15.1 यैर् इदं ध्रियते विश्वं कृत्स्नं स्थावरजङ्गमं॥
15.2 वापयेत् तु कथं बीजं लाङ्गलं योजयेत् कथं।
15.2 केषु नक्षत्रयोगेषु तिथियोगेषु केषु च॥
15.3 शारदं वाअथ ग्रैष्मं तु कस्मिन् मासे तु वापयेत्।
15.3 निमित्तं कति शस्यन्ते कानि वा परिवर्जयेत्।
15.3 कस्य वा दापयेद् धूपं केन मन्त्रेण दापयेत्॥
15.4 प्रदक्षिणसमावृत्ता यदि लुङ्गा प्रजायते।
15.4 तदा नागमुखी लुङ्गा दहति चित्रमुख्य् अपि॥
15.5 दर्भसूचीमुखी वाअपि कारणं तत्र को भवेत्।
15.5 कति सौभिक्षिका लुङ्गः कति दौर्भिक्षिकाः स्मृताः।
15.5 कति वर्णाः समाख्याताः कति वर्णा निदर्शिताः॥
15.6 नष्टअपनष्टबीजस्य वर्षति यदि वासवः।
15.6 निर्घातो वा भवेत् तीव्रोऽथवाअपि मेदिनी चलेत्॥
15.7 शस्यं फलस्य किं तत्र निमित्तम् उपलक्षयेत्।
15.7 सर्वम् एतत् समासेन श्रोतुम् इच्छामि तत्त्वतः॥
15.8 पुष्करसारिणो ब्राह्मणस्य वचनं श्रूत्वा त्रिशङ्कुमातङ्गअधिपतिर् इदं वचनम् अब्रवीत्।
15.9 पुरा देवअसुरर् नागैर् यक्षराक्षसकिन्नरैः।
15.9 सागराद् अमृतं दृष्टं मन्थिते तु समुद्भवं॥
15.10 अमृते भक्ष्यमाणे तु भागं प्रार्थितवान् द्विजः।
15.10 ततो दत्ताः सुरैर् भागा अमृताद् दशविन्दवः॥
15.11 तत उत्पन्ना इमे बीजा भुवि लोकसुखआवहाः।
15.11 यवब्रीहितिलाश् चएव गोधूमा मुद्गमाषकाः॥
15.12 श्यामकं सप्तमं विद्याद् इक्षुश् चअष्टमकः स्मृतः।
15.12 शेषास् तु सङ्गता जाता बहवः शस्यजातयः॥
15.13 हरितकेषु सर्वेषु ये चअन्ये सत्त्वजातयः।
15.13 परितो नवमो विन्दुः सर्वदेहेऽमृतोऽभवत्।
15.13 मूलेषु चएव सर्वेषु विन्दुर् एकः प्रपातितः॥
15.14 आषाढे शुक्लपक्षेऽस्य व्रीहिधान्यानि वापयेत्।
15.14 शारदआदीनि सर्वाणि मासे भाद्रपदे तथा॥
15.15 कार्त्तिके मार्गशीर्षे वा ग्रीआम धान्यानि वापयेत्।
15.15 पञ्चभ्यां शुक्लसप्तम्यां षष्ठ्याम् एकादशीषु च॥
15.16 त्रयोदश्यां द्वितीयायां तथा हि नवमीषु च।
15.16 विशेषतस् तु निम्नेषु सर्वबीजानि ह्य् उत्सृजेत्॥
15.17 भरणी पुष्यमूलेषु हस्तअशिवनीमघासु च।
15.17 कृत्तिकासु विशाखासु विशेषेण तु शारदं॥
15.18 सौम्ये मैत्रेऽनुराधे च धनिष्ठाश्रवणासु च।
15.18 उत्सर्गः सर्वबीजानाम् उत्तरेषु प्रशस्यते।
15.18 वर्जयेज् जन्मनक्षत्रं संग्रहं च विवर्हयेत्॥
15.19 ग्रामक्षेत्रे च यद् बीजं गृहे च गृहदेवता।
15.19 निमित्तम् उपलक्षेत मङ्गलानि शुभानि च॥
15.20 ब्राह्मणं क्षत्रियं कन्याम् अर्चिष्मन्तं च पावकं।
15.20 वारणइन्द्रं वृषं चएव हयं वा स्वभ्यलंकृतं॥
15.21 पूर्णकुम्भं ध्वजं छत्रम् आमामांसं सुरां तथा।
15.21 उद्धृतां धारणीं चएव बद्धम् एकपशुं दधि॥
15.22 चक्रआरूढं च शकटं काकआरूढां च सूकरीं।
15.22 परस्यआरोपणं दृष्ट्वा सस्यसम्पत्तिम् आदिशेत्॥
15.23 सर्वे दक्षिणतो धन्याः पुरश् च मृगपक्षिणः।
15.23 दशनं शुखपुष्पाणां फलानं चएव शस्यते॥
15.24 अजो वा वामतः शस्यो जम्बुकश् च प्रशस्यते।
15.24 विकृतं कुब्जकुष्ठिं च मुखं श्मश्रुधरं तथा॥
15.25 नरं निर्भर्त्सितं दीनं शोकार्तं व्याधिपीडितं।
15.25 वराहवृन्दं सर्पं च गर्दभं भारहीनकं।
15.25 दृष्ट्वा निवर्तयेद् बीजं पुनर् ग्रामं प्रवेशयेत्॥
15.26 तिलस्य बहु(?) पूर्णस्य भाण्डे स्याद् वपनम् तथा।
15.26 श्रूत्वा ह्य् एतानि व्रजतां सस्यसम्पत्तिम् आदिशेत्॥
15.27 राशिस्थं ग्रथितं धौतं स्वस्थमं कुरितं तथा।
15.27 श्रूत्वा संमार्जितं चएव इत्य् आशुकृतिनं विदुः॥
15.28 श्रूत्वा म्लानं च शुष्कं च मन्दवृष्टिं च निर्दिशेत्।
15.28 श्रूत्वा निवर्तयेद् बीजं पुनर् ग्रामं प्रवेशयेत्॥
15.29 नीयमानं च यद् बीजं वर्षते यदि वासवः।
15.29 स्वयम् एव तु तच् छस्यं कामं कालेन भुज्यते॥
15.30 नीयमानं च यद् बीजं कम्पते यदि मेदिनी।
15.30 भ्रम्यते कर्षकः स्थानान् न तच् छक्यं तु वापितुं॥
15.31 नीयमानस्य बीजस्य निर्घातो दारुणो भवेत् ।
15.31 स्वामिनो मरणं क्षिप्रं शस्यपालस्य निर्दिशेत्॥
15.32 अथ वा व्याकुलं कुर्याद् राजदण्डनिकृन्तति।
15.32 दृष्ट्वा निवर्तयेद् बीजं पुनर् ग्रामं निवेशयेत्॥
15.33 ब्राह्मणेभ्यो यथाशक्ति दत्वा तु संप्रयोजयेत्।
15.33 कृत्वा सुविपुलां वेदीं दर्भान् आस्तीर्य सर्वतः।
15.34 समिद्भिर् अग्निं प्रज्वाल्य जुहुयाद् घृतसर्षपं।
15.34 वेदशान्तिं जपेत् पूर्वं शस्याशान्तिम् अतः प्रं।
15.35 जयेत् पाराशरं पूर्वं प्रियतं वाचयेद् द्विजैः।
15.35 प्रथमं प्राङ्मुखं बीजं प्रक्षिपेद् उत्तरेऽथ वा॥
15.36 पिपीलिका यदा क्षेत्रे बीजं कुर्वन्ति सङ्चयं।
15.36 सुवृष्टिं च सुभिक्षं च सर्वसस्येषु सम्पदा।
15.37 हरन्ति चेत् तृणाद् बीजं तृणे शस्यअपहा अपि।
15.37 प्रस्परं च हिंसन्ति धान्यं च निधनं व्रजेत्॥
15.38 स्थलेषु सञ्चयं दृष्ट्वा महावृष्टिं विनिर्दिशेत्।
15.38 दृष्ट्वा तु सञ्चयं निम्नेऽनावृष्टिं च निर्दिशेत्॥
15.39 यदा तु प्रोषितं बीजं सप्तरात्रेण जायते।
15.39 सुवृष्टिं च सुभिक्षं च सर्वशस्येषु सम्पदा॥
15.40 यदा तु प्रोषितं बीजम् अर्धमासेन जायते।
15.40 अल्पं निष्पद्यते शस्यं दुर्भिक्षं चअत्र जायते॥
15.41 त्रिरात्राच् चतूरात्राद् वा यदि लुङ्गः प्रजायते।
15.41 अतिवृष्टिर् भवेत् तत्र परचक्रभयं विदुः॥
15.42 लुङ्गस्य तु ये पादाः पञ्च सप्त नवा तथा।
15.42 सुवृष्टिं च सुभिक्षं च सर्वसस्येषु सम्पदा॥
15.43 स्याल् लुङ्गस्य तु ये पादाश् चत्वारोष्टपदाअथ वा।
15.43 अल्पं निष्पद्यते शस्यं दुर्भिक्षं चअत्र निर्दिशेत्॥
15.44 लुङ्गस्य यदि पादास् तु दृश्यन्ते द्वादश क्वचित्।
15.44 क्वचिन् निष्पद्यते शस्यं द्रुभिक्षं क्वचिद् आदिशेत्।
15.44 वामआवर्ताः प्रदृश्यन्ते दुर्भिक्षं तत्र निर्दिशेत्॥
15.45 यदा पूर्वमूखी लुङ्गा क्षेमं वृष्टिं च निर्दिशेत्।
15.45 यदा पश्चान् मुखी लुङ्गा अतिवृष्टिं च निर्देशेत्॥
15.46 क्षेमं सुभिक्षं चैवअत्र यदा लुङ्गउत्तरामुखी
15.46 हरितालसुवर्णआभा भद्रशोचिर् इवउत्थिता॥
15.47 दर्भसूचीमुखी चअपि दृश्यते यत्र कुत्रचित्।
15.47 क्वचिन् निष्पद्यते शस्यं दुर्भिक्षं तत्र निर्दिशेत्॥
15.48 यदा नागमुखी लुङ्गा दृश्यते यत्र वा कव्चित्।
15.48 क्वचिन् निश्यद्यते शस्यं दुर्भिक्षं चअत्र निर्दिशेत्।
15.48 तत्रअशनिभयं चअपि भयं मेघान् न संशयः॥
15.49 कृषिमूलम् इदं सर्वं त्रैलोक्यं सचराचरं।
15.49 नअस्ति कृषिसमावृत्तिः स्वयम् उक्तं स्वयम्भुवा॥
15.50 नाकृषेर् धर्मम् आप्नोति नाकृषेः सुखम् आप्नुयात्।
15.50 धर्मम् अर्थं तथा कामं सर्वं प्राप्नोति कर्षकः॥

15.51 इति लुङ्गाध्यायः॥

15.52 पुनर् अपि पुष्करसारी ब्राह्मणस् त्रिशङ्कुं मातङ्गअधिपतिम् एतद् अवोचत्।
15.53 कथं थिव्यां नागाश् च केन वा विनिवारिताः।
15.53 कुतो मूलसमुत्थानं निर्घातः कुत्र जायते॥
15.54 कुतश् चअभ्राणि जायन्ते नानावर्णा दिशो दश।
15.54 कस्यएष महतः शब्दः श्रूयते दुन्दुभिस् वरः॥
15.55 को हि सृजति दुर्भिक्षं सुभिक्षं चएव प्राणिनां।
15.55 कस् तत्र स मुनिश्रेष्ठो नाम गोत्रं ब्रवीहि मे॥
15.56 दैवतानि च मे ब्रूहि विधानानि स्वयम्भुवः।
15.56 यज्ञं च यज्ञभागं च होतव्यश् च यथा बलिः॥
15.57 थिव्यां दैवतं ब्रूहि आश्रमे दैवतं ब्रूहि।
15.57 देवे तु दैवतं ब्रूहि केन देवो सा कल्पिता॥
15.58 पात्रस्य दैवतं ब्रूहि पूर्णकुम्भस्य दैवतं।
15.58 करके दैवतं ब्रूहि तथा स्थाल्यां च दैवतं॥
15.59 शस्यस्य दैवतं ब्रूहि शस्यपालस्य दैवतं।
15.59 वायुस्कन्धैश् च कतिभिः शुक्रो वेगं प्रमुञ्चति॥
15.60 अथ त्रिशङ्कुर् मातङ्गअधिपतिर् ब्राह्मणं पुष्करसारिणम् एतद् अवोचत्।
15.61 थिवी वा वायुर् आकाशम् अपो ज्योतिश् च पञ्चमं।
15.61 तत्र संवर्तते पिण्डं ततो मेघः प्रवर्तते॥
15.62 एष व्याप्नोति चआकाशं वायुना जन्यते घनः।
15.62 आदित्यरश्मयो वारि समुद्रस्य नभस्तले॥
15.63 तज्जलं नागसंक्षिप्तं ततो वरुणसंक्षयः।
15.63 वायुर् नभो गर्जयते अग्निर् विद्योतते दिशः॥
15.64 मरुता क्षिप्यते पिण्डं सन्निपातश् च गर्जते।(प्.199)
15.64 विरोधनं तु वायोश् च अग्नश् च अनिलस्य च॥
15.65 आकाशे वर्तते पिण्डं पश्चात् पतति मेदिनीं।
15.65 यद् ग्रहाणाम् अधिपतिर् नक्षत्रज्योतिषाम् अपि।
15.65 ततो मारुतसंसर्गात् पर्जन्यम् अपि वर्षति॥
15.66 वर्षते शैलशिखरे यत्र संप्रस्थितो जनः।
15.66 यत्र सत्यं च धर्मश् च हविर्मेघश् च वर्तते॥
15.67 तत्र बीजानि रोहन्ति अन्नपानं समृध्यति।
15.67 एवं पिण्डाशनिराद्या ततो वाताशनी स्मृता।
15.67 दन्ताशनी तृतीया तु अशनिस् तु चतुर्थिका॥
15.68 पञ्चमी क्रिमयः प्रोक्ताः षष्ठी तु शलभास् तथा।
15.68 सप्तमी स्याद् अनावृष्टिर् अतिवृष्ठिस् तथाष्टमी॥
15.69 नवमी सम्बरः प्रोक्ता इत्य् आह भगवाम्स् त्रिशङ्कुः।
15.70 एतास्त्व् अशन्यो व्याख्यातास् तासां वै देवताः शृणु।
15.70 पिण्डाशनी ब्रह्मसृष्टा एषा ज्येष्ठाद्यदेवता॥
15.71 दन्ताशनी तु सैन्यानां ग्रहा वाताशनी स्मृता।
15.71 अदेश ………………. देवताः॥
15.72 शलभाः केतुदैवत्या आदित्या दितिदेवताः।
15.72 संसकाम् अतिवर्षस्य अनावृष्टेस् तु ज्योतिषः।
15.73 सम्बरस्य तु पर्जन्यम् आख्याताः नव देवताः।
15.73 अशन्या देवताः प्रोक्ता आकाशगमनअर्थं बोधत॥
15.74 पूर्वम् अधीन्द्रदैवत्यं दक्षिणो यमदैवतं।
15.74 वरुणं पश्चिमे विद्याद् उत्तरे धनदः स्मृतः।
15.74 …. त्या दैवतं विZणुर् आश्रमं विश्वदैवतं॥
15.75 समिहादैवता देवास् तेभ्यो देवी प्रकल्पिता।
15.75 समिधादैवता ……….तोऽग्निहुताशनं॥
15.76 वेद्यां तु दैवतं ……… कारादित्यदैवतं।
15.76 पात्रस्य देवता धर्मः पूर्णकुम्भे जनार्दनः॥
15.77 चरुं चेति ………..धूपस्थानस्य ज्योतिषः।
15.77 शस्य ……. शस्यपालो महामतिः।
15.77 वायुस्कन्धैश् चतुर्भिस् तु शुक्रो वेगं प्रमुञ्चति॥
15.78 अत्र मध्ये थिव्याय आश्रमो विश्वदैवतः।
15.78 तस्मिन् देशे …… यस्मिन् प्रीतो वृषध्वजः॥
15.79 अत्य् आह भगवांस् त्रिशङ्कुः। पुनर् अपि पुष्करसारी ब्राह्मणस् त्रिशङ्कुम् एवम् आह।
15.80 किम् अर्थम् आश्रमे नित्यं हूयते हव्यवाहनः।
15.80 तृणकाष्ठानि संहृत्य मेघं दृष्ट्वा समुत्थितं॥
15.81 अति ………. न्यते अग्निं सुदारुणं।
15.81 सर्वलोकहितअर्थाय ध्यात्वा दिव्येन चक्षुषा।
15.81 प्रशमेच् च समासेन तद् भवअर्थं तु ….. ॥
15.82 एवम् उक्ते त्रिशङ्कुर् मातङ्गअधिपतिर् ब्राह्मणं पुष्करसारिणम् एतद् अवोचत्।

16 धूमिकाध्यायः (प्.201)

16.1 पुरा हि खाण्डवद्वीपम् अर्जुनेन महाआत्मना।
16.1 …………… ज्वलितं जातवेदसा॥
16.2 …………… प्रसन्नमानान् निधिगतं।
16.2 तत्र दग्धा अनेका हि नागाः कोटीसहस्रशः॥
16.3 पुरा महाउरगगणा यक्षराक्षसपन्नगाः।
16.3 पादहीनाः कृताः केचिद् वाहुहीनाः कृतापरे॥
16.4 वैकल्यं कर्णनासाभ्यां कृतं चैवअक्षिपातनं।
16.4 तदाप्रभृति भूतानां दृष्टं वै त्रासितं मनः॥
16.5 अग्निना तापिताः केचिद् वाणैर् अन्ये च सूदिताः।
16.5 वाचाटकेनअपि पुरा काद्रवेयाः प्रपातिताः॥
16.6 आचषा हविगन्धेन मुह्यमाना नभोन्तरे।
16.6 तद्विहीनाः पतन्त्य् अन्ये गुह्यका धरणीतले॥
16.7 सहाम्पतिस् तु नाम्ना स शस्यकाले तदाश्रमे।
16.7 शस्यपालैस् तु सततम् होतव्यो हव्यवाहनः॥
16.8 गृहमेधी ज्वालयेद् अग्निं निर्मलेऽपि नभोन्तरे।
16.8 दिग्भागेषु च भूतानां तेषाम् अर्थं दिने दिने॥
16.9 जाग्रतम् सततं वह्निम् आश्रमस्थोऽपि धारयेत्।
16.9 मेघं दृष्ट्वा विशेषेण ज्वालितव्यो हुताशनः॥
16.10 सधूम्लं ज्वलितं दृष्ट्वा दीप्यमानं तु पावकं।
16.10 भयम् आपतते तेषां नागसैन्यं विमुह्यते॥
16.11 अग्निं परिचरतोऽस्य शस्यपालस्य चआश्रमे।
16.11 अग्निना हूयमानेन सिध्यते सर्वकर्म च॥
16.12 अयं भोः पुष्करसारिन् धूमिकाध्यायः।
16.13 अथ खलु भोः पुष्करसारिन् तिथिकर्मनिर्देशं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।

17 तिथिकर्मनिर्देशः

17.1 नन्दां प्रतिपदाम् आहुः प्रशस्तां सर्वक्रमसु।
17.1 विज्ञानस्य समारम्भे प्रवासे च विगर्हिता॥
17.2 द्वितीया कथिता भद्रा शस्ता भूषणकर्मसु।
17.2 जया तृतीया व्याख्याता प्रशस्ता जयकर्मसु॥
17.3 चतुर्थी कथिता रिक्ता ग्रामसैन्यवधे हिता।
17.3 चौर्यअभिचारकूटअग्निदाहगोरससाधने॥
17.4 पूर्णा तु पञ्चमी ज्ञेया चिकित्सागमनअध्वसु।
17.4 दानअध्ययनशिल्पेषु व्यायामे च प्रशस्यते॥
17.5 ज्येति संज्ञिता षष्ठी गर्हिताऽध्वसु शस्यते।
17.5 गृहे क्षेत्रे विवाहे वाऽवाहकर्मसु मित्रइति॥
17.6 भद्रा च सप्तमी ख्याता श्रेष्ठा सा सौकृतेऽध्वनि।
17.6 नृपाणां शासने छत्रे शय्यानां करणेषु च॥
17.7 महाबलअष्टमी सा च प्रयोज्या परिरक्षणे।
17.7 भयमन्दरबद्धेषु योगेषु हरणेषु च॥
17.8 अग्रसेना तु नवमी तस्यां कुर्याद् रिपुक्षयं।
17.8 तथा विषघ्नअवस्कन्दविद्याबन्धवधक्रियाः॥
17.9 सुधर्मा दशमी शस्ता शास्त्रआरम्भे धनोद्यते।
17.9 शान्तिस्वस्त्ययनआरम्भे दानयज्ञउद्यतेषु च॥
17.10 एकादशी पुनर्मान्या स्त्रीषु च मांसमद्ययोः।
17.10 कारयेन् नगरं गुप्तं विवाहं शास्त्रकर्म च॥
17.11 यशेति द्वादशीम्म् आहुर् वैरेऽध्वनि च गर्हिता।
17.11 विवाहे च गिरौ क्षेत्रे गृहक्रमसु पूजिता॥
17.12 जया त्रयोदशी साध्वी मण्डलेषु च योषितां।(प्.203)
17.12 कन्यावरणवाणिज्यविवाहआदिषु चइष्यते॥
17.13 उग्रा चतुर्दशी तु स्यात् कारयेद् अभिचारकं।
17.13 वधबन्धप्रयोगांश् च पूर्वं च प्रहरेद् अपि॥
17.14 सिद्धा पञ्चदशी साध्वी देवताअग्निविधौ हिता।
17.14 गोसंग्रहवृषउत्सर्गबलिजप्यव्रतेषु च॥
17.15 नन्दआदीनां क्रिया पूर्वे षष्ठ्य्आदीनां तु मध्यमे।
17.15 सुनन्दायाश् च संध्याभिर् दिनरात्र्योः प्रसिध्यते॥
17.16 अयं भोः पुष्करसारिन् तिथिकर्मनिर्देशो नामअध्यायः।
17.17 अपि च महाब्राह्मण इदं पूर्वनिवासअनुस्मृतिज्ञानसाक्षात् क्रियायां विद्यायां चित्तम् अभिनिर्णयामि निवर्तयामि। अनेकविधपूर्वनिवासं समनुस्मरमि।
17.18 स्यात् ते ब्राह्मण काक्षा वा विमतिर् वा अन्यः स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूत्। न ह्य् एवं द्रष्टव्यं। अहम् एव स तेन कालेन तेन समयेन ब्रह्मा देवानां प्रवरोऽभूवं। सोऽहं ततश् च्युतः समान इन्द्रः कौशिकोऽभूवं। ततश् च्युतः समानोऽरणेमिर् गौतमोऽभूवं। ततश् च्युतः समानः श्वेतकेतुर् नाम महर्षिर् अभूवं। ततश् च्युतः समानः शुकपण्डितोऽभूवं। मया ते तदा ब्राह्मण चत्वारो वेदा विभक्ताः।
17.19 (प्.204)तद् यथा पुष्यो बहवृचानां पंक्तिश् छन्दोगानां। एकविंशतिचरणा अध्वर्यवः। क्रतुर् अर्थवणिकानां। स्यात् तव ब्राह्मण काङ्क्षा वा विमतिर् वा अन्यः स तेन कालेन तेन समयेन वसुर् नाम महर्षिर् अभूत्। न ह्य् एवं द्रष्टव्यं। अहम् एव स तेन कालेन तेन समयेन वसुर् नाम महर्षिर् अभूवं। मया सा तक्षकवधूकायाः कपिला नाम माणिविका दुहिताऽसादिता भार्याअर्थाय। सोऽहं तत्र संरक्तचित्त ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः परिहीनः। सोऽहम् आत्मानं जुगुप्समानस् तस्यां वेलायाम् इमां गाथां बभाषे। ओं भुभुवः स्वः। तत्सवितुर् वरेण्यं भर्गा देवस्य धीमहि। धियो यो नः प्रचोदयात्।
17.20 सोऽहं ब्राह्मण त्वां ब्रवीमि सामान्यसंज्ञा मात्रकम् इदं लोकस्य ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् एवइदं सर्वं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भार्याअर्थाय। यावतकं कुलशुल्कं मन्यसे तावतकम् अनुप्रदास्यामि। इदं च वचनं पुनः श्रूत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्क्रसारी इदम् अवोचत्।
17.21 भगवान् श्रोत्रियः श्रेष्ठस् त्वत्तो भूयान् न विद्यते।
17.21 सदेवकेषु लोकेषु महाब्रह्मासमो भवान्॥
17.22 पुत्राय ते भोः प्रकृतिं ददामि (प्.205) शीलेन रूपेण गुणैर् उपेतः।
17.22 शार्दूलकर्णः प्रकृतिस् तु भद्रा उभौ रमेतां रुचितं ममइदं।
17.23 तत्र तानि पञ्चमात्राणि माणवकशतानि उच्चैः शब्दानि प्रोचुर् महाशब्दानि। मा त्वं भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं सम्बन्धं रोचय। नअर्हसि भो उपाध्याय विद्यमानेषु ब्राह्मणेषु चाण्डालेन सार्धं सम्बन्धं कर्तुम्।
17.24 अथ ब्राह्मणः पुष्करसारी तेषां निदानं निदाय शब्दं संस्थाप्य निपत्य श्लोकेनएतान् अर्थान् अभाषत।
17.25 एवम् एतद् यथा ह्य् एष त्रिशङ्कुर् भाषते गिरं।
17.25 तत्वं ह्य् अवितथं भूतं सत्यम् नित्यं तथा ध्रुवं॥
17.26 अथ ब्राह्मणः पुष्करसारी तेषां माणवकानां तं महान्तं शब्दं संस्थाप्य त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्। अयं भोस् त्रिशङ्को ब्रह्मणा सहापतिना चातुर्महाभौतिको महापुरुषः प्रज्ञप्तः। यस्य।
17.27 शिरः सतारं गगनम् आकाशम् उदरं तथा।
17.27 पर्वताश् चअप्य् उभाव् ऊरू पादौ च धरणीतलं॥
17.28 सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती।
17.28 सागराश् चअप्य् अमेध्यं वै नद्यो सूत्रस्रवोऽस्य तु॥
17.29 अश्रूणि वर्षणं चारस्य एष ब्रह्मा सहापतिः।
17.29 भवांस् तु परमज्ञोऽसि तन् मे ब्रूहि यथा तथा॥
17.30 इह भोस् त्रिशङ्को किम् आह स्वलक्षणं ब्रह्मणः प्रत्यवेक्षस्व। पित्रा च मात्रा च कृतानि कर्माणि भवन्ति। अश्वस्तना स्तेन वञ्चिताः।
17.31 गच्छन्ति सत्त्वा बहुगर्भयोनिं न चएव कश्चिन् मनुजो ह्य् अयोनिः।
17.31 समस्त जातौ प्रचरन्ति सत्त्वा न मारुताज् जायते कश्चिद् एव॥
17.32 स्वभावभाव्यं ह्य् अवगच्छ लोके के ब्राह्मणक्षत्रियवैश्यशूद्राः।
17.32 सर्वत्र काणाः कुणिनश् च खञ्जाः कुष्ठी किलासी ह्य् अपस्मारिणोऽपि॥
17.33 कृष्णाश् च गौराश् च तथाएव श्यामाः सत्त्वाः प्रजा ह्य् अन्यतमे विशिष्टाः।(प्.207)
17.33 सहअस्थिचर्माः सनखाः समांसा दुःखी सुखी मूत्रपुरीषयुक्ताः।
17.33 न चइन्द्रियाणां प्रविविक्तिर् अस्ति तस्मान् न वर्णाश् चतुरो भवन्ति॥
17.34 मन्त्रैर् हि यदि लभ्येत स्वर्गं तु गमनं द्विजः।
17.34 कृष्णशुक्लानि कर्माणि भवेयुर् निष्फलानि हि।
17.34 यस्मात् कृष्णानि शुक्लानि कर्माणि सफलानि हि।
17.34घ् पच्यमानानि दृश्यन्ते गतिष्व् एतानि पञ्चसु॥
17.35 मानवकशतेषु स तत्र विनिहतो महायशसा त्रिशङ्कुना पुष्करसारी ब्राह्मणोऽब्रवीत्। ब्राह्मणोऽसौ मातङ्गराजो हि त्रिशङ्कुर् नाम। भवान् हि ब्रह्मा इन्द्रश् च कौशिकः। त्वम् अरणेमिश् च गौतमः। त्वं श्वेतकेतुश् च शुकपण्डितः। वेदः समाख्यातस् त्वया चतुर्धा। भगवान् वसूराजर्षिर् महायशा भगवान्।
17.36 ज्ञानेन हि त्वं परमेण युक्तः स्वषु शास्त्रेषु भवान् कृतार्थः।
17.36 श्रेष्ठो विशिष्टो परमोऽसि लोके भवान् हि विद्याचरणेन युक्तः॥
17.37 ददामि तेऽहं प्रकृतिं ममामलां शीलेन रूपेण गुणैर् उपेतः।
17.37 शार्दूलकर्णः प्रकृतिश् च भद्रा उभौ रमेतं रुचितं ममइदं॥
17.38 प्रगृह्य भृङ्गारम् उदकप्रपूर्णम् आवर्जितो ब्राह्मणो हृष्टचित्तः।(प्.208)
17.38 अनुप्रदासीद् उदकेन कन्यकां शार्दूलकर्णस्य इयम् अस्तु भार्या॥
17.39 उदग्रचित्त आसीन् मातङ्गराजः।
17.40 कृत्वा निवेशं स तदात्मजस्य गत्वाआश्रमेऽसौ नगरं यशस्वी।
17.40 धर्मेण वै कारयति स्वराज्यं क्षेमं सुभिक्षं च सदाउत्सवआद्यं ॥ इति।

17.41 स्याद् भिक्षवो युष्माकं काङ्क्षा वा विमतिर् वा विचिकित्सा वा। अन्यः स तेन कालेन तेन समयेन त्रिशङ्कुर् नाम मातङ्गराजोऽभूवं। स्याद् एवं च भिक्षवो युस्माकम् अन्यः स तेन कालेन तेन समयेन शार्दूलकर्णा नाम मातङ्गराजकुमारोऽभूत्। नैव द्रष्टव्यं। एष स आनन्दो भिक्षुः स तेन कालेन तेन समयेन शार्दूलकर्णा नाम मातङ्गराजकुमारोऽभूत्। स्याद् एवं युष्माकम् अन्यः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत्। नैव द्रष्टव्यं। एष शारद्वतीपुत्रो भिक्षुः स तेन कालेन तेन समयेन पुष्करसारी नाम ब्राह्मणोऽभूत्। नअन्या सा तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिताअभूत्। नएवं द्रष्टव्यं। एषा सा प्रकृतिर् भिक्षुणी तेन कालेन तेन समयेन पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिताअभूत्। सा एतर्हि तेनएव स्नेहेन तेनएव प्रेम्णाऽनन्दं भिक्षुं गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तत्र तत्रएव द्वारे तूष्णीं भूताऽस्थात्।

17.42 अथ खलु भगवान् एतस्मिन् निदाने एतस्मिन् प्रकरणे तस्यां वेलायाम् इमां गाथाम् अभाषत।
17.43 पूर्वकेण निवासेन प्रत्युत्पन्नेन तेन च।
17.43 एतेन जायते प्रेम चन्द्रस्य कुमुदे यथा॥
17.44 तस्मात् तर्हि भिक्षवोऽनभिसमितानां चतुर्णाम् आर्यसत्यानाम् अभिसमयाय, अधिमात्रं वीर्यं तीव्रच्छन्दो वीर्यं शब्दापयामि। उत्साह उन्नतिर् अप्रतिवाणिः स्मृत्या संप्रजन्येन अप्रमादतो योगः चरणीयः। द्रुतम् एषां चतुर्णा दुःखस्यआर्यसत्यस्य दुःखसमुदयन्य निरोधस्य निरोधगामिन्याः प्रतिपद आर्यसत्यस्य अमीषां चतुर्णाम् आर्यसत्यानाम् अनभिसमितानाम् अभिसमयायअधिमात्रं तीव्रच्छन्दो वीर्यं व्यायाम उत्साह उन्नतिर् अप्रतिवाणिः स्मृत्या संप्रजन्येनअप्रमादतो योगः करणीयः।
17.45 अस्मिंश् च खलु पुनर् धर्मपर्याये भाष्यमाणे भिक्षूणां षष्टिमात्राणाम् अनुपादायास्रवेभ्यश् चित्तानि विमुक्तानि। संबहुलानां श्रावकाणां ब्रह्मणां गृहपतीनं च विरजस्कं विगतमलं धर्मचक्षुर् उदपादि विशुद्धं।
17.46 इदम् अवोचद् भगवान्। आत्तमनसस् ते भिक्षवो भगवतो भाषितम् अभ्यनन्दन्।

इति श्रीदिव्यावदाने शार्दूलकर्णावदानं।

वाह्यसूत्राणी

शार्दूलकर्णावदान

स्थूलक्षरम् वलिताक्षरम् परिसन्धिः अन्तर्गता सञ्चिका सन्दर्भः

ॐ नमो रत्नत्रयाय

1.1 एवं मया श्रुतम्। एकसिन् समये भगवान् श्रावस्त्यां विहरति स्म। जेतवनेऽनाथपिण्डदस्यआरामे।
1.2 अथआयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं महानगरीं पिण्डाय प्राविक्षत्। अथआयुष्मान् आनन्दः श्रावस्तीं पिण्डाय चरित्वा कृतभक्तकृत्यो येनान्यतमम् उदपानं तेनउपसंक्रान्तः।
1.3 तेन खलु समयेन तस्मिन्न् उदपाने प्रकृतिर् नाम मातङ्गदारिका उदकम् उद्धरते स्म। अथआयुष्मान् आनन्दः प्रकृतिं मातङ्गदारिकाम् एतद् अवोचत्। देहि मे भगिनि पानीयं पास्यामि।
1.4 एवं किते प्रकृतिर् मातङ्गदारिकायुष्मन्तम् आनन्दम् इदम् अवोचत्। मातङ्गदारिकाहम् अस्मि भदन्तानन्द। नअहं ते भगिनि कुलं वा जातिं वा च्छामि। अपि तु सचेत्ते परित्यक्तं पानीयं देहि पास्यामि।
1.5 अथ प्रकृतिर् मातङ्गदारिकायुष्मन्तम् आनन्दाय पानीयम् अदात्। अथआयुष्मान् आनन्दः पानीयं पीत्वा प्रक्रान्तः।
1.6 अथ प्रकृतिर् मातङ्गदारिकायुष्मन्त आनन्द्स्य शरीरे मुखे स्वरे साधु च सुष्ठु च निमित्तम् उद्गृहीत्वा योनिशो मनसिकारेणाविष्टा संरागचित्तम् उत्पादयति स्म। आर्यो मे आनन्दः स्वामी स्याद् इति। माता च मे महाविद्याधरी सा शक्ष्यत्य् आर्यम् आनन्दम् आनयितुम्।

2.1 अथ प्रकृतिर् मातङ्गदारिका पानीयघटम् आदाय येन चण्डालगृहं तेनउपसंक्रम्य पानीयघटम् एकान्ते निक्षिप्य स्वां जननीम् इदम् अवोचत्।
2.2 यत् खल्व् एवम् अम्ब जानीया आनन्दो नाम श्रमणो महाश्रमणगौतमस्य श्रावक उपस्थायकस् तम् अहं स्वामिनम् इच्छामि। शक्ष्यसि तम् अम्ब आनयितुम्।
2.3 सा ताम् अवोचत्। शक्ताऽहं पुत्रि आनन्दम् आनयितुं। स्थापयित्वा यो मृतः स्याद् यो वा वीतरागः। अपि च राजा प्रसेनजित् कौशलः श्रमणगौतमम् अतीव सेवते भजते पर्युपासते। यदि जानीयात् सोऽयं चण्डालकुलस्यानर्थाय प्रतिपद्येत। श्रमणश् च गौतमो वीतरागः श्रूयते। वीतरागस्य [मन्त्राः] पुनः सर्वमन्त्रान् अभिभवन्ति।
2.4 एवम् उक्ता प्रकृतिर् मातङ्गदारिका मातरम् इदम् अवोचत्। स चेद् अम्ब श्रमणो गौतमा वीतरागस्तस्यअन्तिकाच् छ्रमणम् आनन्दं न प्रतिलप्स्ये जीवितं परित्यजेयं स चेत् प्रतिलिप्स्ये जीवामि।
2.5 मा ते पुत्रि जीवितं परित्यजसि आनयामि श्रमणम् आनन्दम्।
2.6 अथ प्रकृतेर् मातङ्गदारिकाया माता मध्ये गृहाङ्गनस्य गोमयेनोपलेपनं कृत्वा वेदीम् आलिप्य दर्भान् संस्तीर्यअग्निं प्रज्वाल्यअष्टशतम् अर्कपुष्पाणां गृहीत्वा मन्त्रान् आवर्तयमाना एकैकम् अर्कपुष्पं परिजप्य अग्नौ प्रतिक्षिपति स्म। तत्रइयं विद्या भवतिः

3.1 अमले विमले कुङ्कुमे सुमने। येन बद्धाऽसि विद्युत्। इच्छया देवो वर्षति विद्योतति गजेति विस्मयं महाराजस्य समभिवर्धायितुं देवेभ्यो मनुष्येभ्यो गन्धर्वेभ्योः शिखिग्रहा देवा विशिखिग्रहा देवा आनन्दस्यआगमनाय संगमनाय क्रमणाय ग्रहणाय जुहोमि स्वाहा

दिव्यावदान

3.2 अथआयुष्मत आनन्दस्य चित्तम् आक्षिप्तं। स विहारान् निष्क्रम्य येन चण्डालगृहं तेनउपसंक्रामति स्म।
3.3 अद्राक्षीच् चण्डाली आयुष्मन्तम् आनन्दं दूराद् एवआगच्छन्तं। दृष्ट्वा च पुनः प्रकृतिं दुहितरम् इदम् अवोचत्। अयम् असौ पुत्रि श्रमण आनन्द आगच्छति शयनं प्रज्ञपय।
3.4 अथ प्रकृतिर् मातङ्गदारिका हृष्टतुष्टा प्रमुदितमना आयुष्मत आनन्दस्य शय्यां प्रज्ञपयति स्म।
3.5 अथआयुष्मान् आनन्दो येन चण्डालगृहं तेनउपसंक्रान्तः। उपसंक्रम्य वेदीम् उपनिश्रित्याऽस्थात्। एकान्तस्थितः स पुनर् आयुष्मान् आनन्दः प्रारोदीद्। अश्रूणि प्रवर्तयमान एवम् आह। व्यसनप्राप्तोऽहम् अस्मि न च मे भगवान् समन्वाहरति।
3.6 अथ भगवान् आयुष्मन्तम् आनन्दं समन्वाहरति स्म। समन्वाहृत्य संबुद्धमन्त्रैश् चण्डालमन्त्रान् प्रतिहन्ति स्म। तत्रइयं विद्याः।
3.7 स्थितिर् अच्युतिः सुनीतिः। स्वस्ति सर्वप्राणिभ्यः।

4.1 सरः प्रसन्नं निर्दोषं प्रशान्तं सर्वतोऽभयं।
4.1 ईतयो यत्र शाम्यन्ति भयानि चलितानि च।
4.2 तद् वै देवा नम्स्यन्ति सर्वसिद्धाश् च योगिनः।
4.2 एतेन सत्यवाक्येन स्वस्त्याआनन्दाय भिक्षवे॥
4.3 अथआयुष्मान् आनन्दः प्रतिहतचण्डालमन्त्रश् चण्डालगृहान् निष्क्रम्य येन स्वको विहारस् तेनउपसंक्रमितुम् आरब्धः।
4.4 अद्राक्षीत् प्रकृतिर् मातङ्गदारिका। आनन्दम् आयुष्मन्तं प्रतिगच्छन्तं दृष्ट्वा च पुनः स्वां जननीम् इदम् अवोचत्। अयम् असौ मातः श्रमण आनन्दः प्रतिगच्छति। ताम् आह माता। नियतं पुत्रि श्रमणेन गौतमेन समन्वाहृतो भविष्यति। तेन मम मन्त्राः प्रतिहता भविष्यन्ति। प्रकृतिर् आह। किं पुनर् अम्ब बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नअस्माकं। ताम् आह माता। बलवत्तराः श्रमणस्य गौतमस्य मन्त्रा नअस्माकं। ये पुत्रि मन्ताः सर्वलोकस्य प्रभवन्ति तान् मन्त्रान् श्रमणो गौतम आकाङ्क्षमाणः प्रतिहन्ति। न पुनर् लोकः प्रभवति श्रमणस्य गौतमस्य मन्त्रान् प्रतिहन्तुं। एवं बलवत्तराः अवमणस्य गौतमस्य मन्त्राः।
4.5 अथआयुष्मान् आनन्दो येन भगवांस् तेनउपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वाएकान्तेऽस्थात्।
4.6 एकान्तस्थितम् आयुष्मन्तम् आनन्दं भगवान् इदम् अवोचत्। उद्गृह्ण त्वम् आनन्द इमां षडक्षरीविद्यां धारय वाचय पर्यवाप्नुहि। आत्मनो हिताय सुखाय भिक्षूणां भिक्षुणीनाम् उपासकानाम् उपसिकानां हिताय सुखाय। इयम् आनन्द षड्क्षरीविद्या षड्भिः सम्यक् संबुद्धैर् भाषिता चतुर्भिश् च महाराजैः शक्रेण देवानाम् इन्द्रेण ब्रह्मणा च सहापतिना। मया चएतर्हि शाक्यमुनिना सम्यक्संबुद्धेन भाषिता। त्वम् अप्य् एतर्ह्य् आनन्द तां धारय वाचय पर्यवाप्नुहि। यद् उत तद् यथा:

5.1 अण्डरे पाण्डरे कारण्डे केयूरेऽर्चिहस्ते खरग्रीवे बन्धुमति चीरमति धरविध चिलिमिले विलोडय विषाणि लोके। विष चल चल। गोलमति गण्डविले चिलिमिले सअतिनिम्ने यथा संविभक्तगोलमति गण्डविलायै स्वाहा।
5.2 यः कश् चिद् आनन्दषडक्षर्या विद्यया परित्राणं स्वस्त्ययनं कुर्यात् स यदि वधअर्हो भवेत् दण्डेन मुच्यते। दण्डअर्हः प्रहारेण प्रहारअर्हः परिभाषणया परिभाषणअर्हो रोमहर्षणेन रोमहर्षणअर्हः पुनर् एव मुच्यते।
5.3 नअहम् आनन्द तं समनुपश्यामि सदेवलोके समारलोके सब्रह्मलोके सश्रमणब्राह्मणिकायां प्रजायां सदेवमानुषिकायां सअसुरायां यस् त्व् अनया षडक्षयं विद्यया रक्षायां कृतायां रक्षासूत्रे बाहौ बद्धे स्वस्त्ययने कृतेऽभिभवितुं शक्रोति वर्जयित्वा पौराणं कर्मविपाकम्।

6.1 अथ प्रकृतिर् मातङ्गदारिका तस्या एव रात्र्या अत्ययात् शिरःस्नाताऽनाहत दूष्यप्रावृता मुक्तामाल्यआभरणा येन श्रावस्तो नगरी तेनउपसंक्रम्य नगरद्वारे कपाटमूले निश्रित्याऽस्थात्। आयुष्मन्तम् आनन्दम् आगमयमाना। नियतम् अनेन मार्गेणआनन्दो भिक्षुरागम् इष्यतिइति।
6.2 अथआयुष्मान् आनन्दः पूर्वाह्णे निवास्य पात्रचीवरम् आदाय श्रावस्तीं पिण्डाय प्राविक्षत्। ददर्श प्रकृतिर् मातङ्गदारिकआयुष्मन्तम् आनन्दं। दूरत एव दृष्ट्वा च पुनर् आयुष्मन्तम् आनन्दं ष्ठतः ष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशति तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति आयुष्मन्तम् आनन्दम् आमन्त्रयमाणा।
6.3 ददर्शायुष्मानानन्दः प्रकृतिं मातङ्गदारिकां। ष्ठतः ष्ठतः समनुबद्धां दृष्ट्वा च पुनर् जेह्रीय्माणरूपोऽप्रगल्भायमानरूपो दुःखी दुर्मनाः शीघ्रं शीघ्रं श्रावस्त्या विनिर्गम्य येन जेतवनं तनोपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वेकान्तेऽस्थाद्। एकान्तस्थित आयुष्मान् आनन्दो भगवन्तम् इदम् अवोचत्। इयं मे भगवन् प्रकृतिर् मातङ्गदारिका ष्ठतः ष्ठतः समनुबद्धा गच्छन्तम् अनुगच्छति, तिष्ठन्तम् अनुतिष्ठति। यद् यद् एव कुलं पिण्डाय प्रविशामि तस्य तस्यैव द्वारे तूष्णीभूता तिष्ठति। त्राहि मे भगवन् त्राहि मे सुगत।
6.4 एवम् उक्ते भगवान् आयुष्मन्तम् आनन्दम् इदम् अवोचत्। मा भेर् मा भेर् इति। अथ भगवान् प्रकृतिं मातङ्गदारिकाम् इदम् अवोचत्। हिं ते प्रकृते मातङ्गदारिके आनन्देन भिक्षुणा। प्रकृतिर् आह। स्वामिनं भदन्तम् आनन्दम् इच्छामि। भगवान् आह। (7) अनुज्ञातासि प्रकृते मातापितृभ्याम् आनन्दाय। अनुज्ञातास्मि भगवन्न् अनुज्ञातास्मि सुगत। भगवान् आह। तेन हि सम्मुखं ममानुज्ञापय्य त्वम्।

7.1 अथ प्रकृतिर् मातङ्गदारिका भगवतः प्रतिश्रुत्य भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्ता। येन स्वकौ मातापितरौ तेनउपसंक्रान्ता। उपसंक्रम्य मातापित्रोः पादान् शिरसा वन्दित्वाएकान्तेऽस्थाद्। एकान्तस्थिता स्वकौ माता पितराव् इदम् अवोचत्। सम्मुखं मेऽम्ब तात श्रमणस्य गौतमस्यानन्दायोत्सृजतम्।
7.2 अथ प्रकृतेर् मातङ्गदारिकाया मातापितरौ प्रकृतिम् आदाय यन भगवाम्स् तेनउपसंक्रान्तौ। उअप्संक्रम्य भगवतः पादौ शिरसा वन्दित्वाएकान्ते न्यषीदतां। अथ प्रकृतिर् मातङ्गदारिका भगवतः पादौ शिरसा बन्दित्वा एकान्तेऽस्थाद्। एकान्तस्थिता भगवन्तम् एतद् अवोचत्। इमौ तौ भगवन् मातापितराव् आगतौ।
7.3 अथ भगवान् प्रकृतेर् मातङ्गदारिकाया मातापितराव् इदम् अवोच्त्। अनुज्ञाता युवाभ्यां प्रकृतिर् मातङ्गदारिकानन्दायेति। ताव् आहुतुः। अनुज्ञाता भगवन्न् अनुज्ञाता सुगत। तेन हि यूयं प्रकृतिम् अपहाय गच्छत स्वगृहम्।
7.4 अथ प्रकृतेर् मातङ्गदारिकाया मातापितरौ भगवतः पादौ शिरसा वन्दित्वा भगवन्तं त्रिःप्रदक्षिणीकृत्य भगवतोऽन्तिकात् प्रक्रान्तौ।
7.5 अथ प्रकृतेर् मातङ्गदारिकाया मातापितराव् अचिरप्रक्रान्तौ विदित्वा भगवान् प्रकृतिं मातङ्गदारिकाम् इद्म् अवोचत्। अर्थिकासि प्रकृते आनन्देन भिक्षुणा। प्रकृतिर् आह। अर्थिकास्मि भगवन्न् अर्थिकास्मि सुगत। तेन हि प्रकृते य आनन्दस्य वेशः स त्वया धारयितव्यः। सा आह। धारयामि भगवन् धारयामि सुगत। प्रव्राजयतु मां सुगत प्रव्राजयतु मां भगवान्।

8.1 अथ भगवान् प्रकृतिं मातङ्गदारिकाम् इदम् अवोचत्। एहि त्वं भिक्षुणि चर ब्रह्मचर्यम्।
8.2 एवम् उक्ते प्रकृतिर् मातङ्गदारिका भगवता मुण्डा काषायप्रावृता। अथ भगवान् प्रकृतिं मातङ्गदारिकाम् एहि भिक्षुणीवादेन प्रव्राजयित्वा धर्म्यया कथया संदर्शयति स्म, समादापयति स्म, समुत्तेजयति स्म, संप्रहर्षयति स्म। येयं कथा दीर्घरात्रं संसारसमापन्नानां प्रतिकूला श्रवणीया।तद् यथा। दानकथा शीलकथा स्वर्गकथा कामेष्व् आदीनवं निःसरणं भयं संक्लेशव्यवदानं बोधिपक्षांस् तान् धर्मान् भग्वान् प्रकृत्यै भिक्षुण्यै संप्रकाशयति स्म।
8.3 अथ प्रकृतिर् भिक्षुणी भगवता धर्म्यय कथया संदर्शिता समादापिता समुत्तेजिता संप्रहर्षिता हृष्टचित्ता कल्याणचित्ता मुदितचित्ता विनीवरणचित्ता ऋजुचित्ताऽखिलचित्ता भव्या धर्मदेशितम् आज्ञातुम्।

9.1 यदा च भगवान् ज्ञातः प्रकृतिं भिक्षुणीं हृष्टचित्तां कल्याणचित्तां मुदितचित्तां विनिवरणचित्तां भव्यां प्रतिबलां सामुत्कर्पिकीं धर्मदेशनाम् आज्ञातुं तदा येयं भगवतां बुद्धानां चतुरार्यसत्यप्रतिवेधिकी सामुत्कर्षिकी धर्मदेशना, यद् उत दुःखं समुदयो निरोधो मार्गः, तां भगवान् प्रकृतेर् भिक्षुण्या विस्तरेण संप्रकाशयति स्म।
9.2 अथ प्रकृतिभिक्षुणी तस्मिन्न् एवासने निषण्णा चतुरार्यसत्यान्यभिज्ञातासित्। दुःखं सुमुदयं निरोधं मार्गं॥ तद् यथा वस्ताम् अपगतकालकं रजनोपगतं रङ्गउदके प्रक्षिप्तं सम्यग् एव रङ्गं प्रतिगृह्णीयाद् एवम् एव प्रकृतिर् भिक्षुणी तस्मिन्नेवासने निषण्णा चतुरार्यसत्यानि अभिसमयति स्म, तद् यथा दुःखं सुमुदयं निरोधं मार्गम्।
9.3 अथ प्रकृतिर् भिक्षुणी कृष्टधर्मा प्राप्तधर्मा विदितधर्मा अकोप्यधर्मा पर्यवसितधर्मअधिगतअर्थलाभसंवृत्ता तीर्णकाङ्क्षाविचिकित्सा विगतकथंकथा वैशारद्यप्राप्ताऽपरप्रत्ययाऽनन्यनेया शास्तुः शासनेऽनुधर्मचारिणी आजानेयमाना धर्मेषु भगवतः पादयोः शिरसा निपत्य भगवन्तम् इदम् अवोचत्।
9.4 अत्ययो मे भगवन्न् अत्ययो मे सुगत। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञजातीया याहम् आनन्दं भिक्षुं स्वामिवादेन समुदाचर्षं। सअहं भदन्तात्ययमत्ययतः पश्यामि। अत्ययम् अत्ययतो दृष्ट्वा देशयामि। अत्ययम् अत्ययत आविष्करोमि। आयत्यां संवरम् आपद्ये। अतस् तस्या मम भगवन्न् अत्ययम् अत्ययतो जानातु प्रतिगृह्णातु अनुकम्पाम् उपादाय। भगवान् आह। आयत्यां संवराय स्थित्वा त्वं प्रकृतेऽत्ययम् अत्ययतोऽध्यागमः। यथा बाला यथा मूढा यथाऽव्यक्ता यथाऽकुशला दुष्प्रज्ञजातीय त्वम् आनन्दं भिक्षुं स्वामिवादेन (10) अमुदाचरसिइति। यतश् च त्वं प्रकृतेऽत्ययं जानासि अत्ययं पश्यसि आयत्यां च संवरम् आपद्यसे, अहम् अपि तेऽत्ययम् अत्ययतो गृह्णामि। वृद्धिर् एव ते प्रकृते प्रतिकाङ्क्षतव्या कुशलानां धर्माणां न हानिः।

10.1 अथ प्रकृतिर् भिक्षुणी भगवताअभिनन्दिता अनुशिष्टा एकाव्यपकृष्टाऽप्रमत्ता आतापिनी स्मृतिम् अती संप्रजाना प्रहितानि विविक्तानि विहरति स्म। यद् अर्थं कुलदुहितरः केशान् अवतार्य काषायाणि वस्त्राण्य् आच्छाद्य सम्यग् एव श्रद्धयाआगाराद् अनागारिकां प्रव्रजन्ति तदनुत्तरब्रह्मचर्यपर्यवसानं दृष्ट एव धर्मे स्वयम् अभिज्ञय साक्षात् कृत्यउपसंपद्य प्रवेदयते स्म। क्षीणा मे जातिर् उषितं ब्रह्मचर्यं कृतं करणीयं नअपरमस्माद् भवं प्रजानामिइति।

10.2 अश्रौषुः श्रावस्तेयका ब्राह्मणगृहपतयो भगवता किल चन्डालदारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायन्ति। कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्चर्यां चरिष्यति। कथं हि नाम चण्डालदारिका ब्रह्मक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति।

11.1 अश्रौषीद् राजा प्रसेनजित् कौशलो भगवता चण्डालदारिका प्रव्राजितेति। श्रुत्वा च पुनर् अवध्यायाति। कथं हि नाम चण्डालदारिका भिक्षूणां सम्यक्चर्यां चरिष्यति। भिक्षुणीनाम् उपासकानाम् उपासिकानां सम्यक्चर्यां चरिष्यति। कथं ब्राह्मणक्षत्रियगृहपतिमहाशालकुलेषु प्रवेक्ष्यति।
11.2 विमृष्य च भदरं यानं योजयित्वा भद्रं यानम् अभिरुह्य संबहुलैश् च श्रावस्तेयैर् ब्राह्मणगृहपतिभिः परिवृतः पुरस्कृतः श्रावस्त्या निर्याति स्म। येन जेतवनम् अनाथपिण्डदस्यआरामस् तेनउपसंक्रान्तः। तस्य खलु यावती यानस्य भूमिस् तावद् यानेन गत्वा स यानाद् अवतीर्य पत्तिकायपरिवृतः पत्तिकायपुरस्कृतः पद्भ्याम् एवआरामं प्राविक्षत्। प्रविश्य येन भगवांस् तेनउपसंक्रान्तः। उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः। तेऽपि संबहुलाः श्रावस्तेयका ब्राह्मणक्षतिर्यगृहपतयो भगवतः पादौ शिरसा वन्दित्वाएकान्ते निषण्णाः। अप्य् ऐकत्या भगवता सार्धं संमुखं संरञ्जनीं संमोदिनीं विविधां कथां व्यतिसार्यएकान्ते निषण्णाः। अप्य् ऐकस्या भगवतः पुरतः स्वकस्वकानि मातापैतृकाणि नामगोत्राणि अनुश्राव्यएकान्ते निषण्णाः। अप्य् ऐकत्य येन भगवांस् तेनअञ्जलिं प्रणम्यएकान्ते निषण्णाः। अप्य् ऐकत्यास् तूष्णीं भूता एकान्ते निषण्णाः।
11.3 अथ भगवान् राजानं प्रसेनजितं कौशलम् आरभ्य तेषां च संबहुलानां श्रावस्तेयकानां ब्राह्मणक्षत्रियगृहपतीनां चेतसा चित्तम् आज्ञाय प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य भिक्षूनाम् अन्त्रयते स्म। इच्छथ यूयं भिक्षवस् तथाआगतस्य सम्मुखं प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य धर्मकथां श्रोतुम्।
11.4 भिक्षवो भगवन्तम् आहुः । एतस्य भगवन् काल एतस्य सुगत समयो यद् भगवान् प्रकृतेर् भिक्षुण्याः पूर्वनिवासम् आरभ्य धर्मकथां कथायेत्। यद् भगवतः (12) श्रुत्वा भिक्षवो धारयिष्यन्ति। भगवान् आह। तेन हि भिक्षवः शृणुत साधु च सुष्ठु च मनसि कुरुत भाषिष्ये। एवं साधु भगवन्न् इति ते भिक्षवो भगवतः प्रत्यश्रौषुः। भगवांस् तान् इदम् अवोचत्।

12.1 भूतपूर्वं भिक्षवोऽतीतेऽध्वनि गङ्गातटेऽतिमुक्तकदलीपाटलकआमलकी वनगहनप्रदेशे तत्र त्रिशङ्कुर् नाम मातङ्गराजः प्रतिवसति स्म। संबहुलैश् च मातङ्गसहस्रैः सार्धं। स पुनर् भिक्षवस् त्रिशङ्कुर् मातङ्गरजः पूर्वजन्मअधीतान् वेदान् समनुस्मरति स्म सअङ्गउपाङ्गान् सरहस्यान् सनिघण्टकैटभान् सअक्षरप्रभेदान् इतिहासपञ्चमानन्यानि च शास्त्राणि। पदको वैयाकरणो लोकायतयज्ञमन्त्रे महापुरुषलक्षणे निष्णातो निष्काङ्क्षो भाष्यं च यथार्धर्मं वेदव्रतपदान्य् अनुश्रुतं च भाषते स्म।
12.2 तस्य त्रिशङ्कुर् मातङ्गराजस्य शार्दूअकर्णो नाम कुमारोऽभूद् उत्पन्नः। रूपतश् च कुलतश् च शीलतश् च गुणतश् च सर्वगुणैश् चउपेतोऽभिरूपो दर्शनीयः प्रासादिकः परमया शुभवर्णपुष्कलतया समन्वागतः।
12.3 अथ त्रिशङ्कुर् मातङ्गराजः।शार्दूलकर्णं कुमारं पूर्वजन्माधीतान् वेदान् अध्यापयति स्म। यद् उत सअङ्गउपाङ्गान् सरहस्यान् सनिघण्टकैटभान् सअक्षरप्रभेदान् इतिहासपञ्चमानन्यानि च शास्त्राणि भाष्यं च यथाधर्मं वेदव्रतपदानि।
12.4 अथ त्रिशङ्कोर् मातङ्गराजस्यएतद् अभवत्। अयं मम पुत्रः शार्दूलकर्णो नाम कुमारः। उपेतो रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्वगुणउपेतोऽभिरूपो (13) दर्शनीयः प्रासादिकः परमया च वर्णपुष्कलतया समन्वागतः। चीर्णव्रतोऽधीतमन्त्रो वेदपारगः। समयोऽयं यन् न्य् अहम् अस्य निवेशनधर्मं करिष्ये। तत् कुतो न्य् अवं शार्दूलकर्णस्य पुत्रस्य शीलवतीं गुणवतीं रूपवतीं प्रतिरूपां प्रजावतीं लभेयम् इति।छेच्केद्

13.1 तस्मिन् खलु समये पुष्करसारी नाम ब्राह्मण उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते स्म। समप्तउत्सदं सतृणकाष्ठउदकं धान्यसहगतं राज्ञाऽग्निदत्तेन ब्रह्मदेयं दत्तम्।
13.2 पुष्करसारी पुनर् ब्राह्मण उपेतः मातृतः पितृतः संशुद्धो गृहिण्यामनाक्षिप्तो जातिवादेन गोत्रवादेन यावद् आसप्तममातामहपितामहं। युगपद् उपाध्यायोऽध्यापको मन्त्रधरस् त्रयाणां वेदानां पारगः सअङ्गउपाङ्गानां सरहस्यानां सनिघण्टकैटभानां सअक्षरप्रभेदानाम् इतिहासपञ्चमानां सदृशव्याकर्ता पदको वैयाकरणः। लोकायतयज्ञमन्त्रमहापुरुषलक्षणेषु पारगः। स्फीतम् उत्कूटं नाम द्रोणमुखं परिभुङ्क्ते।
13.3 पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता भूता। उपेता रूपतश् च कुलतश् च शीलतश् च गुणतश् च। सर्वगुणउपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता शीलवती गुणवती।
13.4 अथ त्रिशङ्कोर् मातङ्गराजस्यएतद् अभवत्। अस्त्य् उत्तरपूर्वेणउत्कूटो नाम द्रोणमुखः, तत्र पुष्करसारो नाम ब्राह्मणः प्रतिवसति। उपेतो मातृतः पितृतो (14) यावत् तत्रैवेदिके प्रवचने विस्तरेण। स चउत्कूटं द्रोणमुखं परिभ्ङ्क्ते। ससप्तउत्सदं सतृणकाष्ठउदकं धान्यभोगैः सहगतं राज्ञाऽग्निदत्तेन ब्रह्मदेयं दत्तम्।

14.1 तस्य पुष्करसारिणो ब्राह्मणस्य प्रकृतिर् नाम माणविका दुहिता उपेता रूपतश् च कुलतश् च शीलतश् च सर्वगुणउपेताऽभिरूपा दर्शनीया प्रासादिका परमया वर्णपुष्कलतया समन्वागता। शीलवती गुणवती पुत्रस्य मे शार्दूलकर्णस्य प्रतिरूपा पत्नी भविष्यतिति।
14.2 अत्र त्रिशङ्कुर् मातङ्गराज एतम् एवार्थं बहुलं रात्रौ चिन्तयित्वा वितर्क्य तस्या एव रात्र्या अत्ययात् प्रत्यूषकालसमये सर्वश्वेतं वडवा रथम् अभिरुह्य महता श्वपाकगणेनामात्यगणेन परिवृतश् चण्डालकुलनगरान् निष्क्रम्यउत्तरेन प्रागच्छद्येनोत्कूटं द्रोणमुखम्।
14.3 अथ त्रिशङ्कुर् मातङ्गराज उत्कूटस्यउत्तरपूर्वेण सुमनस्कं नामउद्यानं नानावृक्षसंच्छन्नं नानावृक्षकुसुमितं नानाद्विजनिकूजितं नन्दनम् इव देवानां तद् उपसंक्रान्तः। उपसंक्रम्य ब्राह्मणं पुष्करसारिणम् आगमयमानोऽस्थात्। ब्राह्मणः पुष्करसारी माणवकान् मन्त्रान् वाचयितुम् इहागमिष्यतिइति।
14.4 अथ ब्राह्मणः पुष्करसारी तस्या एव रात्र्या अत्ययात् सर्वश्वेतं वडवारथम् अभिरुह्य शिष्यगणप्रिवृतः पञ्चमात्रैर् माणवकशतेः पुरस्कृत उत्कूटान् निर्य्ति स्म, ब्राह्मणकान् मन्त्रान् वाचयितुम्।

15.1 अद्राक्षीत् त्रिशङ्कुर् मातङ्गराजो ब्राह्मणं पुष्करसारिणं सूर्यम् इवउदयन्तं तेजसा ज्वलन्तम् इव हुतवहं यज्ञम् इव ब्राह्मणपरिवृतं शक्रम् इव देवगणपरिवृतं हैमवन्तम् इवौषधिभिः समुद्रम् इव रत्नैश् चन्द्रम् इव नक्षत्रैर् वैश्रवणम् इव यक्षगणैर् ब्रह्माणम् इव देवर्षिगणैः परिवृतं शोभमानं। दूरत एवागच्छन्तं दृष्ट्वा चैनं प्रत्युद्गम्य यथाधर्मं कृत्वेदम् अवोचत्।
15.2 अहं भोः पुष्करसारिन् स्वागतम् आयाहि। कार्यं च ते वक्ष्यामि तच् छ्रूयतां। एवम् उक्ते ब्राह्मणः पुष्करसारी त्रिशङ्कुमातङ्गराजम् इदम् अवोचत्।
15.3 न हि भोस् त्रिशङ्को शक्यं ब्राह्मणेन सह भोः कारं कर्तुं।
15.4 अहं भोः पुष्करसारिन् शक्नोमि भोः कारं कर्तुं। यच्छक्यं मे कर्तुं भवति नैव तच्छक्यं ते कर्तुं। अपि तु चत्वारो भोः पुष्करसारिन् पुरुषस्य कार्यसमारम्भाः पूर्वसमारब्धा भवन्ति। यद् उत आत्मार्थं वा परार्थं वात्मीयार्थं (16) वा सर्वभूतसंग्रहार्थं वा। इदं चअत्र महत्तरं कार्यं यत् ते व्याख्यास्यामि तच् छ्रूयतां। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्याअर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तं दास्यामि।

16.1 इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य भृशं ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च क्वेषं च म्रक्ष्यं च तत्प्रत्ययात् संजनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं धमयित्वाऽक्षिणी परिवर्त्य नकुलपिङ्गलां दृष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्।
16.2 धिग् ग्राम्यविषय। चण्डाल। नेदं श्वपाकवचनं युक्तं। यस्त्वं ब्राह्मणं वेदपारगं हीनश् चण्डालयोनिजो भूत्वा इच्छस्य् अवमर्दितुं। भो दुर्मते।
16.3 प्रकृतिं त्वं न जानासि; आत्मानं चअभिमन्यसे।
16.3 बालअग्रे सर्षपं मा भो स्थापय(मा)क्लेशम् आगमः।
16.4 मा प्रार्थयाऽप्रार्थनीयां वायुं पाशेन बन्धय।

17.1 न हि चामीकरं मूढ भवेद् भस्म कदाचन।
17.1 प्रकाशे बान्धकारे किं विशेषो नोपलभ्यते॥
17.2 चण्डालयोनिजस् त्वं हि द्विजातिः पुनर् अप्य् अहं।
17.2 हीनः श्रेष्ठेन सम्बन्धं मूढ प्राथयसे कथं॥
17.3 चण्डालयोनिभूतस् त्वम् अहम् अस्मि द्विजातिजः।
17.3 न हि श्रेष्ठः प्रहीनेन सम्बन्धं कर्तुम् इच्छति॥
17.4 श्रेष्ठाः श्रेष्ठैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः।
17.4 विद्यया ये तु सम्पन्नाः संशुद्धश् चरणेन च॥
17.5 जात्या चैवान् अभिक्षिप्ता मन्त्रैः परमतां गताः।
17.5 अध्यापका मन्त्रधरास् त्रिषु वेदेषु पारगाः॥
17.6 निघण्टकैटभान् वेदान् ब्राह्मण ये ह्य् अधीयते।
17.6 तैस् तादृशैर् हि सम्बन्धं कुर्वन्तीह द्विजातयः॥
17.7 न हि श्रेष्ठो हि हीनेन सम्बन्धं कर्तुम् इच्छति।
17.7 प्रार्थयसेऽप्रार्थनीयां वायुं पाशेन बन्धितुं॥
17.8 यद् अस्माभिश् च सम्बन्धम् इह त्वं कर्तुम् इच्छसि।
17.8 जुगुप्सितः सर्वलोके कृपणःपुरुषाधमः।
17.8 गच्छ त्वं वृषल क्षिप्रं किम् अस्मान् अवमन्यसे॥
18.1 चण्डालाः सह चण्डालैः पुक्कशाः सह पुक्कशैः।

18.1 कुर्वन्तीहैव सम्बन्धं जातिभिर् जातिर् एव च॥
18.2 ब्राह्मणा ब्राह्मणैः सार्धं क्षत्रियाः क्षत्रियैः सह।
18.2 सार्धं वैश्यास् तथा वैश्यैः शूद्राः शूद्रैस् तथा सह॥
18.3 सदृशाः सदृशैः सार्धम् आवहन्ति परस्परं।
18.3 न हि कुर्वन्ति चण्डालाः सम्बन्धं ब्राह्मणैः सह॥
18.4 सर्वजातिविहीनोऽसि सर्ववर्णजुगुप्सितः।
18.4 कथं हीनश् च श्रेष्ठेन सम्बन्धं कर्तुम् इच्छसि॥
18.5 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्गराज इदम् अवोचत्।
18.6 यथा भस्मनि सौवर्णे विशेष; उपलभ्यते।
18.6 ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥
18.7 यथा प्रकाशतमसोर् विशेष; उपलभ्यते।
18.7 ब्राह्मणे वान्यजातौ वा न विशेषोऽस्ति वै तथा॥
18.8 न हि ब्राह्मण; आकाशान् मरुतो वा समुत्थितः।
18.8 भित्वा वा थिवीं जातो जातवेदा यथारणेः॥
18.9 ब्राह्मणा योनितो जाताश् चण्डाला; अपि योनितः।
18.9 श्रेष्ठत्वे वृषलत्वे च किं वा पश्यसि कारणं॥
18.10 ब्राह्मणोऽपि मृतोत्सृष्टो जुगुप्स्योऽशुचिर् उच्यते।
18.10 वर्णास् तथाएव वाअप्य् अन्ये का नु तत्र विशेषता॥

19.1 यत् किञ् चित् पापकं कर्म किल्विषं कलिर् एव च।
19.1 सत्त्वानाम् उपघाताय ब्राह्मणैस् तत् प्रकाशितं॥
19.2 इति कर्माणि चएतानि प्रकाशितानि ब्राह्मणैः।
19.2 कर्मभिर् दारुणैश् चअपि “पुण्योऽहं ब्रूवते द्विजाः॥
19.3 मांसं खादितुकामैस् तु ब्राह्मणैर् उपकल्पितं।
19.3 मन्त्रैर् हि प्रोक्षिताः सन्तः स्वर्गं गच्छन्त्य् अजैडकाः॥
19.4 यद्य् एष मार्गः स्वर्ताय कस्मान् न ब्राह्मणा ह्य् अमी।
19.4 आत्मानम् अथवा बन्धून् मन्त्रैः संप्रोक्षयन्ति वै॥
19.5 मातरं पितरं चएव भ्रातरं भगिनीं तथा।
19.5 पुत्रं दुहितरं भार्यां द्विजा न प्रोक्षयन्त्य् अमी॥
19.6 मित्रं ज्ञातिं सखीं वाअपि ये वा विषयवासिनः।
19.6 प्रोक्षितास् तेऽपि वा मन्त्रैः सर्वे यास्यन्ति सद्गतिं॥
19.7 सर्वे यज्ञैः समाहुता गमिष्यन्ति सतां गतिं।
19.7 पशुभिः किं नु भो यष्टैर् आत्मानं किं न यक्ष्यसे॥
19.8 न प्रोक्षणैर् न मन्त्रैश् च स्वर्गं गच्छन्त्य् अजैडकाः।
19.8 न ह्य् एष मार्गः स्वर्गाय मिथ्याप्रोक्षणम् उच्यते॥
19.9 ब्राह्मणैर् औद्रचित्तैस् तु पर्यायो ह्य् एष चिन्तितः।
19.9 मांसं खादितुकामैस् तु प्रोक्षणं कल्पितं पशोः॥
19.10 अन्यच् चअहं प्रवक्ष्यामि ब्राह्मणैर् यत् प्रकल्पितं।
19.10 पातका हि समाख्याता ब्राह्मणेषु चतुर्विधाः॥

20.1 सुवर्णचौर्यं मद्यं च गुरुदाराअभिमर्दनं।
20.1 ब्रह्माघ्नता च चत्वारः पातका ब्राह्मणेष्व् अमी॥
20.2 सुवर्णहरणं वर्ज्यं स्तेयम् अन्यन्न विद्यते।
20.2 सुवर्णं यो हरेद् विप्रः स तेनऽब्राह्मणो भवेत्॥
20.3 सुरापानं न पातव्यम् अन्यपानं यथेष्टतः।
20.3 सुरां तु यः पिवेद् विप्रः स तेनअब्राह्मणो भवेत्॥
20.4 गुरुदारा न गन्तव्या; अन्यदारा यथेष्टतः।
20.4 गुरुदारां तु यो गच्छेत् स तेनअब्राह्मणो भवेत्॥
20.5 न हन्याद् ब्राह्मणं ह्य् एकं हन्याद् अन्यान् अनेकशः।
20.5 हयात्त ब्राह्मणं यो वै स तेनअब्राह्मणो भवेत्॥
20.6 इत्य् एते पातका ह्य् उक्ता ब्राह्मणेषु चतुर्विधाः।
20.6 भवन्त्य् अब्राह्मणा येन ततोऽन्येऽपातकाः स्मृताः॥
20.7 कृत्वा चतुर्णम् एकैकं भवेद् अब्राह्मणस् तु सः।
20.7 लभते न च सामीचीं ब्राह्मणाणां समागमे।
20.7 आसनं चउदकं चएव व्युत्थानं स न चअर्हति॥
20.8 तस्य निःसरनं दृष्टं ब्राह्मणैः पतितस्य तु।
20.8 व्रतं वै स समादाय पुनर् ब्राह्मणतां व्रजेत्॥
20.9 असौ द्वादशवर्षाणि धारयित्वा खराजिनं।
20.9 खाट्वाङ्गम् उच्छ्रितं कृत्वा मृतशीर्षे च भोजनं॥

21.1 एतद् व्रतं समादाय निश्चयेन निरन्तरं।
21.1 पूर्णे द्वादशमे वर्षे पुनर् ब्राह्मणतां व्रजेत्॥
21.2 इति निःसरणं दृष्टं ब्राह्मणैस् तु तपस्विभिः।
21.2 कुमार्गगामिभिर् मूढैर् अनिःसरणदर्शिभिः॥
21.3 तद् इदं ब्राह्मण ते ब्रवीमि, संज्ञामात्रकम् इदं लोकस्य यद् इदम् उच्यते ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इत्य् वा। सर्वम् इदम् एकम् एवेति विज्ञय पुत्राय मे शार्दूलकर्णाय प्रकृतिं माणविकामनुप्रयच्छ भार्याअर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि। इदं च खलु पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारी अभिषक्तः कुपितश् चण्डीभूतोऽनात्तमनाः कोपं च द्वेषं च चत्प्रत्ययं जनयित्वा ललाटे त्रिशिखां भृकुटिं कृत्वा कण्ठं (22) धमयित्वाऽक्षिणी परिवर्त्य नकुलपिङ्गलां दूष्टिम् उत्पाद्य त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्।
22.1 असमीक्ष्यैतत्त्वया हि कृता संज्ञेयम् ईदृशी।

22.1 एकैव जातिर् लोकेऽस्मिन् सामान्या न थग्विधा॥
22.2 कथं श्वपाकजातीयो ब्राह्मणं वेदपारगं।
22.2 निहीनयोनिजो भूत्वा विमर्दितुम् इहइच्छसि॥
22.3 राजानः खलु वृषल प्रति[वि]भागज्ञा भवन्ति। तद् यथा देशधर्मे वा नगरधर्मे वा ग्रामधर्मे वा निगमधम वा शुल्कधर्मे वा आवाहधर्मे वा विवाहधर्मे वा पूर्वकर्मसु वा। चत्वार इमे वृषल वर्णाः। यद् उत ब्राह्मणः क्षत्रियो वैश्यः शूद्र इति। तेषां विवाहधर्मेषु चतस्रो भार्या ब्राह्मणस्य भवन्ति। तद् यथा ब्राह्मणी क्षत्रिया वैश्या शूद्री चेति। तिस्रः क्षत्रियस्य भार्या भवन्ति। क्षत्रिया वैश्या शूद्री चेति। वैश्यस्य द्वे भार्ये भवतः। वैश्या शूद्री चेति। शूद्रस्य अव् एका भार्या भवति शूद्री एव। एवं ब्राह्मणस्य वृषल चत्वारः पुत्रा भवन्ति।तद् यथा ब्राह्मणः क्षत्रियो वैश्यः शूद्रश् चेति। क्षत्रियस्य त्रयः पुत्राः, क्षत्रियो वैश्यः शूद्र इति। वैश्यस्य द्वौ पुत्रौ, वैश्यः शूद्र इति। शूद्रस्य त्व् एक एव पुत्रो भवति यद् उत शूद्र एव।
22.4 ते ब्राह्मणाः पुनर् वृषल ब्रह्मणः पुत्राः। औरसा मुखतो जाताः। उरस्तो बाहुतः क्षत्रियाः। नाभितो वैश्याः। पद्भ्यां शूद्राः।
22.5 ब्रह्मणाअयं खलु वृषल लोकः सर्वभूतानि निर्मितानि।

23.1 तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
23.1 वैश्यास्त्रितीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥ इति॥
23.2 स त्वं वृषल चतुर्थेऽपि वर्णे न संदृश्यसे। अहं चअग्रे वर्णे श्रेष्ठे वर्णे परमे वर्णे प्रवरे वर्णे। परमार्थं च संयोगमाकाङ्क्षसि प्रणश्य त्वं वृषल क्षिप्रं । मा चअस्माकम् अवमंस्थाः।
23.3 इदं पुनर्वचनं श्रुत्वा ब्राह्मणस्य पुष्करसारिणस् त्रिशङ्कुर् मातङ्गराज इदम् अवोचत्। इदम् अत्र ब्राह्मण शृणु यद् ब्रवीमि। ब्रह्मणाअयं लोकः, सर्वभूतानि निर्मितानि।
23.4 तस्य ज्येष्ठा वयं पुत्राः क्षत्रियास् तद् अनन्तरं।
23.4 वैश्यास् त्रृतीयका वर्णाः शूद्रनाम्ना चतुर्थकः॥इति॥
23.5 सपादजङ्घाः सनखाः समांसाः सपार्श्वष्ठाश् च नरा भवन्ति।
23.5 एकांशतो नास्ति यतो विशेषो वर्णाश् च चत्वार इतो न सन्ति॥
23.6 अथो विशेषः प्रवतोस्ति कश्चित् तद् ब्रूहि यच् चअनुमतं यथा ते।
23.6 अथो विशेषः प्रवरो हि नास्ति वर्णाश् च चत्वार इतो न सन्ति॥

24.1 यथा हि दाउरुका बालाः क्रीडमाना महापथे।
24.1 पांशुपुञ्जानि संपिण्ड्य स्वयं नामानि कुर्वते॥
24.2 इदं क्षीरम् इदं दधि; इदं मांसम् इदं घृतं।
24.2 न च बालस्य वचनात् पांशवोऽन्नं भवन्ति हि॥
24.3 वर्णास् तथाइव चत्वारो यथा ब्राह्मण भाषसे।
24.3 पांशुपुञ्जाभिधानेन योगो [यः को] प्य् एष न विद्यते॥
24.4 न केशेन न कर्णाभ्यां न शीर्षण न चक्षुषा।
24.4 न मुखेन न नासया न ग्रीवय न बाहुना॥
24.5 नोरसाप्यथ पार्श्वाभ्यां न ष्ठेनउदरेण च।
24.5 नोरुभ्याम् अथ जञ्ङ्हाभ्यां पाणिपादनखेन च॥
24.6 न स्वरेण न वर्णेन न सर्वांशैर् न मैथुनैः।
24.6 नानाविशेषः सर्वेषु मनुष्येषु हि विद्यते॥
24.7 यथा हि जातिष्व् अन्यासु लिङ्गं योनिः थक् थक्।
24.7 सामान्यं कारणं तत्र किं वा जातिषु मन्यसे॥
24.8 सशीर्षकाश् चअथ नरास्थियुक्ताः सचर्मकाः सेन्द्रियसोदराश् च।
24.8 एकांशतो नास्ति यतो विशेषो वर्णा न युक्ताश् चतुरोऽभिधातुं॥
24.9 अथास्ति कश्चित् प्रवरो विशेषस् तद् ब्रूहि यच्चानुमतं यथा ते।
24.9 अथो विशेषः प्रवरोऽत्र नास्ति वर्णा न युक्ताश् चतुरोभिधातुं॥

25.1 दोषो ह्य् अयं चअत्र भवेद् अयुक्तो यद् यत् त्वया चअभिहितं निदाने।
25.1 श्रुत्वा तु मत्तः प्रतिपद्य सौम्य यच् चअत्र मन्ये शृणुचोद्यमानं॥
25.2 यच् चअत्र युक्तं विषमं समं वा तात् ते प्रवक्ष्यामि नियुज्यमानः।
25.2 दोषो हि यश् चअपि भवेद् अयुक्तो वक्ष्यामि ते ह्य् उत्तरतउत्तरं च।
25.3 श्रुत्वा तु मत्तः प्रतिपद्य सौम्य कर्मअधिपत्यप्रभवा मनुष्याः॥
25.4 अनुमानम् अपि ते ब्राह्मण यदि प्रमाणं, तत्र यद् ब्रवीषि ब्रह्मा एक इति तस्मात् प्रजा अपि एकजात्या एव। वयम् अप्य् एकजात्या भवामः। यच् च व्रवीषि ब्रह्मणाअयं लोकः सर्वभूतानि च निर्मितानिइति। स चेत्ते ब्राह्मण इदं प्रमाणं, तद् इदं ते ब्राह्मण अयुक्तं यद् ब्रवीषि चत्वारो वर्णा ब्राह्मणाः क्षत्रिया वैश्या शूद्राश् चेति।
25.4 अपि तु ब्राह्मण मिथ्या मम वचो भवेत् यदि ब्राह्मण संवादेन मुनुष्यजातेर् नानाकरणं प्रज्ञायते। यद् उत शीर्षतो वा मुखतो वा कर्णतो वा नासिकातो वा (26) भ्रूतो वा रूपतो वा संस्थानतो वा वर्णतो वाऽ’कारतो वा योनितो वाऽ’हारतो वा सम्भावतो वा नानाकरणं प्रज्ञायते।

26.1 तद् यथाअपि भोः पुष्करसारिन् गवाश् च गर्दभो ष्ट्रमृगपक्ष्यजैडकानामण्डजजरायुजसंस्वेदजौपपादुकानांनानाकरनं प्रज्ञायते। यद् उत पादतोऽपि मुखतोपि वर्णतोऽपि संस्थानतोऽपि आहारतोऽपि योनिसम्भवतोऽपि नानाकरणं प्रज्ञायते नचएवं तेषां चतुर्णां वर्णानां नानाकरणं प्रज्ञायते। तत् तस्मात् सर्वम् इदम् एकम् इति।
26.2 अपि च। ब्राह्मणामीषां फल्गुवृक्षाणामाम्रातकजम्बुखर्जूरपनसदालावनतिन्दुकमृद्वीकबीजपूरककपित्थाक्षोडनारिकेलतिनिशकरञ्जआदीनां नानाकरणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नानाकरणं प्रज्ञायते। न चएवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
26.3 तद् यथा ब्राह्मणामीषां स्थलजानां वृक्षाणां सारतमालनक्तमालकर्णिकारस्सप्तपर्णशिरीषकोविदारस्यन्दनचन्दनशिंशपैरण्डखदिरआदीनां नानाकरणं प्रज्ञायते।
26.4 यद् उत मूलतश् च स्कन्धतश् च त्वग्भागतश् च गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च विशेष उपलभ्यते। न चएवं चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
26.5 तद् यथा भोः पुष्करसारिन्न् अमीषां क्षीरवृक्षाणाम् उदुम्बरप्लक्षाश्वत्थन्यग्रोधवल्गुकेत्य् एवम् आदीनां नानाकरणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च त्वग् भागतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नानाकरणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
26.6 तद् यथा पुष्करसारिन्न् अमीषाम् अपि फलबैषज्यवृक्षाणाम् आमलकीहरीतकीविभीतकी फरसकआदीनाम् अन्यासाम् अपि विविधानाम् ओषधीनां ग्रामजानां पार्वतीयानां तृणवनस्पतीनां नानाकरणं प्रज्ञायते। यद् उत मूलतश् च स्कन्धतश् च (27) गुल्मतश् च सारतश् च पत्रतश् च पुष्पतश् च फलतश् च नानाकरणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।

27.1 तद् यथा स्थलजानां पुष्पवृक्षाणाम् अतिमुक्तकचम्पकपाटलानां सुमना वार्षिकाधनष्कारिकआदीनां नानाकरणं प्रज्ञायते। यद् उतो रूपतोऽपि वर्णतोऽपि गन्धतोऽपि संस्थानतोऽपि नानाकरणं प्रज्ञायते। न त्व् एव चतुर्णां वर्णानां नानाकरणं प्रज्ञायते।
27.2 तद् यथा ब्राह्मणाम् ईषाम् अपि जलजानां पुष्पाणां पद्मउत्पलसौगन्धिकमृदुगन्धिकआदीनां नानाकरणं प्रज्ञायते। यद् उत रूपतश् च गन्धतश् च संस्थानतश् च वणतश् च नानाकरणं प्रज्ञायते। नत्वेव वर्णानां नानाकरणं प्रज्ञायते। तद् यथा पुष्करसारिन् अमी ब्राह्मणा इति क्षत्रिया इति वैश्या इति शूद्रा इति। तस्माद् एकम् एवइदं सर्वम् इति।
27.3 अप्य् अन्यत् ते प्रवक्ष्यामि ब्राह्मणैः कल्पितं यथ्|आ।
27.3 शिरः सतारं गगनम् आकाशम् उदरं तथा॥
27.4 पर्वताश् चअप्य् उभाव् ऊरू पादौ च धरणीतलं।
27.4 सूर्याचन्द्रमसौ नेत्रे रोम तृणवनस्पती॥
27.5 अश्रूण्य् अवोचद् वर्षाऽस्य नद्यः प्रस्रावम् एव च।
27.5 सागराश् चअप्य् अमेध्यं वै; एवं ब्रह्मा प्रजापतिः॥

28.1 परीक्षस्व त्वं ब्रह्मणः स्वलक्षणं। यस्माद् ब्रह्मणो ब्राह्मणा उत्पन्नास् तस्मात् क्षत्रिया अपि वैश्या अपि शूद्रा अप्य् उत्पन्नाः।
28.2 एवं प्रसूतिर् यदि तत्वतः स्यात् ततो हि स्याद् वर्णकृतो विशेषः।
28.2 यदि ब्राह्मणा ब्रह्मलोकं व्रजेयुस् त्रयश् च वर्णा न व्रजेयुः स्वर्गं।
28.2 एवं भवेद् वर्णकृतो विशेषो न चेन्न चत्वारो भवन्ति वर्णाः॥
28.3 यस्माद् धि वर्णश् चतुर्थ एवं प्रयाति स्वर्गं स्वकृतेन कर्मणा।
28.3 यतस् तपश् चआर्षम् इह प्रशस्तं तस्माद् द्विजातेर् न विशेषणं स्याद्॥
28.4 यदि ब्राह्मणः स्याद् इहैक एव द्विजिह्वश् चतुःश्रवणस् तथाएव।
28.4 चतुर्विषाणो बहुपाद् द्विशीर्ष एवं कृते वर्णकृतो विशेषः॥

29.1 रागैश् च नाम परघातनं च एवं प्रकारं च विहेठनं च।
29.1 सत्त्वस्य वै कर्मणो ध्वंसनं च एतान्य् अकल्याणकृतानि विप्रैः॥
29.2 युद्धं विवादं कलहान्य् अभीक्ष्णं गोप्रोक्षणं चिन्तितं ब्राह्मणैर् हि।
29.2 अथर्वणः कर्मणा त्रासनं च एतानि मन्त्राणि कृतानि विप्रैः॥
29.3 पापेच्छता बहुजनवञ्चनं च शाठ्यं च धौर्त्यं च तथाएव कल्पं।
29.3 एवं परेषाम् अहितं विचिन्त्य कदा च ते स्वर्गम् इतो व्रजेयुः॥
29.4 ये ब्राह्मणा उग्रतपा विनीता व्रतेन शीलेन सदा ह्य् उपेताः।
29.4 अहिंसका ये दम संयमे रतास् ते ब्राह्मणा ब्रह्मपुरं व्रजन्ति॥
29.5 सहअस्थिमांसः सनखः सचर्मा दुःखं सुखं मूत्रपुरीषम् एकं।
29.5 पञ्चइन्द्रियैर् नास्ति यतो विशेषस् तस्मान् न वै वर्णचतुष्क एषः॥
29.6 तद् यथा नाम ब्राह्मण कस्यचित् पुरुषस्य चत्वारः पुत्रा भवेयुः। स तेषां नामानि कुर्यान् नन्दक इति वा जीवक इति वा अशोक इति वा शतायुर् इति वा । इष्टाश् च (30) पुनर् भो एतस्य पुरुषस्य पुत्रा भवेयुः। तत्र यो नन्दकः स नन्देत्। यो जीवकः स ईवेत्। योऽशोकः स न शोचेत्। यः शतायुः स वर्षशतं जीवेत्।

30.1 नामतः पुनर् ब्राह्मण तेषां नानाकरणं प्रज्ञायते न जातितः। तत्कस्य हेतोः। इह खलु पुनर् ब्राह्मण पितृतः पुत्रो जाय्ते। तस्माच् च तत्रेदं व्याकरणं भवति:
30.2 माता भस्त्रा पितुः पुत्रो येन जातः स एव सः।
30.2 यद्य् एवं भो विजानासि न ते (पुत्रा) परभूताः क्वचित्॥
30.3 परीक्षस्व ब्राह्मण संयगेव कोऽत्र ब्राह्मणः क्षत्रियो वैश्यः शूत्र इति।
30.4 सर्वे काणाश् च कुब्जाश् च सर्वेऽपस्मारिणोपि वा।
30.4 किलासिनः कुष्ठिनश् च गौराः कृष्णाः थक् थक्॥
30.5 प्रतिष्ठिताः सममज्जानखत्वचपार्श्वउदरवक्त्राः प्रजा हि ताः स्वकर्मणा। एवं गते ब्राह्मण नैव भवति विशेषः। को जातिकृतो विशेषः।
30.6 यस्मान् न जातेर् विशेषणोऽस्ति तस्मान् न वै वर्णचतुष्क एव।

31.1 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रम् इदं लोकस्य यद् इदं ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा चण्डाल इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्याअर्थाय यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।
31.2 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारीदम् अवोचत्। किं पुनर्भवता ऋग्वेदोऽधीतः, यजुर्वेदोऽधीतः, सामवेदोऽधीतः, अथर्ववेदोऽधीतः, आयुर्वेदोऽधीतः कल्पाध्यायो पि। अध्यात्मम् अपि मृगचक्रं वा नक्षत्रगणो वा तिथिक्रमगणो वा त्वयाधीतः। कर्मचक्रं वा त्वयाधिगतं। अथवाऽङ्गविद्या वा वस्त्रविद्या वा शिवाविद्या शकुनिविद्या वा त्वयाधीता। अथवा राहुचैर्तं वा शुक्रचरितं वा ग्रहचरितं वा त्वयाधीतं। अथवा लोकायतें भवता भाष्यप्रवचनं वा पक्षाध्यायो वा न्यायो वा त्वयाधीतः।

32.1 एवम् उक्ते त्रिशङ्कुर् मातङ्गराहः पुष्करसारिणं ब्राह्मणम् एतद् अवोचत्। एतच् च मया ब्राह्मणाधीतं भूयश् चउत्तरं । यद् अपि ते ब्राह्मण एवं स्याद् अहम् अस्मि मन्त्रेषु पारं प्राप्त इति। तत्र ते ब्राह्मण सह धर्मेणानुमानं प्रवक्ष्यामि। न खल्व् एवं ब्राह्मण प्राथमकल्पिकानां सत्त्वानाम् एतद् अभवत्। यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं।
32.2 अथ ब्राह्मण सत्त्वानामसदृशानां चउभयथा सदृशानां ततोऽन्ये सत्त्वाः शालिक्षेत्राणि केलायन्ति गोपायन्ति वापयन्ति वा। तेऽमी क्षत्रिया इति संज्ञा उदपादि। अथात्र ब्राह्मण तद् अन्यतमानां सत्तानाम् एतद् अभवत्। परिग्रहो रोगः परिग्रहो गण्डः परिग्रहः शल्यः। यन्नु वयं स्वपरिग्रहम् अपहायारण्यायतनं गत्वा तृणकाष्ठशाखापर्णपलाशकानुपसंहृत्य तृणकुटिकां वा पर्णकुटिकां वा कृत्वा प्रविश्य ध्यायेन इति।
32.3 अथ ते सत्त्वास् तं स्वकं परिग्रहम् अपहायारण्यायतनं गत्वा तृणकाष्ठशाखापत्रपर्णपलाशकैस् तृणकुटिं वा पर्णकुटिकां वा कृत्वा तत्रएव प्रविश्य ध्यायन्ति स्म। ते तत्र सायम् आसनहेतोः प्रान्तवाटिकां प्रातरशनहेतोश् च ग्रामं पिण्डाय प्रविशन्ति स्म।
32.4 अथ तेषां ग्रामवासिनां सत्त्वानाम् एतद् अभवत्। दुष्करकारका वत भोः सत्त्वा ये स्वकं परिग्रहम् उतृज्य ग्रामनिगमजनपदेभ्यो बहिर् निर्गतास् तेषां बहिर्मनस्का ब्राह्यणा इति संज्ञा उदपादि। ते च पुनर् ग्रामवासिनः सत्त्वास् तान् अतीव सत्कुर्वन्ति स्म। तेषां च दातव्यं मन्यन्ते स्म।

33.1 अथ तेषाम् एव सत्त्वानाम् अन्यतमे सत्त्वास् तानि ध्यानान्य् असंभावयन्तो ग्रामेष्व् अवतीर्य मन्त्रपदान् स्वाध्यायन्ति स्म। तांस् ते ग्रामनिवासिन आहुः — न लेवलम् इमे सत्त्वा इमेऽध्यापकाः, तेषाम् अध्यापका इति लोके संज्ञा उदपादि।
33.2 अयं हेतुर् अयं प्रत्ययो ब्राह्मणानां लोके प्रादुर्भावाय। अथान्यतमे सत्त्वा विवेककालप्रतिसंयुक्तान् कर्मअन्तान् विविधान् अर्थप्रतिसंयुक्तान् कुर्वन्ति स्म। तेषां वैश्या इति संज्ञा उदपादि।
33.3 अथान्यतमे सत्त्वाः क्षुद्रेण कर्मणा जीविकां कल्पयन्ति स्म। तेषां शूद्रा इति संज्ञा उदपादि।
33.4 भूतपूर्वं ब्राहम्ण अन्यतमः सत्त्वो वधूम् आदाय रथम् आरुह्यान्यतम् अस्मिन्न् अरण्यप्रदेशे गतः। तत्र च रथो भग्नः। तस्मान् मातङ्गम [मा त्वं गमः] इति संज्ञा उदपादि।
33.5 क्षेत्रं कर्षन्ति ये तेषां कर्षका इति संज्ञा प्र्वृत्ता। भाष्येण च पर्षदं रञ्जयति धर्मेण शीलब्रतसमाचारेण सम्यक्, तस्य राजा इति संज्ञाऽभूत्।
33.6 ततोऽन्ये सत्त्वा वाणिज्यया जीविकां कल्पयन्ति तेषां वणिज इति संज्ञा (34) उदपादि। ततश् चअन्ये सत्त्वाः प्रव्रजन्ति स्म। प्रव्रजित्वा परान् जयन्ति क्लेशान् जयन्तिइति तेषां प्रव्रजिता इति लोके संज्ञा उदपादि।

34.1 अपि तु ब्राह्मण एकैव संज्ञा लोक उदपादि। तां ते प्रवक्ष्यामि।

35.1 ब्रह्मा लोकेऽस्मिन् इमान् वेदान् वाचयति। ब्रह्मा देवानां परमतापसः। इन्द्रस्य कौशिकस्य वेदान् वाचयति स्म। इन्द्रः कौशिकोऽरणेमि गौतमं वेदान् वाचयति। अरणेमि गौतमः श्वेतकेतुं वेदान् वाचयति। श्वेतकेतुः शुकं पण्डितं वेदान् वाचयति। शुकः पण्डितश् च वेदान् विभजति स्म। तद् यथा पुष्यो बह्व्ऋचानां पंक्तिश् छन्तोगानाम् एकविंशतिर् अध्वर्यवः। क्रतुर् अर्थवणिकानां। बह्व्ऋचानाम् एते ब्राह्मणाः। सर्वे ते व्याख्यायन्ते। पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः। तद् यथा शुक्ला वल्कला माण्डव्या इति। तत्र दश शुक्लाः। अष्टौ वल्कलाः। सप्त माण्डव्याः। इतीयं ब्राह्मण बह्व्ऋचानां शाखा। पुष्य एको भूत्वा पञ्चविंशतिधा भिन्नः।
35.2 अनुमानम् अपि ब्राह्मण प्रमाणं छन्दोगानां। ब्राह्मणाः सर्व एते छन्दोगाः। पंक्तिर् एत्य् एका भूत्वा सअशीतिसहस्रधा भिन्ना। तद् यथा शीलवल्का अरणेमिका लौकाक्षाः कौथुमा ब्रह्मसमा महासमा महायागिकाः सअत्यम् उग्राः समन्तवेदाः।

36.1 तत्र शीलवल्का विंशतिः। अरणेमिका विंशतिः। लौकाक्षाश् चत्वारिंशत्। कौथुमानां शतं। ब्रह्मसमानां शतं। महासमानां पञ्चशतानि। महायागिकानां शतं। सअत्यम् उग्राणां शतं । समन्तवेदानां शतं। इतीयं ब्राह्मणछन्दोगानां शाखा। पंक्तिर् इत्य् एका भूत्वा सअशीति सहस्रधा भिन्ना।
36.2 अनुमानम् अपि प्रमाणम् अध्वर्यूणां। एते ब्राह्मणा एकविंशत्य् अध्वर्यवो भूत्वा एकउत्तरशतधा भिन्नाः। तद् यथा कठाः कंइना वाजसनेयिनो जातुकर्णाः प्रोष्ठपदा ऋषयः। तत्र दश कठा दश कणिमा एकादश वाजसनेयिनः।त्रयोदश जातुकर्नाः। षोडश प्रोष्ठपदाः। एक चत्वारिंशद् ऋषयः। इतीयं ब्राह्मणाध्वर्यूणां शाखा। एकविंशत्यध्वर्यवो भूत्वा एकउत्तरशतधा भिन्नाः।
36.3 अनुमानम् अपि ब्राह्मण प्रमाणम् अथर्वणिकानां । एते मन्त्राः सर्वे तेऽथर्वणिकाः। क्रतुर् एको भूत्वा द्विधा भिन्नः। द्विधा भूत्वा चतुर्धा भिन्नः।चतुर्धा भूत्वाऽष्टधा भिन्नः। अष्टधा भूत्वा [नव]दशधा भिन्नः। इतीयं ब्राह्मणाथर्वणिकानां शाखा। क्रतुर् एकः षोडशउत्तरद्वादशशतधा भिन्नः।
36.4 अनुमानम् अपि ब्राह्मण प्रमाणं प्रतीत्य एतानि द्वादशभेदशतानि षोडशभेदाश् च ये ब्राह्मणैः पौराणैः सम्यग् दृष्टाः। छन्दसि वा व्याकरणे वा लोकायते वा (37) पदमीमांसायां वा न चैषामूहापोहः प्रज्ञायते। यद् उत एकजात्यो नामेति विदित्वा बन्धुर् भवितुम् अर्हति। तत् ते व्राह्मण ब्रवीमि संज्ञामात्रकम् एतल् लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् उत्सृज भार्याअर्थाय यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

37.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारी तुष्णींभूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरोऽस्थात्।
37.2 ददर्श त्रिशङ्कुर् मातङ्गराजो ब्राह्मणं पुष्करसारिणं तृष्णींभूतं मद्गुभूतं स्रस्तस्कन्धम् अधोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अब्रवीत्। यद् अपि ते ब्राह्मण एवं स्याद् असदृशेन सह सम्बन्धो भविष्यतिइति। न पुनस्त्वया ब्राह्मणएवं द्रष्टव्यं। (38)तत् कस्य हेतोः। ये प्रमाणश्रुतिशीलप्रञ्ञादयो गुणा अग्य्रा लोकस्य ते मम पुत्रस्य शार्दूलकर्णस्य संविद्यन्ते। यद् अपि ते ब्राह्मण एवं स्यात् — ये वाजपियं यज्ञं यजन्ति। अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञं यजन्ति, सर्वे ते कायस्य भेदात्सुगतौ स्वर्गलोके देवेषूपपद्यन्त इति। न पुनर्ब्राह्मण त्वयएवं द्रष्टव्यं। तत् कस्य हेतोः।वाजपेयं ब्राह्मण यज्ञं यजमाना अश्वमेधं पुरुषमेधं शाम्यप्राशं निरर्गडं यज्ञं च यजमाना बहुधा मन्त्रान् प्रवर्तयन्तः प्राणिहिंसां च प्रवर्तयन्ति। तस्मात् ते ब्राह्मण ब्रवीमि न ह्य् एष मार्गः स्वर्गाय। अहं ते ब्राह्मण मार्गं स्वर्गाय व्याखामि। तच् छृणु।

38.1 शीलं रक्षेत मेधावी प्रार्थयानः सुखत्रयं।
38.1 प्रशंसां वित्तलाभं च प्रेत्य स्वर्गे च मोदनं॥
38.2 यैर् ब्राह्मण इतः पूर्वं वाजपेयो यज्ञ इष्टः। यैर् अश्वमेधो यैः पुरुषमेधो यैः शाम्यप्राशो यैर् निरर्गडो यज्ञ इष्टः, परिगृहीतस् तैर् निरर्गलं च कामैः कामः। इतो नाकः पर्येष्यते। ये ब्राह्मण इतः पश्चाद् वाजपेयं यज्ञं यक्ष्यन्ति येऽश्वमेधं पुरुषमेधं ये शाम्यप्राशं निरर्गडं यज्ञं यक्ष्यन्ति ते निरर्थकं महाविघातं संयोक्ष्यन्ति।
38.3 तस्मात् ते ब्राह्मन ब्रवीमि — एहि त्वं मया सार्धं सम्बन्धं योजयस्वा। तत् कस्य हेतोः। धर्मेण हि चण्डाला अजुगुप्सनीया भवन्ति। अपि च।

39.1 श्रद्धा शीलं तपस्त्यागः श्रुतिर् ज्ञानं दयैव च।
39.1 दर्शनं सर्ववेदानां स्वर्गव्रतपदानि वै॥
39.2 प्रमाणम् अष्टप्रकारं स्वर्गाय। तद् एभिर् अष्टाभिः प्रकारैः स्वर्गगमनम् इष्यते। ये प्रायेण जानन्ति विशेषेण खल्व् अप्य् अनेकैर् विविधरि यज्ञैः। अष्टौ चेमा ब्राह्मण निर्दिष्टा मातृतुल्या भगिन्यो लोके प्रवर्तन्ते। तद् यथा अदितिर् देवानां माता। दिवित् दानवानां। मनुर् मानवानां। सुरभिः सौरभेयानां। विनता सुपर्णानां। कद्रुर् नागानां। थिवी भूतानां माता सर्वबीजानां। मरुतां महामहः। महाकाश्यपं मनसा विदन्ति ऋषयः।
39.3 अथ खलु भोः पुष्करसारिन् ब्राह्मणानां सप्तगोत्राणि व्याख्यास्यामि तानि श्रूयन्तां। तद् यथा गौतमा वात्स्याः कौत्साः कौशिकाः काश्यपा वाशिष्ठा माण्डव्या इत्य् एतानि ब्राह्मण सप्तगोत्राणि। एषाम् एकैकं गोत्रं सप्तधा भिन्नं। अत्र ये गौतमास् ते कौथुमास्ते गर्गास् ते भरद्वाजास्त आर्ष्टिषेणास् ते वैखानसास् ते (40) वज्रपादाः। तत्र ये वात्स्यास्त आत्रेयास् ते मैत्रेयास् ते भार्गवास् ते सावर्ण्या स्ते सलोलास् ते बहुजाताः। तत्र ये कौत्सास् ते मौद्गल्यायनास् ते गौणायनास् ते लाङ्गलास्ते लग्नास्ते दण्डलग्नास्ते सोमभुवाः[वह्}। तत्र ये कौशिकास् ते कात्यायनास् ते दर्भकात्यायनास् ते वल्कलिनस् ते पक्षिणस् ते लौकाक्षास् ते लोहितआयनाः (लोहित्यायनाः) । तत्र ये काश्यपास् ते मण्डनास् ते इष्टास् ते शौण्डायनास् ते रोचनेयास् तेऽनपेक्षास् तेऽग्निवेश्याः। तत्र ये वःशिष्ठास् ते जातुकर्ण्यास् ते धान्यायनास् ते पाराशरास् ते व्याघ्रनखास् त आण्डायनस्त औपमन्यवाः। तत्र ये माण्डव्यास् ते भाण्डायनास् ते धौम्रायणास् ते कात्यायनास् ते खल्व् अवाहनास् ते सुगन्धारायणास् ते कापिष्ठलायनाः।

40.1 इत्य् एतानि ब्राह्मण एवम् एकोनपञ्चाशद् गोत्राणि ब्राह्मणैः पौराणैः सम्यग् दृष्टानि छन्दसि व्याकरणे पदमीमांसायां। अन्यानि च गोत्राणि विस्तरतो मया वाचितानि। तानि अन्यैर् न ज्ञायन्ते।
40.2 यद् उतैकत्वम् इति विदित्वा भवान् बन्धुर् भवितुम् अर्हति। तस्मात् ते ब्राह्मण ब्रवीमि सामान्यं संज्ञामात्रकम् इदं लोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूद्र इति वा। एकम् इदं सर्वम् इदम् एकं । पुत्राय मे शार्दूलकर्णाय प्रकृतिंदुहितरम् उत्सृज भार्याअर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

41.1 इदं पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्राह्मणः पुष्करसारी तृष्णीं भूतो मद्गुभूतः स्रस्तस्कन्धोऽधोमुखो निष्प्रतिभः प्रध्यानपरः स्थितोऽभूत्। अद्राक्षीत् त्रिशङ्कुर् मातङ्गराजः पुष्करसारिणं ब्राह्मणं तूष्णीं भूतं मद्गुभूतं स्रस्तस्कन्धम् अभोमुखं निष्प्रतिभं प्रध्यानपरं स्थितं। दृष्ट्वा च पुनर् इदम् अवोचत्।

41.2 यादृशं वाप्यते बीजं तादृशं लभ्यते फलं।
41.2 प्रजापतेर् हि चैकत्वे निर्विशेषो भवत्य् अतः॥
41.3 न चइन्द्रियाणां नानात्वं क्रियाभेदश् च दृश्यते।
41.3 ब्राह्मणे वान्यजातौ वा नैषां किञ्चिद् विशिष्यते॥
41.4 न ह्य् आत्मनः समुत्कर्षः श्रेष्ठ त्वम् इह युज्यते।
41.4 शुक्रशोणितसम्भूतं योनितो ह्य् उभयं समं॥
41.5 चातुर्वर्ण्यं प्रवक्ष्यामि पशुधर्मकथां तव।
41.5 भवेत् ते भगिनी भार्या नैतद् ब्राह्मण युज्यते॥
41.6 यदि तावद् अयं लोको ब्रह्मणा जनितः स्वयं।
41.6 ब्राह्मणी ब्राह्मणस्वसा क्षत्रिया क्षत्रियस्वसा॥
41.7 अथ वैश्यस्य वैश्या वै शूद्रा शूद्रस्य वा पुनः।
41.7 न भार्या भगिनी युक्ता ब्रह्मणा जनिता यदि॥
41.8 न सत्त्वा ब्रह्मणो जाताः क्लेशजाः कर्मजास्त्वमी।
41.8 नीचैश् चउच्चैश् च दूश्यन्ते सत्त्वा नानाआश्रयाः थक्॥
41.9 तेषां च जातिसामान्याद् ब्राह्मणे क्षत्रिये तथा।
41.9 अथ वैश्ये च शूद्रे च समं ज्ञानं प्रवर्तते॥

42.1 ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्य् अथर्वाणं।
42.1 इतिहासो निघण्टश् च कुतश् छन्दो निरर्थकं॥
42.2 अस्माकम् अप्य् अध्ययने मैत्री विद्या तथा शिखी।
42.2 संक्रामणी प्रकामणी स्तम्भनी कामरूपिणी॥
42.3 मनोजवा च गान्धारी घोरी विद्या वशङ्करी।
42.3 काकवाणी च मन्त्रं च; इन्द्रजालं च भञ्जनी॥
42.4 अस्माकम् आसीत् पुरुषा विद्यास्वाख्यातपण्डिताः।
42.4 मणिपुष्पाश् च; ऋषयो भास्वराश् च महर्षयः॥
42.5 संप्राप्ता देवता;ऋद्धिं किं चिकित्सासि विद्यया।
42.5 अशिक्षिताश् च चण्डाला ब्राह्मणा वेदपारगाः॥
42.6 कपिञ्जलाद्या जनितो मन्त्राणां पारभिंगतः।
42.6 न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण मन्यसे॥

43.1अ निषाद्यजनयत्काली पुत्रं द्वैपायानं मुनिं।
43.1ब् उग्रं तेजस्विनं भीष्मं पञ्चाभिज्ञं महातपं।
43.2 न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
43.2 क्षत्रिया रेणुका नाम जज्ञे रामं महामुनिं।
43.2 पण्डितं च विनीतं च सर्वशास्त्रविशारदं।
43.3 न ह्य् असौ ब्राह्मणीपुत्रः किं वा ब्राह्मण वक्ष्यसि॥
43.3 ये च ते मनुजा; आसन् तेजसा तपसा युताः।
43.4 पण्डिताश् च विनीताश् च लोके च; ऋषिसम्मताः।
43.4 न हि ते ब्राह्मणीपुत्राः किं वा ब्राह्मण वक्ष्यसि॥
43.5 संज्ञा कृतेयं लोकस्य ब्राह्मणाः क्षत्रियास् तथा।
43.5 वैश्या चएव तथा शूद्राः संज्ञेयं संप्रकीर्तिता॥
43.6 तस्मात् ते ब्राह्मण ब्रवीमि संज्ञामात्रकम् इदंलोकस्य यद् उत ब्राह्मण इति वा क्षत्रिय इति वा वैश्य इति वा शूदर इति वा। एकम् इदं सर्वम् इदम् एकं। पुत्राय मे शार्दूलकर्णाय प्रकृतिं दुहितरम् अनुप्रयच्छ भर्यर्थाय। यावन्तं कुलशुल्कं मन्यसे तावन्तम् अनुप्रदास्यामि।

44.1 इदं च पुनर्वचनं श्रुत्वा त्रिशङ्कोर् मातङ्गराजस्य ब्ब्राह्मणः पुस्करसारी त्रिशङ्कुं मातङ्गराजम् इदम् अवोचत्। किं गोत्रो भवान्। आह आत्रेयगोत्रोऽस्मि। हिंपूर्वः। आह। आत्रेयः। किंचरणःआह कालेयमैत्रायणीयः। कति प्रवराः। आह त्रयः प्रवराः। तद् यथा वात्स्याः कौत्स्या भरद्वाजाश् च। के भवन्तः सब्रह्मचारिणः। छन्दोगाः। कति छन्तोगानां भेदाः। षट्। ते कतमे। आह। तद् यथा। कौथुमाः। चअरायणीयाः। लाङ्गलाः। सौवर्चसाः। कापिञ्जलेयाः। आर्ष्टिषेणा इति।
44.2 किं भवतो मातृजं गोत्रं। आह। पाराशरीयं। पठतु भवान् सावित्रीं। कथं भवति। कत्यक्षरा सावित्री। कथिगण्डा। कतिपदा।
44.3 चतुर्विंशत्यक्षरा सावित्री। त्रिगण्डा। अष्टाक्षरपदा। उच्चारयतु भवान् सावित्रीं।अथ खलु भोः पुष्करसारिन् सोत्पत्तिकां सावित्रीं प्रवक्ष्यामि। तच् छ्रूयतां।

44.4 कथयतु भवान्।

44.5 भूतपूर्वं ब्राह्मणातीतेऽध्वनि वसुर् नाम ऋषिर् भूव। पञ्चाभिज्ञ उग्रतेजा महानुभावो ध्यानानां लाभी। तेन तत्र तक्षकदुहिता कपिला नाम आसादिता भार्याअर्थं। स तत्र संरक्तचित्तस् तया कन्यया सार्धं मैथुनम् अगच्छत्। स ऋषि (45) ऋद्ध्या भ्रष्टो ध्यानेभ्यो वञ्चितः। ऋद्धिपरिहीनः स विप्रतिसारी आत्मनो दुश्चरितं विगर्हमाणस् तस्यां वेलायां सावित्रीं भाषते स्म। तद् यथा।

45.1 ओं भूर् भुवः स्वः। तत् सवितुर् वरेण्यं भर्गो देवस्य धीमहि। धियो यो नः प्रचोदयात्।

45.2 इति हि ब्राह्मण अज्ञानशोधनार्थम् इमम् एव मन्त्रं स ब्राह्मणो दिवारात्रं जपति स्म। इयं ब्राह्मणानां सावित्री। पूर्वजः प्रजापतिः
45.3 जटिलस्तापसो भूत्वा गहनं वनम् आश्रितः।
45.3 गम्भीराव् अभासे तत्र ह्य् आत्मारामस् तपोरतः।
45.4 देवस्य श्रेष्ठकं भीजनम् अपनाभ्यो पविष्ट इमंमन्त्रम् अजपत्। इयं क्षत्रियाणां सावित्री।
45.5 ओं चित्रं हि वैश्यकन्यका। अथ सा कन्या अर्थतः प्रवीणा।

46.1 इयं वैश्यानां सावित्री। ओम् अतपः सुतपः। जीवेम शरदां शतं। पश्येम शरदां शतं। इयं शूद्राणां सावित्री। ओं भूर् भुवः स्वः।
46.2 कामा हि लोके परमाः प्रजानां क्लेशप्रहाणे भूता अन्तरायाः।
46.2 तस्माद् भवन्तः प्रजहन्तु कामान् ततोऽतुलं प्राप्स्य् अथ ब्रह्मलोकं।
46.3 इतीयं ब्राह्मण ब्रह्मणा सहापतिना सावित्री भाषिता, पूर्वकैश् च सम्यक् संबुद्धैर् अभ्यनुमोदिता।

नक्षत्रवंशः गोत्र

46.4 पठ भोस् त्रिशङ्को नक्षत्रवंशं। अथ किं। भोः कथयतु भवान्। श्रूयतां भोः पुष्करसारिन् नक्षत्रवंशं कथयिष्यामि। तद् यथा।
46.5 कृत्तिका रोहिणी मृगशिरा आर्द्रा पुनर्वस्ह्ः पुष्यः अश्लेषा मघा पूर्वफल्गुनी उत्तरफल्गुनी हस्ता चित्रा स्वाती विशाखा अनुराधा ज्येष्ठा मूला पूर्वाषाढा उत्तराषाढा अभिजित् श्रवणा धनिष्ठा शतभिषा पूर्वभाद्रपदा उत्तरभाद्रपदा रेवती अश्विनी भरणी । इत्य् एतानि भोः पुष्करसारिन्न् अष्टाविंशतिनक्षत्राणी।
46.6 कतितारकाणि कतिसंस्थानानि कतिमुहूर्तयोगानि किम्आहाराणि किंदैवतानि किंगोत्राणि।
46.7 कृत्तिका भोः पुष्करसारिन् नक्षत्रं षट्तारं क्षुरसंस्थानं त्रिंशन्मुहूर्तयोगं (47) दध्याहारम् अग्निदैवतं वैश्यायनीयं गोत्रेण। रोहिणीनक्षत्रं पञ्चतारकं शकटाकृतिसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मृगमांसाहारं प्रजापतिदैवतं भारद्वाजं गोत्रेण। मृगशिरानक्षत्रं त्रितारं मृगशीर्षसंस्थानं त्रिंशन् मुहूर्तयोगं फलमूलाहारं सोमदैवतं मृगायणीयं गोत्रेण। आर्द्रनक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं सर्पिर्मण्डाहारं सूर्यदैवतं हारीतीतायनीयं गोत्रेण। पुनर्वसुनक्षत्रं द्वितारं पदसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मध्य्?आहारम् अदितिदैवतं वाशिष्ठं गोत्रेण। पुष्यनक्षत्रं त्रितारं वर्धमानसंस्थानं त्रिशन्मुहूर्तयोगं मधुमण्डाहारं बृहस्पतिदैवतम् औपमन्यवीयं गोत्रेण। अश्लेषानक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं पायसभोजनं सर्पदैवतं मैत्रायणीयं गोत्रेण।

47.1 इतिइमानि भोः पुष्करसारिन् सप्तनक्षत्राणि पूर्वद्वारकाणि। मघानक्षत्रं (48)पञ्चतारं नदीकुब्जसंस्थानं त्रिशन्मुहूर्तयोगं तिलकृसराहारं पितृदैवतं पिङ्गलायनीयं गोत्रेण। पूर्वफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं त्रिशन् मुहूर्तयोगं विल्वभोजनं भवदेवतं गौतमीयं गोत्रेण। उत्तरफल्गुनीनक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं गोधूममत्स्याहारम् अर्यमादैवतं कौशिकं गोत्रेण। हस्तनक्षत्रं पञ्चतारं हस्तसंस्थानं त्रिंशन्मुहूर्तयोगं श्यामाकभोजनं सूर्यदैवतं काश्यपं गोत्रेण। चित्रानक्षत्रम् एकतारं तिलकसंस्थानं त्रिंशन्मुहूर्तयोगं मुद्गकृसरघृतपूपाहारं त्वष्टृदैवतं कात्यायनीयं गोत्रेण।

48.1 स्वातीनक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं मुद्गकृसरफलाहारं वायुदैवतं कात्यायनीयं गोत्रेण। विशाखानक्षत्रं द्वितारं विषाणसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं तिलपुष्पाहारम् इन्द्राग्निदैवतं शांखायनीयं गोत्रेण।

49.1.इत्य् एतानि भोः पुष्करसारिन् सप्तनक्षत्राणि दक्षिणाद्वारकाणि।
49.2 अनुराधानक्षत्रं चतुस्तारं रत्नाबलीसंस्थानं त्रिशन्मुहूर्तयोगं सुरामांसाहारं मित्रदैवतम् आलंबायनीयं गोत्रेण। ज्येष्ठानक्षत्रं त्रितारं यवमध्यसंस्थानं पञ्चदशमुहूर्तयोगं शालियवागुभोजनम् इन्द्रदैवतं दीर्घकात्यायनीयं गोत्रेण। मूलनक्षत्रं सप्ततारं वृश्चिकसंस्थानं त्रिशन्मुहूर्तयोगं मूलफलाहारं नैरृतिदैवतं कात्यायनीयं गोत्रेण। पूर्वाषाढानक्षत्रं चतुस्तारं गोविक्रमसंस्थानं त्रिशन्मुहूर्तयोगं न्यग्रोधकषायाहारं तोयदैवतं दर्भकात्यायनीयं गोत्रेण। उत्तराषाढानक्षत्रं चतुस्तारं गजविक्रमसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं मधुलाजाहारं विश्वदैवतं मौद्गलायनीयं गोत्रेण। अभिजिन्नक्षत्रं त्रितारं गोशीर्ससंस्थानं षण्मुहूर्तयोगं (50) वायुआहारं ब्रह्मदैवतं ब्रह्मावतीयं गोत्रेण। श्रवणानक्षत्रं त्रितारं यवमध्यसंस्थानं त्रिंशन्मुहूर्तयोगं पक्षिमांसाहारं विष्णुदैवतं कात्यायनीयं गोत्रेण।

50.1 इत्य् एतानि भोः पुष्करसारिन् सप्तनक्षत्राणि पश्चिमद्वारकाणि।
50.2 धनिष्ठानक्षत्रं चतुस्तारं शकुनसंस्थानं त्रिंशन्मुहूर्तयोगं कुलत्थपूपाहारं वसुदैवतं कौण्डिन्यायनीयं गोत्रेण। शतभिषानक्षत्रम् एकतारं तिलकसंस्थानं पञ्चदशमुहूर्तयोगं यवागुभोजनं वरुणदैवतं ताण्ड्यायनीयं गोत्रेण। पूर्वभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं त्रिंशन्मुहूर्तयोगं मांसरुधिराहारम् अहिर्बुध्न्यदैवतं जातूकर्ण्यं गोत्रेण। उत्तरभाद्रपदानक्षत्रं द्वितारं पदकसंस्थानं पञ्चचत्वारिंशन्मुहूर्तयोगं (51)मांसाहारम् अर्यमादैवतं ध्यानद्राह्यायणीयं गोत्रेण। रेवतीनक्षत्रम् एकतारं तिलकसंस्थानं त्रिशन्मुहूर्तयोगं दध्याहारं पूषदैवतम् अष्टभगिनीयं गोत्रेण। अश्विनीनक्षत्रं द्वितारं तुरगशीर्षसंस्थानं त्रिंशन्मुहूर्तयोगं मधुपायसभोजनं गन्धर्वदैवतं मैत्रायाणीयं गोत्रेण। भरणीनक्षत्रं त्रितारं भगसंस्थानं त्रिंशन्मुहूर्तयोगं तिलतण्डूलाहारं यमदैवतं भार्गवीयं गोत्रेण।

51.1 इत्य् एतानि भोः पुष्करसारिन् सप्तनक्षत्राणि उत्तरद्वारकाणि।
51.2 अमीषां भोः प्प्पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां षण्नक्षत्राणि पञ्चचत्वारिंशन्मुहूर्तयोगानि। तद् यथा। रोहिणी पुनर्वसु उत्तरफल्गुनी विशाखा उत्तराषाढा उत्तरभाद्रपदा चेति।
51.3 पञ्चनक्षत्राणि पञ्चदशमुहूर्तयोगानि। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा शतभिषा चेति। एकोऽभिजित् षण्मुहूर्तयोगः। अवशिष्टानि त्रिंशन्मुहूर्तयोगानि।

52.1 अमीषां भोः पुष्करसारिन् सप्तानां नक्षत्राणां पूर्वद्वारिकाणां कृत्तिका प्रथमा नामाश्लेषा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणां दक्षिणद्वारिकाणां मघा प्रथमा नाम विशाखा पश्चिमा नाम। अमीषां पश्चिमद्वारिकाणां सप्तानां नक्षत्राणाम् अनुराधा प्रथमा नाम श्रवणा पश्चिमा नाम। अमीषां सप्तानां नक्षत्राणाम् उत्तरद्वारिकाणां धनिष्ठा प्रथमा नाम भरणी पश्चिमा नाम।
53.2 अमीषां भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां सप्त बलानि। कतमानि सप्त। यद् उत त्रीणि पूर्वाणि विशाखानुराधा पुनर्वस्ह्ः स्वातिश् च। त्रीणि दारुणानि। आर्द्रा अश्लेषा भरणी चेति। चत्वारि सम्माननीयानि। यद् उत त्रीणि उत्तराणि रोहिणी चेति। पञ्च मृदुकानि। श्रवणा धनिष्ठा शतभिषा ज्येष्ठा मूला इति। पञ्च धारणीयानि। हस्ता चित्रा अश्लेषा मघा अभिजिच् चेति। चत्वारि क्षिप्रकरणीयानि। यद् उत कृत्तिका मृगशिरा पुष्या अश्विनी चेति।

नक्षत्राणां योगः

52.3 अमीषां भोः पुष्करसारिन्न् अष्टविंशतीनां नक्षत्राणां त्रयो योगा भवन्ति। ऋषभानुसारी योगः। वत्सानुसारी योगः। युगनद्धो योगः। तत्र नक्षत्रं यदि पुरस्ताद् गच्छति चन्द्रश् च ष्ठतः, अयम् उच्यते ऋषभानुसारी योग इति। यद् उत चन्द्रः पुरस्ताद् गच्छति नक्षत्रं च ष्ठतः, तदा भवति वत्सानुसारी योगः। यदि पुनश् चन्द्रो नक्षत्रं चउभौ समौ युगपद् गच्छतः, तदायम् उच्यते युगनद्धो योग इति।

ग्रहः

53.1 अथ खलु भोः पुष्करसारिन् ग्रहान् प्रवक्ष्यामि तच् छ्रूयतां। तद् यथा शुक्रो बृहस्पतिः शनैश्चरो बुधोऽङ्गारकः सूर्यस् ताराधिपतिश् चेति।

रात्रिदिवसयोर् ह्रासवृद्धी 53

53.2 एवं विपरिवर्तमाने लोके नक्षत्रेषु प्रविभक्तेषु कथं रात्रिदिवसानां ह्रासो वृद्धिश् च भवति। तद् उच्यते।
53.3 हेमन्तानां द्वितीये मासि रोहिण्याम् अष्टम्यां द्वादशमुहूर्तो दिवसो भवति। अष्टादशमुहूर्ता रात्रिः। ग्रीष्माणां पश्चिमे मासे रोहिण्याम् अष्टम्याम् अष्टादशमुहूर्तो दिवसो भवति। द्वादशमुहूर्ता रात्रिः। वर्षाणां पश्चिमे मासे रोहिण्याम् अष्टम्यां चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः।
53.4 किं भोस् त्रिशङ्को रात्रिदिवसानां प्रस्थानं। दिवसानुदिवसं। किं पक्षस्य प्रस्थानं। (54)प्रतिपद्। किं संवत्सरस्य प्रस्थानं। पौषः। किम् ऋतूनां प्रस्थानं। प्रावृट्।

मुहूर्तनामानि

54.1 किं भोस् त्रिशङ्को क्षणस्य परिमाणं । किं लवस्य। किं मुहूर्तस्य।
54.2 तद् यथा भोः पुष्करसारिन् स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणः। विंशत्यधिकं तत्क्षणशतम् एकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमसम्बन्धेन त्रिंशन्मुहूर्तम् एकं रात्रिदिवसम् अनुमीयते। तेषां मुहूर्तानाम् इमानि नामानि भवन्ति।
54.3 आदित्य उदयति षण्णवतिपौरुषायां छायायां चतुरोजा नाम मुहूर्तो भवति। षष्टिपौरुषायां छायायां श्वेतो नाम मुहूर्तो भवति। द्वादशपौरुषायां छायायां समृद्धो नाम मुहूर्तो भवति। षट्पौरुषायां छायायां शरपथो नाम मुहूर्तो भवति।

55.1 पञ्चपौरुषायां छायायाम् अतिसमृद्धो नाम मुहूर्तो भवत्। चतुःपौरुषायां छायायाम् उद्गतो नाम मुहूर्तो भवति। त्रिपौरुषायां छायायां सुमुखो नाम मुहूर्तो भवति। स्थिते मध्याह्ने वज्रको नाम मुहूर्तो भवति। परिवृत्ते मध्याह्ने त्रिपुरुषायां छायायां रोहितो नाम मुहूर्तो भवति।
55.2 चतुःपौरुषायां छायायां बलो नाम मुहूर्तो भवति। पञ्चपौरुषायां छययं विजयो नाम मुहूर्तः। षट्पौरुषायां छायायां सर्वरसो नाम मुहूर्तः। द्वादशपरुषायां छायायां वसुर् नाम मुहूर्तः। षष्टिपौरुषायां छायायां सुन्दरो नाम मुहूर्तः। अवतरमाण आदित्ये षण्णवतिपौरुषायां छायायां परभयो नाम मुहूर्तो भवति।

55.3 इत्य् एतानि दिवसस्य मुहूर्तानि।

55.4 अथ खलु भोः पुष्करसारिन् रात्र्या मुहूर्तानि व्याख्यास्यामि।अस्तंगत आदित्ये रौद्रो नाम मुहूर्तः। ततस् तारावचरो नाम मुहूर्तः। संयमो नाम मुहूर्तः (56) सांप्रैयको नाम मुहूर्तः। अनन्तो नाम मुहूर्तः। गर्दभा नाम मुहूर्तः। राक्षसो नाम मुहूर्तः। स्थितेऽर्धरात्रेऽवयवो नाम मुहूर्तः। अतिक्रान्तेऽर्धरात्रे ब्रह्मा नाम मुहूर्तः। दितिर् नाम मुहूर्तः। आतपाग्निर् नाम मुहूर्त। अभिजिन् नाम मुहूर्तः। इत्य् एतानि रात्रेर् मुहूर्तनामानि। इति भोः पुष्करसारिन् इमानि त्रिशन् मुहूर्तानि यैर् अहोरात्रं प्रज्ञायते।

56.1 तत्क्षणः क्षणो लवो मुहूर्तः । तत्र त्रिंशतितमो भागो मुहूर्तस्य लवः। षष्टितमो भागो लवस्य क्षणः। विंशत्युत्तरभागशतं क्षणस्य तत्क्षणः। तद् यथा स्त्रिया नातिदीर्घह्रस्वः कर्तिन्याः सूत्रोद्यामः। एवं दीर्घस् तत्क्षणःः। विंशत्युत्तरक्षणशतं तत्क्षणस्यैकः क्षणः। षष्टिक्षणा एको लवः। त्रिंशल्लवा एको मुहूर्तः। एतेन क्रमयोगेन त्रिंशन्मुहूर्तम् एकम् अहोरात्रं। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादशमासाः संवत्सरः। चतुरोजाः श्वेतः समृद्धः शरपथोऽतिसमृद्ध उद्गतः (57) सुमुखो वज्रको रोहितो बलो विजयः सर्वरसो वसुः सुन्दरः परभयः। रौद्रस् तारावचरः संयमः सांप्रैयकोऽन्नन्तो गर्दभो राक्षसोऽवयवो ब्रह्मा दितिर् अर्को विधमनो आग्नेय आतपाग्निर् अभिजित्।

57.1 इतिइमानि मुहूर्तानां नामानि।

कालउत्पत्तिः

57.2 कालोत्पत्तिम् अपि ते ब्राह्मण वक्ष्यामि शृणु।
57.2 कालस्य किं प्रमाणम् इति तद् उच्यते।
57.3 द्वावक्षिनिमेषाव् एको लवः। अस्टौ लवा एका काष्ठा। षोडशकाष्ठा एका कला। कलानां त्रिंशदेको नाडिका। तत्र द्वे नाडिक एको मुहूर्तः।
57.4 नाडिकायाः पुनः किं प्रमाणं। तद् उच्यते।
57.5 द्रोणं सलिलस्यैकं। तद्धरणतो द्वे पलशते भवतः। नालिकाछिद्रस्य किं प्रमाणं। सुवर्णमात्रं। उपरि चतुर्अङ्गुला सुवर्णशलाका कर्तव्या। (58) वृत्तपरिमण्डला समान्ताच् चतुरस्रा आयता। यदा चएवं शीर्येत तत् तोयं घटस्य तदैका नाडिका। एतेन नालिकाप्रमाणेन विभक्ते द्वे नाडिक एको मुहूर्तः। एतेन भो ब्राह्मण त्रिंशन् मुहूर्ताः। यै रात्रिदिवसा अनुमीयन्त इति।

58.1 ततः षोडश निमेषा एका काष्ठा। षोडश काष्ठा एका कला। षष्टिकला एको मुहूर्तः। त्रिंशन्मुहूर्ता एकम् अहोरात्रम्। त्रिंशद् अहोरात्राण्य् एको मासः। द्वादशमासाः संवत्सरः।
58.2 एतेन पुनरक्षिनिमेषेण षोडशकोटयोऽष्टपञ्चाशच् च शतसहस्राणि अष्टाशीतिसहस्राणि स एवं मापितः। तच् च ब्राह्मण कालोत्पत्तिर् व्याख्याता।

क्रोशयोजनउत्पत्तिः

58.3 सृणु ब्राह्मण क्रोशयोजनानाम् उत्पत्तिं। सप्त परमाणव एकोऽणुर् भवति। सप्ताणवः सर्वसूक्ष्मं दृस्यते। तद् एकं वातायनरजः। वातायनरजांसि सप्त, शशकरजः। सप्त शशकरजांस्य् एडकरजः। सप्त एडकरजांश्येकं गोरजः। सप्तगोरजांस्य् एका यूका। सप्तयूका एका लिक्षा। सप्तलिक्षा एको यवः। सप्त यवा एकाङ्गुलिः। द्वादशाङ्गुलयो वितस्तिः। द्वे वितस्ती एको हस्तः। चत्वारो हस्ता एकं धनुः। धनुःसहस्रम् एकः क्रोशः। चत्वारः क्रोशा एको मागधयोजनः। योजनस्य प्रमाणं पिण्डितां।

59.1 परमाणूनां कोटिशतसहस्राणि चतुर्विंशतिश् चैकोनत्रिंशत्कोटिसहस्राणि द्वादश च शतसहस्राणि। एवं मापितं योजनम् इति।
59.2 शृणु ब्राह्मण सुवर्णस्य परिमाणोत्पत्तिं। तत्कथयतु भवान्।
59.3 द्वादश यवा माषकः। षोडश मासका एकः कर्षः।सुवर्णस्य परिमाणं पिण्डितम् इति। द्वे कोटी पञ्चविंशतिश् च सहस्राणि पञ्चशतान्य् अष्टौ च परमाणवः। एवं मापिता ब्राह्मण सुवर्णस्य परिमाणउत्पत्तिः।
59.4 शृणु ब्राह्मण पलप्रमाणं। चतुःषष्टिमाषकाः पलं मागधकं। मागधकया तुलया पलस्य परिमाणं पिण्डितं। परमाणूनाम् अष्टकोटयः सप्तचत्वारिंशच् च शतसहस्राणि सप्त च सहस्राणि द्वे शतेऽशीतिश् च परमाणवः। एवं मापितं ब्राह्मण पलस्य परिमाणम् इति।
59.5 शृणु ब्राह्मण रसपरिमाणस्यउत्पत्तिं। चतुर्विंशतिपलानि मागधकः। प्रस्थः। तत् रसपरिमाणं। मागधकया तुलया प्रस्थास्य परिमाणं पिण्डितं। द्वे कोटिशते तिस्रश् च कोटय एकोनतिंशच् च शतसहस्राणि चतुःसप्तति (60) सहस्राणि सप्त च शतानि विंशतिश् च परमाणवः। एवं मापिता ब्राह्मण रसमानस्यउत्पत्तिर् इति।

60.1 शृणु ब्राह्मण धान्यपरिमाणस्यउत्पत्तिं। एकोनत्रिंशतिपलान्य् एककर्षेणोनानि मागधः प्रस्थः। मापितं धान्यपरिमाणं। मागधकया तुलया प्रस्थस्य परिमाणं पिण्डितं। कोटिशतम् अष्टपञ्चाशच् च कोटयो द्विर् अशीतिश् च शत सहस्राणि एकषष्टिश् च सहस्राणि पञ्चशतानि त्रिंशच् च परमाणवः। एवं मापितं ब्राह्मण धान्यस्य परिमाणम् इति।

नक्षत्रव्याकरणं

60.2 पठ भोस् त्रिशङ्को नक्षत्रव्याकरनं नामअध्यायं। अथ खलु भो ब्राह्मण नक्षत्रव्याकरनं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान्।

61.1 कृत्तिकासु जातो मानवो यशस्वी भवति। रोहिण्यां जातः सुभगो भवति भोगवांश् च। मृगशिरसि जातो युद्धार्थी भवति। आर्द्रायां जात उत्सोऽन्नपानानां भवति। पुनर्वसौ जातः कृषिमान् भवति गोरक्षश् च। पुष्ये जातः शीलवान् भवति। अश्लेषायां जातः कामुको भवति। मघायां जातो मतिमान् भवति, महाआत्मा च। पूर्वफल्गुन्यां जातोऽल्पअयुष्को भवति। उत्तरफल्गुन्यां जात उपवासशीलो भवति, स्वर्गपरायणश् च। हस्ते जातश् चौरो भवति। चित्रायां जातो नृत्यगीतकुशलो भवति, आभरणविधिज्ञश् च। स्वात्यां जातो गणको भवति, गणकमहामात्रो वा। विशाखायां जातो राजभटो भवति। अनुराधायां जातो वाणिजको भवति सार्थिकः। ज्येष्ठायां जातोऽल्पअयुष्को भवति, अल्पभोगश् च। मूले जातः पुत्रवान् भवति, यशस्वी च। पूर्वाषाढायां जातो योगाचारो भवति। उत्तराषाढायां जातो भक्तेश्वरः कुलीनश् च भवति। अभिजिति जातः कीर्तिमान् पुरुषो भवति। श्रवणे जातो (62) राजपूजितो भवति। धनिष्ठायां जातो धनाढ्यो भवति। शतभिषायां जातो मूलिको भवति। पूर्वभाद्रपदायां जातश् चौरसेनापतिर् भवति। उत्तरभाद्रपदायां जातो गन्धिको भवति, गन्धर्वश् च। रेवत्यां जातो नाविको भवति। अश्विन्यां जातोऽश्ववाणिजको भवति। भरण्यां जातो वध्यघातको भवति। अयं भोः पुष्करसारिन् नक्षत्रव्याकरणो नाम।

नक्षत्रनिर्देशः

62.1 पठ भोस् त्रिशङ्को नक्षत्रनिर्देशं नामअध्यायं। अथ भोः पुष्करसारिन् नक्षत्रनिर्देशं नामअध्यायं व्याख्यास्यामि तच् छ्रूयतां । कथयतु भवान्।
62.2 कृत्तिकासु निविष्टं वै नगरं ज्वलति श्रिया।
62.2 प्रभूरत्नोज्वलं चएव तन् नगरं विनिर्दिशेत्॥
62.3 रोहिण्यां तु निविष्टं वै नगरं तद् विनिर्दिशेत्।
62.3 धार्मिकोऽत्र जनो भूयात् प्रभूतधनसञ्चयः।
62.3 विद्याप्रकृतिसम्पन्नः स्वदाराभिर् अतोऽपि च॥
62.4 मृगशीर्षे निविष्टं तु स्त्रीभिर् गोभिर् धनैस् तथा।
62.4 माल्यभोगैश् च सङ्कीर्णम् अद्भुतैश् च पुरस्कृतं॥

63.1 आर्द्रायां मत्स्यमांसानि भक्ष्यभोज्यधनानि च।
63.1 भवन्ति क्रूरपुरुषा मूर्खप्रकृतयः पुरे॥
63.2 पुनर्वसौ निविष्टे तु नगरं दीप्यते श्रिया।
63.2 प्रभूतधनधान्यं च भूत्वा वाअपि विनश्यति॥
63.3 स्रीमत्पुष्ये निविष्टे तु प्रजा दुष्टा प्रसीदति।
63.3 युक्ताः श्रिया च धर्मिष्ठास् तथिव चिरजीविनः॥
63.4 तेजस्विनश् च दीर्घायुर्धनधान्यरसान्विताः।
63.4 वनस्पतिस् तथा क्षिप्रं पुष्येत् तत्र पुनः पुनः॥
63.5 अश्लेषायां निविष्टे तु दुर्भगाः कलहप्रियाः।
63.5 दुःशीला दुःखभाजश् च निवसन्ति नराधमाः॥
63.6 मघायां च निविष्टे तु विद्यावन्तो महाधनाः।
63.6 स्वदाराअभिरता मर्त्या जायन्ते सुपराक्रमाः॥

64.1 फल्गुन्यां तु स्त्रियो माल्यं भोजनाच्छादनं शुभं।
64.1 गन्धोपेतानि धन्यानि निविष्टे नगरे भवेत्॥
64.2 उत्तरायां तु फाल्गुन्यां धान्यानि च धनानि च।
64.2 मूर्खा जना जिताः स्त्रीभिर् निविष्टे नगरे भवेत्॥
64.3 हस्ते च विनिविष्टे तु विद्यावन्तो महाधनाः।
64.3 परस्परं च रुचितं शयनं नगरे भवेत्॥
64.4 चित्रायां च निविष्टे तु स्त्रीजिताः सर्वमानवाः।
64.4 श्रीमत्कान्तं च नगरं ज्वलन्तं तद् विनिर्दिशेत्॥
64.5 स्वात्यां पुरे निविष्टे तु प्रभूतधनसञ्चयाः।
64.5 लुब्धाः क्रूराश् च मूर्खाश् च प्रभूता नगरे भवेत्॥
64.6 विशाखायां निविष्टं तु नगरं ज्वलति श्रिया।
64.6 यायजूकजनाकीर्णं शस्त्रान्तं च विनिर्दिशेद्॥
64.7 अनुराधानिविष्टे तु धर्मशीला जितेन्द्रियाः।
64.7 स्वदारनिरताः पुण्या जपहोमपरायणाः॥

65.1 ज्येष्ठायां सन्निविष्टं तु बहुरत्नधनान्वितैः।
65.1 सत्त्वैर् वेदविदैः पूर्णं शश्वत्समभिवर्धते॥
65.2 मूलेन सनिविष्टं तु पुरं धान्यधनान्वितं।
65.2 दुःशीलजनसङ्कीर्णं पांसुना च विनश्यति॥
65.3 पूर्वाषाढानिविष्टं तु पुरं स्याद् धनधान्यभाक्।
65.3 लुब्धाः क्रूराश् च मूर्खाश् च निवसन्ति नराधमाः॥
65.4 निविष्टे तूत्तरायां च धनधान्यसमुच्चयः।
65.4 विद्याप्रकृतिसम्पन्नो जनश् च कलहप्रियः॥
65.5 अभिजिति निविष्टे तु नगरे तत्र मोदिताः।
65.5 नराः सर्वे सदा हृष्टाः परस्परानुरागिणः॥
65.6 श्रवणायां निविष्टं तु पुरं धान्यधनान्वितं।
65.6 अरोगिजनभूयिष्ठसहितं तद् विनिर्दिशेत्॥
65.7 धनिष्ठायां निविष्टं तु स्त्रीजितं पुरम् आदिशेत्।
65.7 प्रभूतवस्त्रमाल्यं च कामभोगविविर्जितम्॥
65.8 पुरे शतभिषायुक्त मूर्खशाठ्यप्रिया जहाः।
65.8 स्त्रीषु पानेषु संसक्ताः सलिलेन विनश्यति॥

66.1 पुरे प्रोष्ठपदाध्यक्षे नरास् तत्र सुखप्रियाः।
66.1 परोपतापिनो मूर्खा मानकामविवर्जिताः॥
66.2 उत्तरायां निविष्टे तु शश्वद्वृद्धिर् अनुत्तरा।
66.2 पूर्णं च धनधान्याभ्यां रत्नाढ्यं च विनिर्दिशेत्॥
66.3 पुरे निविष्टे रैवत्यां सुन्दरी जनता भवेत्।
66.3 खरोष्ट्रं चएव गावश् च प्रभूतधनधान्यता॥
66.4 अश्विन्यां विनिविष्टं तु नगरं शिवम् आदिशेत्।
66.4 अरोगिजनसम्पूर्णं दर्शनीयजनाकुलम्॥
66.5 भरण्यां सन्निविष्टे तु दुर्भगाः कलहप्रियाः।
66.5 दुःशीला दुःखभाजश् च वसन्ति पुरुषाधमाः॥
66.6 पुराणि राष्ट्रणि तथा गृहाणि नक्षत्रयोगं प्रसमीक्ष्य विद्वान्।
66.6 इष्टे प्रशस्ते च निवेशयेत् तु पूर्वे च जन्मेऽधिगतं मयेदं॥

67.1 अयं भोः पुष्करसारिन् नक्षत्रनिर्देशो नामअध्यायः।

नक्षत्राणां स्थाननिर्देशः

67.2 अथ खलु भोः पुष्करसारिन्न् अष्टाविंशतीनां नक्षत्राणां स्थाननिर्देशं नामअध्यायं प्रवक्ष्यामि। एतच् छ्रूयतां।
67.3 कथयतु भगवान्।
67.4 कृत्तिका भोः पुष्करसारिन् नक्षत्रं कलिङ्गमगधानां । रोहिणी सर्वप्रजायाः। मृगशिरा विदेहानां राजोपसेवकानां च। एवम् आर्द्रा क्षत्रियाणां ब्राह्मणानं च। पुनर्वसुः सौपर्णानां। पुष्यनक्षत्रं सर्वेषाम् अवदातवदातवसनानां। राजपदसेवकानां च। अश्लेषा नागानां हैमवतानां च। मघानक्षत्रं गौडिकानां। पूर्वफल्गुनी चौराणां। उत्तरफल्गुनी अवन्तीनां। हस्ता सौराष्ट्रिकाणां। चित्रा पक्षिणां द्विपदानां। स्वाती सर्वेषां प्रव्रज्यासमापन्नानां। विशाखा औदकानां। अनुराधा वाणिजकानां शाकटिकानां च। ज्येष्ठा दौवालिकानां। (68) मूला पथिकानां। पूर्वाषाढा वाह्लीकानां च। उत्तराषाढा काम्बोजानां। अभिजित् सर्वेषां दक्षिणापथिकानां ताम्रपर्णिकानां च। श्रवणा घादकानां चौराणां च। धनिष्ठा कुरुपाञ्चालानां। शतभिषा मौलिकानाम् आर्थवणिकानां च। पूर्वभाद्रपदा गन्धिकानां यवनकाम्बोजानां च। उत्तरभाद्रपदा गन्धर्वाणां। रेवती नाविकानां च। अश्विनी अश्ववाणिजानां च। भरणी भद्रपदकर्मणां भद्रकायाकानां च।

68.1 अयं भोः पुष्करसारिन् नक्षत्राणां स्थाननिर्देशव्याकरणो नामअध्यायः।

ऋतुवर्षः

68.2 पठ भोस् त्रिशङ्को ऋतुवर्षं नामअध्यायं। तद् अहं वक्ष्ये श्रूयतां। कथयतु भगवान्।
68.3 कृत्तिकासु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। वर्षो दशरात्रिकः। श्रवणायुक्तप्रोष्ठपदायाम् अग्नोदको वर्षारात्रो भवति। पश्चाद् वर्षं संजनयति। हेमन्ते ग्रीष्मे ग्रीणि चअत्र (69) भयप्रग्रहाणि भवन्ति। अग्निभयं शस्त्रभयं चउदकभयं च भवति। उक्तं कृत्तिकासु।

69.1 रोहिण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकविंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एष च वर्षारात्रः सारोपरोधः सस्यं च संपादयति। द्वौ चअत्र रोगौ प्रबलौ भवतः। कुक्षिरोगश् चक्षूरोगश् च। चौरबहुलाश् चअत्र दिशो भवन्ति। उक्तं च रोहिण्यां।
69.2 मृगशिरसि ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। सारोपरोधो वर्षारात्रः। पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् चअत्र (70) राजानो भवन्ति। क्षेमिणः सुनीतिकाश् च दिशो भवन्ति। मुदिताश् चअत्र जनपदा भवन्ति। उक्तं मृगशिरसि।

70.1 आर्द्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टादशाढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। निधयश् च रक्षयितव्याः। चौरबहुलाश् चअत्र दिशो भवन्ति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। त्रयश् चअत्र रोगाः प्रबला भवन्ति। ज्वरः श्वासो गलग्रहश् च। बालानां दारकदारिकाणां च मरणं भवति। इत्य् उक्तम् आर्द्रायां।
70.2 पुनर्वसौ ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति। नवत्याढकानि प्रवर्षति। महामेघान् उत्पादयति। आषाढायां प्रविष्टायां मृदूनि प्रवर्षति। अनन्तरं च निरन्तरेण प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। उक्तं पुनर्वसौ।

71.1 पुष्ये ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति द्वात्रिंशदाढकानि प्रवर्षति। अत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। व्यक्तं प्रधानवर्षाणि भवन्ति। सस्यं च निष्पादयति। ब्राह्मणक्षत्रियाणां च विरोधो भवति। दंष्ट्रिणश् चअत्र प्रबला भवन्ति। तत्र त्रयो रोगाश् च भवन्ति। गण्डाः पिटकाः पामानि च । इत्य् उक्तं पुष्ये।
71.2 अश्लेषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकविंशत्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। विषमाश् च वायवो वान्ति। संविग्नाश् चअत्र ज्ञानिनो राजानश् च भवन्ति। एषो वर्षः सर्वसस्यानि सम्पादयति। जायापतिकानां राजामात्यानां च विरोधो भवति। उक्तम् अश्लेषायां।
71.3 मघायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि (72) प्रवर्षति। एषो वर्षः सर्वसस्यानि सम्पादयति। मृगपक्षिपशुमनुष्याणां चअत्र गर्भा विनश्यन्ति। जनमरणं चअत्र भविष्यतिइति। उक्तं मघायां।

72.1 पूर्वफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। एषो वर्षः सर्वसस्यानि सम्पादयति। तच् च सस्यं जनयित्वा परचक्रपीडिता मनुष्या न सुखेनोपभुञ्जते। पशूनां मणुष्याणां चअत्र गर्भाः सुखिनो भवन्ति। उक्तं पूर्वफल्गुन्यां।
72.2 उत्तरफल्गुन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि प्रवर्षति। एषो वर्षः सर्वसस्यानि च सम्पादयति। निक्षिप्तशस्त्राश् चअत्र राजानो भवन्ति। ब्रह्मक्षत्रिययोश् च विरोधो भवति। क्षिप्रं च अनीतिकाः प्रजा विनश्यन्ति। चउक्तम् उत्तरफल्गुन्यां।
72.3 हस्ते ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकोनपञ्चाशदाढकानि (73) प्रवर्षति। देवश् च तद् यथा परिक्षिपति। पतितानि च सस्यानि जनस्यारसाग्राणि अनुदग्राणि अल्पसाराण्य् अल्पोदकानि। दुर्भिक्षश् चअत्र भविष्यति। उक्तं हस्ते।

73.1 चित्रायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। सारोपरोधस् ततः पश्चाद् वर्षं संजनयति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। मुदिताश् चअत्र जनपदा भवन्ति। उक्तं चित्रायां।
73.2 स्वात्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकविंशत्याढकानि प्रवर्षति। निक्षिप्तशस्त्राश् च राजानो भवन्ति। चौराश् चअत्र बलवत्तरा भवन्ति। उक्तं स्वात्यां।
73.3 विशाखायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अशीत्याढकानि (74) प्रवर्षति। एषा वर्षः सर्वसस्यानि सम्पादयति। राजानश् चअत्र छिद्रयुक्ता भवन्ति। अग्निदाहाश् चअत्र प्रबला भवन्ति। दंष्ट्रिणश् चअत्र बलवन्तोऽपि क्षयं गच्छन्ति। उक्तं विशाखायां।

74.1 अनुराधायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। मित्राणि चअत्र दृढानि भवन्ति। उक्तम् अनुराधायां।
74.2 ज्येष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि प्रवर्षति। तत्र कृषिकर्मान् तानि प्रतिसंहर्तव्यानि। युगवरत्राणि वर्जयितव्यानि। स्वधान्यानि उपसंहर्तव्यानि। अग्नयः प्रतिसंहर्तव्याः। लाङ्गलानि प्रतिसंहर्तव्यानि। अवश्यम् अनेन जनपदेन विनष्टव्यं भवति। परचक्रपीडितो भवति। उक्तं ज्येष्ठायां।
74.3 मूले ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुषष्ट्याढकानि प्रवर्षति। एषो वर्षः सस्यं सम्पादयति। चौरबहुलाश् चअत्र दिशो भवन्ति। त्रयश् चअत्र व्याधयो बलवन्तो भवन्ति। वातगण्डः पार्श्वशूलम् अक्षिरोगश् च। पुष्पफलानि चअत्र समृद्धानि भवन्ति। निक्षिप्तशस्त्राश् चअत्र राजानो भवन्ति। उक्तं मूले।

75.1 पूर्वस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षष्ट्याढकानि प्रवर्षति। द्वौ चअत्र ग्राहौ भवतः । प्रोष्ठपदे वाऽश्वयुजौ वा पक्षे। एषो वर्षः सर्वसस्यानि सम्पादयति। द्वौ चअत्र रोगौ प्रबलौ भवतः। कुक्षिरोगोऽक्षिरोगश् च । उक्तं पूर्वाषाढायां।
75.2 उत्तरस्याम् आषाढायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। महास्रोतांसि चअत्र प्रवहन्ति। अग्रोदका चअत्र वर्षा भवति। सर्वसस्यानि निष्पादयति। त्रयश् चअत्र रोगाः प्रबला भवन्ति। गण्डः कच्छः कण्ठरोग इति। उक्तम् उत्तराषाढायाम्॥
75.3 अभिजिति ग्रीष्माणां पश्चिमे मासे यद्य् अत्र प्रवर्षति चतुःषष्ट्य्आढाकानि (76) प्रवर्षति। मण्डलवर्षं च देवः प्रवर्षति। पश्चाद् वर्षः सस्यं जनयति। औदकानां भूतानाम् उत्सर्गो भवति। उक्तम् अभिजिति।

76.1 श्रवणे तु ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुष्षष्ट्याढकानि प्रवर्षति। मण्डलवर्षं च देवो वर्षति। पश्चाद् वर्षा सस्यं सम्पादयति। औदकानां भूतानाम् उत्सर्गो भवति। व्याधिबहुलाश् च नरा भवन्ति। राजानश् च तीव्रदण्डा भवन्ति। उक्तं श्रवणे।
76.2 धनिष्ठायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकपञ्चाशदाढकानि प्रवर्षति। विभक्ताश् चअत्र वर्षा भवन्ति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। दुर्मुखो रात्रौ वर्षो भवति। सस्यानि सम्पादयति। एकश् चअत्र रोगो भवति। गण्डविकारः। शस्त्रसमादानाश् च राजानो भवन्ति। उक्तं धनिष्ठायां।
76.3 शतभिषायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति षोडशाढकानि (77) प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषो वर्षः सर्वसस्यानि सम्पादयति। चक्रसमारूढा जनपदा भवन्ति। मनुष्या दारकदारिकाश् च स्कन्धे कृत्वा देशअन्तरं गच्छन्ति। उक्तं शतभिषायं।

77.1 पूर्वस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति चतुःषष्ट्य्आढकानि प्रवर्षति। वर्षामुखे चअत्र एकोनविंशति रात्रिकोऽवग्रहो भवति। पुष्पसस्यं च नाशयति। एताश् च वर्षा बहुचौरा भवन्ति। द्वौ चअत्र महाव्याधी भवतः। प्रथमं पित्ततापज्वरो भवति। पश्चाद् बलवान् महाग्रहो भवति। मर्त्यानां नारीणां च मरणं भवति। उक्तं पूर्वभाद्रपदायां।
77.2 उत्तरस्यां भाद्रपदायां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। महास्रोतांसि प्रवहन्ति। ग्रामनगरनिगमाः स्रोतसा उह्यन्ते। चत्वारश् चअत्र व्याधयः प्रबला भवन्ति। तद् यथा कुक्षिरोगोऽक्षिरोगः (78) काशो ज्वरश् चेति। बालानां दारकदारिकाणां मरणां भवति। अत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। एताश् च वर्षाः पुष्पाणि फलानि च सम्पादयन्ति। उक्तम् उत्तरभाद्रपदायां।

78.1 रेवत्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति एकषष्ट्याढकानि प्रवर्षति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा परिभुञ्जते। निक्षिप्तशस्त्रदण्डाश् च राजानो भवन्ति। अनुद्विग्नाश् च जनपदा भवन्ति। उद्विग्नाश् च दानपतयो भवन्ति। देवनक्षत्रसमायुक्ताश् च जनपदा भवन्ति। मित्राणि समायुक्तानि भवन्ति। उक्तं रेवत्यां।
78.2 अश्विन्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति अष्टचत्वारिंशदाढकानि प्रवर्षति। यच् च मध्ये वर्षा भवति। तत्र निम्नानि कृषिकर्तव्यानि। स्थलानि परिवर्जयितव्यानि। एषा वर्षा सर्वसस्यानि सम्पादयति। (79) भयसमायुक्ताश् चअत्र जनपदा भवन्ति। चौराश् च प्रबला भवन्ति। उक्तम् अश्विन्यां।

79.1 भरण्यां ग्रीष्माणां पश्चिमे मासे यद्य् अत्र देवः प्रवर्षति पूर्णम् आढकशतं प्रवर्षति। तत्र स्थलानि कृषिकर्तव्यानि। निम्नानि परिवर्जयितव्यानि। दुर्भिक्षस् चअत्र भवति। जरामरणं जनानां भवति। राजानश् चअत्र अन्योन्यघातका भवन्ति। पुत्रपौत्राणां च कलहो भवति। उक्तं भरण्यां।
79.2 अयं घोः पुष्करसारिन् नक्षत्रर्तुवर्षाध्यायः॥

राहुग्रहे फलविपाकः

79.3 अमीषां भोः पुष्करसारिन्न् अश्टाविंशतीनां नक्षत्राणां राहुग्रहे फलविपाकं व्याख्यास्यामि।
79.4 कृत्तिकासु भोः पुष्करसारिन् यदि चन्द्रग्रहो भवति कलिङ्गमगधानाम् उपपीडा भवति। यदि रोहिण्यां चन्द्रग्रहो भवति प्रजानाम् उपपीडा भवति। यदि मृगशिरसि चन्द्रग्रहो भवति विदेहानां जनपदानाम् उपपीडा भवति। राजोपसेवकनां च। एवम् आर्द्रायां पुनर्वसौ पुष्ये च वक्तव्यं। अश्लेषायां यदि चन्द्रग्रहो भवति नागानां हैमवतानां च पीडा भवति। यदि मघासु चन्द्रग्रहो भवति गौडिकानाम् उपपीडा भवति। यदि पूर्वफल्गुन्यां सोमो गृह्यते चौराणाम् उपपीडा (80) भवति। यद्य् उत्तरफल्गुन्यां सोमो गृह्यतेऽवन्तीनाम् उपपीडा भवति। यदि हस्तेषु सोमो गृह्यते सौराष्ट्रिकाणाम् उपपीडा भवति। यदि चित्रायां सोमो गृह्यते पक्षिणां द्विपदानां च पीडा भवति। यदि स्वात्यां सोमो गृह्यते सर्वेषां प्रव्रज्यासमापन्नानाम् उपपीडा भवति। यद्य् अनुराधासु सोमो गृह्यते वणिजानाम् उपपीडा भवति शाकटिकानां च। यदि ज्येष्ठायां सोमो गृह्यते दौवालिकानां पीडा भवति। यदि मूले सोमो गृह्यतेऽध्वगानां पीडा भवति। यदि पूर्वाषाढायां सोमो गृह्यतेऽवन्तीनां पीडा भवति। यद्य् उत्तराषाढायां सोमो गृह्यते काम्बोजकानां पीडा भवति। बाह्लीकानां च। यद्य् अभिजिति सोमो गृह्यते दक्षिणापथिकानां पीडा भवति। ताम्रपर्णिकानां च। यदि श्रवणेषु सोमो गृह्यते चौराणां घातकानां चउपपीडा भवति। यदि धनिष्ठायां सोमो गृह्यते कुरुपाञ्चालनां पीडा भवति। यदि शतभिषायां सोमो गृह्यते मौलिकानाम् आथर्वणिकानां च पीडा भवति। यदि पूर्वभाद्रपदायां सोमो गृह्यते गान्धिकानां यवनकाम्बोजकानां च पीडा भवति। यद्य् उत्तरभाद्रपदायां सोमो गृह्यते (81) गन्धर्वाणां पीडा भवति। यदि रेवत्यां सोमो गृह्यते नाविकानां पीडा भवति। यद्य् अश्च्विणिजानां पीडा भवति। यदि भरण्यां सोमो गृह्यते भरुकच्छानां पीडा भवति।

81.1 एवं भोः पुष्करसारिन् नक्षत्रे चन्द्रग्रहो भवति तस्य तस्य देशस्य पीडा भवति। इत्य् उक्तो राहुग्रहफलविपाकाध्यायः।

नक्षत्रकर्मनिर्देशः

81.2 प्रतिनक्षत्रवंशशास्त्रे यथोक्तं कर्म तच् छृणु।
81.3 उच्यमानम् इदं विप्र;ऋषीणां वचनं यथा।
81.3 षट्तारां कृत्तिकां विद्याद् आश्रयं तासु कारयेत्।
81.3 अग्न्याधानं पाकयज्ञः समृद्धिप्रसवश् च यः॥
81.4 सर्पिर्विलोडयेत् तत्र गवां वेश्म च कारयेत्।
81.4 अजैडकाश् च क्रेतव्या गवां च वृषम् उत्सृजेत्॥
81.5 अश्मसारमयं भाण्डं सर्वम् अत्र तु कारयेत्।
81.5 हिरण्यकारकर्मअन्तमिष्व् अस्त्रं चउपकारयेत्॥
81.6 मेतृको मापयेद् अत्र कुटिकाग्निनिवेशनं।
81.6 पीतलोहितपुष्पाणां बीजान्य् अत्र तु घापयेत्॥

82.1 गृहं च मापयेत् अत्र तथाऽवासं प्रकल्पयेत्।
82.1 नवं च छादयेद् वस्त्रं क्रयणं नअत्र कारयेत्॥
82.2 क्रूरकर्माणि सिध्यन्ति युद्धसंरोधबन्धनम्।
82.2 परपीडाम् अथात्रैव विद्वान् नैव प्रयोजयेत्॥
82.3 शस्त्राणि क्षुरकर्माणि सर्वाण्य् अत्र तु कारयेत्।
82.3 तेजसानि च भाण्डानि कारयेच् च क्रीणीत च॥
82.4 आयुष्यं च शिरःस्नानां स्त्रीणां विष्कम्भणानि च।
82.4 प्रवर्षणं चेद् देवस्य नअत्र वैरं प्रशाम्यति॥
82.5 क्रोधनो हर्षणः शूरस् तेजस्वी साहसप्रियः।
82.5 आयुष्मांश् च यशस्वी च यज्ञशीलोऽत्र जायते॥कृत्तिकासु
82.6 सर्वं कृषिपदं कर्म रोहिण्यां संप्रयोजयेत्।
82.6 क्षेत्रवस्तुविहारांश् च नवं वेश्म च कारयेत्॥
82.7 प्रयोजयेच् चक्रान् वारान् दासांश् चएव गृहे पशून्।
82.7 वापयेत् सर्वबीजानि ध्रुवं वासांसि कारयेत्॥

83.1 ऋणं न दद्यात् तत्रएव वैरम् अत्र तु वर्धते।
83.1 संग्रामं च सुरायोगं द्वयम् एव विवर्जयेत्॥
83.2 प्रवर्षणं च देवस्य जन्म चअत्र प्रशस्यते।
83.2 सानुक्रोशः क्षमायुक्तः स्त्रीकामो भक्षलोलुपः।
83.2 आयुष्मान् पशुमान् धन्यो महाभोगोऽत्र जायते॥रोहिण्यां॥
83.3 सौम्यं मृगशिरो विद्याद् ऋजु तिस्रश् च तारकाः।
83.3 मृदूनि यानि कर्माणि तानि सर्वाणि कारयेत्।
83.3 यानि कर्माणि रोहिण्यां तानि सर्वाणि कारयेत्॥
83.3 सक्षीरान् वापयेद् वृक्षान् बीजानि क्षीरवन्ति च।
83.3 राजप्रासादवलभीछत्राण्य् अपि च कारयेत्॥
83.4 सर्वकर्मकथाः कुर्याच् चर्यावासान् न कारयेत्।
83.4 उष्ट्रांश् च बलीवर्दांश् च दमयेद् अपि कृष्टये॥
83.5 आच्छादयेन् नवं वासश् चअलङ्कारं च कारयेत्।
83.5 द्विजातीनां तु कर्माणि सर्वाण्य् एवात्र कारयेत्॥
83.6 प्रवर्षणं च देवस्य सुवृष्टिं चअत्र निर्दिशेत्।
83.6 स्वप्नशीलस् तथा त्रासी मेधावी स च जायते॥मृगशिरसि॥

84.1 आर्द्रायां मृगयेद् अर्थान् भद्रं कर्म च कारयेत्।
84.1 क्रूरकर्माणि सिध्यन्ति तानि विद्वान् विवर्जयेत्॥
84.2 उदपानपरीखांश् च तडागान्य् अत्र कारयेत्।
84.2 ऊहेत(ऊहयेत्) प्रथमां वृष्टिं विक्रीणीयाच् च नअत्र गां।
84.2 तिलपीडानि कर्माणि शौण्डिकानां तथापणं॥
84.3 पीडयेद् इक्षुदण्डानि; इक्षुबीजानि वापयेत्।
84.3 प्रवर्षणं च देवस्य विद्याद् बहुपरिस्रवं।
84.3 क्रोधनो मृगयाशीलो माम्सकामोऽत्र जायते॥आर्द्रायां॥
84.4 पुनर्वसौ तु युक्तेऽत्र कुर्याद् वै व्रतधारणं।
84.4 गोदानं चउपनायनं सर्वम् अत्र प्रसिध्यति॥
84.5 प्रजायमानां प्रमदां गृहीत्वा गृहम् आनयेत्।
84.5 पुनः पुनर् यदीच्छेत तत्र कर्माणि कारयेत्॥

85.1 चिकित्सनं न कुर्वीत यदीच्छेन् न पराभवं।
85.1 प्रवर्षणं च देवस्य जन्म चअत्र प्रशस्यते॥
85.2 अलीलश् चअत्र जायेत स्त्रीलोलश् चअपि मानवः।
85.2 चित्रशीलश् च नैकत्रार्पितचित्तः स; उच्यते॥पुनर्वसौ॥
85.3 धन्यं यशस्यम् आयुष्यं पुष्ये नित्यं प्रयोजयेत्।
85.3 सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
85.4 राजामात्यं प्रयुञ्जीत शुश्रूषां विनयं चरेत्।
85.4 राजानम् अभिपिञ्चेद् च; अलंकुर्यात् स्वकां तनु॥
85.5 श्मश्रुकर्माणि कुर्याच् च वपनं नखलोमतः।
85.5 पुरोहितं च कुर्वीत ध्वजअग्रं च प्रकारयेत्॥
85.6 प्रवर्षणं च देवस्य मन्दवर्षं समादिशेत्।
85.6 न च रोगो न चौरश् च क्षेमं चअत्र सदा भवेत्॥
85.7 पुष्येण नित्ययुक्तः सन् सर्वकर्माणि साधयेत्।
85.7 वैरेणात्रोपनाहैश् च ये जनास् तान् विवर्जयेत्।
85.7 आयुष्मांश् च यशस्वी च महाभोगः प्रजायते॥पुष्ये॥

86.1 सिध्यते दारुणं कर्म; अश्लेषायां च कारयेत्।
86.1 कुर्याद् आभरणान्य् अत्र प्राकारम् उपकल्पयेत्॥
86.2 देहबन्धं नदीबन्धं सन्धिकर्म च कारयेत्।
86.2 प्रभूतदंशमशकं वर्षं मन्दं च वर्षति।
86.2 क्रोधनः स्वप्नशीलश् च कुहकश् चअत्र जायते॥अश्लेषायां॥
86.3 मघासु सर्वधान्यानि वापयेत् संहरेद् अपि।
86.3 संघातकर्म कुर्वीत सुमुखं चअत्र कारयेत्॥
86.4 कोष्ठआगाराणि कुर्वीत फलं चअत्र निवेशयत्।
86.4 सर्वदा पितृदेवेभ्यः श्राद्धं चैवअत्र कारयेत्॥
86.5 सस्यानां बहुलीभावो यदि देवोऽत्र वर्षति।
86.5 सुहृच् च द्वारिकश् चएव रसकामश् च जायते।
86.5 आयुष्मान् बहुपुत्रश् च स्त्रीकामो भक्तलोलुपः॥
86.6 संग्रामं जीयते तत्र यदि पूर्वं प्रवर्तते।
86.6 दारुणानि च कर्माणि तानि विद्वान् विवर्जयेत्॥मघासु॥

87.1 फल्गुनीषु च पूर्वासु सौभाग्यार्थानि कारयेत्।
87.1 विशेषाद् आमलक्यादि फलानाम् उपकारयेत्॥
87.2 कुमारीमङ्गलार्थानि स्नापनानि च कारयेत्।
87.2 कन्याप्रवहनार्थाय विहारं चएव कारयेत्॥
87.3 वेश्मानि कारयेत् तत्र वश्य(वैश्य)म् अत्र प्रयोजयेत्।
87.3 भागं ये चउपजीवन्ति तेषां कर्म प्रयोजयेत्॥
87.4 अव्यक्तकेशोऽकेशः सुभगश् चअत्र जायते।
87.4 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
87.4 नष्टं विद्धं कृतं चअपि न तद् अस्तिइति निर्दिशेत्॥पूर्वफल्गुन्यां॥
87.5 उत्तरायां तु फल्गुन्यां सर्वकर्माणि कारयेत्।
87.5 मेधावी दर्शनीयश् च यशस्वी चअत्र जायते॥
87.6 अथात्र नष्टं दग्धं वा सर्वम् अस्तिइति निर्दिशेत्।
87.6 प्रवर्षणं च देवस्य विद्यात् संपदनुत्तमां॥उत्तरफल्गुन्यां॥

88.1 हस्तेन लघुकर्माणि सर्वाण्य् एव प्रयोजयेत्।
88.1 सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्॥
88.2 हस्त्यारोहं महामात्रं पुष्करिणीं च कारयेत्।
88.2 चौर्यं च सिध्यते तत्र तच् च विद्वान् विवर्जयेत्॥
88.3 प्रवर्षणं च देवस्य वर्षा विश्रावणी भवेत्।
88.3 अथात्र जातं जानीयाच् छूरं चौरं विचक्षणं।
88.3 कुशलं सर्वविद्यासु; आरोगं चिरजीविनं॥हस्ते॥
88.4 चित्रायाम् आहतं वस्त्रं भूषणानि च कारयेत्।
88.4 राजानं भूषितं पश्येत् सेनाव्यूहं च दर्शयेत्॥
88.5 हिरण्यं रजतं द्रव्यं नगराणि च मापयेत्।
88.5 अलङ्कुर्यात् तथात्मानं गन्धमाल्यविलेपनैः॥
88.6 गणकानां च विद्यां च वाद्यं नर्तनगायनं।
88.6 पूर्विकां रूपकारांश् च रथकारांश् च शिक्षयेत्।
88.6 चित्रकरांश् च लेखकान् पुस्तकर्म च कारयेत्॥

89.1 प्रवर्षणं च देवस्य चित्रवर्षं विनिर्दिशेत्।
89.1 मेधावी दर्शनीयश् च चित्राक्षो भक्तलोलुपः॥
89.2 मृदुशीलश् च भीरुश् च चलचित्तः कुतूहली।
89.2 आयुष्मान् सुभगश् चएव स्त्रीलोलश् चअत्र जायते॥चित्रायां॥
89.3 स्वात्यां प्रयोजयेद् योधान् अश्वान् अश्वतरीं खरान्।
89.3 क्षिप्रं गमनीयं भक्ष्यं लङ्घकान् अध्वमानिकान्॥
89.4 भेरीमृदङ्गपणवान् मुरजान् चउपनाहयेत्।
89.4 आवाहंश् च विवाहंश् च सौहृद्यं चअत्र कारयेत्॥
89.5 निर्वासनम् अमित्राणां स्वयं न प्रवसेद् गृहात्।
89.5 प्रवर्षणं च देवस्य वातवृष्टिर् अभीक्ष्णशः।
89.5 मेधावी रोगबहुलश् चलचित्तश् च जायते॥स्वातौ॥
89.6 लाङ्गलानि विशाखासु कर्षणं च प्रयोजयेत्।
89.6 यवगोधूमकर्मअन्तान् शमीधान्यं च वर्जयेत्॥
89.7 शालयस् तिलमाषाश् च ये च वृक्षाः सुशाखिनः।

90.1 रोपयेत् तान् विशाखासु गृहकर्म च कारयेत्।
90.1 शिरःस्नानानि कुर्वीत मेध्यं प्रायश् च कारयेत्॥
90.2 प्रवर्षणं च देवस्य विद्यात् कल्पपरिस्रवं।
90.2 मनस्वी दर्शनीयश् च मेधावी चअत्र जायते।
90.2 क्रोधनोऽल्पसुतश् चएव दुर्भगो भक्तलोलुपः॥विशाखासु॥
90.3 अनुराधासु कुर्वीत मित्रैः सद्भिश् च सङ्गतिं।
90.3 सर्वाणि मृदुकर्माणि माधुर्यं चअत्र कारयेत्॥
90.4 क्षौरं च कारयेत् अत्र शस्त्रकर्माणि कारयेत्।
90.4 संयुक्तान्तप्रयोगांश् च सन्धिं कुर्याच् च नित्यशः।
90.4 नष्टं पर्युपतप्तं वा स्वल्पायसेन(यासंवि)निर्दिशेत्॥
90.5 सुहृन्मित्रकृतश् चअत्र धर्मशीलश् च जायते।
90.5 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥अनुराधायां॥
90.6 ज्येष्ठायां पूर्वकारी स्याद् राजानं चअभिषिञ्चयेत्।
90.6 नगरं निगमं ग्रामं मापयेद् आरभेत च।
90.6 क्षत्रियाणां च राज्ञां च सर्वकर्माणि कारयेत्॥

91.1 भ्रातृणां भवति ज्येष्ठो ज्येष्टायां योऽभिजायते।
91.1 आयुष्मांश् च यशस्वी च विद्वत्सु च कुतूहली॥
91.2 प्रासादम् आरोहेच् चअत्र गजम् अश्वं रथं तथा।
91.2 ग्रामनिगमराष्ट्रेषु स्थापयेच् छ्रेष्ठिनां बलं॥
91.3 नष्टं पर्युपतप्तं वा क्लेशेनैवेति निर्दिशेत्।
91.3 दारुणान्य् अत्र सिध्यन्ति तानि विद्वान् विवर्जयेत्।
91.3 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥ज्येष्ठायां॥
91.4 मूले तु मूलजातानि मूलकन्दालुकान्य् अपि।
91.4 सूलाद्यानि च सर्वाणि बीजान्य् अत्र प्रयोजयेत्॥
91.5 ऋणं वै यत् पुराणं स्याद् अर्थो चअस्याग्रतः स्थितः।
91.5 मूले सिद्धर्थम् आरभ्यं तथा सर्वं वराङ्गकं॥
91.6 चिकित्सितानि यानीह स्त्रीणां दारककन्ययोः।
91.6 नदीषु स्नपनं चएव मूले सर्वान् प्रयोजयेत्॥

92.1 दारुणान्य् अत्र सिध्यन्ति मङ्गलानि च कारयेत्।
92.1 किण्वयोगान् सुरायोगान् न कुर्याच् छत्रुभिः सह॥
92.2 धनवान् बहुपुत्रश् च मूलवान् अत्र जायते।
92.2 अथात्र नष्टं दग्धं वा नैतद् अस्तिइति निर्दिशेत्।
92.2 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥मूले॥
92.3 आषाढायां च पूर्वस्यां सरितश् च सरांसि च।
92.3 वापीकूपप्रपाश् चएव तडागानि च कारयेत्॥
92.4 उत्पाद्यानि च पुष्पाणि तथा मूलफलानि च।
92.4 आरामांश् च प्रकुर्वीत भैक्षकांश् च प्रयोजयेत्।
92.4 यानि चउग्राणि कर्माणि सिध्यन्त्य् अत्र तु तानि च॥
92.5 नष्टं पर्युपतप्तं वा नैतद् अस्तिइति निर्दिशेत्।
92.5 आयुष्मान् पुण्यशीलश् च दर्शनीयोऽत्र जायते॥पूर्वाषाढे॥
92.6 उत्तरस्याम् आषाढायां वैराणि न समाचरेत्।
92.6 वाययेत् सर्ववासांसि नवं नाच्छादयेद् इति॥

93.1 न संहरेद् भेदयेद् वा वास्तुकर्म न सिध्यति।
93.1 शालाकर्म गवआदीनां ग्रामे ग्रामणिनस् तथा।
93.1च् श्रेणविन्धं च राजा नु समयं चअत्र कारयेत्॥
93.2 प्रगल्भश् च सभाशीलः कृती चअत्र प्रजायते।
93.2 सुहृदाम् अभियोगी च मन्त्रभाष्ये विचक्षणः॥
93.3 नष्टं वाअप्य् उपतप्तं वा; अस्तीत्य् एवं विनिर्दिशेत्।
93.3 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तराषाढायां॥
93.4 अभिजिति न कुर्वीत ब्रह्मदेवस्य ह्य् अर्चनं॥अभिजिति॥
93.5 श्रवणे न च कुर्वीत सर्वाः संग्रामिकाः क्रियाः।
93.5 गीतशिक्षाध्ययनं च न चिरेण हि सिध्यति॥
93.6 कर्णयोर् वेधनं कुर्याद् राजानं चअभिषिञ्चयेत्।
93.6 द्विजातीनां तु कर्माणि सर्वाण्य् एव प्रयोजयेत्॥

94.7 बलिकृत्यानि कुर्वीत दर्शयेच् च बलान्य् अपि।
94.7 मेधावी अरोगी बलवान् यज्ञशीलोऽत्र जायते॥
94.8 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्।
94.8 नष्टं च लभ्यते तत्र श्रवनस्थे निशाकरे॥श्रवणे॥
94.9 धनिष्ठा लघु नक्षत्रं सर्वकर्मसु पूजितं।
94.9 अधीत्य ब्राह्मणः स्नायाद् राजानम् अभिषिञ्चयेत्॥
94.10 सर्वेषां च द्विजातीनां सर्वकर्माणि कारयेत्।
94.10 श्रेष्ठिनं स्थापयेद् देशे गणाध्यक्षं गणेश्व् अपि॥
94.11 मेधावी च यशस्वी च महाभोगी महाधनः॥
94.11 बह्व्अपत्यो मृदुर् दान्तो महाआत्मा चअत्र जायते।
94.11च् प्रवर्षणं च देवस्य विद्याच् चअत्र सुवृष्टितां॥धनिष्ठायां॥
94.12 नित्यं शतभिषायोगे भैषज्यानि प्रयोजयेत्।
94.12 कीर्तिकर्म च कुर्वीत सिध्यन्त्य् आथर्वणानि च॥
94.13 प्रसारयेच् च पण्यानि शौण्डिकं च प्रयोजयेत्।
94.13 अदधिं खानायेत् तत्र तिलमाषांश् च वापयेत्॥

95.1 सामुद्रिकाणि पण्याणि नाविनश् च प्रयोजयेत्।
95.1 आदेयं च तदाऽदद्याद् व्ययं चअत्र न कारयेत्॥
95.2 सन्धिपालान् द्वारपालांल् लेखकांश् च प्रयोजयेत्।
95.2 भिषक्कर्म च कुर्वीत भैषज्यानि च संहरेत्॥
95.3 निधिं वा खानयेत् तत्र निदध्याद् अपि वा निधिं।
95.3 धनं चअत्र प्रयुञ्जीत भिषक्कर्म च शिक्षयेत्॥
95.4 अथात्र मृगयेन् नष्टं लभ्यते तच् चिराद् अपि।
95.4 अरोगी क्रोधनश् चअत्र स्वप्नशीलश् च जायते।
95.4 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥शतभिषायां॥
95.5 पूर्वभाद्रपदायोगे क्रूराणां सिद्धिर् उच्यते।
95.5 नष्टविद्धोपतप्तं वा नैतद् अस्तिइति निर्दिशेत्॥
95.6 दीर्घश्रोत्रो महाभोगो ज्ञातीनां च सदाप्रियः।
95.6 महाधनोऽक्रूरकर्मा निःक्रोहश् चअत्र जायते।
95.6 प्रवर्षणं च देवस्य चण्डां वृष्टिं समादिशेत्॥पूर्वभाद्रपदे॥

96.1 उत्तरस्यां तु कुर्वीत; आयुष्यं पुष्टिकर्म च।
96.1 न च दक्षिनतो गच्छेत् पुरं चअत्र प्रदापयेत्॥
96.2 आयुष्मांश् च यशस्वी च धनवांश् चअत्र जायते।
96.2 अत्रअपि त्रिगुणं विन्देद् आदानं यदि वा व्ययं।
96.2 प्रवर्षणं च देवस्य सुवृष्टिम् अभिनिर्दिशेत्॥उत्तरभाद्रपदे॥
96.3 रेवत्यां रत्न रजतं धनधान्यं प्रयोजयेत्।
96.3 कोष्ठआगाराणि कुर्वीत किण्वं चअत्र न कारयेत्॥
96.4 सुराकर्म च कुर्वीत हिरण्यं गोव्रजानि च।
96.4 गोसङ्घं स्थापयेच् चअत्र गोशालां चअत्र कारयेत्।
96.4 आच्छादयेन् नवं वस्त्रं हिरण्यम् अपि धारयेत्॥
96.5 भिक्षुको दानशीलश् च दरिद्रश् चअनसूयकः।
96.5 ज्ञातीनां सेवको नित्यं धर्मज्ञश् चअत्र जायते।
96.5 सुवृष्टिं नष्टलाभं च रेवत्याम् अभिनिर्दिशेत्॥रेवत्यां॥

97.1 स्त्रीपुंसम् अश्विना युञ्ज्याद् अश्वशालां च कारयेत्।
97.1 अश्वान् प्रयोजयेद् अत्र रथं चअत्र प्रयोजयेत्॥
97.2 ऋणः प्रयोगः कर्तव्यो बीजान्य् अत्र प्रवापयेत्।
97.2 यानानि च हयान् दम्यान् दन्तिनश् च प्रयोजयेत्॥
97.3 भैषज्यं भोजयेद् अत्र भिषक्कर्म च कारयेत्।
97.3 मेधावी दर्शनीयश् च राजयोग्यश् च सम्पदा॥
97.4 अरोगो बलवांच् छूरः सुभगो ह्य् अत्र जायते।
97.4 सुवृष्टिं नष्टलाभं च; अश्विन्याम् अभिनिर्दिशेत्॥अश्विन्यां॥
97.5 त्रितारां भरणीं विद्यात् क्रूरकर्माणि साधयेत्।
97.5 भृत्यांश् च भृतकांश् चअपि वृणुयाद् दर्शयेत् तथा॥
97.6 भूतिं चउपनयेद् अत्र भार्यां च न विवाहयेत्।
97.6 उत्कटको वञ्चतकः कूटसाक्षी च तन्द्रिजः॥

98.1 विधिज्ञः पापचारित्रः कदर्यश् चअत्र जायते।
98.1 जायते चअत्र दुःशीलो गुरूणाम् अभ्यसूयकः।
98.1 परोपतापी लुब्धश् च परव्याहारगोचरः॥भरण्यां॥
98.2 सप्तविंशतिनक्षत्रे कृत्तिकादि यदा भवेत्।
98.2 भरण्यन्तानि; ऋक्षाणीमां प्रतिपादयेत् क्रियां॥
98.3 तेषां मध्ये यदा सर्वे शस्यान्य् ओषधयोऽपि च।
98.3 वनस्पतयश् च पीड्यन्ते यत्रासौ तिष्ठते ग्रहः।
98.3 सर्वं प्रतिपादयितव्यम् उक्तनक्षत्रकर्मसु॥
98.4 उक्तो नक्षत्रकर्मनिर्देशो नामअध्यायः॥

ध्रुवक्षिप्रअर्धरात्रिकाणि नक्षत्राणि

98.5 चत्वारि भोः पुष्करसारिन् नक्षत्राणि ध्रुवाणि भवन्ति तानि व्याख्यास्यामि। तच् छृणु। तद् यथा। त्रीणि उत्तराणि रोहिणी च। क्षेमेऽध्यावसेत्। बीजानि चअत्र रोपयेद्। निवेशतं चअत्र कल्पयेत्। राजानं चअभिषिञ्चयेत्। यानि चअन्यानि उक्तानि कर्माणि तानि कारयेत्।

99.1 अथ नष्टं दग्धं वा विद्धं चअपि हृतं च वा।
99.1 एवम् अभिनिर्दिष्टां वा स्वस्ति क्षिप्रं भविष्यति॥
99.2 अथात्र जातो धन्योऽसौ विद्यात्मा च यशस्वी च।
99.2 मङ्गलीयो महाभोगी महायोगी भविष्यति॥
99.3 चत्वारि भोः पुष्करसारिन् नक्षत्राणि क्षिप्रानि भवन्ति। तद् यथा पुष्यो हस्ताभिजिद् अश्विनो चेति। एषु क्षिप्राणि कर्माणि कारयेच् च विचक्षणः। स्वाध्यायं मन्त्रसमारम्भं प्रवासप्रस्थानं गाश् च तुरङ्गान् अप्य् अत्र योजयेत्। धूयाणि युक्तकर्माणि चओषधीकर्माणि च। भेषज्यानि सर्वाण्य् अत्र प्रयोजयेत्।
99.4 तत्र यज्ञसमारम्भं चातुर्मास्यं च कारयेत्। अथात्र नष्टं दग्धं वा विद्धं वा स्वस्ति भविष्यतिइति वक्तव्यं।
99.5 अथात्र जातकं विद्यान् मङ्गलीयं यशस्विनं।
99.5 महाभोगं च राजानं महायोगिनम् ईश्वरं॥
99.6 महाधनं महाभोगं तथा च महद्उत्तमं।
99.6 क्षत्रियं दानशीलं च ब्रह्मणं च पुरोहितं॥इति।
99.7 पञ्च खलु भोः पुष्करसारिन् नक्षत्रानि दारुणानि भवन्ति।तद् यथा।
99.8 मघा त्रीणि च पूर्वाणि भरणी चेति पञ्चमी।
99.8 अथात्र दग्धं नष्टं वा विद्धं वा न भविष्यति॥
99.9 इति वक्तव्यं । अर्धरात्रिकाणि षट्। तद् यथा। आर्द्रा अश्लेषा स्वाती ज्येष्ठा (100)शतभिषा भरणी चेति। नवंशाः षड्ग्रासा द्विक्षेत्राणि। रोहिणी पुनर्वसुर् विशाखा च। त्रीणी उत्तराणि चेति। उभयतो विभागानि। पञ्चदशक्षेत्राणि। कृत्तिका च मघा मूला ग्रीणि पूर्वाणि। इमानि षट् पूर्वभागिनानि। मृगशिरा पुष्या हस्ता चित्रा अनुराधा श्रवणा धनिष्ठा रेवती अश्विनो चेति। इमानि नव नक्षत्राणि पश्चाद् भागीयानि त्रिंशन्मुहूर्तयोगानि क्षेत्राणि च।

100.1 अपि च ब्राह्मण शुभाश् च मुहूर्ता भवन्ति। अशुभाश् च मुहूर्ता भवन्ति। शुभअशुभाश् च मुहूर्ता भवन्ति। संप्रयुक्तनक्षत्रेषु सर्वेषु यदा शुभमुहूर्तसमापत्तयो भवन्ति तदा शोभना भवन्ति। यदाऽशुभमुहूर्तसमापत्तयो भवन्ति तदा न शोभना भवन्ति। यदा तु पुनः शुभाश् चअशुभाश् च समापत्तयो भवन्ति तदा साधारना भवन्ति।

रात्रिदिवसयोर् ह्रासवृद्धी

100.2 अथात्र कथं रात्रिदिवसानां ह्रासो वृद्धिर् वा भवतिइति तद् उच्यते। वर्षाणां प्रथमे मासे पुष्यनक्षत्रम् अमावास्यां भवति। श्रवणा पूर्णमास्यां। अष्टादशमुहूर्तो दिवसो भवति। द्वादशमुहूर्ता रात्रिः। षोडशाङ्गुलकाष्ठस्य मध्याह्नेऽर्धाङ्गुलायां छायायाम् आदित्यः परिवर्तते। आषाढा रात्रिं नयति। मृगशिरसि आदित्यो गतो भवति। वर्षाणां द्वितीये मासे मघाऽमावास्यां भवति भाद्रपदा पूर्णमास्यां। सप्तदश मुहूर्तो दिवसो भवति। त्रयोदशमुहूर्ता रात्रिः।
101 द्विअङ्गुलायां छायायाम् आदित्यः परिवर्तते। श्रवणा रात्रिं नयति। पुष्य आदित्यो गतो भवति। वर्षाणां तृतीये मासे फल्गुन्यम् अमावास्यायां भवति। अश्विनी पूर्णमास्यां। षोडशमुहूर्तो दिवसो भवति। चतुर्दशमुहूर्ता रात्रिः। चतुर्अङ्गुलायां छायायाम् आदित्यः परिवर्तते। पूर्वभाद्रपदा रात्रिं नयति। मघाआदित्यो गतो भवति। वर्षाणां चतुर्थे मासे चित्राम् अमावास्यायां भवति कृत्तिका पूर्णमास्यां। पञ्चदशमुहूर्तो भवति दिवसः। पञ्चदशमुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। अश्विनो रात्रिं नयति। फलुगुन्याम् आदित्यो गतो भवति।

101.1 हेमन्तानां प्रथमे मासेऽनुराधाऽमावास्यं भवति। मृगशिरा पूर्णमास्यां। चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः। अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। कृत्तिका रात्रिं नयति। चित्रायाम् आदित्यो गतो भवति। हेमन्तानां द्वितीये मासेऽमावास्यां ज्येष्ठा भवति। पुष्यः पूर्णमास्यां। त्रयोदशमुहूर्तो दिवसो भवति। सप्तदशमुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मृगशिरा रात्रिं नयति। विशाखायाम् आदित्यो गतो भवति।
हेमन्तानां तृतीये मासे पूर्वाषाढाम् अवास्यां भवति। मघा पूर्णमास्यं। द्वादशमुहूर्तो दिवसो भवति। अष्टादशमुहूर्ता रात्रिः। द्वादशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। पुष्यो रात्रिं नयति। ज्येष्ठायाम् आदित्यो गतो भवति। हेमन्तानां चतुर्थे मासे श्रवणाम् आवास्यं भवति। फल्गुनी पूर्णमास्यां। त्रयोदश मुहूर्तो दिवसो भवति। सप्तदशमुहूर्ता रात्रिः। दशाङ्गुलायां छायायाम् आदित्यः परिवर्तते। मघा रात्रिं नयति। आषाढायाम् आदित्यो गतो भवति।

102.1 ग्रीष्माणां प्रथमे मासे उत्तरभाद्रपदाम् आवास्ययं भवति। चित्रा पूर्णमास्यां चतुर्दशमुहूर्तो दिवसो भवति। षोडशमुहूर्ता रात्रिः।
103 अष्टाङ्गुलायां छायायाम् आदित्यः परिवर्तते। फल्गुनी रात्रिं नयति। श्रवणायाम् आदित्यो गतो भवति। ग्रीष्माणां द्वितीये मासेऽश्विनी अमावास्यायां भवति। विशाखा पूर्णमास्यां। पञ्चदशमुहूर्तो दिवसो भवति। पञ्चदशमुहूर्ता रात्रिः। षडङ्गुलायां छायायाम् आदित्यः परिवर्तते। चित्रा रात्रिं नयति। उत्तरायां भाद्रपदायाम् आदित्यो गतो भवति। ग्रीष्मानां तृतीये मासे कृत्तिकाम् अमावास्यायां भवति। ज्येष्ठा पूर्णमास्यां। षोडशमुहूर्तो दिवसो भवति। चतुर्दशमुहूर्ता रात्रिः।
चतुर्अङ्गुलायां छायायाम् आदित्याः परिवर्तते। विशाखा रात्रिं नयति। कृत्तिकायाम् आदित्यो गतो भवति। ग्रीष्माणां चतुर्थे मासे मृगशिरा अमावास्यायां भवति। उत्तराषाढा पूर्णमास्यां। सप्तदशमुहूर्तो दिवसो भवति। त्रयोदशमुहूर्ता रात्रिः। मध्याह्ने द्विअङ्गुलायां छायायाम् आदित्यः परिवर्तते। ज्येष्ठा रात्रिं नयति। पुष्य आदित्यो गतो भवति ।

103.1 संवत्सरम् अन्वेषणतो मुहूर्तविशेषणैः सर्वाणि चएतानि (नक्षताणि) भागानुभगेनअमावास्ययं पूर्णमास्यं च युज्यन्ते। ऊनरात्रस्य पूर्णरात्रस्य च ग्रहीतव्यं। तत्र तृतीये वर्षेऽधिको मासो युज्यते। षण्णां मासानाम् अहोरात्राणि समानि भवन्ति। अतः षण्मासाद् दिवसो वधते। षण्मासाद् रात्रिर् वर्धते ।
104 षण्मासाद् दिवसो मासे मासे समम् एव हीयते। षण्मासाद् रात्रिर् मासे मासे परिहीयते।

104.1 षण्मासाद् आदित्यः परिवर्तते। उत्तरां दिशं संचरति। षण्मासाद् दक्षिणां दिशं। षण्मासात् समुद्(र्)ए उदकपरिमाणस्य ह्रासो वृद्धिश् च भवति। सूर्यगत्या चन्द्रगत्या च समुद्रउदकवेलाअभिवृद्धिर् भवति। अत्र गणनाप्रतिजागरणास्मरम् इत्य् एवम् एष संवत्सरो व्याख्यातो भवति।

ग्रहः

104.2 चन्द्र आदित्यः शुक्रो बृहस्पतिः शनैश्चरोऽङ्गारको बुधश् च। इमे ग्रहाः। एषां ग्रहाणां बृहस्पतिः संवत्सरस्थायो। एवं शनैश्चरो बुधोऽङ्गारकः शुक्रश् चइमे मण्डलचारिणः।

नक्षत्रमण्डलं

104.3 भरणी कृत्तिका रोहिणी मृगशिरा एतत् साधारणं प्रथमं मण्डलं। आर्द्रा पुनर्वसुः पुष्योऽश्लेषा एतत् साधारनं द्वितीयं मण्डलं। मघा अथ फल्गुनद्वयं हस्तो चित्रा एतत् साधारणं तृतीयं मण्डलं। स्वाती विशाखा अनुराधा एतत् साधारणं चतुर्थं मण्डलं। ज्येष्ठा मूलाषाढाद्वयम् (105) अत्र सर्वाणि महाभायानि भवन्ति। इदं पञ्चमं मण्डलं। अभिजिच् छ्रवणा धनिष्ठा शतबिषा उभे भाद्रपदे चैतत् साधारणं षष्ठं मण्डलं। रेवती अविनी चैतत् साधारणं सप्तमं मण्डलं। संवत्सरम् एतेषु यद् यन् नक्षत्रमण्डलं पीडयति तस्य तस्य जनपदस्य सत्त्वस्य वा पीडा निर्देष्टव्या।

105.1 द्वादशमुहूर्तानि दिवसे ध्रुवाणि द्वादश रात्रौ। षण्मुहूर्ताः सञ्चारिणः। कतमे षट्। नैरृतो वरुणो वायवो भर्गो देवो रौद्रो विचारी च। इतीमे सञ्चारिणः षट्।

मुहूर्त

105.2 अथात्र श्रावणे मासे पूर्णेऽष्टादशमुहूर्ते दिवसे सूर्यउदये च चतुरोजा नाम मुहूर्तो भवति। रोहितस्य च मुहूर्तस्य बलस्य चअन्तरे मध्याह्नो भवति। सूर्यावतारे तु विचारी नाम मुहूर्तो भवति। द्वादशमुहूर्तायां रात्राव् अवतीर्णे सूर्ये षष्ठे मुहूर्ते नयमनो नाम मुहूर्तो भवति। आतापाग्निर् एवं नाम मुहूर्तो रात्र्यवसाने भवति। भाद्रपदे मासे पूर्णे सप्तदशमुहूर्ते दिवसे सूर्यउदये च चतुरोजा एवं नाम मुहूर्ता भवति। मध्याह्नेऽभिजितो नाम मुहूर्तो भवति। सूर्यावतारे रौद्रो नाम मुहूर्तो भवति। त्रयोदशमुहूर्तायां रात्राव् अवतीर्णे सूर्ये विचारी नाम मुहूर्तो भवति। अर्धरात्रे महाभयो वायावो नाम मुहूर्तो भवति।

106.1 रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति। अश्वयुजे मासे पूर्णे षोडशमुहूर्तो दिवसो भवति। सूर्यउदये चतुरोजा नाम मुहूर्तो भवति। समुद्गतस्य च मुहूर्तस्य अभिजितस्य चअन्तरे मध्याह्नो भवति। सूर्यावतारे भर्गो देवो नाम मुहूर्तो भवति।
106.2 चतुर्दशमुहूर्तायां रात्राव् अवतीर्णे सूर्ये रौद्रो नाम मुहूर्तो भवति। अभिजितस्य च मुहूर्तस्य भीषमाणस्य च मुहूर्तस्य अन्तरेणअर्धरात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।
106.3 कार्त्तिके मासे पूर्णे दिवसः समरात्रिर् भवति। पञ्चदशमुहूर्तो दिवसो भवति पञ्चदशमुहूर्तो रात्रिः। समानेऽहोरात्रे सूर्यउदये चतुरोजा एवं नाम मुहूर्तो भवति। संमुखो नाम मुहूर्तो भवति मध्याह्ने। सन्ततो नाम मुहूर्तः (107) सूर्यावतारे। रात्राव् अवतीर्णमात्र सूर्ये भ्र्गो देवो नाम मुहूर्तो भवति। अर्धरात्रेऽभिजिन् मुहूर्तो भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

107.1 मार्गशीर्षे मासे च पूर्णे चतुर्दशमुहूर्ते दिवसे सूर्यउदये चतुरोजा एवं नाम मुहूर्तो भवति। विरतस्य संमुखस्य च मुहूर्तस्यअन्तरे मध्याह्नो भवति। सूर्यअवतारे वरुणो नाम मुहूर्तो भवति। षोडशमुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये संतापनः संयमो नाम मुहूर्तो भवति। राक्षसस्याभिजितस्य च मुहूर्तस्यअन्तरेऽर्धरात्रं भवति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

107.2 पौषमासे पूर्णे त्रयोदशमुहूर्ते दिवसे सूर्यउदये चतुरोजा एवं नम मुहूर्तो भवति। मध्याह्ने विरतो नाम मुहूर्तो भवति। सूर्यावतारे नैरृतो नाम मुहूर्तो भवति। सप्तदशमुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये वरुणो नाम मुहूर्तो भवति। अर्धरात्रे राक्षसो नाम मुहूर्तो भव्ति। रात्र्यवसाने आतपाग्निर् एवं नाम मुहूर्तो भवति।

107.3 माघमासे पूर्णे द्वादशमुहूर्ते दिवसे सूर्यउदये चतुरोजा नाम मुहूर्तो भवति। सावित्रस्य च विरतस्य च मुहूर्तस्यअन्तरेण मध्याह्नो भवति। सूर्यावतारे विजयो नाम मुहूर्तो भवति। अष्टादशमुहूर्तायां रात्राव् अवतीर्णमात्रे सूर्ये नैरृतो नाम मुहूर्तो भवति। गर्दभस्य मुहूर्तस्य च राक्षसस्य चअन्तरम् अर्धरात्रं भवति। रात्र्यवसान आतपाग्निर् एवं नाम मुहूर्तो भवति।

108.1 यथा श्रावणे तथा माघे। यथा भाद्रपदे तथा फाल्गुने। यथाऽस्वयुजे तथा चैत्र। यथा कार्त्तिके तथा वैशाखे। यथा मार्गशीर्षे तथा ज्यैष्ठे। यथा पौषे तथाऽषाढे। एवम् एतेषां नक्षत्राणां मुहूर्तानां चरितं विचरितं च ज्ञातव्यं। नक्षत्रविचरणं नाम प्रथमोऽध्यायाः।
108.2 यथामध्यं नक्षत्राणां रात्रिवशेन दिवसवशेन चउत्कर्षापकर्षौ कर्तव्यौ। हीयमाने वर्धमाने वा दिवसे वा मासे वा पूर्णेऽर्धमासे वा। द्वितीया षष्ठी नवमी द्वादशी चतुर्दशी अत्रअन्तरे दिवसे कला वर्धते रात्रौ कला हीयते।

भूमिकम्पनिर्देशः

108.3 चत्वारो महाराजानो ध्रियते यैर् वसुन्धरा।
अतिवृद्धिर् विशुद्धश् च वर्धमानः थक्श्रवाः॥
108.4 महाभूतानि चत्वारि कम्पयन्ति वसुन्धरां।
आपो इन्द्रश् च वायुश् च तथाग्निर् भगवान् अपि॥
108.5 त्रयस् तु ते यत्र भवन्ति पक्षे षडेकमासे तु भवन्ति वेगाः।
परस्य चक्रस्य निदर्शनं स्यात् प्रकम्पते यत्र मही त्व् अभीक्ष्णं॥

109.1 विशाखा दशरात्री अयाज् ज्येष्ठा द्वादशरात्रिका।
पञ्चविंशतिर् आषाढा श्रवणा पञ्चसप्ततिः॥
109.2 रात्रिशतं भाद्रपदे क्रतुर् अश्वयुजे स्मृतः।
अध्यर्धं तु पञ्चपञ्चाशन् माघे रात्रिशतं स्मृतं।
109.3 अर्ध्यर्धं फाल्गुने मासे चैत्रे त्रिंशत् तु रात्रयः।
विपाको भूमिवेगानाम् अतः कम्पः प्रवर्तते॥
109.4 यदा सर्वेषु मासेषु सततं कम्पते मही।
वृक्षास् तथा चलन्ति स्म जलं वा यदि कम्पते।
पर्वतः पर्णवत् कम्पेद् भयम् अत्र विनिर्दिशेत्॥

110.1 नगराण्य् अथ वा ग्रामा घोषा ये चअत्र संश्रिताः।
शीघ्रं भवन्ति विजनारण्यभूता मृगाश्रयाः॥
110.2 अटव्यः संप्रवर्तन्ते दश वर्षाणि पञ्च च।
अनावासा दिशो विद्याद् भूमिचालविचालिताः॥
110.3 कृत्तिकासु चलेद् भूमिर् ग्रामेषु नगरेषु वा।
अभीक्ष्णं मुच्यते ह्य् अग्निर् दहते सतृनालयान्॥
110.4 कृष्णाग्निर् अशनेः पातः, कर्मारा; आहिताश्रयाः।
आगाराश् च निवर्तन्ते संवर्तेनेव धातवः॥
110.5 ये जाता ये च संवृद्धा ये च तं ग्रामम् आश्रिताः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
110.6 रोहिण्यां चलिता भूमिः सर्वबीजविनाशनं।
प्रोप्तं शस्यं न रोहेत भवेत् फलस्य कृच्छ्रता॥

111.1 गुर्विणीनां च नारीणां गर्भो निपीड्यते भृशं।
दुर्भिक्षव्यसनाक्रान्ता त्रिभागे तिष्ठति प्रजा॥
111.2 महाआत्मानश् च राजानः श्रीमन्तश् च नरोत्तमाः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
111.3 मृगशीर्षे चलेद् भूमिर् ओषधीनां विनाशनं।
चिकित्सकाः श्रोत्रियाश् च घटकाः सोमयाजकाः॥
111.4 सोमपीताश् च ये विप्रा वानप्रस्थाश् च तापसाः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
111.5 आर्द्रायां चलिता भूमिर् वृक्षा नश्यन्ति क्षीरिणः।
अन्नपानानि नश्यन्ति पथिका दंष्ट्रिपालिकाः॥
111.6 कूपखाः परिखाखाश् च पापका ये च तस्कराः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
111.7 पुनर्वसौ चलेद् भूमिर् मण्डलं कुण्डिकाअपि च।
वागुरिकाः कारण्डवाश् चक्रिणः शुकसारिकाः॥
111.8 अर्भका भ्रमकाराश् च मांसिकाः शङ्खवाणिजाः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥

112.1 पुष्येण च चलेद् भूमिर् ब्राह्मणा नायकास् तथा।
दुरङ्गमा वाणिजकाः सार्थवाहाश् च ये नराः॥
112.2 पार्थिवाः पार्वतीयाश् च ये च तद् भक्तिगोचराः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः।
शिलावर्षं प्रवर्षन्ति शस्यानामनयो महान्॥
112.3 अश्लेषायां चलेद् भूमिर् नागाः सर्वे सरीसृपाः।
कीटाः पिपीलिकाः श्वाना; एकखुराश् च ये मृगाः॥
112.4 वैद्या विसकराश् चअपि ये च सत्वा दरीश्रयाः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
112.5 मघासु चलिता भूमिर् महाराजोऽत्र तप्यते।
ये च श्राद्धा निवर्तन्ते समाजा; उत्सवास् तथा।
यज्ञाश् च देवकृत्यं च सर्वम् अत्र निवर्तते॥
112.6 ये जाता ये च संवृद्धा ये चअन्येऽप्य् अग्रपण्डिताः।
गन्धर्वाश् च विनश्यन्ति नरा ये च महाकुलाः।
112.6 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
फल्गुन्यां चलिता भूमिर् ऋतुर् व्यावर्तते तदा।
त्रियग्वातश् चएव वाति कृतं नश्यति शाश्वतं।
पथिकाश् चउपतप्यन्ति माषयाच्योपजीविकाः॥

113.1 धर्मे रता; आसनिका ये च शुल्कोपजीविनः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.2 चलत्य् उत्तरफल्गुन्यां वणिजा द्वीपयात्रिकाः।
सार्थवाहा; आसनिका ये च शिल्पोपजीविनः॥
113.3 अङ्गाविदेहमगधा नैरृताः स्त्रीपरिग्रहाः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.4 हस्तेन चलिता भूमिः कुम्भकार चिकित्सकाः।
गणमुख्या महामात्राः सेनाध्यक्षाश् च ये नराः॥
113.5 तारमकानारपटाविप्सरः कौटिका; अपि।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.6 चित्रायां चलिता भूमिः कारुका; उपकल्पकाः।
कुमार्यः सर्वरत्नं च सस्यानां बीजकैः सह॥
113.7 वङ्गा दशार्णकुरवश् चेदिमाहिषकास् तथा।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
113.8 स्वातौ प्रचलिता भूमिश् चौरा ये च कुशीलकाः।
हिंसका ये च तत् कर्मरताऽभ्यर्थितमूषकाः॥
113.9 हिमवत; उत्तरेण वायुभक्षास् तपस्विनः।
एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥

114.1 विशाखायां चलेद् भूमिर् महाशैलक्षयो भवेत्।
114.1 उग्रा वाताः प्रवान्त्य् अत्र; अश्मकैरकुशलिनः॥
114.2 अनुराधे चलेद् भूमिर् दस्यूनाम् अनयो महान्।
114.2 विटा द्यूतकराश् चएव ग्रन्थिभेदाश् च ये नराः॥
114.3 अन्ध्राः पुण्ड्राः पुलिन्दाश् च भये तिष्ठन्त्य् अनाश्रिताः॥
114.3 मित्रभेदश् च बलवान् तदा जगति जायते॥
114.4 ज्येष्ठायां चलिता भूमिर् महाराजः प्रतप्यते।
114.4 वायसा वृषभा व्याडास् तथा चण्डमृगाश् च ये॥
114.5 कुरवः शूरसेनाश् च मल्ला बाह्लीकनिग्रहाः।
114.5 प्रत्यर्थिकेन शीघ्रेण ये च तद् भक्तिभाजनाः।
114.5 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
114.6 मूलेन चलिता भूमिश् चतुष्पद्द्विपदास् तथा।
114.6 ग्रहाश्रयाः पिशाचाश् च ये च सत्त्वा दरीश्रयाः।
114.6 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥

115.1 दुर्भिक्षं च करोत्य् आशु धान्यम् अल्पउदकं भवेत्।
115.1 दरीपर्वतमूलानि गच्छन्ति च तदा भुवि॥
115.2 पूर्वाषाढे चलेद् भूमिर् जलजा मत्स्यशुक्तिकाः।
115.2 शिशुमारा; उद्रकाश् च नक्रा मकरकच्छपाः॥
115.3 जातिगोत्रप्रधानाश् च धनिनोऽथ विचक्षणाः।
115.3 द्वितीयाभिजाताश् च महाविद्याकराश् च ये।
115.3 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
115.4 उत्तरस्यां चलेद् भूमिः शिल्पिनाम् अनयो महान्।
115.4 अयस्काराः स्थापतयस् त्रपुकाराश् च तक्षकाः॥
115.5 दरिद्रा धनिनश् चअपि शिल्पिनो विविधा; अपि।
115.5 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः।
115.5 ग्रामकुटानि च घ्नन्ति सचलस्थावराणि च॥
115.6 वैष्णवे चलिता भूमिस् तदेति यद् अनीप्सितं।

116.1 अध्यापकाः शास्त्रविदः कवयो मन्त्रपारगाः।
116.1 युगन्धराः शूरसेना; अभिराजाः पटच्चराः॥
116.2 कुशण्डाः शरदण्डाश् च ये नरा राजपूजिताः।
116.2 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
116.3 धनिष्ठायां चलेद् भूमिर् धनिना मनयो महान्।
116.3 महेश्वरास् तथा महानागराः श्रेष्ठिनस् तथा॥
116.4 प्रचण्डाः स्वस्तिमन्तश् च भद्रकारा युगन्धराः।
116.4 पारिकूलाश् च भोज्याश् च ह्य् अन्ये सन्नागरा; अपि।
116.4 एते व्यसनम् अर्च्छन्ति भूमिचालविचालिताः॥
116.5 वारुण्ये चलिता भूमिर् औदकेष्व् अनयो महान्।
116.5 हस्तिनोऽश्वखरोष्ट्राश् च स्पर्शम् अर्च्छन्ति दारुणं॥
116.6 तदासौ वीरकान् मद्रान् बाह्लीकान् केकयान् अपि।
116.6 अनाश्रयांश् चक्रवाकाञ् जनस्थान् अपि पीडयेत्॥

117.1 साजेन चलिता भूमी राक्षसान् घातकांस् तथा।
117.1 औरभ्रिकान् सौकरिकान् सौवीरांश् च निपातयेत्॥
117.2 वणिज्यजीविनो वैश्यान् शूद्रांश् च करीतीन् अपि।
117.2 यवनान् मालवाद्यांश् च ग्रन्थिभेदांश् च नाशयेत्॥
117.3 अहिर्बुध्न्ये चलेद् भूमिर् वणिजाम् अनयो महान्।
117.3 धर्मे रताश् च ये सिद्धा ये च शौक्तिककर्मिणः॥
117.4 शिबीन् वत्सान् तथा वात्स्यान् क्षत्रियान् आर्जुनायनान्।
117.4 सिन्धुराजधनुष्पानीन् सर्वान् अर्दयतेऽचिरात्॥
117.5 रेवत्यां चलिता भूमिः संग्रामः स्यात् सुदारुणः।
117.5 ग्रामघाताश् च वर्तन्ते ग्रामो ग्रामं च हिंसति॥
117.6 नौचरान् उदकाजीवान् रमठान् भरुकच्छकान्।
117.6 सुधन्वान् अभिसारांश् च सर्वसेनांश् च निर्दहेत्॥

118.1 अश्विन्यां चलिता भूमिर् अश्वानाम् अनयो महान्।
118.1 ग्रामघाताश् च वर्तन्ते भ्राता भ्रातॄन् जिघांसति॥
118.2 या चअत्र गभम् आधत्ते ये च जाताश् च तान् इह।
118.2 त्रीणि वर्षाण्य् अतो दुःखम् उपैति च निरन्तरं॥
118.3 सहिताश् चित्रगर्भाश् च ये ह्य् अन्ये चअङ्गनाजनाः।
118.3 आर्जुनायना राजन्याः सुष्ठु त्रींश् चअपि हिंसति॥
118.4 भरण्यां चलिता भूमिश् चौराणाम् अनयो महान्।
118.4 विटा द्यूतकराश् चएव ग्रन्थिभेदाश् च ये नराः॥
118.5 आदर्शचक्राटाधूर्तास् तथा बन्धनरक्षकाः।
118.5 अन्तावशायिनः पापाश् चरन्ति ये तु दुर्जनाः।
118.5 तेऽपि तत्र विपद्यन्ते भूमिचालविचालिताः॥
118.6 वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
118.6 सप्ताहाभ्यन्तरात् तत्र मेघो भवति प्रार्थितः॥

119.1 स्निग्धो ह्य् अङ्जनसंकाशो महापर्वतसन्निभः।
119.1 इन्द्रश् न वर्षते तत्र महर्षेर् वचनं यथा॥
119.1 [एवं निगदितं नार्थैर् इन्द्रश् चअत्र प्रवर्षति॥]
119.2 स्वस्तिका कारसंकाशा; इन्द्रवज्रध्वयोपमाः।
119.2 दृश्यन्तेऽभ्रा हि सन्ध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥
119.3 तदा नभसि जायन्ते मेघा डाडिम्बसन्निभाः।
119.3 लक्षणं तादृशं दृष्ट्वा विद्यात् तान्न् इन्द्रकम्पितान्।
119.3 स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
119.4 अतीव तत्र विश्वस्तः सर्वबीजानि वापयेत्।
119.4 व्यवहारांश् च कुर्वीरन् निर्भयास् तत्र वाणिजाः।
119.4 सर्वेषां भूमिकम्पानां प्रशस्ता; इन्द्रकंपिताः॥
119.5 वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
119.5 सप्ताहाभ्यन्तरे तत्र मेघः संच्छादयेन् नभः॥

120.1 ततोऽनुबद्धा जायन्ते; अभ्राः कौशेयसन्निभाः।
120.1 अनुलोमं च संयान्ति चरन्तः पश्चिमां दिशं॥
120.2 शिशुमारउद्रकाणां मत्स्यमकरसन्निभाः।
120.2 दृश्यन्तेऽभ्राश् च सन्ध्यायां ग्रस्त्वा चन्द्रदिवाकरौ॥
120.3 लक्षणं तादृशं दृष्ट्वा विद्यात् ताञ् जलकम्पितान्।
120.3 स निर्देशो भवेत् तत्र महर्षेर् वचनं यथा॥
120.4 स्थालेषु गिरिकूटेषु क्षेत्रेषूपवनेषु च।
120.4 स्थाप्यन्ते तत्र बीजानि निम्ने नश्यन्ति वै तदा॥
120.5 पञ्केणअपि जलेनअपि नश्येयू रजसाअपि वा।
120.5 एतेषां भूमिकम्पानां प्रशस्ता जलकम्पिताः॥
120.6 वेपितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
120.6 सप्ताहाभ्यन्तरे तत्र वाता वान्ति सुदारुणाः॥
120.7 दृश्यते कपिला सन्ध्या चन्द्रसूर्यौ तु लोहिताउ।
120.7 लक्षणं तादृशं दृष्ट्वा जानीयाद् वायुकम्पितान्॥

121.1 ततो भवति निर्देशो महर्षेर् वचनं यथा।
121.1 न तत्र प्रवसेत् प्राज्ञ; आत्मानं चअत्र गोपयेत्॥
121.2 गुह्यम् आवरणं कुर्यात् प्राकारपरिखां खनेत्।
121.2 प्रातिसीमा विरुध्यन्ते नराणां जायते भयं॥
121.3 एतेषां भूमिकम्पनं सर्वेषां कीर्तिता गुणाः।
121.3 विशेषेण मनुष्याणां निर्मिता वायुकम्पिताः॥
121.4 कम्पितायां तु मेदिन्यां भवेद् रूपम् अनन्तरं।
121.4 सप्ताहाभ्यन्तरात् तत्र; उल्कापाताः सुदारुणाः॥
121.5 सन्ध्या च लोहिता भाति चन्द्रसूर्यौ तु लोहितौ।
121.5 लक्षणं तादृशं दृष्ट्वा विज्ञेया; अग्निकम्पिताः॥
121.6 अग्निर् दहति काष्ठानि रक्षितानि धनानि च।
121.6 दृश्यन्ते धूमशिखराः शस्त्रं च स्विद्यते भृशं॥
121.7 वीणाश् च दिवि दृश्यन्ते नवमासान् न वर्षति।
121.7 एतेषां भूमिकम्पानां जघन्या; अग्निकम्पिताः॥
121.8अ जयति; अहनि पूर्वे क्षत्रियान् पार्थिवांश् च।
121.8ब् हयगजरथमुख्यान् मन्त्रिणो मध्यमअह्ने।

122.1 व्यथयति; आपरअह्णे गोपशून् वैश्यशूद्रान्।
122.1 प्रदहति निशिसन्ध्या तस्करअनन्तवासान्॥
122.2अ रजनिम् इह प्रदोषे हिंसते म्लेच्छसंघान्।
122.2ब् स्त्रियम् अपि च नपुंसश् चअर्धरात्रेष्व् अनन्तान्।
122.2च् कृषिवणिग् उपजीव्यान् हन्ति यामे तृतीये।
122.2द् व्यथयति सुरपक्षं रौद्रकर्मअन्तकृष्णे॥
122.3अ प्रदहति शशिपक्षे याज्ञिकं ब्रह्मक्षत्रं।
122.3ब् श्रपयति शुचिवृत्ताम् एव धर्मे प्रधानान्।
122.3च् विदुषि च मृदुभावं विन्दते यो ह्य् अधीते।
122.3द् स भवति नृपपूज्यो बाह्मणो देवदर्शी॥

123.1 बृहस्पतेश् च चत्वारि समानि शुभकर्मणा।
123.1 चत्वारि सूर्यकर्माणि तुल्यानि शुक्रकर्मणा।
123.1 सोमकर्माणि चत्वारि ब्रह्मकर्म च तत्समं॥
123.2 अयं भोः पुष्करसारिन् भूमिकम्पनिर्देशो नामअध्यायः।
% व्याधिसमुत्थानं 病気の発生
123.3 अथ भोः पुष्करसारिन् अमीषाम् अष्टाविंशतीनां नक्षत्राणां रोगउत्पत्तिं नामअध्यायं व्याख्यामि। तच् छ्रूयतां। कथयतु भगवान्।
123.4 कृत्तिकासुउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
123.4 चतूरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
123.5 अग्निर् हि देवता तत्र दध्ना ह्य् अस्य बलिं हरेत्।
123.5 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
123.6 रोहिण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
123.6 पञ्चरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
123.7 देवः प्रजापतिस् तत्र शुद्धमाल्यैर् बलिं हरेत्।
123.7 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
123.8 व्याधिर् मृगशिरोभुतः स्त्रियो वा पुरुषस्य वा।
123.8 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
123.9 सोमो हि देवता तत्र मण्डेन तु बलिं हरेत्।
123.9 अनेन बलिदानेन तस्माद् रोगाद् विमुच्यते॥

124.1 (124) आद्रायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
124.1 दशरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
124.2 रुद्रो हि देवता तत्र पायसेन बलिं हरेत्।
124.2 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.3 पुनर्वसौ भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
124.3 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
124.4 आदित्यो देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
124.4 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.5 पुष्ये समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
124.5 स्तोककालं भवेत् तस्य पञ्चरात्राद् विमुच्यते॥
124.6 देवो बृहस्पतिस् तत्र गन्धमाल्यैर् बलिं हरेत्।
124.6 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.7 अश्लेषायां भवेद् व्याधिः स्त्रियो वा पुरुषस्य वा।
124.7 न तं वैद्याश् चिकित्सन्तु सर्पस् तत्र तु दैवतः॥
124.8 मघासमुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
124.8 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
124.9 पितरो देवतास् तत्र कृसरेण बलिं हरेत्।
124.9 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
124.10 पूर्वफाल्गुनीजा व्याधिः स्त्रिया वा पुरुषस्य वा।
124.10 सप्तरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥

125.1 (125) अर्यमा देवता तत्र गन्धमाल्यैर् बलिं हरेत्।%भगではない
125.1 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.2 उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
125.2 न तं वैद्याश् चिकित्सन्तु भगो प्य् अत्र तु देवता॥%अर्यमन्ではない
125.3 हस्तेनाप्य् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
125.3 पञ्चरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
125.4 रविर् हि देवता तत्र गन्धपुष्पैर् बलिं हरेत्।
125.4 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.5 चित्रायाम् उत्त्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
125.5 अष्टरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
125.6 त्वष्टा हि देवता तत्र घृतम् उद्गैर् बलिं हरेत्।
125.6 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.7 स्वात्यां समुत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
125.7 क्लेशितो हि भवेद् व्याधिः पञ्चविंशतिरात्रिकः॥
125.8 देवताअत्र भवेद् वायुश् चित्रमाल्यैर् बलिं हरेत्।
125.8 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
125.9 विशाखायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
125.9 गुरुकोऽसौ भवेद् व्याधिर् अहान्य् एकोनविंशतिः॥

126.1 इन्द्राग्नीदेवते तत्र गन्धमाल्यैर् बलिं हरेत्।
126.1 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.2 अनुराधाउत्थितो व्यादिः स्त्रिया वा पुरुषस्य वा।
126.2 अर्धमासं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
126.3 मित्रो हि देवता तत्र घृतपात्रं बलिं हरेत्।
126.3 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.4 ज्येष्ठायाम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
126.4 क्लेशिको हि भवेद् व्याधिर् अहोरात्रत्रयोदश॥
126.5 इन्द्रो हि देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
126.5 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.6 मूले समुत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
126.6 मासिको हि भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
126.7 नैरृतिर् देवता तत्र मद्यमांसैर् बलिं हरेत्।
126.7 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.8 पूर्वाषाढे भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
126.8 सांक्लेशिको भवेद् व्याधिर् अष्टौ मासान् न संशयः॥
126.9 आपो हि देवतास् तत्र कृसरेण बलिं हरेत्।
126.9 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
126.10 उत्तरायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
126.10 सप्तरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
126.11 विश्वो हि देवता तत्र पायसेन बलिं हरेत्।
126.11 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥

127.1 (127) अभिजिद् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.1 षण्मासान् संभवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥
127.2 विष्णुश् च देवता तत्र दधिमण्डं बलिं हरेत्।
127.2 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.3 श्रवणेनउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.3 गुरुको हि भवेद् व्याधिः पूर्णं द्वादशमासिकं॥
127.4 विष्णुर् हि देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
127.4 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.5 धनिष्ठायां भवेद् व्याधिः स्त्रिया वा पुरुषस्य वा।
127.5 गुरुको हे भवेद् व्याधिः पूर्णमासान् त्रयोदश॥
127.6 वसवो देवतास् तत्र घृतमाल्यैर् बलिं हरेत्।
127.6 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.7 शतभिषाउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.7 त्रयोदशदिवस् तत्र ततश् चऊर्ध्वं विमुच्यते॥
127.8 वरुणो देवता तत्र पायसेन बलिं हरेत्।
127.8 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
127.9 पूर्वभद्रउत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.9 न तं वैद्याश् चिकित्सन्तु अहिर्बुध्न्योऽत्र दैवतः॥
127.10 उत्तरभाद्रजो व्याधिः स्त्रिया वा पुरुषस्य वा।
127.10 सप्तरात्रं भवेद् व्याधिस् ततश् चऊर्ध्वं विमुच्यते॥

128.1 (128) अर्यमा देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
128.1 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
128.2 रेवत्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
128.2 मृदुको हि भवेद् व्याधिर् अष्टाविंशतिरात्रिकः॥
128.3 पूषा हि देवता तत्र गन्धमाल्यैर् बलिं हरेत्।
128.3 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
128.4 अश्विन्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
128.4 सांक्लेशिको भवेद् व्याधिः पञ्चविंशतिरात्रिकः॥
128.5 गन्धर्वो देवता तत्र यावकेन बलिं हरेत्।%主宰神がगन्धर्व!
128.5 अनेन बलिकर्मेण तस्माद् रोगाद् विमुच्यते॥
128.6 भरण्याम् उत्थितो व्याधिः स्त्रिया वा पुरुषस्य वा।
128.6 न तं वैद्याश् चिकित्सन्तु यमस् तत्र तु दैवतः।
128.7 शीलं रक्षतु मेधावी ततः स्वर्गं गमिष्यति॥
128.7 अयं भोः पुष्करसारिन् व्याधिसमुत्थानो नामअध्यायः।

 बन्धननिर्मोक्षः
128.8 अथ खलु भोः पुष्करसारिन् बन्धननिर्मोक्षं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥

129.1 कृत्तिकासु भोः पुष्करसारिन् बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतिइति वक्तव्यः। रोहिण्यां बद्धो वा रुद्धो वा त्रिरात्रेण मोक्ष्यतिइति। मृगशिरसि बद्धो वा रुद्धो वा एकविंशति रात्रेण मोक्ष्यतिइति। आर्द्रायां बद्धो वा रुद्धो वाऽर्धमासेन मोक्ष्यतिइति। पुनर्वसौ रुद्धो वा बद्धो वा सप्तरात्रेन। पुष्ये त्रिरात्रेण। अश्लेषायां त्रिंशद्रात्रेण। मघासु षोडशरात्रेण। चित्रायां सप्तरात्रेण। स्वात्यां दशरात्रेण। विशाखायां षड्विंशद्रात्रेण। अनुराधायाम् एकत्रिंशद् रात्रेण। ज्येष्ठायाम् अष्टादशरात्रेण। मूले षट्त्रिंशद् रात्रेण। पूर्वाषाढायां चतुर्दशरात्रेण। उत्तराषाढायां चतुर्दशरात्रेण। अभिजिति षड्रात्रेण। श्रवणे धनिष्ठायां शतभिषायां पूर्वभद्रपदे उत्तरभाद्रपदे रेवत्यां चतुर्दशरात्रेण। अश्विन्यां त्रिरात्रेण। भरण्यां बद्धो वा रुद्धो वा परिक्लेशम् अवाप्स्यतिइति वक्तव्यः।
129.2 अयं भोः पुष्करसारिन् बन्धननिर्मोक्षो नामअध्याय।

तिलकअध्यायः
129.3 अथ बोः पुस्करसारिन् तिलकअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भगवान्॥
129.4 मूर्ध्नि तु यस्यास् तिलकोऽस्ति सूक्ष्मः स्निग्धो भवेत् पद्मसमानवर्णः।
129.5 राजा तु तस्या भवतिइह भर्ता स्तनउपरिष्टात् प्रतिबिम्बम् आहुः॥

130.1 शीर्षे तु यस्यास् तिलकअलकः स्यात् सूक्ष्मो भवेद् अञ्जनचूर्णवर्णः।
130.1 सेनापतिस् तस्या भवेद् धि भर्ता स्तनअन्तरेऽस्याः प्रतिबिम्बकं स्यात्॥
130.2 भ्रूवोन्तरेऽस्यास् तिलकअलकः स्याद् दुष्चारिणीं तां प्रमदां वदन्ति।
130.2 पञ्चएव तस्याः पतयो भवन्ति बह्व्अन्नपानं लभते च नारी॥
131.1 गण्डस्य नासादिकम् अध्यदेशे भवेच् च बिम्बं तिलकस्य यस्याः।
131.1 तां शोकभाजं प्रमदां वदन्ति रोमप्रदेशे प्रतिबिम्बम् आहुः॥
131.2 कर्णे तु यस्यास् तिलकअलकः स्याद् बहुश्रुतां तां प्रमदां वदन्ति।
131.2 बहुश्रूतां तां श्रुतिधारिणीं च त्रिके तु यस्याः प्रतिबिम्बकं स्यात्॥
131.3 यस्यउत्तरोष्ठे तिलकअलकः स्यात् तां भिन्नसत्यां प्रमदां वदन्ति।
131.3 कृच्छ्रेण सा वै लभते हि वृत्तिम् ऊरौ तु तस्यास् तिलबिम्बम् आहुः॥
132.1 यस्याऽधरोष्ठे तिलकअलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
132.1 मिष्टअन्नपानं बहु ऋच्छते सा तथा हि गुह्ये प्रतिबिम्बकं स्यात्॥
132.2 चिबुके तु यस्यास् तिलकअलकः स्याद् दुश्चारिणीं तां प्रमदां वदन्ति।
132.2 मिष्टअन्नपानं बहु सा लभेत गुह्ये द्वितीयं प्रतिबिम्बकं स्यात्॥
132.3 अयं भोः पुष्करसारिंस् तिलकअध्यायो नामअध्यायः।
132.4 अथ खलु भोः पुष्करसारिन् नक्षत्रजन्मगुणं नामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। कथयतु भवान् त्रिशङ्क्को।
132.5अ कृत्तिकासु नरो जातस् तेजस्वी प्रियसाहसः।
132.5ब् भवेच् छूरस् तथा चण्डः प्रियवादी च मानवः॥
132.6अ रोहिण्यां पुरुषो जातो धनवान् धर्मिकस् तथा।
132.6ब् व्यवसायी स्थिरः शूरो ध्रुवं चअस्य सदा मुखं॥
133.1 जातो मृगशिरे यस् तु मृदुः सौम्यस् तु मानवः।
133.1 दर्शनीयो भवेच् चअसौ स्त्रीकान्तस् तु विशेषतः॥
133.2 आर्द्राजातस् तु हिंसात्मा चण्डः परमजल्पकः।
133.2 रोद्रकर्मा भवेच् चअसाव् ईश्चरश् च शतैर् महान्॥
133.3 जातः पुनर्वसौ यस् तु ह्य् अलोलो बुद्धिमान् नरः।
133.3 धर्मशीलो भवेच् चअसौ जातक्रोधश् च मानवः॥
133.4 पुष्येण पुरुषो जातस् तेजस्वी ब्राह्मणो भवेत्।
133.4 क्षत्रियश् च भवेद् राजा वैश्यसूद्रौ च पूजितौ॥
133.5 श्वसनः क्रोधनः क्रूरो ह्य् अश्लेषासम्भवो नरः।
133.5 दुर्मनुष्यश् च चण्डश् च; इति सर्वम् इहादिशेत्॥
133.6 बहुप्रज्ञः श्राद्धकरो बहुभाग्यस् तथाएव च।
133.6 धनवान् धान्यवान् भोगी मघासु पुरुषो भवेत्॥
133.7 पूर्वफाल्गुनीजातस् तु यः कश्चित् पुरुषो भवेत्।
133.7 अर्धम् अबुच्छिशीलश् च गुरुदाराअभिमर्दकः॥
133.8 उत्तरायां तु फाल्गुन्यां जातो भवति भोगवान्।
133.8 दिव्यज्ञानश् च विज्ञाने पुरुषः सुभगो भवेत्॥
133.9 हस्ते जातश् च शुद्धआत्मा विक्रान्तो मृदुभोजनः।
133.9 सेनापत्यम् च कुरुतेऽस्तेयकर्मा भवेद् असौ॥
133.10 चित्रासु जातश् चित्राअक्षस् तथा चित्रकथाकरः।
133.10 दर्शनीयो बहुस्त्रीकश् चित्रशीलो भवेन् नरः॥

134.1 स्वात्यां च पुरुषो जातो बन्धुश् लाघी चिचक्षणः।
134.1 मृदुकः पानशौण्डश् च मित्रकारी विचारवान्॥
134.2 विशाखासु नरो जातस् तेजस्वी द्रव्यवान् महान्।
134.2 शूरो विक्रमवान् दक्षः सुभगश् च भवेद् असौ॥
134.3 अनुराधाउद्भवो मर्त्यो मित्रवान् संग्रही नरः।
134.3 शुचिश् चएव कृतज्ञश् च धर्मआत्मा च भवेच् च सः॥
134.4 ज्येष्ठासु पुरुषो जातो मित्रवान् अभिजायते।
134.4 धनुर्वेदअभिरामश् च नारीषु कुरुते मनः॥
134.5 मूलेषु पुरुषो जातोऽकृतज्ञः स्याद् अधर्मिकः।
134.5 दृढो वीरो भवेच् चअसौ किल्विषी च स मानवः॥
134.6 आषाढासु च पूर्वासु मत्सरी चलितइन्द्रियः।
134.6 मत्स्यमांसप्रियश् चअपि घातकः स्यात् स मानवः॥
134.7 सअनुक्रोशश् च दाता च विद्यानिष्ठः सुहृज्जनः।
134.7 विश्वदैवे नरो जातो भवेद् अपि च निश्चितः॥
134.8 आचार्यः शास्त्रकर्ता च विश्वासी च क्रियापरः।
134.8 श्रवणे जत; आयुष्मान् श्रीमांश् च पुरुषो भवेत्॥
134.9 अनवस्थितचित्तश् च च्चित्रद्रव्यश् च मानवः।
134.9 धनिष्ठासु भवेज् जातः पुरुषः सर्वशाङ्कितः॥

135.1 वारुणे यदि नक्षत्रे जातो भवति मानवः।
135.1 परुषो क्वेषशीलश् च परिवादी च सर्वशः॥
135.2 जातो भाद्रपदायां तु पूर्वस्याम् इह मानवः।
135.2 चारित्रगुणयुक्तश् च कृतज्ञो मुखरस् तथा॥
135.3 उत्तरस्यां नरो जातो भविष्यति विचक्षणः।
135.3 मेधावी बह्व् अपत्यश् च धर्मशीलो महाधनः॥
135.4 रेवत्यां पुरुषो जातो धर्मआत्मा ज्ञातिसेवकः।
135.4 दरिद्रोऽल्पधनो नित्यं दायको नअनुसूयकः॥
135.5 अश्विन्यां पुरुषो जातो भवय् अतिविचक्षणः।
135.5 महाजनप्रियश् चअपि शूरश् च सुभगश् च सः॥
135.6 भरण्यां पुरुषो जातः पापाचारोऽविचक्षणः।
135.6 कन्दर्पे दातुकामश् च परतश् चउपजीवकः॥
135.7 अयं भोः पुष्करसारिन्न् नक्षत्रजन्मगुणो नामअध्यायः।

135.8 पठ भोस् त्रिशङ्को उत्पातचक्रं नामअध्यायं। कथयति च।

1 उत्पातचक्रनिर्देशः

1.1 अष्टाविंशतिपर्यन्तकृत्स्ने नक्षत्रमण्डले।
1.1 दिव्या विकारा दृश्यन्ते सूर्यचन्द्रग्रहादिषु॥
1.2 माघस्य प्रथमे पक्षे शैलो वा पार्थिवा यदि।
1.2 धूमवृष्टिर् हि; आदित्ये; उदयति प्रदृश्यते।
1.2 विद्युतो वाअथ दृश्यन्ते तदा विद्याज् जनक्षयं॥
1.3 अश्विन्याम् अर्कतो धूमो निर्गच्छन्न् अपि छादयेत्।
1.3 अनावृष्टिं तदा विद्यात् पूर्णवर्षाणि द्वादश॥
1.4 भरण्यां माघमासे तु पीतसूर्योऽथ दृश्यते।
1.4 समन्ताद् वध्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
1.5 फाल्गुने कृत्तिकायां तु; आदित्ये परिखो यदि।
1.5 नश्यन्ति कर्वटास् तत्र यदि देवो न वर्षति॥
1.6 चैत्रमासे यदा पुष्ये सूर्ये कृष्णां प्रदृश्यते।
1.6 अचिरोदयकाले तु क्षितिपालोऽवरुध्यते॥
1.7 वैशाखमासे चअर्द्रायाम् आदित्यः प्रतिसूर्यकः।
1.7 संग्रामं तत्र जानीयाद् उभौ घात्येते पार्थिवौ॥
1.8 गृह्येतां चन्द्रसूर्यौ वा ज्यैष्ठे भरणिज्येष्ठयोः।
1.8 सअमात्यो वध्यते राजा राष्ट्रे दुर्भिक्षम् आदिशेत्॥
1.9 आषाढे च यदाआदित्ये पूर्वभाद्रपदे स्थिते।
1.9 सायाह्ने दृश्यतेऽत्यर्थं लोहितो मण्डले ब्रणः॥
1.10 परचक्रेण तद्राष्ट्रं षण्मासान् पीड्यते तदा।
1.10 क्षितिपालश् च सअमात्यः पुत्रदारेण वध्यते॥
1.11 पूर्वायां चउत्तराषाढायाम् आषाढे गृह्यते शशी।
1.11 विद्याद् दुर्भिक्षकलह रोगांश् चअत्र विनिर्दिशेत्॥
1.12 मासेऽथ श्रावणे मूले चन्द्रसूर्यौ न भासतः।
1.12 स्फुलिङ्गाश् चअत्र दृश्यन्ते विद्याद् रोगभयं महत्॥
1.13 मासेऽश्वयुजि गृह्येतां एकपक्षेन्दुभास्करो।(प्.137)
1.13 राजपुत्रसहस्राणां तदा जायेत संक्षयः॥
1.14 अलक्षणो निःप्रकाशः पूर्णमास्यां तु कार्त्तिके।
1.14 चन्द्रसूर्याव् अग्निवर्णौ रक्तवर्णे नभस्तले॥
1.15 रविवद् भाति तद्राष्ट्रं विनश्येत पुनः पुनः।
1.15 राज्ञां विद्याद् धतानां वै भूमिः पास्त्यति शोणितं॥
1.16 भरण्यां माघमासे तु कृष्णो वायुः समुत्थितः।
1.16 छादयेच् चन्द्रसूर्यौ तु शीघ्रं राष्ट्रं विनश्यति॥
1.17 मासे तु फाल्गुने वायुः पांशुवर्षं सविद्युतं।
1.17 वध्यन्ते पूर्वराजानः प्रतिष्ठन्ते तथाअपरे॥
1.18 सहआदित्येन चन्द्रेऽथ यदा कश्चिद् ग्रहश् चरेत्।
1.18 वायुर् वा विषमो वातिइ विद्याद् राजवधं तदा॥
1.19 अशन्युल्के तु वैशाखे; आदित्येन सहउत्थिते।
1.19 षण्मासअभ्यन्तरेणअथ राष्ट्रे व्यसनम् आदिशेत्॥
1.20 ज्येष्ठमासे यदाआदित्यो ग्रहतो निर्गतो भवेत्।
1.20 आदित्यस्यउपघातेन ग्रहाः सर्वेऽथ पीडिताः॥
1.21 ज्येष्ठे च पांशुर् वर्षेत; आदित्यः परिविष्यते।
1.21 क्षितिपालसहस्राणां एक; एकस् तु वध्यते॥
1.22 आषाढे वायवो वान्ति गच्छन्तो भरणीस्थिताः।
1.22 उदपानानि शुष्यन्ते सर्वशस्यं च शुष्यति॥
1.23 श्रावणे वायवः पीताः सदा कृष्णं नभस्तलं।
1.23 भयं तत्र विजानीयात् समन्तात् समुपस्थितं॥
1.24 श्रावणे वर्षते ह्य् अग्निः पूर्वभाद्रपदे दिवा।
1.24 मेघाः शब्दम् उत्कुर्वन्ति रोगदुर्भिक्षम् आदिशेत्॥
1.25 यदा भाद्रपदे मासे नभः स्याच् छन्नगर्जितं।(प्.138)
1.25 परचक्रं तदा राष्ट्रे हरते धनसञ्चयं॥
1.26 अश्वयुजि वातवृष्टिः स्याद् आगत्यउत्तरां दिशं।
1.26 पातयेच् चएवम् आघातं कृत्स्नं राष्ट्रं विनश्यति॥
1.27 कार्त्तिके शुक्लत्रयोदश्यां यदा चन्द्रे धनुर् भवेत्।
1.27 समन्तान् नश्यते राष्ट्रं मध्ये दुर्भिक्षम् आदिशेत्॥
1.28 उल्कापाता ह्य् अशनयो माघमासे भवन्ति वा।
1.28 अश्विन्यां विषये तत्र प्रजाऽश्वासेन वध्यते॥
1.29 मासे तु फाल्गुने यत्र; आग्निवर्षं नभस्तलात्।
1.29 भवेच् छब्दस् तदाकाशे तद्राष्ट्रं नश्यते लघु॥
1.30 स्वात्यां चैत्रे यदा वर्षं निरुद्धं वातवर्षितं।
1.30 दृश्यतइन्द्रधनुः क्षिप्रं नगरं तद् विनश्यते॥
1.31 भरण्यां ज्येष्ठमासे तु शब्द; उत्तरतो भवेत्।
1.31 पीतवर्णं तदाकाशं परचक्रभयं भवेत्॥
1.32 आषाढे मासि पुष्येऽथ दृश्यन्ते व्योग्नि विद्युतः।
1.32 सतृणउदकवृष्टिभिस् त्रिभागं मुच्यते प्रजा॥
1.33 श्रावणे तु यदा मूले बहु देवः प्रवर्षति।
1.33 दृश्यतइन्द्रधनुस् तत्र क्षत्रियाणां महद्भयं॥
1.34 मासे भाद्रपदे यत्र निर्घातः पतति क्षितौ।
1.34 सुकृच्छ्रा वायवो वान्ति महद्रोगभयं तदा॥
1.35 मासे भाद्रपदे पुष्ये विदिग्भ्यो निश्चरेद् ध्वनिः।
1.35 क्षत्रियः कुप्यते क्षिप्रं विपक्षा तु दता प्रजा॥
1.36 भरण्याम् अश्वयुजे शब्द उपरिष्टाद् भवेद् यदि।
1.36 सतृणं चउत्सृजेत् पांशुं तापसानां महद्भयं॥
1.37 कार्त्तिके तु यदाआर्द्रायां शब्दः श्रयेत भैरवः।
1.37 चतुष्पदः कार्षकाणां मृत्युं तत्र विनिर्दिशेत्॥
1.38 मार्गशीर्षे धनिष्ठायां तूर्यशब्दोऽम्बरे भवेत्।(प्.139)
1.38 वातातुरस् तदा राष्ट्रे व्याधिर् भवति दारुणः॥
1.39 पौषमासे यदा स्वात्यां शब्दो भवति भैरवः।
1.39 अभीक्ष्णं विद्युद् आकाशे पण्डितानां महद्भयं॥
1.40 माघे शुक्ले तु निर्घातो नित्यं शाम्येद् वसुन्धरां।
1.40 जानीयात् तृतीये वर्षे सकलं राष्ट्रविभ्रमं॥
1.41 ज्येष्ठायां फाल्गुने मासे कृष्णवायुः समाकुलः।
1.41 अभीक्ष्णं कम्पते भूमिर् ब्रह्मचारिभयं तदा॥
1.42 पूर्वभाद्रपदायां तु चैत्रे कम्पेत् क्षितिर् दिवा।
1.42 तस्मिन् वर्षे च तद्राष्ट्रे परसैन्यान् महद्भयं॥
1.43 पूर्वायां चेद् आषाढायां रात्रौ चैत्रे च निश्चलेत्।
1.43 असिभिर् हन्यते राजा हन्यते च महाजनः॥
1.44 वैशाखे कम्पिता भूमिः कृष्णपक्षे ह्य् अभीक्ष्णशः।
1.44 अनावृष्ट्या तु दुर्भिक्षं मासान् षट् तत्र निर्दिशेत्॥
1.45 ज्येष्ठे मासे भरण्यां तु दिवा कम्पेद् वसुन्धरा।
1.45 विद्याद् योधसहस्राणां मही पास्यति शोणितं॥
1.46 ज्येष्ठे मासे यदा मूले रात्रौ भूमिः प्रकम्पते।
1.46 प्रत्यन्तो वध्यते राजा राष्ट्रे बलिं समादिशेत्॥
1.47 आषाढे कम्पते भूमिः पुष्यनक्षत्रसंस्थिते।
1.47 शस्यं विनश्यते तत्र कलिकर्म च जायते॥
1.48 प्रकम्पन्ते यदा चैत्या; आद्रायां वा मघासु वा।
1.48 ज्वलेयुः प्रपतेयुर् वा नश्येद् राष्ट्रं तदा लघु॥
1.49 चैत्या यत्र प्रकम्पन्ते हसन्ति च नमन्ति च।
1.49 सराष्ट्रः क्षितिपस् तत्र न चिरान् नाशम् अर्च्छति॥
1.50 श्रावणे कम्पते भूमिः पूर्वभाद्रपदास्थिते।(प्.140)
1.50 सदा पराजितो राजा चौरराष्ट्रे च वध्यते॥
1.51 कार्त्तिके क्षितिकम्पेन यदा चैत्यं विशीर्यते।
1.51 द्वारं वा नगरस्यअथ भूयिष्ठं नश्यते प्रजा॥
1.52 वामे वा कषीणे चन्द्रोः शृङ्गे तिष्ठेद् बृहस्पतिः।
1.52 महाभोगा विनश्येयुः प्रकाशाः थिवीश्वराः॥
1.53 सूर्याचन्द्रमसोः सृङ्गे लोहितअङ्गो यदाऽरुहेत्।
1.53 क्रूरअक्षमन्त्रिकात् पीडां प्रत्यन्तानां विनिर्दिशेत्॥
1.54 शनैश्चरो यदा शृङ्गे सोमस्यअभिरुहेत् तदा।
1.54 ज्ञेयं रोगभयं घोरं दुर्भिक्षं चअत्र निर्दिशेत्॥
1.55 राहुणा निगृहीतस् तु चउल्ल्कया हन्यते शशी।
1.55 षण्मासअभ्यन्तरात् तत्र राज्ञो व्यसनम् आदिशेत्॥
1.56 यस्य चैवअथ नक्षत्रे शशी सूर्यो विगृह्यते।
1.56 राहुणा क्षितियो राज्यैः सह पीडाम् अवाप्नुयात्॥
1.57 राज्ञो वै चअथ नक्षत्रे चन्द्रं केतुर् यदा विशेत्।
1.57 प्रत्यन्तराजभिः सार्धं शस्त्राम् ऊर्च्छां विनिर्दिशेत्॥
1.58 चन्द्रमध्यगतः शुक्रः फाल्गुन्याथ मघा यदा।
1.58 सर्वधान्यानि शुष्येयुस् तदा रोगं विनिर्दिशेत्॥
1.59 बृहस्पतिश् च शुक्रश् च लोहितअङ्गः शनैश्चरः।
1.59 लिख्यन्ति सोमशृङ्गस्य तदा विद्यान् महद्भयं॥
1.60 धूमकेतुर् महाभागः पुष्यम् आरुह्य तिष्ठति।
1.60 चतुर्दिशं तदा विंच्यात् परचक्रैः पराभवं॥
1.61 मघायां लोहितअङ्गो वा श्रवणे वा बृहस्पतिः।
1.61 तिष्ठेत् संवत्सरत्रीणि भयं विद्यात् समागरं॥
1.62 तिष्ठेच् छुक्रोऽथ रोहिण्यां ज्येष्ठे मासे कथंचन।
1.62 व्याकुर्यान् नियतम् अत्र क्षत्रियाणां महद्भयं॥
1.63 विशाखायां समीपस्थौ बृहस्पतिशनैश्चरौ।(प्.141)
1.63 सोमो वा रविणा सार्धं परचक्रभयं तदा॥
1.64 काकाः श्येनाश् च बृध्राश् च वसेयुः सहिता मुदा।
1.64 मैथुनं वारितं वेयुः परैः सह रणस् तदा॥
1.65 श्येनो हस्तिनिवासे वा; अभिरोहेत् पुनः पुनः।
1.65 परचक्रेण युद्धं तु भवेच् चअपि पुनः पुनः
1.66 कन्या प्रसूयते यत्र चतुर्हस्ता चतुस्तनी।
1.66 स्त्रीणाम् एव भवेत् तत्र मरणं ह्य् अतिदारुणं॥
1.67 गर्भस्था दारका यत्र हसन्ति च वदन्ति च।
1.67 तस्य देशस्य जानीयाद् विनाशं समुपस्थितं॥
1.68 एकपादां स्त्रिपादांश् च चतुर्अङ्गांस् तथाएव च।
1.68 नार्यो यत्र प्रसूयन्ते राज्ञो व्यसनम् आदिशेत्॥
1.69 सूयन्ते विकृतान् गर्भान् सन्तानान् भयव्यञ्जनान्।
1.69 प्रमदा यत्र देशे तु राजा तत्र विनश्यति॥
1.70 लघुहस्तशीर्षमुखान् मानुषं कायम् अश्रितान्।
1.70 प्रमदा यत्र सूयन्ते राष्ट्रं तत्र विनश्यति॥
1.71 खराश् च महिषाश् चअपि पशवोऽथ तथाविधाः।
1.71 द्वित्रिशीर्षाः प्रसूयन्ते देशे यत्र स नश्यति॥
1.72 शृगालश्वानमकरहयरूपाश् च मानवाः।
1.72 जायन्ते यत्र देशे तु स देशो लघु नश्यति॥
1.73 पादाव् उभौ यदा वैश्या गुर्विणी संप्रसूयते।
1.73 देशस्य विलयं ब्रूयात् परचक्रेण दारुणं॥
1.74 पूर्वार्धः पक्षिनरयोर् गर्भो यत्र प्रसूयते।
1.74 राजा वा राजामात्यो वा सह देशेन नश्यति॥
1.75 कुम्भाण्डो जायते यत्र द्विसुखोऽथ चतुर्मुखः।(प्.142)
1.75 त्रिनेत्रस् त्रिमुखो वाअपि विद्यात् तत्र महद्भयं॥
1.76 सौकरेण तु वक्रेण शरीरं मानुषं यदि।
1.76 सूतं चतुर्दिशं राष्ट्रं हन्यात् तत्र न संशयः॥
1.77 आदित्यस्य तु रूपेण मानुषो यत्र जायते।
1.77 विभ्रमात् सकलं राष्ट्रं विनाशम् उपगच्छति॥
1.78 उत्तानशायी बालस् तु देशं यत्र द्विजोत्तमः।
1.78 दृष्टः प्रव्याहरन् वेदान् क्षिप्रं देशो विनश्यतेइ॥
1.79 कुक्षिं भित्वा यदा बालो गर्भान् निष्क्रमते स्वयं।
1.79 अत्राणां मातरं कृत्वा स देशो नश्यते लघु॥
1.80 गर्भस्थाः सूकरा; उष्ट्राः सर्पाश् च शकुनिस् तथा।
1.80 स्त्रीणां गर्भात् प्रसूयन्ते देशे तु भयम् आदिशेत्॥
1.81 पौरुषं गार्दभं चअथ सौकरं चअर्धविग्रहं।
1.81 गावो यत्र प्रसूयन्ते निर्दिशेद् भयम् आगतं॥
1.82 नारी गृह्णाति गर्भं वा; अदृष्टस्तनरूपिणी।
1.82 विनाशं तस्य देशस्य सनृपस्य विनिर्दिशेत्॥
1.83 जटी दीर्घनखो यत्र सुकृष्णः परुषच्छविः।
1.83 सजनो जायते यत्र राष्ट्रं साधिपतिं दहेत्॥
1.84 अग्रीवा दन्तसहिता जायन्ते यत्र बालकाः।
1.84 शुष्येत सकलं शस्यं जनश् च विलयं व्रजेत्।
1.85 एकबाहुरशीर्षोऽथ गर्भो यत्र प्रसूयते।
1.85 स्वयं क्षुभ्येत तद्राष्ट्रं विनश्येत न संशयः॥
1.86 फले फलं यदा पश्येत् पुष्पे वा पुष्पम् आश्रितं।
1.86 गर्भाः स्रवेयुर् नारीणां युवराजश् च वध्यते॥
1.87 अकाले पादपा यत्र पुष्प्यन्ति च फलन्ति च।(प्.143)
1.87 लता गुल्मोऽथ वल्ली वा देशे तत्र भयं भवेत्॥
1.88 वृक्षउपरिष्टात् पश्येद् वा स्रवन्तम् आत्मशोणितम्।
1.88 कूजमानं पतङ्गं वा तदा विद्यान् महद्भयं॥
1.89 वृक्षाणां मण्डपानां वा छाया न परिवर्तते।
1.89 चतुर्वर्णभयं तत्र कलिकर्म च जायते॥
1.90 पुष्प्येग्रुः पादपा यत्र विविधाः पुष्पजातयः।
1.90 कल्पवृक्षप्रकृतयस् ततो विद्यान् महद्भयं॥
1.91 अनावर्तं यदा पुष्पं फलं चअपि प्रदृश्यते।
1.91 विनाशं तस्य देशस्य दुर्भिक्षं कलहं वदेत्॥
1.92 स्थानास्थानं गता वृक्षा दृश्येयुर् यत्र कुत्रचित्।
1.92 पूर्वप्रतिष्ठिता राजा न चिरेण विचाल्यते॥
1.93 दैवअसुरं च संग्रामं पश्येद् अद्भुतदर्शनं।
1.93 शस्त्रं मूर्च्छयते तत्र तस्करैश् चअपि पूर्ववत्॥
1.94 कम्पते रुदते शास्ता गच्छन् वा यत्र दृश्यते।
1.94 परचक्रात् तदा विद्याद् अत्यर्थं तत्प्रराजयं॥
1.95 देवता यत्र देशे तु नृत्यन्ति च हसन्ति च।
1.95 अश्रूणि पातयेयुर् वा तदा विद्यान् महद्भयं॥
1.96 देवता यत्र क्रीडन्ति ज्वलन्ति निमिषन्ति वा।
1.96 चलेयुर् अथवा यत्र क्षितिपोऽन्यो भवेत् तदा॥
1.97 शिवलिङं यदा कम्पेद् गगने वाअथ दृश्यते।
1.97 निमज्जते धरण्यां वा ध्रुवं राजवधो भवेत्॥
1.98 प्रतिमाः परिवर्तन्ते धूमायन्ते रुदन्ति च।
1.98 प्रस्विद्येयुः प्रधावेयुर् अन्यो राजा भविष्यति॥
1.99 अचलो वा चलेत् स्थानाच् चलं वाअप्य् अचलं भवेत्।
1.99 अमात्यो हन्ति राजानं कलहं चअत्र निर्दिशेत्॥
1.100 वमन्ति रुधिरं कन्या नमन्ते वा दिशो दश।(प्.144)
1.100 अयुक्ता वा प्रवर्तन्ते क्षत्रियाणां महद्भयं॥
1.101 वर्षते कुसुमं यत्र रक्तविन्दुम् अथअपि वा।
1.101 प्राणिनो विविधान् वाअपि विद्याच् चौरभयं तदा॥
1.102 यूपाः पुराणा निगमा देवआगाराणि चैतियाः।
1.102 नगराण्य् अथ धूम्यन्ते क्षिप्रं राजा विनश्यति॥
1.103 इन्दुर् वा दीपवृक्सो वा दीपो यत्र न दीप्यते।
1.103 राज्यकामः कुमारो वा क्षुभ्येद् विटपकोऽपि वा॥
1.104 अन्तःपुरे यदा नीडां कुर्वते मधुमक्षिकाः।
1.104 अस्त्रं वाअपि गृहं दह्याद् राज्ञो व्यसनम् आदिशेत्॥
1.105 पतेद् अन्तःपुरे विद्युद् वृक्षे वाअप्य् आश्रमे तथा।
1.105 पुरि चैत्यच्छायायां वा राजार्थे पतिता हि सा॥
1.106 प्राकारे वाऽयुधागारे गोपुरास्थानकेषु वा।
1.106 वायसः कुरुते नीडं सअमात्यो ध्वंसते नृपः॥
1.107 अनाहतेभ्यस् तूर्येह्भ्यः स्वयं शब्दो विनिश्चरेत्।
1.107 स्वचक्रक्षोभदोषेण सर्वं राष्ट्रं विलुप्यते॥
1.108 मांसशोणितवर्षं वा पत्रपुष्पफलानि वा।
1.108 यदाभिवर्षेत् तद्वर्षं चक्रै राष्ट्रं विलुप्यते॥
1.109 मधुफाणितपुष्पाणि गन्धवर्षाण्य् अथअपि वा।
1.109 दिशो दाहाश् च दृश्येयुर् मारदुर्भिक्षलक्षणं॥

1.110 मेघः समन्ततो गर्जेद् उपवर्षेत् सचातकं।
1.110 शोणितं सकरकं स्यात् तदा विद्यात् पराद् भयं॥
1.111 विद्युच् च पतते घोरा करकाणां च वर्षणं।
1.111 गन्धर्वनगरं चअथ दृष्ट्वा विद्यान् महद्भयं॥
1.112 शशी शोणितसंकाशो मध्ये कृष्णो विवर्णवान्।(प्.145)
1.112 सामन्तकेन पीड्यते विद्याद् राष्ट्रे महद्भयं॥
1.113 प्रदीपितअग्निसंकाशो यदा दृश्येत चन्द्रमाः।
1.113 गगनं दह्यते तत्र लोकपीडा ज्वरेण च॥
1.114 यदा गैरिकसंकाशः क्षिप्रम् एवउपशाम्यति।
1.114 वर्षणस्यआगमो विद्याद् यदि वायुः प्रवायते॥
1.115 सन्ध्यायां धूम्रवर्णायां दृश्येतेन्दुश् च भास्करः।
1.115 विच्छिन्नो ब्रह्मरूपेण वर्षं तत्र विनिर्दिशेद्॥
1.116 नाप्सु मज्जति नअप्य् अग्नौ पूर्ववच् च न दृश्यते।
1.116 अग्निर् उत्पत्स्यते तत्र कोष्ठआगारं दहेत सः॥
1.117 ध्वजअग्रे वायसो यत्र लम्बपक्षो विधावते।
1.117 उदकं संहरेत् क्षिप्रम् अग्नितः सुमहद्भयं॥
1.118 जलं जाज्वल्यमानं तु मत्स्यो निर्दहति स्वयं।
1.118 अनावृष्टिं तदा ब्रूयाद् दुर्भिक्षं च महद्भयं॥
1.119 पुरद्वारे यदाआगच्छेत् स्वयम् आरण्यको मृगः।
1.119 चक्रद्वयेऽपि दुर्भिक्षं राष्ट्रे रोगं च निर्दिशेत्॥
1.120 त्रिशीर्षः पञ्चशीर्षो वा यदा सर्पोऽथ दृश्यते।
1.120 अनावृष्ट्या तदा विद्यात् सर्वशस्यं विनश्यति॥
1.121 कुशूलो यत्र दृश्येत कम्पयन् तु वसुन्धरां।
1.121 कोष्ठआगाराणि नश्येयुर् ये चअन्ये धनसञ्चयाः।
1.122 सर्प; उद्यतशीर्षस् तु युध्यते पुरुषैः सह।
1.122 चक्रद्वयाद् रोगतश् च विद्यात् तत्र महद्भयं॥
1.123 बिल; एकत्र बहवः सर्पाः सुपरिवेष्टिताः।
1.123 शस्त्रमृत्युं तदा विद्यात् क्षत्रियाणां महद्भयं॥
1.124 निश्चरन्त्य् अवधानेन खड्गाः प्रज्वलिता यदा।
1.124 ततस् तं न चिरात् पश्येत् संग्रामं प्रत्युपस्थितं॥
1.125 काकः श्येनश् च गृध्रो वा यस्य नीयेत मूर्धनि।(146)
1.125 षण्मासअभ्यन्तरे राजा म्रियते सपुरोहितः॥
1.126 प्रासादाश् च प्रकम्पन्ते शरणानि गृहाणि च।
1.126 महाबलं च वध्येत राष्ट्रस्य राजपालकः॥
1.127 वज्रउद्धृता दिशः सर्वाः कृष्णपक्षे चतुर्दिशं।
1.127 वर्षेयुः शोणितं यत्र क्षितिपालोऽत्र वध्यते॥
1.128 सूर्यस्यउदयकाले तु महोल्का निपतेद् यदा।
1.128 राजपुत्रसहस्राणां भूमिः पास्याति शोणितं॥
1.129 वृक्षाः सर्पाः प्रकम्पेयुर् मुच्येयुस् त्वचो वा तथा।
1.129 सर्वस्मिन् एव राष्ट्रे तु विद्याच् छत्रुभयं महत्॥
1.130 दिने ह्य् उल्काप्रयुक्तिर् वा ज्वलन्ती यदि दृश्यते।
1.130 रक्तउत्पादं तदा विद्यात् संग्रामं भीमदर्शनं॥
1.131 असिं प्रज्वलितं पश्येत् तोमरं चक्रम् एव च।
1.131 विद्यात् पश्यन्ति शस्त्राणि संग्रामं भीमदर्शनं॥
1.132 दीर्घम् उच्छ्वसते वाऽश्वः अश्रूणि च निपातयेत्।
1.132 पादेन कर्षते शीघ्रं युद्धे राजवधो ध्रुवं॥
1.133 काकश् चेद् गृहम् आरुह्य हा पुत्र; इति वाशति।
1.133 सर्वः प्रणश्यते देशो नगरग्रामकर्वटः॥
1.134 अनग्नौ जायते धूमः स्थले पद्मानि वा यदा।
1.134 विनाशं तस्य देशस्य नियमाच् छीघ्रम् आदिशेत्॥
1.135 आरवन्ति यदा घोरं मेघा वृकमृगास् तथा।
1.135 विनाशं तस्य देशस्य विद्याच् छीघ्रम् उपस्थितं॥
1.136 छिन्नस्रोता भवेन् नद्यश् चिरकारवहा; अपि।
1.136 गृहाः शून्योदकेनअपि शुष्कास् तत्र भयं भवेत्॥
1.137 प्रतिस्रोता यदा नद्यो वहन्त्य् अप्रतिवारिताः।
1.137 नित्योद्विग्ना जनपदा निर्दिशेच् च जनक्षयं॥
1.138 धनूंष्य् आकृZयमाणानि धूमायन्ति ज्वलन्ति च।(प्.147)
1.138 अन्यद् वाअपि प्रहरणं परेभ्यो जायते भयं॥
1.139 मयूरग्रीवसंकाशः परिवेशो निशाकरे।
1.139 विद्याद् राजसहस्राणां मही पास्यति शोणितं॥
1.140 नराणां प्रमदानां च रतिहर्षो न जायते।
1.140 सर्वत्र शोकचिन्ता वा महत् तत्र भयं भवेत्॥
1.141 निर्ग्रन्था; ऋषयः सन्तो देशान् प्रक्रमेयुर् यतः।
1.141 नदीं भित्वा निकुञ्जान्वा स देशो नश्यतेऽचिरात्॥
1.142 यत्रौषध्यश् च विरसा जलं च परिहीयते।
1.142 विद्याद् देशं तम् उत्सृष्टं देवताऋषिसाधुभिः॥
1.143 मत्स्याः कूर्माश् च सर्पाश् च म्रियन्ते यत्र जाङ्गलाः।
1.143 धनस्कन्धः स्त्रियास् तत्र सपत्नैर् विप्रलोप्स्यते॥
1.144 अपूर्वाः पक्षिणो यत्र स्थले वारिणि; एव वा।
1.144 दृश्येयुः परचक्रेण धनस्कन्धो विलोप्स्यते॥
1.145 महापथो यदा कक्षैः प्रसृतैर् अपथो भवेत्।
1.145 सग्रामकर्वटं राष्ट्रं पुत्रेण सह नश्यते॥
1.146 नानोत्पातचक्रनिर्देशो नामअध्यायः।
1.147 पठ भोस् त्रिशङ्को पुरुषपिन्याध्यायं। अथ किं। कथयतु भगवान्।
1.148 अथ खलु भोः पुष्करसारिन् पुरुषपिन्याध्यायं व्याखामि तच् छ्रूयतां। कथयतु भगवान्।
1.149 अष्टाविंशतिः पुष्करसारिन् नक्षत्राणि प्रकीर्तितानि। यानि चन्द्रसूर्यनिःसृतान्य् अनुवहन्ति। तत्र सुकुगृष्ट्या अष्टाङ्गुलप्रमाणया द्वादशाक्षगृष्टयः स्वशरीरं (प्.148) दैर्घ्येण ज्ञातव्यं। एकाक्षगृष्टिः शीर्षमूर्ध्नि एकपादतलं भवेत्। चतुर्दश गृष्टयो नक्षत्राणां पदं यत्र संदृश्यते। तद् अन्यथा न भवति। नक्षत्रे यत्र यो जातस् तत्र तत्र संकृश्यते।

2 पुरुषपिन्यः

2.1 कृत्तिकायां हि जातस्य मुखे वै चतुर्अङ्गुलः।
2.1 पिन्यो दक्षिणतो यस्य लोमशः कृष्णलोहितः॥
2.2 भोगवान् यशसा युक्तः पण्डितो ज्वलति श्रिया।
2.2 कृत्तिकास्व् अथ जातस्य भवत्य् एतद् धि लक्षणं॥
2.3 दृश्यते व्रण; एवायं यस्य वै चतुर्अङ्गुलः।
2.3 रोहिण्यां जातकः सोऽपि विद्वान् धर्मरतः सदा॥
2.4 मण्डितो भोगसम्पन्नो ह्रीयुक्तश् चअपि सर्वतः।
2.4 शूरो विजयसम्पन्नो नित्यं शत्रुप्रमर्दकः॥
2.5 ग्रीवायाम् अर्धगृष्ट्या तु दाहो यस्य प्रदृश्यते।
2.5 मृगशीर्षे ह्य् असौ जातः शूरो भोगसमर्पितः॥
2.6 अर्धद्वितीयगृष्ट्या तु पिन्यो वामे हि यस्य तु।
2.6 आर्द्रायां क्रोधनो जातो मूर्खो गोपतिकश् च सः॥
2.7 वामे कक्षे व्रणो यस्य कृष्णश् चएव पुनर्वसौ।
2.7 धनधान्यसमृद्धो हि जायते स्वल्पमेधसः॥
2.8 तथाएव पुष्ये जातोऽसौ दृश्यते वरलक्षणः।
2.8 चक्रमध्ये च हस्ते च सूर्यश् चन्द्रो विराजते॥
2.9 अर्धप्रदक्षिणावर्ताः केशाः सर्वे हि संस्थिताः।(प्.149)
2.9 परिमण्डलश् च कायेन जितक्लेशोऽपि नायकः॥
2.10 हृदये यस्य दाहः स्याद् श्लेषायां कलिप्रियः।
2.10 दुःशीलो दुःखसंवासो मैथुनाभिर् अतश् च सः॥
2.11 अध; उरसि ष्ठे वा यस्य व्रणः प्रदृश्यते।
2.11 मघायां धनवान् जातो महाआत्म धार्मिको नरः॥
2.12 नाभ्यां दक्षिणवामाभ्यां व्रणो यस्य प्रदृश्यते।
2.12 पूर्वफाल्गुनीजातोऽसौ मत्सरी चअल्पजीवितः॥
2.13 चतुर्अङ्गुलतो नाभ्या यस्य पिन्यः प्रदृश्यते।
2.13 उत्तरफाल्गुनीजातो भोगशीलः श्रुतोद्यतः॥
2.14 श्रोण्यामलोहितः पिन्यो हस्ते जातस्य दृश्यते।
2.14 चौरः शठश् च मायावी मन्दपुण्योऽल्पमेधसः॥
2.15 व्यंजने यस्य पिन्यस् तु दृश्यते नियमेनहि।
2.15 चित्राजातः स चेद् रोगी नृत्यगीतरतस् तथा॥
2.16 व्यञ्जनेऽपि च; ऊर्ध्वे वा पीतः पिन्यःप्रदृश्यते।
2.16 जातः स्वात्याम् असौ लुब्धो गुणद्विष्टो ह्य् अपण्डितः॥
2.17 कुगृष्ट्या यस्य; ऊरूभ्यां पिन्यो लोहित; एव हि।
2.17 आकीर्णो नरनारीभिर् विशाखायां भटोऽग्रणीः॥
2.18 विद्वान् शूरो जितमित्रो नित्यं सौख्यपरायणः।
2.18 श्रिया धृत्या च सम्पन्नोऽच्युतः स्वरुपपद्यते॥
2.19 द्वितीयगृष्ट्याम् ऊरुभ्याम् अङ्गे यस्य प्रदृश्यते।
2.19 शीलवान् अनुराधायां धर्मभोगसमन्वितः॥
2.20 अधो यस्यइह चऊरुभ्यां पिन्यो ज्येष्ठे स जायते।
2.20 अल्पअयुर् अप्रियो दुःखी दुःशीलः कृपणस् तथा॥
2.21 जानुभ्याम् ऊर्ध्वतः सूक्ष्मो व्रणो यस्यइह दृश्यते।(प्.150)
2.21 मूलेन भाग्यवान् जातः स्वगृहं नाशयेल् लघु॥
2.22 पूर्वाषाढासु जातस्य पिन्यः स्याज् जानुमण्डले।
2.22 दायको धर्म; आसङ्ग्यच्युतः स्वर्गपरायणः॥
2.23 उत्तरायाम् आषाढायां जातस्य तिलकस् त्रिके।
2.23 यदि दृश्येत् स मेधावी भोगवान् स्याज् जनप्रियः॥
2.24 द्वितीयः पिन्यो दृश्येत धनवान् भोगवान् सदा।
2.24 सत्यप्रियस् तथारोगोऽच्युतः स्वर्गं च गच्छति॥
2.25 धनिष्ठायां च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
2.25 क्रोधनो मन्दरागश् च प्राज्ञो भोगविवर्जितः॥
2.26 द्विकुगृष्ट्या च जङ्घायां कृष्णः पिन्यः प्रदृश्यते।
2.26 मूर्खः शतभिषायां तु म्रियते ह्य् अदकेन सः॥
2.27 अधो जङ्घां कुगृष्ट्या तु पूर्वभाद्रपदे व्रणः।
2.27 परोपतापको मूर्खो दरिद्रश् चौर; इत्य् अपि॥
2.28 कुगुष्ट्या यस्य पिन्यः स्याज् जातो भाद्रपदउत्तरे।
2.28 दानशीलः स्मृतिप्राप्तो दयापन्नो विशारदः॥
2.29 उभयोः पादयोः सूक्ष्मः पिन्यो यस्य प्रदृश्यते।
2.29 रेवत्यां जायते नीचो नापितः स हवत्य् अपि॥
2.30 अङ्गुष्ठविवरे पिन्यो नीलो यस्य प्रदृश्यते।
2.30 अरोगो बलवान् नित्यम् अश्विन्यां जात; एव सः॥
2.31 अथ पाणितले पिन्यो भरण्याम् अक्षयः स्मृतः।
2.31 वध्यघातश् च दुःशीलः स्यान् नरकपरायणः॥
2.32 नक्षत्राणां पदं ह्य् एतद् येन चर्या प्रजायते।
2.32 एतद् धि लोकप्रज्ञानं लोको यत्र समाश्रितः॥इति पिन्याध्यायाः॥
2.33 अथ खलु भोः पुष्करसारिन् पिटकाध्यायं नामअध्यायं व्याखास्यामि। तच् छ्रूयतां। कथयतु भगवान् त्रिसङ्कुः।(प्.151)

3 पिटकाध्यायः

3.1 अतः ऊर्ध्वं प्रवक्ष्यामि सर्वस्थानगतं पुनः।
स्त्रीणां च पुरुषाणां च पिटकं सर्वकर्मकं॥
3.2 लाभअलाभं सुखं दुःखं जीवितं मरणं तथा।
3.2 प्राज्ञा येनाभिजानन्ति तं च सर्वं निबोधतां॥
3.3 तत्राभिघातदग्धा वा तिलास् तद् रूपका; अपि।
3.3 विस्फोटवर्नभेदाश् च पिटकाभिहिताः स्मृताः॥
3.4 श्वेतवर्णेन पिटको विप्राणां पूजितो भवेत्।
3.4 क्षतोपमः क्षत्रियाणां वैश्यानां पीतकः स्मृतः॥
3.5 शूद्राणाम् असितः श्रेष्ठो विवर्णो म्लेच्छजातिषु।
3.5 यदा सवर्णपिटको मूर्ध्नि राजा महान् स्मृतः।
3.6 शीर्षे तु धनधान्याभ्यां कान्तये सुभगाय च।
3.6 उपघातं भ्रूवोर् विद्यात् स्त्रीलाभो भ्रूवसङ्गमे॥
3.7 अक्षिस्थाने तु पिटकःकरोति प्रियदर्शनं।
3.7 अक्षिभ्रूभागे शोकाय गण्डे पुत्रवधो ध्रुवं॥
3.8 अश्रूपातः ध्रुवं शोकः श्रवणे गोषु नाशकः।
3.8 कर्णपीठे विभूषाय नासावंशे तु जातये॥
3.9 नासागण्डे पुत्रलाभं वस्त्रलाभं ध्रुवं वदेत्।
3.9 नासअग्रे जातेनाप्नोति गन्धभोगान् अभीप्सितान्॥
3.10 उत्तरोष्ठे तथाधरे चअन्नपानं शुभअशुभं।(प्.152)
3.10 चिबुके हनुदेशे च धनं गावः सतां श्रियः॥
3.11 गले तु दानम् आप्नोति पानम् आभरणानि च।
3.11 शिरःसन्धौ च ग्रीवायां शिरश्छेदनम् आदिशेत्॥
3.12 जातोऽयं शिरसो मूले हनुनि च धनक्षयः।
3.12 भैक्षचर्या भवेत् सन्धौ हृदये प्रियसङ्गमः॥
3.13 ष्ठे तु दुःखशय्यायै; अन्नपानक्षयाय च।
3.13 पार्श्वे तु सुखशय्यायै स्तने तु सुतजन्यता॥
3.14 जातेन शिवम् आप्नोति न चअप्रियसमागमः।
3.14 बाह्वोः शत्रुविनाशाय युक्तं स्त्रीलाभ; एव च॥
3.15 ददात्य् आभरणं जातः प्रबाह्वोः कुर्परे क्षुधा।
3.15 मणिबन्धे नियमनमंसाभ्यां हर्ष; एव च॥
3.16 सौभगं धनलाभंच जातः पाणौ ददाति च।
3.16 पुष्पितो ह्य् एकदेशे तु दशनेषु नखेषु च॥
3.17 जातेन हृदि जानीयाद् भ्रातृपुत्रसमागमं।
3.17 जठरे सोमदानाय नाभ्यां स्त्रीलाभम् आदिशेत्॥
3.18 जघने व्यसनं विद्यान् नार्य दौःशील्यम् एव च।
3.18 पुत्रोत्पत्तिस् तु वृषणे लिङ्गे भार्या तु शोभना॥
3.19 ष्ठान्ते सुखभागित्वं स्फिचि चअपि धनक्षयः।
3.19 ऊरुजाताश् च पिटका धनसौभाग्यदायकाः॥
3.20 जानौ शत्रुभयं विद्यात् तथाएव च धनक्षयं।
3.20 जानुसंधौ विजानीयान् मेढ्रके ह्य् अथ जातकैः।
3.20 विजयं ज्ञानलाभं च पुत्रजन्म विनिर्दिशेत्॥
3.21 स्त्रीलाभं वक्षसि चएव भवेद् अन्यो निरर्थकः।
3.21 जङ्घायां परसेवा तु परदेशात् तु भुज्यते॥
3.22 मणिबन्धे तु पिटको बन्धनं निर्दिशेद् ध्रुवं।(प्.153)
3.22 परिवाधं स लभते बन्धनं च न संशयः।
3.22 पार्श्वे गुल्फे च जानीयाच् छस्त्रेण मरणं ध्रुवं॥
3.23 अङ्गुलीषु ध्रुवं शोको व्याधिश् चअङ्गुलिपर्वसु।
3.23 प्रवासं प्रवसेन् नित्यं तथाएवउत्तरपादके॥
3.24 यस्य पादतले जातस् तथा हस्ततलेऽपि च।
3.24 धनं धान्यं सुता गावः स्त्रियो यानानि चअप्नुयात्॥
3.25 स्निग्धं स्निग्धेषु विज्ञेयं चलेषु च चलं फलं।
3.25 स्थानस्थे विपुलं दद्यात् फलं नृणां शुभोदयं॥
3.26 विवर्णो विपरीतश् च फलं सर्वं प्रयच्छति।
3.26 पुंसां मध्ये ये स्निग्धाश् च देशे दक्षिणतश् च ये।
3.26 तथा चअभ्यन्तरे चएव स्थाने तु प्रतिपूजिताः॥
3.27 स्त्रीणां मृदुषु देशेषु वक्त्रान् तेषु च पर्वतः।
3.27 तत्त्वं विज्ञाय पिन्यानं स्थानं वर्णं च जन्म च॥
3.28 स्थानअस्थानं च मतिमान् विकारं गतिम् एव च।
3.28 आदिशेत् तु नरः पश्चाद् यथएवं समुदाहृतं॥
3.29 वामभागे तु नारीणां विज्ञेएयाः पिटकाः शुभाः।
3.29 दक्षिणे तु मनुष्याणां भवन्ति ह्य् अर्थसाधकाः॥
3.30 विपरीतास् तु पिटका मोघास् तु बहवः स्मृताः।
3.30 यथोक्तानं च सन्धिस्थाः सर्वे विफलदाः स्मृताः॥
3.31 सिद्धाः ध्रुवा व्रणा भिद्यास् तथा सद्यःकृताश् च ये।
3.31 धर्मकीलसमाश् चएव सर्वे ते पिटकाः स्मृताः॥
3.32 गुणदोषाश् च सर्वेषां तथाअप्य्अन्ये प्रकीर्त्तिताः।
3.32 इत्य् आह भगवांस् त्रिशङ्कुः शिष्येभ्यो नित्यदर्शनं॥
3.33 न नखेन न शस्त्रेण नआयसेन कथंचन।(प्.154)
3.33 काञ्चनेन सुवर्णेन दहेद् विप्रांश् च भोजयेद्॥
3.34 अयं भोः पुष्करसारिन् पिटकाध्यायनामअध्यायः।
3.35 अथ खलु भोः पुष्करसारिन् स्वप्नअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान्।

4 स्वप्नअध्यायः

4.1 शुभअशुभं च स्वप्नानां यत् फलं समुदाहृतं।
4.1 देवताब्राह्मणौ गावौ बह्निं प्रज्वलितं तथा।
4.1 यस् तु पश्यति स्वप्नअन्ते कुटुम्बं तस्य वर्धते॥
4.2 यस् तु पश्यति स्वप्नअन्ते राजान्नं कुञ्जरं हयं।
4.2 सुवर्णं वृषभं चएव कुटुम्बं तस्य वर्धते।
4.3 सारसांश् च शुकान् हंसान् क्रौञ्चान् श्वेतांश् च पक्षिणः।
4.3 यस् तु पश्यति स्वप्ने वै कुटुम्बं तस्य वर्धते।
4.4 समृद्धानि च शस्यानि नवानि सुरभीणि च।
4.4 पद्मिनीं पुष्पितां चअपि पुर्णकुम्भांस् तथाएव च॥
4.5 प्रसन्नम् उदकं चएव पुष्पाणि विविधानि च।
4.5 यस् तु पश्यति स्वप्नअन्ते कुटुम्बं तस्य वर्धते॥
4.6 पाणौ पादेऽथ वा जानौ शस्तेर्ण धनुषाअपि वा।
4.6 प्रहारा यस्य दीयन्ते तस्यअम्बरोऽभिवर्धते॥
4.7 ताराचन्द्रमसौ सूर्यं नक्षत्राणि ग्रहांस् तथा।
4.7 यस् तु पश्यति स्वप्नअन्ते कुटुम्बं तस्य वर्धते॥
4.8 अश्वष्ठं गजस्कन्धं यानानि शयनानि च।
4.8 योऽभिरोहति स्वप्नअन्ते महद्ऐश्वर्यम् आप्नुयात्॥
4.9 पतितश् चअरुहेद् भूयस् तत्रस्थश् च विबुध्यते।(प्.155)
4.9 ऐश्वर्यधनलाभाय नष्टलाभाय निर्दिशेत्॥
4.10 गोयुतं च रथं स्वप्ने हयं वा योऽभिरोहति।
4.10 तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
4.11 प्रपातं पर्वतं चएव योऽभिरोहति मानवः।
4.11 तत्रस्थश् च विबुध्येत; ऐश्वर्यम् अधिगच्छति॥
4.12 आसने शयने यने शरीरेऽथ गृहे क्षयः।
4.12 येषाम् आरोहणं शस्तं तेषाम् आरोहणात् क्षयः।
4.12 येषाम् आरोहणाद् दोषास् तेषाम् आरोहणाद् गुणाः॥
4.13 त्रिसाहस्रं भवेत् कण्ठे दश शीर्षस्य छेदने।
4.13 राज्यं शतसहस्रं वा लभते शीर्षभक्षणे॥
4.14 शुष्कां नदीं ह्रदं वाअपि शून्यआगारप्रवेशनं।
4.14 शुष्कउदपानं तु लभते स्वप्ने दृष्ट्वा ध्रुवं भयं॥
4.15 शृगालं मानुषं नग्नं गोधावृश्चिकसूकरं।
4.15 अजां वा पश्यतः स्वप्ने व्याधिक्लेशं विनिर्दिशेत्॥
4.16 काकं श्येनम् उलूकं वा गृध्रं वाअप्य् अथ वर्तकं।
4.16 मयूरं पश्यतः स्वप्ने तस्य व्यसनम् आदिशेत्॥
4.17 नग्नं पश्यति ह्य् आत्मानं पांशुना ध्वस्तम् एव वा।
4.17 कर्दमेनउपलिप्तं वा व्याधिक्लेशम् अवाप्नुयात्॥
4.18 कुण्ड्थाः स्त्रियोऽथ संलोक्य चौरान् द्यूतकरांस् तथा।
4.18 कुशीलांश् चारणान् धूर्तान् स्वप्ने दृष्ट्वा ध्रुवं भयं॥
4.19 वमिमूत्रपुरीषाणि विरेकं वसानो जनः।
4.19 उद्वर्तनं वा कुर्वाणः स्वप्नअन्ते रोगम् अर्च्छति॥
4.20 ध्वजं छत्रं वितानं वा स्वप्नअन्ते यस्य धार्यते।
4.20 तत्रस्थोऽपि विबुध्येत महद्ऐश्वर्यम् आदिशेत्॥
4.21अ अन्त्रैस् तु यस्य नगरं समन्तात् परिवार्यते।(प्.156)
4.21 ग्रसते चन्द्रसूर्यौ तु महद्ऐश्वर्यम् आदिशेत्॥
4.22 मनुष्यं भूमिभागं वा स्वप्नअन्ते ग्रसते यदि।
4.22 ह्रदश् च वा समुद्रोऽयं महद्ऐश्वर्यम् आप्नुयात्॥
4.23 धनुः प्रहरणं शस्त्रं रक्तम् आभरणं ध्वजं।
4.23 कवचं वा लभेत् स्वप्ने धनलाभं विनिर्दिशेत्॥
4.24 प्रपातं पर्वतं तालं वृषभं कुञ्जरं हयं।
4.24 तोरणं नगरं द्वारं चन्द्रआदित्यौ सतारकौ।
4.24 स्वप्ने प्रपतितौ दृष्ट्वा राज्ञां व्यसनम् आदिशेत्॥
4.25 उदयं चन्द्रसूर्याणं स्वप्ने दृष्टं प्रशस्यते।
4.25 तयोर् अस्तं गतं दृष्ट्वा राज्ञो व्यसनम् आदिशेत्॥
4.26 श्मशानवृक्षयूपं वा नरो यद्य् अभिरोहति।
4.26 वल्मीकं भस्मराशिं वा स्वप्ने व्यसनम् आदिशेत्॥
4.27 कृष्णवस्त्रा तु या नारी काली कामयते नरं।
4.27 करवीरस्रजा स्वप्ने तदन्तं तस्य जीवितं॥
4.28 तमसि प्रविशेत् स्वप्ने शम्भोर् वा चअमरं तथा।
4.28 वृक्षाद् वा प्रपतेत् स्वप्ने मरणं तस्य निर्दिशेत्॥
4.29 वृक्षां काष्ठं तृणं वाअपि विरुचं यस् तु पश्यति।
4.29 स्वप्ने शीर्षं शरीरं वा मरणं तस्य निर्दिशेत्॥
4.30 देवो वा वर्षते यत्र यत्र चएवअशनिः पतेत्।
4.30 भूमिर् वा कम्पते यत्र स्वप्ने व्यसनम् आदिशेत्॥
4.31 चन्द्रआदित्यौ यदि स्वप्ने खण्डौ भिन्नौ च पश्यति।
4.31 पतितौ पतमानौ वा चक्षुस् तस्य विनश्यति॥
4.32 काषायप्रावृतां मुण्डां नारीं मलिनवाससं।
4.32 नीलरक्तअम्बरां दृष्ट्वा; आयासम् अधिगच्छति॥
4.33 त्रपुसीसे; अयस्ताम्रलोहरजतम् अञ्जनं।(प्.157)
4.33 लब्ध्वा तु पुरुषः स्वप्ने धननाशं समर्च्छति॥
4.34 गायन्ती वा हसन्ती वा नृत्यन्ती वा विबुध्यते।
4.34 वादित्रवाद्यमानैर् वा; आयासं तत्र निर्दिशेत्॥
4.35 कर्दमे यदि वा पङ्के सिकतास्ववसीदति।
4.35 तत्रस्थो वा विबुध्येत व्याधिं समधिगच्छति॥
4.36 अष्टापदैर् अथान्यैर् वा क्रीडेज् जयपराजये।
4.36 क्रीडेद् अकुशलाङ्कैर् वा स्वप्ने दृष्ट्वा ध्रुवं कलिः॥
4.37 आसने शयने यने वास्त्रे साभरणे गृहे।
4.37 नष्टे भ्रष्टे विशीर्णे वा; आयासम् अधिगच्छति॥
4.38 सुरामैरेयपानानि शार्करम् आसवं मधु।
4.38 पिवते पुरुषः स्वप्ने; आयासम् अधिगच्छति॥
4.39 प्रसन्नेऽम्भसि चआदर्शे छायां पश्यति नात्मनः।
4.39 उत्पद्यते ध्रुवं तस्य स्कन्धन्यासो न संशयः॥
4.40 अभीक्ष्णं वर्षते देवो जलं पांशुम् अथअपि वा।
4.40 अङ्गारं वाअपि वर्षेत मरणं तत्र निर्दिशेत्॥
4.41 जनघातं विजानीयात् तत्र देशे महाभयं।
4.41 रज्जु जालेन वा स्वप्ने परचक्राद् विनिर्दिशेत्॥
4.42 उदकेन समन्ताद् वै नगरं परिवार्यते।
4.42 जालेनान्येन वा स्वप्ने परचक्रउद्गमो भवेत्॥
4.43 तैलकर्दमलिप्तअङ्गो रक्तकण्ठगुणो नरः।
4.43 गायते हसते चएव प्रहारं तस्य निर्दिशेत्॥
4.44 यं कृष्णवसना नारी; आर्द्रा वा मलिनाथ वा।
4.44 परिष्वजेत् नरं स्वप्ने बन्धनं तस्य निर्दिशेत्॥
4.45 कृष्णसर्पो यदि स्वप्ने ह्य् अभिरोहति यं नरं।
4.45 गात्राणि वेष्टयेद् वाअपि बन्धनं तस्य निर्दिशेत्॥
4.46 लताभिः स्थाणुवृन्दैर् वा यन्त्रै वा परिवार्यते।(प्.158)
4.46 स्वप्नअन्ते पुरुषो यस् तु बन्धनं तस्य निर्दिशेत्॥
4.47 यन्त्राणि यदि सर्वाणि वागुराबन्धनानि वा।
4.47 यस्य छिद्येरन् स्वप्नअन्ते बन्धनात् स विमुच्यते॥
4.48 विषमाणि च निम्नानि पर्वतान् नगराणि च।
4.48 यस् तु पश्यति स्वप्नअन्ते क्षिप्रं क्लेशाद् विमुच्यते॥
4.49 पूतना वा पिशाचा वा दुश्चला मलिनाअथ वा।
4.49 एवंरूपाणि रूपाणि दृष्ट्वा स्वप्ने ध्रुवं कलिः॥
4.50 सुस्नातं च सुवेशं च सुगन्धं शुक्लवाससं।
4.50 पुरुषं वाअथ नारीं वा दृष्ट्वा स्वप्ने महत्सुखं॥
4.51 तृणं वृक्षम अथो काष्ठं विरूढं यत्र दृश्यते।
4.51 गृहे वा यदि वा क्षेत्रे क्षिप्रं द्रव्यक्षयो भवेत्॥
4.52 भद्रासने वाश्भ्यासीनो शयने वा सुसंस्कृते।
4.52 नरो वा लभते नारीं नारी वा लभते नरं॥
4.53 नरः शुक्लम् अथो वस्त्रं शुक्लगन्धअनुलेपितं।
4.53 स्वप्नअन्ते यस् तु पश्येत स्त्रीलाभं तस्य निर्दिशेत्॥
4.54 यस् तु ह्य् अन्नानि पश्येत भूषणं निगडैस् तथा।
4.54 नरस् तु लभते भार्यां नारी वा लभते पतिं॥
4.55 मेखलां कर्णिकां मालां स्त्रीणाम् आभरणानि च।
4.55 लब्ध्वा नरो लभेद् भार्यां नारी च लभते पतिं॥
4.56 कुञ्जरं वृषभं नागं चन्द्रआदित्यौ सतारकौ।
4.56 अभिवदेत या नारी पतिं सा लभतेऽचिरात्॥
4.57 एषाम् अन्यतमः कुषौ प्रविशेच् च यदि स्त्रियाः।
4.57 सा काले सर्वपूर्णअङ्गं श्रीमत्पुत्रं प्रसूयते॥
4.58 फलानि च समग्राणि वनानि हरितानि च॥
4.58 स्वप्नअन्ते लभते नारी श्रीमत्पुत्रं प्रसूयते॥
4.59 उत्पलं कुमुदं पद्मं पुण्डरीकं सकुड्मलं।(प्.159)
4.59 लब्धा नारी तु स्वप्नअन्ते श्रीमत्पुत्रं प्रसूयते॥
4.60 उपायनसूत्रयोर् अन्तः सज्जं तत्र तु पिण्डकं।
4.60 स्वप्ने या लभते नारी साअपि पुत्रं प्रसूयते।
4.60 यमं तु भाजनं चअपि यमं तु सा प्रसूयते॥
4.61 म्लायन्तीम् अथ ग्रीष्मान् ते तरुणीम् आत्मिकाम् अपि।
4.61 शुष्कां दृष्ट्वा तथा स्वप्ने स्वपक्षमरणं भवेत्॥
4.62 बाहवो यस्य वर्धन्ते चक्षुर् अङ्गुलयोऽपि वा।
4.62 ज्ञातयो तस्य वर्धन्ते शत्रुणां मरणं भवेत्॥
4.63 बध्यन्ते बाहवो यस्य चक्षुश् च व्याकुलं भवेत्।
4.63 बाहुर् वा प्रपतेद् यस्य स्वपक्षमरनं भवेत्॥
4.64 देवो वा यदि वा प्रेतो नार्या वस्त्रं फलानि वा।
4.64 स्वप्ने प्रयच्छते यस्याः पुत्रस् तस्याः प्रजायते॥
4.65 अपकृष्टो रुदन्यो वा नग्नोऽथ मलिनः कृशः।
4.65 क्रोधं व (लचुन) विनिर्दिशेत्॥
4.66 चर्म यन्त्रं गणितं वा कीलं वाअथ किलाटकं।
4.66 स्वप्ने लब्ध्वा च प्राप्नु[जानी]याद् ध्रुवं वस्त्रआगमो भवेत्॥
4.67 अमानुषोऽथ राजा वा देवः प्रेतोऽथ ब्राह्मणः।
4.67 स्वप्ने यथा ते जल्पन्ति स तथाअर्थो भविष्यति॥
4.68 (लचुन) पूर्वविचिन्तितं।
4.68 यच् चअनुस्मरते दृष्ट्वा यच् चअपि बहु पश्यति॥
4.69 अभ्युत्थितो यथा मार्गे स्वप्नअन्ते प्रतिबुध्यते।
4.69 विषमं वा तथाअध्वानं छिद्रं वा प्रतिपद्यते॥
4.70 अग्निं प्रज्वलितं तप्तं शमित्वा तु प्रशस्यते।(प्.160)
4.70 गृहाणां करणं शस्तं भेदनं न प्रशस्यते॥
4.71 निर्मलं गगनं शस्तं समेघं न प्रशस्यते॥
4.71 प्रसन्नम् उदकं शस्तं कलुषं न प्रशस्यते।
4.72 अध्वानं गमनं शस्तं न क्वचित् संनिवर्तनं।
4.72 सुवर्णदर्शनं शस्तं धारणं न प्रशस्यते॥
4.73 मांसस्य दर्शनं साधु भक्षणं न प्रशस्यते।
4.73 मद्यस्य दर्शनं शस्तं पानं तु न प्रशस्यते॥
4.74 थिवी हरिता शस्ता विवर्णा न प्रशस्यते।
4.74 यानस्यआरोहणं शस्तं पतनं न प्रशस्यते॥
4.75 स्वप्नेषु रुदितं शस्तं हसितं न प्रशस्यते।
4.75 प्रच्छन्नदर्शनं शस्तं नग्नं नैव प्रशस्यते॥
4.76 माल्यस्य दर्शनं शस्तं धारणं न प्रशस्यते।
4.76 गात्रं विकर्तितं साधु प्रोक्षितं न प्रशस्यते॥
4.77 मृदुः प्रशस्यते वातो नअतिवातः प्रशस्यते।
4.77 व्याधितो मलिनः शस्तो भूषितो न प्रशस्यते।
4.77 पर्वतआरोहणं शस्तं न तु तत्रअवतारणं॥
4.78 धूम्रा घना दुन्दुभिशङ्खशब्दो वातोऽभ्रवृष्टिश् च तथा समन्तात्।
4.78 सर्वस्थिराणां च चलश् च यः स्याद् ये चअन्तरे दोषकृता विकाराः॥
4.79 पूर्वेषु रूपेषु यथावद् इष्टा राजर्षयो देवगणाश् च सर्वे।
4.79 यद् ब्राह्मणगात्रविकर्तनं च; एतानि सर्वाण्य् अपि शोभनानि॥
4.80 यत् पूर्वरूपेषु भवेत् प्रशस्तं दुःस्वप्नम् एतानि शमं नयन्ति।
4.80 गावः प्रदानं द्विजपूजनं च दुःस्वप्नम् एतेन परिजितं स्यात्॥
4.81 देवं च यं भक्तिगतो मनुष्यस् तं तु परांश् चअर्चयितुं यतेत।(प्.161)
4.81 स्वप्नं तु दृष्ट्वा प्रथमे प्रदोषे संवत्सरअन्तेऽस्य विपाकम् आहुः॥
4.82 षण्मासिकं यच् च भवेद् द्वितीये षट्पाक्षिकं यत् तु भवेत् तृतीये।
4.82 अध्यर्धमासे तरम् एव यत् स्यात् फलेच् चतुर्थे रजनीप्रभाते॥
4.83 द्विजोत्तमे वा तिलपात्रदानं शान्तिक्रियाः स्वस्त्ययनप्रयोगाः।
4.83 पूजा गुरूणां परिमिष्टम् अन्नं दुःस्वप्नम् एतानि विनाशयन्ति॥
4.84 अयं भोः पुष्करसारिन् स्वप्नअध्यायनामअध्यायः। अथ खलु भोः पुष्करसारिन्न् अपरम् अपि स्वप्नअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।

5 अपरः स्वप्नअध्यायः

5.1 शुभअशुभानां स्वप्नानां यत् फलं समुदाहृतं।
5.1 निमित्तं यादृशं यस्य शृणु वक्ष्यामि तत्वतः॥
5.2 जाग्रतो यदि वा त्रस्तो दिवा स्वप्नानि पश्यति।
5.2 न तु भयं भवेत् तस्य जानीयाद् एव बुद्धिमान्॥
5.3 यस्य तु यो भवेच् छत्रुर् यस्य विधेयम् इच्छति।
5.3 स्वप्ने तु कलहं दृष्ट्वा क्षिप्रं प्रीतिर् भविष्यति॥
5.4 रजन्यां पुरिमे यामे योऽद्राक्षीत् सुखदुःखदं।
5.4 अध्वानं चिरकालेन तथा ह्य् एष निवर्तते॥
5.5 मध्यमे भवते नैव क्षिप्रं भवति पश्चिमे।
5.5 वैवार्गं त्वरितं दृष्ट्वा स्त्रीलाभम् अभिनिर्दिशेत्॥
5.6 दृष्ट्वा जलचरान् मत्स्यान् एवं जानीत बुद्धिमान्।
5.6 यत् किञ्चिद् आरभिष्यामि क्षिप्रम् एव भविष्यति॥
5.7 चम्पायां धृषणं हस्ते धृषेत् स्वप्नअन्तरेषु वा।
5.7 प्रतिबुद्धो विजानीयाद् वर्णम् एवं भविष्यति॥
5.8 सर्वाणि खलु पानानि मधुराणि सुखानि च।
5.8 यस् तु पिबति स्वप्नअन्ते स च लाभैः प्रयुज्यते॥
5.9 श्वशृगालैर् भक्ष्यतेऽत्र स्वप्ने संपरिवार्यते।(प्.162)
5.9 प्रतिबुद्धस् तु जानीयात् शत्रुर् एव प्रमूर्च्छति॥
5.10 उपरि काका गृध्राश् च धावन्त्य् उपरि यान्ति च।
5.10 प्रतिबद्धो विजानीयाच् छत्रुर् मा वधयिष्यति॥
5.11 यस्य परगृहश्वानो द्वारे मूत्रं प्रकुर्वते।
5.11 प्रतिबुद्धो विजानीयाद् भार्या मे जारम् इच्छति॥
5.12 एकश् च धरणौ पादो द्वितीयः शिरसि स्थितः।
5.12 प्रतिबुद्धो विजानीयाद् राज्यलाभो भविष्यति॥
5.13 समुद्रं यदि पश्येद् वा पातुम् इच्छति तज्जलं।
5.13 प्रतिबुद्धो विजानीयाद् राज्यलाभो भविष्यति॥
5.14 वृक्षं पर्वतम् आरुह्य नागं च तुरगं तथा।
5.14 प्रतिबुद्धो विजानीयाद् राज्यलाभो भविष्यति॥
5.15 यस् तु स्वप्नअन्तरे पश्येत् पितॄन् यान् इह चअन्यथा।
5.15 तथा माता पिता चएव तस्य जीवन्ति ते चिरं॥
5.16 यस् तु स्वप्नअन्तरे पश्येत् केशश्मश्रूविकर्तितं।
5.16 प्रतिबुद्धो विजानीयाद् अर्थसिद्धिर् भविष्यति॥
5.17 आननं चउदके दृष्ट्वा मध्येऽग्नौ च विधावितं।
5.17 प्रतिबुद्धो विजानीयाद् कुलवृद्धिर् भविष्यति॥
5.18 धावनं लङ्घनं चएव ग्रामाणां परिवर्तनं।
5.18 प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
5.19 चौराणाम् अपि सामग्रीं स्वप्नअन्ते यस् तु पश्यति।
5.19 प्रतिबुद्धो विजानीयाद् आत्मानं शातितम् इति॥
5.20 कृष्णसर्पगृहीतं तु स्वप्नअन्ते यस् तु पश्यति।
5.20 प्रतिबुद्धो विजानीयाच् छत्रुपीडा भविष्यति॥
5.21 कटकान् कर्णिकाश् चएव हंसकेयूरकुण्डलं।(प्.163)
5.21 यस् तु चआभरणं पश्येद् बन्धुवर्गो भविष्यति॥
5.22 कुड्ये च गृहप्राकारे धावतीह परस्परं।
5.22 नाविके धनसंयोगे; अंगते क्षणयं खजः॥
5.23 यस् तु स्वप्नअन्तरे पश्येच् चआत्मानम् अग्नितापितं।
5.23 प्रतिबुद्धो विजानीयाज् ज्वरं क्षिप्रं भविष्यति॥
5.24 राजानं कुपितं दृष्ट्वा; आत्मानं मलिनीकृतं।
5.24 प्रतिबुद्धो विजानीयात् कुटुम्बं तस्य नश्यति॥
5.25 काष्ठभारं तृणं चएव बहुभारम् अभीक्ष्णशः।
5.25 आत्मनः शिरसो दृष्ट्वा गुरुव्याधिर् भविष्यति॥
5.26 यस्तु बानरयुक्तेन गच्छते पुर् इमां दिशं।
5.26 प्रतिबुद्धो विजानीयाद् रात्रिर् एषा ह्य् अपश्चिमा॥
5.27 चन्द्रसूर्यौ च संगृह्य पाणिना परिमार्जति॥
5.27 प्रतिबुद्धो विजानीयाद् आर्यधर्मागमो हि सः॥
5.28 सुमनां वार्षिकं [कीं] चएव कुमुदान्य् उत्पलानि च।
5.28 यस्तु पश्यति स्वप्नअन्ते दक्षिणीयसमागमः॥
5.29 ब्राह्मणं श्रमणं दृष्ट्वा क्षपणं सुरनायकं।
5.29 प्रतिबुद्धो विजानीयाद् यक्षा मे ह्य् अनुकम्पकाः॥
5.30 रुधिरेण विल्लिप्तस्य स्नात्वा चैवआत्मलोहितैः।
5.30 प्रतिबुद्धो विजानीयाद् ऐश्वर्याधिसमागमः॥
5.31 मुद्गमाषयवांश् चएव धान्यं ज्वलनदर्शनं।
5.31 यस् तु स्वप्नअन्तरे पश्येत् सुभिक्षं तत्र निर्दिशेत्॥
5.32 सुवर्णं च तथा रूप्यं मुक्ताहारं तथाइव च।
5.32 यस् तु स्वप्नअन्तरे पश्यन् निधिं तत्र विनिर्दिशेत्॥
5.33 बन्धनं बहु दृष्ट्वा तु छेदनं कुट्टनं तथा।
5.33 प्रतिबुद्धो विजानीयाद् अर्थसिद्धिर् भविष्यति॥
5.34 अयं भोः पुष्करसारिन्न् अपरः स्वप्नअध्यायः।
5.35 अथ खलु भोः पुष्करसारिन् मासपरीक्षानामअध्यायं व्याख्यास्यामि। तच् छूयतां। कथयतु भगवांस् त्रिशङ्कुः॥(E)35

6 मासपरीक्षा (प्.164)
6.1 यदि फाल्गुने मासे निर्घोष उपरि भवेत् मनुष्याणां मरणं चोदयति। नवचन्द्रो लोहितआभासो दृश्यते। सर्वसस्यअनुत्पत्तिं चोदयति। यदि देवो गर्जति प्रथमं महासस्यानि भवन्ति। पश्चिमसस्यं न भवेत्। कलहं चोदयति।
6.2 यदि चैत्रे मासे देवो गर्जति तदा सर्वसस्यसमुत्पत्तिं चोदयति। यदि चन्द्रग्रहो भवति महान् सन्निपातो भवति। शून्यानि ग्रामक्षेत्राणि भविष्यन्ति। यदि नीहारं भूमिं छादयति सुभिक्षं चोदयति।
6.3 यदि वैशाखे मासे देवो गर्जति सुभिक्षं चोदयति। यदि पूर्वे पश्चिमे शङ्खे चन्द्रग्रहो भवति क्षेमं चोदयति। यदि चउल्कापातो भवति यस्मिंश् च जनपदे निपतति तत्र देशे प्रधानपुरुषस्य विनाशो भवति। यदि भूमिचालो भवति सुभिक्षं चोदयति।
6.4 यदि जेय्ष्ठे मासे देवो गर्जति रोगं चोदयति। यदि सूर्यग्रहो भवति मनुष्याणां विनाशं चोदयति। पूर्वे पश्चिमे वा शङ्खे यदि चन्द्रस्य सूर्यस्य किञ्चिन् निमित्तं लक्ष्यते तदा क्षेमं चोदयति। यदि मध्यरात्रौ चन्द्रग्रहो भवति मनुष्याणाम् अन्योन्यघातं चोदयति। यदि चउपरि निर्घोषो भवति अध्यक्षपुरुषस्य पीडां चोदयति। परचक्रागमं चेति।
6.5 आषाढे मासे यदि सूर्यग्रहो रुचिरआभासो भवति सुभिक्षं चोदयति। यदि चन्द्रग्रहो भवति रोगं चोदयति। यदि विद्युन् निश्चरति कल्पाणं चोदयति। यदि नीहारं भूमिं छादयति।
6.6 श्रावणमासे यदि सूर्यग्रहो भवति राज्यं परिवर्तते। यदि चन्द्रग्रहो भवति प्रथमे मासे दुर्भिक्षं चोदयति। शरभैः शोभनशस्यनाशो भविष्यति। यदि (प्.165) तारका यत्र देशे पतन्ति तत्र युद्धं चोदयति। यदि चअतिशयं भूमिचालो भवति रोगं चोदयति। यदि निर्घोषो भवति तत्र गृहे यो गृहस्वामी भवति तस्य विनाशं चोदयति। अत्र च मासेऽभिनवं प्रावरणं न प्रावरितव्यं। आवाहो विवाहो न कर्तव्यः। परिभूतो भवति।
6.7 यद्य् अश्वयुजे मासे देवो गर्जति मनुष्याणां विनाशनं चोदयति। यदि सूर्यउपरागो भवति महापुरुषविनाशं चोदयति। यदि पूर्वे यामे चन्द्रस्य निमित्तं दृश्यते सुभिक्षं चोदयति। यदि भूमिचालो भवति आकुलं चोदयति। परराजा देशं हनिष्यति। तत्र च मनुष्या अन्योन्यं वधयिष्यन्तिइति चोदयति।
6.8 यदि कार्त्तिके मासे देवो वर्षति महद्आकुलं चोदयति। प्राणकाश् च धान्यं खादिष्यन्ति। यद्य् एकअन्तरूपं वातो वाति तत्र च मनुष्या जलेन विभ्रमिष्यन्ति। महाआत्मनः पुरुषस्य विनाशं चोदयति। यदि पूर्वे यामे उत्पातो भवति महावर्षं भवति। महापुरुषस्य च मरणं भवति। यदि निर्घोषो भवति रोगं चोदयति।
6.9 यदि मार्गशीर्षे मासि देवो गर्जति शस्यविनाशो भवति। अन्यश् च तत्र स्वामी भवति। यदि चआकाशे निर्घोषो भवति यत् पूर्वभागीया मनुष्यास् तेषाम् आमयं चोदयति। यदि भूमिचालो भवति यस् तत्र जनपदे प्रधानपुरुषो स वधान् मोक्ष्यति।
6.10 यदि पौषे मासे देवो गर्जति प्रथमे यामे जनपदनाशो भवति। द्वितीये महाआत्मनः पुरुषस्य बन्धनं चोदयति। प्रथमे यामे च यदि चन्द्रउपरागो भवति लोहितवर्णश् च दृश्यते उदकआगमं चोदयति। महाआत्ममनुष्यं चोदयति। यदि सूर्यग्रहो भवति शुद्धपुरुषणां रणं। यदि तारकाः पतन्त्यो विदृश्यन्ते तत्र जनपदे आकुलं चोदयति। यत्य् आकाशे निर्घोषो भवति मनुष्याणां मरणं चोदयति। यदि द्वितीये निर्घोषो भवति अम्नुष्याश् चौरैर् हन्यन्ते। यद्य् अत्रैव मासे तारका उत्सृष्टा न चन्द्रो दृस्यते सस्यं संचोदयति। यदि भूमिचालो भवति महामनुष्यस्य मरणं भवति। अत्रैव मासे देवस्थानं कर्तव्यं। वृक्षा रोपयितव्याः। सूलवास्तु प्रतिष्ठापयितव्यं।
6.11 अयं भोः पुष्करसारिन् मासपरीक्षानामअध्यायः।(प्.166)
6.12 अथ खलु भोः पुष्करसारिन् खञ्जरीटकज्ञानंनामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः॥म्छेच्केद्

7 खञ्जरीटकज्ञानं

7.1 खञ्जरीटकशास्त्रं वै पर्वते गन्धमादने।
7.1 कुचरैर् दृश्यते सौम्यकुचरस्य महाभयं॥
7.2 यानि तानि निमित्तानि दर्शयेत् खञ्जरीटकः।
7.2 प्रचरतो भवेद् दृष्ट्वा पञ्चउत्तरपदो द्विजः॥
7.3 तत्र सर्वे प्रवर्तेयुर् यत्र येषु भवेद् भवेत्।
7.3 शाद्वले बहुचेलत्वं गोमयेषु प्रबन्धता॥
7.4 कञ्चारे बहुचेलत्वं कर्दमे बहुभक्षता।
7.4 कृकरे स्वल्पचेलत्वं पुरीषे तु दृशं श्रवः॥
7.5 भस्मे विवादम् अफलं वालुकायां तु संभ्रमः।
7.5 देवद्वारे तु सम्मानं पद्मेषु बहुवित्तता।
7.5 फलेऽर्थअनुगुणं प्रोक्तं पुष्पेषु प्रियसंअमः॥
7.6 भयं प्राकारशृङ्गेषु कटकेष्व् अरिदर्शनं।
7.6 पक्षया चरते व्याधिः पतितो मृत्युम् आदिशेत्॥
7.7 सुगन्धतैलभूतानि मेथुने निधिदर्शनं।
7.7 वृक्षअग्रे विद्यते पानं गृहेष्व् अथ … लसः॥
7.8 देशभङ्गः प्रवादे च बन्धनं विग्रहीकृते।
7.8 अमृतं च स्थितं दृष्ट्वा; ओदनं नअत्र संशयः॥
7.9 गवां ष्ठे ध्रुवं सिद्धिर् अश्वष्ठे ध्रुवं जयः।
7.9 अविकानाम् अजानां च ष्ठे सर्वत्र शस्यते॥
7.10 उष्ट्रष्ठे घ्रुवं क्लेशः श्वानष्ठे च विद्रवः।(प्.167)
7.10 ष्ठे च गर्दभस्यइह मरणं नअत्र संशयः॥
7.11 कीले तु मरणं विद्याद् यूपअग्रे च न संशयः।
7.11 कुम्भस्थाने श्मशाने वा मृतो वा यत्र दृश्यते॥
7.12 अन्तरीक्षे प्रडीनं तु; अफलं तु विनिर्दिशेत्।
7.12 दृष्ट्वा समागतं वासं प्रहृष्टं खञ्जरीटकं।
7.12 यथास्थानंअं यथावर्णं मनुष्याणां विनिर्दिशेत्॥
7.13 विषमे स्वल्पकक्षेषु प्रसक्तः कलहो भवेत्।
7.13 समेषु समके क्षेत्रे समान् वर्णान् विनिर्दिशेत्।
7.13 नद्यां तु शैलवाहिन्यां प्रवासम् अभिनिर्दिशेत्॥
7.14 काष्ठेषु नातिका चिन्ता तथाअस्थिषु धनक्षयः।
7.14 यां दिशं समुदागच्छत् पञ्चउत्तरपदः खगः।
7.14 तां दिशं गमनं विद्याद् यथा तस्य तथा पुनः॥
7.15 कीटा वाअथ पतङ्गा वा भयं यद् इह दृश्यते।
7.15 प्रचुराअपि यदा ज्ञेया नरस्यअस्थीनि निर्दिशेत्॥
7.16 अपां समीपे गजमस्तके वा सूर्यउदये ब्राह्मणसन्निधौ वा।
7.16 मुख्य प्रकाशेऽप्य् अहिमस्तके वा यः पश्यते खञ्जनकं स धन्यः॥
7.17 मातङ्गराजो मतिमांस् त्रिशङ्कुः प्रोवाच तत्त्वं कञ्जनं च शास्त्रं।
7.17 स्निग्धे सरुक्षे विषमे समे च आदेश यद् दोषगुणैर् यथोक्तैः।
7.17 तमादिशेत् तत्र समीक्ष्य विद्वान् शुभअशुभं तत्फलम् आदिशेच् च॥
7.18 अयं भोः पुष्करसारिन् खञ्जरीटकज्ञानं नामअध्यायः।
7.19 अथ खलु भोः पुष्करसारिन् शिवारुतं नामअध्यायंव्याख्यास्यामि। तच् छ्रूयतां। अथ किं। कथयतु भगवान् त्रिशङ्कुः।

8.शिवारुतं (प्.168)

8.1 नमः सर्वेषाम् आर्याणां। नमः सर्वेषां सत्यवादिनां। तेषां सर्वेषां तपसा वीर्येण च इमं शिवारुतं नामअध्यायं व्याखामि।
8.2 इत्य् आह भगवांस् त्रिशङ्कुः। शाण्डिल्यम् इदम् अब्रवीत्। यादृशं च यथा वाशेत् तेषां सर्वेषां वाशान् शृणोथ मे। पूर्वस्यां दिशि यदि वाशेत् शिवा पूर्वमुखं स्थित्वा त्रीन् वारान् वाशेद् वृद्धिं निवेदयति। चतुरो वारान् यदि वाशेद् अत्र मङ्गलं निवेदयति। पञ्च वारान् वाशेद् वर्षां निवेदयति। षड्वारान् वाशेत् परचक्रभयं निवेदयति। सप्तवारान् वाशेद् बन्धनं निवेदयति। अष्ट वारान् वाशेत् प्रियसमागमं निवेदयति। अभीक्ष्णं वाशेत् परचक्रभयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.3 दक्षिणायां दक्षिणमुखं स्थित्वा त्रिवारान् वाशेद् `अतृ अतृ’ कुरुते मरणं तत्र निवेदयति। चतुरो वारान् वाशति दक्षिणमुखं स्थित्वा दक्षिणाया एव दिशायाः प्रियसमागमं निवेदयति। अर्थलाभं च निवेदयति। पञ्चवारान् वाशेद् अर्थं निवेदयति। षड्वारान् वाशेत् सिद्धिं निवेदयति। सप्तवारान् वाशेद् विवादकलहं निवेदयति। अष्टवारान् वाशेद् भयं निवेदयति। अभीक्ष्णं वाशेद् आकुलं निवेदयति। एत्य् आह भगवांस् त्रिशङ्कुः।
8.4 पश्चिमायां पश्चिमअभिमुखं स्थित्वा शिवा त्रिवारान् वाशति मरणं निवेदयति। चतुर्वारान् वाशति बन्धनं निवेदयति। पञ्चवारान् वाशति वर्षं निवेदयति। षड्वारान् वाशति अन्नपानं निवेदयति। सप्तवारान् वाशति मैथुनं निवेदयति। अष्टवारान् वाशति अर्थसिद्धिं निवेदयति। अभीक्ष्णं वाशति महामेघं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.5 उत्तरस्यां दिशि उत्तरअभिमुखं स्थित्वा त्रिवारान् वाशति पुरुषस्य प्रस्थितस्य निरर्थकं गमनं भवति। चतुर्वारान् वाशति राजप्रतिभयं निवेदयति। पञ्चवारान् शाशति विवादं निवेदयति। षड्वारान् वाशति कुशलं निवेदयति। सप्तवारान् वाशति वर्षां निवेदयति। अष्टवारान् वाशति राजकुलदण्डं निवेदयति। (प्.169)अभीक्ष्णं वाशति यक्षराक्षसपिशाचकुम्भाण्डभयं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।
8.6 दिशि विदिशि चएव गिरिप्राग्भारेषु शिखरेषु निर्देशं तं च शृणोथ मे। अमूं तुष्येत् पिपासार्ता विद्यासिद्ध्यै तथाएव च।

8.7 विद्यालम्भं धनलम्भं निर्दिशेच् च विचक्षणः।

8.7 तीर्थआकारवृक्षमूले वाशती यदि दृश्यते॥

8.8 सर्वत्र सिद्धिं निर्दिशेत्। न च शृगालभये शिवा (वा) मे समेति अप्रमत्तेन स्मृतिमता पूजयितव्या शिवा नित्यं। गन्धपुष्पउपहारेण शुश्रूषा कर्तव्या। एवम् अर्चायमाना सर्वसिद्धिं निवेदयिष्यति। एवंसर्वेऽर्थास् तस्य सिध्यन्ति त्रिशङ्कोर् वचनं यथा । क्रौष्ट्रिको यदि वाशति अर्थलम्भं निवेदयति। अधोमुखो यदि वाशति निधानं तत्र निवेदयति। ऊर्ध्वमुखो यदि वाशति वर्षां तत्र निवेदयति। द्विपथे यदि वाशति पूर्वमुखं स्थित्वा अर्थलाभं निवेदयति। दक्षिणअभिमुखो यदि वाशति यथा प्रियसमागमनं निवेदयति। द्विपथे पश्चिमअभिमुखो यदि वाशति कलहं विवादं विग्रहं मरणं च निवेदयति। कूपकण्ठके यदि वाशति अर्थं तत्र निवेदयति। शाद्वले यदि वाशति अर्थसिद्धिं निवेदयति। अतिमृदुकं यदि वाशति व्याधिकं तत्र निवेदयति। गीतहारेण यदि वाशति अर्थम् अनर्थं च निवेदयति। त्रिभिर् वारैर् अर्थं चतुर्भिर् अनर्थं पञ्चभिः प्रियसमागमं षड्भिर् भोजनं सप्तभिर् भयम् अष्टभिर् विग्रहं विवादं च। इत्य् आह भगवांस् त्रिसङ्कुः।

8.9 अथ भूयः प्रवक्ष्यामि अनुपूर्वं शृणोथ मे । नानाआहारे यदि वाशति मार्गे संस्थितस्यअपि सर्वं वक्ष्यामि तं शृणोथ मे। संप्रस्थितस्य पुरुषस्य शिवा वाशति वा या पूर्वमुखं स्थित्वा क्षिप्रगमनम् अर्थसिद्धिं निवेदयति। अथ दक्षिणमुखं वाशति या अर्थसिद्धिं निवेदयति। पञ्चान् मुखं वाशति भयं निवेदयति। अथउत्तरमुखं वाशति अर्थलाभं निवेदयति। अथ संप्रस्थितस्य वाशति या पुरतः स्थित्वा उपक्लेशं निवेदयति। अथ दक्षिणे वाशति यदि दक्षिणमुखा एव दिशः कर्मसिद्धिं च निवेदयति। पश्चिमतो यदि वाशति चौरतोऽहितम् अस्य दुःखदौर्मनस्यं निवेदयति। अथ मार्गे व्रजतो दक्षिणतो वाशति महाव्याधिम् अनर्थं चौरा मुषन्ति तन् निवेदयति। ग्लानस्य यदि वाशति दक्षिणमुखं,न स चिकित्सितुं शक्यो मृत्युदूतेन चोदितः। ग्लानस्य यदि वाशति उत्तरमुखं स्थित्वा आरोग्यधनलाभं च निवेदयति। अथ मूर्ध्ना वाशति या उपक्रेशं निवेदयति। अथ पश्चिममुखं स्थित्वा या अन्योन्यं व्याहरते यमशासनं [निवेदयति]। नानाआहारे यदि वाशति, या संक्षोभं निवेदयति। इत्य् आह भगवांस् त्रिशङ्कुः।

8.10 शिवा पुरतः पुरुषस्य मार्गप्रयातस्य यदि वाशति, या अग्रतः क्षेममार्गं विज्ञापयति। अर्थसिद्धिं निवेदयति। मार्गं व्रजतोऽस्य शिवा वामेनआगत्य गच्छते दक्षिणमुखं क्षेममार्गं विजानीयाद् अर्थसिद्धिं च निवेदयति। मार्गे व्रजतः पुरुषस्य शिवा वामेनआगत्य पुरता वाशति या तथा सभयं मार्गं विज्ञापयति। निवर्तेत विचक्षणः। दक्षिणां दिशं वामं गत्वा वामतः परिवर्तेत न तन् मार्गेण गन्तव्यं त्रिशङ्कुवचनं यथा । पुरतः शिवा गत्वा अग्रतश् च निषीदति सभयं मार्गं विजानीयात्। निवर्तेत विचक्षणः। शिवा पुरत आगत्य वामेन परिवर्तते भयम् एतीहऽ तेनअपि भयं जानीयाद् विचक्षणः। सेनायाम् आवाहितायां शिवा वशति पश्चिमं निवर्तनं निवेदयति। यदि गच्छेत् पराजयः। सेना न गच्छेत्। सेनायां व्रजमानायां शिवा आगच्छेद् अग्रतः सेनाजयं निवेदयति। परचक्रपराजयं च निवेदयति। सार्थस्य व्रजमानस्य शिवा गच्छत्य् अग्रतः क्षेममार्गं निवेदयति। अर्थसिद्धिं तथाएव च। पुरुषस्य पथि व्रजतो वामतो वाशति मार्गं निवेदयति।तन्मार्गेण [हि} गन्तव्यं त्रिशङ्कुवचनं यथा।

8.11 ग्रामस्य नगरस्यअपि चैत्यस्थाने तथाएव च। पूर्वेणउत्तरेणअपि शिवा वाशति क्षेमं तत्र निवेदयति। दक्षिणे पश्चिमे यदि वाशति या भयं तत्र निवेदयति। 8.12 वामतो न प्रशंसन्ति तथाएव विदिशासु च। 8.12 अतिदीर्घातिरूक्षा वा काले मासान्तिके तथा। 8.13 अधरां तु भयं वक्ष्ये त्रिशङ्कुवचनं यथा॥ 8.13 मधुस्वरांशिवां ज्ञात्वा काले वेले उपस्थिते।(प्.171) 8.14 क्षेमं चैवअर्थसिद्धिश् च चिन्तितव्यं विचक्षणैः॥ 8.15 व्याधिर् उपद्रवाश् च,सव तु प्रशमं यान्ति त्रिशङ्कुवचनं यथा । शिवारुतस्यउपचारो दिग्विदिशासु निमित्ता ग्रहीतव्याः। यः शिवाया दिवसो भवति स दिवसो ज्ञातव्यः। पुष्पगन्धमाल्यउपहारस् तद्दिवसे उपपादयितव्यः। नित्यं देवतागुरुकेण भवितव्यं। दैव्यागुरुकेण भवितव्यं। देव्यै शुश्रूषा कर्तव्या। सर्वार्थान् सम्पादयिष्यति। सर्वकार्याणि निवेदयति।

8.16 यत् किञ्चित् कार्यम् आरभिष्यति तत्सर्वं निवेदयति। देव्यै सर्ज्जरसो गुग्गुलु च धूपयितव्यं। पुष्पबलिश् च यथाकाले दापयितव्यः। इत्य् आह भगवांस् त्रिशङ्कुः।
8.17 शिवारुतकथानेऽत्र विद्यां वक्ष्यामि यथासत्यं भविष्यति।
8.18 नम आरण्यायै। चीरिण्यै स्वाहा सर्ज्जरसधूपं।
8.19 अयं भोः पुष्करसारिन् शिवारुतनामअध्यायः।
8.20 अथातः पुष्करसारिन् पाणिलेखानामअध्यायं व्याख्यास्यामि। तच् छ्रूयतां। अथ किं कथयतु भगवांस् त्रिशङ्कुः।

9 पाणिलेखा (प्.172)

9.1 अथातः संप्रवक्ष्यामि नराणां करसंस्थितं।
9.1 लक्षणं सुखदुःखानां जीवितं मरणं तथा॥
9.2 अङ्गुष्ठमूलम् आश्रित्य ऊर्ध्वरेखा प्रवर्तते।
9.2 तत्र जातं सुखतरं द्वितीया ज्ञानम् अन्तरे॥
9.3 तृतीया सा लेखा यत्र प्रदेशिन्या प्रवर्तते।
9.3 तत्रोक्ता हेतवः शास्त्रे समासेन चतुर्विधाः॥
9.4 अपर्वसु च पर्वाणि नक्ष्त्राणाम् उपद्रवः।
9.4 द्विनिःसृतो विशुद्धआत्मा जीवेद् वर्षशतं हि सः॥
9.5 त्रिंशत् त्रिभागेन जायीयाद् अर्धे पञ्चाशद् आयुषः।
9.5 सप्ततिस् त्र्यंशभागेषु अत्यन्तानुगते शतं॥
9.6 आउइर्;एल्जा प्रदृश्यएवं व्यन्तरायः प्रकाश्यते।
9.6 नक्षत्रसंज्ञया ज्ञेया मनुजैर् अर्थशस् तथा॥
9.7 अङ्गुष्ठउदरमार्गे तु यावत्यो यस्य राजयः।
9.7 तस्यापत्यानि जानीयात् तावन्ति नअत्र संशयः॥
9.8 दीर्घायुषं विजानीयाद् दीर्घलेखा तु या भवेत्।
9.8 ह्रस्वायुषं विजानीयाद् ध्रस्वलेखा तु या भवेत्॥
9.9 अङ्गुष्ठमूले यवको रात्रौ जन्माभिनिर्दिशेद्।
9.9 दिवा तु जन्म निर्दिष्टम् अङ्गुष्ठयवके ध्रवं॥
9.10 अव्यक्तो यवको यत्र तत्र लग्नं विनिर्दिशेत्।
9.10 लग्नं पुंसंज्ञको ज्ञेयोऽहोरात्रं विनिर्दिशेत्॥
9.11 दिवसं जन्म निर्दिशेद् रात्रौ स्त्रीसंज्ञको भवेत्।(प्.173)
9.11 रात्रिः सन्ध्या समाख्याता भागैर् अन्यैर् न संशयः।
9.11 पुंसंज्ञाद् उदयं तेषाम् अहोरात्रान्तिकं वदेत्॥
9.12 अङ्गुष्ठमूले यवके शले सौख्यं विधीयते।
9.12 अश्वाद् भद्रं विजानीयाद् अङ्गुष्ठयवकेष्व् इह॥
9.13 यवमाला च मत्स्यः स्याद् अङ्गुष्ठयवको रतौ।
9.13 बालयौवनमध्यान्ते सुखं तस्याभिनिर्दिशेत्॥
9.14 यस्य स्याद् यवकश् चअपि चअपो वा स्वस्तिकस् तथा।
9.14 तलेषु येषु दृश्यन्ते धन्यास् ते पुरुषा ह्य् अमी॥
9.15 मत्स्यो धान्यं भवेद् भोगायामिषादौ यवे धनं।
9.15 भोगसौभाग्यं जानीयान् मीनादौ नअत्र संशयः॥
9.16 पताकाभिर् ध्वजैर् वाअपि शक्तिभिस् तोमरैस् तथा।
9.16 तलस्थाइर् अङ्कुशैश् चअपि विज्ञेयः थिवीपतिः।
9.16 राजवंशप्रसूतं च राजमात्रं विनिर्दिशेत्॥
9.17 प्रेक्ष्यन्ते शाख्या पञ्च हस्ते चत्वार एव च।
9.17 क्षत्रियो वा भवेद् भोगी राजभिश् चअपि सत्कृतः॥
9.18 वैश्योऽथ क्षत्रियो वाग्मी धनधान्यं न संशयः।
9.18 शूद्रो विपुलभागी स्यात् पर्वशीलोऽथ नैष्ठिकः॥
9.19 सततम् अभिपूज्यः स्यात् सर्वेषां च प्रियंवदः।
9.19 विशीलः शीलकुञ्चो वा बहुभिर् न बहुस् तथा॥
9.20 श्यामवर्णाऽथ भिन्ना वा सा लेखा दुःखभागिनी।
9.20 क्तिलेखा यस्य दृश्यन्ते यस्य पूर्णाः करथिताः।
9.20 महाभोगो महाविद्वान् जीवेद् वर्षशतं च सः॥
9.21 अजपदं राजछत्रं शङ्खचक्रपुरस्कृतं।(प्.174)
9.21 तलेषु यस्य दृश्यन्ते तं विद्यात् थिवीपतिं॥
9.22 भगस् तु भाग्याय ध्वजैः पताकैर् हस्त्यश्वमालाङ्कुशतश् च राजा।
9.22 मत्स्यो नु पानाय यवो धनाय वेदिस् तु यज्ञाय गवां च गोष्ठः॥
9.23 अनामिकापर्व अतिक्रमेद् यदि कनिष्ठिका वर्षशतं स जीवति।
9.23 समेत्वशीतिर् वर्षाणि सप्तभिर् यथा नदीनां भरिताय निर्दिशेद्॥
9.24 शरीरवर्णप्रभवां तु लेखां सवैशिखां वर्णविहीनकां च।
9.24 समीक्ष्य नीचोत्तममध्यमानां दारिद्य्र्मध्ये चरतां विजानतां॥
9.25 अभ्यञ्जनोद्वर्तन सत्करी[षैर]ध्यक्ष चूर्णैश् च विमृज्य पाणिं।
9.25 प्रक्षाल्य चैकअन्तरघृष्टलेखाम् एकाग्रचित्तस् तु करं परीक्षेत्॥
9.26 वलयसमनराधिपं भजन्त्यः समनुगता मणिबन्धने तु तिस्रः।
9.26 द्विर् अपि च [स] भवअन्तरे महाआत्मा विप्पुलधनश्रिय आह वस्त्रलाभः॥
9.27 ददति सततम् उन्नतस् तु पाणिर् भवति चिराय तु दीर्घपीनपाणिः।
9.27 परिपतति शिराविरुद्धपाणिर् धनम् अधिगच्छति मांसगूढपाणिः॥
9.28 सुदृश[करतलैश् च]साधवस्ते कुटिलकृतैर् विनिमीलितैश् च धूर्ताः।
9.28 भवति रुधिरसन्निभः सुरक्तश् चिरम् इह पिण्डितपाणिरीश्वरः स्यात्॥
9.29 धृतरुचिरमनाः शिलारविन्दैर् ज्वलनकषाय सुवर्णपाणिरा[जि]+।
9.29 भवति बहुधनो निगूढपाणिश् चिरम् इह जीवति पानभोगभोगी॥
9.30 सुभग इह तथोष्णदीर्घपाणिर् ध्रुवम् इह शीतलपाणिकस् तु शण्ठः।
9.30 इह हि बहुधनो बलेन युक्तः सुतनु सुसञ्चितपाणिरेखको यः॥
9.31 धनम् उपनयतीह पाणिलेखा कृतजनिता जलवच् च या सुदीर्घा।(प्.175)
9.31 जलवदनुगता सुवर्णवर्णा धनम् अधिगच्छति निम्नशोन्नता या॥
9.32 धनम् उपलभते सुरक्तपाणिर् विपुलमथो च निरन्तराङ्गुलिः स्यात्।
9.32 बलिपुरुषम् अपि त्यजेद्धि वित्तं दितविवशा च विशीर्णवर्णलेखा॥
9.33 अपगतघृतवर्णपाणिलेखो भवति नरो धनवान् बलेन युक्तः।
9.33 असुभृति सदृशा भवेत् तथा भूषणवृत[रूपवती शुभा]एकभार्या॥
9.34 भवति बहुधनो धनैर् विहीनः श्रुतम् अधिगम्य विशालपाणिलेखः।
9.34 [सु]ऋजुभिर् अहिनीलनिर्मला[भिः] करतलराजि[भिरीश्वरः स धन्य]ः॥
9.35 अयं भोः पुष्करसारिन् करतललेखानाम् आध्यायः।
9.36 अथ खलु भोः पुष्करसारिन् वायसरुतं नामअध्यायं व्याखास्यामि तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः। नमोऽर्हतां। तेषां नमस्कृत्वा।

10 वायसरुतं

10.1 इदं शास्त्रं प्रवक्ष्यामि वायसानां शुभअशुभं।
10.1 जयम् पराजयं चएव लाभअलाभं तथाएव च॥
10.2 सुखदुःखं प्रियाप्रियं जीवितं मरणं तथा।
10.2 वायसानां वचःसिद्धिं प्रवक्ष्यामि यथाविधि॥
10.3 देवाः प्रवदन्ति श्रेष्ठा वायसानां नमा नमः।
10.3 आगता मानुषं लोकं वायसा बलिभोजनाः॥
10.4 प्रस्थितस्य यदाऽध्वानम् अग्रतो वायसो भवेत्।
10.4 व्याहरन् क्षीरवृक्षस्थो निर्दिशेद् अर्थसिद्धितां॥
10.5 स्वरेण परितुष्टेन फलवृक्षसमाश्रितः।
10.5 पुनर् आगमनं चएव सिद्धर् अर्थनिवेदितं॥
10.6 विवृद्धवृक्षपत्राणि मधुरं चअनुवासति।(प्.176)
10.6 असूपं निर्दिशेद् भोज्यं गुडमिश्रं तु गोरसं॥
10.7 दृष्टस् तु तुण्डपादेन आत्मनः परिमार्जति।
10.7 पायसं सर्पिषा मिश्रं तत्र विद्यान्नसंशयः॥
10.8 रूक्षं निर्घर्षते तुण्डं शिरश् च परिमार्जति।
10.8 सफलं वृक्षम् आस्थाय ध्रुवं मांसेन भोजनं॥
10.9 लोचयति व्याहरति फलवृक्षसमाश्रितः।
10.9 व्याधेन च हतं मांसं निवेदयति भोजनं॥
10.10 घोरं व्याहरते कार्यं वायसो वृक्षमाश्रितः।
10.10 कलहं संग्रामभयं तत्र विद्यान्न संशयः॥
10.11 शुष्कवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
10.11 कलहं सुमहत् कृत्वा न चअर्थं तत्र सिध्यति॥
10.12 क्षीरवृक्षे निषीदित्वा क्षामं दीनं च व्याहरेत्।
10.12 क्रमेण युगमात्रेण न च्चार्थं तत्र सिध्यति॥
10.13 शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
10.13 तत्क्षणं सन्निवेदेति तत्र चौरभयं भवेत्॥
10.14 शुष्कवृक्षे निषीदित्वा कामुकाकं प्रवाशति।
10.14 ष्ठेन दर्शयेद् भारं क्षुधापीडां च निर्दिशेत्॥
10.15 पक्षं विधूयमानो यः पश्यन् पथस्य वाशति।
10.15 न तत्र गमनं कुर्याच् चौरैः पथम् उपद्रुतं॥
10.16 रज्जुं वा फलकं वाअपि यदि कर्षति वायसः।
10.16 न तत्र गमनं श्रेयश् चौरैः पथम् उपद्रुतं॥
10.17 गोमये शुष्ककाष्ठे वा यदि वाशति वायसः।
10.17 कलहः कुवचो व्याधिर् न चअर्थं तत्र सिध्यति॥
10.18 तृणं वा यदि वा काष्ठं दर्शयेच् च यदा खगः।(प्.177)
10.18 पुरतः शुष्कपाणिस् तु तत्र चौरभयं भवेत्॥
10.19 सार्थोपरि निषीदित्वा क्षामं दीनं च व्याहरेत्।
10.19 निपतेत् सार्थमध्येऽस्मिन् चौरसैन्यं न संशयः॥
10.20 यदा प्रदक्षिणं त्रस्तं वाशन्ति विविधं खगाः।
10.20 शुष्कवृक्षे निषीदित्वा तत्र विद्यान् महाभयं॥
10.21 भीतस् त्रस्तः परीतश् च यस् तु व्याहरते खगः।
10.21 परिबाधन् दिशः सर्वास् तत्र भयम् उपस्थितं॥
10.22 गच्छन्तं समनुगच्छेत् पुरः स्थित्वा तु व्याहरेत्।
10.22 न तत्र गमनं क्कुर्यान् मार्गम् अत्र प्रशातनं॥
10.23 वास्तुमध्ये प्रतिस्थाने क्षामं दीनं च व्याहरेत्।
10.23 व्याधिं तत्र विजानीयाद् वासे वा गृहस्वामिनां॥
10.24 शकटस्य यथा शब्दं विश्रब्धं वाशति वायसः।
10.24 दूराद् अभ्यागतं ज्ञात्वा प्रसिद्धिं चअभिनिर्दिशेत्॥
10.25 गर्गरे घटके चएव स्थालिकपिठरेषु वा।
10.25 निषण्णो वाशते काकः प्रसिद्धं गमनं ध्रुवं॥
10.26 आसने शयने वाअपि स्थितो वाशति वायसः।
10.26 प्रसिद्धं गमनं ब्रूयात् प्रोषितेन समागमः॥
10.27 ब्रह्मस्थाने निषीदित्वा ध्रुवं वाशति वायसः।
10.27 अर्थलाभं विजानीयाद् धनलाभं च आकरेत्॥
10.28 ब्रह्मस्थाने निषीदित्वा क्षामं दीनं च वाशति।
10.28 सन्धिस्थाने हरेच् चौरस् तत्र वै नास्ति संशयः॥
10.29 देवतादेवतानां च देवस्यउपवनानि च।
10.29 यस्य वाचं वदेत् तस्यअर्थलाभं विनिर्दिशेत्॥
10.30 लाक्षाहरिद्रामञ्जिष्ठाहरितालमनःशिलाः।
10.30 यस्याहरेत् पुरस्तस्य स्वर्णलाभं विनिर्दिशेत्॥
10.31 पात्रं च पात्रकं चएव मृत्तिकावरभाजनं।(प्.178)
10.31 यस्य यस्य हरेत् तस्य द्रव्यलाभं विनिर्दिशेत्॥
10.32 सङ्घीभूत्वा युगमात्रं शुभं तिष्ठति वायसः।
10.32 काष्ठं वा वायसा यत्र गृहम् आरोपयन्ति च।
10.32 निगदन्त्य् अत्र विजानीयाद् याचकात् तु महाभयं॥
10.33 नीलं पीतं लोहितं च प्रतिसंहरणानि च।
10.33 निगृह्णन्ति यत्र काका व्याधिं तत्र विनिर्दिशेत्॥
10.34 ग्रामन्ते भयम् आख्याति काको वा वाशति ध्रुवं।
10.34 प्रत्येकतो वा वाशन्ति विद्यात् तत्र महाभयं॥
10.35 वायसोऽस्थि गृहीत्वा वै प्रगच्छेद् अनुदक्षिणं।
10.35 निषीदन् सफले वृक्षे स वदेन् मांसभोजनं॥
10.36 यस्य शीर्षे निषीदित्वा कर्णं कर्षति वायसः।
10.36 अभ्यन्तरे सप्तरात्रान् मरणं तस्य निर्दिशेत्॥
10.37 करके चउदके चएव स्निग्धदेशेषु वाशति।
10.37 ऊर्ध्वमुखं निरीक्षन्तु जगद्वृष्टिं विनिर्दिशेत्॥
10.38 स्वरेण परितुष्टेन तीर्थवृक्षेषु वाशति।
10.38 ऊर्ध्वमुखं तथा वक्ति वातवृष्टिं विनिर्दिशेत्॥
10.39 कायं किलकिलायन्तु स्निग्धदेशेषु वाशति।
10.39 वक्षो विध्न्वन्वायसः सद्यो वृष्टिं विनिर्दिशेत्॥
10.40 स्वरेण परितुष्टेन स्निग्धं मधुरं वाशति।
10.40 सक्षरसद्रवं भागं वाशति भोजनं भवेत्॥
10.41 प्रकारे तोरणअग्रे वा यदि वाशति वायसः।
10.41 अभीक्ष्णं घर्षते तुण्डं संग्रामं तत्र निर्दिशेत्॥
10.42 मण्डलानि वावर्तानि बहिर् वा नगरस्य च।
10.42 वैरं च विग्रहं घोरं तत्र चएव विनिर्दिशेत्॥
10.43 ग्रामे वा नगरे वाअपि कुर्वते यत्र मण्डलं।(प्.179)
10.43 ऊर्ध्वमुखं वाशन्तो वै विषण्णत्वं समुत्थितं॥
10.44 पूर्वेण चएव ग्रामस्य यदा सूयति वायसी।
10.44 अल्पोदकेनोत्प्लवन्ति वनानि नगराणि च॥
10.45 पुरस्ताद् दक्षिणे पार्श्वे यदि सूयति वायसी।
10.45 वर्षति प्रथमे मासे पश्चाद् देवो न वर्षति।
10.45 कृष्णधान्यानि वर्धन्ते माषधान्यं विनश्यति॥
10.46 दक्षिणे वृक्षशिकह्रे यदा सूयति वायसी।
10.46 मण्डूककीटकम् अक्षा चौरश् च बहुलीभवेत्॥
10.47 पश्चिमउत्तरपार्श्वे तु यदा सूयति वायसी।
10.47 मध्यमं च भवेद् वर्षं मध्यशस्यं च जायते॥
10.48 पश्चिमउत्तरपार्श्वे तु यदा सूयति वायसी।
10.48 अशनिर् निपतेत् तत्र भयं च मृगपक्षीणां॥
10.49 उत्तरे वृक्षशिखरे यदा सूयति वायसी।
10.49 पूर्वम् उप्तं विजानीयाच् छस्यं समुपजायते॥
10.50 उपरि वृक्षशिखरे यदा सूयति वायसी।
10.50 अल्पउदकं विजानीयात् स्थले बीजानि रोपयेत्॥
10.51 यदा तु मध्ये वृक्षस्य निलयं करोति वायसी।
10.51 मध्यमं वर्षते वर्षं मध्यशस्यं प्रजायते॥
10.52 स्कन्धमूले तु वृक्षस्य यदा सूयति वायसी।
10.52 अनावृष्टिर् भवेद् घोरा दुर्भिक्षं तत्र निर्दिशेत्॥
10.53 चतुरः पञ्च वा पोतान् यदा सूयति वायसी।
10.53 सुभिक्षं च भवेत् तत्र फलानाम् उदितं भवेत्॥
10.54 अयं भोः पुष्करसारिन् वायसरुतं नामअध्यायः।
10.55 अथ खलु भोः पुष्करसारिन् द्वारलक्षणं नामअध्यायं व्याख्यास्यामि तच् छ्रूयतां। अथ किं। कथयतु भगवांस् त्रिशङ्कुः।

11 द्वारलक्षणं (प्.180)

11.1 माहेन्द्रम् अथ दिव्यं च माङ्गल्यं पूर्वतः स्मृतः।
11.1 दक्षिणे तु दिशो भागे पूषा च पित्र्यम् एव च॥
11.2 सुग्रीवं पुष्पदन्तं च पश्चिमेनात्र निर्दिशेत्।
11.2 भल्लातकं राजयक्ष्मं विद्याद् उत्तरतः शुभं॥
11.3 जन्मसंपद्विपत्क्षेत्रक्षेमप्रत्यरिसाधनं।
11.3 अथ वै धन्मित्रं च परमं मैत्रम् एव च॥
11.4 उवाच विधिवत् प्राज्ञो विश्वकर्मा महामतिः।
11.4 वास्तूनां गुणदौषौ च प्रवक्ष्याम्य् अनुपूर्वशः॥
11.5 समं स्याच् चतुरस्रं च विस्तीर्णा चएव मृत्तिका।
11.5 क्षीरवृक्षाकुलं धन्यं ब्राह्मणस्य प्रशस्यते॥
11.6 पूर्वायतनतया वास्तु रथचक्राकृति च यत्।
11.6 रक्तपांशुर् भवेद् यत्र राज्ञां तत् तु प्रशस्यते॥
11.7 त्रिकोणं कुशसंस्तीर्णम् उत्तानं मधुरं च यत्।
11.7 व्यायाम् अतो जलं चएव वास्तु तस्य धनौषधी॥
11.8 अङ्गाराकारसंस्थानं गोमुखं शकटाकृति।
11.8 अनावास्यं च तत् प्रोक्तं यच् च पुत्रक्षयावहं॥
11.9 यत् तु कञ्जलकक्षैस् तत् त्यक्तं वर्षोदकेन च।(प्.181)
11.9 अपसव्यउदकं चएव दूरतः परिवर्जयेत्॥
11.10 विप्रस्य चतुरस्रं तु क्षात्रियं परिमण्डलं।
11.10 दश द्वादशकं वैश्ये शूद्रस्य तत्र लेखनं॥
11.11 वास्तुपूर्वउत्तरे देशे गोकुलं तत्र् कारयेत्।
11.11 तथाएव चअग्निशालां तु पूर्वदक्षिणतो दिशे॥
11.12 वर्षवृष्यायुधागारान् दक्षीणेन निवेशयेत्।
11.12 पश्चिमउत्तरतश् चअत्र वणिग्भाण्डं निवेशयेत्॥
11.13 उत्तरायां तु कर्तव्यं वर्चः स्थानाम् अनुत्तरं।
11.13 ऐशान्याम् एव सर्वाणि प्रासादश् च पुरोमुखः॥
11.14 अविधिपरिवर्तेन तत्र वैरं वधो भवेत्।
11.14 रचितसर्वद्वाराणाम् आयामो द्विगुणो मतः॥
11.15 कुर्यात् सुरभवनानां यथेष्टं द्वारकाण्य् अपि।
11.15 तद्द्वारबाहुपर्यन्ते स्त्रियो दृष्टा दोषावहाः॥
11.16 विद्विषस्य सलोकस्य द्वारे स्यान् नु करग्रहः।
11.16 महेन्द्रे पुरे वा राज्यं सूर्ये सूरप्रभावता॥
11.17 सत्ये मृदुर् मृगे सूरोऽन्तरीक्षे धनक्षयः।
11.17 वायव्ये तु बहुव्याधिर् भगे भाग्यविपर्ययः॥
11.18 पुष्पे तु सुभगो नित्यं वितथेऽप्य् अशुभो भवेत्।
11.18 शोके भूतविकारः स्यात् सोषे तस्य विषण्णता॥
11.19 बल्लातके गृहे वासो राजयक्ष्मे समावृतिः।(प्.182)
11.19 ह्रदे रेणु परिश्राव आदित्ये तु कलिर् ध्रुवं॥
11.20 नागराजे नागभयं महश्चेएद् दीर्घम् आयुषं।
11.20 भवेद् अस्य च यद् द्वारं तत्रअग्निभयम् आदिशेत्॥
11.21 क्षयं विद्यात् तस्य तस्य धनस्य च कुलस्य च।
11.21 यमे मृत्युं विजानीयात् कुले श