Jammu and KashmirJammu and Kashmir

Amru-Satakm [ अमरूशतकम्]-By King Amaru of Kashmir.

The ninth-century literary criticAnandavardhanadeclared in his Dhvanyaloka that “a single stanza of the poet Amaru … may provide the taste of love equal to what’s found in whole volumes

ज्याकृष्टिबद्धखटकामुखपाणिपृष्ठ-
प्रेङ्खन्नखांशुचयसंवलितोऽम्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर-
लोभभ्रमद्भ्रमरविभ्रमभृत्कटाक्षः ॥१॥(१)

क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंशुकान्तं
गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः सम्भ्रमेण ।
आलिङ्गन् योऽवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराग्निः ॥२॥(२)

आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किञ्चिन्मृष्टविशेषकं तनुतरैः खेदाम्भसां शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वक्त्रं रतिव्यत्यये
तत्त्वां पातु चिराय किं हरिहरब्रह्मादिभिर्दैवतैः ॥३॥(३)

अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥४॥(४)

दत्तोऽस्याः प्रणयस्त्वयैव भवता चेयं चिरं लालिता
दैवाद् अद्य किल त्वमेव कृतवान् अस्या नवं विप्रियम् ।
मन्युर्दुःसह एष यात्युपशमं नो सान्त्ववादैः स्फुटं
हे निस्त्रंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥५॥(६)

लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः स्कह्यः सततरुदितोच्छूणनयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैस्
तवावस्था चेयं विसृज कठिने मानमधुना ॥६॥(७)

नार्यस्तन्वि हठाद्धरन्ति रमणं तिष्ठन्ति नो वारितास्
तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।
कान्तः केलिरुचिर्युवा सहृदयस्तादृक्पतिः कातरए
किं नो बर्करकर्करैः प्रियशतैराक्रम्य विक्रीयते ॥७॥(८)

कोपात्कोमललोलबाहुलतिकापाशेन बद्धा दृढं
नीत्वा केलिनिकेतनं दयितया सायं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन् मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान् रुदत्या हसन् ॥८॥(९)

प्रहरविरतौ मध्ये वाह्नस्ततोऽपि परेऽथवा
किमुत सकले जाते वाह्निप्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालालापैः सबाष्पगलज्जलैः ॥९॥(१२)

याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशामि कथयत्येवं सबाष्पे मयि ।
लज्जामन्थरतारकेण निपतद्धाराश्रुणा चक्षुषा
दृष्ट्वा मां हासितेन भाविमरणोत्साहस्तया सूचितः ॥१०॥(१०)

धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं
दीर्घोच्छ्वासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैर्व्रजतो जनस्य वसतिर्ग्रामे निषिद्धा यथा ॥११॥(१३)

कथमपि सखि क्रीडाकोपाद् व्रजेति मयोदिते
कठिनहृदयस्त्यक्त्वा शय्यां बलाद् गत एव सः ।
इति सरभसं ध्वस्तप्रेम्णि व्यपेतघृणे जने
पुनरपि हतव्रीडं चेतः प्रयाति करोमि किम् ॥१२॥(१५)

दम्पत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वचस्
तत्प्रातर्गुरुसन्निधौ निगदतस्तस्योपहारं वधूः ।
कर्णालङ्कृतिपद्मरागशकलं विन्यस्य चञ्चूपुटे
व्रीडार्ता प्रकरोति दाडिमफलव्याजेन वाग्बन्धनम् ॥१३॥(१६)

अज्ञानेन पराङ्मुखीं परिभवाद् आश्लिष्य मां दुःखितां
किं लब्धं चटुल त्वयेह नयता सौभाग्यमेतां दशाम् ।
पश्यैतद् दयिताकुचव्यतिकरोन् मृष्टाङ्गरागारुणं
वक्षस्ते मलतैलपङ्कशवलैर्वेणीपदैरङ्कितम् ॥१४॥(१७)

एकत्रासनसंस्थितिः परिहता प्रतुद्गमाद् दूरतस्
ताम्बूलानयनच्छलेन रभसाशेल्षोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥१५॥ (१८)

(मानिनी, सद्. ६९२, रसार्णवसुधाकर २.६७ग्)

दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चाद् उपेत्यादराद्
एकस्या नयने पिद्याय विहितक्रीडानुबन्धच्छलः ।
ईषद्वक्रिमकन्धरः सपुलकः प्रेमोल्लसन्मानसाम्
अन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥१६॥(१९)

चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे
निभृतकितवाचारेत्युक्त्वा रुषा पुरुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया
नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता ॥१७॥(२०)

काञ्च्या गाढतरावरुद्धवसनप्रान्ता किमर्थं पुनर्
मुग्धाक्षी स्वैप्तीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्वप्तुमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपितिच्छलेन शयने दत्तोऽवकाशस्तया ॥१८॥(२१)

एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर्
अन्योन्यस्य हृदि स्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दम्पत्योः शनकैरपाङ्गवलनान् मिश्रीभवच्चक्षुषोर्
भग्नो मानकलिः सहासरभसं व्यासक्तकण्ठग्रहम् ॥१९॥(२३)

पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मामालपतीत्ययं खल शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बाष्पस्तु मुक्तस्तया ॥२०॥(२४)

परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
तया पक्ष्मप्रान्तव्रजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेन स्तनतटविशीर्णेन कथितः ॥२१॥(२५)

तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते ।
इत्युक्ते क्व तद् इत्युदीर्य सहसा तत्सम्प्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्तन्व्यापि तद् विस्मृतम् ॥२२॥(२६)

त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकां संस्पृशि ।
शय्योपान्तनिविष्टसस्मितमुखीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥२३॥(२७)

भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
कार्कश्यं गमितेऽपि चेतसि तनूरोमाञ्चमालम्बते ।
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥२४॥(२८)

कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन् न शून्या दिशः ।
आयाता वयमागमिष्यति सुहृद्वर्गस्य भाग्योदयैः
सन्देशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥२५॥

सा पत्युः प्रथमापराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥२६॥(२९)

भवतु विदितं छद्मालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यथा तथाभूतं प्रेम प्रपन्नमिमां दशां
प्रकृतिचपले का नः पीडा गते हतजीविते ॥२७॥(३०)

उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ क्वणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे समाहतडिण्डिमा
यदि किमधिकत्रासोत्कम्पं दिशः समुदीक्षसे ॥२८॥(३१)

प्रातः प्रातरुपागतेन जनिता निर्निद्रिता चक्षुषोर्
मन्दायां मयि गौरवव्यपगमाद् उत्पादितं लाघवम् ।
किं मुग्धे न मया कृतं रमणधीर्मुक्ता त्वया गम्यतां
दुस्थं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥२९॥(३३)

सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रितैरपटवो जाताः स्म इत्यद्भुतम् ॥३०॥(३४)

प्रस्थानं वलयैः कृतं प्रियसखैरजस्रं गतं
धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः ।
गन्तुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता
गन्तव्ये सति जीवितप्रियसुहृत्सार्थः किमु त्यज्यते ॥३१॥(३५)

सन्दष्टाधरपल्लवा सचकितं हस्ताग्रमाधुन्वती
मामामुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
शीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं मुधैव मथितो मूढैः सुरैः सागरः ॥३२॥(३६)

सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रेमावासितया मया सरलया न्यस्तं मुखं तन्मुखे ।
ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चितो
लज्जासीन् मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥३३॥(३७)

कोपो यत्र भ्रूकुटिरचना निग्रहो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो यत्र दृष्टिः प्रसादः ।
तस्य प्रेम्णस्तद् इदमधुना वैषमं पश्य जातं
त्वं पादान्ते लुठसि नहि मे मन्युमोक्षः खलायाः ॥३४॥(३८)

सुतनु जहिहि कोपं पश्य पादानतं मां
न खलु तव कदाचित्कोप एवं विधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥३५॥(३९)

गाढालिङ्गनवामनीकृतकुचप्रोद्भिन्नरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलत्श्रीमन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३६॥(४०)

पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥३७॥(४१)

गते प्रेमाबन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
न जाने को हेतुर्दलति शतधा यन् न हृदयम् ॥३८॥(४३)

चिरविरहिणोरुत्कण्ठार्तिश्लथीकृतगात्रयोर्
नवमिव जगज् जातं भूयश्चिराद् अभिनन्दतोः ।
कथमपि दिने दीर्घे याते निशामधिरूढयोः
प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥३९॥(४४)

दीर्घा वन्दनमालिका विरचिता हृष्ट्यैव नेन्दीवरैः
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
दत्तः स्वेदमुचा पयोधरयुगे नार्घ्यो न कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥४०॥(४५)

कान्ते सागसि शायिते प्रियसखीवेशं विधायागते
भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्सङ्गमाकाङ्क्षया ।
मुग्धे दुष्करमेतद् इत्यतितरामुक्त्वा सहासं बलाद्
आलिङ्ग्य छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥४१॥(४६)

आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरात्
व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपवचनं सख्या सहाभाषते
तस्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥४२॥(४७)

सा यावन्ति पदान्यलीकवचनैरालीजनैः शिक्षिता
तावन्त्येव कृतागसो द्रुततरं व्याहृत्य पत्युः पुरः ।
प्रारब्धा पुरतो यथा मनसिजस्याज्ञा तथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥४३॥(४८)

दूरादुत्सुकमागते विवलितं सम्भाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने किञ्चिन् नतभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥४४॥(४९)

अङ्गानामतितानवं कथमिदं कम्पश्च कस्मात्कुतो
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।
तन्व्या सर्वमिदं स्वभावजमिति व्याहृत्य पक्ष्मान्तर
व्यापी बाष्पभरस्तया चलितया निःश्वस्य मुक्तोऽन्यतः ॥४५॥(५०)

पुरस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक् परिणतो
गता येन व्यक्तं पुनरवयवैः सैव तरुणी ॥४६॥(५१)

ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा
मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा ।
अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं
रुषा ब्रह्मास्त्रं मे शरसि निहितो वामचरणः ॥

कठिनहृदये मुञ्च भ्रान्तिं व्यलीककथाश्रितां
पिशुनवचनैर्दुखं नेतुं न युक्तमिमं जनम् ।
किमिदमथवा सत्यं मुग्धे त्वया हि विनिश्चितं
यद् अभिरुचितं तन् मे कृत्वा प्रिये सुखमास्यताम् ॥४७॥(५३)

मन्दं मुद्रितपांशवः परिपतज्झङ्कारझञ्झामरुद्
वेगध्वस्तकुटीरकान्तरगतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्रकुटुम्बिनीकुचतटस्वेदच्छिदः प्रावृषः
प्रारम्भे निपतन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥४८॥

पीतस्तुषारकिरणो मधुनैव सार्धम्
अन्तः प्रविश्य चषके प्रतिबिम्बवर्ती ।
मानान्धकारमपि मानवतीजनस्य
नूनं बिभेद यद् असौ प्रससाद सद्यः ॥४९॥

नभसि जलदलक्ष्मीं सम्भृतां वीक्ष्य दिष्ट्या
प्रसरसि यदि कान्तेत्यर्धमुक्त्वा कथञ्चित् ।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं
तदनुकृतवती सा यत्र वाचो निवृत्ताः ॥५०॥

इयमसौ तरलायतलोचना
गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी
प्रियतमा मम जीवितहारिणी ॥५१॥

सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताड्यते दयितया प्रणयाराधात्
सोऽङ्गीकृतो भगवता मकरध्वजेन ॥५२॥

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेतन् मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥५३॥(५७)

नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान् परागान्
कौन्दान् आनन्दितालीन् अतितरसुरभीन् भूरिशो दिङ्मुखेषु ।
एते ते कुङ्कुमाक्तस्तनकलसभरास्फालनाद् उच्छलन्तः
पीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः॥५४॥

श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वा
शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु
स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थबध्वा ॥५५॥

श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्
चुम्बत्यस्मिन् वदनविधुतिः किं कृता किं न दृष्टः ।
नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥५६॥(५८)

श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्
दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति मम प्नर्वज्रमय्याः कदा नु ॥५७॥(५९)

रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो
व्यालोलालकवल्लरीं प्रचलयन् धुन्वन् नितम्बाम्बरम् ।
प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥५८॥

अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरं
रोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥५९॥

वरमसौ दिवसो न पुनर्निशा
ननु निशैव वरं न पुनर्दिवा ।
उभयमेतद् उपैत्वथवा क्षयं
प्रियजनेन न यत्र समागमः ॥६०॥

लोलैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियैर्
अन्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पुण्याहं व्रज मङ्गलं सुदिवसं प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रियतम त्वं निर्गतः श्रोष्यसि ॥६१॥(६१)

लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽपिता
नो वा पादतले तया निपतितं तिष्ठेति नोक्तं वचः ।
काले केवलमम्बुदातिमलिने गन्तुं प्रवृत्तः शठः
तन्व्या बाष्पजलौघकल्पितनदीपूरेण बद्धः प्रियः ॥६२॥(६२)

न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि मे यान्ति श्रोत्रतां किमु नेत्रताम् ॥६३॥(६४)

विरहविषमः कामो वामस्तनुं कुरुते तनुं
दिवसगणनाद् अक्षश्चासौ व्यपेतघृणो यमः ।
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किशलयमृदुर्जीवेद् एवं कथं प्रमदाजनः ॥६४॥(६७)

पादासक्ते सुचिरमिह ते वामता कैव कान्ते
सन्मार्गस्थे प्रणयिनि जने कोपने कोऽपराधः ।
इत्थं तस्याः पर्जनकथा कोपवेगोपशान्तौ
बाष्पोद्भेदैस्तद् अनु सहसा न स्थितं न प्रयातम् ॥६५॥(६८)

पुराभूदस्माकं नियतमविभिन्ना तनुरियं
ततो नु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः ।
इदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
मयाप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥६६॥(६९)

मुग्धे मुद्घतयैव नेतुमखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं वधान ऋजुतां दूरे कुरु प्रेयसि ।
सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचेः शंस हृदि स्थितो ननु स मे प्राणेश्वरः श्रोष्यति ॥६७॥(७०)

पीतो यतः प्रभृति कामपिपासितेन
तस्या मयाधररसः प्रचुरः प्रियायाः ।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति
तावण्यमस्ति बहु तत्र किमपि चित्रम् ॥६८॥

क्व प्रस्थितासि करभोरु घने निशीथे
प्राणाधिको वसति यत्र जनः प्रियो मे ।
एकाकिनी वद कथं न बिभेषि बाले
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥६९॥(७१)

लीलात्तामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः
कश्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मुग्धा कुद्मलिताननेन दधतो वायुं स्थिता तस्य सा
भ्रान्त्या धूर्ततया च वेपथुमती तेनानिशं चुम्बिता ॥७०॥(७२)

स्फुटतु हृदयं कामं कामं करतु तनुं तनुं
न सखि चटुलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मानाटोपाद् उदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या सशङ्कितमीक्षिता ॥७१॥(७३)

गाढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं
शय्या सम्प्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
गाढौष्ठग्रहपूर्वमाकुलतया पादाग्रसंदंशके-
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥७२॥(७४)

कथमपि कृतप्रत्याख्याने प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतं ।
असहनसखीश्रोत्रप्राप्तिप्रमादससंभ्रमं
विगलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥७३॥(७५)

आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विच्छिन्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्तैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥७४॥(७६)

आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं
वैदग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय चीनांशुकं
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥७५॥(७७)

आलम्ब्याङ्गणवाटिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्रपरागलम्पटरटद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुरत्-
कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥७६॥(७८)

यास्यामिति समुद्यतस्य गदितं विस्रब्धमाकर्णितं
गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।
तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः
सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥७७॥(७९)

शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्
निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ॥
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्तलीं
लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥७८॥(८२)

लोलद्भ्रूलतया विपक्षदिगुपन्यासेऽवधूतं शिरस्
तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।
कोपात्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयोर्
उत्सृष्टो गुरुसन्निधावपि विधिर्द्वाभ्यां न कालोचितः ॥७९॥(८३)

जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं
वक्त्रं स्वेदकणान्वित न सहसा यावच्छठेनामुना ।
दृष्टेनाव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे
तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥८०॥(८४)

दृष्टः कातरनेत्रया चिर्तरं बद्धाञ्जलिं याचित्
पश्चादंशुकपल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इत्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥८१॥(८५)

कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्रतिवचनवत्यानतिमति ।
न दृष्टेः शैथिल्यं मिलन इति चेतो दहति मे
निगूढान्तःकोपात्कठिणहृदये संवृतिरियम् ॥८२॥(१४)

एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपराङ्मुखं शयितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणात्
मा भूस्सुप्त इवैष मन्दवलितग्रीवं पुनर्वीक्षितः ॥८३॥(२२)

मलयमरुतां व्राता याता विकासितमल्लिका
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
घन घटयितुं निस्नेहं त्वां य एव निवर्तने
प्रभवति गवां किन्नश्छिन्नं स एव धनञ्जयः ॥८४॥(३२)

स्वं दृष्ट्वा करजक्षतं मधुमदक्षीवा विचार्येर्ष्यया
गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।
प्रत्यावृत्तमुखी सबाष्पनयना मां मुञ्च मुञ्चेति सा
कोपात्प्रस्फुरिताधरा यदवदत्तत्केन विस्मर्यते ॥८५॥(५५)

सालक्तकं शतदलाधिककान्तिरम्यं
रत्नौघधामनिकरारुणनूपुरं च ।
क्षिप्तं भृशं कुपितया तरलोत्पलाक्ष्या
सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥८६॥

कपोले पत्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥८७॥(८१)

लाक्षालक्ष्मललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोर्स्ताम्बूलरागो घनः ।
दृष्टा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासाः समाप्तिं गताः ॥८८॥(६०)

तप्ते महाविरहवह्निशिखावलीभिर्
आपाण्डुरस्तनतटे हृदये प्रियायाः ।
रथ्यालिवीक्षणनिवेशितलोलदृष्टेर्
नूनं छनच्छनिति बाष्पकणाः पतन्ति ॥८९॥(८६)

चिन्तामोहविनिश्चलेन मनसा मौनेन पादानतः
प्रत्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्रवृत्तोऽधुना ।
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैर्लोचनैः
श्वासोत्कम्पकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥९०॥(८७)

तन्वङ्ग्या गुरुसन्निधौ नयनजं यद् वारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥९१॥(९६)

भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥९२॥(९७)

भ्रूभङ्गो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथञ्चिन् मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥

देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्
यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं
तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥९३॥(९९)

म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं
भूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते ।
साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद्
यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥९४॥(८८)

सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव्
एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।
इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात्
पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥९५॥(८९)

करकिसलयं धूत्वा धूत्वा विमार्गति वाससी
क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला
सुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥९६॥(९०)

सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।
आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश्
छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥९७॥(९१)

निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते
निद्रा नेति न दृश्यते प्रियमुखं रात्रिन्दिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥९८॥(९२)

अद्यारभ्य यदि प्रिये पुनरहं मानस्य वाऽन्यस्य वा
गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।
तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशा
एको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥९९॥(९३)

इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किं
गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनावं मे चिरमनुसृता चित्तपदवी
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥१००॥(९४)

चरणपतनं सख्यालापा मनोहरचाटवः
कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।
इति हि चपलो मानारम्भस्तथापि हि नोत्सहे
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥१०१॥(९५)

अहं तेनाहूता किमपि कथयामीति विजने
समीपे चासीना सरसहृदयत्वादवहिता ।
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं
गृहीता धर्मिल्ले सखि स च मया गाढमधरे ॥१०२॥(९८)

चक्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये
रागे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।
आस्तां दूरेण तावत्सरभसदयितालिङ्गनानन्दलाभस्
तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं सन्तनोति ॥१०३॥(१००)

कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनाद्
वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि साम्प्रतमहं तस्याङ्गसङ्गे पुनः
कोऽयं कास्मि रतं नु वा कथमिति स्वल्पापि मे न स्मृतिः ॥१०४॥(१०१)

प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।
हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥१०५॥(१०२)