Poetry

Sree Krishna Karnamritam – श्रीकृष्णकर्णामृतम्

प्रथमाश्वासः

चिन्तामणिर्जयति सोमगिरिर्गुरुर्मे
शिक्षा गुरुश्च भगवान् शिखिपिञ्छ मौलिः ।
यत्पाद कल्पतरु पल्लव शेखरेषु
लीला स्वयंवर रसं लभते जयश्रीः ॥ १. १॥

अस्ति स्वस्तरुणीकराग्रविगलत्कल्पप्रसूनाप्लुतं
वस्तुप्रस्तुतवेणुनादलहरीनिर्वाणनिर्व्याकुलम् ।
स्रस्तस्रस्तनिरुद्धनीविविलसद्गोपीसहस्रावृतं
हस्तन्यस्तनतापवर्गमखिलोदारं किशोराकृति ॥ १. २॥

चातुर्यैकनिधानसीमचपलाऽपाङ्गच्छटामन्दरं
लावण्यामृतवीचिलालितदृशं लक्ष्मीकटक्षादृतम् ।
कालिन्दीपुलिनाङ्गणप्रणयिनं कामावताराङ्कुरं
बालं नीलममी वयं मधुरिमस्वाराज्यभाराध्नुमः ॥ १. ३॥

बर्होत्तंसविलासिकुन्तलभरं माधुर्यमग्नाननं
प्रोन्मीलन्नवयौवनं प्रविलसद्वेणुप्रणादामृतम् ।
आपीनस्तनकुड्मलाभिरभितो गोपीभिराराधितं
ज्योतिश्चेतसि नश्चकास्ति जगतामेकाभिरामाद्भुतम् ॥ १. ४॥

मधुरतरस्मितामृतविमुग्धमुखाम्बुरुहं
मदशिखिपिञ्छलाञ्छितमनोज्ञकचप्रचयम् ।
विषयविषामिषग्रसनगृध्नुषि चेतसि मे
विपुलविलोचनं किमपि धाम चकास्ति चिरम् ॥ १. ५॥

मुकुलायमाननयनाम्बुजं विभो-
र्मुरलीनिनादमकरन्दनिर्भरम् ।
मुकुरायमाणमृदुगण्डमण्डलं
मुखपङ्कजं मनसि मे विजृम्भ्ताम् ॥ १. ६॥

कमनीयकिशोरमुग्धमूर्तेः
कलवेणुक्वणितादृताननेन्दोः ।
मम वाचि विजृम्भतां मुरारे-
र्मधुरिम्णः कणिकापि कापि कापि ॥ १. ७॥

मदशिखण्डिशिखण्डविभूषणं
मदनमन्थरमुग्धमुखांबुजम् ।
व्रजवधूनयनाञ्चलवञ्चितं
विजयतां मम वाङ्मयजीवितम् ॥ १. ८॥

पल्लवारुणपाणिपङ्कजसङ्गिवेणूरवाकुलं
फुल्लपातलपाटलीपरिवादिपादसरोरुहम् ।
उल्लसन्मधुराधरद्युतिमञ्जरीसरसाननं
वल्लवीकुचकुम्भकुङ्कुमपङ्किलं प्रभुमाश्रये ॥ १. ९॥

अपाङ्गरेखाभिरभङ्गुराभि-
रनङ्गलीलारसरञ्चिताभिः ।
अनुक्षनं वल्लवसुन्दरीभि-
रभ्यर्चमानं विभुमाश्रयामः ॥ १. १०॥

हृदये मम हृद्यविभ्रमाणां
हृदयं हर्षविशाललोलनेत्रम् ।
तरुणं व्रजबालसुन्दरीणां
तरलं किञ्चन धाम सन्निधत्ताम् ॥ १. ११॥

निखिलभुवनलक्ष्मीनित्यलीलास्पदाभ्यां
कमलविपिनवीथीगर्वसर्वङ्कषाभ्याम् ।
प्रणमदभयदानप्रौढगाढोद्धताभ्यां
किमपि वहतु चेतः कृष्णपादाम्बुजाभ्याम् ॥ १. १२॥

प्रणयपरिणताभ्यां प्राभवालम्बनाभ्यां
प्रतिपदललिताभ्यां प्रत्यहं नूतनाभ्याम् ।
पतिमुहुरधिकाभ्यां प्रस्नुवल्लोचनाभ्यां
प्रभवतु हृदये नः प्राणनाथः किशोरः ॥ १. १३॥

माधुर्यवारिधिमदान्धतरङ्गभङ्गी-
शृङ्गारसंकलितशीतकिशोरवेषम् ।
आमन्दहासललिताननचन्द्रबिम्ब-
मानन्दसंप्लवमनुप्लवतां मनो मे ॥ १. १४॥

अव्याजमञ्जुलमुखाम्बुजमुग्धभावै-
रास्वाद्यमाननिजवेणुविनोदनादम् ।
आक्रीडितामरुणपादसरोरुहाभ्या-
मार्द्रे मदीयहृदये भुवनार्द्रमोजः ॥ १. १५॥

मणिनूपुरवाचालं वन्दे तच्चरणं विभोः ।
ललितानि यदीयनि लक्ष्माणि व्रजवीथिषु ॥ १. १६॥

मम चेतसि स्फुरतु वल्लवीविभो-
र्मणिनूपुरप्रणयिमञ्जुशिञ्जितम् ।
कमलावनेचरकलिन्दकन्यका-
कलहंसकण्ठकलकूजितादृतम् ॥ १. १७॥

तरुणारुणकरुणामयविपुलायतनयनं
कमलाकुचकलशीभरपुलकीकृतहृदयम् ।
मुरलीरवतरलीकृतमुनिमानसनलिनं
मम खेलति मदचेतसि मधुराधरममृतम् ॥ १. १८॥

आमुग्धमर्धनयनाम्बुजचुम्ब्यमान-
हर्षाकुलव्रजवधूमधुराननेन्दोः ।
आरब्धवेणुरवमादिकिशोरमूर्ते-
राविर्भवन्ति मम चेतसि कोऽपि भावाः ॥ १. १९॥

कलक्वणितकङ्कणं करनिरुद्धपीताम्बरं
क्रमप्रसृतकुन्तलं कलितबर्हभूषं विभोः ।
पुनः प्रसृतिचापलं प्रणियिनीभुजायन्त्रितं
मम स्फुरतु मानसे मदनकेलिशय्योत्थितम् ॥ १. २०॥

स्तोकस्तोकनिरुध्यमानमृदुलप्रस्यन्दिमन्दस्मितं
प्रेमोद्भेदनिरर्गलप्रसृमरप्रव्यक्तरोमोद्गमम् ।
श्रोतृश्रोत्रमनोहरव्रजवधूलीलामिथो जल्पितं
मिथ्यास्वापमुपास्महे भगवतः क्रीडानिमीलद्दृशः ॥ १. २१॥

विचित्रपत्राङ्कुरशालिबाला-
स्तनान्तरं मौनिमनोन्तरं वा ।
अपास्य वृन्दावनपादपास्य-
मुपास्यमन्यन्न विलोकयामः ॥ १. २२॥

सार्धं समृदैरमृतायमानै-
राध्यायमानैर्मुरलीनिनादैः ।
मूर्धाभिषिक्तं मधुराकृतीनां
बालं कदा नाम विलोकयिष्ये ॥ १. २३॥

शिशिरीकुरुते कदा नु नः
शिखिपिञ्छाभरणश्शिशुर्दृशोः ।
युगलं विगलन्मधुद्रव
स्मितमुद्रामृदुना मुखेन्दुना ॥ १. २४॥

कारुण्यकर्बुरकटाक्षनिरीक्षणेन
तारुण्यसंवलितशैशववैभवेन ।
आपुष्णता भुवनमद्भुतविभ्रमेण
श्रीकृष्णचन्द्र शिशिरी कुरु लोचनं मे ॥ १. २५॥

कदा वा कालिन्दीकुवलयदलश्यामलतराः
कटाक्षा लक्ष्यन्ते किमपि करुणावीचिनिचिताः ।
कदा वा कन्दर्पप्रतिभटजटाचन्द्रशिशिराः
किमप्यन्तस्तोषं ददति मुरलीकेलिनिनदाः ॥ १. २६॥

अधीरमालोकितमार्द्रजल्पितं
गतं च गंभीरविलासमन्थरम् ।
अमन्तमालिङ्गितमाकुलोन्मद-
स्मितं च ते नाथ वदन्ति गोपिकाः ॥ १. २७॥

अस्तोकस्मितभरमायतायताक्षं
निश्शेषस्तनमृदितं व्रजाङ्गनाभिः ।
निस्सीमस्तबकितनीलकान्तिधारं
दृश्यासं त्रिभुवनसुन्दरं महस्ते ॥ १. २८॥

मयि प्रसादं मधुरैः कटाक्षै-
र्वशीनिनादानुचरैर्विधेहि ।
त्वयि प्रसन्ने किमिहापरैर्न-
स्त्वय्यप्रसन्ने किमिहापरैर्नः ॥ १. २९॥

निबद्धमुग्धाञ्जलिरेष याचे
नीरन्ध्रदैन्योन्नतमुक्तकण्ठम् ।
दयाम्बुधे देव भवत्कटाक्ष-
दाक्षिण्यलेशेन सकृन्निषिञ्च ॥ १. ३०॥

पिञ्छावतंसरचनोचितकेशपाशे
पीनस्तनीनयनपङ्कजपूजनीये ।
चन्द्रारविन्दविजयोद्यतवक्त्रबिम्बे
चापल्यमेति नयनं तव शैशवे नः ॥ १. ३१॥

त्वच्छैशवं त्रिभुवनाद्भुतमित्यवैमि
यच्चापलं च मम वागविवादगम्यम् ।
तत् किं करोमि विरणान्मुरलीविलास-
मुग्धं मुखाम्बुजमुदीक्षतुमीक्षणाभ्याम् ॥ १. ३२॥

पर्याचितामृतरसानि पदार्थभङ्गी-
फल्गूनि वल्गितविशालविलोचननानि ।
बाल्याधिकानि मदवल्लवभावितानि
भावे लुठन्ति सुदृशां तव जल्पितानि ॥ १. ३३॥

पुनः प्रसन्नेन मुखेन्दुतेजसा
पुरोऽवतीर्णस्य कृपामहाम्बुधेः ।
तदेव लीलामुरलीरवामृतं
समाधिविघ्नाय कदा नु मे भवेत् ॥ १. ३४॥

भावेन मुग्धचपलेन विलोकनेन
मन्मानसे किमपि चापलमुद्वहन्तम् ।
लोलेन लोचनरसायनमीक्षणेन
लीलाकिशोरमुपगूहितुमुत्सुकोऽस्मि ॥ १. ३५॥

अधीरबिम्बाधरविभ्रमेण
हर्षार्द्रवेणुस्वरसम्पदा च ।
अनेन केनापि मनोहरेण
हा हन्त हा हन्त मनो धुनोति ॥ १. ३६॥

यावन्न मे निखिलमर्मदृढाभिघात-
निस्सन्धिबन्धनमुदेत्यसवोपतापः ।
तावद्विभो भवतु तावकवक्त्रचन्द्र-
चन्द्रातपद्विगुणिता मम चित्तधारा ॥ १. ३७॥

यावन्न मे नरदशा दशमी दृशोऽपि
रन्ध्रादुदेति तिमिरीकृतसर्वभावा ।
लावण्यकेलिभवनं तव तावदेतु
लक्ष्याः समुत्क्वणितवेणुमुखेन्दुबिम्बम् ॥ १. ३८॥

आलोललोचनविलोकितकेलिधारा-
नीराजिताग्रसरणेः करुणाम्बुराशेः ।
आर्द्राणि वेणुनिनदैः प्रतिनादपूरै-
राकर्णयामि मणिनूपुरशिञ्जितानि ॥ १. ३९॥

हे देव हे दयित हे जगदेकबन्धो
के कृष्ण हे चपल हे करुणैकसिन्धो ।
हे नाथ हे रमण हे नयनाभिराम
हा हा कदा नु भवितासि पदं दृशोर्मे ॥ १. ४०॥

अमून्यधन्यानि दिनान्तराणि
हरे त्वदालोकनमन्तरेण ।
अनाथिबन्धो करुणैकसिन्धो
हा हन्त हा हन्त कथं नयामि ॥ १. ४१॥

किमिव शृणुमः कस्य ब्रूमः कथं कृथमाशया
कथयत कथां धन्यामन्यामहो हृदयेशयः ।
मधुरमधुरस्मेरकारे मनोनयोत्सवे
कृपणकृपणा कृष्णे तृणां चिरं बत लम्बते ॥ १. ४२॥

आभ्यां विलोचनाभ्यामम्बुजदलललितलोचनं बालम् ।
द्वाभ्यामपि परिरब्धुं दूरे मम हन्त दैवसमाग्री ॥ १. ४३॥

अश्रान्तस्मितमरुणारुणाधरोष्ठं
हर्षार्द्रद्विगुणमनोज्ञवेणुगीतम् ।
विभ्राम्यद्विपुलविलोचनार्धमुग्धं
वीक्षिष्ये तव वदनाम्बुजं कदा नु ॥ १. ४४॥

लीलायताभ्यां रसशीतलाभ्यां
नीलारुणाभ्यां नयनाम्बुजाभ्याम् ।
आलोकयेदद्भुतविभ्रमाभ्यां
बालः कदा कारुणिकः किशोरः ॥ १. ४५॥

बहुलचिकुरभारं बद्धपिञ्छावतंसं
चपलवपलनेत्रं चारुबिम्बाधरोष्ठम् ।
मधुरमृदुलहासं मन्थरोदारलीलं
मृगयति नयनं मे मुग्धवेषं मुरारेः ॥ १. ४६॥

बहुलजलदच्छायाचोरं विलासभरालसं
मदशिखिशिखालीलोत्तंसं मनोज्ञमुखाम्बुजम् ।
कमपि कमलापाङ्कोदग्रप्रपन्नजगज्जितं
मधुरिमपरीपाकोद्रेकं वयं मृगयामहे ॥ १. ४७॥

परामृश्यं दूरे परिशदि मुनीनां व्रजवधू-
दृशां दृश्यं शशव्त् त्रिभुवनमनोहारिवपुषम् ।
अनामृश्यं वाचामनिदमुदयानमपि कदा
दरीदृश्ये देव दरदलितनीलोत्पलनिभम् ॥ १. ४८॥

लीलाननाम्बुजमधीरमुदीक्षमाणं
नर्माणि वेणुविवरेषु निवेशयन्तम् ।
डोलायमाननयनं नयनाभिरामं
देवं कदा नु दयितं व्यतिलोकयिष्ये ॥ १. ४९॥

लग्नं मुहुर्मनसि लम्पटसंप्रदायि-
लेखाविलेखनरसज्ञमनोज्ञवेषम् ।
लज्जन्मृदुस्मितमधुस्नपिताधरांशु-
राकेन्दुलालितमुखेन्दुमुकुन्दबाल्यम् ॥ १. ५०॥

अहिमकरकरनिकरमृदुमृदितलक्ष्मी-
सरसतरसरसिरुहसदृशदृशि देवे ।
व्रजयुवतिरतिकलहविजयिनिजलीला-
मदमुदितवदनशशिमधुरिमणि लीये ॥ १. ५१॥

करकमलदलदलितललिततरवंशी
कलनिनदगलदमृतघनसरसि देवे ।
सहजरसभरभरितदरहसितवीथी-
सततवहदधरमणीमधुरिमणि लीये ॥ १. ५२॥

कुसुमशरशरसमरकुपितमदगोपी-
कुचकलशघुसृणरसलसदुरसि देवे ।
मदलुलितमृदुहसितमुषितशशिशोभा-
मुहुरधिकमुखकमलमधुरिमणि लीये ॥ १. ५३॥

आनम्रामसितभ्रुवोरुपचितामक्षीणपक्ष्माङ्कुरे-
ष्वालोलामनुरागिणोर्नयनयोरार्द्रां मृदौ जल्पिते ।
आतम्रामधरामृते मदकलामम्लानवंशीरवे-
ष्वाशास्ते मम लोचनं व्रजशिशोर्मूर्तिं जगन्मोहिनीम् ॥ १. ५४॥

तत्कैशोरं तच्च वक्त्रारविन्दं
तत्कारुण्यं ते च लीलाकटाक्षाः ।
तत्सौन्दर्यं सा च मन्दस्मितश्रीः
सत्यं सत्यं दुर्लभं दैवतेषु ॥ १. ५५॥

विश्वोपप्लवशमनैकबद्धदीक्षं
विश्वासस्तवकितचेतसां जनानाम् ।
पश्यामः प्रतिनवकान्तिकन्दलार्द्रं
पश्यामः पथि पथि शैशवं मुरारेः ॥ १. ५६॥

मौलिश्चन्द्रकभूषणा मरकतस्तम्भाभिरामं वपु-
र्वक्त्रं चित्रविमुग्धहासमधुरं बाले विलोले दृशौ ।
वाचश्शैशवशीतलामदगजश्लाघ्या विलासस्थिति-
र्मन्दं मन्दमये क एष मथुरावीथीमितो गाहते ॥ १. ५७॥

पादौ पादविनिर्जिताम्बुजवनौ पद्मालयालङ्कृतौ
पाणी वेणुविनोदनप्रणयिनौ पर्यन्तशिल्पश्रियौ ।
बाहूदोहदभाजनं मृगदृशां माधुर्यधारा गिरो
वक्त्रं वाग्विभवातिलङ्घितमाहो बालं किमेतन्महः ॥ १. ५८॥

बर्हं नाम विभूषणं बहुमतं वेषाय शेषैरलं
वक्त्रं द्वित्रिविशेषकान्तिलहरीविन्यासधन्याधरम् ।
शीलैरल्पधियामगम्यविभवैः शृङ्गारभङ्गीमयं
चित्रं चित्रमहो विचित्रतमहो चित्रं विचित्रं महः ॥ ११. ५९॥

अग्रे समग्रयति कामपि केलिलक्ष्मी-
मन्यासु दिक्ष्स्वपि विलोचनमेव साक्षी ।
हा हन्त हस्तपथदूरमहो किमेत-
दासीत् किशोरमयमम्ब जागत्रयं मे ॥ १. ६०॥

चिकुरं बहुलं विरलं भ्रमरं
मृदुलं वचनं विपुलं नयनम् ।
अधरं मधुरं वदनं ललितं
चपलं चरितन्तु कदाऽनुभवे ॥ १. ६१॥

परिपालय नः कृपालयेत्-
यसकृज्जल्पितमात्मबान्धबः ।
मुरली मृदुलस्वनान्तरे
विभुराकर्णयिता कदा नु नः ॥ १. ६२॥

कदा नु कस्यां नु विपद्दशायां
कैशोरगन्धिः करुणाम्बुधिर्नः ।
विलोचनाभ्यां विपुलायताभ्यां
व्यालोकयिष्यन् विषयीकरोति ॥ १. ६३॥

मधुरमधरबिम्बे मञ्जुलं मन्दहासे
शिशिरममृतवाक्ये शीतलं दृष्टिपाते ।
विपुलमरुणनेत्रे विश्रुतं वेणुनादे
मरकतमणिनीलं बालमालोकये नु ॥ १. ६४॥

माधुर्यादपि मधुरं मन्मथतातस्य किमपि किशोरम् ।
चापयादपि चपलं चेतो मम हरति हन्त किं कुर्मः ॥ १. ६५॥

वक्षःस्थले च विपुलं नयनोत्पले च
मन्दस्मिते च मृदुलं मदजल्पिते च ।
बिम्बाधरे च मधुरं मुरलीरवे च
बालं विलासनिधिमाकलये कदा नु ॥ १. ६६॥

आर्द्रावलोकितदयापरिणद्धनेत्र-
माविष्कृतस्मितसुधामधुराधरोष्ठम् ।
आद्यं पुमांसमवतंसितबर्हिबर्ह-
मालोकयन्ति कृतिनः कृतपुण्यपुञ्जाः ॥ १. ६७॥

मारः स्वयं नु मधुरद्युतिमण्डलं नु
माधुर्यमेव नु मनोनयनामृतं नु ।
वाणीमृजा नु मम जीवितवल्लभो नु
बालोऽयमभ्युदयते मम लोचनाय ॥ १. ६८॥

बालोऽयमालोलविलोचनेन
वक्त्रेण चित्रीकृतदिङ्मुखेन ।
वेषेण घोषोचितभूषणेन
मुग्धेन दुग्धे नयनोत्सुकं नः ॥ १. ६९॥

आन्दोलिताग्रभुजमाकुलनेत्रलील-
मार्द्रस्मितार्द्रवदनाम्बुजचन्द्रबिम्बम् ।
शिञ्जानभूषणशतं शिखिपिञ्छमौलिं
शीतं विलोचनरसायनमभ्युपैति ॥ १. ७०॥

पशुपालपालपरिषद्विभूषणं
शिशुरेष शीतलविलोललोचनः ।
मृदुलस्मितार्द्रवदनेन्दुसम्पदा
मदयन्मदीयहृदयं विगाहते ॥ १. ७१॥

तदिदमुपनतं तमालनीलं
तरलविलोचनतारकाभिरामम् ।
मुदितमुदितवक्त्रचन्द्रबिम्बं
मुखरितवेणुविलासजीवितं मे ॥ १. ७२॥

चापल्यसीम चपलानुभवैकसीम
चातुर्यसीम चतुरानानशिल्पसीम ।
सौरभ्यसीम सकलाद्भुतकेलिसीम
सौभाग्यसीम तदिदं व्रजभाग्यसीम ॥ १. ७३॥

मादुर्येण द्विगुणशिशिरं वक्त्रचन्द्रं वहन्ती
वशीवीथीविगलदमृतस्रोतसा सेचयन्ती ।
मद्वाणीनां विहरणपदं मत्तसौभाग्यभाजां
मात्पुण्यानां परिणतिरहो नेत्रयोस्सन्निधत्ते ॥ १. ७४॥

तेजसेऽस्तु नमो धेनुपालिने लोकपालिने ।
राधापयोधरोत्सङ्गशायिने शेषशायिने ॥ १. ७५॥

धेनुपालदयितास्तनस्थली-
धन्यकुङ्कुमसनाथकान्तये ।
वेणुगीतगतिमूलवेधसे
तेजसे तदिदमों नमो नमः ॥ १. ७६॥

मृदुक्वणन्नूपुरमन्थरेण
बालेन पादाम्बुजपल्लवेन ।
अनुक्वणन्मञ्जुलवेणुगीत-
मायाति मे जीवितमात्तकेलि ॥ १. ७७॥

सोऽयं विलासमुरलीनिनदामृतेन
सिञ्चन्नुदञ्चितमिदं मम कर्णयुग्मम् ।
आयाति मे नयनबन्धुरनन्यबन्धु-
रानन्दकन्दलितकेलिकटाक्षलक्ष्यः ॥ १. ७८॥

दूराद्विलोकयति वारणखेलगामी
धाराकटाक्षभरितेन विलोचनेन ।
आरादुपैति हृदयङ्गमवेणुनाद-
वेणीदुघेन दशनावरणेन देवः ॥ १. ७९॥

त्रिभुवनसरसाभ्यां दीप्तभूषापदाभ्यां
दृशि दृशि शिशिराभ्यां दिव्यलीलाकुलाभ्याम् ।
अशरणशरणाभ्यामद्भुताभ्यां पदाभ्या-
मयमयमनुकूजद्वेणुरायाति देवः ॥ १. ८०॥

सोऽयं मुनीन्द्रजनमानसतापहारी
सोऽयं मदव्रजवधूवसनापहारी ।
सोऽयं तृतीयभुवनेश्वारदर्पहारी
सोऽयं मदीयहृदयाम्बुरुहापहारी ॥ १. ८१॥

सर्वज्ञत्वे च मौग्ध्ये च सार्वभौममिदं मम ।
निर्विशन्नयनं तेजो निर्वाणपदमश्नुते ॥ १. ८२॥

कृष्णानमेतत्पुनरुक्तशोभ-
मुष्णेतरांशोरुदयं मुखेन्दोः ।
तृष्णाम्बुराशिं द्विगुणीकरोति
कृष्णाह्वयं किञ्चन जीवितं मे ॥ १. ८३॥

तदेतदाताम्रविलोचनश्री-
सम्भाविताशेषविनम्रवर्गम् ।
मुहुर्मुरारेर्मधुराधरोष्ठं
मुखाम्बुजं चुम्बति मानसं मे ॥ १. ८४॥

करौ शरदुदञ्चिताम्बुजविलासशिक्षागुरू
पदौ विबुधपादपप्रथमपल्लवोल्लङ्घिनौ ।
दृशौ दलितदुर्मदत्रिभुवनोपमानश्रियौ
विलोक्य सुविलोचनामृतमहो सहच्छैशावम् ॥ १. ८५॥

आचिन्वानमहन्यहन्यहनि साकारान् विहारक्रमा-
नारुन्धानमरुन्धतीहृदयमप्यार्द्रस्मितास्यश्रिया ।
आतन्वानमनन्यजन्मनयनश्लाघ्यामनर्घ्यां दशा-
मामन्दं व्रजसुन्दरीस्तनतटीसाम्राज्यमाज्जृम्भते ॥ १. ८६॥

समुच्छ्वसितयौवनं तरलशैशवालङ्कृतं
मदच्छुरितलोचनं मदनमुग्धहासामृतम् ।
प्रतिक्षणविलोकनं प्रणयपीतवशीमुखं
जगत्त्रयविमोहनं जयति मामकं जीवितम् ॥ १. ८७॥

चित्रं तदेतच्चरणारविन्दं
चित्रं तदेतन्नयनारविन्द्ं ।
चित्रं तदेतद्वदनारविन्दं
चित्रं तदेतत्पुनरम्ब चित्रम् ॥ १. ८८॥

अखिलभुवनैकभूषमधिभूषित-
जलधिदुहितृकुचकुम्भम् ।
व्रजयुवतीहारावलिमरकत-
नायकमहामणिं वन्दे ॥ १. ८९॥

कान्ताकचग्रहणविग्रहबद्धलक्ष्मी-
खण्डाङ्गरागरसरञ्जितमञ्जुलश्रीः ।
गण्डस्थलीमुकुरमण्डलखेलमान-
घर्माङ्कुरं किमपि खेलति कृष्णतेजः ॥ १. ९०॥

इमधुरं मधुरं वपुरस्य विभो-
र्मधुरं मधुरं वदनं मधुरम् ।
मधुगन्धि मृदस्मितमेतदहो
मधुरं मधुरं मधुरं मधुरम् ॥ १. ९१॥

शृङ्गाररससर्वस्वं शिखिपिञ्छविभूषणम् ।
अङ्गीकृतनराकारमाश्रये भुवनाश्रयम् ॥ १. ९२॥

नाद्यापि पश्यति कदाचन दर्शनेन
चित्तेन चोपनिषदा सुदृशां सहसर्म् ।
स त्वं चिरं नयनयोरनयोः पदव्यां
स्वामिन् कया नु कृपया मम सन्निधत्से ॥ १. ९३॥

केयं कान्तिः केशव त्वन्मुखेन्दोः
कोऽयं वेषः कोऽपि वाचामभूमिः ।
सेयं सोऽयं स्वादुता मञ्जुलश्रीः
भूयो भूयो भूयशस्तां नमामि ॥ १. ९४॥

वदनेन्दु विनिर्जितश्शशी
दशधा देव पदं प्रपद्यते ।
अधिकां श्रियमश्नुतेतरां
तव कारुण्यविजृम्भितं कियत् ॥ १. ९५॥

तत्वन्मुखं कथमिवाब्जसमानकक्ष्यं
वाङ्माधुरीबहुलपर्वकलासमृद्धम् ।
तत् किं ब्रुवे किमपरं भुवनैककान्तं
यस्य त्वदाननसमा सुषमा सदा स्यात् ॥ १. ९६॥

शुश्रूषसे यदि वचः शृणु मामकीनं
पूर्वैरपूर्वकविभिर्न कटाक्षितं यत् ।
नीराजनक्रमधुरं भवदाननेन्दोः
निर्व्याजमर्हति चिराया शशिप्रदीपः ॥ १. ९७॥

अखण्डनिर्वाणरसप्रवाहै-
र्विखण्डिताशेषरसान्तराणि ।
अयन्त्रितोद्धान्तसुधार्णवानि
जयन्ति शीतानि तव स्मितानि ॥ १. ९८॥

कामं सन्तु सहस्रशः कतिपये स्वारस्यधौरेयकाः
कामं वा कमनीयतापरिणतिस्वाराज्यबद्धव्रताः ।
तैर्नैवं विवदामहे न च वयं देव प्रियं ब्रूमहे
यत्सत्यं रमणीयतापरिणतिस्त्वय्येव पारंगता ॥ १. ९९॥

मन्दारमूले मदनाभिरामं
बिम्बाधरापूरितवेणुनादम् ।
गोगोपगोपीजनमध्यसंस्थं
गोपं भजे गोकुलपूर्णचन्द्रम् ॥ १. १००॥

गलद्व्रीडा लोला मदनवनिता गोपवनिता
मधुस्फीतं गीतं किमपि मधुरा चापलधुराः ।
समुज्जृम्भा गुम्भा मधुरिमगिरां मादृशगिरां
त्वयि स्थाने जाते दधति चपलं जन्म च फलम् ॥ १. १०१॥

भुवनं भवनं विलासिनी श्री-
स्तनयस्तामरसासनः स्मरश्च ।
परिचारपरम्पराः सुरेन्द्रा-
स्तपदि त्वच्चरितं विभो विचित्रम् ॥ १. १०२॥

देवस्त्रिलोकसौभाग्यकस्तूरीतिलकाङ्कुरः ।
जीयाद् व्रजाङ्गनानङ्गकेलीललितविभ्रमः ॥ १. १०३॥

प्रेमदं च मे कामदं च मे
वेदनं च मे वैभवं च मे ।
जीवनं च मे जीवितं च मे
दैवतं च मे देव नापरम् ॥ १. १०४॥

माधुर्येण विजृम्भन्तां वाचो नस्तव वैभवे ।
चापल्येण विवर्धन्तां चिन्ता नस्तव शैशवे ॥ १. १०५॥

यानि त्वच्चरितामृतानि रसनालेह्यानि धन्यात्मनां
ये वा चापलशैशवव्यतिकरा राधापराधोन्मुखाः ।
या वा भावितवेणुगीतगतयो लीलामुखाम्भोरुहे
धारावाहिकया वहन्तु हृदये तान्येव तान्येव मे ॥ १. १०६॥

भक्तिस्त्वयि स्थिरतरा भगवन् यदि स्या-
द्दैवेन नः फलितदिव्यकिशोरवेषे ।
मुक्तिः स्वयं मुकुलिताञ्जलि सेवतेऽस्मान्
धर्मार्थकामगतयः समयप्रदीक्षाः ॥ १. १०७॥

जय जय जय देव देव देव
त्रिभुवनमङ्गलदिव्यनामधेय ।
जय जय जय बालकृष्णदेव
श्रवणमनोनयनामृतावतार ॥ १. १०८॥

तुभ्यं निर्भरहर्षवर्षविवशावेशस्फुटाविर्भव-
द्भूयश्चापलभूषितेषु सुकृतां भावेषु निर्भासते ।
श्रीमद्गोकुलमण्डनाय महते वाचां विदूरस्फुट-
न्माधुर्यैकरसार्णवाय महसे कस्मै चिदस्मै नमः ॥ १. १०९॥

ईशानदेव चरणाभरणेन नीवी-
दामोदरस्थिरयशः स्तबकोद्गमेन ।
लीलाशुकेन रचितं तव देव कृष्ण-
कर्णामृतं वहतु कल्पशतान्तरेऽपि ॥ १. ११०॥


द्वितीयाश्वासः

अभिनवनवनीतस्निग्धमापीतदिग्धं
दधिकणपरिदिग्धं मुग्धमङ्कं मुरारेः ।
दिशतु भुवनकृच्छ्रच्छेदि तापिञ्छगुच्छ-
च्छवि नवशिखिपिञ्छा लाञ्छितं वाञ्छितं नः॥ २. १॥

यां दृष्ट्वा यमुनां पिपासुरनिशं व्यूहो गवां गाहते
विद्युत्वानिति नीलकण्ठनिवहो यां द्रष्टुमुत्कण्ठते ।
उत्तंसाय तमालपल्लवमिति च्छिन्दन्ति यां गोपिकाः
कन्तिः कालियशासनस्य वपुषः सा पावनी पातु नः ॥ २. २॥

देवः पायात्पयसि विमले यामुने मज्जतीनां
याचन्तीनामनुनयपदैर्वञ्चितान्यंशुकानि ।
लज्जालोलैरलसविलसैरुन्मिषत्पञ्चबाणै-
र्गोपस्त्रीणां नयनकुसुमैरर्चितः केशवो नोः ॥ २. ३॥

मातर्नातः परमनुचितं यत्खलानां पुरस्ता-
दस्ताशङ्कं जठरपिठरीपूर्तये नर्तितासि ।
तत्क्षन्तव्यं सहजसरले वत्सले वाणि कुर्यां
प्रायश्चित्तं गुणगणनया गोपवेषस्य विष्णोः ॥ २. ४॥

अङ्गुल्यग्रैररुणकिरणैर्मुक्तसंरुद्धरन्ध्रं
वारं वारं वदनमरुता वेणुमापूरयन्तम् ।
व्यत्यस्ताङ्घ्रिं विकचकमलच्छायविस्तारनेत्रं
वन्दे वृन्दावनसुचरितं नन्दगोपालसूनुम् ॥ २. ५॥

मन्दं मन्दं मधुरनिनदैर्वेणुमापूरयन्तं
बृन्दं बृन्दावनभुवि गवां चारयन्तं चरन्तम् ।
छन्दोभगे शतमखमुखध्वंसिनां दानवानां
हन्तारं तं कथय रसने गोपकन्याभुजङ्गम् ॥ २. ६॥

वेणीमूले विरचितघनश्यामपिञ्छावचूडो
विद्युल्लेखावलयित इव स्निग्धपीताम्बरेण ।
मामालिङ्गन्मरकतमणिस्तम्भगंभीरबाहुः
स्वप्ने दृष्टस्तरुणतुलसीभूषणो नीलमेघः ॥ २. ७॥

कृष्णे हृत्वा वसननिचयं कूलकुञ्जाधिरूढे
मुग्धा काचिन्मुहुरनुनयैः किन्विति व्याहरन्ती ।
सभ्रूभङ्गं सदरहसितं सत्रपं सानुरागं
छायाशौरेः करतलगतान्यम्बराण्याचकर्ष ॥ २. ८॥

अपि जनुषि परस्मिन्नात्तपुण्यो भवेयं
तटभुवि यमुनायास्तादृशो वंशनालः ।
अनुभवति य एषः श्रीमदाभीरसूनो-
रधरमणिसमीपन्यासधन्यामवस्थाम् ॥ २. ९॥

अयि परिचिनुः चेतः प्रातरम्भोजनेत्रं
कबरकलितचञ्चत्पिञ्छदामाभिरामम् ।
वलभिदुपलनीलं वल्लवीभागधेयं
निखिलनिगमवल्लीमूलकन्दं मुकुन्दम् ॥ २. १०।

अयि मुरलि मुकुन्दस्मेरवक्त्रारविन्द-
श्वसनमधुरसज्ञे त्वां प्रणम्याद्य याचे ।
अधरमणिसमीपं प्राप्तवत्यां भवत्यां
कथय रहसि कर्णे मद्दशां नन्दसूनोः ॥ २. ११।

सजलजलदनीलं वल्लवीकेलिलोलं
श्रितसुरतरुमूलं विद्युदुल्लासिचेलम् ।
सुररिपुकुलकालं सन्मनोबिम्बलीलं
नतसुरमुनिजालं नौमि गोपालबालम् ॥ २. १२॥

अधरबिम्बविडम्बितविद्रुमं
मधुरवेणुनिनादविनोदिनम् ।
कमलकोमलकम्रमुखाम्बुजं
कमपि गोपकुमारमुपास्महे ॥ २. १३॥

अधरे विनिवेश्य वंशनालं
विवराण्यस्य सलीलमङ्गुलीभिः ।
मुहुरन्तरयन्मुहुर्विवर्णन्
मधुरं गायति माधवो वनान्ते ॥ २. १४॥

वदने नवनीतगन्धवाहं
वचने तस्करचातुरीधुरीणम् ।
नयने कुहुनाश्रुमाश्रयेथा-
श्चरणे कोमलताण्डवं कुमारम् ॥ २. १५॥

अमुनाखिलगोपगोपनार्थं
यमुनारोधसि नन्दनन्दनेन ।
दमुना वनसम्भवः पपे नः
किमु नासौ शरणार्थिनां शरण्यः ॥ २. १६॥

जगदादरणीयजारभावं
जलजापत्यवचोविचारगम्यम् ।
तनुतां तनुतां शिवेतराणां
सुरनाथोपलसुन्दरं महो नः ॥ २. १७॥

या शेखरे श्रुतिगिरां हृदि योगभाजां
पादाम्बुजे च सुलभा व्रजसुन्दरीणाम् ।
सा काऽपि सर्वजगतामभिरामसीमा
कामाय नो भवतु गोपकिशोरमूर्तिः ॥ २. १८॥

अत्यन्तबालमतसीकुसुमप्रकाशं
दिग्वाससं कनकभूषणभूषिताङ्गम् ।
विस्रस्तकेशमरुणाधरमायताक्षं
कृष्णं नमामि मनसा वसुदेवसूनुम् ॥ २. १९॥

हस्ताङ्घ्रिनिक्वणितकङ्कणकिङ्किणीकं
मध्ये नितम्बमवलम्बितहेमसूत्रम् ।
मुक्ताकलापमुकुलीकृतकाकपक्षं
वन्दामहे व्रजवरं वसुदेवभाग्यम् ॥ २. २०॥

बृन्दावनद्रुमतलेषु गवां गणेषु
वेदावसानसमयेषु च दृश्यते यत् ।
तद्वेणुनादनपरं शिखिपिञ्छचूडं
ब्रह्म स्मरामि कमलेक्षणमभ्रनीलम् ॥ २. २१॥

व्यत्यस्तपादमवतंसितबर्हिबर्हं
साचीकृतानननिवेशितवेणुरन्ध्रम् ।
तेजः परं परमकारुणिकं पुरस्तात्
प्राणप्रयाणसमये मम सन्निधत्ताम् ॥ २. २२॥

घोषप्रघोषशमनाय मथोगुणेन
मध्ये बबन्ध जननी नवनीतचोरम् ।
तद्बन्धनं त्रिजगतामुदराश्रयाणा-
माक्रोशकारणमहो नितरां बभूव ॥ २. २३॥

शैवा वयं न खलु तत्र विचारणीयं
पञ्चाक्षरीजपपरा नितरां तथापि ।
चेतो मदीयमतसीकुसुमावभासं
स्मेरानन स्मरति गोपवधूकिशोरम् ॥ २. २४॥

राधा पुनातु जगदच्युतदत्तचित्ता
मन्थानमाकलयती दधिरिक्तपात्रे ।
तस्याः स्तनस्तबकचञ्चललोलदृष्टि-
र्देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ २. २५॥

गोधूलिधूसरितकोमलकुन्तलाग्रं
गोवर्धनोद्धरणकेलिकृतप्रयासम् ।
गोपीजनस्य कुचकुङ्कुममुद्रिताङ्गं
गोविन्दमिन्दुवदनं शरणं भजामः ॥ २. २६॥

यद्रोमरन्ध्रपरिपूर्तिविधावदक्षा
वाराहजन्मनि बभूवुरमी समुद्राः ।
तं नाम नाथमरविन्ददृशं यशोदा
पाणिद्वयान्तरजलैः स्नपयां बभूव ॥ २. २७॥

वरमिममुपदेशमाद्रियध्वं
निगमवनेषु नितान्तचारखिन्नः ।
विचिनुत भवनेषु वल्लवीना-
मुपनिषदर्थमुलूखले निबद्धम् ॥ २. २८॥

देवकीतनयपूजनपूतः
पूतनारिचरणोदकधौतः ।
यद्यहं स्मृतधनञ्जयसूतः
किं करिष्यति स मे यमदूतः ॥ २. २९॥

भासतां भवभयैकभेषजं
मानसे मम मुहुर्मुहुर्मुहुः ।
गोपवेषमुपसेदुषस्स्वयं
यापि कापि रमणीयता विभोः ॥ २. ३०॥

कर्णलम्बितकदम्बमञ्जरी
केसरारुणकपोलमण्डलम् ।
निर्मलं निगमवागगोचरं
नीलमानमवलोकयामहे ॥ २. ३१॥

साचि सञ्चलितलोचनोत्पलं
सामिकुड्मलितकोमलाधरम् ।
वेगवल्गितकराङ्गुलीमुखं
वेणुनादरसिकं भजामहे ॥ २. ३२॥

स्यन्दने गरुडमण्डितध्वजे
कुण्डिनेशतनयाधिरोपिता ।
केनचिन्नवतमालपल्लव-
श्यामलेन पुरुषेण नीयते ॥ २. ३३॥

मा यात पान्थाः पथि भीमरथ्या
दिगंबरः कोऽपि तमालनीलः ।
विन्यस्तहस्तोऽपि नितम्बबिम्बे
धूर्तस्समाकर्षितचित्तवित्तम् ॥ २. ३४॥

अङ्गनामण्६गनामन्तरे माधवो
माधवं माधवं चान्तरेणाङ्गना ।
इथमाकल्पिते मण्डले मध्यगः
सञ्जगौ वेणुना देवकीनन्दनः ॥ २. ३५॥

केकिकेकादृतानेकपङ्केरुहा-
लीनहंसावलीहृद्यता हृद्यता ।
कंसवंशाटवीदाहदावानलः
सञ्जगौ वेणुना देवकीनन्दनः । २. ३६॥

क्वापि वीणाभिराराविणा कम्पितः
क्वापि वीणाभिराकिङ्किणीनर्तितः ।
क्वापि वीणाभिरामन्तरं गापितः
सञ्जगौ वेणुना देवकीनन्दनः । २. ३७॥

चारुचन्द्रावलीलोचनैश्चुम्बितो
गोपगोबृन्दगोपालिकावल्लभः ।
वल्लवीबृन्दबृन्दारकः कामुकः
सञ्जगौ वेणुना देवकीनन्दनः । २. ३८॥

मौलिमालामिलन्मत्तभृङ्गीलता-
भीतभीतप्रियाविभ्रमालिङ्गितः ।
स्रस्तगोपीकुचाभोगसम्मेलितः
सञ्जगौ वेणुना देवकीनन्दनः । २. ३९॥

चारुचामीकराभासभामाविभु-
र्वैजयन्तीलतावासितोरःस्थलः ।
नन्दबृन्दावने वासितामध्यगः
सञ्जगौ वेणुना देवकीनन्दनः । २. ४०॥

बालिकातालिकाताललीलालया-
सङ्गसन्दर्शितभ्रूलताविभ्रमः ।
गोपिकागीतदत्तावधानस्स्वयं
सञ्जगौ वेणुना देवकीनन्दनः । २. ४१॥

पारिजातं समुद्धृत्य राधावरो
रोपयामास भामागृहस्याङ्कणे ।
शीतशीते वटे यामुनीये तटे
सञ्जगौ वेणुना देवकीनन्दनः । २. ४२॥

अग्रे दीर्घतरोऽयमर्जुनतरुस्तस्याग्रतो वर्त्मनी
सा घोषं समुपैति तत्परिसरे देशे कलिन्दात्मजा ।
तस्यास्तीरतमलकाननतले चक्रं गवां चारयन्
गोपः क्रीडति दर्शयिष्यति सखे पन्थानमव्याहृतम् ॥ २. ४३॥

गोधूलिधूसरितकोमलगोपवेषं
गोपालबालकशतैरनुगम्यमानम् ।
सायन्तने प्रतिगृहं पशुबन्धनार्थं
गच्छन्तमच्युतशिशुं प्रणतोऽस्मि नित्यम् ॥ २. ४४॥

निधिं लावण्यानां निखिलजगदाश्चर्यनिलयं
निजावासं भासां निरवधिकनिश्श्रेयसरसम् ।
सुधाधारासारं सुकृतपरिपाकं मृगदृशां
प्रपद्ये माङ्गल्यं प्रथममधिदैवं कृतधियाम् ॥ २. ४५॥

आताम्रपाणिकमलप्रणयप्रतोद-
मालोलहारमणिकुण्डलहेमसूत्रम् ।
आविश्रमाम्बुकणमम्बुदनीलमव्या-
दाद्यं धनञ्जयरथाभरणं महो नः ॥ २. ४६॥

नखनियमितकण्डून् पाण्डवस्यन्दनाश्वा-
ननुदिनमभिषिञ्चन्नञ्जलिस्थैः पयोभिः ।
अवतु विततगात्रस्तोत्रनिष्ठ्यूतमौलि-
र्दशनविधृतरश्मिर्देवकीपुण्यराशिः ॥ २. ४७॥

व्रजयुवतिसहाये यौवनोल्लासिकाये
सकलशुभविलासे कुन्दमन्दारहासे ।
निवसतु मम चित्तं तत्पदायत्तवृत्तं
मुनिसरसिजभानौ नन्दगोपालसूनौ ॥ २. ४८॥

अरण्यानीमार्द्रस्मितमधुरबिम्बाधरसुधा
सरण्यासंक्रान्तैस्सपदि मदयन् वेणुनिनदैः ।
धरण्या सानन्दोत्पुलकमुपगूढाङ्घ्रिकमलः
शरण्यानामाद्यस्स् जयतु शरीरी मधुरिमा ॥ २. ४९॥

विदग्धगोपालविलासिनीनां
संभोगचिह्नाङ्कितसर्वगात्रम् ।
पवित्रमाम्नायगिरामगम्यम्
ब्रह्म प्रपद्ये नवनीतचोरम् ॥ २. ५०॥

अन्तर्गृहे कृष्णमवेक्ष्य चोरम्
बद्ध्वा कवाटं जननीं गतैका ।
उलूखले दामनिबद्धमेनं
तत्रापि दृष्ट्वा स्तिमिता बभूव ॥ २. ५१॥

रत्नस्थले जानुचरः कुमारः
सङ्क्रान्तमात्मीयमुखारविन्दम् ।
आदातु लाभस्तदलाभखेदा-
द्विलोक्य धात्रीवदनं रुरोद ॥ २. ५२॥

आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं
साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पृथिव्याकुलम् ।
सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सास्मतं
यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥ २. ५३॥

उपासतामात्मविदः पुराणाः
परं पुमांसं निहितं गुहायाम् ।
वयं यशोदाशिशुबाललीला-
कथासुधासिन्धुषु लीलयामः ॥ २. ५४॥

विक्रेतुकामा किल गोपकन्या
मुरारिपादार्पितचित्तवृत्तिः ।
दध्यादिकं मोहवशादवोच-
द्गोविन्द दामोदर माधवेति ॥ २. ५५॥

उलूखलं वा यमिनां मनो वा
गोपाङ्गनानां कुचकुट्मलं वा ।
मुरारिनाम्नः कलभस्य नून-
मालानमासीत् त्रयमेव भूमौ ॥ २. ५६॥

करारविन्देन पदारविन्दं
मुखारविन्दे विनिवेशयन्तम् ।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ॥ २. ५७॥

शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन
क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे ।
इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः
किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥ २. ५८॥

मातः किं यथुनाथ देहि चषकं किं तेन पातुं पय-
स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये ।
आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु-
र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥ २. ५९॥

कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं
तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा ।
इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः
पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥ २. ६०॥

कैलासे नवनीतति क्षितिरियं पार्जग्धमृल्लोष्टति
क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे ।
मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया
धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥ २. ६१॥

किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं
सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः ।
मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे
शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥ २. ६२॥

उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे-
रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः ।
लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः
पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥ २. ६३॥

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया
तत्थं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।
व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत्
माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥ २. ६४॥

स्वाती सपत्नी किल तारकाणां
मुक्ताफलानां जननीति रोषात् ।
सा रोहिणी नीलमसूत रत्नं
कृतास्पदं गोपवधूकुचेषु ॥ २. ६५॥

नृत्यन्तमत्यन्तविलोकनीयं
कृष्णं मणिस्थम्भगतं मृगाक्षी ।
निरीक्ष्य साक्षादिव कृष्णमग्रे
द्विधा वितेने नवनीतमेकम् ॥ २. ६६॥

वत्स जागृहि विभातमागतं
जीव कृष्ण शरदां शतं शतम् ।
इत्युदीर्य सुचिरं यशोदया
दृश्यमनवदनं भजामहे ॥ २. ६७॥

ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः
कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः ।
दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा
धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥ २. ६८॥

एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा
मर्माणीव च घट्टयन्त्यलममी क्रूरः कदम्बानिलः ।
इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः
सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥ २. ६९॥

ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना
कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ ।
मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता-
मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥ २. ७०॥

रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु-
र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः ।
निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः
सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥ २. ७१॥

बालोऽपि शैलोद्धरणाग्रपाणि-
र्नीलोऽपि नीरन्ध्रतमः प्रदीपः ।
धीरोऽपि राधानयनावबद्धो
जारोऽपि संसारहरः कुतस्त्वम् ॥ २. ७२॥

बालाय नीलवपुषे नवकिङ्किणीक-
जालाभिरामजघनाय दिगम्बराय ।
शार्दूलदिव्यनखभूषणभूषिताय
नन्दात्मजाय नवनीतमुषे नमस्ते ॥ २. ७३॥

पाणौ पायसभक्तमाहितरसं विभ्रन्मुदा दक्षिणे
सव्ये शारदचन्द्रमण्डलनिभं हव्यंगवीनं दधत् ।
कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन्
देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥ २. ७४॥

किङ्किणिकिणिकिणिरभसै-
रङ्गणभुवि रिङ्खणैः सदाऽटन्तम् ।
कुङ्कुणुकुणुपदयुगलं
कङ्कणकरभूषणं हरिं वन्दे ॥ २. ७५॥

सम्बाधे सुरभीणामम्बामायासयन्तमनुयान्तीम् ।
लम्बालकमवलम्बे तं बालं तनुविलग्नजम्बालम् ॥ २. ७६॥

अञ्चितपिञ्छाचूडं सञ्चितसौजन्यवल्लवीवलयम् ।
अधरमणिनिहितवेणुं बालं गोपालमनिशमवलम्बे ॥ २. ७७॥

प्रह्लादभागदेयं निगममहाद्रेर्गुहान्तराधेयम् ।
नरहरिपदाभिधेयं विबुधविधेयं ममानुसंधेयम् ॥ २. ७८॥

संसारे किं सारं कंसारेश्चरणकमलपरिभाजनम् ।
ज्योतिः किमन्धकारे यदन्तकारेरनुस्मरणम् ॥ २. ७९॥

कलशनवनीतचोरे कमलादृक्कुमुदचन्द्रिकापूरे ।
विहरतु नन्दकुमारे चेतो मम गोपसुन्दरीजारे ॥ २. ८०॥

कस्त्वं बाल बलानुजः किमिह ते मन्मन्दिराशङ्कया
युक्तं तन्नवनीतपात्रविवरे हस्तं किमर्थं न्यसेः ।
मातः कञ्चन वत्सकं मृगयितुं मा गा विषादं क्षणा-
दित्येवं वरवल्लवीप्रतिवचः कृष्णस्य पुष्णातु नः ॥ २. ८१॥

गोपालाजिरकर्दमे विहरसे विप्राध्वरे लज्जसे
ब्रूषे गोकुलहुङ्कृतैः स्तुतिशतैर्मौनं विधत्से विदाम् ।
दास्यं गोकुलपुंश्चलीषु कुरुषे स्वायं न दान्तत्मसु
ज्ञातं कृष्ण तवाङ्घ्रिपङ्कजयुगं प्रेम्णाचलं मञ्जुलम् ॥ २. ८२॥

नमस्तस्मै यशोदाया दायादायास्तु तेजसे ।
यद्धि राधामुखाम्भोजं भोजं भोजं व्यवर्धत ॥ २. ८३॥

अवताराः सन्त्वन्ये सरसिजनयनस्य सर्वतोभद्राः ।
कृष्णादन्यः को वा प्रभवति गोगोपगोपिकामुक्तैः ॥ २. ८४॥

मध्ये गोकुलमण्डलं प्रतिदिशं चाम्बारवोज्जृम्भिते
प्रातर्दोहमहोत्सवे नवघनश्यमं रणन्नूपुरम् ।
फाले बालविभूषणं कटिरणत्सत्किङ्किणीमेखलं
कण्ठे व्याघ्रनखं च शैशवकलाकल्याणकार्त्स्न्यं भजे ॥ २. ८५॥

सजलजलधनीलं दर्शितोदारलीलं
करतलधृतशैलं वेणुनादैरसालम् ।
व्रजजनकुलपालं कामिनीकेलिलोलं
कलितललितमालं नौमि गोपालबालम् ॥ २. ८६॥

स्मितललितकपोलं स्निग्धसङ्गीतलोलं
ललितचिकुरजालं चौर्यचातुर्यलीलम् ।
शतमखरिपुकालं शातकुम्भाभचेलं
कुवलयदलनीलं नौमि गोपालपालम् ॥ २. ८७॥

मुरलिनिनदलोलं मुग्धमायूरचूडं
दलितदनुजजालं धन्यसौजन्यलीलम् ।
परहितनवहेलं पद्मसद्मानुकूलं
नवजलधरनीलं नौमि गोपालपालम् ॥ २. ८८॥

सरसगुणनिकायं सच्चिदानन्दकायं
शमितसकलमायं सत्यलक्ष्मीसहायम् ।
शमदमसमुदायं शान्तसर्वान्तरायं
सुहृदयजनदायं नौमि गोपालपालम् ॥ २. ८९॥

लक्ष्मीकलत्रं ललिताब्जनेत्रं
पूर्णेन्दुवक्त्रं पुरुहूतमित्रम् ।
कारुण्यपात्रं कमनीयगात्रं
वन्दे पवित्रं वसुदेवपुत्रम् ॥ २. ९०॥

मदमयमदमयदुरगं
यमुनामवतीर्य वीर्यशाली यः ।
मम रतिममरतिरस्कृति-
शमनपरस्स क्रियात् कृष्णः ॥ २. ९१॥

मौलौ मायूरबर्हं मृगमदतिलकं चारु लालाटपट्टे
कर्णद्वन्द्वे च तालीदलमतिमृदुलं मौक्तिकं नासिकायाम् ।
हारो मन्दारमालापरिमलभरिते कौस्तुभस्योपकण्ठे
पाणौ वेणुश्च यस्य व्रजयुवतियुतः पातु पीताम्बरो नः ॥ २. ९२॥

मुरारिणा वारिविहारकाले
मृगेक्षणां मुषितांशुकानाम् ।
करद्वयं वा कचसंहतिर्वा
प्रमीलनं वा परिधानमासीत् ॥ २. ९३॥

यासां गोपाङ्गनानां लसदसिततरालोललीलाकटाक्षा
यन्नासा चारु मुक्तामणिरुचिनिकरव्योमगङ्गाप्रवाहे ।
मीनायन्तेऽपि तासामतिरभसचलच्चारुनीलालकान्ता
भृङ्गायन्ते यदङ्घ्रिद्वयसरसिरुहे पातु पीताम्बरो नः ॥ २. ९४॥

यद्वेणूश्रेणिरूपस्थितसुषिरमुखोद्गीर्णनादप्रभिन्ना
एणाक्ष्यस्तत्क्षणेन त्रुटितनिजपतिप्रेमबन्धा बभूवुः ॥
अस्तव्यस्तालकान्ताः स्फुरदधरकुचद्वन्द्वनाभिप्रदेशाः
कामावेशप्रकर्षप्रकटितपुलकाः पातु पीतम्बरो नः ॥ २. ९५॥

देवक्या जठराकरे समुदितः क्रीतो गवां पालिना
नन्देनानकदुन्दुभेर्निजसुतापण्येन पुण्यात्मना ।
गोपालावलिमुग्धहारतरलो गोपीजनालङ्कृतिः
स्थेयान्नो हृदि सन्ततं सुमधुरः कोऽपीन्द्रनीलो मणिः ॥ २. ९६॥

पीठे पीठनिषण्णबालकगले तिष्ठन् स गोपालको
यन्तान्तःस्थितदुग्धभाण्डमपकृष्याच्छाद्य घण्टारवम् ।
वक्त्रोपान्तकृताञ्जलिः कृतशिरः कम्पं पिबन् यः पयः
पायादागतगोपिकानयनयोर्गण्डूषफूत्कारकृत् ॥ २. ९७॥

यज्ञैरीजिमहे धनं ददिमहे पात्रेषु नूनं वयं
वृद्धान् भेजिमहे तपश्चकृमहे जन्मान्तरे दुश्चरम् ।
येनास्माकमभूदनन्यसुलभा भक्तिर्भवद्वेषिणी
चाणूरद्विषि भक्तकल्मषमुषि श्रेयःपुषि श्रीजुषि ॥ २. ९८॥

त्वयि प्रसन्ने मम किं गुणेन
त्वय्यप्रसन्ने मम किम् गुणेन ।
रक्ते विरक्ते च वरे वधूनां
निरर्थकः कुङ्कुमपत्रभङ्गः ॥ २. ९९॥

गायन्ति क्षणदावसानसमये सानन्दमिन्दुप्रभा
रुन्धन्त्यो निजदन्तकान्तिनिवहैर्गोपाङ्गना गोकुले ।
मथ्नन्त्यो दधि पाणिकङ्कणझणत्कारानुकारं जवाद्
व्यावल्गद्वसनाञ्जला यमनिशं पीताम्बरोऽव्यात्स नः
॥ २. १००॥

अंसालम्बितवामकुण्डलभरं मन्दोन्नतभ्रूलतं
किञ्चित्कुञ्चितकोमलाधरपुटं साचि प्रसारेक्षणम् ।
आलोलाङ्गुलिपल्लवैर्मुरलिकामापूरयन्तं मुदा
मूले कल्पतरोस्त्रिभङ्गिललितं जाने जगन्मोहनम् ॥ २. १०१॥

मल्लैश्शैलेन्द्रकल्पः शिशुरितजनैः पुष्पचापोऽङ्गनाभि-
र्गोपैस्तु प्राकृतात्मा दिविकुलिशभृता विश्वकायोऽप्रमेयः ।
क्रुद्धः कंसेन कालो भयचकितदृशा योगिभिर्ध्येयमूर्तिः
दृष्टो रङ्गावतारे हरिरमरगणानन्दकृत् पातु युष्मान् ॥ २. १०२॥

संविष्टो मणिविष्टरेऽङ्कतलमध्यासीन लक्ष्मी मुखे
कस्तूरीतिलकं मुदा विरचयन् हर्षात्कुचौ संस्पृशन् ।
अन्योन्यस्मितचन्द्रिकाकिसलयैराराधयन्मन्मथं
गोपीगोपपरिवृतो यदुपतिः पायाञ्जगन्मोहनः ॥ २. १०३॥

आकृष्टे वसनाञ्चले कुवलयश्यामा त्रपाधःकृता
दृष्टिः संवलिता रुचा कुचयुगे स्वर्णप्रभे श्रीमति ।
बालः कश्चन चूतपल्लव इति प्रान्तस्मितास्यश्रियं
श्लिष्यंस्तामथ रुक्मिणीं नतमुखीं कृष्णस्स पुष्णातु नः ॥ २. १०४॥

उर्व्यां कोऽपि महीधरो लघुतरो दोर्भ्यां धृतो लीलया
तेन त्वं दिवि भूतले च सततं गोवर्धनोद्धारकः ।
त्वां त्रैलोक्यधरं वहामि कुचयोरग्रे न तद्गण्यते
किं वा केशव भाषणेन बहुना पुण्यैर्यशो लभ्यते ॥ २. १०५॥

सन्ध्यावन्दन भद्रमस्तु भवतो भोः स्नान तुभ्यं नमो
भो देवाः पितरश्च तर्पणविधौ नाहं क्षमः क्षम्यताम् ।
यत्र क्वापि निषीद्य यादवकुलोत्तंसस्य कंसद्विषः
स्मारं स्मारमघं हरामि तदलं मन्ये किमन्येन मे ॥ २. १०६॥

हे गोपालक हे कृपाजलनिधे हे सिन्धुकन्यापते
हे कंसान्तक हे गजेन्द्रकरुणापारीण हे माधव ।
हे रामानुज हे जगत्रयगुरो हे पुण्डरीकाक्ष मां
हे गोपीजननाथ पालय परं जानामिन त्वां विना ॥ २. १०७॥

कस्तूरीतिलकं ललाटफलके वक्षःस्थले कौस्तुभं
नासाग्रे नवमौक्तिकं करतले वेणुं करे कङ्कणम् ।
सर्वाङ्गे हरिचन्दनं च कलयन् कण्ठे च मुक्तावलिं
गोपस्त्रीपरिवेष्टितो विजयते गोपालचूडामणिः ॥ २. १०८॥

लोकानुन्मदयन् श्रुतीर्मुखरयन् श्रोणीरुहान्हर्षयन्
शैलान्विद्रवयन् मृगान्विवशयन् गोबृन्दमानन्दयन् ।
गोपान् संभ्रमयन् मुनीन्मुकुलयन् सप्तस्वरान् जृम्भयन्
ओंकारार्थमुदीरयन् विजयते वंशीनिनादश्शिशोः ॥ २. १०९॥


तृतीयाश्वासः

अस्ति स्वस्त्ययनं समस्तजगतामभ्यस्तलक्ष्मीस्तनं
वस्तु ध्वस्तरजस्तमोभिरनिशं न्यस्तं पुरस्तादिव ।
हस्तोदस्तगिरीन्द्रमस्तकतरुप्रस्तारविस्तारित-
स्रस्तस्वस्तरुसूनसंस्तरलसत्प्रस्तावि राधास्तुतम् ॥ ३. १॥

राधाराधितविभ्रमाद्भुतरसं लावण्यरत्नाकरं
साधारण्यपदव्यतीतसहजस्मेराननाम्भोरुहम् ।
आलम्बे हरिनीलगर्वगुरुतासर्वस्वनिर्वापणं
बालं वैणविकं विमुग्धमधुरं मूर्धाभिषिक्तं महः ॥ ३. २॥

करिणामलभ्यगतिवैभवं भजे
करुणावलम्बितकिशोरविग्रहम् ।
यमिनामनारतविहारि मानसे
यमुनावनान्तरसिकं परं महः ॥ ३. ३॥

अतन्त्रितत्रिजगदपि व्रजाङ्गना-
नियन्त्रितं विपुलविलोचनाज्ञया ।
निरन्तरं मम हृदये विज्जृम्भतां
समन्ततः सरसतरं परं महः ॥ ३. ४॥

कन्दर्पप्रतिमल्लकान्तिविभवं कादम्बिनीबान्धवं
बृन्दारण्यविलासिनीव्यसनिनं वेषेण भूषामयम् ।
मन्दस्मेरमुखाम्बुजं मधुरिमव्यामृष्टबिम्बाधरं
वन्दे कन्दलितार्द्रयौवनवनं कैशोरकं शार्ङ्गिणः ॥ ३. ५॥

आमुक्तमानुषममुक्तनिजानुभाव-
मारूढयौवनमगूढविदग्धलीलम् ।
आमृष्टयौवनमनष्टकिशोरभाव-
मद्यं महः किमपि माद्यति मानसे मे ॥ ३. ६॥

ते ते भावस्सकलजगदीलोभनीयप्रभावाः
नानातृष्णासुहृदि हृदि मे काममाविर्भवन्तु ।
वीणावेणुक्वणितलसितस्मेरवक्त्रारविन्दा-
न्नाहं जाने मधुरमपरं नन्दपुण्याम्बुराशेः ॥ ३. ७॥

सुकृतिभिरादृत्ते सरसवेणुनिनादसुधा-
रसलहरीविहारनिरवग्रहकर्णपुटे ।
व्रजवरसुन्दरीमुखसरोरुहसन्मधुपे
महसि कदा नु मज्जति मदीयमिदं हृदयम् ॥ ३. ८॥

तृष्णातुरे चेतसि जृम्भमाणां
मुष्णान्मुहुर्मोहमहान्धकारम् ।
पुष्णातु नः पुण्यदयैकसिन्धोः
कृष्णस्य कारुण्यकटाक्षकेलिः ॥ ३. ९॥

निखिलागममौलिलालितं
पदकमलं परमस्य तेजसः ।
व्रजभुवि बहुमन्महेतरां
सरसकरीषविशेषरूषिताम् ॥ ३. १०॥

उदारमृदुलस्मितव्यतिकराभिरामाननं
मुदा मुहुरुदीर्णया मुनिमनोम्बुजाम्रेडितम् ।
मदालसविलोचनव्रजवधूमुखास्वादितं
कदा नु कमलेक्षणं कमपि बालमालोकये ॥ ३. ११॥

व्रजजनमदयोषिल्लोचनोच्छिष्टशेषी-
कृतमतिचपलाभ्यां लोचनाभ्यामुभाभ्याम् ।
सकृदपि परिपातुं ते वयं पारयामः
कुवलयदलनीलं कान्तिपूरं कदा नु ॥ ३. १२॥

घोषयोषिदनुगीतयौवनं
कोमलस्तनितवेणुनिस्स्वनम् ।
सारभूतमभिरामसंपदां
धाम तामरसलोचनं भजे ॥ ३. १३॥

लीलया ललितयावलम्बितं
मूलगेहमिव मूर्तिसंपदाम् ।
नीलनीरदविकासविभ्रमं
बालमेव वयमाद्रियामहे ॥ ३. १४॥

वन्दे मुरारेश्चरणारविन्द-
द्वन्द्वं दयादर्शितशैशवस्य ।
वन्दारुबृन्दारकबृन्दमौलि-
मन्दारमालाविनिमर्दभीरु ॥ ३. १५॥

यस्मिन् नृत्यति यस्य शेखरभरैः क्रौञ्चद्विषश्चन्द्रकीं
यस्मिन् दृप्यति यस्य घोषसुरभिं जिघ्रन् वृषो धृर्जटेः ।
यस्मिन् सज्जति यस्य विभ्रमगतिं वाञ्छन् हरेस्सिन्धुर-
स्तद्बृन्दावनकल्पकद्रुमवनं तं वा किशोरं भजे ॥ ३. १६॥

अरुणाधरामृतविशेषितस्मितं
वरुणालयानुगतवर्णवैभवम् ।
तरुणारविन्ददलदीर्घलोचनं
करुणामयं कमपि बालमाश्रये ॥ ३. १७॥

लावण्यवीचीरचिताङ्गभूषां
भूषापदारोपितपुण्यबर्हाम् ।
कारुण्यधारालकटाक्षमालां
बालां भजे वल्लववंशलक्ष्मीम् ॥ ३. १८।

मधुरैकरसं वपुर्विभो-
र्मथुरावीथिचरं भजामहे ।
नगरीमृगशाबलोचना
नयनेन्दीवरवर्षवर्षितम् ॥ ३. १९॥

पर्याकुलेन नयनान्तविजृम्भितेन
वक्त्रेण कोमलदरस्मितविभ्रमेण ।
मन्त्रेण मञ्जुलतरेण च जल्पितेन
नन्दस्य हन्त तनयो हृदयं धुनोति ॥ ३. २०॥

कन्दर्पकण्डूलकटाक्षबन्धी-
रिन्दीवराक्षीरभिलाषमाणान् ।
मन्दस्मिताधारमुखारविन्दान्
वन्दामहे वल्लवधूर्तपादान् ॥ ३. २१।

लीलाटोपकटाक्षनिर्भरपरिष्वङ्गप्रसङ्गाधिक-
प्रीते गीतिविभङ्गसङ्गतलसद्वेणुप्रणादामृते ।
राधालोचनलालितस्य ललितस्स्मेरे मुरारेर्मुदा
माधुर्यैकरसे मुखेन्दुकमले मग्नं मदीयं मनः ॥ ३. २२॥

शरणागतव्रजपञ्जरे
शरणे शार्ङ्गधरस्य वैभवे ।
कृपयाधृतगोपविग्रहे
कियदन्यन्मृगयामहे वयम् ॥ ३. २३॥

जगत्त्रयैकान्तमनिज्ञभूमि-
चेतस्यजस्रं मम सन्निदत्ताम् ।
रमासमास्वादितसौकुमार्यं
राधास्तनाभोगरसज्ञमोजः ॥ ३. २४॥

वयमेते विश्वसिमः करुणाकरमूर्तिकिंवदन्त्याङ्गे ।
अपि च विभो तव ललिते चपलतरा मतिरियं बाल्ये ॥ ३. २५।

वत्सपालचरः कोऽपि वत्सः श्रीवत्सलाञ्छनः ।
उत्सवाय कदा भावीत्युत्सुके मम लोचने ॥ ३. २६॥

मधुरिमभरिते मनोभिरामे
मृदुलतरस्मितमुद्रिताननेन्दौ ।
त्रिभुवननयनैकलोभनीये
महसि वयं व्रजभाजि लालसाः स्मः ॥ ३. २७॥

मुखारविन्दे मकरन्दबिन्दु-
निष्यन्तलीलामुरलीनिनादे ।
व्रजाङ्गनापाङ्गतरङ्गभृङ्ग-
संग्रामभूमौ तव लालसाः स्मः ॥ ३. २८॥

आताम्रायतलोचनांशुलहरीलीलासुधाप्यायितैः
गीताम्रेडितदिव्यकेलिभरितैः स्फीतं व्रजस्त्रीजनैः ।
स्वेदाम्भःकणभूषितेन किमपि स्मेरेण वक्त्रेन्दुना
पादाम्भोजमृदुप्रचारसुभगं पश्यामि दृश्यं महः ॥ ३. २९॥

पाणौ वेणुः प्रकृतिसुकुमाराकृतौ बाल्यलक्ष्मीः
पार्श्वे बालाः प्रणयसरसालोकितापाङ्गलीलाः ।
मौलौ बर्हं मधुरवदनाम्भोरुहे मौग्ध्यमुद्रे-
त्यार्द्राकारं किमपि कितवं ज्योतिरन्वेषयामः ॥ ३. ३०॥

आरूढवेणुतरुणाधरविभ्रमेण
माधुर्यशालिवदनाम्बुजमुद्वहन्ती ।
आलोक्यतां किमनया वनदेवता वः
कैशोरके वयसि कापि च कान्तियष्टिः ॥ ३. ३१॥

अनन्यसाधारणकान्तिकान्त-
माक्रान्तगोपीनयनारविन्दम् ।
पुंसः पुराणस्य नवं विलासं
पुण्येन पूर्णेन विलोकयिष्ये ॥ ३. ३२॥

साष्टाङ्गपातमभिवन्द्य समस्तभावैः
सर्वान् सुरेन्द्रनिकरानिदमेव याचे ।
मन्दस्मितार्द्रमधुराननचन्द्रबिम्बे
नन्दस्य पुण्यनिचये मम भक्तिरस्तु ॥ ३. ३३॥

एषु प्रवाहेषु स एव मन्ये
क्षणोऽपि गण्यः पुरुषायुषेषु ।
आस्वाद्यते यत्र कयापि भक्त्या
नीलस्य बालस्य निजं चरित्रम् ॥ ३. ३४॥

निसर्गसरसादरं निजदयार्द्रदिव्येक्षणं
मनोज्ञमुखपङ्कजं मधुरसार्द्रमन्दस्मितम् ।
रसज्ञ हृदयास्पदं रमितवल्लवीलोचनं
पुनःपुनरुपास्महे भुवनलोभनीयं महः ॥ ३. ३५॥

स कोऽपि बालस्सरसीरुहाक्षः
सा च व्रजस्त्रीजनपादधूलिः ।
मुहुस्तदेतद्युगलं मदीये
मोमुह्यमानोऽपि मनस्युतेतु ॥ ३. ३६॥

मयि प्रयाणाभिमुखे च वल्लवी-
स्तनद्वयीदुर्ललितस्स बालकः ।
शनैश्शनैः श्रावितवेणुनिस्वनो
विलासवेषेण पुरः प्रतीयताम् ॥ ३. ३७॥

अतिभूमिमभूमिमेव वा
वचसां वासितवल्लवीस्तत्नम् ।
मनसाममरं रसायनं
मधुराद्वैतमुपास्महे महः ॥ ३. ३८॥

जननातरेऽपि जगदेकमण्डने
कमनीयधाम्नि कमलायतेक्षणे ।
व्रजसुन्दरीजनविलोचनामृते
चपलानि सन्तु सकलेन्द्रियाणि मे ॥ ३. ३९॥

मुनिश्रेणीवन्द्यं मदभरलसद्वल्लववधू-
स्तनश्रोणीबिम्बस्तिमितनयनाम्भोजसुभगम् ।
पुनः श्लाघाभूमिं पुलकितगिरां नैगमगिरां
घनश्यामं वन्दे किमपि कमनीयाकृतिमहः ॥ ३. ४०॥

अनुचुम्बितामविचलेन चेतसा
मनुजाकृतेर्मधुरिमश्रियं विभोः ।
अयि देव कृष्ण दयितेति जल्पता-
मपि नो भवेयुरपि नाम तादृशः ॥ ३. ४१॥

किशोरवेषेण कृशोदरीदृशां
विशेषदृश्येन विशाललोचनम् ।
यशोदया लब्धयशोनवाम्बुधे-
र्निशामये नीलनिशाकरं कदा ॥ ३. ४२॥

प्रकृतिरवतु नो विलासलक्ष्म्याः
प्रकृतिजडं प्रणतापराधवीथ्याम् ।
सुकृतिकृतपदं किशोरभावे
सुकृतिमनः प्रणिधानपात्रमोजः ॥ ३. ४३॥

अपहसित सुधामदावलेपै-
रतिसुमनोहरमार्द्रमन्दहासैः ।
व्रजयुवतिविलोचनावलेह्यं
रमयतु धाम रमावरोधं नः ॥ ३. ४४॥

अङ्कूरितस्मेरदशाविशेषै-
रश्रान्तहर्षामृतवर्षमक्ष्णाम् ।
संक्रीडतां चेतसि गोपकन्या-
घनस्तनस्वस्त्ययनं महो नः ॥ ३. ४५॥

मृगमदपङ्कसङ्करविशेषितवन्यमहा-
गिरितटगण्डगैरिकघनद्रवविद्रुमिताम् ।
अजितभुजान्तरं भजत हे व्रजगोपवधू-
स्तनकलशस्थलीघुसृणमर्दनकर्दमिदम् ॥ ३. ४६॥

आमूलपल्लवितलीलमपाङ्गजालै-
रासिञ्चती भुवनमादृतगोपवेषा ।
बालाकृतिर्मृदुलमुग्धमुखेन्दुबिम्बा-
माधुर्यसिद्धिरवतान्मधुविद्विषो नः ॥ ३. ४७॥

विरणन् मणिनूपुरं व्रजे
चरणाम्भोजमुपास्स्व शार्ङ्गिणः ।
सरसे सरसि श्रियाश्रितं
कमलं वा कलहंसनादितम् ॥ ३. ४८॥

शरणमशरणानां शारदाम्भोजनेत्रं
निरवधिमधुरिम्ना नीलवेषेण रम्यम् ।
स्मरशरपरतन्त्रस्मेरनेत्राम्बुजाभि-
र्व्रजयुवतिभिरव्याद् ब्रह्म संवेष्टितं नः ॥ ३. ४९॥

सुव्यक्तकान्तिभरसौरभदिव्यगात्र-
मव्यक्तयौवनपरीतकिशोरभावम् ।
गव्यानुपालनविधावनुशिष्टमव्या-
दव्याजरम्यमखिलेश्वरवैभवं नः ॥ ३. ५०॥

अनुगतममरीणामम्बरालम्बिनीनां
नयनमधुरिमश्रीनर्मनिर्माणसीम्नाम् ।
व्रजयुवतिविलासव्यापृतापाङ्गमव्यात्
त्रिभुवनसुकुमारं देवकैशोरकं नः ॥ ३. ५१॥

आपादमाचूडमतिप्रसक्तै-
रापीयमाना यमिनां मनोभिः ।
गोपीजनज्ञातरसाऽवतान्नो
गोपलभूपालकुमारमूर्तिः ॥ ३. ५२॥

दिष्ट्या बृन्दावनमृगदृशां विप्रयोगाकुलानां
प्रत्यासन्नं प्रणयचपलापाङ्गवीचीतरङ्गैः ।
लक्ष्मीलीलाकुवलयदलश्यामलं धाम कामान्
पुष्णीयान्नः पुलकमुकुलाभोगभूषाविशेषम् ॥ ३. ५३॥

जयति गुहशिखीन्द्रपिञ्छमौलिः
सुरगिरिगौरिककल्पिताङ्गरागः ।
सुरयुवतिविकीर्णसूनवर्ष-
स्नपितविभूषितकुन्तलः कुमारः ॥ ३. ५४॥

मधुरमन्दशुचिस्मितमञ्जुलं
वदनपङ्कजमङ्गजवेल्लितम् ।
विजयतां व्रजबालवधूजन-
स्तनतटीविलुठन्नयनं विभोः ॥ ३. ५५॥

अलसविलससन्मुग्धस्निग्धस्मितं व्रजसुन्दरी-
मदनकदनस्विन्नं धन्यं महद्वदनाम्बुजम् ।
तरुणमरुणज्योत्स्ना कार्त्स्न्या स्मितस्नपिताधरं
जयति विजयश्रेणीमेणीदृशां मदयन्महः ॥ ३. ५६॥

राधाकेलिकटाक्षवीक्षितमहावक्षःस्थलीमण्डना
जीयासुः पुलकाङ्कुरास्त्रिभुवनस्वादीयसस्तेजसः ।
क्रीडान्तप्रतिसुप्तदुग्धतनयामुग्धावबोधक्षण-
त्रासारूढदृढोपगूहनमहासाम्राज्यसान्द्रश्रियः ॥ ३. ५७॥

स्मितस्नुतसुधाधरामदशिखण्डिबर्हाङ्किता
विशालनयनाम्बुजा व्रजविलासिनीवासिताः ।
मनोज्ञमुखपङ्कजा मधुरवेणूनादद्रवा
जयन्ति मम चेतसश्चिरमुपासिता वासनाः ॥ ३. ५८॥

जीयादसौ शिखिशिखण्डकृतावतंसा
संसिद्धिकी सरसकान्तिसुधासमृद्धिः ।
यद्बिन्दुलेशकणीकापरिमाणभाग्य-
सौभाग्यसीमपदमञ्चति पञ्चबाणः ॥ ३. ५९॥

आयामेन दृशोर्विशालतरयोरक्षय्यमार्द्रस्मित-
च्छायाधर्षितशारदेन्दुललितं चापल्यमात्रं शिशोः ।
आयासानपरान्विधूय रसिकैरास्वाद्यमानं मुहु-
र्जीयादुन्मदवल्लवीकुचभराधारं किशोरं महः ॥ ३. ६०॥

स्कन्धावारसदो प्रजाः कतिपये गोपास्सहायादयः
स्कन्धालम्बिनि वत्सदाम्नि धनदा गोपाङ्गनाः स्वाङ्गनाः ।
शृङ्गारा गिरिगौरिकं शिव शिव श्रीमन्ति बर्हाणि च
शृङ्गप्राहिकया तथापि तदिदं प्राहुस्त्रिलोकेश्वरम् ॥ ३. ६१॥

श्रीमद्बर्हिशिखण्डमण्डनजुषे श्यामाभिरामत्विषे
लावण्यैकरसावसिक्तवपुषे लक्ष्मीसरःप्रावृषे ।
लीलाकृष्टरसज्ञधर्ममनसे लीलामृतस्रोतसे
के वा न स्पृहयन्ति हन्त महसे गोपीजनप्रेयसे ॥ ३. ६२॥

आपाटलाधरमधीरविलोलनेत्र-
मामोदनिर्भरितमद्भुतकान्तिपूरम् ।
आविस्मितामृतमनुस्मृतिलोभनीय-
मामुद्रिताननं महो मधुरं मुरारेः ॥ ३. ६३॥

जागृहि जागृहि चेतश्चिराय चरितार्थाय भवतः ।
अनुभूयतामिदमिदं पुरः स्थितं पूर्णनिर्वाणम् ॥ ३. ६४॥

चरणयोररुणं करुणार्द्रयोः
कचभरे बहुलं विपुलं दृशोः ।
वपुषि मञ्जुलमञ्जनमेचके
वयसि बालमहो मधुरं महः ॥ ३. ६५॥

मालाबर्हमनोज्ञकुन्तलभरं वन्यप्रसूनोक्षितां
शैलेयद्रवकॢप्तचित्रतिलकं शाश्वन्मनोहारिणीम् ।
लीलावेणुरवामृतैकरसिकां लावण्यलक्ष्मीमयीं
बालां बालतमालनीलवपुषं वन्दे परां देवताम् ॥ ३. ६६॥

गुरु मृदुपदे गूढं गुल्फे घनं जघनस्तले
नलिनमुदरे दीर्घं बाह्वोर्विशालमुरस्थले ।
मधुरमधरे मुग्धं वक्त्रे विलासि विलोचने
बहु कचभरे वन्यं वेषे मनोज्ञमहो महः ॥ ३. ६७॥

जिहानं जिहानं सुजानेन मौग्ध्यं
दुहानं दुहानं सुधां वेणुनादैः ।
लिहानं लिहानं सुधीर्घैरपाङ्गै-
र्महानन्दसर्वस्वमेतन्नमस्ताम् ॥ ३. ६८॥

लसद्बर्हापीडं ललितललितस्मेरवदनं
भ्रमत्क्रीडापाङ्गं प्रणतजनतानिर्वृतिपदम् ।
नवाम्भोदश्यामं निजमधुरिमाभोगभरितं
परं देवं वन्दे परिमलितकैशोरकरसम् ॥ ३. ६९॥

सारस्यसामग्र्यमिवाननेन
माधुर्यचातुर्यमिव स्मितेन ।
कारुण्यतारुण्यमिवेक्षितेन
चापल्यसाफल्यमिदं दृशोर्मे ॥ ३२. ७०॥

यत्र वा तत्र वा देव यदि विश्वसिमस्त्वयि ।
निर्वाणमपि दुर्वारमर्वाचीनानि किं पुनः ॥ ३. ७१॥

रागान्धगोपीजनवन्दिताभ्यां
योगीन्द्रभृङ्गेन्द्रनिषेविताभ्याम् ।
आताम्रपङ्केरुहविभ्रमाभ्यां
स्वामिन् पदाभ्यामयमञ्जलिस्ते ॥ ३. ७२॥

अर्थानुलापान्व्रजसुन्दरीणा-
मकृत्रिमाणाञ्च सरस्वतीनाम् ।
आर्द्राशयेन श्रवणाञ्चलेन
संभावयन्तं तरुणं गृणीमः ॥ ३. ७३॥

मनसि मम सन्निधत्तां मधुरमुखा मन्थरापाङ्गा ।
करकलितललितवंशा कापि किशोरा कृपालहरी ॥ ३. ७४॥

रक्षन्तु नः शिक्षितपाशुपाल्या
बाल्यावृता बर्हिशिखावतंसाः ।
प्राणप्रियाः प्रस्तुतवेणुगीताः
शीतादृशोः शीतलगोपकन्याः ॥ ३. ७५॥

स्मितस्तबकिताधरं शिशिरवेणुनादामृतं
मुहुस्तरललोचनं मदकटाक्षमालाकुलम् ।
उरस्थलविलीनया कमलया समालिङ्गितं
भुवस्थलमुपागतं भुवनदैवतं पातु नः ॥ ३. ७६॥

नयनाम्बुजे भजत कामदुघं
हृदयाम्बुजे किमपि कारुणिकम् ।
चरणाम्बुजे मुनिकुलैकधनं
वदनाम्बुजे व्रजवधूविभवम् ॥ ३. ७७॥

निर्वासनं हन्त रसान्तराणां
निर्वाणसाम्राज्यमिवावतीर्णम् ।
अव्याजमाधुर्यमहानिधान-
मव्याद्व्रजानामधिदैवतं नः ॥ ३. ७८॥

गोपीनामभिमतगीतवेषहर्षा-
दापीनस्तनभरनिर्भरोपगूढम् ।
केलीनामवतु रसैरुपास्यमानं
कालिन्दीपुलिनचरं परं महो नः ॥ ३. ७९॥

खेलतां मनसि खेचराङ्घना-
माननीयमृदुवेणिनिस्वनैः ।
कानने किमपि नः कृपास्पदं
कालमेघकलहोद्वहं महः ॥ ३. ८०॥

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि-
र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः ।
पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै-
र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥ ३. ८१।

कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत्
तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः ।
वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-
प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥ ३. ८२॥

यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं
यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् ।
यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां
तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥ ३. ८३।

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं
श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।
गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं
गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥ ३. ८४॥

यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि-
र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ ।
यत्पादाब्जविनःसृता सुरनदी शंभोः शिरोभूषणं
यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥ ३. ८५॥

रक्षतु त्वामसितजलजैरञ्जलिः पादमूले
मीना नाभीसरसि हृदये मारबाणाः मुरारेः ।
हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः
पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥ ३. ८६॥

दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते
निभृतपदमगारं वल्लवीनां प्रवृष्टः ।
मुखकमलसमीरैराशु निर्वाप्य दीपान्
कबलितनवनीतः पातु गोपालबालः ॥ ३. ८७॥

प्रातः स्मरामि दधिघोषविनीतनिद्रं
निद्रावसानरमणीयमुखारविन्दम् ।
हृद्यानवद्यवपुषं नयनाभिराम-
मुन्निद्रपद्मनयनं नवनीतचोरम् ॥ ३. ८८॥

फुल्लहल्लकवतंसकोल्लसद्
गल्लमागमगन्वीं गवेषितम् ।
वल्लवीचिकुरवासिताङ्गुली-
पल्लवं कमपि वल्लवं भजे ॥ ३. ८९॥

स्तेयं हरेर्हरति यन्नवनीतचौर्यं
जारत्वमस्य गुरुतल्पकृतापराधम् ।
हत्यां दशाननहतिर्मधुपानदोषं
यत्पूतनास्तनपयः स पुनातु कृष्णः ॥ ३. ९०॥

मार मा वस मदीयमानसे
माधवैकनिलये यदृच्छया ।
श्रीरमापतिरिहागमेदसौ
कः सहेत निजवेश्मलङ्घनम् ॥ ३. ९१॥

आकुञ्चितं जानु करं च वामं
न्यस्य क्षितौ दक्षिणहस्तपद्मे ।
आलोकयन्तं नवनीतखण्डं
बालं मुकुन्दं मनसा स्मरामि ॥ ३. ९२॥

जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् ।
सुकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥ ३. ९३॥

विहाय कोदण्डशरौ मुहूर्तं
गृहाण पाणौ मणिचारुवेणुम् ।
मायूरबर्हं च निजोत्तमाङ्गे
सीतापते त्वां प्रणमामि पश्चात् ॥ ३. ९४॥

अयं क्षीराम्भोधिः पतिरिति गवां पालक इति
श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।
अनेन प्रत्यूहो व्यरचि सततं येन जननी-
स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥ ३. ९५॥

हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।
हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥ ३. ९६॥

तमसि रविरिवोद्यन्मञ्चतामम्बुराशौ
प्लव इव तृषितानां स्वादुवर्षीव मेघः ।
निधिरिव विधतानां दीर्घतीव्रामयानां
भिषगिव कुशलं नो दातुमायातु शौरिः ॥ ३. ९७॥

कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं
हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्चारुणम् ।
कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं
गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥ ३. ९८॥

सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां
त्रैलोक्याकर्षणाङ्कं सुरनरगणिकामोहनापाङ्गमूर्तिम् ।
सेव्यं शृङ्गारभावैर्नवरभरितैर्गोपकन्यासहस्रै-
र्वन्देऽहं रसकेलीरतमतिसुभगं वश्य गोपालकृष्णम् ॥ ३. ९९॥

कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् ।
पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥ ३. १००॥

बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध-
श्रोणीजङ्घान्तयुग्मं विपुलगुरुणखप्रोल्लसत्कण्ठभूषम् ।
फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं
गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥ ३. १०१॥

वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं
गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।
नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं
देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥ ३. १०२॥

चक्रान्तध्वस्तवैरीव्रजमजितमपास्तावनीभारमाद्यै-
रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतहेतोः ।
सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं
मन्त्री विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम्॥ ३. १०३॥

कोदन्डमैक्षवमखण्डमिषुं च पौष्पं
चक्राब्जपाशसृणिकाञ्चनवंशनालम् ।
विभ्राणमष्टविधबाहुभिरर्कवर्णं
ध्यायेद्धरिं मदनगोपविलासवेषम् ॥ ३. १०४॥

अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो
नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।
नाहं धाराहिमार्द्री किमसि खगपतिर्नो हरिः किं कपीन्द्र
इत्येवं गोपकन्या प्रतिवचनजितः पातु वश्चक्रपाणिः ॥ ३. १०५॥

राधामोहन मन्दिरादुपगतश्चन्द्रावलीमूचिवान्
राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली ।
कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया
राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥ ३. १०६॥

या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी
या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।
भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां
या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥ ३. १०७॥

कृष्णानुस्मरणादेव पादसङ्घातपञ्चरः ।
शतधो भेदमायाति गिरिर्वज्रहतो यथा ॥ ३. १०८॥

यस्यात्मभूतस्य गुरोः प्रसादा-
दहं विमुक्तोऽस्मि शरीरबन्धात् ।
सर्वोपदेष्टुः पुरुषोत्तमस्य
तस्यांघ्रिपद्मं प्रणतोस्मि नित्यम् ॥ ३. १०९॥

॥ इति श्रीकृष्णकर्णामृतं समाप्तम् ॥


Written by सोमगिरि disciple Kavi Karnapura[Lila Shuka]

Nice example of Lyrical poetry[Kavya] in Sanskrit, dedicated to Lord Krishna, who is described as चिन्तामणि [नन्दगोपाल]  and he is माधुर्यादपि मधुरं …

Advertisements

Categories: Poetry, Sanskrit

Tagged as: