Sanskrit

Sutramani Yagna[सौत्रामणी]

सौत्रामणी।

3.11.1 अनुवाकः1

समिद्धा इन्द्र उषसामनीके पुरोरुचा पूर्वकृद्वावृधानः ।
त्रिभिर्देवैस्त्रिंशता वज्रबाहुर्जघान वृत्रं वि दुरो ववार ॥
नराशंसः प्रति शूरो मिमानस्तनूनपात् प्रति यज्ञस्य धाम ।
गोभिर्वपावान्मधुना समञ्जन् हिरण्यैश्चन्द्री यजति प्रचेताः ॥
ईडितो देवैर्हरिवां अभिष्टिराजुह्वानो हविषा शर्धमानः ।
पुरंदरो गोत्रभृद्वज्रबाहुरायातु यज्ञं उप नो जुषाणः ॥
जुषाणो बर्हिर् हरिवान् ना इन्द्रः प्राचीनं सीदात् प्रदिशा पृथिव्याः ।
उरुप्रथाः प्रथमानं स्योनं आदित्यैरक्तं वसुभिः सजोषाः ॥
इन्द्रं दुरः कवष्यो धावमाना वृषाणं यन्ति जनयः सुपत्नीः ।
द्वारो देवीरभितो विश्रयन्तां सुवीरा वीरं प्रथमाना महोभिः ॥
उषासानक्ता बृहती बृहन्तं पयस्वती सुदुघे शूरं इन्द्रम् ।
पेशस्वती तन्तुना संवयन्ती देवानां देवं यजतः सुरुक्मे ॥
दैव्या मिमाना मनसा पुरुत्रा होतारा इन्द्रं प्रथमा सुवाचा ।
मूर्धन् यज्ञस्य मधुना दधाना प्राचीनं ज्योतिर्हविषा वृधातः ॥
तिस्रो देवीर्हविषा वर्धमाना इन्द्रं जुषाणा वृषणं न पत्नीः ।
अछिन्नं तन्तुं पयसा सरस्वतीडा देवी भारती विश्वतूर्तिः ॥
त्वष्टा दधदिन्द्राय शुष्ममपाकोऽचिष्टुर्यशसे पुरूणि ।
वृषा यजन् वृषणं भूरिरेता मूर्धन् यज्ञस्य समनक्तु देवान् ॥
वनस्पतिरवसृष्टो न पाशैस्त्मन्या समञ्जञ् शमिता न देवः ।
इन्द्रस्य हव्यैर्जठरं पृणानः स्वदातु हव्यं मधुना घृतेन ॥
स्तोकानां इन्दुं प्रति शूरा इन्द्रो वृषायमाणो वृषभस्तुराषाट् ।
घृतप्रुषा मनसा हव्यमुन्दन्स्वामिहाकृतं जुषतां हव्यमिन्द्रः ॥

3.11.2 अनुवाकः2

होता यक्षत्समिधाग्निमिडस्पदेऽश्विनेन्द्रं सरस्वतीम् अजो धूम्रो न गोधूमैः कुवलैर् भेषजं मधुशष्पैर्न तेज इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज, होता यक्षत्तनूनपात्सरस्वतीमविर्मेषो न भेषजं पथा मधुमदाभरन्नश्विनेन्द्राय वीर्यम् बदरैरुपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षन् नराशँसं न नग्नहुं पतिं सुराया भेषजं , मेषः सरस्वती भिषग् रथो न चन्द्र्यश्विनोर्वपा इन्द्रस्य वीर्यं बदरैरुपवाकाभिर् भेषजं तोक्मभिः पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षदिडेडित आजुह्वानः सरस्वतीम् इन्द्रं बलेन वर्धयन्न् ऋषभेण गवेन्द्रियम् अश्विनेन्द्राय भेषजं यवैः कर्कन्धुभिर्मधु लाजैर्न मासरं पयः सोमः परिस्रुता घृतं मधु व्यन्व्डि आज्यस्य होतर्यज, होता यक्षद् बर्हिर् ऊर्णम्रदा भिषङ् णासत्या भिषजाश्विना , अश्वा शिशुमती भिषग् धेनुः सरस्वती भिषग् इन्द्राय दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्त्वाज्यस्य होतर्यज, होता यक्षद् दुरो दिशः कवष्यो न व्यचस्वतीर् अश्विभ्यां न दुरो दिशा इन्द्रो न रोदसी दुघे दुहे धेनुः सरस्वती शुक्रं न ज्योतिरिन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्व्क् आज्यस्य होतर्यज, होता यक्षत् सुपेशसोषे नक्तं दिवाश्विना संजानाने सुपेशसा समञ्जाते सरस्वत्या त्विषिम् इन्द्रेण भेषजं, श्येनो न रजसा हृदा पयः सोमः परिस्रुता घृतं मधु वीतामाज्यस्य होतर्यज, होता यक्षद् दैव्या होतारा भिषजाश्विनेन्द्रं न जागृवि दिवा नक्तं न भेषजैः शूषं सरस्वती भिषक् सीसेन दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु वीतामाज्यस्य होतर्यज, होता यक्षत् तिस्रो देवीर्न भेषजं त्रयस्त्रिधातवोऽपसो रूपमिन्द्रो हिरण्ययमश्विनेडा न भारती वाचा सरस्वती महा इन्द्राय दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु व्यन्व्भा आज्यस्य होतर्यज, होता यक्षत् त्वष्टारं रूपकृतं सुपेशसं वृषभं नर्यापसं त्वष्टारं इन्द्रमश्विना भिषजं नः सरस्वतीम् ओजो न जूतिरिन्द्रियं वृको न रभसो भिषग् यशः सुराया भेषजं श्रिया न मासरं पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षद्वनस्पतिं शमितारं शतक्रतुम् भीमं न मन्युं राजानं व्याघ्रं नमसाश्विना भामं सरस्वती भिषग् इन्द्राय दुह इन्द्रियम् पयः सोमः परिस्रुता घृतं मधु वेत्व् आज्यस्य होतर्यज, होता यक्षदग्निं स्वाहाज्यस्य स्तोकानां स्वाहा मेदसां पृथक् स्वाहा छागमश्विभ्यां स्वाहा मेषं सरस्वत्यै स्वाहा ऋषभमिन्द्राय सिंहाय सहस इन्द्रियम् स्वाहाग्निं न भेषजैः स्वाहा सोमं इन्द्रियैः स्वाहेन्द्रं सुत्रामाणं सवितारं वरुणं भिषजां पतिम् स्वाहा वनस्पतिं प्रियं पाथो न भेषजैः स्वाहा देवा आज्यपा जुषाणो अग्निर् भेषजं पयः सोमः परिस्रुता घृतं मधु व्यन्व्मा आज्यस्य होतर्यज ॥

3.11.3 अनुवाकः3

समिद्धो अग्निरश्विना तप्तो घर्मो विराट् सुतः ।
दुहे धेनुः सरस्वती सोमं शुक्रमिहेन्द्रियम् ।
तनूपा भिषजा सुतेऽश्विनोभा सरस्वती ।
मध्वा रजांसीन्द्रियमिन्द्राय पथिभिर्वह ॥
इन्द्रायेन्दुं सरस्वती नराशंसेन नग्नहुम् ।
अधातामश्विना मधु भेषजं भिषजा सुते ॥
आजुह्वाना सरस्वतीन्द्रायेन्द्रियाणि वीर्यम् ।
इडाभिरश्विना इषं सं ऊर्जं सं रयिं दधुः ॥
अश्विना नमुचेः सुतं सोमं शुक्रं परिस्रुता ।
सरस्वती तमाभरद् बर्हिषेन्द्राय पातवे ॥
कवष्यो न व्यचस्वतीरश्विभ्यां न दुरो दिशः ।
इन्द्रो न रोदसी उभे दुहे कामान्त्सरस्वती ॥
उषासा नक्तमश्विना दिवेन्द्रं सायमिन्द्रियैः ।
संजानाने सुपेशसा समञ्जाते सरस्वत्या ॥
पातं नो अश्विना दिवा पाहि नक्तं सरस्वति ।
दैव्या होतारा भिषजा पातं इन्द्रं सचा सुते ॥
तिस्रस्त्रेधा सरस्वत्यश्विना भारतीडा ।
तीव्रं परिस्रुता सोमं इन्द्रायासुषुवुर्मदं ॥
अश्विना भेषजं मधु भेषजं नः सरस्वती ।
इन्द्रे त्वष्टा यशः श्रियं रूपं रूपमधुः सुते ॥
ऋतुथन्द्रो वनस्पतिः शशमानः परिस्रुता ।
कीलालं अश्विभ्यां मधु दुहे धेनुः सरस्वती ॥
गोभिर्न सोमं अश्विना मासरेण परिस्रुता ।
समधातां सरस्वत्या स्वाहेन्द्रे सुतं मधु ॥

3.11.4 अनुवाकः 4

अश्विना हविरिन्द्रियं नमुचेर् धिया सरस्वती ।
आ शुक्रमासुराद्वसु मद्यमिन्द्राय जभ्रिरे ॥
यमश्विना सरस्वती हविषेन्द्रमवर्धयन् ।
स बिभेद बलं मद्यं नमुचा आसुरे सचा ॥
तं इन्द्रं पशवः सचाश्विनोभा सरस्वती ।
दधाना अभ्यनूषत हविषा यज्ञ इन्द्रियम् ॥
य इन्द्र इन्द्रियं दधुः सविता वरुणो भगः ।
स सुत्रामा हविष्पतिर् यजमानाय सश्चत ॥
सविता वरुणो दधद्यजमानाय दाशुषे ।
आदत्त नमुचेर्वसु सुत्रामा बलं इन्द्रियम् ॥
वरुणः क्षत्रमिन्द्रियं भगेन सविता श्रियम् ।
सुत्रामा यशसा बलं दधाना यज्ञमाशत ॥
युवं सुरामं अश्विना नमुचा आसुरे सचा ।
विपिपाना सरस्वतीन्द्रं कर्मस्व् आवत ॥
होता यक्षदश्विनौ सरस्वतीमिन्द्रमिमे सोमाः सुरामाणश् छागैर्न मेषैर् ऋषभैः सुताः शष्पैर्न तोक्मभिर् लाजैर्महस्वन्तो मदा मासरेण परिस्रुता शुक्राः पयस्वन्तोऽमृताः प्रस्थिता वो मधुश्च्युतस्तानश्विना सरस्वतीन्द्रो जुषन्तां सोम्यं मधु , पिबन्तु, मदन्ताम् , व्यन्तु, होतर्यज ॥
पुत्रमिव पितरा अश्विनोभेन्द्रावथुः काव्यैर् दंसनाभिः ।
यत् सुरामं व्यपिबः शचीभिः सरस्वती त्वा मघवन्नभिष्णक् ॥
अश्विना गोभिरिन्द्रियमश्वेभिर् वीर्यं बलं ।
हविषेन्द्रं सरस्वती यजमानं अवर्धयन् ॥
ता नासत्या सुपेशसा हिरण्यवर्त्तनी नराः ।
सरस्वती हविष्मतीन्द्रं कर्मस्व् अवतु ॥
ता भिषजा सुकर्मणा सा सुदुघा सरस्वती ।
स वृत्रहा शतक्रतुरिन्द्राय दधुरिन्द्रियम् ॥
अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।
वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहन्तम् ॥
यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टासा आहुताः ।
कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥

3.11.5 अनुवाकः 5

देवं बर्हिः सरस्वती सुदेवमिन्द्रायाश्विना तेजो न चक्षुरक्षोर् बर्हिषा दधुरिन्द्रियम् , वसुवने वसुधेयस्य वेतु , यज देवीर् द्वारो, अश्विना भिषजेन्द्रं सरस्वती प्राणान् न वीर्यं नसि द्वारो दधुरिन्द्रियम् , वसुवने वसुधेयस्य व्यन्तु , यज देवी उषासा, अश्विना सुत्रामेन्द्रं सरस्वती बलं न वाचं आस्ये उपाभ्यां(उषाभ्यां) दधुरिन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवी जोष्ट्री सरस्वत्यश्विनेन्द्रमवर्धयन् , श्रोत्रं न कर्णयोर्यशो जोष्ट्रीभ्यां दधुरिन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवी ऊर्जाहुती दुघे, सुदुघेन्द्रं सरस्वती अश्विना भिषजावतं शुक्रं न ज्योतिः स्तनयोराआहुती धत्त इन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवा देवानां भिषजा होतारा इन्द्रमश्विना वषट्कारैः सरस्वती त्विषिं न हृदये मतिम् होतृभ्यां दधुरिन्द्रियम् , वसुवने वसुधेयस्य वीताम् , यज देवीस्तिस्र, स्तिस्रो देवीरश्विनेडा सरस्वती शूषं न मध्ये नाभ्या इन्द्राय दधुरिन्द्रियम् , वसुवने वसुधेयस्य व्यन्तु, यज देव इन्द्रो नराशंसस्त्रिवरूथः सरस्वत्या अश्विभ्यां ईयते रथो, रेतो न रूपममृतं जनित्रं इन्द्राय त्वष्टा दधदिन्द्रियाणि, वसुवने वसुधेयस्य वेतु, यज देवो देवैर्वनस्पतिर् हिरण्यपर्णो अश्विभ्यां सरस्वत्या सुपिप्पल इन्द्राय पच्यते मधु ओजो न जूतिर् वृषभो न भामं वनस्पतिर्नो दधदिन्द्रियाणि, वसुवने वसुधेयस्य वेतु, यज देवं बर्हिर्वारितीनामध्वरे स्तीर्णमश्विभ्यां ऊर्णम्रदाः सरस्वत्या स्योनमिन्द्र ते सद ईशाया मन्युं राजानं बर्हिषा दधुरिन्द्रियम् , वसुवने वसुधेयस्य वेतु, यज देवो अग्निः स्विष्टकृद्देवान् यक्षद्यथायथं होतारा इन्द्रमश्विना वाचा वाचं सरस्वतीम् अग्निं सोमं स्विष्टकृत् स्विष्टा इन्द्रः सुत्रामा सविता वरुणो भिषग् इष्टो देवो वनस्पतिः, स्विष्टा देवा आज्यपाः, स्विष्टो अग्निरग्निना होता होत्रे स्विष्टकृत्सहो न दधदिन्द्रियम् ऊर्जमपचितिं स्वधां, वसुवने वसुधेयस्य वेतु, यज ॥

3.11.6 अनुवाकः 6

सोमो राजामृतं सुत ओषधीनामपां रसः ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अद्भ्यः क्षीरं व्यपिबत् क्रुङ्ङ् आङ्गिरसो धिया ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अद्भ्यः सोमं व्यपिबच् छन्दोभिर्हंसः शुचिषत् ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
अन्नात् परिस्रुतो रसं ब्रह्मणा क्षत्रं व्यपिबत् ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
रेतो मूत्रं विजहाति योनिं प्रविशदिन्द्रियम् ।
गर्भो जरायुणावृता उल्बं जहाति जन्मना ॥
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
दृष्ट्वा रूपे व्याकरोत्सत्यानृते प्रजापतिः ।
अश्रद्धामनृतेऽदधाच् श्रद्धां सत्ये प्रजापतिः ॥
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
वेदेन रूपे व्यपिबत् सुतासुतौ प्रजापतिः ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥
दृष्ट्वा परिस्रुतो रसं शुक्रेण शुक्रं व्यपिबत् पयः सोमं प्रजापतिः ।
ऋतेन सत्यं इन्द्रियं विपानं शुक्रमन्धसः ।
इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु ॥

3.11.7 अनुवाकः 7

परीतो षिञ्चता सुतं सोमो य उत्तमं हविः ।
दधन्वान् यो नर्यो अप्स्वन्तरा सुषाव सोमं अद्रिभिः ॥
सोमोऽसि अश्विभ्यां पच्यस्व सरस्वत्यै पच्यस्व इन्द्राय सुत्राम्णे पच्यस्व ॥
पुनातु ते परिस्रुतं सोमं सूर्यस्य दुहिता ।
वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्राक् सोमो अतिद्रुतः ।
इन्द्रस्य युज्यः सखा ॥
वायोः पूतः पवित्रेण प्रत्यक् सोमो अतिस्रुतः ।
इन्द्रस्य युज्यः सखा ॥
ब्रह्म क्षत्रं पवते तेज इन्द्रियं सुरायाः सोमः सुत आसुतो मदाय ।
शुक्रेण देव देवताः पिपृग्धि रसेनान्नं यजमानाय धेहि ॥
कुविदङ्ग, नाना हि वां ॥
या व्याघ्रं विषूचिकोभौ वृकं च रक्षति ।
श्येनं पतत्रिणं सिंहं सेमं पात्वंहसः ॥
सुरावन्तं बर्हिषदं सुवीरं यज्ञं हिन्वन्ति महिषा नमोभिः ।
दधानाः सोमं दिवि देवतासु मदेनेन्द्रं यजमानाः स्वर्काः ॥
यस्ते रसः संभृता ओषधीषु सोमस्य शुष्मः सुरायां सुतस्य ।
तेन जिन्व यजमानं मदेन सरस्वतीमश्विना इन्द्रमग्निम् ॥
यमश्विना नमुचेरासुरादधि सरस्वत्यसुनोदिन्द्रियाय ।
इमं तं शुक्रं मधुमन्तमिन्दुं सोमं राजानमिह भक्षयामि ॥
यदत्र शिष्टं रसिनः सुतस्य यमस्येन्दो अपिबच् शचीभिः ।
अहं तमस्य मनसा शिवेन सोमं राजानमिह भक्षयामि ॥

3.11.8 अनुवाकः 8

देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां आददे ॥
त्रया देवा एकादश त्रयस्त्रिंशाः सुराधसः ।
बृहस्पतिपुरोहिता देवस्य सवितुः सवे देवा देवैरवन्तु त्वा ॥
प्रथमास्त्वा द्वितीयैरभिषिञ्चन्तु, द्वितीयास्त्वा तृतीयै, स्तृतीयास्त्वा सत्येन, सत्यं त्वा ब्रह्मणा, ब्रह्म त्वा यजुर्भि , र्यजूंषि त्वा सामभिः, सामानि त्वा ऋग्भि , र्ऋचस्त्वा पुरोनुवाक्याभिः, पुरोनुवाक्यास्त्वा याज्याभि , र्याज्यास्त्वा वषट्कारै , र्वषट्कारास्त्वाहुतिभिरभिषिञ्चन्तु , आहुतयस्ते कामान्त्समर्धयन्त्व, सा अश्विनोस्त्वा तेजसा ब्रह्मवर्चसायाभिषिञ्चामि, सरस्वत्यास्त्वा वीर्येण यशसेऽन्नाद्यायाभिषिञ्चामि , इन्द्रस्य त्वेन्द्रियेणौजसे बलायाभिषिञ्चामि, भूः स्वाहा ॥
शिरो मे श्रीर्यशो मुखं त्विषिः केशाश्च श्मश्रूणि ।
राजा मे प्राणो अमृतं सम्राट् चक्षुर्विराट् श्रोत्रं ॥
जिह्वा मे भद्रं वाङ् महो मनो मन्युः स्वराड् भामः ।
मोदाः प्रमोदा अङ्गुलीरङ्गानि मित्रं मे सहः ॥
बाहू मे बलं इन्द्रियं हस्तौ मे कर्म वीर्यम् ।
आत्मा क्षत्रमुरो मम ॥
पृष्टीर्मे राष्ट्रम् उदरं अंसौ ग्रीवाश्च श्रोण्यौ ।
ऊरू अरत्नी जानुनी विशो मेऽङ्गानि सर्वतः ॥
नाभिर्मे चित्तं विज्ञानं पायुर्मेऽपचितिर् भसत् ।
आनन्दनन्दा आण्डौ मे भगः सौभाग्यं पसः ॥
लोमानि प्रयतिर्मम त्वङ् मा आनतिरागतिः ।
मांसं मा उपनतिर्वस्व् अस्थि मज्जा मा आनतिः ॥
जङ्घाभ्यां पद्भ्यां धीरोऽस्मि विशि राजा प्रतिष्ठितः ।
प्रति ब्रह्मन् प्रतितिष्ठामि क्षत्रे प्रत्यश्वेषु प्रतितिष्ठामि गोषु ॥
प्रति प्रजायां प्रतितिष्ठामि पृष्ठे, प्रति प्राणेषु प्रतितिष्ठाम्यात्मन् , द्यावापृथिव्योः प्रतितिष्ठामि यज्ञे ॥

3.11.9 अनुवाकः 9

सीसेन तन्त्रं मनसा मनीषिण ऊर्णासूत्रेण कवयो वयन्ति ।
अश्विना यज्ञं सविता सरस्वतीन्द्रस्य रूपं वरुणो भिषज्यन् ॥
तदस्य रूपममृतं शचीभिस्तिस्रो दधुर्देवताः संरराणाः ।
लोमानि शष्पैर् बहुधा न तोक्मभिस्त्वगस्य मांसमभवन् न लाजाः ॥
तदश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशो अन्तरं ।
अस्थि मज्जानं मासरं कारोतरेण दधतो गवां त्वचि ॥
सरस्वती मनसा पेशलं वसु नासत्याभ्यां वयति दर्शतं वपुः ।
रसं परिस्रुतो न रोहितं नग्नहुर् धीरस्तसरं न वेम ॥
पयसः शुक्रममृतं जनित्रं सुराया मूत्राज्जनयन्त रेतः ।
अपामतिं दुर्मतिं बाधमाना ऊवध्यं वातात् सब्वं तदारात् ॥
इन्द्रः सुत्रामा हृदयेन सत्यं पुरोडाशेन सविता जजान ।
यकृत् क्लोमानं वरुणो भिषज्यन्मतस्ने वायव्यैर्न मिनाति पित्तं ॥
आन्त्राणि स्थालीर्मधु पिन्वमाना गुदाः पात्राणि सुदुघा न धेनुः ।
श्येनस्य पत्त्रं न प्लीहा शचीभिरासन्दी नाभिरुदरं न माता ॥
कुम्भो वनिष्ठुर्जनिता शचीभिर्यस्मिन्नग्रे योन्यां गर्भो अन्तः ।
प्लाशिर् व्यक्तः शतधारा उत्सो दुहे न कुम्भी स्वधां पितृभ्यः ॥
मुखं सदस्य शिरा इत्सतेन जिह्वा पवित्रं अश्विनासन्त्सरस्वती ।
चप्यं न पायुर् भिषग् अस्य वालो वस्तिर्न शेपो हरसा तरस्वी ॥
अश्विभ्यां चक्षुरमृतं ग्रहाभ्यां छागेन तेजो हविषा घृतेन ।
पक्ष्माणि गोधूमैः कुवलैरुतानि पेशो न शुक्रमसितं वसाते ॥
अविर्न मेषो नसि वीर्याय प्राणस्य पन्था अमृतं ग्रहाभ्यां ।
सरस्वत्य् उपवाकैर् व्यानं नस्यानि बर्हिर् बदरैर्जजान ॥
इन्द्रस्य रूपं ऋषभो बलाय कर्णाभ्यां श्रोत्रममृतं ग्रहाभ्यां ।
यवैर्न बर्हिर् भ्रुवि केसराणि कर्कन्धु जज्ञे मधु सारघं मुखे ॥
आत्मन्नुपस्थे न वृकस्य लोम मुखे श्मश्रूणि न व्याघ्रलोम ।
केशा न शीर्षन् यशसे श्रियै शिखा सिंहस्य लोम त्विषिरिन्द्रियाणि ॥
अङ्गैरात्मानं भिषजा तदश्विनात्मानं अङ्गैः समधात्सरस्वती ।
इन्द्रस्य रूपं शतमानं आयुः शुक्रं न ज्योतिरमृतं दधाना ॥
सरस्वती योन्यां गर्भमन्तरश्विभ्यां पत्नी सुकृतं बिभर्ति ।
अपां रसेन वरुणो न साम्नेन्द्रं श्रियै जनयन्नप्सु राजा ॥
तेजः पशूनां हविरिन्द्रियावत् परिस्रुता पयसा सारघं मधु ।
अश्विभ्यां दुग्धं भिषजा सरस्वती सुतासुताभ्यां अमृतः सोमा इन्दुः ॥

3.11.10 अनुवाकः 10

पुनन्तु मा पितरः सोम्यासः पुनन्तु मा पितामहाः ।
पवित्रेण शतायुषा विश्वमायुर् व्यश्नवै ॥
पुनन्तु मा पितामहाः पुनन्तु प्रपितामहाः ।
पवित्रेण शतायुषा सर्वमायुर् व्यश्नवै ॥
अग्ना आयूंषि पवसे ॥
पवमानः स्वर्जनः पवित्रेण विचर्षणिः ।
यः पोता स पुनातु मा ॥
पुनन्तु मा देवजनाः पुनन्तु मनवो धिया ।
पुनन्तु विश्वा भूता मा जातवेदः पुनाहि मा ॥
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे ।
ज्योक् च सूर्यं दृशे ॥
उभाभ्यां देव सवितः पवित्रेण सवेन च ।
मां पुनाहि विश्वतः ॥
पवित्रेण पुनाहि मा शुक्रेण देव दीद्यत् ।
अग्ने क्रत्वा क्रतूंरनु ॥
यत्ते पवित्रं अर्चिष्यग्ने विततमन्तरा ।
ब्रह्म तेन पुनीमहे ॥
वैश्वदेवी पुनती देव्यागाद् यस्या बह्व्यस्तन्वो वीतपृष्ठाः ।
तया मदन्तः सधमाद्येषु वयं स्याम पतयो रयीणां ॥
वैश्वानरो रश्मिभिर्मा पुनातु वातः प्राणेनेषिरो मयोभूः ।
द्यावापृथिवी पयसा पयोभिर् ऋतावरी यज्ञिये मा पुनीताम् ॥
बृहद्भिः सवितस्त्रिभिर्वर्षिष्ठैर्देव मन्मभिः ।
अग्ने दक्षैः पुनीमहे ॥
ये समानाः समनसः पितरो यमराज्ये ।
तेषां लोकः स्वधा नमो यज्ञो देवेषु कल्पताम् ॥
ये समानाः समनसो जीवा जीवेषु मामकाः ।
तेषां श्रीर्मयि कल्पतामस्मिंल्लोके शतं समाः ॥
द्वे स्रुती ॥
इदं हविः प्रजननं मे अस्तु दशवीरं सर्वगणं स्वस्तये ।
आत्मसनि प्रजासनि क्षेत्रसनि पशुसनि लोकसनि अभयसनि ॥
अग्निः प्रजां बहुलां मे कृणोत्वन्नं पयो रेतो अस्मासु धेहि ॥
यद्देवा देवहेडनं देवासश्चकृमा वयम् ।
अग्निर्मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः ॥
यदि स्वपन् यदि जाग्रदेनांसि चकृमा वयम् ।
वायुर्मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः ॥
यदि दिवा यदि नक्तमेनांसि चकृमा वयम् ।
सूर्यो मा तस्मादेनसो विश्वान् मुञ्चत्वंहसः ॥
धाम्नो धाम्नो ॥
यद् ग्रामे ॥
पवित्रमसि यज्ञस्य पवित्रं यजमानस्य ।
तन्मा पुनातु सर्वतो विश्वस्माद्देवकिल्बिषात् सर्वस्माद्देवकिल्ब्इषात् ॥
द्रुपदादिवेन् मुमुचानः स्विन्नः स्नात्वी मलादिव ।
पूतं पवित्रेणेवाज्यं विश्वे मुञ्चन्तु मैनसः ॥
समावृतत्पृथिवी समुषाः समु सूर्यः ।
वैश्वानरज्योतिर् भूयासं विभुं कामं व्यशीय भूः स्वाहा ॥

3.11.11 अनुवाकः 11

समिद्धो अग्निः समिधा सुसमिद्धो वरेण्यः ।
गायत्री छन्द इन्द्रियं त्रियविर्गौर्वयो दधुः ॥
तनूनपाच् शुचिव्रतस्तनूपाश्च सरस्वती ।
उष्णिक् छन्द इन्द्रियं दित्यवाड् गौर्वयो दधुः ॥
इडाभिरग्निरीड्यः सोमो देवो अमर्यःगौ ।
अनुष्टुप् छन्द इन्द्रियं पञ्चाविर्गौर्वयो दधुः ॥
सुबर्हिरग्निः पूषण्वान्ती ुयंर्णबर्हिरमर्यःधु ।
बृहती छन्द इन्द्रियं त्रिवत्सो गौर्वयो दधुः ॥
दुरो देवीर् दिशो महीर् ब्रह्मा देवो बृहस्पतिः ।
पङ्क्तिश्छन्द इन्द्रियं तुर्यवाड् गौर्वयो दधुः ॥
उषे यह्वी सुपेशसा विश्वे देवा अमर्त्याः ।
त्रिष्टुप् छन्द इन्द्रियं पृष्ठवाड् गौर्वयो दधुः ॥
दैव्या होतारा भिषजेन्द्रेण सयुजा युजा ।
जगती छन्द इन्द्रियमनड्वान् गौर्वयो दधुः ॥
तिस्रो देवीरिडा मही भारती मरुतो विशः ।
विराट् छन्द इन्द्रियं धेनुर्गौर्न वयो दधुः ॥
त्वष्टा तुरीपो अद्भुत इन्द्राग्नी पुष्टिवर्धना ।
द्विपदा छन्द इन्द्रियम् उक्षा गौर्न वयो दधुः ॥
शमिता नो वनस्पतिः सविता प्रसुवन् भगम् ।
ककुप् छन्द इहेन्द्रियमृषभो गौर्वयो दधुः ॥
स्वाहा यज्ञं वरुणः सुक्षत्रो भेषजं करत् ।
अतिछन्दा इन्द्रियं बृहद्वशा वेहद्वयो दधुः ॥

3.11.12 अनुवाकः 12

वसन्तेन ऋतुना देवा वसवस्त्रिवृता स्तुतं ।
रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥
ग्रीष्मेण ऋतुना देवा रुद्राः पञ्चदशे स्तुतं ।
बृहता यशसा बलं हविरिन्द्रे वयो दधुः ॥
वर्षाभिर् ऋतुनादित्याः स्तोमे सप्तदशे स्तुतं ।
वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः ॥
शारदेन ऋतुना देवा एकविंश ऋभवः स्तुतं ।
वैराजेन श्रिया श्रियं हविरिन्द्रे वयो दधुः ॥
हेमन्तेन ऋतुना देवास्त्रिणवे मरुतः स्तुतं ।
बलेन शक्वरीः सहो हविरिन्द्रे वयो दधुः ॥
शैशिरेण ऋतुना देवास्त्रयस्त्रिंशेऽमृतं स्तुतं ।
सत्येन रेवतीः क्षत्रं हविरिन्द्रे वयो दधुः ॥

इति तृतीयकाण्डे सौत्रामणीयो नाम एकादशः प्रपाठकः ॥


Source : मैत्रायणीसंहिता- काण्डं 3- प्रपाठकः 11

Advertisements

Categories: Sanskrit

Tagged as: , ,