Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanatan Theology » Isa Upanishad – ईशावास्योपनिषत्

Isa Upanishad – ईशावास्योपनिषत्

Hindu Holy Man

Vedic rishis are the careers of Eterlan Sanatan Vedic Dharma.

Know that all this, whatever moves in this moving world, is enveloped by God. Therefore find your enjoyment in renunciation; do not covet what belongs to others.

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥

Aum. That unmanifested Brahman is perfect, and this manifested Brahman is also perfect. Fullness proceeds from fullness. Taking fullness from fullness, all that remains is fullness.

Isa Upanishad

॥ ॐ तत्सत् ॥

ईशा वास्यमिदँ सर्वं यत्किंच जगत्यां जगत् ॥ तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्घनम् ॥१॥

कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः ॥ एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥२॥

असूर्या नाम ते लोका अन्धेन तमसावृताः ॥ ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनः ॥३॥

अनेजदेकं मन्सो जवीयो नैनद्देवा आप्नुवन्प्रुर्वमर्षत् ॥ तद्धावतोऽन्यान्त्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥४॥

तदेजति (IshwarIshwar ईश्वर (ई+श्वर) ईश. ईशावास्योपनिषत् (तदेजति तन्नैजति तद्दूरे तद्वन्तिके॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाह्यतः). Biblical God is not ईश्वर. क्लेश कर्म विपाकाशयैर् अपरामृष्टः पुरुष विशेष ईश्वरः.  Om (प्रणव) is the signature of  Ishwar (Patanjali).पूर्वेषाम् अपि गुरुः कालेनानवच्छेदात्  (तत्र निरतिशयं सर्वज्ञ बीजम्). Vedic Devatas are physical Energy of ईश्वर. They exist for fulfilling  the purpose of Yagna.) तन्नैजति तद्दूरे तद्वन्तिके॥ तदन्तरस्य सर्वस्य तदु सर्वस्यास्य वाह्यतः ॥५॥

यस्तु सर्वानि भूतान्यात्मन्येबानुपश्यति ॥ सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥६॥

स (Ish) पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् ॥७॥

कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥८॥

अन्धन्तमः प्रविशन्ति येऽविद्यामुपासते ॥ ततो भूय इव ते तमो य उ विद्यायाँ रताः ॥९॥

अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे॥१०॥

विद्यां चाविद्यां च यस्तद्वेदोभयँ स ह ॥ अविद्द्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥११॥

अन्धन्तमः प्रविशन्ति येऽसंभूतिमुपासते ॥ ततो भूय इव ते तमो य उ संभूत्याँ रताः ॥१२॥

अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ॥ इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥१३॥

संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ॥ विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ॥१४॥

हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ॥ तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥१५॥

पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन्समूह ॥ तेजो यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥१६॥

वायुरनिलममृतमथेदं भस्मान्तँ शरीरम् ॥ ॐ क्रमो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ॥१७॥

अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ॥ युयोध्यस्मज्जुहुराणमेनो भुयिष्ठां ते नमौक्तिं विधेम ॥१८॥

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते ॥ पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥


ॐ शन्तिः शान्तिः शान्तिः ॥

इति वाजसनेयसंहितायामीशावास्योपनिषत्संपूर्णा ॥

 Isha Bashya Upanishad with Sankara Commentary [Isopanisad]

Isha Bashya Upanishad Sukla Yayur Veda Madhyandin Branch with Swara Marks