Sanskrit Dictionary

आ – AA kar

आ, आकारः । द्वितीयस्वरवर्णः । अस्योच्चारणस्थानं

कण्ठः । स च दीर्घः प्लुतश्च भवति ।
“आकारं परमाश्चर्य्यं शङ्खज्योतिर्म्मयं प्रिये ।
ब्रह्मविष्णुमयं वर्णं तथा रुद्रमयं प्रिये ।
पञ्चप्राणमयं वर्णं स्वयं परमकुण्डली” ॥
इति कामधेनुतन्त्रे ॥ अस्य लेखनप्रकारो यथा —
“अकाररूपमासद्य दक्षक्रोडायता त्वधः ।
ब्रह्मादयस्तथा शक्तिस्तासु तिष्ठन्ति नित्यशः” ॥
इति वर्णोद्धारतन्त्रं । तस्य नामानि यथा —
“आकारो विजयानन्तो दीर्घच्छायो विनायकः ।
क्षीरोदधिः पयोदश्च पाशो दीर्घास्यवृत्तकौ ॥
प्रचण्ड एकजो रुद्रो नारायण इभेश्वरः ।
प्रतिष्ठा मानदा कान्तो विश्वान्तक गजान्तकः ॥
पितामहो द्विठान्तो भूः क्रिया कान्तिश्च सम्भवः ।
द्वितीया मानदा काशी विघ्नराजः कुजो वियत् ॥
स्वरान्तकश्च हृदयमङ्गुष्ठो भगमालिनी” ॥

शब्दकल्पद्रुमः


अव्य० आप–क्विप् पृ० पलोपः ।

१ वाक्ये (वाक्यस्यान्य-थात्वद्योतने पूर्ब्बंमेवममंस्था इदानीमेवमिति प्रतिपादने)

२ स्मृतौ (आ एवं मन्यसे इति स्मृतस्यान्यथा प्रतिपादने)
३ अनुकम्पायाम् ।

४ समुच्चये,

५ अङ्गीकारे,

६ ईषदर्थे
७ क्रियायोगे,

८ सीमायां

९ व्याप्तौ च ।

वाक्यस्मृतिभिन्ने-ऽस्य ङित्त्वमिच्छन्ति अङितोऽस्य एकाज्निपातत्वात् प्रगृ-
ह्यसंज्ञा ङितस्तु न । अतवोक्तम् “मर्य्यादायामभिविधौ
क्रियायोगेषदर्थयोः । य आकारः स ङित् प्रोक्तः वाक्य-
स्मरणयोरङित्” तत्र सीमायाम् आ–आत्मबोधात्
आत्मबोधात् “लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्” ।
व्याप्तौ ब्रह्मास्त्यासकलात् । सकलं व्याप्येत्यर्थः । एतदर्थे
विकल्पेन अव्ययीभावः । आत्मबोधम् । आसकलम् । धातुयोगः
उपसर्गः । यथा आगच्छत् ग्रामात् । ईषदर्थे आकम्पः
आकेकरः । वाक्यञ्च वाक्यार्थद्योतकता । स्मरणं प्रमाणा-
न्तरावावगतस्य नतु शब्दमात्रेणावगतस्येति तयोर्भेदः ।

वाचस्पत्यम्


अकारो वासुदेवः स्यादाकारश्च पितामहः ।

पूजायां अपि माङ्गल्ये आकारः परिकीर्त्तितः । । १

एकाक्षरकोशः

Categories: Sanskrit Dictionary