Sanskrit Dictionary

तत्त्वज्ञान- Tattvajyana

तत्त्वज्ञान न० ६ त० । १ याथार्थ्यज्ञाने, २ ब्रह्मज्ञाने च ।

“प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णय वादर्जल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां
तत्त्वज्ञानान्निःश्रेयसाधिगमः” इति गौ० सू० । ३

अनारोपितवस्तुप्रत्यये । इदं सर्वं द्वेतजातमद्वितीये चिदा-
नन्दात्मनि मायया कल्पितत्वात् मृषैव आत्मैर्वैकः
परमार्थसत्यः सचिदानन्दाद्वयोऽहमस्मीति ४ परिज्ञाने ।
५ यथार्थ्यज्ञाने । यथा सति घटादिवस्तुनि सदिति
ज्ञानम् असति च शशशृङ्गादावसदिति ज्ञानम् ।
“निखिललोकविमोक्षमुख्योपायं मननोपायमात्मन-
स्तत्त्वज्ञानमामनन्ति” । यथा आत्मा शरीरादिभ्यो
भिन्न इत्याकारं ज्ञानमिति । नैयायिकाः ।

इतरनिवृत्तिपूर्बको व्रह्मात्मावगम इति मायावादिनो वदन्ति ।
भगवद्विषयकमपरोक्षज्ञानमिति द्वैतवादिवेदान्तिन आहुः

वाचस्पत्यम्

Again

तत्त्वज्ञानार्थदर्शनम् means

तत्त्वज्ञानार्थदर्शनम् न० ।

तत्त्वज्ञानस्याहंब्रह्मास्मीति साक्षात्कारस्य वेदान्तवाक्यकरणकस्यामानित्वा दसर्वसा-
धनपरिपाकफलस्य अर्थः प्रयोजनमविद्यातत्कार्य्या-त्मकनिखिलदुःखनिवृत्तिरूपः परमानन्दावाप्तिरूपश्च
मोक्षः तस्य दर्शनम् आलोचनम् ।

तत्त्वज्ञानार्थे आलोचने तत्त्वज्ञानफलालोचने हि तत् साधने प्रवृत्तिः स्यात् इति तदालोचनं मोक्षार्थतत्त्वज्ञानसाधनम् ।

Again

तत्त्वविद् – means

तत्त्वविद् त्रि०

तत्त्वं वेत्ति विद्–क्विप् । पदार्थानां याथार्थ्य

ज्ञातरि “तत्त्ववित्तु महाबाहो! गुणकर्मविभागशः”
गोता । २ परमेश्वरे पु० “तत्त्वं तत्त्वविदेकात्मा जन्म-
मृत्युजरातिगः” विष्णुस० । “तत्त्वं स्वरूपं यथाव-
द्वेत्तीति तत्त्वविद्” भा० ।


वाचस्पत्यम्

Categories: Sanskrit Dictionary