Sanskrit Dictionary

हठयोग – Hatha Yoga

हठयोग पु०

हठेन बलात्कारेण योगः । प्राणायामादिक्रियाभ्यासजे राजयोगं विनैव परमात्मसाक्षात्काररूपे
चित्तवृत्तिरोधात्मके योगे ।
योगश्च द्विविधः हठयोगः राजयोगश्च । तत्र हठयोगः
क्रियाविशेषसाध्यः हठदीपिकादावुक्तप्रकारः । राजयो-
गस्तु भावनाविशेषसाध्यः पातञ्जलादावुक्तः । स च
पतञ्जश्चिशब्दे दर्शितः । हठयोगोऽत्र साङ्गाऽभिधीयते
तत्साधनप्रशंसादिः उभवयोगयोरपि परपरसापेक्षतया
एककार्य्याकरत्वम् । “हठं विना सिव्यति राजयोगो
नर्त्ते हठाच्चापि न राजयोगः । तदाभ्यसेत् पूर्वमतः
सुनिष्पत्त्यन्तं हठं सद्गुरुतोऽभिलब्धम् । अभ्यासेन
विना दृढ़ेन सुचिरं साङ्गस्य योगस्य वा योगी याति
न राजयोगपदवीं मध्येऽन्तरालैर्युताम् । वृद्धो वा
तरुणः सरुक् च शनकैर्योगेऽस्ततन्त्रः क्रियायुक्तः
सिद्धिमुपैति शास्त्रपठनान्ना योगसिद्धिर्भवेत् । यो
नास्तिकोऽभ्यासविहीन उग्रश्चण्डप्रियो वै बहुभाषितो
यः । अपथ्यशीलोऽमितभुगदरिद्रो न योगसिद्धिं
लभते कदाचित् । योगस्य वीजं परमं क्रियैव क्रियैव
योगस्य फलप्रदात्री । सङ्केतविद्योगगुरोः प्रलब्धा
सुधीरतो योगपरस्य नान्यत् । स्यात् सङ्गः सिद्धतीर्थैर्यदि
सुकृतवशात् प्राग्भवाभ्यासजोऽयं यद्द्वारा पश्चिमेन
त्वरितमिह फलं दृश्यते क्वापि लाके । तत्सर्वं नान्य
नाड्या शिरसि परिगतेनानिलेनेक्ष्यतेऽदस्तस्मादभ्यास एव
त्वरितलघुभिदायोगतस्तीर्थलब्धात् । अवृत्तिकस्यात्मनि
शान्तवाहसम्पादानार्थं मनसः प्रयत्नः । अभ्यास एवं
चिरकालः सेवितः सत्कारवान् स्याद् दृढ़भूमिरेष ।
जितो भवति मारुतोऽभ्यसनभूरिदार्ढ्यन्ततः कृशानुरभि-
बर्द्धते सततकुम्भकाभ्यासतः । गते हुतभुजीद्धतामशनमेति
पाकं सुखं रसादिकसुधातवः स्युरनु याति देहो वलम् ।
महाभ्यासबन्धौ बलात् सद्रमस्य तदा जारणं स्याच्च दोषा
अशेषाः । विशुष्यन्ति विण्मूत्ररोगादयो वै नृणां काटि-
जन्माजितव्याधयश्च । नाड़ाविशुद्धिर्हठसिद्धिलक्षणं विना
ह्यपार्था चिरकुम्भसंधृतिः । गुरूक्ततो युक्तविशेषतो
धृतेऽनिले सुषुमणा कुरुतेऽग्निदीपनम् । प्रत्याहारात्
प्राग्जिताऽक्षौघवृत्तिर्योगीन्द्राऽथो चालयेत् कुण्डलीं
स्वाम् । सिद्धपाणाभ्यासतश्चालिताऽसावत्युच्चैर्द्राक् व्रह्म
रन्ध्रान्तरे स्यात्” हठस० ।
योगदेशभेदास्तत्रैव “सुविषये शुभधार्मिकभूपतेर्बहुसुभिक्षवती-
तभये शुचौ । सुकृतशालिनि मालिंनि वैभवैर्मनसि
योगविधौ मतिमाश्रषेत् । अतिनिगूढ़पदं मशकोज्झितं तुहिन-
तापविवर्जितमन्तरा । उषरकण्टकशुष्कदलीज्झितं विगत-
गःगणगोष्ठमृते मलम् । वल्मीकसञ्चयचतुष्पथवर्जमग्न्या
भ्यासोज्झितं विगतमर्वभयं विजन्तु । बात्याभिथात-
रहित गतभूतरक्ष यागार्थमेवमवलाक्य मठा विधेयः ।
धनुः णाप्रस्तुन शिला ग्नजलवाजेते । एकान्तमाठका
मध्ये स्थातव्यं हठयोगिना” हठसङ्केतः । “तल्पद्वार-
मरन्धुगर्त्तविटपं नात्युच्चरीचायतं सम्यग्गोमयसान्द्र-
लिप्तमयनं निःशेषजन्तूज्झितम् । व ह्ये मण्डपकूपौर्वेदि-
रुचिरं प्राकारसंवेष्टतं प्रीक्तं योगमठस्य लक्षणमिदं
सिद्धैहठाभ्यासिभिः” हठप्रदीपिका । “द्वार स्मृत
योगमठस्य वृत्तं व्यायामतस्तच्चतुरस्रमार्य्यम् । विस्तारतश्चापि
रवीन्द्रभूपाङ्गुलं सुरस्यं रमणीअमध्यम् । निर्वातभू-
मन्दिरमुच्छ्रमात्मदोषापहं मारुतदोषशोषि । विशोध्य
नाड़ामलमङ्घमन्तर्दत्ते विकाशं हृदि सुस्थिरे च” हठमं० ।
तत्रोचितकालः “एकाहे वाऽथ द्विकालं त्रिकाल प्राणयामं
मध्यरात्रे भजेत । यामे रात्रेः पश्चिमे पूर्व एव पूर्वाह्णे
वाह्नश्च मध्ये प्रदोषे” हठम० ।
निषिद्धावस्थादि “न शीते नात्युष्णे श्रमविकलदेहे न हि
तथा क्षुधायामाध्माने विकलवपुषाऽचेतमासा ।
अजीर्णेऽम्लेद्गारे न च विहितवान्तावतिसृते प्रभुक्तौ व्या-
सङ्गाकुलहृदि न युक्ताऽनिलघृतिः । चिन्ताकुलो
मूलफलप्रदूषितोऽभ्यासं न योगस्य कदापि कुर्य्यात् । कार्य्या-
तिसक्तौ रतिकार्य्यतत्परो नानेकरोगाधियुतो जनान्ते ।
रथ्यान्तरे सिन्धुमरित्तटान्तरे चिरन्तने वेश्मनि चेत्यदेशे ।
योग विदध्यान्न कदापि साधकः सुदौमनस्यादि भवेत
कृतेऽत्र । अनादृत्य यः साधको देशक लौ प्रयुञ्जीत योग
हि दाषास्तु तस्य । प्रकुप्यन्ति देहेऽन्तराया इवोच्चैजड़
त्व न्धमूकत्वबाधिर्य्यमुख्याः । स्मृतिलया जड़ता च
विमूकता वधिरतान्धमहादहनज्वराः । कुविषयेऽसमये
परियुञ्जता वपुषि योगममी नव दोषकाः” हठस० ।
वर्ज्यमा० सदोषाः “कामोभय स्वप्नमतीव लोभः प्राग्
योगदोषानतिकोपयुक्तान् । विहाय युक्तः सुसमाहितात्या
युञ्जीत योगं मनसा स्थिरेण” हठस० ।
तद्दोषजयोपायाः “निद्रां सत्त्वनिषेवणेन दलयेद्धृत्या च
शिश्नोदरे रक्षेद् दोश्चरणौ दृशा श्रुतिदृशौ चित्तेन चेतो
गिरौ । रक्षेत् सद्विधिना प्रमादत इतस्त्रासं तुदंस्तं
धिया सङ्कल्पस्य जयेन काममिति वै ज्ञो योगदोषान्
जयेत्” हठसं० ।
वर्ज्यसेव्ये “अत्याहारः प्रयासश्च प्रजल्पो नियमाग्रहः ।
जनसङ्गश्च लौल्यञ्च षड़भिर्योगो विनश्यति । “उत्सा-
हान्निश्चयाद्धैर्य्यात् तत्त्वज्ञानाच्च निश्चलात् । जनसङ्ग-
परित्यागात् षङ्मिर्योनश्च सिध्यति । अहिम । सत्यमस्तेयं
ब्रह्मचर्य्यं क्षमा धृतिः । दयार्जवमिताहाराः शौचं
चैव यमा दश । तसःसन्तोभ कास्तिक्यं दानिमांश्वरपूजनम् ।

सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च तपोहुतम् हठप्र० ।
आहारः “आहारशुद्धौ सत्त्वशुद्धिरिति श्रुतेः मिताहारस्य
योगाङ्गत्वाच्च योगाङ्गाहारो यथा “न जीवनं
देहधृतिश्च जन्मिनामृतेऽन्नपानं न मलैर्विना बलम् । योगे
तदर्थं मलजिद्वलप्रदं भक्ताज्यदुग्धं मितमत्र सेवयेत् ।
न कन्दमूचानि गुरूणि शीतोष्णान्यत्र पानानि बलप्र-
दानि । सत्त्रप्रदायुर्बलतृप्तिदानि पूतानि च त्रीणि
हितानि योगे । हठप्रदीपिकादिभिः सुपथ्यवर्ग ईरितः ।
सुताड़िशोधनादनु भजेन्नतं पुरा शुभम्” हठम० । स च
वर्गो यथा “गोधूमशालियवषष्टिकशोभनान्नं क्षोराज्य-
खण्डनवनीतसितामधूनि । शुण्ठीपटोलफलकानि च
पञ्चशाकं मुद्गादि चाल्पमुदर्क च मुनीन्द्रपथ्यम् । क्षीर-
पर्णी च जैवन्ती मत्स्याक्षी च पुनर्नवा । मेघनादी च
पञ्चैते शाकवर्गः प्रकीर्त्तितः । मिष्टं सुमधुरं स्निग्धं
पथ्यं धातुप्रपोषणम् । मनोऽभिलषितं योग्यं योगी-
भीजनमाचरेत्” मुख्यं घृतं क्षीरमिति द्वयं स्यात् नाड़ी-
विशुद्धावथ मूलबन्धे । ओजो बलं तृप्तिमतीव धत्ते
सत्त्वन्नतोऽन्तःस्थितनाड़िशुद्धिः” हठमः । “कन्दं च
शाकादिकमूलभव्यं विहाय दध्यम्लतषायतिक्तम् । घृतौ
दनक्षीरमपूरितोदरं यमी च गोधूमविकारमाश्रयेत्”
हठच० । ग्रन्थान्तरे “पीत्वा क्षीरं पयोमिश्रं योगी
वलमवाप्नुयात् । सितांशयुक् च पक्वं च हितं क्षीरं
न केवलम् । गोघृते च हविष्यान्नं भुक्त्व भ्यासं समा
चरेत् । एवं वाढं भजेदत्राष्टमेऽह्नि मलशोधनम् ।
निकृष्टभक्ष्यवर्गः “सस्नेह ईषत्तुवरीजमूपः क्वाथी भृगं
सुक्वथिता ह्य० म्ला । जीरोषधाद्याऽलवणा हिताल्पा
हविष्यभुक्तं यतिनिस्वपथ्यम् । आवश्यके सैन्धवमल्पमुक्तं
सदार्द्रकं केऽपि वदन्ति भक्ते । स्याल्लाजसक्तुः ससिताज्य-
दुग्धं पयोऽथ वा केवलमग्निपक्वम्” हठस० ।
वर्ज्याहारः “स्निग्धं भृशं वाऽभृशमेव रूक्षं क्षीरप्रभूतान्न
मिहोत्सृजेद्यः । दध्ना च तक्रेण रुजाकृदन्नमन्नं च
भूर्य्याज्यमपथ्यमुक्तम् । पुंस्त्वापहाः स्युश्चणका अपथ्या
माषाश्च बल्या कफपित्तदोः । सितातियोगः कृमिकृत्तु
नेष्टो गुड़ विकारो सह फाणितेन । अत्यल्पमिष्टाशनतो
न योगः स्यात् साधकस्याल्पबलस्य नूनम् । योगानुगुण्येन
ततोऽन्नजग्धिर्मतोदितानाल्पतरा न भूरिः” हठस०
“कङ्कम्लतीक्ष्णलवणोणहरिच्च शाकं सौवीरतैलतिल-
सर्षपमत्स्यमद्यम् । आजाविमांसदधितक्रकुलत्थकोल-
पिण्याकहिङ्गुलशुनाद्यमपथ्यमाहुः । भोजनमहितं
विद्यात् पुनरुष्णीकृतं तथा रूक्षम् । अतिलवणादिकयुक्तं
कदशनशाकोत्कटं वर्ज्यम्” हठप्र० ।
वर्ज्यानि “वर्जयेद्दुर्जनप्रीतिं वह्निस्त्रीपथसेवनम् । प्रातः
स्नानोपवासादिकायक्लेशादिकं तथा” हठप्र० ।
“मद्यं गर्भान्नपानं सुतनुरतिगृहारामपाण्डित्यवेदशास्त्रा-
लोकः सुगीतं सततमतिकलं हेमरूप्याम्बराणि । नृत्यं
राज्ये च सङ्गः कुसुममलयजे सम्पदः स्फीतिशोर्य्ये
ताम्बूलं चेति सर्वं विषयसुखमथासष्मिकं यत्त्यजेत्तत् ।
नित्यस्नानार्च्चा व्रतं शौचसक्तिर्ध्यानं ध्येयं मन्त्रजाप्यं च
दानम् । गेहारामाद्यास्तथा कल्पना वै धर्मा एते
थोगविघ्नः प्रदिष्टाः” हठस० ।
आहारमानम् “स्याच्छालिमुद्गादिकमुष्टिकद्वयं प्राक् प्राण-
पूर्णोदरकेऽशनस्य । ह्रासो विधेयो ह्यनु साघकेन दुग्धा-
द्यभावे क्रमकुम्भवृद्ध्या” हठस० । अत्र ह्रासक्रमेण
स्वल्पाहारः प्राणायामे विधेयः । यथीक्तं सनातन-
सिद्धान्ते “अभावे शालिमुद्गादिभोजनं मुष्टिकद्वयम् ।
ततो ह्रासः शनैः कुर्य्यात् प्राणे पूर्णे तथोदरे” अस्यार्थः
अभावे घृतदुग्धयोरभावे मितभोजने कुम्भकवृद्धिक्रमानु-
रूपः मन्दमन्दमशनह्रास उचितः । न हि प्रथम-
मभ्यासे यथा यथा कुम्भकवृद्धिर्भवति तथा तथा कुम्भक-
पूर्णोदरत्वात् कुम्भजाग्निना क्रमजितवायुवेगतया जिता-
ग्निर्भवति तथा तथाऽशनह्रासः । साधकस्य योगानु-
सारेणानुकूलः आरोग्यवीजमुत्साहपलौजःप्रमृतिकरश्च
भवति न प्रथमम्” हठस० । ग्रन्थ न्तरे “आहारं क्षपयेद्योगी
कृष्णपक्षे कलाक्रमात् । शुक्लपक्षे यथा चन्द्रस्तथा कुर्म्भो-
ऽप्य वर्द्धते” । योगसारसमुच्चये । “तनौ येन केनाप्युपायेन
पितं सदाभ्यासिना पालनीयं प्रयत्नात् । विशुद्धो हि
यश्चित्तसंद्योत एषः शुभो ज्ञानवह्निस्वरूपः प्रकाशी ।
सूर्य्यप्रवेशे पवनेऽशनं सच्चन्द्रप्रवेशे शयनाम्बुवानम् ।
इत्यादि चान्यत् स्वधिया विचार्य्य पथ्यानि योगाभ्यसने
हितानि” ।
योगनिषेधावस्थादि “मलाः सद्रवाः पूतिगन्धाश्च किञ्चित् सरुक्
चोदरे गौरवं चालसत्वम् । यदैतद्भवेद् विग्रहे साधवेन
तदा प्राणरोधोऽह्नि तस्मिन्न कार्य्यः” हठस० ।
योगारम्भकालः “अन्तर्हृताः सान्द्रतमा विशुष्का अपद्रवाः
पक्वमलादयोऽपि । अभ्यामिनां प्राणनिरोध एष तदा
विधेयः । शुभयोगसिद्धिदः” हठस० ।

नित्यकर्त्तव्याकर्त्तव्ये । “नं लालयेन्नो करणं निपीड़येत् भृशं
मिताशी मितनिद्रणोक्तिः । प्रातःशिरःस्नानमथो न
रोचयेदारूढ़योगोऽपि कदापि योगी । आवश्यके तूष्ण-
जलैर्विधेयं स्नानं न कार्य्यं हिमवारिणा तत् । स्नानं
प्रगेऽनिष्टमिदन्तु कण्ठस्नानं स्मृतं ज्ञैरिह मध्यमेऽह्नि ।
व्य याममात्रपरुषं भृशशैत्यदेशमत्यम्बुपानमतिबिभ्रमणं-
थैव । निद्रां दिवा निशि च जागरणं च चिन्तां क्लेशावहं
यदखिलं तदिहापि जह्यात् । यत् स्वस्यान्यस्य दुःखा-
वहमपि न भजेत् तद्गिरा मानसेन कायेनापीषदग्ने
र्नहि न हि वनितायाश्च सेवां विदध्यात् । हिंसां द्वेषं
तथाहङ्कृतिमशनमति प्राणिपीड़ां वियोगं भिन्नाभिन्नत्व-
बुद्धिं ह्यनशनमसतां सङ्गतिं संत्यजेच्च । आयाममभ्यस्य
ततोऽङ्गमर्दनं कुर्य्याद् वरिष्ठोत्तरसाधकस्य । स्यादङ्गमर्देन
तथा मृदुत्वं वायोर्जयो देहह्रदोः समाप्तिः । पानाशने कर्म
सुखावहं यद्योगस्य विघ्नो न हि तेन किञ्चित् । सेव्यं
तदेकं परमार्य्यवव्यैर्हेयं मनःक्लेशकरं रुजाकृत् । अभ्या-
सिना भूमिगृहे मठे वा न तैलदीपः प्रविधेय ईक्षणे ।
अस्मिन् ज्वलत्येत्य सुकुम्भितो द्राक् प्राणो विमार्गं
द्रवतीत्यमुं त्यजेत्” । अतो योगमठे घृतदीप एवोप
युज्यते” हठम० । “उत्थाय ब्राह्मणाले रहसि च परितः
साधकः प्राणरोधस्याभ्यासं प्रातरङ्कै ६ र्मितघटिकमथो
पीठमुद्रादि कुर्य्यात् । आयामं चानु सार्द्धप्रहरयुगलकान्तं
ततः पथ्यमल्पं भुञ्जीयादम्लतीक्ष्णोषणलवणविदाह्यु-
ज्झितं चाज्यदुग्धम् । प्राणायाममथाचरेत् प्रथमके
यामे निशः साधको यामैकं शयनं भजेदनुकृती प्राणाव-
रोधं श्रयेत् । शौचाद्यं घटशोधनादिकमथो यामे निशायां
श्रयेत्तुर्य्ये नाडिविशोधनं त्वतिदृढ़ोऽभ्यासस्तु षाण्मा-
सकः । मध्ये मध्ये चित्तविश्रान्तिहेतोः साम्बं शश्वत्
संभजेदासनज्ञः । अभ्यासान्तेऽभ्यासिना स्वल्पमल्पं संभो-
क्तव्यं भूरिवारं सुरुच्यम् । मध्ये मध्ये चारणं मेरु
चालमभ्यास्यादौ संभजेताविशङ्कः । सर्वाङ्गीणा नाडिका
दोषपूर्णा आभ्यां मृद्व्यः स्युर्मरुन्मध्यमास्ताः” हठस० ।
आभ्यां चारणमेरुचालनाभ्यां दोषा दुष्टान्नरसमलाः)
गजकरणी “दृढ़ं त्राटकाभ्यासतः कूर्मवायोर्जये मूलबन्धे ।
चापानसिद्धिः । जये स्यादुदानस्य जालन्धरेण समानस्य
चलेन च प्राणवायोः । धते गजकरण्येषा समानोदा-
नयोर्जयम् । पक्वामाशयगाजीर्णनाहाद्यखिलशोधिनी ।
कोष्ठहृत्कण्ठसंवृद्धामपित्तकफबाधनी । श्वासं बलं हृत्प्र
सादं वह्निदीप्तिं समुद्यमम् । धत्ते लाघवमङ्गेषु प्राणस्य
सुखवाहिताम् । हृतकण्ठकोष्ठसंशुद्धा शूलाजीर्णादि-
रोगहृन् । हन्ति गजकरण्येषा नाभेरूर्ध्वमधोमलान् ।
पक्वापक्वान् रोगहेतून् बहिः प्रक्षाल्य पातयेत् । कोष्ठ-
गुदादागलान्तं गलान्तं क्षालयेत् भृशम् । आभ्यां
विशुद्धकोष्ठो यः सप्राणापानयोर्गतिम् । सूक्ष्मां
देहसञ्चरितां लूतिकागतिवत्सुधीः वेत्तीषिकासमां चित्ते
कोष्ठान्तः परिसर्पतोः । नाड़ीसञ्चारविज्ञानमनयोः
सकलं यथा । जानाति साधकः शुद्धो नाडीसंस्थान-
संविदम् । (एवं धौत्यामपि नाभ्यूर्द्धमङ्गं ज्ञेयम्)
“महाचक्रमादौ विरुध्यानु सम्यग् भजेद्बन्धमुद्रामथो
स्वेचरीं च । ततो वारिपानं प्रकुर्य्यात् सुधांशोः सुधां
साधुपेयां प्रयागे प्लुतिञ्च । विना ग्रन्थिभेदं विना चक्र-
भेदं विना ब्रह्मरन्ध्रप्रवेशं जितस्य । खगस्यात्मना
कायसिद्धिं विनास्ते न सिद्धिर्न योगो न शून्यत्व लाभः” हठस० ।
आसनफलम् “संप्राप्तवीजभावो यमनियमाभ्यामयं योगः ।
प्राणायामासनकैरङ्कुरवान् साधकस्य भवेत् । स्यादासने
स्थैर्य्यमरोगिताङ्गे सुलाघवं दुःखसुखोष्णशीतैः । द्वन्द्वै-
जितेऽस्मिन्नभिभूयते नाऽनन्ते समापत्तिरतो
यमाभ्याम् । साधनत्रयमिदं मरुज्जये प्रोदितं प्रमितजग्धि-
रिष्टदा । शक्तिचालमथ साधनद्वयम् नाभिवायुधृतिनाडि-
चालनम्” । नियमैश्च यमैर्विषाणि रोगाः प्रविनश्यन्ति
सुसंयतस्य पीठैः । चिरकालपदान्तरा असाध्याः यमिनः
साधुजितासनस्य पुंस” हठस० । (यमाभ्यां यमनियमाभ्याम्)
ककुटासनम् “संस्थाप्य पद्मासनमत्र सम्यक् करौ तु जानू-
रुयुगान्तरे दृढ़म् । निवेश्य संस्थाप्य तले धरायां व्यो-
मस्थ उक्तं त्विति कुक्कुटासनम्” हठस० ।
उत्तानकूर्मकम् “कुक्कुटासनवन्धस्थो दोर्भ्यां संबध्य कन्धरे ।
भवेत् कूर्मवदुत्तान एतदुत्तानकूर्मकम्” हठप्र० ।
धनुरासनम् “पादाङ्गुष्ठौ पाणियुग्मेन धृत्वा कर्णावध्या-
कर्षयेत् स्वस्य शश्वत् । कुर्य्याच्चापाकर्षणं प्रोक्तमेतदालस्यघ्नं दोषजिन्नाड़िशुद्ध्यै” हठस० ।

मत्स्येन्द्रासनम् “वामोरुमूलार्पितदक्षपादं जान्वोर्वहिर्वेष्टित-
वामदोष्णा । प्रगृह्य तिष्ठेत् परिवर्त्तिताङ्गो मत्स्येन्द्र-
नाम्नोदितमासनं स्यात् । मत्स्येन्द्रपीठे जठरं प्रदीप्तं
प्रचण्डरुग्मण्डलखण्डनाच्च । अभ्यासतः कुण्डलिनी
प्रवोधं दत्ते स्थिरत्वं हि ददाति पुंसाम्” हठस० ।

पश्चिमतानासनम् “प्रसार्य्य पादौ भुवि दण्डरूपौ दोर्भ्यां च
पादद्वितयं गृहीत्वा । जानूपरि न्यस्तललाटदेशोऽभ्य-
सेदिदं पश्चिमतानमाहुः । इति पश्चिमतानमासनाख्यं
पवनं पश्चिमवाहिनं कराति । उदयं जठरानलस्य कुर्य्यात् उदरे कार्श्यमरोगतां च पुंसाम्” हठप्र० ।

मयूरासनम् “धरामवष्टभ्य करद्वयेन तत्कूर्परे स्थापितनाभि-
पार्श्वे । उच्चासने दण्डवदुत्थितस्य मयूरमेतत् प्रवदन्ति
पीठम् । हरति सकलरोगानाशु गुल्मोदरादीनभिभवति
च दोषानासनं वै मयूरम् । बहुकदशनभुक्तं भस्म कुर्य्या-
दशेषं जनयति जटराग्निं जारयेत् कालकूटम्” हठप्र० ।
शवासनम् “उत्तानशववद्भूमौ शयनं तु शवासनम् ।
शवासनं श्रान्तिहरं चित्तविश्रान्तिकारकम्” हठप० ।
सिंहसनम् “गुल्फौ च वृषणस्याधः सीवन्याःपार्श्वयोः
क्षिपेत् । दक्षिणे सव्यगुल्फं तु दक्षगुल्फं तु सव्यके ।
हस्तौ तु जानुनोः स्थाप्य स्वाङ्गुलीं संप्रसार्य्य च ।
व्यात्तवक्त्रो निरीक्षेत नासाग्रे न्यस्तलोचनः । सिंहा-
सनं भवेदेतत् पूजितं योगिभिः सदा । बन्धत्रयस्य
सन्धानं कुरुते चासनोत्तमम्” हठप्र० ।
भद्रासनम आसनशब्दे ८८६ पृ० दृश्यम् तत्फलम् “भद्रं
कफक्लेशसमीरहारि” हठस० ।
कूर्मासनम् “गुल्फद्वयेनापरिपीड्य पायुं जानुद्वयं भूमि-
तले निधाय । कूर्मासनं स्यादिति योगिवर्य्यैरशोतिवाता
मयहारि चोक्तम्” हठस० ।
बल्लर्य्यासंनम् “स्थित्वा समं सरसिजे कृतवङ्क्षणोर्वोरङ्घ्र्यो
रधःस्थकरकूर्परकौ विधाय । वद्धोर्द्धषाणितलयुग्म
तदुत्तमाङ्गम्प्रशांङ्गुलस्य कलयेदुपरि प्रकामम् । उत्तान एव
चिवकं हृदयेऽर्प्य तिष्ठेत् कुर्वन् समीरणनिरोधनमेक-
चित्तः । काये यदोदर उदेति च भूरिदाहोऽधोवा-
युनिःसृतिरुदेति तदा क्रमेण । संमोचनीयमिदमासन-
मार्य्यधीभिर्मन्दं विनाशयति घोरतरज्वरार्त्तिम् ।
सन्दीपने हुतवहस्य च वल्लरीति संज्ञं प्रभुक्तपरिपाचन-
मासनं स्यात्” हठ स० ।
वृश्चिकामनम् “धरामवष्टभ्य करद्वयेनोरः पार्श्वयोः स्थापितत्
स्थकूर्परः । वृश्चीव पुच्छप्रतिमाङ्घ्रिपार्ष्णी धृत्वाऽप्य शीर्षे
चिवुकं विधार्य । यत्रेति सन्तिष्ठति साधकस्तत् विषा-
पहं वृश्चिकसंज्ञमासनम्” हठस० ।
मूलवन्धासनम् “वामाङ्घ्रिपार्ष्ण्यग्र तदुच्चकैर्गुदाननान्तरं
भूर निपोह्य साधकः । व्यस्तं विधायाग्रपदं सुगुल्फतो
ऽधो दक्षपाद लघु वामजानुनि । विन्यस्य बद्ध्वा गलके-
ऽनुजालन्धरं समं स्थापितसर्वगात्रः । महाश्मवत्स्थाणु-
रनन्यचेता भ्रूमध्यदृग् दोर्युगसधृतोरुः । इदं
मूलबन्धासनं योगसिद्धिप्रदं दीपनं जाठराग्नेरतीव । ध्रुवं
शक्तिसन्दीपनं मूत्रवर्चाजिदर्शोग्रहण्यामयानां विनाशि ।
समवाहनमाशु मारुतस्य विदधात्यूर्द्धगतिं जयं च
सिद्धीः । विहिते किल विष्टरेऽत्र पायौ महती वह्नि-
शिखा सदोपयाति । भुजगी परिजागराद्यवस्था
विबुधैरूर्ध्वगतिस्त्वपानवायोः” हठस० ।
गोमुखासनम् “सव्ये कृत्वा दक्षगुल्फं तु पूर्वं पार्श्वे यत्र
स्थाप्यते सन्निवेश्य । दत्त्वा वामं गुल्फलं पृष्ठपार्श्वे तत्
पीठं स्यात् गोमुखं गोमुखाभम् । अपानसिद्धिं
विदधाति मूलबन्धान्निहन्त्येव भगन्दरार्शः । धौत्याश्च नौले-
र्वितनोति सिद्धिं सुसाधकस्यामनमेतदग्र्यम्” हठम० ।
कुब्जिकासनम् “किञ्चित् तिर्य्यक् साम्यमास्थाप्य जानुमूर्द्ध्वं
धृत्वा संपरावर्त्तितेन । कृत्वा मूले पादमाधाय तिष्ठे-
देतत् पीठं कुब्जिकं वह्निकारि” हठस० ।
पार्श्वोपधानासनम् “समानभूमौ शयनं विधायोत्तानौ करौ
पार्श्वयुगान्तराले । पृष्ठे मिथः साधु निबध्य यत्र पार्श्वो-
पधानासनमुक्तमुत्तमैः” हठस० ।
उत्कटासनम् “युजा स्फिचोः स्थीयत ऊर्द्धजानुर्यत्रासने
पादतलद्वयोपरि । स्फिग्भ्यां मनागुत्कटकं धरित्रीमस्पृश्य
पीठं स्मृतमुत्कटाख्यम्” हठस० ।
पद्मासनम् “वामोरूपरि दक्षणं च चरणं संस्थाप्य वामं तथा
दक्षोरूपरि पश्चिमेन विधिना धृत्वा कराभ्यां दृढ़म् ।
अङ्गुष्ठौ, हृदये निधाय चिवुकं नासाग्रमालोकयेदेतद्व्याधि-
विनाशकारि यमिनां पद्मासनं प्राच्यते” हठस० ।
प्राणायामाङ्गपद्मासनम् “उत्तानौ चरणौ विधाय विविवत्
सक्थिस्थितौ योगिर डुत्तानौ स्वकरौ विधाय च मिथो
जङ्घे समाकृष्य च । नासाग्रे दृशमाविधाय चिवुक
चात्तभ्य वक्ष स्थलं मूले साधु सरज्ञयाऽभिकलयेदेतत्
सरोजस्य सत् । अपानमुत्थाप्य शनैः स्वशक्तितः प्राणं
समाकृष्य च कुम्भकं चरेत् । धृत्वा यथ शक्त्यनुरेचये
च्छनैर्वायुं गदघ्नं स्मृतमम्बुजासनम् । समस्तदाषज्वर-
दाहमाहपित्तामयष्न सकलं सुखावहम् । प्राणः
समोऽस्मिंश्चसति क्षणेन मुनेरनुष्ठानविधौ सरोरुष्ठे” हठम० ।
करसंपुटपद्मासनम् “कृत्वा संपुटितौ करौ दृढतरं यद्ध्वा तु
पद्मासनम् गाद वक्षसि संविधाय चिवुक ध्यानश्च तच्चेतसि । वारंवारमपानमूर्द्ध्वमनिलं प्रोच्चालयन्
पूरयन् मुञ्चन् प्राणमुपैति रोधमतुलं शक्तिप्रभावादतः”
हठयोगः ।
सिद्धासनम् “योनिस्थानकमङ्घ्रिमूलघटितं कृत्वा ध्रुवं विन्य-
मेन्मेढ्रे पादमथैकमेव हृदये धृत्वा समं विग्रहम् ।
स्थाणुः संयमितेन्द्रियोऽचलदृशा पश्येद् भ्रुवोरन्तरं
चैतन्मोक्षकपाटभेदजनकं सिद्धासनं पोच्यते” पवनयोगसं० ।
वीरासनभद्रासनस्वस्तिकासनानि आसनशब्दे ८८६ पृ० दृश्यानि
सुखासनम् “येन केन प्रकारेण सुखं स्थैर्य्यं च जायते ।
तत् सुखासनमित्युक्तमशक्तस्तत् समाश्रयेत्” सूतसंहिता ।
इदमेव “स्थिरसुखसामनमिति” पात० लक्षितम् ।
षट्कर्मोपक्रमः “अथासने दृढ़ो योगी वशी हितमिताशनः ।
गुरूपदेशमार्गेण प्राणायामं समभ्यसेत् । यावद्धायुः स्थितो
देहे तावज्जीवितमुच्यते । मरणं तस्य निष्क्रान्तिस्तस्मात्
वायुं निरोधयेत् । चले वाते चलं चित्तं निश्चले नि
श्चलं तथा । योगी स्थाणुत्वमाप्नोति ततो वायुं निरो
धयेत् । मलाकुलाषु नाड़ीषु मारुतो नैव मध्यगः । कथं
स्यादुन्मनीभावः कर्मसिद्धिः कथं भवेत् । शुद्धिमेति
यदा सर्वं नाड़ीचक्रमनाकुलम् । तदैव जायते योगी
प्राणसंग्रहणे क्षमः” इत्युपक्रमे “यदा तु नाड़ीशुद्धिः
स्यात्तदा चिह्नानि बाह्यतः । कायस्य कृशता कान्तिस्तथा
जयेत निश्चितम् । यथेष्टं धारणं वायोरनलस्य च
दीपनम् । नाडीभिर्व्यक्तिरारेग्यं जायते नाड़िशोध-
नात् । मेदश्लेष्मादिनाशार्थं षट्कर्माणि समाचरेत् ।
अन्यथा नाचरेत्तानि दोषाणां समभावतः । धौती
वस्ती तथा नेती त्राटकं मौलिकं तथा । कपालभाती
चैतानि षट्कर्माणि प्रचक्षते । कर्मषट्कमिदं गोप्यं
घटशोधनकारकम् । विचित्रगुणसन्धायि पूज्यते योगि
पुङ्गवैः” हठप्र० ।
धौती “चतुरङ्गुलविस्तारं हस्तपञ्चदशायतम् । गुरूपदिष्ट-
मार्गेण सिक्तं वस्त्रं शनैर्ग्रसेत् । पुनः प्रत्याहरेच्चैत
दभ्यासाङ्गेतिकर्मवित् । कासश्वासप्लीहकुष्ठं कफरागाश्च
विंशतिः । धौतीकर्मपभावेण शुध्यन्त्येव न संशयः” हठप्र०
“विंशद्दोःप्रमितं च पञ्चदशदोर्मानं च विस्तारतश्चत्वार्य्य-
रङ्गलविस्तृतं सुमृदुलं सिक्तं सुवस्त्रं तनु । स्थित्वा
गोमुखविष्टरे सुशनकैरेतत् ग्रसेत् साधको मन्दं चानु
विनिर्हरेत् कफगदश्वामेषु धौती हिता” हठस० ।
वस्ती “नाभिदध्ने जले पायुन्यस्तनालोत्कटासनः ।
आधारात् कुञ्चनं कुर्य्यादपानं वस्तिकर्मविद् । गुल्म-
प्लीहोदरं चापि वातपित्तकफोद्भवम् । वस्तिकर्मप्रभावेण
क्षोयन्ते सकलामयाः । धात्विन्द्रियान्तःकरणप्रसादं
दद्याच्च कान्तिं दहनप्रदीप्तिम् । अशेषदाषोपचयं हि
हन्यात् अभ्यस्यमानं जलवस्तिकर्म” हठप्र० ।
“जलं पायुविन्यस्तनालस्य मार्गात् जले नाभिदघे
समाकृष्य चोर्द्ध्वम् । चलत्युत्कटे विष्टरेऽपानकोषात् जलं
याति तुन्देऽम्बुना वस्तिकर्म” (नालं वंशादिसूक्ष्मस्निग्ध-
नालिका) । आदावुत्कटविष्टरे परिगतः प्रोत्थाप्य
सम्यग्नलं पायुद्वारविकाशकोचविधिना वायूर्द्धमाकर्षयेत ।
आपूर्य्यं दृतिवत्त तुन्दमभितो नौल्या प्रचाल्यानिलं
कृत्वाऽधोमलमुत्सृजेत् समकिलं योगी बहिःकोष्ठ-
गम् । अत्र वस्तिकर्मणि गोमुखमेव प्रशस्तमनुभूतमिति
सङ्केतः । अत्र सर्वकोष्ठमलानां कोष्ठक्षालनपूर्वकद्रवत्वेन
बहिःकृतिर्यथा भवति । तदुपायसङ्केतेन वस्तिकर्म-
कर्त्तव्यम् । पूर्वोक्तविधिना गोमुखे चोत्कटासने स्थित्वा-
ऽपानद्वारोर्ध्वमन्तर्जलं किञ्चिद्गृहीत् । तदूर्ध्वं स्वस्ति-
कासने स्थित्वा समाकृष्य नामेरूपरि हृदयान्तं कर्त्तव्यम् ।
पुनरुत्कटासनेन जलं गृहीत्वा प्राग्वन्नाभौ विधेयं
स्वस्तिकेनं स्थेयं विधेयम् । एवं वस्तौ स्वस्तिकेन चैयं
सर्वं कोष्ठं जलपूणं कृत्वाऽभितः कोष्ठं बिभ्राम्यान्त्र-
सन्धिगतमन्त्रादिलीनपक्वापक्वसद्रवघनमलादि द्रवीकृत्य
पश्चाद्बहिस्तज्जलं कुर्य्यात् क्रमेण न त्वरयेत् । तदाऽनेन
विधिना कोष्ठः प्रक्षालितवस्त्रबद्धोऽपास्तदोषो भवति हठस० ।
नेती “सूत्रं विस्तस्ति सुस्निग्धं नासानाले प्रवेशयेत् ।
मुखान्निर्गमयेत् सा हि नेतो सिद्धैर्निगद्यते । कपाल-
शोधनी कार्य्या दिव्यदृष्टिप्रदायिनी । जत्रूर्द्ध्वजातरो-
गौघं नेतिराशु निहन्ति च” हठप्र० ।
“आखुपुच्छसदृशं सुनिर्मलं षड्बितस्तिमितसूत्रमरूक्षम् ।
संप्रवेश्य लघु नासिकाबिले वक्त्रतो रहसि निर्गमयेच्च तत् ।
नेतीति कर्मोदितमेतदार्य्यैर्जत्रूर्ध्वजाताखिलरोगहारि ।
कपालसंशोधनकारि कार्य्यं द्विवारकं दिव्यदृशञ्च धत्ते
हठस०
त्राटकम् “निरीक्षेत् निश्चलदृशा सूक्ष्मलक्ष्यं समाहितः ।
अश्रुसंपातपर्य्यन्तमाचार्य्यैस्त्राटकं स्मृतम् । स्फोटनं नेत्र-
रोगाणां तन्द्रादीनां कपाटकम् । प्रयत्नात् त्राटकं गोप्यं
यथा हाटकपेटकम्” हठप्र० । अस्य फलान्तरं हठस० उक्तं

यथा “सिद्धेऽस्मिन् नासिकाग्रेक्षणहततनुरुक्क्लेशवान्
साधकः स्याद् भ्रूमध्यं च क्रमेणाकलयति सतताभ्यासतः
खेचरीञ्च । दिव्यां दृष्टिञ्च धत्ते जनयति यमिनो
योगविष्पत्तिसिद्धिं मूर्ध्वस्थम्भोरुहे वै पवनहृददयोरक्रमे-
णानुलोम्यम्” प्रकारान्तरं यथा “प्रातः समुत्थाय सुखा-
सने गतः समभ्यसेत् त्राटकमेक एव । प्रसार्थ्य दृष्टिं
ननु लक्ष्यमीक्षेत् समुज्ज्वलं तत् रहसीतचिन्तः । अभ्यासतो-
ऽस्मात् स्थिरतां समश्नुतः समीरनेत्रे इति लक्ष्यदीक्षा ।
विधाय किञ्चित समये विलोचने संमुद्र्य पश्चात् झटिति
प्रमार्य्य । पश्येत् परोनिश्चलमेकधीः खं पश्येत्तु यावत्
पुरतोऽर्कृविम्बम । समभ्यसेत्तावदिमां क्रियां चेत् सुनि-
र्मला दृष्टिरनेन वै स्यात्” हठस० ।
नौलीकर्म तच्च द्विविधं बाह्यमान्तरं च तत्र बाह्यं यथा
“सव्यापसव्यं लघु नालिकाभिर्व्यावर्त्त्य वेगैः कृतदोर्युगः
कौ । कृत्वा भ्रमंस्वस्तिक आनतांसस्तुन्दस्थनालोत्थिति-
मेवमीहेत” हठस० । “अमन्दामन्दवेगेन तुन्दं सव्याप-
सव्ययोः । शतशो भ्रामयेदेष नौलीयोगः प्रचक्ष्यते ।
मन्दाग्निसन्दीपनपाचकाग्निसन्घानमानन्दकरी सदैव ।
अशेषदोषामयशोषणी च हठक्रियाऽसौ जयतीह
नीली” हठप्र० । आभ्यन्तरमुक्तं हठरत्नावल्यां यथा
“इडयावर्त्त्य वेगेन तथा पिङ्गलया पुनः । उभाभ्यां
भ्रामयेदेषा ह्यान्तरा कीर्त्तिता मया” ।
कपालभाती “लोहकारस्य भस्त्रावत् कुर्य्यात् सव्यापसव्यतः ।
कपालभाती विख्याता कफामयविशोधिनी” हठप्र० ।
“सल्लोहकारधमनीव च संप्रपूर्य्यैकं नासिकापुटमरं सुवि-
रेचयच्च । योगी द्विवीयमिति भस्त्रिकयेव शश्वत् सव्याप-
सव्यचरिचालनमत्र कार्य्यम्” हठस० ।
चक्रांकर्म “सुस्निग्धं मसृणेन वा सुहविषा मध्याङ्गुली-
युग्मकं सार्द्रं लूनं खं प्रसार्य्य शनकैः वायुं हृदन्ते
क्रियात् । ऊर्ध्वं सर्वमिहाभितोऽत्र नलकाद्यं भ्रामये-
दन्तरे यावत् पायुविकाश उद्भवति संप्रोक्तेति चक्री
बुधैः । कृत्वेति चक्रीविधिमादरेण प्रक्षालयेत्तद्विषयं
ततो दृढ़म् । आमादिदोषान्तमिति प्रकुर्य्यात् यथा गुदास्यं
श्लथविश्लथं भवेत् । तथाङ्गुलीनां त्रिचतुःक्रमेण संभ्रा-
मयेत् पायुविकाशनावधि । नलान्त्रगाढ़ावृतिदुर्मलान्तः
स्यान्मूलचक्रस्य विकाशनं च हठस० । “पायुवक्त्रं
प्रसार्य्यान्तरङ्गुल्यौ भ्रामयेत् भृशम् । यावद् गुदविकाशः
म्यात् चक्रीकर्म निगद्यते । शूलव्याधिर्गुल्मरोगो
नश्यत्यत्र न संशयः । मलशुद्धिर्दीपनं च जायते चक्रि-
कर्मणि” हठरत्नाबली ।
गिलिकर्म “यद्घण्टिकामस्तकयोः पिधानमथो ललन्ती
कथितोपजिह्वा । तदग्रकं तर्जनीमध्यमाभ्यां संमन्थयेद् ज्ञो
मुहुराकलय्य । गिलीति कर्मोदितमार्य्यवर्य्यैः सन्धि-
प्रलीनामकफैघहारिं हठम० ।
गजकरणीकर्म “उदरगतपदार्थानुद्वमेदेव नित्यं
पवनगमनमार्गात्कण्ठनालप्रवेशात् । क्रमपरिचयवश्यो
वायुमार्गो भवेद्वै गजकरणमितीव प्राहुरार्यांहठज्ञाः ।
(अपानवायोरूर्द्ध्वकरणात् । पवनोर्द्धकरणेनवा । पाय्वा-
कर्षणेन यद्भक्षितं वस्तु तदुद्वमेत् । कण्ठनालप्रवेशात् ।
कण्ठे नालस्य प्रवेश एरण्डनालस्य प्रवेशस्तस्मात् । तदा
क्रमपरिचयक्रमेण वस्तुपरिचयः स्यादित्यर्थः) हठस० ।
“प्राक् स्थित्वोत्कटविष्टरे समतनुर्नौल्यानलोत्थापनं कृत्वा-
ऽपानमनूर्ध्वमीरणपथा गल्यीं विधायोद्वमेत् । यत्
प्राग्भक्षितमन्नपानमथ वा नालप्रवेशाद्गले तत् पश्चःदशितं
वमेदनुविधिः प्रोक्तो हठज्ञैरिह । आसने गोमुखे स्थित्वा
कृत्वा भूमौ करौ दृढम् । नम्र ऊर्ध्वं वायुकृष्टिं नाला-
दुत्थाप्य चाचरेत् । वक्त्राग्रमेवं विहिते दोषोभक्षित-
संयुतः । एवं गजकरण्युक्ता भक्षितोद्वमनक्रियेति” ।
वायुकृष्टिम् अपानेन सह प्राणस्य प्रकाममूर्ध्वाकर्षणम् ।
नालोत्थानसमकालं कुर्य्यादिति भावः । अस्यार्थः उत्कटे
आसने स्थित्वा बाहुयुगलं बद्धमुष्टिं जानुद्वयोपरि सस्था-
प्यानु नम्राधोमुखः आनम्रकटिपृष्ठ आस्मिताङ्गोनालत्थानं
कृत्वाऽनु पश्चाद्वायुमूर्ध्वं विधाय सोदरवेगैरशितमुद्वमेत ।
यदि कदाचिन्नोर्ध्वमशित याति तदात्थायानमूकटिपृष्ठो
जानुद्वयं तिष्ठन् दोर्भ्या धृत्वा प्राग्वदुद्वमेत्” हठस० ।
शङ्खप्रक्षालनम् “नास पुटेन सलिलं परिपीय वक्त्रमार्गेण
तद्बहिरहो कलयेत् सुधीरः । पीत्वैककेन पुटकेन च
नासिकाया वृन्येन वारि शनकैर्बहिरुद्वमेद्वा । शङ्ख
प्रक्षालनमिदं कफपित्तहरं परम्” हठस० ।
वायुसाधनम “इदानीं क्लेशहानार्थं कर्त्तव्यं वायुसाधनम् ।
येन संसारचक्रेऽस्मिन् रोगहीनो भवेद् ध्रुवम्” ।
शिवसंहिता “राजदन्तयुगलान्तमस्पृशन् सन्निधाय रसनां
तदन्तिके द्विक (काक) चञ्चपुटमारुतं पिबेत् प्राणसंयम-
नमेतदुत्तमम्” । “जिह्वां कृत्वाऽनाकुलस्तालुमूले दन्तैर्द-
र्न्तान् गाढ़भापीड्य सद्यः । मन्दं मन्दं यः पिबद
गन्घवाहं सोस्रौ । पूरैः साकमन्तः स्रवद्भिः” त्रिपुरा
सारसमुच्चये । एतदभ्यासप्रकारः “नलिकासदृशीं
काकं विधाय पूरयेत् तया । श्वसनं कुम्भयेन्नाड्यं
रेचयेत् काकचञ्चुकम्” कुम्भकपद्धतिः । “द्विक(काक)
चञ्चुवदानेन वायुं परिपूर्य्यानु निरोधयेद्धि वायुम ।
रसनामुपरिध्रुवं विधायामृतधारां पिबतीह यः सुखी
सः । अमुं रेचयेद् घ्राणान्ध्रद्वयेन स्मृता शीतली
काकचञ्च्वाख्य एषः । मरुद्द्वन्द्वयोगप्रवीणोऽस्य मर्त्यो
भवेदेव संसाधनात् मुक्तिभाग् द्राक्” कुम्भकपद्धतिः ।
आसने स्थिरीभूते प्राणामं कुर्य्यात् तत्प्रकारः प्राणाया-
मगब्दे ४५१५ पृ० उक्तप्रायः अधिकमत्रोच्यते ।
“मात्राप्रमाणयुक्तात् प्राणायामोऽयमोङ्कारात् । सेव्यः
प्राणापानावुर्ध्वमधः सन्निरूध्य यत्नेन । प्राणायामे
पद्मपीठे स्वदक्षाङ्गुष्ठेनादौ सन्निरुध्येन्दुनाड़ीम् ।
वायुं नातिद्राक् शनैर्नातियुक्त्या व्याकृष्योर्ध्वं पूरयेत्
स्वोदरान्ते । यथा स्वशक्त्या लघु धारयित्वा नाड्या ततः
पिङ्गलया विरेचयेत् । निरोधहीनं विपतीतमध्यं हृदा-
स्थिरेणाभ्यसनं मुनिश्चरेत् । येन त्यजेत् तेन निरोध-
हीनं धृत्वा पुरान्येन विरेचयेत् शनैः । यान्त्येवमभ्या-
सरतस्य पुंसः स्थितिं स्वलक्ष्ये चलचित्तवृत्तयः ।
यथाशक्त्यः कृष्य स्वाङ्गं पूरयेदुदरं शनैः । यथाशक्त्या-
धृत पश्चाद्रेचयेदविरोधतः” । हठयोगे “प्राणं
चेड़िकया पिवेन्नियमितं भूयोऽन्यया रेचयेत् । पीत्वा
पिङ्गलया समीरणमथो बद्धा त्यजद्वामया । सूर्य्या
चन्द्रमसोरनेन विधिनाऽभ्यासं समातन्वतां शुद्धा नाड़ि-
गणा भवन्ति यमिनां मासत्रयादूर्ध्वंतः” हठस० ।
“तत्र भूतिशुद्धिप्राणायामं कृत्वा तदन्तेऽभ्यासार्थमुक्तसंख्या-
सहितकुम्भकयथाशक्तिप्रणवजपध्यानाभ्यां सार्द्धमांसत्रय
कुक्षिस्थ शेषोपपातकपातकसहितपापपुरुषनिरासनद्वारा
मनोबहनाड़ीगतमानसकामक्रीधादिमलशुद्धये यथोक्त-
पथ्येकान्तसेवापूर्वकं विधायानु शारीरनाड़ीगणशुद्धिः
षण्मासं विधेया” हठस० । सनातनसिद्धान्ते
“निरालम्बमनाभूत्वा प्राणायामं” समभ्यसेत् । शनैश्च
शतपर्य्यन्तं श्चतुर्वारं समभ्यसेत् । प्रातःसायञ्च मध्याह्ने
ह्यर्द्धरात्रौ विशेषतः । याममात्रं यदा पूर्णं भवेदभ्या-
मयोगतः । एकवारं प्रकुर्वीत तदा योगीन्द्रजृम्भ
णम । षड़त्रिंशच्च शतैकञ्च प्राणायामांश्च
नित्यशः । “षण्मास भ्यन्तरेणैव शुद्धा नाड़ीगणास्तथा ।
ततो वृद्धिक्रमेणैव प्रणवेन च धीरधीः । गङ्क्यार्थ
गुटिका कार्य्या मृण्मयो चातिशोभना । ततो नाडिगणः
शुध्येत् वरं भवति लक्षणम् । चन्द्रं पियति सूर्य्येण
सूर्य्यं चन्द्रुमवा पिबेत् । अयं हि कालाभाकेन जीवेदा
चन्द्रतारकम्” । तदङ्गासनमुक्तं सनातनसिद्धान्ते
“चतुरस्रं द्विहस्तञ्च उत्तुङ्गं चतुरङ्गुलम् । चेलोर्णद्दश
चर्माद चासनं सर्वसौख्यदम्” ।
नाड़ीशुद्धेस्तदङ्गता “नाड़ीविशुद्ध्यास्तसिरामलो यदा तदा
समर्थोऽनिलधारणे चिरम् । स्यात् कोष्ठगर्त्तस्थमलोग्र-
कर्दमक्षयेऽग्निरिद्धः क्व तनौ रुजां जनिः । सिद्धापाना-
दजग्रन्थिं भित्त्वोर्ध्वं सर्पताऽर्ग्निना । मुनेस्तदा प्राण-
युतोहृद्यास्तेऽनाहतध्वनिः । नाड़ीमध्यमलक्षयेऽल्पशयनं
मूत्रं विड़स्तैनसः पुंसः स्वल्पमरोगता न कृमयो लाला
न घर्मोरतिः । दुश्लेष्मानिलपित्तशान्तिरमलः कायो भवेत्
सुन्दरस्तावत्कालमयं कुभाजनियमग्राह भजेदल्पभुक् ।
योगाराम्भाद्यङ्गमुक्तं हि नाड़ीशुद्धिर्देहे शीर्षमाद्यं
यथाङ्गे । यावत् सिद्धैषा हठाङ्गं न मुख्यं तावद्योगः
साधकस्य व्यलीकः । नाड़ीविशुद्वेर्मरुतो जय स्यात्
जितेऽनिले याति मनः स्वयं क्षयम् । क्षीणे मनस्यस्त-
मितैहिकार्थे ज्ञानप्रकाशः स्वमुपैति निर्मले । पूते
त्रिधानाड़िविशुद्धितः स्यादारम्भकाले हठसिद्धिचिह्नम् ।
क्रमेण कम्पादिजिताऽनिलानुरूपं हि घर्मान्तरमभ्यु-
देति । सगर्भकायामविनिर्गतांहा मुनिस्तदारम्भ उदेति
सिद्धिभूः । सन्नाड़िशुद्धेः परिणाम एषः संप्याप्यते
सद्गुरुणा विना नो” हठस० ।
प्राणायामलक्षणं मार्कण्डेयपु० “शृणुष्व च महीपाल प्राणाया-
मस्य लक्षणम् । युञ्जतश्च सदा योगं यादृग्विहितमास-
नम् । पद्मं सिद्धासनं वापि तथा स्वस्तिकमासनम् ।
आस्थाय योगी युञ्जीत कृत्वा च प्रणवं हृदि । समः समासनो
भूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथेवोरू सम्यग्यिष्टभ्य
चाग्रतः । संपश्यन्नासिकाग्रं स्वन्दिशश्चानबलोकयन् । इत्थं
योगी यताहारः प्राणायामपरायणः” । “यथा तोया-
र्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयुस्तथा वायुं
पिबेद्यागी जितश्रमः । मृदुत्वं सेव्यमानास्तु सिंह-
शार्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो मवति
योगिनः । विश्वासतां यथेच्छातो नागं नयति हस्तिप ।
तथैव योगी स्वच्छन्दं प्राण नयति शोधितम् । यथा हि
साधितः सिंहो मृगान् हन्ति न मानवान् । तद्वन्निरुद्धः
पवनः किल्विमं न नृणां तनुम् । तस्माद्युक्तं सदा योगी प्राणायामपरा भवेत्” इति योगचन्द्रिकायाम् ।
“प्रणायामान्नरः षाष्टं कुर्य्यादेवमहर्मुखे । चत्वारिंशच्च
मध्याह्ने सन्ध्यायां विंशतिर्भवेत् । अर्द्धरात्रे विंशतिः
स्यादेवं प्राणविनिग्रहः” इति । “इड़या वायुमाकृष्य
परयित्वादरस्थितम् । शनै षोड़शमात्राभिरकारं तत्र
संस्मरेत् । पूरितं धारयेत् पश्चाच्चतुःषष्ठ्या तु मात्रया ।
उकारमूर्त्तिमत्रापि सस्मरन् प्रणवं जपेत् । यावद् वा
शक्यते तावद्धारयन् जपसंस्थितः । पूरितं रेचयेत् पश्चान्
मकारेणानिलं बुधः । शनैः पिङ्गलया विप! द्वात्रिंशन्
मात्रया पुनः । प्राणायामो भवेदेष ततश्चैनं समभ्यसेत् ।
प्रस्वेदजनको यस्तु प्राणायामेषु सोऽधमः । कम्पनं
मध्यमं विद्यादुत्थानं च त्तमं तथा । पूर्वं पूर्वं प्रकुर्वीत
यावदुत्तमसम्भवः । उत्तमे तु मुनिर्ज्जाते प्राणायामे सुखी
भवेत् । प्राणो लयति तेनैव देहस्यान्तस्ततोऽधिकः ।
देहश्चोत्तिष्ठते तेन कृतासनपरिग्रहः” । योगसाराव
ल्याम् । “सरेचपूरैरनिलस्य कुम्भैः सार्वासु नाड़ीषु
विशोधितासु । अनाहताख्यो वहुभिः प्रकारैग्रन्तः
प्रवर्त्तेत सदा निन दः” इति । “अस्मिन्ननाहते प्राण-
नादे कृत्वा मनः स्थिसम । निर्भयं साधकः कुम्भवृद्ध्याभ्य-
सनमाश्रयेत् । ध्यायेन्मूले कर्णिकान्तः कुण्डलीरूप-
मीश्वरम् । नादासंक्रमणं शान्तं शिवध्याने कृक्रमात् ।
मूर्त्तिध्यानानन्दपीने नादानन्दे प्रलीयते । यथा यथा
ममः शुद्धं लीयते ध्याननादयोः । तथा तथा वायुजय
सिद्धिकृन कुम्भ एधते । अहोरात्रमिति ध्यायन्नादा-
सकमतिर्मुनिः । दृढ़भ्य मपरः शीघ्रं योगसिद्धिमवा-
प्नुयात् । यावन्न श्रूयते नादस्तावच्चित्तमिदं चलम् ।
नदि लानं ममो ध्याने विना यत्नं हि युज्यते । स्वेद-
निद्राङ्गमोटाद्याः क्षयं संयान्ति साधके । सपादघटि-
कार्ध्वं स्यात कम्पो जल्पनमेव च । आनन्दः स्यात्
सदाभ्यामादारम्भे कुम्भकाग्निना । शुष्के नाड़ोमले
दग्धे हृद्विकरे जयाग्निना । मूलस्थितपदोर्भेदे
पृथ्व्यम्बुविलयोद्गमे । अपाने ऊर्द्ध्वं क्रमशः प्राणेना
कर्षित यदा । मूलारपृथिवोभेदेऽपाने जाड्यतमो
बलम । क्षणं ततोद्ध्व भाकृष्टावपानस्याधराङ्गकम् । उत्ति
ष्ठन्ति गिरालम्बं लघुतूलवदस्वरो । तदासनोत्थ
नमक्त वायोर्विजयलक्षणम । पतन् लक्षणसिद्ध्याद्यः
स्थितिचक्रविभेदने । वक्ष्यमाणाभ्याममतिं कुर्य्यात्
योऽपानमारुतम । उद्गत्युन्मुखमृजुसत्पृष्ठवाहविधित्-
सया । पृष्ठवंशान्तरगतसुषुम्णार्द्धस्थले पदम् । त्रि-
कोणं दहनस्यान्तं तदधः स्थितिरित्यसौ । अभ्यासेन
जितापानं प्राणेनोर्द्ध्वमुखीकृते । पूर्ववाहं निराकर्तुं
प्रतीचीपथमुत्तमम् । समवाहेन सुमतिर्नेतुं स्थिति-
मुखान्तरे । स्थित्यारभेदभ्यसनं कुर्य्यात् सद्गुरुणोदि-
तम् । विधिपद्मप्रभेदेन सर्वा आरम्भसिद्धयः । तावत्कालं
साधकस्य योगोक्तनियमग्रहः । स्वाधिष्ठानं विभिद्योद्ध्वे-
मपानः प्रगतः स्वयम् । तिर्य्यग्गतेन प्राणेन निरा-
वरण ऊर्द्ध्वगः । अधः स्थितः सन्धमति त्रिकोणं वह्नि-
मण्डलम् । ध्मातो भस्त्रेव दहनो दृढ़ाभ्यासो मुनेर्हि सः ।
क्रमेण दीप्तो भवति सुषुमणास्थमलं स्यति । कुण्डलीं
तापयत्येष चालितां प्राणवायुना । उत्कर्षप्राणायामेन
शक्तिचालेन चाल्यताम् । ततः परिचयावस्थाशक्ते-
र्बोधकरी भवेत् । दीप्तोनलोऽपानजाड्यं शिष्टं दहति
वैकृतम् । प्रकाशावरणे जाड्ये दग्धेऽङ्गे क्वरुजो मलाः ।
ज्ञानाग्निः स तदा सत्वप्रकाशक उपाधिहा । तथा
योगा ग्नना दग्धा देहो योगिवरस्य हि । न दृश्यते
योगिदेहो देवैरपि महाबलः । इच्छारूपस्तदा योगि
देहः स्यादजरामरः । सुषुमणाचक्रनिलया प्राणा-
पानौ ग्रसेद्यदा । तदा केवलकम्भः स्यान्मुनेस्त्रैलोक्य
सिद्धिकृत् । जलूका रुधिरं यद्द्बलादाकर्षयेद् घ्रुवम् ।
ब्रह्मपाड़ी तथा धातून् सतताभ्यासयोगतः । तदा नद्यः
पुष्कराद्यानदाः शुष्यन्ति पुद्गले क्व दोषाः क्षुत्पिपासाद्या
सर्वे नश्यन्ति योगितः” । हठस०
प्राणायामकाललमानम “अथ प्रमाणमेतेषां रहम्यमपि
कथ्यते चतुरष्टद्वादशभिः क्रमादाढ्याः पलैस्त्रयः ।
ततः पञ्चदशोन्मानपलैरष्टादशोन्मितः । परंस्ततश्चतुर्विं-
शस्तीव्रहेतुरिहेरितः । निसर्गाद्द्वादशगुणाः प्रत्याहार-
स्ततः परम्” हठस० ।
निसर्गपाणायामकालः कुम्भकपद्धतौ “पञ्चगुर्वक्षरैर्युक्तः कालः
पलमितो हि यः । निसर्गतः कुम्भकोऽयमतोऽर्ध्दं रेचकः
स्मृतः । अर्द्धः पूरक इत्युक्ता मात्राकुम्भविश रदैः ।
पञ्चविंशतिभिः प्रोक्तः पलैद्वांदशमात्रिकः” । अयमेव
नाडोशोधभोऽभ्यामप्राण यामः । “पञ्चशद्भिर्द्वितीयस्तु
सपादोद्व्यधिकोन्मितः । तृतीय इति नि र्दष्टो दत्तात्रेयमतं
यथा” । तदयं संक्षेपः “कनिष्ठे प्राणायामे एकस्मिन
कालमानं चत्वारि पलानि भवन्ति तद द्वादशप्राणायामे
सर्वकालमानं ४८ पलानि असौ प्रथम द्घातः स्वद
सम्भाकालः । एवं द्वितीये मध्यमेरौ कालमानमष्टौ
८ पलानि तदा द्वादशभिः ९६ पलानि । अत्र सर्बकालः
१ । २६ घटिकादि मध्यमेरौ कालः । तीव्रमेरौ
कालमानं १२ पलादि तदा द्वादशभिः १४४ पलानि २२४
चट्यादि एवमुत्तमोत्तमो वायुजयकालो ज्ञेयः” हठस० ।
तत्र अधमसाधके स्वेदातिरिक्तकम्पाद्यभावः । उत्तममाधके
यमादिगुणसम्पत्तौ कामसंकल्पाद्यपाये कम्पासमोत्थाना-
दिसिद्धिमम्भवः” हठस० । “तदा विध्वस्तपापस्य भवेदा-
रम्भमम्भवः । चिह्नानि यागिनो देहे दृश्यन्ते नाडि-
शुद्धितः” इत्युपक्रमे “वलीयसि भवेत् स्वेदाऽङ्गे मुतेः
प्रथमोद्यमे । यदा संजायते स्वेदा मर्दनं कारये-
त्तदा विभूत्या मह मिश्रेण श्रमजाताम्बुनाऽमुना ।
अकथा विग्रहाद्वायुर्नष्टो भवति योगिनः । दृढता
लघुतऽङ्गे स्यात् श्रमजाम्बुङ्गमर्दनात् । कम्पो द्वितीये
भवति दार्दुरी मध्यमे ततः” । (दार्दुरी दर्दुरो
भेकस्तस्येव उत्प्लुतोतप्लुत्य गतिः) । ततोऽधिकतर भ्या
माद् गगने माधको हि सः । योगी पद्म सनस्थोऽपि
भुवमुत्सृज्य वर्त्तते । वायुसिद्धिस्तदा ज्ञेया संसार-
ध्वन्तनाशिनी” कुम्भकपद्धता “एवं नाड्याविवेकेन
चतःकालेषु विंशतिम् । कुम्भकान् यदि कुर्वीत नाडी
शुद्ध्य ख्यकम्भत । ग्रीष्ममध्यदिनार्कामं नामो सवितृ-
मण्डलम् । मूर्ध्वनाड्या कृते कुम्भे ध्यात्वा शुध्यन्ति
नाडिकाः । चन्द्रेण पित्तदोषाणामितरेषां परेण तु ।
नाडीशुद्ध्य त्मना भूयात्त्रिमिर्मासैर्न संशयः । नादश्रुति
र्वपुःकार्श्यमारोग्यं वह्निदीपनम् । नैर्मल्यमक्ष्णार्वदनप्र
सादो विन्दनिर्जनयः । द्विसप्ततिसहस्राणां नाडीनां मल
शोधनम । यथे धारणं वायोर्विकाराभाव एव च” हठस०
मात्राकम्भकः “भात्राः षोड़श पूरेस्युश्चस्तुःषष्टिस्तु कुम्भक ।
द्वात्रिं शद्रेचके प्रोक्ताः म त्राकुम्भः समीःरतः । मात्रा
कुम्भो हृदिकृतः शोषकः सपकीर्त्तितः । स्वाधिष्ठानानु
गश्चाय प्लावनोऽमृतमेचनः । दाहना नाभिसस्थानो
मात्राकुम्भः प्रकीर्त्तितः । मूलाधारे कृतश्चायं कठिती
करणो मतः । पुनः कण्ठानुगो यश्च व्यूहनः स्यति
म कुम्भक । ब्रह्मस्थाने नियोगेन सुक्तिदः परिकीर्त्तितः” ।
अयमाशयः । पूर्वाभ्य मे स्थानावलोकनचिन्तनाभ्यां मनमा
दग्भ्या ताद त्म्येन नामाग्रनागिभ्रूमध्याङ्गुष्ठहृदयवण्ठा
दिनिखिलशरीरान्तर्गतप्रदेशेषु स्थानात् स्थानान्तर साधकेन
कु म्भतस्य वायोर्यथानयनं स्थापनं च पुनस्ततः स्तम्भितस्य
वायोः प्रदेशान्तरे नयनमिति चतसाऽस्य प्राणस्य चालनं
कर्त्तव्यं गुरूपदेशेनेति मात्राकुम्भः । सूर्य्येण हृदि
कुम्भनात् तदूर्ध्वं रसवहानां नाड़ीनां रसशोषणं
भवति । एवं नाभौ सर्वसिरामूलत्वात् सूर्य्यमण्डल-
पदत्वात् आग्नय गादत्यौष्ण्यमव नाडिगतमलदाहः ।
एवं स्वाधिष्ठाने स्थितौ तस्य सौम्यापानचन्द्रपदत्वात्
अमृतरसमेचनस्तत्तत्पार्थिवांशतमोऽपायद्वारा प्लावनो
भवति । कठिनीकरणं मृदुतापिधानं देह्येन्द्रियेषु” हठम० ।
मात्रामानम् “प्रदक्षिणीकृत्य जानुं नातिद्रुतविलम्बितम् ।
अङ्गुलीत्रिकतो मात्रा छोटिकाकरणाद् भवत्” ।
“मात्रा नवविधा प्रोक्ता योगिभिस्तत्त्वदर्शिभिः ।
निमेषोन्मेषणं मात्रा कालो लघ्वक्षरोन्मितः । गोदाह-
वत्सपानेषुक्षेपघण्टारवोन्मिताः । चतुरो ह्यतिमात्राः
स्युस्ताश्च सेव्याः शनैः शनैः । देशंकालानुसारेण प्राहु-
र्योगीश्वराः पुरा । पूरकुम्भकरेचेषु निसर्गजनितेषु यः ।
कालः स मात्रासंज्ञः स्यात् सर्वमात्राः क्रमादिमाः ।
अष्टमा इति ताश्चैव महामात्राः पुरोदिताः । जानुं
प्रदक्षिणीकृत्य त्रिवारं छोटिकामनु । करणात् ह्रस्व-
मात्रैषा मध्यैषा षड्मिरीरिता । जान्वोः प्रदक्षणकृ-
तिर्नववारमसौ वरेति” हठस० ।
गृहस्थस्य प्राणायामकालः “सव्याकृत सप्रणवां गायत्रीं
शिरसा सह । त्रिर्जपेदायतप्राणः पाणायामः स उच्यत”
गीता । अयञ्च पापशुद्धये गृहस्थैः योगसिद्वये
च योगिभिश्च कार्य्यः । तादृशसमुदायस्य त्रिजपे पलद्वयं
भवतीत तस्य कम्भकालसंख्यावेदकत्व वोध्यम् ।
योगदीपिकायाम्” हठस० ।
प्राणस्वरूपम् “समस्तेन्द्रियवृत्तिश्च प्राणो वायुः प्रकी-
त्तितः । तज्जुयादि न्द्रयाण्येव विजितानि भवन्ति हि ।
अतः प्राणमनःस्पन्दयोः सहभावित्वात् प्राणनिग्रहे
मनो निगृह्यते” हठस । यागसासिष्ठे “बाह्याभ्यान्तर-
स्पन्दश्चित्तजो वातजोऽथ वा । न यस्य विद्यते तस्य
दूरस्थौ विकृतिक्षयो । अयं भावः प्राणायामोपायोपे-
तथ इतरस्मादल्पः श्वासपश्वासो भवति यथा स्वनन-
च्छेदनोदिषु व्याप्रियमाणस्य पर्वतमाराहतः शीघ्रं
धावतो वा श्वसिवेगो यावान् भवति न तावा । स्थितस्या-
सीनस्य वा भवति । यथा दुष्टैःश्वेरुपतो । तथः म
त्यक्त्वा क्वापि नीयत स च भार थना दृढःज्ज्वाकृतः
स्वमार्ग पुनर्धार्य्यते तथेन्द्रियैर्सिनादिभिरितस्ततां नीयमानं चित्तं प्राणरज्ज्वौ दृढधारितायां स्वात्मतत्वे
धार्य्यते” इत्येवं चित्तविकारप्राणक्षयौ प्रकृतेऽभिप्रेतौ”
हठस० ।
अभ्यामक्रमः “प्रथमे दिवसे कार्थ्यं कुम्भकानां चतुष्टयम् ।
प्रत्येकं दशसंख्याकं द्वितीये पञ्चभिः सह । विंशतिं च
तृतीयेऽह्नि पञ्चवृद्ध्या दिने दिने” योगदीपिका ।
प्राणायामफल हठयोगे गोरक्षनाधः । “द्वाराणां नवकं
निरुध्य मरुतं पीत्वामृतं धारित भीत्वाकाशमपानवह्नि-
सहितं शक्त्या समुच्छासितम् । आत्मध्यानयुता ह्यनेन
विधिना विन्यस्य मूर्ध्नि ध्रुवं यावत्तिष्ठति तावदेव
महताऽसङ्गेन संयुज्यते” ।
प्रण यामप्रकारः “प्राणायामं ततः कुर्य्यान्नित्यं सत्त्वजया-
धिया । यथा सुषुम्णान्तरस्थामलाः शोषं प्रवान्ति च ।
वद्धपद्मासनो योगी प्राणं चन्द्रेण पूरयेत् । धारयित्वा
यथाशक्त्य भूयः सूर्य्येण रेचयेत् । प्राणं सूर्य्येण
चाकृत्य पूरयेदुदरं शनैः । विधिवत् कुम्भकं कृत्वा पुनश्चन्द्रेण
रेचयेत् । येन त्यजेत् तेन पूर्य्यं धारयेत्तु निरोधतः ।
रेचयेच्च ततोऽन्येन शनैः पवमवेगतः । प्राणं चेदिड़या
पिवेन्नियमितं भूयोऽन्यया रेचयेत् पीत्वा पिङ्गलया
समीरणमथो बध्वा त्यजेद्वामया । सूर्य्याश्चन्द्रमसोरनेन विधिना
विम्बद्वयं ध्यायताम् शुद्धा नाड़िगणा भवन्ति यमिनां
मासत्रयादूर्द्ध्वतः । प्रातर्मध्यं दिने सायमर्द्धरात्रे च कुम्भ
कान् । शनैरशीतिपर्य्यन्तं चतुर्वारं समभ्यसेत् । इड़यापि
च षाड़शभिः पवनं कुरु षष्टिचतुष्टयमन्तरगम् । त्यज
पिङ्गलया शनकैः शनकैः दशभिर्दशभिर्दशर्भिर्द्व्यधिकैः ।
अधमे जायते स्वेदः कम्पो भवति मध्यमे । उत्तिष्ठत्युत्तरे
प्राणो बद्वे पद्मासने हठे । ततोऽधिकतराभ्यासाद् भवतः
स्वेदकम्पनौ । ततोऽधिकतराभ्यासाद् दार्दुरी जायते
भृगम् । यथैव दर्दुरागच्छदुत्प्लुत्यात्प्लुत्य भूतले । पद्मा०
मनस्थिता योगी तथा गच्छति भूतले । जलेन श्रमजा
तेन गात्रमर्दनमाचरेत् । दृढता सघुता चापि तेन
गात्रस्य जायते । अभ्यासकाले प्रथमे शस्तं क्षीराज्य
भोजनम । तताऽभ्यासे दृढ़ीभूते न तादृक् नियमाग्रहः ।
यथा सिंहो गजो व्याघ्रो भवेद् वश्यः शनैः शनैः । तथैव
सेवितो वायुरन्यथा हन्ति साधकम् । प्राणायामेन युक्तेन
सर्वरोगक्षयो भवेत् । अयुक्ताभ्यासयोयेन सर्वरोगसमु-
द्भवः । हिक्का कासतथा श्वासः शिरःकर्णाक्षिवेदनाः ।
भवन्ति विविधारोगाः पवनस्य प्रकोपनात् । युक्तं युक्तं
त्यजेद्वायुं युक्तं युक्तञ्च पूरयेत्” हठप्रदीपिकाग्रन्थे ।
प्रणायामाभ्यासफलम् “एवमासनबन्धस्थो योगीन्द्रो विगत
श्रमः । अभ्यसेन्नाड़िशुद्धिं च मुद्रादिपवनक्रियाम्” हठस० ।
“क्रियायुक्तस्य सिद्धिः स्यादक्रियस्य कथं भवेत् । क्रियैव
कारणं सिद्धेः सत्यमेतन्न संशयः । न शास्त्रपाठमात्रेण
योगसिद्धिः प्रजायते । प्राणायामैरेव सर्वे प्रशुष्यन्ति-
मलाशयाः । आचार्य्याणान्तु केषाञ्चिदन्यत कर्म न सम्म
तम् । षट्कर्मयोगमाप्नोति पवनाभ्यासतत्परः ।
अभूवन्नान्तकभियस्तस्मात्पवनमभ्यसेत् । ब्रह्मादयोऽपि त्रिदशाः
पवनाभ्यासतत्पराः । सर्वसिद्धिं गताः सर्वे तस्मात्
पवनमभ्यसेत् । यावद्बद्धो मरुद्देहे तावत् चिन्ता निरा-
कुला । यावद्दृष्टिर्भ्रुर्वोर्मध्ये तावत्कालभयं कुतः ।
विधिवत् प्राणसंयामैर्नाड़ीचक्रे विशोधिते । सुषुमणा
वदनं भित्त्वा मुखाद्विशति मारुतः । मारुते मध्यसञ्चारे
मनः स्थैर्य्यं प्रजायते । यो मनःसुस्थिरीभावः सैषा-
वस्था मनोन्मनी । तत्सिद्धये विधानज्ञाश्चित्रान् कुर्वन्ति
कुम्भकान् । विचित्रकुम्भकाभ्यासाद् विश्चित्रां सिद्धि-
माप्नुयात् । सूर्य्यभेदनमुज्जायी तथा शीत्क रः
शीतलो । भस्त्रिका भ्रमरी मूर्च्छा केवलश्चाष्टकुम्भकाः ।
पूरकान्ते तु कर्त्तव्यो वेधो जालन्घाराभिथः । कुम्भ-
कान्ते रेचकादौ कर्त्तव्यास्तूड्डियानकः । अधस्तात
कुञ्चनेनैव कण्टसङ्कोचने कृते । मध्यपश्चिमतानेन ग्यात्
प्राणो मध्यना ड़गः । अपानमूर्द्ध्वमुत्थाप्य प्राणं कण्ठा-
दधो नयेत् । योगी जराविनिर्मुक्तो षोड़शो वयसा-
भवत्” हठप्र० ।
सूर्य्यमेदनम् “अथासनं सुखादेव बद्ध्वा मुद्रा समन्ततः । दक्ष-
प्राड्या समाकृष्य वहिःस्थं पवनं शनैः । आकेशाग्रं
नखाग्रं च शिरोधावधिकुम्भकम् । ततः शनैः सव्य० । ड्या
रेचयेत् पवनं पुनः । कपालशोधनं वातदोषध्नं कृमिनाश-
नम् । पुनः । पुवरिदं कुर्य्यात् सूर्थभेदनमुत्तमम्” हठस० ।
उज्जायी “मुखं संयम्य नासाभ्यामाकृष्य पवनं शनैः ।
यथा लगति कण्ठान्त देहानलविवर्द्धनम् । पूर्ववत्
कुम्भकं कृत्वा रेचयेदिड़या ततः । श्लेष्मदोषहरं कण्ठे
दावानलविवर्द्धनम् । नाडीजलोदरधातुगतदोषविनाश-
मम् । गच्छता तिष्ठता कार्य्यसुज्जयाख्यं च कुम्भ-
कम्” हठप्र० ।
अथ शीत्कारः “कुम्भ कुर्य्यात् सदा वक्त्रे घ्राणेनैव
विसजयेत् । एवमभ्यासयोगेन कामदेवो द्वितीयकः ।

योगिनीचक्रसामान्यसृष्टिसंहारकारकः । न क्षुघा
न तृषा निद्रा नैवालस्यं प्रजायते । भवेत् स्वच्छन्द-
देहस्तु सर्वोपद्रववर्जितः । अनेन विधिना सत्यं
योगीन्द्रो भूमिमण्डले । स भवेत् सर्वसिद्धीनां भाजनं
नात्र संशयः । नासिकामूलरन्ध्रेण यः प्राणं सततं
पिबेत् । स भवेत् सर्वसिद्धीर्ना भाजनं नात्र संशयः ।
रसनातालुमूलेन यः प्राणं सततं पिवेत् । अव्दार्द्धेन
भवेत्तस्य सर्वरोगपरिक्षयः” हठप्र० ।
शीतलीकुम्भकः “जिह्वया वायुमाकृष्य पूर्ववत् कुम्भसाधनम् ।
शनैस्तु घ्राणरन्ध्राभ्यां रेचयेदनिलं सुधीः । गुलमप्लीहोदरं
चापि ज्वरपित्तं क्षुधां तृषाम् । एताश्च शीतली नाम
कुम्भकोऽयं निहन्ति च” हठप्र० ।
मस्त्रिका “ऊर्वोरुपरि संस्थाप्य उभे पादतले तथा । पद्मा-
सनं भवेत् सम्यक् सर्वपावप्रणाशनम् । सम्यक पद्मासनं
बद्ध्वा समग्रीवोदरः सुधीः । मुख्यं संयम्य यत्नेन
प्राणं घ्राणेन रेचयेत् । यथा लगति हृत्कण्ठे कपाला-
वधि पूरयेत् । वेगेन पूरवेत् सम्यक् हृत्पद्मावधि मारु-
तम् । पुनर्विरेचयेत् तद्वत् पूरयित्वा पुन पुनः । यथैव
लोहकारणां भस्त्रा वेगेन चाल्यते । तथैव स्वशरीरस्थ
चाल्पते पवनो बलात् । यदा श्रमो भवेद्देहे तदा
सूर्य्येण तेजयेत् । अथोदरे भवेत् पूर्णे पवनेन यथा लघुः ।
धारयेन्नासिकामध्ये तर्जनीभ्यां तथा दृढम् । कुम्भकं
पूर्ववत् कृत्वा रेचगेदिडयाऽनिलम् । वातपित्तश्लेष्महरं
शरीराग्निविवर्द्धनम् । कुण्डलीबोधनं कुम्भे रोगघ्नं
सुखदं शुभम् । ब्रह्मनाड़ीमुखे संस्थकपाटार्गलनाश-
नम् । सम्यग्भस्त्रा समुद्भूता ग्रन्थित्रयविभेदिका ।
विशेषेणैव कर्त्तव्यं भस्नाख्यं कुम्भकं त्विदम्” हठप्र० ।
भ्रमरीकुम्भकम् “वेगोद्घेषं पूरकं भृङ्गनादं भृङ्गीनादं
रेचकं मन्दमन्दम् । योगीन्द्राणां नित्यमभ्यासयोगा-
च्चित्ते जाता काचिदानन्दलीला” हठप्र० ।
मूर्च्छनाकुम्भकः “पूरकान्ते बहुतरं बद्ध्वा जालन्धरं शनैः ।
रेचयेन् मूर्च्छनाख्योऽयं मनोमूर्च्छासुखप्रदा । अन्तः
प्रवर्त्तिताधारमारुतापूरितोदरः । साक्षात्पयस्यगाधे
तु विप्लवेत् पद्मपत्रवत्” हठप्र० ।
संहितकुम्भकः “प्राणायामस्त्रिधा प्रोक्तो रेचपूरककुम्भकैः ।
सोहतः केवलश्चेति कुम्भको द्विविधो मतः । रेचकं पूरकं
कुर्य्यात् स वै संहितकुम्भकः । यावत् केवलसिद्धिः स्यात्
तावत् संहितमभ्यसेत्” हठप्र० ।
केवलकुम्भकः “रेचकं पूरकं त्यक्त्वा मुखाद्वायुनिरोधनम् ।
प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः । केवले
कुम्भके सिद्धे रेचपूरविवर्जिते । न तस्य दुर्लभं किञ्चि-
त्त्रिषु लोकेषु विद्यते । शुद्धकेवलकुम्भेऽत्र यथेष्टं वायु-
धारणम् । राजयोगपदं चैव लभते नात्र संशयः ।
आहारः क्षीयते योगे कृष्णपक्षे यथा शशी । शुक्लपक्षे
यथा चन्द्रस्तथा श्वासोऽमृतोपमः । हठं विना
राजयोगो राजयोगं विना हठः । न सिध्यति ततो
युग्मनिष्यत्त्यै च समभ्यसेत् । कुम्भकप्राणरेचान्ते कुर्य्या-
च्चित्तं निराश्रयम् । एवमभ्यासयोगेन राजयोगपदं
व्रजेत् । कुम्भकात् कुण्डलीबोधः कुण्डलीबोधतो
भवेत् । अनर्गला सुषुमणा च हठसिद्धिश्च जायते ।
वपुःकृशत्वं वदने प्रसन्नता नादस्फुटत्वं नयने सुनि-
र्मले । आरोग्यता विन्दुजयोऽग्निदीपनं नाड़ीविशुद्धि-
र्हठयोगलक्षणम्” हठप्र० ।
उपदेशः “सशैलवनधात्रीणां यथाधारोऽहिनायकः । सर्वेषां
योगतन्त्राणां तथाधारोहि कुण्डली । सप्ता गुरु-
प्रसादेन बोधिता सुखदा भवेत् । तथा सर्वाणि पद्मानि
भिद्यन्ते ग्रन्थयस्तथा । प्राणस्य शून्यपदबी तथा राजप-
थायते । तथा चित्तं निरालम्ब तथा कालस्य वञ्चनम् ।
सुषुम्णा शून्यपदवी ब्रह्मारन्ध्रं महापथम् । श्मशानी
शाम्भवी मध्यमार्गश्चैत्येकवाचकाः । तस्मात् सर्वप्रय-
त्नेन प्रबोधयितुमीश्वरीम् । ब्रह्मद्वारमुखे सुप्तां मुद्राभ्यासेन
बोधयेत्” हठप्र० ।
दशमुद्रोद्देशः “महामुद्रा १ महाबन्धो २ महाबेधश्च ३ खेचरी ४ ।
उड्डियानं ५ मूलबन्धो ६ बन्धोजालन्धराभिधः ७ । करणी
विपरीताख्या ८ वज्रोली ९ शक्तिचालनम् १० । इदं हि
मुद्रादशकं जरामरणनाशनम् । आदिनाथोदितं सर्वमष्टै-
श्वर्य्यप्रदायकम् । वल्लभं सर्वसिद्धानां दुर्लभं महतामपि ।
गोपनीयं प्रयत्नेन यथा रत्नकरण्डकम् । कस्यचित् नैव
वक्तव्यं कुलस्त्रीसुरतं यथा । वज्राली त्वमरोली च
सहजोली त्रिधा मता । एतेषां लक्षणं वक्ष्ये कर्त्तव्यञ्च
विशेषतः” ।
महामुद्रा १ “पादमूलेन वामेन योनिं संपीड्य दक्षिणम् ।
पादं प्रसारितं धृत्वा कराभ्यां धारयेद् दृढ़म् । कण्ठे वन्ध
समारोप्य धारयेद्वायुमूर्द्धनि । यथा दण्डहतः । मर्पो
दण्डाकारः प्रजायते । ऋज्वी भूत्वा तथा शक्ति कुण्डली
सहसा भवेत् । तदासौ मरणावस्यां हरते द्विपुटा श्रिता । ततः शनेः शनैरेव रेचयेन्न च वेगतः । इदं
खलु महामुद्रा महासिद्धैः प्रशस्यते । महाक्लेशादयो
दोषाः क्षीयन्ते मरणादयः । महामुद्राञ्च तेनैव वदन्ति,
विबुधोत्तमाः । चन्द्राङ्गे च समभ्यस्य सूर्य्याङ्गे पुनरभ्य-
सेत् । यावत्तुल्या भवेत् संख्या ततो मुद्रां विसर्जयेत् ।
न हि पथ्यमपथ्यं वा रसाः सर्वेऽपि नीरसाः । अपि
भुक्तं विषं घोरं पीयूषमिव जीर्य्यति । क्षवकुष्ठगुदा-
वर्त्तगुल्माजार्णपुरागमाः । दोषाः सर्वे क्षयं यान्ति
महामुद्रां च योऽभ्यसेत् । कथितेयं महामुद्रा
महासिद्धिकरी नृणाम् । गोपनीया प्रयत्नेन न देया यस्य
कस्यचित्” हठप्र० ।
महाबन्घः २ “पार्ष्णिं वामस्य पादस्य योनिस्थाने नियोजयेत् ।
वामोरूपरि संस्थाप्य दक्षिणं चरणं तथा । पूरयित्वा मुखे
वायुं हृदये चिवुकं दृढ़म् । निष्पीड्य योनिमाकुञ्च्य
मनोमध्ये नियोजयेत् । धारयित्वा यथाशक्ति रेचयेद-
निलं शनैः । सव्याङ्गे पूर्वमभ्यस्य दक्षाङ्गे पुनरभ्यसेत् ।
मतान्तरे तु केषाञ्चित कण्ठबन्धं विवर्जयेत् । राजदन्तस्य
जिह्वायां बन्धः शस्तो भवेदिति । अर्य खलु महाबन्धो
महासिद्धिप्रदायकः । कालपाशमहाबन्धविमोचनवि-
चक्षणः । अयं च सर्वनाड़ीनामूर्द्ध्वगमनरोधकः । त्रि-
वेणीसङ्गमं धत्ते केदारं प्रापयेन्मनः । रूपलावण्यस
म्पन्ना यथा स्त्री पुरुषं विना । महामुद्रामहाबन्धो
निः फलौ बेधवर्जितौ” हठप्र० ।
हाबेधः ३ “महावेधे स्थितो योगी कृत्वा पूरकमेकधीः ।
वायुना गतिमाकृष्य निभृतं कण्ठमुद्रया । समहस्तयुगे
भूमौ स्फिक्षौ सन्ताड़येत् शनैः । पुटद्वयं सम क्रम्य
वायुः स्फुरति मध्यगः । सोमसूर्य्याग्निसम्बन्धात् जायते
च मृतिञ्जयः । मृतावस्था समुत्पन्ना ततो मृत्युभयं कुतः ।
महाबेधोऽयमभ्यासान्महासिद्धिप्रदायकः । बलीपलित-
निर्मुक्तैः सेव्यते साधकोत्तमैः । एतद् त्रयं महासुद्रा
जंरामृत्युविनाशिनी । वह्निवृद्धिकरञ्चैवमणिमादिगुण
प्रदम् । अष्टधा क्रियते चैव यामे यामे दिने दिने ।
पुण्यसम्भारसन्धायि पापौघभिदुरं सदा । सम्यक् जिज्ञा
सतामेव स्वल्पं प्रथमसाधनम् । वह्निस्त्रीपथसेवाना
मादौ वजंनमाचरेत्” हठप्र० ।
खेचरी ४ “छेदनचालनदोहैः जिह्वां क्रमेण वर्द्धयेत्तावत् ।
यावद्भ मध्यं स्पृशति तदा च खेचरीसिद्धिः । स्नुही-
पत्रनिभं शस्त्रं सुतोक्ष्णस्निग्धनिर्मलम् । समादाय
ततस्तेन रोममात्रं समुत्च्छिदेत् । कृत्वा सैन्धवप
थ्यादिचूर्णं ताभ्यां प्रघर्षयेत । पुनः सप्तदिने प्राप्ते
रोममात्रं समुत्च्छिदेत् । एवं क्रमेण षण्मासं नित्ययुक्त
समाचरेत् । षण्मासाद् रसनामूलनाड़ाबन्धो विनश्यति ।
अथ वागीश्वरीधाम शिरोवस्त्रेण वेष्टयेत् । शनैरुत्-
कर्षयेद्यागी कालवेलाविधानवित् । वितस्तिप्रमितं दैर्व्ये
विस्तारे चतुरङ्गुलम् मृदुलं धवलं प्राक्तं वेष्टिताम्बर-
लक्षणम् । पुनः षण्मासमात्रेण पुनः सङ्कर्षणात् प्रिये! ।
भ्रूमध्यावधि वर्द्धेत तिर्य्यक् कर्णबिलावधि । अधस्तात्
चिवुकं मूलं प्रयाति क्रमकारिता । केशादूर्द्ध्वञ्च क्रामति
तिर्य्यक्शङ्खावधि प्रिये! । पुनः संवत्सराद्देवि ।
द्वितीया चैव लीलया । ब्रह्मरन्ध्रान्तमावृत्य तिष्ठत्यमर-
वन्दिते! स्वतालुमूलं सङ्घृष्य सप्तवासरमात्मनि । स्वगु-
रूक्तप्रकारेण मलं सर्वं विशोधयेत् । अङ्गल्यग्रेण सङ्घृष्य
जिह्वां तत्र निवेशयेत् । शनैः शनैर्मस्तकाच्च महावज्रै
कपाटभृत् । पूर्ववीर्य्ययुतां विद्यां व्याख्यातामतिदुर्लभाम् ।
अस्याः षड़ग्ङ्गं प्रकुर्वीत तया षट्चक्रभिन्नया । खे निरस्त
सकलक्रियाक्रमा चित्ततश्चरति शाश्वतोदरे । सा शिवत्व
समवायकारिणी खेचरी च भवखेदहारिणी । क्रमेणैव
प्रकर्त्तव्याऽभ्यासेन वरवर्णिनि! । युगपद्यतते तस्य
शरीरं विलयं व्रजेत् । तस्मात् शनैः शनैः कार्य्याभ्यासेन
युगवत् प्रिये! । एवं वर्षत्रयं कृत्वा ब्रह्मद्वारं विशेद्
ध्रुवम् । षट्चक्राणि विभिद्य शक्तिभुजगीं प्रोत्थाप्य मूल
स्थितां भित्त्वा ग्रन्थिपुटं च पश्चिमसिराप्राकाररूपं
महत् । नीत्वा प्राणमतः सिराविलमलं निर्मथ्य चित्तेन
तत् लिङ्गं यः पिवतीन्दुमण्डलगलत् मुक्तः स साक्षात्
शिवः” । “तीक्ष्णकं हरते व्याधिं कटुकं कुष्ठनाशनम् ।
घृतस्वादूपमं चैवामरत्वं लभते ध्रुवम् । मधुस्वादू-
पमं चैव शालिमुद्गादिकं बहु । लड्डुस्वण्डक
पानानि पक्वान्नानि ह्यनेकशः । दिव्यकल्पं क्रीड़ेन्नित्य
मुत्कृष्टो जायते ध्रुवम् । तन्मयत्वमवाप्नोति
कोषकारीव कीटकः । कपालकुहरे जिह्वा प्रविष्टा विपरी-
तगा । भ्रुवोरन्तर्गता दृष्टिर्भुद्रा भवति खेचरी ।
काकचञ्चुविधानेन शीतलं सलिलं पिबेत् । प्राणापानप्रयोगे
च योगी भवति निर्जरः । कलां पराङ्मुखीं कृत्वा
त्रिपथे परिवर्त्तयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रं
तदुच्यते । रसनामर्द्ध्वगां कृत्वा क्षणार्द्धं यदि तिष्ठति ।
यिषमैर्मुच्यते योगी व्याधिमृत्युजरादिभिः । न रोगो

मरणं तस्य न निद्रा न क्षुधा तृषा । न च मूर्च्छा भवेत्
तस्य यो मुद्रां वेत्ति खेचरीम् । पीड्यते न तु रागेण न
लिप्यति च कर्मणा । ब ध्यते न च कालेन या मुद्रां वेत्ति
खेचरीम् । चित्तं चरति खे यस्मात जिह्वा चरात खे
गता । तेनेयं खेचरीमुद्रा सर्वसिद्धैर्नमस्कृता । खेचर्य्या
मुद्रितं येन विवरं लम्बिकोर्द्धतः । तस्य नाक्षरते विन्दुः
कामिन्यालिङ्गतस्य च । चलितोऽपि यदा विन्दुः संप्रा-
प्तश्च हुतामनम् । व्रजत्यूर्द्धं हठशक्त्या निरुद्धा योनि-
मुद्रया । कपालकुहरे जिह्वा कालसन्धानसद्रया ।
तस्मादिदं प्रकुर्वीत नित्ययुक्तः समाहितः । नित्यं
सोमकलापूर्णं शरीरं यस्य यागिनः । तक्षकेणापि दष्टस्य विषं
तस्य न सर्पति । ऊर्द्ध्वजिह्वास्थिरो भूत्वा सोमपानं
करोति यः । मासार्द्धेन न सन्देहो मृत्युञ्जयति
योगवित् । इन्धनानि यथा वह्निस्तैलवर्त्तिं च दीपकः ।
तत्षोड़शकलापूर्णं देही देहं न मुञ्चति । रसनां
वेशयेदूर्द्धं पिबेत्तत् क्षरितं जलम् । गोमांसं भक्षयेन्नित्यं
पिबेदमरवारुणीम् । कुलीनन्तमहं मन्ये इतरे कुलघा-
तका । गोशब्देनोदिता जिह्वा तत्प्रवेशो हि तालुनि ।
गोमांसभक्षणं तच्च महापातकनाशनम् । जिह्व प्रवेश-
संभूतवह्निनोत्पादितः खलु । चन्द्रात्स्रवति यः सारः
स स्यादमरवारुणी । नाभिदेशे भवत्येष भास्करो दहना-
त्मकः । अमृतात्मा स्थिरो नित्यं तालुमध्ये तु चन्द्रमाः ।
वर्षत्यधोमुखश्चन्द्रेग्रसेदूर्द्धमुखो रविः । ज्ञातव्यं कारर्ण
तस्य येन पीयूषमाप्यते । मूर्द्ध्नः षोड़शपद्मपत्रगलितं
प्राणादवाप्तो हठात् ऊर्द्धास्यो रसनां नियम्य बिवरे
शक्तिं परां चित्तप्रेय । उत्कल्लोलकलाजलं च बिमलं
धारामृतं यः पिबेत् भिर्दोषः स भृणालकोमलवपुर्य्योगी
चिरञ्जीवति । चस्वन्ती यदि लम्बिकाग्रमनिशं जिह्वा-
रसस्यन्दिनी सक्षाराकटुकाम्लदुग्धसदृशं मध्वाज्यतुल्यं
यथा । व्याधीनां हरणं चरान्तकरणं शास्त्रागमोद्धार
णम् तस्य स्यादमरत्वमष्टगुणितं सिद्धाङ्गनाकर्षणम् ।
सुखितं ज्ञानजनकपञ्चस्रोतःसमन्वितः । तिष्ठति स्वेचरी-
मुद्रा तस्मिन् शून्ये निरञ्जने । यत्प्रलयं चापि गतं
सुखितं मेरुमूर्द्धतः । तस्मिंस्तत्त्व प्रवदति सुधीस्तनमुखं
निम्नगानां चन्द्रात्सारः स्रवति च सुधा तेन मृत्युर्नरा
णाम् । तं वध्नीयात् सुकरणमथा नान्यथा कायसिद्धिः
इष्टा सैषा मुवमचिदिता खेचरी यागिवृन्दैः । एकं
सृष्टमयं वीजमेका मुद्रा च खेचरी । एकौ देवो निरा-
लम्ब एकावस्था मनोन्मनी” हठमङ्केते नानास्थाने ।
उडडीयानम ५ “सति वज्रासने प्रादौ कराभ्यां धारयेद् दृढ़म् ।
गुल्फदेशसमीपे च कन्दं तत्र निपीडयेत् । पश्चिमा
तानमुदते कुर्य्याञ्च चिवुकं हृदि । शनैः शनैर्यथा प्राणः
कन्दसन्धिं मिगच्छति” । “उड्डीयानाख्येत बन्धेन वायुः
प्रोड्डीयास्ते ब्रह्मनाड्यां यनोऽसौ । उड्डायानाख्यः
स्मृतो बन्ध आद्यैः सेव्यस्तस्मात् योगिभिः सिद्धसेव्यः ।
अविश्रान्तः प्राणवायुः सदैव यस्मादुड्डीनं दृढं
संविधत्ते । उड्डीयानं स्यात्ततस्तत्र बन्धं धीरो नित्यं
साधकः संविधत्ते” हठस० ।
मूलबन्धः ६ “गुदं पार्ष्ण्या तु संपीड्यबलादाकुञ्चयेत् तथा ।
वारंवारं यथा चोर्ध्वं समायाति समीरणः । प्राणा-
पानौ नादबिन्दू मूलबन्धेन चैकताम् । गच्छतो
योगसंसिद्धिं कुरुतो नात्र संशयः । अपानप्राणयोरैक्यं
क्षयो मूत्रपुरोषयोः । युवा भवति वृद्धोऽपि सततं
मूलबन्धनात्” हठप्र० । “पादमूलेनं संपीड्य गुदमार्गं
सुयन्त्रितः । बलादपानमाकृष्य क्रमादूर्ध्वं सुचःलयेत् ।
कथितोऽयं मूलवन्धो जरामरणनाशनः” । “ऐक्ये
प्राणापानयोर्मूत्रगूथक्षैण्याद्वृद्धः स्यात् वयःस्थोऽपि
मूलात् । भित्त्वा द्वारं यात ऊर्ध्वं ह्यपाने हृद्यग्नेः ।
स्याद्वायुनेद्धा शिखोग्रा । ततो वह्न्यपानौ हृद प्राण-
मुष्णं ततोऽन्ते प्रदीप्तस्तदा देहगोऽग्निः । घटे तेन
निश्वस्य सा निद्रिता स्यात् प्रतप्ता समन्तात् क्रमेणैव शक्तिः ।
परिचये मरुतो मनसः स्थितौ झटिति दण्डहतेव
भुजङ्गमी । शयनमुत्सृजति क्षुधिता रुषा कवलयत्यध-
रानिलमूर्ध्वगम् । बिलं प्रविष्टे पवने ऋजुत्वं व्रजेत्
सुषुम्णान्तसमीरणानुगा । शक्तिस्तती योगिभिरेव
नित्यं श्रीमूलबन्धोऽभ्यासनीय आदरात्” हठस० ।
जालन्घरबन्ध ७ “खेचरी चित्तपीयूषप्रवाहपरिबन्धिनी ।
जालन्धरोऽमृतमरुत्प्रवाहपरिरोधकः । आकुञ्च्यं कण्ठं
हृदये निदध्यात् किञ्चित् स जालन्धरबन्ध एषः । अयं
करोत्यव्ययमर्कबक्त्रे पतत्सुधाया वपुषोऽमरत्वम् । बध्नाति
यत् कण्ठसिरासमूहं नाधस्ततो याति नभःस्रवज्जलम् ।
जालन्धरस्तन कृतः सुसिद्धैः स्यात् कण्ठदुःखौघवि-
नाशहेतुः” । “नृणां कण्ठसङ्कोचनेनैव नाडावुभे स्तम्भ-
येत्तेन मध्यस्थचक्रम् । इदं षोड़शारं च नाम्नोक्त-
माशु गते स्तम्भिवाबोः सुधापानमग्नौ । अमृतमहिमगुः
स्वमेष नाभिस्थितदहनः प्रपिवन् ज्वलत्यजसम् । निखिलकमलतश्च्युतं तदग्निर्न पिबति पाति बन्धमेव धत्ते’
विपरीतक रणी ८ “यत्किञ्चित् स्ववते चन्द्रादमृतं दिव्यरूपि
च । तवसर्वं ग्रसते सूर्य्यस्तेन पिण्डो विनश्यति ।
तत्रास्ति कारणं दिव्यं सूर्य्यस्य मुखबन्धनम् । गुरूपदेशतो
ज्ञेयं न तु शास्त्रार्थकोटिभिः । ऊर्ध्वपादोऽन्वधो मस्तकः
स्यात् क्षणं वासरेऽथादिमेऽभ्यासवृद्ध्यैधयेत् । एवमभ्या-
सतो याममात्रं सदा मृत्युजित् स्याज्जराजिच्च षण्मा-
सतः । आरोप्य भूमाविति मस्तकं यो यामत्रयं तिष्ठति
चोर्ध्व पादः । विध्युक्तसंरुद्धसमीरवेगो मासत्रयात्
स्वाद्धि तदाऽम्रः सः । ऊध्वं सोमकलाजर्ल सुविमलं
कण्ठस्थलादुर्ध्वतो नासान्ते सुषिरे नयेच्च गगनद्वारं ततः
सर्वतः । ऊर्ध्वाव्यो भुवि सन्निपत्य नितरामुत्तानपादः
पिवेदेवं यः कुरुते जितेन्द्रियचयो नैवास्ति तस्य क्षयः ।
नित्याभ्यासादस्य हि जठराग्निर्वृद्धिमायाति ।
आहारोऽतस्तस्मै सम्पाद्यः साधकाय भूरिर्ज्ञैः । जितेन्द्रियो
यश्चलचित्तवृत्त्या प्राणावरोधेन कृतेष्टचिन्तनः विनिश्चलो
ऽर्द्धाङ्घ्रियुगस्तु तूष्णीं योगं भजन्नेव तदाऽमरो भवेत् ।
वलितं पलितं चास्य षण्मासान्नैव दृश्यते । याममात्रा-
भ्यासतोऽयं कालजित् स्यादिति क्रमः” हठच० ।
लम्बिका हठसङ्केते प्रसङ्गादत्रैव लम्बिकादिविधिर्दर्शितः
तत्रादौ जिह्वयालम्बनाय विधिर्यथा
“तालुमूलगतां यत्नात् जिह्वयाक्रम्य घण्टिकाम् ।
ऊर्ध्वरन्ध्रगते वायौ प्राणस्पन्दो निरुध्यते” तत्करण-
प्रकारादि “समुद्घर्षयेत्तालुमूलं रसज्ञासिरामूलमुच्चैश्च
सप्ताहमेतैः । सिरासिन्धुतीक्ष्णैः सहैयङ्गवीनैर्मलं सर्व-
माशोधयेत् तत्समुत्थम्” हठस० ।
छेदनम् “सकण्टवज्री लघुवृत्तपत्रनिभं सुशस्त्रं भृशतीक्ष्ण
धारम् । अङ्गुष्ठपर्वार्धसुविस्तृतं तदर्द्धेन्दुतुल्यं विमलं
ह्यरूक्षम् । दण्डस्तु कार्य्योऽस्य षड़ङ्गुलोऽग्रे समुच्छि-
देत्तेन च रोममात्रम् । उच्चैर्गतोत्संप्रतिबन्धहेतोर्न्यग्
भागसंस्थस्य कुचर्मणोऽस्याः । अधोर्ध्वतन्तूपमरक्तभासो
बन्धः कलाया अमिताभनाड्याः । मध्ये गतस्योद्भव
पीठतोऽस्य छिदेत् यवार्धोपरि नित्यमेव । संछेदनात् प्रागनु-
चोक्तचूर्णेनाघर्षयेज्ज्ञो रसनातलव्रणम् । घटीद्वयं गाढ
मिति त्रिवारं संछेदनादूर्ध्वमतन्त्र आचरेत् । संछेदकर्मो-
त्तरमस्ततन्द्रः सञ्चालनं दोहनमाविदध्यात् । अहर्निशं
तदगतचित्तवृत्तः कार्य्याः पटीतोककणास्तु भेदे ।
दीर्थं वितस्तिप्रमितं च विस्तृतं वेदाङ्गुलं स्यान्मृदुलं
सितञ्च । सूक्ष्मं कलावेष्टनवस्त्रलक्षणं प्रोक्तं पुराणै
रसनाभिचालने । आर्द्रेण चानेन कलां सुयुक्त्या
संवेष्ट्य चाङ्गुष्ठकतर्जनीभ्याम् । दोष्णोः सदाकर्षणचालने
स्वमभ्यासमाकृष्य बहिर्विदध्यात् । एवं दृढाभ्यासत
एव जिह्वा लम्बा भवेद्वै मृदुला सुपत्तला । आकर्षणेनैव
वदेत किञ्चित् सुसाधकः सुस्थिर एकमानसः” हठस० ।
“जिह्वां समालिप्य मधूग्रगन्धक्षोदेन सञ्चालनदोहने
सदा । कार्य्या रसज्ञा विधिनेति शीघ्रं स्यात् खेचरी
साधकपुङ्गवस्य । रंछेदसंचालनदोहनानां षण्मासमभ्यास-
युतः सदैव । नश्येत् कलामूलसिरोग्रबन्धो नासार्द्ध-
मुच्चै रसना स्पृशेत् स्वम् । छिन्नं कलामूलमलं
यदाखिलं छिन्द्यात् क्रमेणानु शनैस्तदान्तिके । सिद्धे
विलीनारुणवर्णके द्वे युक्त्या सदा च्छेदनयुक्तितो
बुधः । यदा लम्बिका कर्मणि स्वं रसज्ञा स्पृशेत्
नासिकार्द्धं तदा साधकस्य । अलं लम्बिकाकर्मणाऽनु
स्वमेषा कला प्रत्यहं छिन्नमूलेति दैर्घ्यम्” हठस० ।
“छेदनचालनदोहैः क्रमशः कलां वर्द्धयेत्तावत् । सा
यावद् भ्रूमध्यं विशति तदा खेचरी सिद्धिः । एवं कृते-
ऽथ रसना प्रयात्यनुभ्रूलतान्तविलम् । तिर्य्यक् कर्णा-
वधि हि चिवुकावधि सा स्वयं याति । अभ्यास इति
वष त्रयमत्र कृतस्तदा रसज्ञेयम् । ब्रह्मद्वारं प्रविशति
भित्त्वा भ्रूमध्यमूर्ध्वं गता” हठस० ।
वज्रोली ९ “प्रागपानध्विनोर्ध्वं” समाकुञ्चनं सुन्दरं सुन्दरी
वाभ्यसेत् पूरुषः । याति वज्रोलिकासिद्धिमत्यूमां
कायसिद्धेः प्रसूं विन्दुसिद्धिर्यथा । शलाकया धातुगणा-
न्तरोत्थया कनीनिकान्तः परिसृक्ष्मयाल्पकम् । रन्ध्रे
स्वलिङ्गस्य शनैः प्रवेशनाभ्यासक्रमाद्वायुगतिक्षमञ्चरेत्” ।
अस्यार्थः आदौ मूत्ररेचौषधेन दुष्टपूतिक्वथितौष्ण
मेहदोषोञ्झितं विशुद्धसाधनं विधाय ततस्तदल्पविल-
मल्पाभ्यान्तरं द्वादशाङ्गुलां कनीनिकाग्रसमां सरलां
विशुद्धसीसकस्य पत्तलां शलाकां शनैर्लघुहस्तेन लिङ्ग-
द्वारे क्रमेण समाहितः सततं विधाय तया तद्द्वारं
वायुगतागतक्षमं गुदापान इव कृत्वा प्रथमाभ्यासे
पात्रनिहितक्षीराकृष्टिमूर्ध्वानिलाकर्षणविधिना स्तोक
स्तोकं मन्दमूर्ध्वमाचरेत्” हठस० ।
“इति क्रमाभ्यासवृद्ध्या क्षीरपाने भगाख्यतः । दृढ़े नु
कामिनीयोनिपुष्पाकर्षणमभ्यसेत् । स्थानात् संचलितं
विन्दुमूर्द्ध्वमाकर्षयेदिति । अम्यसेत् साधकः सम्यक् यावत् स्थिरपदं भवेत् । यन्त्रितः शरनालेन फूत्कारं
वज्रकन्दरे । शनैः शनैः शकुर्वीत वायुसञ्चारकारणात्”
अस्यायमाशयः । “षोड़शाङ्गुलमानां तु प्रकुर्य्यात् वंश
नालिकाम् । सूक्ष्माग्रमूलां तां लिङ्गमुखे दत्त्वास्य
तन्मुखम् । धृत्वा फूत्कारमन्तेऽस्याः कुर्य्यात् वाढ़ं
मुहुर्मुहुः । प्रत्यहं तेन विवृतं लिङ्गद्वारं क्रमाद्भवेत् ।
ततो नाल्याऽनया तोयमल्पं फूत्कारतोऽन्तरे । लिङ्ग-
रन्ध्रेणस् गृह्णीयात् क्रमवृद्ध्या सुसाधकः । लिङ्गच्छिद्रेऽथ
विवृते क्षीराकृष्टिं ततो भजेत्” वज्रकन्दरे लिङ्गद्वारे ।
“अपानमाकुञ्च्य ततो बलेनोर्ध्वं दुग्धमाकृष्टिविधि-
क्रमेण । समभ्यसेन्निश्चलमल्पमल्पं भगे पतद्विन्दुमथोर्ध्व-
माहरेत्” हठस० ।
तद्भेदः सहजोली “अथ हि कुसुमितायां पुष्पमर्द्ध्वं स्वमूर्ध्नि
क्रमश उपरि कुर्य्यात् कुञ्चितात्लिङ्गनालात् । निज
उपगतविन्दुं सन्निबध्यानुकुर्य्यात् सुरतरसनिमग्नो लिङ्गसञ्चा-
लनानि । विन्दुः पाण्डुर एष चन्द्र उदितः सूर्य्यो
भवेदार्त्तवं सिन्दूरप्रतिमं रवेः पदगतं शुक्रं शशिस्थानके ।
ऐक्यं साध्वनयोः स्ववर्ष्मणि नृणां नो जायतेऽतो मृति-
रन्थोन्यं नृवधूरते निजमहिम्नैक्यं द्वयोर्विग्रहे ।
अभ्यासपाटवतया विदधाति योषिदेवं नुरूर्ध्वपरिकर्षणतः
सुविन्दुम् । यद्यार्त्तयं स्वमभिरक्षति योगिनी सा वज्रो
लेखेत्यखिलसिद्धिपदं प्रयाति । शक्तीरजों विन्दुरथं
महेशो द्वयोः सुयोमात् परिवभ्यतेऽखिलम् । वीर्य्यं
निजम् ह्यार्त्तवमेतयोस्तनावैक्यं हि वज्रोल्युदिता
सुसिद्धिदा । नहजोली त्वमरोली वज्रोल्या भेदतो मवतः ।
विन्दुं देहे बिभृयाद् येन च केन प्रकारेण । वज्रीणी
मिथुनोत्तरं नरबधूत्था स्वाङ्गसलेपनात् सदग्धाच्छगणोत्य-
याम्बुवृतया भूत्वा क्षणं संस्थिति । सैषोक्ता सहजोलिका
सुरनुतैरार्य्यादिनाथैः शुना वज्रोडीति नृणां यनोति
नियतं भोगेऽतिभुक्तेऽमृतस । आकृष्योर्ध्वं मूत्रमल्पा-
ल्पके तद्वारंवारं संसृजेन्मूत्रनालात् । आकृष्योर्ध्वं वायु-
ना यो हठेन नित्यं धत्ते विन्दुसिद्धिं स याति । इति
षण्मासाभ्यासनाद् गुरुणोक्तपथेन सन्ततं योगी । शान्तिं
गतः संभोगेन तस्य विन्दुः क्षयं व्रजति” हठस० ।
शक्तिचालनम् १० “कुटिलाङ्गी कुण्डलिनी भुजङ्गी शक्तिरीश्वरी ।
कुटीलारुन्धती देवीशब्दाः पर्थ्यायवाचकाः । कन्दोर्द्धे
कुण्डली शक्तिरष्टधा कुण्डलाकृतिः । ब्रह्मद्वारमुखं
नित्यं मुखेनाच्छाद्य तिष्ठति । येन संर्गिण गन्तव्यं ब्रह्म-
स्थामं निरामयम् । मुखेनाच्छाद्य तद्द्वारं प्रसुप्ता परमे-
श्वरी । उद्घाटयेत् कपाटं तु यथा कुञ्चिकया हठात् ।
कुण्डलिन्या तथा योगी मोक्षद्वारं विभेदयेत् । कन्दोर्द्धे
कुण्डलीशक्तिर्बुद्ध्वा मोक्षाय योगिनाम् । बन्धनाय च मूढ़ा-
नां यस्तां वेत्ति स योनवित् । अम्भोधिद्वीपशैलानामाधारः
शेषकुण्डली । अमोघयोगतन्त्राणामाधारः कुण्डली तथा ।
कुण्डली कुटिलाकारा सर्पबत् परिकीर्त्तिता । सा शक्ति-
श्चालिता येन स मुक्तो नात्र संशयः । गङ्गायमुनयोर्मध्ये
बालरण्डा तपस्विनी । बलात्कारेण गृह्णीयात् तद्विष्णोः
परमं पदम् । इड़ा भगवती गङ्गा पिङ्गला यमुना नदी ।
इड़ापिङ्गलयोर्मध्ये बालरण्डा सरस्वती । पुच्छं प्रगृह्य
भुजगीं सुप्तामुद्बोधयेच्च ताम् । निद्रां विहाय सा
ऋज्वी मूर्द्धमुत्तिष्ठते हठात् । परिस्थिता चैव फणावती
सा प्रातश्च सायं प्रहरार्द्धमात्रम् । प्रपूर्य्य सौर्व्यात्
परिधानयुक्ता प्रगृह्य निर्य्यात्यतिचालिता सा । वितस्तिप्रमितं
दीर्घं विस्तारं चतुरङ्गुलम् । मृदुलं धवलं प्रोक्तं वेष्टना-
म्बरलक्षणम् । वज्रासनस्थितो योगी चालयित्वा त
कुण्डलोम्” हठप्र० ।
तदङ्गसूर्य्यभेदनम् सूर्य्यादनन्तरं भस्त्रा कुण्डलीमाशु
बोधयेत् । भानोराकुञ्चनं कुर्य्यात् कुण्डलीं चालयेत्ततः ।
मृत्युवक्त्रगतस्यापि तस्य मृत्युभयं कुतः । नासादक्षिण-
मार्गवाहिपवनात् प्राणोऽतिदीर्घीकृतः चन्द्रान्तः
परिपूरितामृततनुः प्राग्घण्टिकामस्तका । भिन्दन्
कालविशालवह्निपशगान् भ्रूरन्ध्रन्तड़ीगणान् तत्कार्य्यं
कुरुते पुनर्नवतरं जीर्णद्रुमस्कन्धवत् । कुण्डलीं
चालयित्वा तु कुर्य्याद्भस्त्रां विशेषतः । एवमभ्यासतो नित्यं
यमिनः शङ्कते यमः । सदान्यसेत् सूर्यभेदमुज्जावीं
चापि शीतलोम् । एवमभ्यासयुक्तस्व यमस्तु यमिनः
कुतः । मुहूर्त्तद्वयपर्य्यन्तं निर्भरं चाकनादसौ । उर्द्ध-
माकृष्यते किञ्चित् सुषुम्णागतकुण्डसी । मुहूर्त्तद्वय-
पर्य्यन्तं निर्भरं चामनादमौ । ब्रह्मचर्य्यरतस्यैव नित्यं
हितमिताशनैः” हठप्र० ।
समाघिक्रमः “अथेदानीं प्रवक्ष्यामि समाधिक्रमलक्ष-
णम् । मृत्युघ्नं च सुखोपायं ब्रह्मानन्दकरं परम् ।
सलिले सैन्धर्बं यद्वत् साम्यं भजति योगतः । तषात्म-
मनसोरैक्यं समाधिः सोऽभिधीयते । राजयोगस्य
माहात्म्यं कोवा जानाति तत्त्वतः । ज्ञानान्मुक्तिस्थितेः
सितिः गुरुवाक्येन लभ्यते । दुर्लभो विषयत्यागो
दुर्लभं तत्त्वदर्शनम् । दर्लभा सहजावस्था सद्गुरोः
करुणां विना । विविधैरासनैः कुम्भैर्विचित्रकरणैरपि ।
प्रबुद्धायामादिशक्तौ प्राणः शून्थे विलीयते । उत्पा
शक्तिर्बोधस्य त्यक्तनिःशेषकर्मणः । योगिनः सहजावस्थ
स्वयमेव प्रकाशते । सुषुम्णावाहिनि प्राणे शून्यं
विशति मारुते । तदा समस्तकर्माणि निर्मूलयति कर्म-
वित् । अमलो निर्मलः शून्यं जगदेतच्चराचरम् । चित्ते
समत्वमापन्ने वायुं व्रजति मध्यमे । एषाऽमरोली व
ज्रोलो सहजोली मताऽपि च । ज्ञानं कुतो मनसि जीवति
देवि! तावत् प्राणेऽपि जीवति मनो म्रियते न तावत् ।
प्राणमनोद्वयमिदं विलयं प्रयाति मोक्षं स गच्छति
नरो न कथञ्चिदन्यः । रसस्य मनसश्चैव चञ्चलत्वं
स्वभावतः । रसो बद्धो मनो वद्धं किं न सिध्यति
भूतले । मूर्च्छितो हरते व्याधिं मृतो जीवयति स्वयम् ।
वद्धः स्वेचरतां धत्ते रसो वायुश्च भैरवि! । इन्द्रियाणां
मनो नाथो मनोनाथश्च मारुतः । मारुतस्य लयो नाथः
स लयो नादमाश्रितः । अयमेव तु मोक्षाख्यो अस्तु
वापि मतान्तरे । मनःप्राणलयौ नादमैकीकृत्य प्रवर्त्तते ।
प्रनष्टोच्छासनिःश्वासप्रध्वस्तविषयग्रहः । निश्चेष्टा निर्वि-
काराश्च लयं यान्ति च योगिनः । उच्छिन्नसर्व-
लङ्कल्पो निःशेषाशेषचेष्टितः । स्वावगम्यो लयः कोऽपि
मनोवाचामगोचरः । यत्र दृष्टिर्लयस्तत्र भूतेन्द्रिय
सनातनी । स्वात् शक्तिः सर्वभूतानां दृष्टिर्लक्ष्ये
न सङ्गता । वेदशास्त्रपुराणाद्याः सामान्यगणिका इव ।
एकैव शाम्भवी मुद्रा सर्वतन्त्रेषु गोषिता । अन्त-
लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषयर्जिता । एषा तु
शाम्भवी मुद्रा सर्वतन्त्रेषु गोपिता । अन्तलक्ष्यविलौनचित्त
पवनो योगी यदा वर्त्तते दृष्ट्या निश्चलतारया
बहिरसौ पश्यन्न पश्यत्यपि । सुद्रेय खलु शाम्भवो भवति
सायुष्मत्पसादाद्गुरोः शून्याशून्याविवर्जिते स्फुरति यत्तत्त्वं
पद शाम्भवम् । अर्द्धोद्वाटितलाचनः स्थिरमना नासाग्रदत्ते
क्षणः । चन्द्रार्कावमिलीनतामुपनयेन्नैष्यन्दभावान्तरे ।
ज्योतीरूपमशपबाह्यरहित ददाप्यमान परम् तत्त्वं
तत्पदमेव वस्तु परमं वाच्यं किमत्राधिकम् । श्रीशा-
म्भव्याः खेचर्य्याश्च अवस्थाचत्सभेदतः । तारे ज्योतिःषु
सयोज्य किञ्चितुज्वालयेद् भ्रुवौ । पूर्वयोगस्य
मार्गोऽयमुन्मनीकारनक्षणः । केचिदागमजालेन
कचिन्निवमसर्ङ्कुलाः । कपितर्केण सह्यन्ति गैव जानन्ति
वारकम् । षाताकाद्यद्वितीवशिखरे मेरुमूले तदस्ति-
तत्त्वं चैतत् प्रवदति सुधीः सन्मुखं निन्मगानाम् ।
चन्द्रात् सारः स्रवति वपुषस्तेन मृत्युर्नराणान्तं बध्नी-
यात् स्वकरणभिदा नान्यथा कायसिद्धिः । दिवा न
पजयेल्लिङ्गं रात्रौ नैव प्रपूजयेत् । सततं पूजयेल्लिङ्गं दिवा-
रात्रौ च पूजयेत् । सुचिरं ज्ञानजनकपञ्चस्रोतःसम-
न्वितम् । तिष्ठते खेचरौ मुद्रा तस्मिन् स्थाने न संशयः ।
चित्तं चरति खे यस्माज्जिह्वा चरति खे गता । तेनैव
खेचरी नाम मुद्रा सिद्धैर्नमस्कृता । इड़ापिङ्गलयोर्योगे
शून्ये चैवानिलं ग्रसेत् । तिष्ठते खेचरी मुद्रा तत्र सत्यं
पुनः पुनः । सूर्य्याचन्द्रमसोर्मध्ये निरालम्बे तले पुनः ।
संस्थिता व्योमचक्रेण सा सुद्रा नाम खेचरी । सा
मयोद्भेदिता वामा साक्षाच्च शिबवल्लभा । पूरयेन्मारुत
दिव्यं सुषुम्णापश्चिमे मुखे । पुरस्ताच्चैव पूर्य्येत
निश्चिता खचरो भवेत् । अभ्यसेत् स्येचरीमुद्रामुनमनी
सा प्रजायते । अभ्यसेत् खेचरीं ताब्दयावत् स्याद्यो-
गनिद्रितः । संप्राप्तयोगनिद्रस्य कालो नास्ति कदाचन ।
भ्रुवोर्मध्ये शियस्थानं मनस्तत्र विलीयते । ज्ञातम्यं
तत्पदं तुर्य्य तत्र कालो न विद्यते । चन्द्रसूर्य्यद्वयोर्मध्ये
मुद्रा दद्याच्च खचरीम् । निरालम्बे महाशूग्ये व्योमचक्रे
व्यवस्थिताम् । निरालम्ब मनः कृत्वा न किञ्चिदपि
चिन्तयेत् । सबाह्यान्वरे व्योम्नि घठवत् तिष्ठति ध्रुवम् ।
वाह्यवायुर्यथा लीनः खस्य मध्ये न संशयः । स्वस्थार्न
गच्छति प्राणः सूर्य्याङ्गे पवने तथा । एवमभ्यस्यमानस्य
वायुमार्गे दिवानिशम् । अभ्यासाज्जीर्य्यते वायुर्मन-
स्तत्रैव लीयते । अमृत प्लावयेद्देहमापादतलमस्तकम् ।
सिध्यत च महायोगो महाबलपराक्रमः । शक्तिमध्ये
मनः कृत्वा मनः शक्तेस्तु मध्यगम् । मनसा चित्त-
मालोक्य धारयेत् परम पदम् । खमध्ये कुरु चात्मान-
मात्ममध्ये च खं कुरु! । आत्मानं खमयं कृत्वा न
किञ्चिदपि चिन्तयत् । बाह्याचन्ता न कत्तव्या तथैवान्तर-
चिन्तनम् । सर्वचिन्तां परित्यज्य न किञ्चिदपि चिन्त-
वेत् । सङ्कल्पमात्रकलनाच्च जगत् समग्रं सङ्कल्पमात्रकल-
नाद्धिमनोविलीनम् । सङ्कल्पमात्रमिदमुत्सृज निर्विकल्प-
माश्रित्य निश्चलमवाप्नु मिहात्मशान्तिम् । कर्पूरं सलिले
यद्वत् सैन्घवं सलिले यथा । तथा सन्घीयमानं च
मनस्तत्त्वे विलीयते । ज्ञेयं सर्वमतीतञ्च ज्ञानञ्च मन उच्यते ।
ज्ञानं ज्ञेयं मनश्चैव नान्थः पुन्था द्वितीयदः । मनो

श्यमिदं सर्वं यत्किञ्चित् सचराचरम् । मनसोह्यु-
न्मनीभावे द्वैतभावः प्रणश्यति । ज्ञेयवस्तुपरित्यागा-
द्विलयं याति मानसम् । मानसे विलयं याते कैवल्य-
मपि कल्पते । लयो लय इति प्राहुः कीदृशं लयलक्ष
णम् । स पुनर्वासनोत्थानो लयोविषयविस्मृतिः । एवं
नानाविधोपायाः सम्यक्स्वानुभवान्विताः । समाधि-
मार्गाः कथिताः पूर्वाचार्य्यैमहात्मभिः । सुषुम्णायै
कुण्डलिन्यै सुधायै चन्द्रजन्मने । मनोन्मन्यै नम
स्तभ्यं महाशक्त्यै चिदात्मने । आसक्ततत्त्वबोधानां मूढ़-
नामप्रि सन्मतम् । प्रोक्तं गोरक्षनाथेन नादोपास
नमुच्यते” हठप्र० ।
नादानुसन्धानप्रशंसा श्री आदिनाथेन सपादकोटिप्रकाराः
काथता जयन्ति । नादानुसन्धानकमेव कार्य्यं मन्यामहे-
नान्यतम लयानाम् । मुक्तासनस्थितो योगी मुद्रा
सन्घाय शाम्भवीम् । शृणयादृक्षिणे कर्णे नादमेकान्तके
सुधीः । काष्ठेः प्रवर्त्तितो वह्निः काष्ठेन सह शाम्यति ।
नादे प्रवर्त्तितं चित्तं नादेन सह लीयते । श्रवण-
मुखनयननासानिरोधनेनैव कर्त्तव्यः । सुषुम्णामार्गेण
स्फुटयमकः श्रूयते नादः” हठप्र० ।
“आरम्भश्च घटश्चक तथा परिचयस्तथा । निष्पत्ति-
श्चेति योगषु स्यादवस्थाचतुष्टयम् । विस्मृत्य सकलं
वाह्यं नादे दुग्धाम्बुवन्नरः । एकीभूयाथ सहसा चिदा-
काशे विलीयते । औदासीन्यपरो भूत्वा सदाभ्यासेन
संयमी । उन्मनीकरणं सद्यो नादमेपाबधारयेत्” । शति
काले चौपटी वा कटी वा पथ्याहारे गोपथे वा पथे वा
भक्ष्ये भिक्षावृन्दमारण्यकन्दं पाणौ द्रोणीकर्परं भोज्य
पात्रम् । सर्वचिन्तां परित्यज्य सर्वकाले च सर्वदा । नाद
मेवानुसन्धत्ते नादे चित्तं विलीयते” हठप्र० ।
आरम्भावस्था “ब्रह्मग्रन्थिमेवेद्भिन्न आनन्दः शून्यसम्भवः
विचित्रक्षणिको देहे श्रूयमेऽनाहनो ध्वनिः । सम्पूर्ण-
हृदये शून्ये आरम्भो योगवान् भरेत्” हठप्र० ।
घटावस्था “द्वितीयायां घटोकृत्य–व युगवति मध्यमः । दृढ़ा
सनो भवेद्यागो ज्ञानी देवसमस्तथा । विष्णुग्रन्थिर्यदा-
भिन्नः परमानन्दसूचकः । अतिशून्यपिभेदश्च मेरी-
शब्दस्तथा भवेत्” हठप्र०
परिचयावस्था “प्रतीयग्रन्थिभेदेषु जायते मर्दल
ध्वनिः । महाशून्यं तथा याति सर्वासिद्धिसममाश्रयम् ।
चित्तानन्दं ततो जित्वा सहजानन्दसम्भवः दोषो
दुःखक्षुधानिद्राजरामृत्युविवर्जितः । रुद्रग्रन्थिं ततो
नित्त्वा सर्वपीठगतोऽनिलः” हठप्र० ।
निष्ठावस्था “निष्ठातो वैणवः शब्दः क्वणद्वीणाक्वणो भवेत् ।
एकीभूतं तथा चित्तं राजयोगाभिधायकम् । सृष्टिसंहा-
रकर्त्तासौ योगीश्वरसमो भवेत् । अस्तु वा मास्तु वा
मुक्तिरत्रै{??}खण्डितं महत् । लयामृतमिटं सौख्यं
राजयोगादवाप्यते । राजयोगपदं प्राप्तं सुखोपायश्च
चेतसाम् । हठं विना राजयोगो राजयोग विना हठः ।
सद्यः प्रत्ययसन्धायी जायते नादजो लयः हठप्र० ।
नादानुसन्धानं तत्फलञ्च “नादानुसन्धानसमाधिभाजां योगी-
श्वराणां हृदये प्ररूढ़म् । आनन्दमेकं वचसामवाच्य
जानाति तत्त्व गुरुनाथ एव । कर्णो पिधाय हस्ताभ्यां यं
शृणोति ध्वनिं मुनिः । तत्र चित्तं स्थिरीकुर्याद्यावत्
स्थिरपद व्रजेत् । सर्वचिन्तां परित्यज्य सावधानेन चेतसा ।
नादमेवानुसन्धत्तं योगसाम्राज्यमिच्छता । मकरन्दं पिबन्
भृङ्गो गन्धान्नापेक्षते यथा । नादासक्तं तथा चित्तं
विषयान्न हि काङ्क्षति । नादश्रवणतश्चित्तमन्तरङ्गभुज-
ङ्गमः । विस्मृत्य सर्वमेकाग्रं कुत्रचिन्न हि धावति ।
मनोमत्तगजन्द्रस्य विषयोद्यानचारिणः नियामनसम-
थाऽयं निनादो निशिताङ्कुशः । नादोऽन्तरङ्गसारङ्ग-
बन्धन वागुरायते । अन्तरङ्गतुरङ्गस्य रोधे बाधायतेऽपि
च । अन्तरङ्गस्य जविनो वाजिनः परिघायते । नादो-
पास्तिरतो नित्यमवधार्य्यापि योगिनः । अभ्यस्यमानो
मादाऽय बाह्यमावर्त्तयेत ध्वनिम् । पक्षाद्विक्षेपमखिलं
जित्वा योगी सुखी भवेत् । श्रूयते प्रथमाभ्यासे नादी
नानाविधो महान् । वर्द्धमाने ततोऽभ्यासे श्रूयते
सूक्ष्मसूक्ष्मतः । आदौ जलधिजीमूतभेरीनिर्झरनि-
स्वनः । मध्ये मर्दलशङ्खेत्थघण्टाकोलाहलस्तथा । अन्ते
तु किङ्किणीशब्दवीणाभ्रमरनिस्वनः । इति नानाविधो
नादः श्रूयते देहमध्यतः । महति श्रूयमाणेऽपि
मेघभेर्य्यादिके ध्वनौ । तत्र सूक्ष्मतरं ध्वानं नादमेव
परामृशेत् । यत्र कुत्रापि वा नादे लगति प्रथमं मनः ।
तत्रैव तत् स्थिरीभूय तेन सार्द्धं विलीयते । घण्टा-
निनादसक्तस्य शब्दान्तःकरणस्य तु । अनाहतस्य शब्दस्य
तस्य शब्दस्य यो ध्वनिः । ध्वनेरन्तर्रतं ज्योति-
र्ज्ञेयस्यान्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः
परमं पदम् । तावदाकाशसङ्कल्पो यावत् शब्दः प्रवर्त्तते ।
निःशब्दं तत्परं ब्रह्म परमात्मा समीर्य्यते । यत् किञ्चि-

न्नामरूपेण श्रूयते शक्तिरेव सा । यस्तच्छ्रोता निरा-
कारः स एव परमेश्वरः । नादः शक्तिरिति ज्ञेयं नाद
ज्ञानं सदाशिवः । ज्ञेयज्ञाने विलीने च सोन्मन्थेवा-
वशिषग्रते । नादोयावान् मनस्तावन्नादान्ते तु मनोन्मनी ।
सशब्दं कथितं व्योम्नि निःशब्दं ब्रह्म कथ्यते । सदा
न्यदानुसन्धानात् संक्षीणाः सर्ववासनाः । निरब्जने विली-
यन्ते निश्चितं मारुतात्मनः । नादकोटिसहस्राणि
विन्दुकोटिशतानि च! सर्वे तत्र लयं यान्ति यत्र देवी
निरञ्जना” हठप्र० ।
हठलोगफलम् ईश्वरमीनसंवादे “यदा परिचये शक्तिश्चलि
तोर्ध्व मुपैति खम् । षट्चक्राणि क्रमाद्भित्त्वा तदा स्यु
रणिमादयः । पुरा ग्रन्थित्रयं भित्त्वा यात्यूर्ध्वं मरुतो
रगी । स्फुटन्ति पृष्ठवंशास्थिग्रन्थयो योगिनस्तदा ।
वायुस्तदैव सर्वाङ्गे नीनोभवति सञ्जितः । धीरैः केवल-
कुम्भ स उच्यते सर्वसिद्धिदः । मूलाधारं यदाऽपानो
मित्त्वोर्द्धं याति वेगतः । वदातीतानागतज्ञो योगी भवति
सत्त्वसीः । स्थितिं भित्त्वाऽर्द्धगाऽपानक्षोभिता स्थाद्यदो-
रगो । तदा नादोत्पत्तिरस्य जायते योगिनो हृदि । मृद
ङ्गनादोत्पत्तिस्तु मणिपूरभिदा भवेत् । अनाहतविभेदेन
घण्टाध्वनिरुदेति च । विशुद्धचक्रभेदेन यन्त्रनादः प्रजा-
यते । यदा त्वाज्ञाचक्रभेदस्तदोपैति मनोलयम् ।
सहस्रदलकमलं वायुना शक्तिराव्रजेत् । यदा तदा मुनि-
स्तिष्ठेदाकल्पं सहजेऽव्ययम्” । पवनयोगसंग्रहे “महा-
मुद्रां समभ्यस्य महाबन्धमतः परम् । महाबेधञ्च
नियत प्रकुर्य्याच्छक्तिचालनम् । आसनं सुदृढ़ं बद्ध्वा मूल
बन्धं विधाय च । उड्रियानं तथा बन्धं ततो जालन्ध-
राभिधम्” । “अभ्यसेदिति सम्बन्धः ।
“प्राणे सुषुम्णां सम्प्राप्ते नादोऽन्तः श्रूयतेऽष्टधा । च
ण्टादुन्दभि शङ्खान्धिवीणावेण्वादितालवत् । तनूनपात्त-
डितारातारेशतपनोपनम् । ब्रह्मनाडीं गते प्राणे विम्ब
रूपं प्रकाशते । तथाच विश्वरूपाचार्य्याः “यदा संक्षीयते
प्राणो मानसं च प्रलीयते । तदा समरसत्वं यत्समाधिः
मोऽभिधायते । मनःस्थैर्य्यात् स्थिरो वायुस्ततो विन्दुः
स्थिरो भवेत् । विन्दुस्थैर्य्योदयात् सत्यं पिण्डस्थैर्य्यं
प्रजायते” । सैषा निष्पत्तिदशा साषकस्य राजयोगा-
रम्भ इति तथा च हठप्रदीपिकायाम् । “प्रनष्टोच्छ्वासनिः-
स्वासः प्रध्वस्तविषयज्वरः । निश्चिष्टो निर्विकारश्च लयो
जयति योगिनः । तथा चोक्तं ग्रन्थान्तरे “शुष्के मले
तु वायोः स्याद्गतिरस्स्वलिता ततः । अधोगतिं
विहायाशु भवत्यूर्द्धमुखस्ततः । अपानस्त्र्ध्वगो भूत्वा
वह्निना सह गच्छति । प्राणस्थानं ततो वह्निः प्राणा-
पानौ च सत्वरम् । मिलित्वा कुण्डलीं नीत्वा प्रसूतां
कुण्डलीं पुनः । प्रसह्य विंशतिस्थानं सुषुम्णा बहुगन्धि-
कम् । ब्रह्मग्रन्थिं ततो भित्त्वा रजोगुण समुद्भवम् । सुषु-
म्णा वदनस्थासा प्रयात्यूर्द्धञ्च सत्वरम् । विष्णुग्रन्थिं प्र
यात्युच्चैः सत्वजं हृदि संस्थितम् । वेगेन महता गच्छेद्वि-
ष्णुग्रन्थं विभिद्य सा । ऊर्द्धं गच्छति यत्रास्ते रुद्रग्र-
न्थिस्तमोभवः । तत ऊर्द्ध्वं सुषुम्णाया याति शीतांशु-
मण्डलम् । आकुलाख्यं तु तच्चक्रं दलैः षोडशभिर्वृ-
तम् । तत्र शीतांशुसम्भूतं द्रावं शोषयतेऽनिशम् ।
चलिता प्राणवेगेन रक्तपित्तरवेर्गृहम्” हटम० ।
“योगिनः कालवञ्चनोपायो यथा “ज्ञात्वा कालं निजं
योगी लयस्थानं समाश्रितः । युञ्जीत योगं कालस्य
वञ्चनाय यथाक्रमम् । बद्धसिद्धासने देहं पूरयेत्
प्राणवायुना । कृत्वा दण्डस्थिरं बुद्ध्या दश द्वाराणि
रोधयेत् । बद्धा च खेचरीं मुद्रां ग्रीवायाञ्च
जनन्धरीम् । अपाने मूलबन्धञ्च उड्डिय नं तथेदरे ।
उत्थाप्य भुजगीं शक्तिं मूलाधाराम्बुज स्थिताम् ।
सुषुम्णान्तर्गतां पञ्चचक्राणां भेदिभीं शिवाम् । जीवं
हृदाश्रयं नीत्वा यान्तीं बुद्धिमनोयुताम् । सहस्र-
दलमध्यस्थशिवे लीनां सुधारयेत् । यतः सुधाकरो-
द्भूतममृतं तेन मूलतः । सिञ्चन्तीं सकलं देहं प्लाव-
यन्तीं विचिन्तयेत् । तया सार्द्धं ततो योगी शिवेनै-
कात्मतां ब्रजेत् । परानन्दमयो भूत्वा चिद्बत्तिमपि
संत्यजेत् । ततोऽलक्ष्यमनाभासमहभावविवर्जितम् ।
सर्वाङ्गकल्पनाहीनं कथं कालो निहन्ति तम् । स एव
कालः सशिवः ससर्वो नास्त्यतःपरः । कः केन हन्यते
तत्र म्रियते नापि कश्चन । ततो व्यतोते समवे कालस्य
भ्रान्तिरूपिणि । योगी सुप्तोत्थित इव प्रतिबोधे ब्रबो-
धितः । एवं सिद्धो भवेद्योगी वञ्चयित्वा विधानतः ।
कालं कलितसंसारपौरुषेणाद्भूतं हि तम् । ततस्त्रिभुवने
योगी विचरत्येक एव सः । पश्यन् संसारवैचित्र्यं स्वेच्छया निरहङ्कृतिः” हठस० ।


वाचस्पत्यम्

Categories: Sanskrit Dictionary

Tagged as: