Sanskrit Dictionary

अक्षयतृतीया – Akshya tritiya

अक्षयतृतीया स्त्री कर्म्म० । वैशाखशुक्लपक्षतृतीयायाम् ।

“वैशाखे मासि राजेन्द्र! शुक्लपक्षे तृतीयिका । अक्षया सा
तिथिः प्रोक्ता कृत्तिकारोहिणीयुता । तस्यां दानादिकं
सर्व्वमक्षयं समुदाहृतमिति” । “या शुक्ला कुरुशार्द्दल! वैशाखे
मासि वै तिथिः । तृतीया साक्षया लोके त्रिदशैरभिवन्दि-
तेति” च भविष्यपुराणम् । “वैशाखस्य सिते पक्षे तृतीयाऽ-
क्षयसंज्ञितेति” स्कन्दपुराणम् । – [वाचस्पत्यम्]

Categories: Sanskrit Dictionary

Tagged as: