Sanskrit Dictionary

ऋग्वेद – rigveda

वाचस्पत्यम्

ऋग्वेद पु० ऋच्यते स्तूयते ऋक् कर्म्म० । वेदभेदे । स च मन्त्र ब्राह्मणोभयात्मकः । तत्र मन्त्रसमूहात्मकः ऋक्शब्दे बक्ष्यमाणलक्षणर्गात्मकः संहितारूपो ग्रन्थः । तत्र दश मण्डलानि तत्राद्ये मण्डले २४ अनुवाकाः “अग्नि- मीले” इत्यादीनि आग्नेयानि १९१ सूक्तानि तानि शतर्चिकर्षिदृष्टानि अध्यायोपाकरणोत्सर्गयोर्विनियुक्तानि । द्वितीये शौनकगृत्समदर्षिदृष्टे चत्वारि अनुवाकाः । त्वमग्न इत्यादीनि ४३ सूक्तानि आग्नेयानि उपाकरणो- त्सर्गयोर्विनियुक्तानि । शौनक गृत्समदः ऋषिरेतन्मण्डद्रष्टा स च पूर्ब्बमाङ्गिरसकुले शुनहोत्रस्य पुत्रः सन् यज्ञकालेऽ- सुरैर्गृहीत इन्द्रेण मोचितः ।

पश्चात्तद्वचनेनैव भृगुकुले शुनक पुत्रो गृत्समदनामाऽभूत् । “य आङ्गिरसः शौनहोत्रो
भूत्वा भार्गवः शौनकोऽभवत् स गृत्समदो द्वितीयमण्डल- मपश्यत्” सर्वानु० उक्तेः । “त्वमग्न इति गृत्स-
मदः शौनको भृगुतां गतः । शौनहोत्रः प्रकृत्या तु य आङ्गिरस उच्यते” इति ऋष्यनुक्रमोक्तेश्च । ऋग्वेदभाष्यम् । तृतीये विश्वामित्रदृष्टे पञ्चानुवाकाः सोमस्य मेत्यादीनि ६२ सूक्तानि । तानि च आग्नेयानि प्रातरनुवाकाश्विनशस्त्रयोस्त्रैष्टुभे छन्दसि विनियुक्तानि । चतुर्थे वामदेवर्षिदृष्टे पञ्चानुवाकाः । आग्नेयानि त्वां
ह्यग्ने इत्यादीनि ५८ सूक्तानि । आद्याध्यायोपाकरणे मण्डलादिहोमे च विनियुक्तानि ।

पञ्चमे आत्रेयबुधगविष्ठिराद्यर्षिके षड् अनुवाकाः ८७ अबोध्यग्निरित्यादीनि सूक्तानि आग्नेयानि आग्नेगे
क्रतौ त्रैष्टुभे छन्दस्याश्विनशस्त्रे चत्वारि शिष्टानि अध्यायोत्सर्ज्जनीपाकरणयोर्विनियुक्तानि । षष्ठे भरद्वाजदृष्टे षडनुवाकाः त्वं ह्यग्ने प्रथम इत्यादीनि ७५ सूक्तानि आग्नेयानि तत्र प्रातरनुवाके आग्नेये
क्रतौ त्रैष्टभे छन्दसि एतदादिसूक्ताष्टकं द्वितीयवर्जं विनियुक्तम् शिष्टानि आद्योपाकरणे विनियुक्तानि ।
सप्तमे वसिष्ठदृष्टे ६ अनुवाकाः अग्निं नर इत्यादीनि १०४ सूक्तानि आग्नेयानि तेषां विशेषतो विनियोगोबाहुल्यात् योक्त आकरे दृश्यः ।

अष्टमे मेधातिथिमेध्यातिथ्यादिनानर्षिक । दशानुवाकाः । इन्द्रादिदैवत्यानि “मा चिदन्यद्वीत्यादीनि १०३ सूक्तानि महाव्रतादौ विनियुक्तानि । नवमे वैश्वामित्रमधुछन्दआद्यृषिके सप्तानुवाकाः पावमानसोमादिदेवताकानि स्वादिष्ठयेत्यादीनि ११४ सूक्तानि तेषाञ्च उपाकर्म्मणि मण्डलादिग्रहणे च
यथायथं विनियोगः ।

दशमे मण्डले आप्त्यत्रिताद्यर्षिके द्वादशानुवाकाः अश्वे वृहन्नित्यादीनि १९१ सूक्तानि आग्मेयादीनि ।
प्रातरनुवाकाश्विनशस्त्रयोराग्नेये क्रतौ त्रैष्टुभे छन्दसी- त्यादि कर्मसु विनियुक्तानि । इत्येवं दशसु मण्डलेषु
१ म० १९१, २ म० ४३, ३ म० ६२, ४ म० ५८, ५ म० ८७, ६ म० ७५, ७ म० १०४, ८ म० १०३, ९ म०
११४, १० म० ११९१ । इत्येवं समष्टि भूतानि १०२८ सूक्तानि । सूक्तानि च एकद्व्यादिकर्ग् घटितानि यथायथं
तत्तत्सूक्तेषु दृश्यानि । एतत्संख्या च बालखिलसहितानां तद्व्यतिरिक्तानि तु १०१७ सूक्तानि तच्च चरणव्यूह-
भाष्ययोः स्पष्टम् । तस्य च पकारान्तरेण विभागः तस्य अष्टाष्टकानि प्रत्येकाष्टके च अष्टौ अष्टौ अध्यायाः
इत्येवं ६४ अध्यायाः तत्र च वर्गा २००६ संख्यकाश्चरणव्यूहोक्ताः खिलसहितस्तु ततोऽप्यधिकाः । चरणव्यूहभाष्ययोर्दर्शित- विभागो दर्श्यते यथा ।

“चातुर्वेद्य चत्वारोवेदा विज्ञाता भवन्ति ऋग्वेदो-यजुर्वेदः सामवेदोऽथर्ववेदश्चेति तत्र ऋग्वेदस्या- ष्टभेदा भवन्ति चर्चा श्रावकश्चर्चक श्रवर्णायपारः क्रमपारः क्रमजटाः क्रमदण्डश्चेति चतुष्पारायणमेतेषां शाखाः
पञ्च भवन्त्याश्वलायनी सांख्यायनी शाकला बाष्कला माण्डूकाश्चेति तेषामध्ययनम् । अध्यायानां चतुःषष्टिर्मण्ड- लानि दशैव तु । वर्गाणां परिसंख्यातं द्वे सहस्रे षडुत्तरे सहस्रमेकं सूक्तानां निर्विशङ्गं विकल्पितम् । दश सप्त च पठ्यन्ते संख्यातं वै पदक्रमात् । एकशतसहस्रं वा द्वि- पञ्चाशत्सहस्रार्द्धमेतानि चतुर्दश वासिष्ठानामितरेषां पञ्चाशीतिः ।

ऋचां दश सहस्राणि ऋचां पञ्चशतानि च । ऋचामशीतिः पादश्च पारायणं प्रकीर्त्तितम् । एकर्च एकवर्गश्च नवकश्च तथा स्मृतः । द्वौ वर्गौ द्विऋचौ ज्ञेयौ ऋक्त्रयं शतं च स्मृतम् । चतुरृचां पञ्च- सप्तत्यघिकञ्च शतं तथा । पञ्चऋचां तु द्विशतं सहस्रं रुद्रसंयुतम् । पञ्चचत्वार्य्यधिकं तु षड् ऋचां च शतत्रयम् । सप्त ऋचां शत ज्ञेयं विंशति- श्चाधिकाः स्मृताः । अष्टऋचां तु पञ्चाशत् पञ्चाधिका- स्तथैव च । दशाघिकद्विसहस्राः पञ्चशाखासु निश्चिताः । वर्ग संज्ञा न सूक्तस्य चत्वारश्चात्र कीर्त्तिताः” चरणव्यूहः । वेदपारायणचतुर्विभागात् चरण उच्यते ।

तस्य व्यूहः समुदायः, चतुर्वेदानां समुदायं व्याख्या-
स्यामः इत्यर्थः । कथमेकोवेदः तदुक्त आरण्यके, “सर्वे
वेदाः सर्वेघोषा एकैव व्याहृतिः प्राणा एव प्राणा
ऋच इत्येता विद्यादिति” तस्य चतुर्धा भागः कृतः । तथा
चोक्तं भागवते । “तेनासौ चतुरो वेदाः चतुर्भिर्वदनैः
प्रभुः । सव्याहृतिकान्सोङ्कारांश्चतुर्होत्रविचक्षणः । पुत्रा
नध्यापयंस्तां तु ब्रह्मषिर्ब्रह्मकोविदान् । ते तु धर्म-
पदेष्टारः स्वपुत्रेभ्यः समादिशन् । ते परम्परया प्राप्ता
स्तत्तच्छिष्यैर्धृतव्रतैः । चतुर्युगेष्वप्यव्यस्ता द्वापारादौ
महर्षिभिः । क्षीणायुःक्षीणसत्यञ्च दुर्मेधा वीक्ष्य
कालतः । वेदान् ब्रह्मर्षयोव्यस्तान् हृदिस्थाऽच्युतनोदितः ।
अस्मिन्मन्वन्तरे ब्रह्मन् स्वर्गत्वा लोकभावनः । ब्रह्मेशा-
द्यैर्लोकपालैर्याचितोधर्मगुप्तये । पराशरात् सत्यवत्यामंशां-
शकलया विभुः । अवतीर्णोमहाभागो बेदं चक्रे चतुविधम् । ऋगथर्वयजुःसाम्नोराशीनुद्धृत्य वर्गशः ।
चतस्रः संहिताश्चक्रे मन्त्रैर्मणिगणा इव । तासां स चतुरः-
शिष्यान् उपाहूय महामतिः । एकैकसंहितां ब्रह्मन्नेकेकस्मै
ददा विभः । पेलायः संहितामाद्यां बह्वृचाख्यामुवाच ह ।
शैम्पायनसंज्ञाय निगदाख्यं यजुर्गणम् । साम्नां जैमिनये
प्रादात्तथा छन्दोगसंहिताम् । अथर्वाङ्गिरसं नाम
स्वशिष्याय सुमन्ततये । पैलः स्वसंहितामूचे इन्द्रप्रमित-
ये मुनिः । बाष्कलाय च सोऽप्याह शिष्येभ्यः संहितां
स्वकाम् । चतुर्धा व्यस्य बोध्याय याज्ञवल्क्याय भार्गव! ।
पराशरायाग्निहोत्रे इन्द्रप्रमतिरात्मवान् । अध्यापयत्
संहितां स्वां माण्डूकेयमृषिङ्कविम् । तच्छिष्यो देवमित्रश्च
सौभार्यादिभ्य ऊचिवान् । (इन्द्रप्रमतिसुतो माण्डूकेयः ।
माण्डूकेयसुतः शाकल्यः । शाकल्यशिष्यो देवमित्रः) ।
शाकल्यस्तत्सुतः स्वान्तु पञ्चधा व्यस्य संहिताम् । वात्स्य
मुद्गलशालीयगोखल्यशिशिरेष्वधात् । जातूकर्णश्च तच्छिष्यः
सनिरुक्तां स्वसंहिताम् । बालाकपैङ्ग्यवेतालविरजेभ्योददौ
सुनिः । वाष्कलिः प्रतिशाखाभ्यो बालखिल्याख्यसंहि-
ताम् । चक्रे बालायनिर्भुज्यः काशारश्चैव तां दधुः ।
बह्वृचाः संहिताह्येता एतैर्ब्रह्मर्षिभिर्धृताः । श्रुत्वैव
छन्दसां व्यासं सर्वपापैः प्रमुच्यते” भाग० १२, ६ अ० ।
“ब्रह्मणा नोदितो व्यासोवेदान् व्यस्यन् प्रचक्रमे । अथ
शिष्यान् सञ्जग्राह चतुरोवेदपारगान् । ऋग्वेदश्रावकं
पैलं सञ्जग्राह महामतिः । वैशम्पायननामानं
यजुर्वेदस्य चाग्रहीत् । जैमिनिः सामवेदस्य तथैवाथर्ववेद-
वित् । सुमन्तुस्तस्य शिष्योभूद्वेदव्यासस्य धोमतः” विष्णुपु०
गृह्यसूत्रम् । “सुमन्तुजैमिनिवैशम्पायनपैलाः सूत्र-
भाष्यमहाभारतधर्माचार्या” इति । जलतिबाह-
वीत्यारभ्य माण्डूकेया इत्यन्तामाण्डूकगणाः गर्गीवाचक्न-
वीत्यारभ्य सांख्यायनमित्यन्ताः सांख्यायनगणाः । एतेषां
कौषीतकीसूत्रं ब्राह्मणम् आरण्यकं च । ऐतरेय इत्या-
रभ्य आश्वलायनान्ताः आश्वलायनगणाः एषन्तु ऐतरेय
आरण्यकं ब्राह्मणम् । आश्वलायनसूत्रम् ।
तत्र यदुक्तं चातुर्वेद्यं चत्वारोवेदाविज्ञाता भवन्ति ।
अस्मिन् ग्रन्थे चातुर्वेद्यं तेन चत्वारोवेदाविज्ञाता भवन्ति
ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदश्चेति इति स्पष्टार्थः ।

वेदा हि यज्ञार्थम् अभिप्रवृत्ताः । ते यज्ञाः द्विविधाः । अग्नौ हूयमाना, अनग्नौ प्रहुताः । अग्नौ हूयमाना वैताविकाः । अनग्नौ प्रहुता नित्याभ्यासो ब्रह्मयज्ञः पारा- यणं च । अत्र गृह्यसूत्रे ब्रह्मयज्ञखण्डे “यद्वचोऽधीतेप- यआहुतिभिरेव तद्देवतास्तर्पयति, यद्यजूंषि घृताहुतिभिः, यत्सामानि मध्वाहुतिभिः, यदथर्वाङ्गिरसः सोमाहुतिभिः, यत् ब्राह्मणानि कल्पान् गाथानाराशंसीरितिहासपुरा- णानीत्यमृताहुतिभिर्यदृचोऽधीते स्वधा अस्य पितॄन् उपक्षरन्ति” इति । तत्र ऋग्वेदस्याष्टभेदा भवन्ति । स्थानानि भवन्तीति पाठान्तरम् । शाकलबाष्कलौ २ ऐतरेयब्राह्म- णारण्यकौ ४ साङ्खायनमाण्डूकौ ६ । कौषीतकीय ब्राह्मणारण्मकाविति८ अष्टभेदाः ।

अन्यच्च “वेदाश्च विकृतिः शाखाभेदस्तु त्रिविधस्ततः । पृथग्नामाभिधानेन
व्यासेन कथितं पुरा” इति । अत्राष्टभेदेनाष्टस्थानेन वा
प्रकृतिर्ग्राह्या विकृतिस्तु अग्रे वक्ष्यामः । तस्मात् ब्रह्म-
यज्ञार्थे पारायणार्थे च ऋग्वेदस्याध्ययनं कर्त्तव्यम् । ततश्चतु-
ष्पदेन वक्ष्यति । चर्चेत्यादि चर्चाध्ययनम् । ताल्वोष्टपुट-
व्यापारेण शब्दस्योच्चारणं क्रियते सा चर्चा । तस्याध्ययनस्य
गुरुः श्रावकः । तस्य चर्चकः शिष्यः श्रवणीयपारः । श्रवणीयो
वेदः । तस्य पारं समाप्तिः । इति चतुष्पदेन अध्ययनं
सूचितम् । अग्रे चतुष्पदेन चत्वारि पारायणानि
सूचयढि । तत्पारायणं द्विविषम् । प्रकृतिविकृतिरूपम्
का प्रकृतिः? । प्रकृतिः संहिता । सा द्विविधा रूढा
योगा च रूढा यथा! “अग्निमीले पुरोहितमिति । योगा
यथा । अग्निम् ईले पुरोहितमिति । प्रातिशाख्ये
द्वितीयपटले भाष्यकारेण व्याख्यातम् । अथ चतुष्पारा-
यणं यथा । क्रमपारः क्रमपदः क्रमजटाः क्रमद-
ण्डश्चेति चतुष्पारायणम् । क्रमशब्देन उभयसंहिता
बाच्या स कथम्? । “अनुलोमविलोमाभ्यां द्विवारं
हि पठेत् क्रमम् । विलोमे पदवत्सन्धिरनुलोमे यथाक्र-
मम्” । यथाक्रमं यथा संहिता इत्यर्थः । अन्यच्च वर्ण-
क्रमः । अक्षरसमाम्नाय एवेत्यारण्यके । “कथमभिष्टुयादि-
त्यक्षरशः चतुरक्षरशः पच्छः अर्द्ध्वर्चशः ऋक्शः” ।
इति ब्राह्मणम् । क्रमः संहितावाची कथम्? । पद
प्रकृतिः संहिता इति नैरुक्तवचनात् । सा क्रमरूपा
इत्यर्थः । क्रमपदः । क्रमः संहिता तस्याः पदानि इति
प्रकृतिपारायणे द्वेप्रकृतिरूपे । विकृतिस्तु अष्टधा भवति ।
तच्च “जटा माला शिस्वा लेखा ध्वजो दण्डोरथोघनः ।
अष्टौ विकृतयः प्रोक्ताः क्रमपूर्बा महर्षिभिः” इति आसां मध्ये
जटदण्डयोः प्राधान्यं तत्कथम्? । जटानुसारिणी शिखा
दण्डानुसारिणो मालालेखाध्वजोरथश्च । घनस्तु उभयोरेवात्तुसारी । तत्र जटापटले जटावाक्यम् । “क्रमे यथोक्ते
पदजातमेव द्विरभ्यसेदुत्तरमेव पूर्ब्बम् । अभ्यस्य पूर्ब्बं
च तथातरे पदेऽवसानमेवं हि जटाभिधीयते” अस्यार्थः । क्रमे
यथोक्ते सति क्रमोत्क्रमाभ्यामित्युक्ते क्रमप्रकारे
पदजातं पदद्वयं वा पदत्रयं वा द्विवारमभ्यसेत् । द्वि-
वारम्पठेत् । अभ्यासप्रक रः । उत्तरमेव पूर्ब्बम् ।
क्रमवतपदद्वयं गृहीत्वा पूर्ब्बेण समं प्रथमम् उत्तरपदम-
भ्यसेत् । ततः उत्तरपूर्ब्बपदयोः सन्धानद्वारा पूर्ब्बम्
द्विरभ्यस्योत्तरपदे अवसानम् एवंप्रकारेण अध्ययनं
जटा अभिधीयते उदाहरणेन दर्श्यते । अग्निसील
ईलेऽग्निमग्निमीले ईले पुरोहितं पुरोहितमील ईले
पुरोहितमित्यादि ज्ञेयम् । अथ दण्डलक्षणम् । “क्रम-
मुक्तं विपर्य्यस्य पुनश्च क्रममुत्तरम् । अद्धर्चादेव मुक्त्योक्तः
क्रमदण्डोऽभिधीयते । उदाहरणम् । अग्निमीले ईलेऽ-
ग्निम् अग्निमालईलेपुरोहितम् पुरोहितमीलेऽग्नि मत्यादि
ज्ञेयम् । अथ मालालक्षणम् । “ब्रूयात् क्रमविपर्य्यासा-
बर्घर्चस्यादिवोऽन्ततः । अन्तं चादिन्नयेदेवं क्रममालेति
गीयते । माला मालेव पुष्पाणां पदानाङ्ग्रथिनी हिता ।
आवर्त्तने क्रमस्तस्यां क्रमव्युत्क्रममंव मा० । अथ शिखा-
लक्षणम् । “पदोत्तराञ्जटामेव शिखामार्य्याः प्रचक्षते ।
अथ लेखालक्षणम् । क्रमद्वित्रिचतुःपञ्चपदक्रममुदाहरेत् ।
पृथक् पृथक् विपर्य्यस्य लेखामाहुः पुनः क्रमात्” । अथ
ध्वजलक्षणम् । “ब्रूयादादेः क्रमं सम्यगान्तादुत्तारये-
द्यदि । वर्गे च ऋचि यत्र स्यात् पठनं स ध्वजः स्मृतः” ।
अथ रथलक्षणम् । “पादशोर्द्धर्चशो वापि सहोक्त्या दण्ड-
वद्रथः” । अथ घनलक्षणम् । “जटमुक्त्वा विपर्यस्य घनमाहु
र्मनोषिणः” । अन्यच्च । “जटाशिखाघनाः प्रोक्ता क्रमपूर्ब्बा
मतोषिभिः” । इति विकृतिलक्षणान्यूक्तानि । अध्ययने
संहितापारायणम् पदपारायणम् जटापारायणम्
क्रमदण्डपारायणं चतुष्पारायणमिन्यर्थः! एतेषां शाखाः
पञ्च भवन्ति । एतेषां वेदपारायणानां पञ्च शाखा भवन्ती-
त्यर्थः । ताः काः? । आश्वलायनी सांख्यायनी शाकला
बाष्कला माण्डूका चेति इति प्रसिद्धाः । तेषामसध्ययनम् ।
तेषाम् आश्वलायनादिशाखानां समानाध्ययनं सूचयति ।
अध्यायाश्चतुःषष्टिः । अग्निमीले अयं देवायेत्यादि ।
चतुःषष्टिरध्याया इत्यर्थः । मण्डलानि दशैव तु । अग्नि-
मीले–कुषुम्भकम् इत्यादि उपाकम्मणि प्रसिद्धानि इत्यर्थः!
वर्गाणां परिसंख्यातन्द्वे सहस्रे षड्त्तरे । वर्गादिः आऋ-
चान्ताः संख्या बालखिल्यैर्विना ज्ञेया । षडुत्तरसहस्र-
द्वयं वर्गा इत्यर्थः । सहस्रमेकं सूक्तानां निर्विशङ्कं
विकल्पितम् । दश सप्त च पठ्यन्ते । सप्तदशाधिकसहस्रं सूक्ता-
नीत्यर्थः । संख्यातं वै पदक्रमम् । एकं शतसहस्रं च
द्विपञ्चाशत्सहस्रकम् सार्द्धम् चतुर्दश वासिष्ठानामि-
तरेषां पञ्चाशीतिः । एकलक्षद्विपञ्चाशत्सहस्रपञ्चशतं
चतुर्दश वाशिष्टानां वसिष्ठगोत्रिणाम् इन्द्रोभिरेकसप्तति-
पदात्मकोवर्गोनास्ति । एतद्गोत्रीयाणां पञ्चाशीत्यधिकपदा-
लीत्यर्थः । अथ बालखिल्यसहितपदसंख्या उच्यते ।
लक्षैकन्तु त्रिपञ्चाशत्सहस्रं शतसप्तकम् । पदानि च द्विन-
वतिः प्रमाणं शाकलस्य च । एकलक्षत्रिपञ्चाशत्सहस्रसप्त-
शतं द्विनवति श्चाधिकानि पदानि इत्यर्थः । पदानि
बालखिल्यस्य अर्कसंख्याशतानि च । अधिकानि तु सप्तैव वर्गा
अष्टादश स्मृताः सप्ताधिकद्वादशशतानि पदानीत्यर्थः ।
इत्याश्वलक्षायनानाम् सांख्यायनानान्तु बालखिल्यसहित
पदसंख्या उच्यते । शाकल्यदृष्टे पदलक्षपेकं सार्द्धं तथैव
त्रिसहस्रयुक्तम् । शतानि सप्तैव तथाधिकानि चत्वारि-
त्रिंशच्च पदानि चर्चा । शाकल्योमाण्डूकगणस्थस्तत्-
संहितापदानि एकलक्षत्रिपञ्चाशत्सहस्रसप्तशतचतुस्त्रिं-
शदघिकानि पदानीत्यर्थः । पदानि बालखिल्यस्य रुद्रसं ख्या
शतानि च षड़शीत्यधिकानि वर्गाः सप्तदशापि च ।
एकादशशतषट्पञ्चाशदधिकानि बालखिल्य पदानीत्यर्थः ।
अष्टपञ्चाशत्पदात्मकर्क्त्रयस्य यमृत्विजो वर्गोनास्ति
आश्वलायनानाञ्चतुरृचात्मको वर्गः । इत्याश्वलायन-
साख्यायनशाख्योरध्ययनयोर्भेद इत्यर्थः ।

अथ पारायणे ऋक्परिमाणमुच्यते । ऋचां दश सहस्राणि ऋचां पञ्च- शतानि च । ऋचामशीतिः पादस्य पारायणं प्रकीर्त्तितम् एतत्पारायणं बालखिल्मैर्विना संख्यातम् । बालखि- ल्यानि पारायणे न सन्ति । तदुच्यते । ऋग्वेदान्तर्गत- बालखिल्यमेकादशसूक्तम् सूक्तसहस्रसप्तदशाधिकमित्यत्र ऋचां दशसहस्राणीत्येतत्संख्या व्यतिरिक्तानि वालखिल्यानीति प्रसिद्धिः” भाष्यम् ।

अत्र प्रधान शाखाभेदाभिप्रायेण पञ्चविधत्वमुक्तम् “ऋग्वेदस्य तु शाखाः स्यरेक-विंशतिसंख्यकाः” मुक्तिकोपनिषदि एकोनविंशतिभे-दोक्तिः प्रशाखाभिप्रायेण अत एव प्रशाखाभ्य इति
प्रागुक्तभाग० वाक्ये तथोक्तम् । षस्य उपनिषद्भेदस्तु उपनिषच्छब्दे उक्तः । “ऋग्वेदो देवदैवत्यो यजुर्वेदस्तु
मानुषः । सामवेदः स्मृतः पैत्रस्तस्मात्तस्याशुचिर्ध्वनिः मनुः । “ऋग्वेदाधिपतिर्जीवः” ज्यो० उक्तेः जीवस्य ऋग्वे- दाधिपत्वं तेन तस्य वारे तद्बले च तत्तत्कर्म ऋग्वेदिभिः करणीयम् “शाखाधिपे बलिनि वीर्य्ययुतेऽथवाम्मिन्” । ज्यो० त० तद्ध्यानं तु “ऋग्वेदः पद्मपत्राक्षो गायत्राः सोमदैवतः । आत्रेयगोत्रः” इति विधा० पा० उक्तम् । ऋग्वेदोऽध्येयत्वेनास्त्यस्य इनि । ऋग्वेदिन् तत्पाठके ।


Rig Veda Samhita

  1. Rig Veda First Mandala [ऋग्वेद ]
  2. Rig Veda Second Mandala ऋग्वेद
  3. Rig Veda Third Mandala [ऋग्वेद]
  4. Rig Veda Forth Mandala[ऋग्वेद]
  5. Rig Veda Fifth Mandala [ऋग्वेद]
  6. Rig Veda Sixth Mandala [ऋग्वेद]
  7. Rig Veda Seventh Mandala[ऋग्वेद]
  8. Rig Veda Eighth Mandala [ऋग्वेद]
  9. Rig Veda Ninth Mandala [ऋग्वेद]
  10. Rig Veda Tenth Mandala [ऋग्वेद]

ऋग्वेद भाष्यम् – Rig Veda Bhashyam

Categories: Sanskrit Dictionary

Tagged as: ,