ऐक्षव त्रि० इक्षोर्विकारः विल्वा० अण् । इक्षुविकारे
गडादौ इक्षुविकारभेदाश्च इक्षुशब्दे ९०९ पृ० उक्ताः ।
“ऐक्षवं गुडवर्जितम्” “फलान्यगुडमैक्षवमिति” च स्मृतिः ।
२ मद्यभेदे च । “पानसं द्राक्षमाधूकं खार्जूरंतालमैक्षवम् ।
माक्षिकं टाङ्कमाध्वीकमैरेयं नारिकेलजम् । समानानि
विजानीयान्मद्यान्येकादशैव तु । द्वादशन्तु सुरामद्यं
सर्व्वेषामधमं स्मृतम्” पुलस्त्यः । मद्यान्येकादशेत्युक्तिः
अधिकदोषार्था अन्येषामपि मद्यानां मदनपालेन
दर्शितत्वात् । प्रसङ्गात् तान्यत्र गुणसहितानि दर्श्यन्ते ।
“मद्यं हाला सुरा शुण्डा मदिरा वरुणात्मजा । इरा
गन्धोत्तभा कल्या देवस्पृष्टा च वारुणी । मद्यं पित्तकर
प्रायं सरं रोचनदीपनम् । विदाहि सृष्टविण्मुत्रं
तीक्ष्णं वातकफापहम् । विधिना तु युतं पीतं तस्मा-
दमृतसन्निभम् । अन्यथा कुरुते रोगानातपीतं विषोप-
मम् । १ द्राक्षोत्थमविदाहि स्याद्रक्तपित्तेषु शस्यते । बल
पुष्टिकरं मद्यं रक्तार्शोहारि दीपनम् । माध्वीकल्य
गुणं किञ्चित् २ खार्जूरमनिलप्रदम् । तदेव विशदं रुच्यं
श्लेष्मघ्नं कर्षणं लघु । शालिषष्टिकपिष्टादिकृतं मद्यं
सुरा ३ मता । सुरा गुर्वी बलस्तन्यपुष्टिमेदःकफप्रदा ।
ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत् ।
पुनर्णवाशालिपिष्टैर्विहिता वारुणी ४ मता । सुरावद्वारुणी
लध्वी पीनसाध्मानशूलनुत् । प्रसन्ना ५ स्यात्सुरामण्ड-
स्तस्मात्कादम्बरी ६ घना । ७ जङ्गलस्तदधः प्रोक्तो जङ्गला-
न्मेदको ८ धनः । पक्वसो ९ जङ्गलः सारः सुरावीजन्तु
किण्वकम् १० । प्रसन्नानाहपुल्मार्शश्छर्द्यरोचकवात-
जित् । दीपन्याध्मानहृत्कुक्षितोदशूलप्रणाशिनो ।
कादम्बरी गुरुर्वृष्यां दीपनी वातकृत् सरा । जङ्गलः
कफनुद् ग्राही शोफार्शोग्रहणीहरः । मेदको मधुरो
बल्यस्तम्भनः शीतलो गुरुः । पक्वसो हृतसारत्वात् विष्टम्भी
वातबर्द्धनः । किण्वकं वातशमनमहृद्यं दुर्ज्जरं गुरु ।
आक्षिकी ११ सा सुरा या स्यादक्षत्वकशालितण्डुलैः ।
आक्षिकी पाण्डुशोथार्शःपित्तास्रकफकुष्ठनुत् । किञ्चिद्वात-
करी रूक्षा दीपनी रेचनी लघुः । यवपिष्टकृतं मद्यं
प्रोक्तं यवसुरा १२ च सा । काकोलिकी १३ हला ज्ञेया
मैरेयो १४ धान्यजासवः । आसवश्च सुरायाश्च द्वयोरप्येक-
भाजनम् । साधनं तद्विजानीयात्मैरेयमुभयात्मकम् ।
क्वचित्तु धातकीपुष्पं गुड़धान्याम्बुसाधितम् । गुर्व्वी
यवसुरा रूक्षा स्याद्विष्टम्भत्रिदोषकृत् । काकोली वृंहणी
वृष्या दृष्टिमान्द्यप्रदा गुरुः । मैरेयं वृंहणं वृष्यं गुरु
सन्तर्पणं सरम् । मद्यं सर्व्वरसं जातं मधूलकमुदीर्य्यते ।
मधूलकं १५ गुरु स्वादु स्निग्धं शुककफप्रदम् । पर्करो
१६ दीपन स्वादुः पाचतो रोचनो लघुः । स्त्रीविलासकरो
वातशोषवस्तिविकारनुत् । मध्वासवो १७ लघूरूक्षः कुष्ठ
मेहविषापहः । गौड़ोऽ१८ ग्निवर्द्धनो वर्ण बलकृत्तर्पणः
कटुः । तिक्तको वृंहणः स्वादुः सृष्टविण्मूत्रमारुतः ।
इक्षोः शीतरसः १९ पक्वः सीधुः २० पक्वरसः स्मृतः । आमैः
स एव विहितो बुधैः शोतरसो मतः । सीघुः पक्वरसः
श्रेष्ठः स्मराग्निबलवर्णकृत् । वातपित्तकरो हृद्यस्नेह-
नो रोचनो जयेत् । विबन्धमेहशोथार्शःशोथोदर
कफामयान् । तस्मादल्पगुणः शीतरसः संलेखनः
स्मृतः । जाम्बवः क्षौद्रसम्भूतः जम्बूरसगुड़ोद्भवः ।
जाम्बवो २१ बद्धनिष्यन्दः कषायोऽनिलकोपनः । अरिष्टा-
संवसीधूनां गुणान् कर्म्माणि चादिशेत् । बुद्ध्वा
यथास्वं संस्कारमवेक्ष्य कुशलो भिषक् । सान्द्रं विदाहि
दुर्गन्धि विरसं कृमिसङ्कुलम् । अहृद्यं तरुणं रूक्षमुष्णं
दुर्भोजने हितम् । अल्पौषधं पर्य्युषितमत्यर्थपिच्छलञ्च
यत् । कफप्रकोपि तन्मद्यं दुर्जरञ्च विशेषतः । पित्त-
प्रकोपि बहुलं तोक्ष्णमुष्णं विदाहि च । अहृद्यं पेशलं
पूतिकृमिलं विरसं गुरु । तथा पर्युषितं वापि
विन्द्यादनिलकोपनम् । सर्व्वदोषैरुपेतन्तु सर्व्वदोषप्रको-
पणम् । चिरस्थितं यातरसं दीपनं कफवातजित् ।
रुच्यं प्रसन्नं सुरभि मेध्यं सेव्यं महासवम् । तस्मान्नैक-
प्रकारस्य मद्यस्थ रसवीर्य्यतः । स सौक्ष्म्यादौष्णवातत्वाद्
विकाशित्वाच्च वह्निनुत् । समेत्य हृदयं प्राप्य धमनी-
रूर्द्ध्वमार्गगाः । विक्षुभ्येन्द्रिय चेतांसि मदयत्याशु वीर्य्यतः ।
चिरेण श्लेष्मिके पुंसि पातनो जायते मदः । अचिरा
द्वातिके दृष्टः, पैत्तिके शीघ्रमेव च । नवं मद्यमभिष्यन्दि
त्रिदोषजनकं सरम् । अरिष्टं वृंहणं दाहि दुर्गन्धि
विशदं गुरु । जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलाप-
हम् । हृद्यं सुगन्धि सुगुणं लघु स्रोतोविशोधनम् ।
सात्विके गीतहास्यादि राजसे साहसादिकम् । तामसे
निन्द्यकर्माणि निद्रादि कुरुते तदा । शुक्रं कफघ्नं
तीक्ष्णोणं लघु रोचनपाचनम् । पाण्डु कृमिहरं रूक्षं
भेदन रक्तपित्तकृत् । गौड़ादिरसयुक्तानि मद्येषूक्तानि
यानि च । यथापूर्बं गुरुतराण्यभिष्यन्दकराणि च ।
स्यात्काञ्जिकन्तु २२ सौवीर २३ मारनालं २४ तु दोषकृत् ।
काञ्जिकं शिशिरस्पर्शं पाचनं रोचनं लघु । तुषोदकं
यवैरामं सतुषैः सकलैः कृतम् । सौवीरकं कृतन्त्वामैः पक्वैर्वा
निस्तुपैर्यवैः । सर्व्वैरसैरसाम्लं २५ स्यात् सौवीरकमिति
क्वचित् । तुषाम्बु दीपनं हृद्यं पाण्डु कृमिगदापहम् ।
सौवीरकं ग्रहण्यर्शोनाशनं भेदि दीपनम् । धान्याम्ल २५
न्धान्ययोनित्वात्प्रीणनं लघु दीपनम् । स्पर्शदाहकर
पानात्पाचनं श्लेष्मनाशनम् । गण्डूषान्मुखवैरस्यदौर्गन्ध्य-
कफकृन्तनम्” । ऐक्षवस्य द्वैविध्यमाह भावप्र० “इक्षोः पक्वैः
रसैः सिद्धः सीधुः पक्वरसश्च सः । आमैस्तैरेव यः सीधुः
स च शीतरसः स्मृतः” इति । इक्षुः काशमूलं तस्येदम्
अण् । ३ काशमूलावयवभूते स्त्रियां ङीप् । इक्षुः इक्षुपत्रा-
कारः अस्त्यस्य अण् । ४ इक्षुपत्राकारे च स्त्रियां ङीप् ।
“ऐक्षव्यौ विधृती” कात्या० ८, १, १४, “विधृती ऐक्षव्यौ
काशमूलावयवभूते अत्र भवतः “काशमयः प्रस्तरः
काशमूलमये विधृती” शाखान्तरीयवाक्यशेषात्” कर्कः ।
अधिकरणमालायां “बर्हिःप्रस्तरयोवन्तराले तिर्य्यक्-
प्रसार्य्यमाणौ दर्भौ विधृती ते अत्र इक्षुपत्ररूपे स्याता
मिति” माधवः । तेनात्र ऐक्षव्यशब्दकल्पनंप्रामादि-
कम् । “द्रोणकलशं वायव्यानिध्मकार्ष्मर्यमयान् परिधीना-
श्ववालं प्रस्तरमैक्षव्यौ विधृती तद्बर्हिरुपसंनद्धं भवति” शत० ब्रा० ३, ६, ३, १०.
वाचस्पत्यम्