Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » अक्षौहिणी – akshwhini

अक्षौहिणी – akshwhini

रथाः २१८७० । गजाः २१८७० । रथवाहकाश्व- भिन्नाः अश्वाः ६५६१० । पदातयः १०९३५० ।

अक्षौहिणी स्त्री ऊहः समूहः संविकल्पकज्ञानं वा सोऽस्या-

मस्ति इनि, अक्षाणां रथानां सर्व्वेषामिन्द्रियाणाम् “वा
ऊहिनी णत्वं वृद्धिश्च । रथगजतुरङ्गपदाति–संख्याविशेषा-
न्विते सेनासमूहे । “अक्षौहिण्यामित्यधिकैः सप्तत्या चाष्टभिः
शतैः । संयुक्तानि सहस्राणि गजानामेकविंशतिः ।
एवमेव रथानान्तु संख्यानं कीर्त्तितं बुधैः । पञ्चषष्टिः
सहस्राणि षट् शतानि दशैव तु । संख्यातास्तुरगास्तज्ज्ञै-
र्विना रथ्यतुरङ्गमैः । नॄणां शतसहस्रं तु सहस्राणि न
वैवतु । शतानि त्रीणिचान्यानि पञ्चाशच्च पदातय इति ।

रथाः २१८७० । गजाः २१८७० । रथवाहकाश्व-
भिन्नाः अश्वाः ६५६१० । पदातयः १०९३५० ।

[वाचस्पत्यम्]