Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » ऋच् -rich

ऋच् -rich

ऋच् स्त्री ऋच्यते स्तूयतेऽनया ऋच&# 8211;करण क्विप् । वेदमन्त्र

भेदे “यत्रार्थवशेन पादव्यवस्थितिः सा ऋक्” जै० ।
“ऋचो यजूषि सामानि निगदामन्त्राः” कात्या० १, २, १, ।
“ऋगादयो निगदान्ताश्चत्वारोमन्त्राः । तत्रार्थवशेन वृत्त-
वशेन बा यत्र पादव्यवस्था, सा ऋक् तत्र “समिधाग्निं
दुवस्पत” इत्यादी यत्र प्रत्यक्षेण समाप्तोऽर्थोदृश्यते तत्रार्थ
वशेन पादव्यवस्था यत्र च क्रियापदानुपादानात् “सुस-
सिद्धाय शोचिषे तं त्वा समिद्भिरङ्गिरः” इत्यादौ अपर्य-
बसितोऽर्थस्तत्र वृत्तवशेन पादव्यवस्था भवति अतश्च यत्र
नियताक्षराणि नियताश्च पादानियतानि वावसानानि सा
ऋगित्युच्यते । अनियताक्षरपादावसानं यजुः यद्यपि
व्रगीतं मन्त्रवाक्यं सामेत्यभियुक्तप्रयोगः तथापि तत्र विशे-
षणं गोतिः विशेष्याण्यृगक्षराणि नागृहीतविशेषणा
विशेष्ये वुद्धिरिति प्रथमं प्रतीयमानत्वात् गीतिरेव सामे-
त्युच्यते तथा च “कवतीषु रथन्तरं गायति” “यद्योन्यां
तदुत्तरयोर्गायति” “ऋच्यध्यूढ़ साम गायति” प्रजापतेर्हृ-
दयमनृच गायतीत्याद्युपपन्नं भवति अत ऋगक्षरातिरिक्तं
यद्गीतिशब्दवाच्यं तत् सामशब्दे नोच्यते । ननु यदि
रथन्तरादिशब्दा गीतेरेव वाचकाः तदा “रथन्तरेण स्तुवीतेति”
कथं स्तुतिसाधनत्वम् गुणगुणिसम्बन्धकीर्त्तनं हि स्तुतिः
सा च गीतिरूपेण साम्ना न सम्भवति । उच्यते गीतेः
स्वयंस्तुतिवाचकत्वाभावादृगक्षरप्रकटनद्वारा स्तुतिसाधनत्वं
भवतीति नोक्तदोषः । निगदाः प्रैषाः परसम्बोधनार्थाः
“प्रोक्षणीरासादय” “अग्नीदग्नीन्विहर” इत्येवमादयः । ननु
निगदा अपि यजूंष्येव ततः किमर्थं पृथगुक्ताः । उच्यते
“उपाशु यजुषा ऊच्चैर्निगदेनेति” धर्म्मभेदेन यजुःष्वनन्तर्भावशङ्कया पृथग्वचनम् । वस्तुतस्तु निगदानां यजुष्ट्वमेव परसम्बोधनार्थत्वात्तु उच्चैर्निगदेनेति धर्म्मभेदः न च धर्म्म-
भेदाद्भेदः ऋकसामयोरपि क्वचिदुपांशुप्रयोगविधानात्
अतस्त्रैविध्यमेव मन्त्राणाम् ।

तथाचोक्तम् “अहेर्बुध्न्यमन्त्रं मे गोपाय यमृषयस्त्रैविदा विदुः” ऋचः सामानि यजूं-
षीति त्रीन्वेदान्विदन्तीति त्रिविदः त्रिविदां सम्बन्धि-
नोऽध्येतारस्त्रैविदाः ते च यं मन्त्रभागमृगादिरूपेण
त्रिविधमाहुस्तं गोपायेति योजना । ऋग्यजःसामा-
त्मको मन्त्रभेदोऽभिहितः तदबान्तरभेदाकाङ्क्षायामृचां च
साम्नां चाध्येतृप्रसिद्ध्यैव भेदे सिद्धे लक्षणं न क्रियते”
कर्कः । “ऋचैव हौत्रमकरोद्यजुषाध्वर्यवं साम्नीद्गीथम्”
ऐत० “त्रिधा विहिता वागृचो यजूंषि सामानि”
शत० ब्रा० ६, ६, ३, ४ । “ऋचः सामानि जज्ञिरे पुरुष-
सू० । “तदेतदृचाभ्यनूक्तम्” छा० उ० । २ विश उत्तरे निरु० ।
समासे तदन्तात् अच् । अर्द्धर्चः एकर्चम् द्व्यृचं षडृचम्
इत्यादि । बहु० । अध्येतर्य्येव अच् । अनृचः बह्वृचः
इत्यादि ग्रन्थे तु न अच् । अनृक् साम । प्राचुर्य्ये मयट् ।
ऋङ्मय तत्प्रचुरे त्रि० स्त्रियां ङीप् । “एतं यज्ञमृङ्-
मयं यजुर्मयम् साममयमाहुतिमयम्” शत० ब्रा० ४,
३, ४, ५ । भावे क्विप् । ३ स्तुतौ ४ पूजायाञ्च ।

ऋचस् त्रि० ऋच–वा० कसुन् । स्त्रोतरि । “गा अर्वतोर्नॄनृचसे रिरीहि” ऋ० ६, ३९, ५ । “ऋचसे स्तोत्रे” भा०


वाचस्पत्यम्