अगस्त्यचार पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य चारः
शुभाशुभसूचकगत्यादि । वराहसंहितोक्ते अगस्त्यनामक-
नक्षत्रस्य उदयादौ । यथा “विन्ध्यमस्तम्भयद्यश्च तस्योदयः
श्रूयताम्” इत्युपक्रम्य । “उदये च पुनेरगस्त्यनाम्नः कु–समा-
योगमलप्रदूषितानि । हृदयानि सतामिव स्वभावात्
पुनरम्बूनि भवन्ति निर्मलानि ॥ पार्श्वद्वयाधिष्ठितचक्रवाकामा-
पुष्णती सस्वनहंसपङ्क्तिम् । ताम्बूलरक्तोत्कषिताग्रदन्ती
विभाति योषेव सरित्सहासा ॥ इन्दीवरासन्नसितोत्पला-
न्विता सरिद्भूमत्षट्पदपङ्क्तिभूषिता । सभ्रूलताक्षेपकटाक्ष-
वीक्षणा विदग्धयोषेव विभाति सस्मरा ॥ इन्द्रोः पयोदवि-
गमोपहितां विभूतिम् द्रष्टुं तरङ्गवलया कुमुदं निशासु ।
उन्मीलयत्यलिनिलीनदलं सुपक्ष्म वापी विलोचनमिवा-
सिततारकान्तम् ॥ नानाविचित्राम्बुजहंसकोककारण्डवा-
पूर्णतडागहस्ता । रत्नैः प्रभूतैः कुसुमैः फलैश्च भूर्यच्छती वाघमगस्त्यनाम्ने ॥
सलिलममरपाज्ञयोञ्झितं यद्घन-
परिवेष्टितमूर्त्तिभिर्भुजङ्गैः । फणिजनितविषाग्निसम्प्रदुष्टं
भवति शिवं तदगस्त्यदर्शनेन ॥ स्मरणादपि पापमपा-
कुरुते किमुत? स्तुतिभिर्वरुणाङ्गरुहः । मुनिभिः कथितोऽस्य
यथार्घविधिः कथयामि तथैव नरेन्द्रहितम् ॥ संख्या-
विधानात् प्रतिदेशमस्य विज्ञाय सन्दर्शनमादिशेज्ज्ञः ।
तच्चोज्जयिन्यामगतस्य कन्यां भागैः स्वराख्यैः स्फुट-
भास्करस्य ॥ ईषत्प्रभिन्नेऽरुणरश्मिजांलैर्नैशेऽन्धकारे दिशि
दक्षिणस्याम् । सांवत्मरावेदितदिग्विभागे भूपोऽर्घमुर्व्यां
प्रयतः प्रयच्छेत्” ॥ इत्युक्त्वान्ते उपसहृतं यथा “दृश्यते स
किल हस्तगतेऽर्के रोहिणीमुपगतेऽस्तमुपेतीति” ।
अगस्त्योदय पु० अगस्त्यस्य नक्षत्ररूपेण दक्षिणस्थस्य उदयः ।
- अगस्त्यनक्षत्रोदये तस्य च नक्षत्रस्य दक्षिणस्थितत्वेन
- उत्तरदिग्वासिनां सर्वदा दर्शनयोग्यता नास्ति, तस्योदयश्च
- भाद्रशेषे भवति “यस्तु भाद्रपदे मासि उदिते कलसोद्भवे
- इति” पुराणम् । तद्विवरणम् अगस्त्यचारशब्दे दर्शितम् ॥
- तस्योदयेजलादीनां प्रसन्नत्वं “प्रससादोदयादम्भः कुम्भयो-
- नेर्महौजसः इति” रथावुक्तम् ।
-
वाचस्पत्यम्
You must be logged in to post a comment.