Sanskrit Dictionary

मङ्गलचण्डी – Mangal Chandi

मङ्गलचण्डी, स्त्री, (मङ्गला चासौ चण्डी चेति

यद्वा, देषानां मुन्यादिभक्तानां मङ्गलाय दुर्जया-
सुरादिमारणे चण्डी अत्यन्तकोपना । मङ्गले-
चण्डी दक्षेति वा । अथवा सृष्टौ मङ्गला
प्रलये चण्डी । भागवतेऽस्या नामनिरुक्तिर्यथा, —
“सृष्टौ मङ्गलरूपा च संहारे कोपरूपिणी ।
तेन मङ्गलचण्डी सा पण्डितैः परिकीर्त्तिता ॥”)
दुर्गा । यथा, —

नारायण उवाच ।
“कथितं षष्ठ्युपाख्यानं ब्रह्मपुत्त्र ! यथागमम् ।
देवी मङ्गलचण्डी या तदाख्यानं निशामय ॥
तस्याः पूजादिकं सर्व्वं धर्म्मवक्त्वेण यच्छ्रुतम् ।
श्रुतिसम्मतमेवेष्टं सर्व्वेषां विदुषामपि ॥
दक्षायां वर्त्तते चण्डी कल्याणेषु च मङ्गलम् ।
मङ्गलेषु च या दक्षा सा च मङ्गलचण्डिका ॥
पूज्यायां वर्त्तते चण्डी मङ्गलेऽपि महीसुतः ।
मङ्गलाभीष्टदेवी या सा वा मङ्गलचण्डिका ॥
मङ्गलो मनुवंशश्च सप्तद्वीपधरापतिः ।
तस्य पूज्याभीष्टदेषी तेन मङ्गलचण्डिका ॥
मूर्त्तिभेदेन सा दुर्गा मूलप्रकृतिरीश्वरी ।
कृपारूपातिप्रत्यक्षा योषितामिष्टदेवता ॥
प्रथमे पूजिता सा च शङ्करेण पुरः पुरा ।
त्रिपुरस्य वधे घोरे विष्णुना प्रेरितेन च ॥
ब्रह्मन् ! ब्रह्मोपदेशेन दुर्गप्रस्थेन सङ्कटे ।
आकाशात् पतिते याने दैत्येन पातिते रुषा ॥
ब्रह्मविष्णूपदिष्टश्च दुर्गां तुष्टाव शङ्करः ।
सा च मङ्गलचण्डी च बभूव रूपभेदतः ॥
उवाच पुरतः शम्भोर्भयं नास्तीति ते विभो ! ।
भगवान् वृषरूपश्च सर्व्वेशश्च बभूव ह ॥
युद्धशक्तिस्वरूपाहं भविष्यामि तदाज्ञया ।
मयामुना च हरिणा सहायेन वृषध्वज ! ॥
जहि दैत्यञ्च शत्रुञ्च सुराणां पदघातकम् ।
इत्युक्त्वान्तर्हिता देवी शम्भोः शक्तिर्बभूव सा ॥
विष्णुदत्तेन शस्त्रेण जघान तमुमापतिः ।
मुनीन्द्र ! पतिते दैत्ये सर्व्वे देवा महर्षयः ॥
तुष्टुवुः शङ्करं देवं भक्तिनम्रात्मकन्धराः ।
सद्यः शिरसि शम्भोश्च पुष्पवृष्टिर्बभूव च ।
ब्रह्मा विष्णुश्च सन्तुष्टो ददौ तस्मै शुभाशिषम् ॥
ब्रह्मविष्णूपदिष्टश्च सुस्रातः शङ्करः शुचिः ।
पूजयामास तां शक्तिं देवीं मङ्गलचण्डिकाम् ॥
पाद्यार्घ्याचमनीयैश्च बलिभिर्विविधैरपि ।
पुष्पचन्दननैवेद्यैर्भक्त्या नानाविधैर्मुने ! ॥
छागैर्मेषैश्च महिषैर्गण्डैमायातिभिस्तथा ।
वस्त्रालङ्कारमाल्यैश्च पायसैः पिष्टकैरपि ॥
मधुभिश्च सुधाभिश्च पक्वैर्नानाविधैः फलैः ।
संगीतैर्नर्त्तनैर्वाद्यैरुत्सवैः कृष्णकीर्त्तनैः ॥
ध्यात्वा माध्यन्दिनोक्तेन ध्यानेन भक्तिपूर्ब्बकम् ।
ददौ द्रव्याणि मूलेन मन्त्रेणैव च नारद ! ॥

ॐ ह्रीं श्रीं क्लीं सर्व्वपूज्ये देवि मङ्गलचण्डिके ।
हुं हुं फट् स्वाहेत्येवञ्चाप्यैकविंशाक्षरो मनुः ॥
पूज्यः कल्पतरुश्चैव भक्तानां सर्व्वकामदः ।
दशलक्षजपेनैव मन्त्रसिद्धिर्भवेन्नृणाम् ।
मन्त्रसिद्धिर्भवेद्यस्य स विष्णुः सर्व्वकामदः ॥
ध्यानञ्च श्रूयतां ब्रह्मन् ! वेदोक्तं सर्व्वसम्मतम् ॥
देवीं षोडशवर्षीयां शश्वत्सुस्थिरयौवनाम् ।
सर्व्वरूपगुणाढ्याञ्च कोमलाङ्गीं मनोहराम् ॥
श्वेतचम्पकवर्णाभां चन्द्रकोटिसमप्रभाम् ।
वह्निशुद्धांशुकाधानां रत्नभूषणभूषिताम् ॥
बिभ्रतीं कवरीभारं मल्लिकामाल्यभूषितम् ।
विम्बोष्ठीं सुदतीं शुद्धां शश्वत्पद्मनिभाननाम् ॥
ईषद्धास्यप्रसन्नास्यां सुनीलोत्पललोचनाम् ।
जगद्धात्रीञ्च दात्रीञ्च सर्व्वेभ्यः सर्व्वसम्पदाम् ।
संसारसागरे घोरे पोतरूपां वरां भजे ॥
देव्याश्च ध्यानमित्येवं स्तवनं श्रूयतां मुने ! ।
प्रयातः सङ्कटग्रस्तो येन तुष्टाव शङ्करः ॥

श्रीशङ्कर उवाच ।
रक्ष रक्ष जगन्मातर्देवि मङ्गलचण्डिके ! ।
हारिके विपदां राशिं हर्षमङ्गलदायिके ! ॥
हर्षमङ्गलदक्षे च हर्षमङ्गलचण्डिके ! ।
शुभे मङ्गलदक्षे च शुभे मङ्गलचण्डिके ! ॥
मङ्गले मङ्गलार्थे च सर्व्वमङ्गलमङ्गले ! ।
सतां मङ्गलदे देवि ! सर्व्वेषां मङ्गलालये ! ॥
पूज्ये ! मङ्गलवारे च मङ्गलाभीष्टदेवते ! ।
पूज्ये मङ्गलभूपस्य मनुवंशस्य सन्ततम् ॥
मङ्गलाधिष्ठातृदेवि ! मङ्गलानाञ्च मङ्गले ! ।
संसारमङ्गलाधारे मोक्षमङ्गलदायिनि ! ॥
सारे च मङ्गलाधारे पारे च सर्व्वकर्म्मणाम् ।
प्रतिमङ्गलवारे च पूज्ये च मङ्गलप्रदे ! ॥
स्तोत्रेणानेन शम्भुश्च स्तुत्वा मङ्गलचण्डिकाम् ।
प्रतिमङ्गलवारे च पूजां कृत्वा गतः शिवः ॥
देव्याश्च मङ्गलं स्तोत्रं यः शृणोति समाहितः ।
तन्मङ्गलं भवेत् शश्वन्न भवेत्तदमङ्गलम् ॥
प्रथमे पूजिता देवी शिवेन सर्व्वमङ्गला ।
द्वितीये पूजिता देवी मङ्गलेन ग्रहेण च ॥
तृतीये पूजिता भद्रा मङ्गलेन नृपेण च ।
चतुर्थे मङ्गले वारे सुन्दरीभिश्च पूजिता ॥
मङ्गले मङ्गलाकाङ्क्षैर्नरैर्मङ्गलचण्डिका ।
पूजिता प्रतिविश्वेषु विश्वेशपूजिता सदा ॥
ततः सर्व्वत्र संपूज्या सा बभूव सुरेश्वरी ।
देवादिभिश्च मुनिभिर्मनुभिर्मानवैर्मुने ! ॥
वर्द्धते तत्पुत्त्रपौत्त्रो मङ्गलञ्च दिने दिने ॥”
इति ब्रह्मवैवर्त्ते महापुराणे प्रकृतिखण्डे नारा-
यणनारदीये मङ्गलचण्डिकोपाख्यानं तत्स्तोत्र- कथनं नाम  अध्यायः ॥

Categories: Sanskrit Dictionary

Tagged as: