Advocatetanmoy Law Library

Legal Database and Encyclopedia

Home » Sanatan Dharma » Sanskrit » Sanskrit Dictionary » वर्ष – Barsha

वर्ष – Barsha

वर्ष पु० वृष&# 8211;भावे घञ् कर्त्तरि अच् वा । १ वृष्टौ २ जम्बु-

द्वीपांशभेदे पुंन० अमरः ।
“लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो
निषध इति ते सिन्धुपर्यन्तदैर्घ्या । एवं सिद्धादुदगपि
पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे
द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो
हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण्
मयरम्यकवर्षे । माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल
नन्धमादनः । नीलशैलनिषधावधो च तावन्तरालमन
योरिलावृतम् । माल्यवज्जलधिमध्यवर्ति यत् तत् तु
भद्रतुरगं जगुर्बुधाः । गन्धशैलजलराशिमध्यगं केतु-
मालकमिलाकलाविदः । निषधनीलसुगन्धसुमाल्यकैरल-
मिलावृतमावृतमावभौ । अमरकेलिकुलायसमाकुलं रुचि-
रकाञ्चनचित्रमहीतलम्” सि० शि० ।

“अत्र भूगोलस्थार्धमुत्तरं
जम्बूद्दीपम् । तस्य क्षाराब्धेश्च सन्धिर्निरक्षदेशः । तत्र
लङ्का रोमकं सिद्धपुरं यमकोटिरिति पुरचतुष्टयं
मूपरिधिचतुर्थाशान्तरे किल कथितम् । तेभ्यः पुरेभ्यो यस्यां
दिशि मेरुः सोत्तरा । अतो लङ्काया उत्तरतो हिमवान्
नाम गिरिः पूर्वापरसिन्धुपर्यन्तदैर्घ्योऽस्ति । तस्यात्तरे
हेभकूटः । सोऽपि समुद्रपर्यन्तदैर्घ्यः । तथा तदुत्तरे
निषधः । तेषामन्तरे द्रोणिदेशा वर्षसंज्ञाः । तत्रादौ
भारतवर्षम् । तदुत्तरं किन्नरवर्षम् । ततो हरिवर्षमिति ।
एवं सिद्धपुरादुत्तरतः शृङ्गवान् नाम गिरिः । ततः
श्वेतगिरिः । ततो नीलगिरिरिति । तेऽपि सिन्धु-
पर्यन्तदैर्घ्याः । तेषामन्तरे च वर्षाणि । तत्रादौ कुरुवर्षम् ।
तदुत्तरे हिरण्मयम् । ततो रम्यकमिति । अथ
यमकोटेरुत्तरतौ माल्यबान् नाम गिरिः । स तु निषधनी-
लपर्यन्तदैर्घ्यः । तस्य जलधेश्च मध्ये भद्राश्वं वर्षम ।
एवं रोमकादुत्तरतो गन्धमादनः । तस्य जलधेश्च मध्ये
केतुमालवर्षम् । एवं निषधनीलमाल्यवद्गन्धमादनैरावृत-
मिलावृतं नाम नवमं वर्षम् । सा स्वर्गभूमिः । अतस्तत्र
देवक्रोड़ागृहाणि” । ३ द्वादशमासात्मके काले ४ जम्बुद्वीपे
च पु० मेदि० । कर्त्तरि अच् । ५ मेष्ठे पु० हेमच० ६ प्रभवादिषु षष्टिवतसरेषु पु० ।


वाचस्पत्यम्