मकरध्वजः, पुं, (मकरेण चिह्नितो ध्वजो यस्य ।)
कामदेवः । इत्यमरः । १ । १ । २७ ॥ (यथा, माधे । ३ । ६१ । “शरीरिणा जैत्रशरेण यत्र निशङ्कमूषे मकरध्वजेन ॥”)
रससिन्दूरविशेषः । तस्य नामान्तरं चन्द्रो-
दयः । तस्य करणप्रकारो यथा, —
“पलं मृदु स्वर्णदलं रसेन्द्रं
पलाष्टकं षोडशगन्धकस्य ।
शोणैः सुकार्पासभवप्रसूनैः
सर्व्वं विमर्द्द्याथ कुमारिकाद्भिः ॥
तत् काचकुम्भे निहितं सुगाढे
मृत्कर्पटैस्तद्दिवसत्रयञ्च ।
पचेत् क्रमाग्नौ सिकताख्ययन्त्रे
ततो रजः पल्लवरागरम्यम् ॥
निगृह्य चैतस्य पलं पलानि
चत्वारि कर्पूररजस्तथैव ।
जातीफलं सोषणमिन्द्रपुष्पं
कस्तूरिकाया इह शाण एकः ॥
चन्द्रोदयोऽयं कथितोऽस्य माषो
भुक्तोऽहिबल्लीदलमध्यवर्त्ती ॥”
अस्य गुणाः ।
“मदोन्मदानां प्रमदाशतानां
गर्व्वाधिकत्वं श्लथयत्यकाण्डे ।
शृतं घनीभूतमतीव दुग्धं
मृदूनि मांसानि समण्डकानि ।
मांसानि मिष्टानि भवन्ति पथ्य-
मानन्ददायीन्यपराणि चात्र ॥”
बलीपलितनाशनस्तनुभृतां वयस्तम्भनः
समस्तगदखण्डनः प्रचुरयोगपञ्चाननः ।
गृहेषु रसराडयं भवति यस्य चन्द्रोदयः
स पञ्चशरदर्पितो मृगदृशां भवेद्वल्लभः ॥”
इन्द्रपुष्पं लवङ्गम् । उक्तपरिमाणलक्षणमुप-
लक्षणम् । दाक्षिणात्याः शोणकार्पासपुष्पद्रव-
मेव गृह्णन्ति । पाश्चात्याः निर्वृन्ततत्पुष्पेणैव
यावदार्द्रत्वं मर्द्दयन्ति । उभयथैव निष्पत्तेरदोषः ।
तथैवेति सर्व्वत्रान्वयः । शास्त्रान्तराद्बिशेषो लिख्यते ।
“रतिकाले रतान्ते च पुनः सेव्यो रसोत्तमः ।
स्थावरं जङ्गमविषं जङ्गमं विषवारि वा ।
न विकाराय भवति साधकेन्द्रस्य वत्सरान् ॥
मृत्युञ्जयो यथाभ्यासात् मृत्युं जयति देहिनः ।
तथाय साधकेन्द्रस्य जरामरणनाशनः ॥”
शास्त्रान्तरे मकरद्धजो नाम । इति चन्द्रोदयः ।
इति रसेन्द्रचिन्तामणिः ॥
शब्दकल्पद्रुमः