वर्ण -Varna

Print Friendly, PDF & Email

वर्ण न० वर्ण–अच् । १ कुङ्कुम न० २ स्वर्णे ३ व्रते ४ शुक्लादिरूपे

५ अकाराद्यक्षरे ६ भेदे ७ गीतक्रमे ८ चित्रे ९ तालभेदे
१० अङ्गरागे पु० हेमच० । ११ गजचित्रकम्बले पु० अमरः
१२ यशसि १३ गुणे १४ स्तुतौ पु० मेदि० । भेद रूपे अक्षरे
पु० न० मेदि० । १५ ब्राह्मणादिजातौ पु० अमरः ।

“चातुर्वर्ण्यं मया सृष्टम्” गीता ।

तत्र विप्रादिवर्णानां सृष्टिः तद्धर्माश्च मनुना उक्ता यथा
“लोकानान्तु विवृद्ध्यर्थं सुखबाहूरूपादतः । ब्राह्मणं
क्षत्त्रियं वैश्यं शूद्रञ्च निरवर्त्तयत्” । “मुस्ववाहूरूपज्जानां
पृथक् कर्माण्यकल्पयत् । अध्यापनमध्ययनं यजनं
याजनस्तथा” “ब्राह्मणोऽमा मुखमासीद्बाहूराजन्यः
कृतः । ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत”
यजु० ३१ ११ तेषां ब्राह्मणस्य श्रैष्ठ्ये कारणं मनुनोक्तं
यथा “ऊर्ध्यनाभेर्मेध्यतरः पुरुषः परिकीर्त्तितः ।
तस्मान्मेध्यतमं त्वस्य मुखमुक्तं स्वयम्भुवा । उत्तमा-
ङ्गोद्भवात् ज्यैष्ट्याद् ब्रह्मणश्चैव धारणात् । सर्वस्यै-
वास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः” वर्णधर्माश्च जाति-
धर्मशब्दे  दृश्याः ।

तत्र अक्षररूपवर्णोत्पत्तिक्रमः तत्भेदाश्च शब्दार्थरत्ने-
ऽस्माभिरुक्ता यथा
“अथ वर्णोत्पत्तिप्रकारस्तावदभिधीयते । चेतनेन ज्ञाता-
र्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रेरितमन्तःकरणं
मूलाधारस्थितमनलं चालयति तच्चालितश्चानलः
तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेन चानिलेन
तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वागित्यभि-
चीयते । ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्देश
संयोगादुत्पादितः शब्दः पश्यन्तीति व्यवह्रियते
एतद्वयस्य सृक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म-
दोयश्रुतिगीचरता । ततस्तेनैव हृदयदेशं परिसरता
हृदयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा च
स्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिद-
स्याकभवि समधिगम्या । तती मुखपर्य्यन्तमागच्छता तेन
कण्ठदेशं प्राप्य आहत्य मूर्द्धानं तत्प्रतिघातेन
परावृत्य च मुखविवरे कण्ठादिषु तत्तदष्टस्थानेषु स्वाभिघाते-
नोत्पादितः शब्दो वैस्वरीत्युच्यते । तदुक्तं शिक्षायाम्
“आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।
सोदीर्णो मूर्घ्न्यमिहतो वक्त्रमापद्य मारुतः । वर्णान्
जनयते तेषां विभागः पञ्चधा मतः । स्वरतः कालतः
स्थानात् प्रयत्नानुप्रदानतः” इति । संस्काररूपेण स्वगता-
नर्थान् बुद्ध्या बुद्धिवृत्त्या समेत्य विवयीकृत्येर्थः । तथा ।
“प्राणापानान्तरे देवी वाग्वै नित्यं हि तिष्ठति ।
स्थानेषु विकृते वायौ कृतवर्णपरिग्रहा । वैखरी वाक्
प्रयोक्तॄणां प्राणवृत्तिनिवन्धिनी । केवलं बुद्धुव्रपादा-
ना क्रमरूपानुपातिनी । प्राणवृत्तिमनुक्रम्य मध्यमा
वाक् प्रवर्त्तते । अविभागा तु पश्यन्ती सर्वतः संहृत-
क्रमा । स्वरूपज्योतिरेवातः परा वागनपायिनीति”
भारतेऽप्युक्तम् । अत्र प्राणापानान्तरे इत्यधिकरणनिदे-
शादाकाशस्थायिता नित्यमित्यभिधानात् यावत्प्रलय-
पर्य्यन्तस्थायिता प्राणापानादेरपि तथैव नित्यत्वाभ्युप-
गमात् । न तु क्षणिकता मध्ये उत्पत्तिविनाशकल्पने
गोरवात् शब्दार्थयोर्नित्यसम्बन्धस्वीकारादनित्येन शब्देन
नित्यार्थमम्बन्धस्वीकारेऽयुक्तत्वापत्तेश्च । नित्यत्वेऽपि तेषां
व्यञ्जकसद्भावाभावाभ्यां प्रत्ययापत्ययावित्यन्यत्र विस्तरः ।
स्थानेषु कण्ठताल्वाद्यष्टस्थानेषु वायौ मूलाधारस्थे
विकृते विवक्षाप्रेरितमनोनियुक्ताम्बिसंक्षोभाच्चलिते
इत्यर्थः । कृतवर्णपरिग्रहा वर्णभावापन्ना, तच्च स्थाने-
ष्विति व्यवहितेनान्वितम् । प्राणवृत्तिनिबन्धिनीत्यनेन
व्राणवृत्तेर्वायोस्तत्तद्देशपर्य्यन्तगमनमभिहितं, केबलमित्य-
नेन कण्ठताल्वादिस्थानानपेक्षाभिहिता । बुद्ध्युपा-
दानेत्यनेन हृदयस्थानगमनमुक्तं बुद्धेर्हृदयस्थत्वात् ।
सर्वतः सहृतक्रमेत्यनेन हृदयस्थानगमनानपेक्षाभि-
हिता । अविभागेत्यनेन मध्यमाया विभागरूपविशे-
षस्य कर्णपिधानेनाप्यवगमात् पश्यन्त्यास्तु तद्व्युदासः ।
अनपायिनी स्वस्थानादचलिता प्राणापानान्तरे मूला-
धारस्थितेति यावत् । अतो यथाप्रदर्शितं परादीनां
विभागं प्रतिपादयतीदं महाभारतीयमलं विस्तरेण ।”
अभिघातस्थानानि चाष्टविधानि सामान्यतो वेदित-
व्यानि “अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।
जिह्वामूलञ्च दन्ताश्च नासिकोष्ठौ च तालु चेति” शिक्षा
कृदुक्तेः । वर्णाश्च मतभेदेन त्रिषष्टिश्चतुःषष्टिर्वा शिक्षा-
यामभिहिता वेदितव्याः । यथा “चतुःषष्टिस्त्रिष-
ष्टिवा वर्णाः सम्भवतो मताः । स्वरा विंशतिरेकश्च
स्पर्शानां पञ्चविंशतिः । यादयश्च स्मृता ह्यष्टौ चत्वा
रश्च यमाः स्मृताः । अनुस्वारो विसर्गश्च + कँओपौ चापि
पराश्रितौ । दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव
वेति” । अस्यार्थः अ इ उ ऋ इत्येषां ह्रस्वदीर्घप्लुताः
कालकृता द्वादश भेदाः ऌकारस्यैकौ भेदोऽस्य दीर्घाभावात्
प्लुतस्तूत्तरं प्रतिपादितः । एवां चतुर्णां ह्रस्वाभावात्
दीघप्लुतभेदेनाष्टौ भेदाः इत्येकविंशतिः स्वराः । स्पर्शाः
कादयो मावसानाः पञ्चविंशतिः । यादयो हान्ता
अष्टौ । यमाः वर्गेष्वाद्यानां चतुर्णां पञ्चमे परे मध्ये
पूर्बसदृशाः प्रातिशाख्ये प्रसिद्धाश्चत्वारो वर्णाः । यथा
पलिक्ँक्री चख्ँग्नतुः । अग्ँग्निः । पतिघ्ँध्नी-
त्यादौ । अनुस्वारादयश्चत्वारः स्पष्टाः । + कँपौ
चापि परामितावित्युक्तिस्तु फखयोः परवोरेकविधः
पफयो परयोरन्यविधः कण्ठ्योष्ठ्यत्वभेदादिति ज्ञाप-
नाय । दुःस्पृष्टः ईषत्स्पृष्टः ऌकारः । “अचोऽस्पृष्टा
षणस्त्वीषन्नेमस्पृष्टाः शलस्तथा” इत्यनेन प्रतिपादितस्य
यण्पदाभिधेययवरलो धर्मस्य ईषत्स्पृष्टत्वस्य ऌकारे
कथनात् ऌकारस्य स्वरत्वयण्त्वोभयधर्मसमावेशात् द्विवि-
धता इति त्रिषष्टिर्भेदाः । ऌकारस्य प्लुतत्वे चतुः-
षष्टिर्भेदाः । एवं वर्णानां सामान्यतो भेदे वोघिते
एतेषामुत्पत्तिस्थानानि बाह्याभ्यन्तरप्रयत्नमेदान प्रद-
र्श्यन्ते । तत्र स्थानानि “हकारं पञ्चमैर्युक्तमन्त-
स्थाभिश्च संयुतम् । औरस्यन्तं विजानीयात् कण्ठ्य-
माहुरसंयुतम् । कण्ठ्यावहाविचुयशास्तालव्या ओष्ठ-
जावुपू । स्युर्मूर्द्धन्था ऋटुरषा दन्त्या ऌतुलसाः
स्मृताः । जिह्वामूले तु कुः प्रोक्तः दन्त्यौष्ट्यो वः स्मृतो
बुधैः । ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठ्योष्ठजौ
स्मृतौ । अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् ।
ओकारौकारयोस्तद्वदिति” । “अनुस्वारयमानाञ्च नासिका
स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रयस्थान०
भागिन इति शिक्षाकृदुक्तानि बेदितव्यानि । यद्यपि
सर्वेषां वर्णानामुच्चारणे कण्ठव्यापार आवश्यकस्तथापि
चकाराद्युच्चारणे ताल्वादिव्यापारोऽप्यपेक्षित इति तन्मा-
त्रामात्रकृतत्वेन वर्णानां वैलक्षण्यम् । “जिह्वमूले तु
कुः प्रोक्तः” इति पाणिनिशिक्षाभिधानात् कवर्गस्य
कण्ठ्यत्वव्यवहारस्तु कण्टशब्दस्य कण्टमूलपरतया
भाक्त एव तवर्गस्य दत्तमूलीयत्वेन दन्त्यत्ववत् अन्यथा
भग्नदन्तस्य तदनुच्चारापत्तेः । जिह्वामूलीयस्य आश्र-
यस्थानभागित्वेन तदाश्रयस्य कोरपि जिह्वामूलस्थान-
त्वौचित्यात् । दन्त्योष्ठ्योव इत्यादावुभयोरेव प्रत्येक
वकारस्थानत्वं नं तु समुदितयोः तथा सति दन्तोष्ठ्य
इत्येव परिशिक्ष्येत । अतस्तस्य दन्त्वौष्ठ्योमयकार्य्यनि-
मित्तता एवमग्रेपि द्रष्टव्यम् । यमानां प्रातिशाख्य-
प्रसिद्धानां काँदिचतुष्टयानां पूर्वोदितानां यम्संज्ञा-
नोधितानाञ्च नासिकापि स्थानमधिकमुपदिश्यते । तत्रा
च यमेत्युपलक्षणम् । “अमोऽनुनासिका नह्रौ” इत्युक्त्य ।
हकाररकारभिन्नानाममानां नासिका स्थानत्वाभिधानात्
नासामनुगतः स्थानत्वेनेत्यनुनासिकशब्दव्युत्पत्त्या
नासिकास्थानत्वप्राप्तेश्च । तत्र नह्राविति पुनः हकार-
रकारयोः पर्य्युदासः । “मुखनासिकावचनोऽनुनासिकाः
इति पा० सूत्रे मुखपदस्य कण्ठादितत्तत्स्थानपरतया
यमानामुभयस्थानत्वम् । अयोगवाहा विसर्गा जिह्वा-
मूलीयोपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान-
भागित्वम । आश्रयस्थानभागित्वञ्च यमाश्रित्यैते
उच्चार्य्यन्ते तत्स्यानभागित्वमतः विसर्गस्य कखयोः
परयोर्जिह्वामूलोच्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागि-
त्वात् जिह्वामूलीयरूपान्वितनामता समुन्नेया । पफयोः
परयोरोष्ठोच्चार्य्यमाणयोराश्रयत्वेनोप ध्मानीयता । उश्च
पश्च आध्मायेते अनेन स्थाननेति व्युत्पत्तेः उपाध्मान
शब्द ओषवचनः । तत्स्थानयोग्यत्वादन्वितनामता
चावधेया । अतएव “कौमुद्यां जिह्वामूलीयस्य जिह्वा-
मूलमुपाध्मानीयस्योष्ठावित्युक्तम् । यद्यपि सर्वेषां वर्णा-
नामाकाशस्थानत्वं करणत्वञ्च कण्ठादीनां तदुत्पत्तौ
युक्तं तथापि तेषां स्थानत्वव्यवहारो वर्णाभिव्यञ्जक-
ताल्वादौ वर्णजनकवायुसंयोगाधारे वर्णाधारत्वारोपेण
भाक्त एव । तत्तत्स्थानेषु जिह्वाग्रादिसम्बन्धेन वर्णोत्-
पत्त्या जिह्वाग्रादिस्थिते तत्सम्बन्धजनकप्रयत्नविशेषे
आभ्यन्तरप्रयत्नवाच्ये स्पृष्टतादावेव करणत्वव्यवहारः
समुचित । वर्णाभिव्यक्त्यनन्तरभाविनस्त आन्तरतम्य-
परीक्षोपयुक्ताः कण्ठविवरविकाशादेरास्यवहिर्देशाव-
च्छिन्नकार्य्यस्य जनका बाह्या यत्ना गुणशब्देनोच्यन्ते
इत्यादिकं शेखरादौ स्पष्टम् । आभ्यन्तरप्रयत्नास्तु
वर्णोत्पत्तेः प्राग्भाविनो वाह्यास्तु तदुत्पत्तेः पश्चाद्भाविन
इति विवेकः । तथाहि नाभिदेशात् प्तयत्नप्रेरितः
प्राणवायुरूर्द्ध्वमागच्छन्नुरःप्रमृतीनि स्थानान्याहन्ति
उत्पादयति च ततो वर्णान् तदभिव्यञ्जकध्वनींश्च तत्र
वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानि तत्तद्वर्णो
त्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्ति तदा
स्पृष्टता प्रयत्नो यदा ईषत् स्पृशन्ति तथा ईषत्स्पृष्टता
समीपावस्थाने संवृतता दूरावस्थाने विवृतता इत्येव-
माभ्यन्तरप्रयत्नभेदात् वर्णानां भेदाः । अतएव
इचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्ये
तालुस्थानेन सह जिह्वाग्रादीनां सम्यक् स्पर्शः,
यकारोच्चारणे तु ईषत् स्पर्शः शकारेकारोच्चारणे दूरमनो-
पावस्थानमिति । एतेषां चाभ्यन्तरत्वं ओष्ठप्रभृति-
काकलीजनककाकलस्थानपर्य्यन्तरूपास्यान्तर्गततत्तत्स्थानेषु
जिह्वाग्रादीनां स्पर्शादिचतुष्टयरूपाभ्यन्तरकार्य्यकारि-
त्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावित्वाच्च बोध्यम् ।
विवारसंवारौ तु गलतिलस्य विकाशाविकाशात्मकौ
बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नावेव तयोः समीप-
दूरावस्थानात्मकत्वादिति विवेक्तव्यम् । ते च आभ्य-
न्तराः प्रयत्नाः केषां वर्णानाङ्के इत्येतत्तावदधीयते ।
कादिमावसानानां स्पृष्टता अतएव तेषां सक्यक्स्पर्श-
वत्त्वेन स्पर्शपदवाच्यता । यणः ईषत् स्पृष्टता । तेषाञ्च
स्पृष्टविवृतयोर्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपि
शसादीनां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थवर्णत्वम् अन्तः-
स्थाभिश्च संयुतमित्युक्तेरन्तःस्थाशब्दः आदन्तः । शषसहानां
अचाञ्च विवृतता । शसहानाञ्च उष्मशब्दाभिधेयवायु-
प्रधानत्वात् ऊष्मशब्दवाच्यता । अचाञ्च स्वयं राजमान-
त्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता । “अचः स्वयं
विराजन्ते” इत्युक्तेः “उदात्तश्चानुदात्तश्च स्वरितश्च स्वरा-
स्त्रयः । ह्रस्वो दीर्घः प्लुतश्चेति कालतो नियमा
अचित्युक्तेश्च । तत्र ह्रस्वस्य संवृतता । “संवृतं त्वेकमात्रं स्यात्
विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैकमात्रतया प्रयोगे
संवृतता प्रक्रियायान्तु विवृततैव । तत्र मूलं “अचो-
स्पृष्टा यणस्त्वोषन् नेमस्पृष्टाः शलस्तथा । शेषाः
स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव बोध्यम् ।
अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यवरणस्त्वीषत्
स्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची । शलः शषसहा
नेमस्पृष्टा अर्द्धस्पृष्टा अर्थादर्द्धविवृताः । “स्वराणामुश-
णाञ्चैव विवृतं करणं स्मृतम्” इत्येकवाक्यत्वात् । एते च
स्थानप्रयत्नाः सवर्णसंज्ञायामुपयुक्ताः बाह्यप्रयत्नास्तु
आन्तरतम्यपरीक्षायासेवोपयोगिन इति “तुल्यास्यप्रयत्नं
सवणमिति” पा० सूत्रभाष्यादौ स्पष्टम् । तेन तकारस्थाने
विवारश्वासघोषाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटका-
रादेशः “स्थानेऽन्तरतमः” इति पा० सूत्रभाष्ययोः स्पष्टम् ।
बहुसमानघर्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम् ।”
“बाह्याःप्रयत्नाश्चाष्टविधाः काकलकाधःस्थलगलबिलसङ्कोच-
विकाशश्वासोत्पत्तिध्वनिविशेषघोषाल्पघोषप्राणाल्पत्वमहत्त्व
रूपकार्य्यकरा यथाक्रमं विवारसवारश्वासनादघोषाल्प-
घोषाल्पप्राणमहाप्राणनामानो मन्तव्याः । प्रयत्नप्रेरितो
वायुर्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलविलविकाशादीनपि
सम्पादयति अतो गलबिलविकाशादिकरत्वादास्यवहि-
र्देशकार्य्यकरत्वात् चैते बाह्या इति । ते च “स्वयां
यमाः खयः + कँपौ विसर्गः शर एव च । एते श्वासा-
नुप्रदाना अघोषाश्च विवृण्वते । कण्ठमन्ये तु घोषाः
स्युः संवारा नादभागिनः । अयुग्मा वर्गयमगायणश्चा ल्पासवः स्मृताः” इति सिद्धान्तकौमुद्युक्तदिशावसेयाः ।
खयां स्थाने जाता ये यमाः पूर्वोक्ताः प्रातिशाख्ये
प्रसिद्धाः । खयः, शरः शषसहाः । एते श्वासानुप्रदाना
अघोषाः कण्ठं विवृण्वते च । अन्ये एतद्भिञ्चाः सर्वे
वर्णा घोषसंवारनादबाह्यप्रयत्नवन्तः । वर्गीयप्रथमतृतीय-
पञ्चमवर्णाः प्रथमतृतीयवर्गजातयमाश्च पूर्वोक्ताः यणश्च
एते अल्पपाणास्तद्भिन्नाः सर्वे महाप्राणा इति
विवेकः ।” “तथा उदात्तानुदात्तस्वरितरूपास्त्रिविधाः
स्वरा ह्रस्वदीर्घप्लुतकालभेदाश्च स्वराणां विशेषाधाने
हेतवो वेदितव्याः । तथा हि “विभागः पञ्चधा मतः”
इत्युपक्रम्य “स्वरतः कालतः स्थानात् प्रयत्नानुप्रदानतः”
इति स्वरकालस्थानप्रयत्नानुप्रदानाभिधेयबाह्यप्रयत्नान्
वर्णविमाजकान् पञ्च सामान्यतो निर्दिश्य शिक्षाकृता
उदात्तश्चानुदात्तश्चेत्यादिना अच्येव स्वरकालयोर्विभा-
जकताऽभिहिता । तत्र ताल्वादिषु स्थानेषूर्द्धभागे
निष्पन्नोजुदात्तः नीचैरुच्चार्य्यमाणोऽनुदात्तः प्रथममर्द्ध-
मुदात्ततयोच्चार्य्य उत्तरार्द्धमनुदात्ततयोचार्य्यमाणः
स्वरितः इति “उच्चैरुदात्तः नीचैरनुदात्तः समाहारः
स्वरितः तस्य आदित उदात्तमर्द्धह्रस्वमिति” पाणिनि-
सूत्रजातेभ्यः । तदेवं परस्परविभाजकस्थानबाह्या-
भ्यन्तरप्रयत्नस्वरकालकृतविशेषात् वर्णानां परस्परविशेष-
रूपता । सर्वे हि वर्णाः पुरस्कृत्यैव किञ्चिद्विशेषं
विशेषताभाजो भवन्तीति ।”
विवाहोपयोगिनि नक्षत्रविशेषकृते १६ वर्णकूटे उपयम
शब्दे वर्णकूटोक्तौ १२४९ पृ० दृश्यम् ।
वर्ण्णक न० वर्णयति वर्ण–ण्वुल् । १ हरिताले रत्नमा० २ अनु

लेपनयोग्ये अमरः ३ पिष्टे ४ घृष्टे वा चन्दनादौ द्रव्ये
च । ५ हिङ्गलादौ पुंस्त्री० भरतः ६ मण्डने शब्दर० ।
एकस्यैव सूत्रादेः पक्षान्तरव्याख्यानरूपे ५ ग्रन्थभेदे न०
“लिप्सासूत्रे तृतीयवर्णके” मिता० । ८ चारणे पु० मेदि० ।
वर्ण्णकूपिका स्त्री वर्णानामक्षराणां लेखनाय क्षुद्रः कूपः

कूपी सेव कन् । मस्याधारे त्रिका० ।
वर्ण्णचारक पु० वर्णं शुक्लादिरूपं चारयति चर–णिच्-

ण्वुल् । चित्रकरे शब्दमा० ।
वर्ण्णज्येष्ठ पु० वर्णेषु ज्येष्ठः प्रथममुत्पन्नत्वात् । १ अग्रजे

विप्रे । स्वस्वापेक्षया २ श्रेष्ठवर्णकूटयुते त्रि० । “वर्ण-
ज्येष्ठा च या नारी” स्मृतिः ।
वर्ण्णतूलि(ली) स्त्री वर्णानां लेखनसाधनं तूलिः । लेख-

न्याम् शब्दर० स्वार्थे क । अत्रैव
वर्ण्णद न० वर्णं ददाति दा–क । १ कालीयके गन्धद्रव्ये । जटा० । २ वर्णप्रदे त्रि०


वाचस्पत्यम्

Next Post

वर्ष - Barsha

Sun Aug 11 , 2019
वर्ष पु० वृष–भावे घञ् कर्त्तरि अच् वा । १ वृष्टौ २ जम्बु- द्वीपांशभेदे पुंन० अमरः । “लङ्कादेशाद्धिमगिरिरुदग्धेमकूटोऽथ तस्मात् तस्माच्चान्यो निषध इति ते सिन्धुपर्यन्तदैर्घ्या । एवं सिद्धादुदगपि पुराच्छृङ्गवच्छुक्लनीला वर्षाण्येषां जगुरिह बुधा अन्तरे द्रोणिदेशान् । भारतवर्षमिदं ह्युदगस्मात किन्नरवर्षमतो हरिवर्षम् । सिद्धपुराच्च तथा कुरु तस्म द्विद्धि हिरण् मयरम्यकवर्षे । माल्यवांश्च यमकोटिपत्तनाद्रोमकाच्च किल नन्धमादनः । नीलशैलनिषधावधो च तावन्तरालमन योरिलावृतम् । माल्यवज्जलधिमध्यवर्ति यत् तत् तु […]

You May Like

Recent Updates

%d bloggers like this: