Sanskrit Dictionary

आकाङ्क्षा – Akanksha

अथ केयमाकाङ्क्षा, न तावदविनाभावः, नीलं सरोजमित्यादावभावात्। विमलं जलं नद्याः कच्छे महिष इत्यत्र जलान्वितनद्या अविनाभावात् कच्छे साकाङ्क्षतापत्ते।

नापि समभिव्याहृतपदस्मारितपदार्थजिज्ञासा, अजिज्ञासोरपि वाक्यार्थबोधात् विश्वजिता यजेत द्वारं इत्यत्रापदार्थयोरप्यधिकारिणोऽध्याहृतस्य पिधानस्य
चाकाङ्क्षितत्वाच्च, तत्र शब्दकल्पनपक्षेऽपि घटः कर्मत्वमानयनं कृतिरित्यत्र जिज्ञासितस्यानयनादेराकाङ्क्षितत्वापत्तेः।

अथ जिज्ञासायोग्यता सा, जिज्ञासा च विशेषाज्ञाने
भवति, योग्यता च श्रोतरि तदुच्चारणजन्यसंसर्गावगमप्रागभावः, विमलं जलं नद्याः कच्छे महिष इत्यत्र तात्पर्य्यवशात् कदाचित् नद्याः कच्छे संसर्गावगमात्
तत्प्रागभावसत्त्वेऽपि श्रोतरि तदुच्चारणेन तात्पर्यवशात् जलान्वितनद्याः कच्छे संसर्गावगमोनेति न तत्प्रागभावः, घटः कर्मत्वमानयनमित्यत्रापि तथेति चेत्,।

न।

निराकाङ्क्षे तदुच्छारणजन्यसंसर्गावगमप्रागभावस्य सिध्यसिद्धिपराहतत्वात्। किञ्च यत्रैकोविमलं जलमित्यश्रत्वेव तात्पर्यभ्रमेण वा नद्याः कच्छान्वयपरत्वमवैति, अपरः
समस्तमेव श्रुत्वा नद्या जलान्वयपरत्वमवधारयति, तत्रोभयोरपि तदुच्चारणजन्यसंसर्गावगमात् नद्या इत्युभयसाकांङ्क्षं स्यात्।

अपि च प्रागभावाभावस्य कारणान्तराभावव्याप्तत्वात् तत एव कार्याभाव इति किमाकाङ्क्षया। एवञ्च योग्यतासत्ती अपि न हेतू अयोग्ये अनासन्ने च
तदुच्चारणजन्यसंसर्गज्ञानाभावेन तत्प्रागभावाभावात्।

न चैवं बाधाभावस्यानुमित्यादावपि हेतुत्वं, प्रागभावाभावेनैव कार्याभावात् प्रागभावस्य च कार्यमात्र हेतुत्वात्। शब्दे
नासाधारण्यं उत्थितोत्थाप्याकाङ्क्षयोरुत्कर्षापकर्षौ न स्यातां प्रागभावे तदभावात्।

अथ ज्ञाप्य-तदितरान्वयप्रकारकजिज्ञासानुकूलपदार्थोपस्थितिजनकत्वे सत्यजनिततात्पर्यविषयान्वयबोधत्वमाकाङ्क्षा, घटमानयतीत्यत्र घटमित्युक्ते किमानयति
पश्यति वा, आनयतीत्युक्ते किं घटं अन्यद्वेति जिज्ञासा भवति । घटः कर्मत्वमानयनं कृतिरित्यत्राभेदेन नान्वयोऽयोग्यत्वात् , घटस्यानयनमिति तु नान्वयबोधः घट
इतिपदात् सम्बन्धित्वेन घटस्यानुपस्थितेः। राज्ञ इति पुत्रेण जनितान्वयबोधत्वात् न पुरुषमाकाङ्क्षतीति चेत्, तर्हि नामविभक्तिधात्वाख्यातार्थानां घटकर्मत्वानयत-कृतीनां
स्वरूपेणोपस्थितिर्नान्वयप्रकारकजिज्ञासानुकूलेति तत्र नाकाङ्क्षा स्यात्। घटः कर्मत्वमानयनं कृतिरित्यत्र घटमानयतीत्यत्रेवान्वयबोधः स्यात्। न हि तत्र पदार्थस्वरूपाणां
एतद्वैलक्षण्येनोपस्थितिः, त्रयाणां तुल्यवत् स्मरणे प्रथमं यत्तो राज्ञ इति पुरुषेण नान्वेति किन्तु पुत्रेण तत एवाग्रेऽपि व्यर्थमजनितान्वयबोधत्वमिति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

शब्दखण्डे शब्दाकाङ्क्षावादपूर्वपक्षः॥

अथ शब्दाकाङ्क्षावादसिद्धान्तः

उच्यते । अभिधानापर्यवसानमाकाङ्क्षा यस्य येन विना न स्वार्थान्वयानुभावकत्वं तस्य तदपर्य्यवसानं, नाम विभक्ति धात्वाख्यात क्रिया कारक पदानां परस्परं विना न परस्परस्य स्वार्थान्वयानुभवजनकत्वं।

परमते नीलोघटोऽस्ति नीलं घटमानयेत्यादौ नामार्थानां कारकाणाञ्च न परस्परमन्वयबोधः विशेषणान्वितविभक्त्यर्थानन्वयादिति न विशिष्टवैशिष्ट्येनान्वयः किन्त्वार्थः समाजः।

अस्माकन्तु नीलघटयोरभेदानुभवबलादभेद एव संसर्गः विशेषणविभक्तिः साधुत्वार्थम्।
यद्वा समानविभक्तिकयोरभेदानुभवबलात् विशेषणान्वितविभक्तेरभेदार्थकत्वं अतो विशेषण-विशेष्यभावानुभावकत्वं तत्पदयोः, न परस्परं विना। द्वारमित्यत्राध्याहारं
विना प्रतियोग्यलाभात् न स्वार्थान्वयानुभावकत्वं, विश्वजिता यजेतेत्यत्र ममेदं कार्यमिति प्रवर्त्तकतात्पर्यविषयज्ञानं नाधिकारिणं विनेति तदाकाङ्क्षा।

यद्वा कर्तुरिवाधिकारिणोऽपि आक्षेपादेव लाभ इति तदन्वयो न शाब्दः किन्त्वानुमानिकः, गौणलाक्षणिकयोरननुभावकत्वपक्षे तदुपस्थापितस्याध्याहृतस्येवेतरपदं
विना नानुभावकत्वम्। घटः कर्मत्वं आनयनं कृतिरित्यादौ अभेदेन नान्वयबोधोऽयोग्यत्वात् तत्तत्पदेभ्यस्तात्पर्यविषयतत्तत्पदार्थस्वरूपज्ञानञ्च पदान्तरं विनैव। घटमानयतीत्यत्रेव
भ्रमेण तथान्वयतात्पर्येऽपि क्रियाकारकभावेन नान्वयः, नामविभक्तिधात्वाख्यातक्रियाकारकपदानां अन्वयबोधे तान्येव पदानि समर्थानि न तु तदर्थकानि पदान्तराणि।
अग्निः करणत्वं ओदनः कर्मता पाकः कृतिः इष्टसाधनता इत्यादिपदेभ्यः अग्निर्नैदिनं पचेतेत्यत्रेव अन्वयाबोधात्, अग्निकरणकौदनकर्मकपाकविषयककृतिरिष्टसाधनं इति
तु वाक्यं न पदं, अतएव द्वारमित्यत्र पिधेहिपदाध्याहारः, क्रियापदार्थस्यान्यत उपस्थितौ अपि कारकानन्वयात् असामर्थ्थञ्च स्वभावात्। अनासन्नमपि आसन्नतादशायां
आसन्नत्वभ्रमेण वा अन्ययबोधसमर्थमेव। वह्निना सिञ्चतीत्यत्र क्रियाकारकपदयोरन्वयबोधे सामर्थ्येऽपि अयोग्यताज्ञानं प्रतिबन्धकं दाहे समर्थस्याप्यग्रेर्मणिरिव। अत एव
योग्यताभ्रमात् प्रतिबन्धकाभावे ततोऽप्यन्वयबोधः। नहि स्वभावतोऽसमर्थं आरोपितसामर्थ्यं वा दहति पचति वेति, प्रकृते तु पदार्थस्वरूपज्ञानं न त्वन्वयभ्रमोऽपि।
पुरुषपदं विनापि राज्ञ इत्यस्य पुत्रेण समं स्वार्थान्वयानुभावकत्वं इति न तदाकाङ्क्षा।

यद्वा त्रयाणां स्मरणेऽजनितान्वयबोधदशायां पुरुषान्वये तात्पर्याभावात् नान्वयबोध इत्यग्रेऽपि तथा। न च पुत्रस्योत्थिताकाङ्क्षत्वात् तेनैवान्वयबोध इति
वाच्यम्। तात्पर्यवशात् पुरुषेणैव प्रथममन्वयबोधात्। अत एवान्वयबोधसमर्थत्वे सति अजनिततात्पर्य्यविषयान्वयबोधत्वमाकाङ्क्षेति केचित्। प्रकृतिप्रत्ययाभ्यामन्वयबोधे
जनितेऽपि वाक्यैकवाक्यतावत्क्रियाकारकः पदयोरजनितान्वयबोधत्वमाकाङ्क्षा।

नव्यास्तुपदविशेषजन्यपदार्थोपस्थितिः घटः कर्मत्वं आनयनं कृतिरित्येवम्बिधपदाजन्यपदार्थोपस्थितिर्वा आसत्तिरन्वयबोधाङ्गमित्यासत्त्यभावादेवम्बिधशब्दान्नान्वयबोधः
त्वयाप्येवम्बिधपदार्थोपस्थितेराकाङ्क्षाहेतुत्वेनावभ्यमभ्युपेयत्वात्, जनितान्वयबोधात् नान्वयान्तरबोधः तात्पर्याभावादित्याकाङ्क्षायाः कारणत्वमेव नास्ति, किन्तु स्वजनकोपस्थितेः परिचायकत्वमात्रमिति।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ

शब्दखण्डे शब्दाकाङ्क्षावादसिद्धान्तः।


Source : Tattva Chintamani sabda khanda