चित्तवृत्तिनिरोधः – Chitta Vritti Nirodha

योग:  चित्तवृत्तिनिरोधः॥1.2॥

योगश् चित्तवृत्तिनिरोधः। निरुध्यन्ते यस्मिन् प्रमाणादिवृत्तयो ऽवस्थाविशेषे चित्तस्य सोऽवस्थाविशेषो योगः।

ननु संप्रज्ञातस्य योगस्याव्यापकत्वाद् अलक्षणम् इदम्। अनिरुद्धा हि तत्र सात्त्विकी चित्तवृत्तिर् इत्य् अत आह — सर्वशब्दाग्रहणाद् इति। यदि सर्वचित्तवृत्तिनिरोध इत्य् उच्येत भवेद् अव्यापकं संप्रज्ञातस्य। क्लेशकर्मविपाकाशयपरिपन्थी चित्तवृत्तिनिरोधस् तु तम् अपि संगृह्णाति।

तत्रापि राजसतामसचित्तवृत्तिनिरोधात् तस्य च तद्भावाद् इत्य् अर्थः। कुतः पुनर् एकस्य चित्तस्य क्षिप्तादिभूमिसंबन्धः किमर्थं चैवमवस्थस्य चित्तस्य वृत्तयो निरोद्धव्या इत्य् आशङ्क्य प्रथमं तावद् अवस्थासंबन्धे हेतुम् उपन्यस्यति — चित्तं हीति।

प्रख्याशीलत्वात् सत्त्वगुणम्। प्रवृत्तिशीलत्वाद् रजोगुणम्। स्थितिशीलत्वात् तमोगुणम्। प्रख्याग्रहणम् उपलक्षणार्थम्। तेनान्येऽपि सात्त्विकाः प्रसादलाघवप्रीत्यादयः सूच्यन्ते। प्रवृत्त्या च परितापशोकादया राजसाः। प्रवृत्तिविरोधी तमोवृत्तिधर्मः स्थितिः। स्थितिग्रहणाद् गौरवावरणदैन्यादय उपलक्ष्यन्ते। एतद् उक्तं भवति — एकम् अपि चित्तं त्रिगुणनिर्मिततया गुणानां च वैषम्येण परस्परविमर्दवैचित्र्याद् विचित्रपरिणामं सद् अनेकावस्थम् उपपद्यत इति। क्षिप्ताद्या एव चित्तस्य भूमीर् यथासंभवम् अवान्तरावस्थाभेदवतीर् आदर्शयति — प्रख्यारूपं हीति। चित्तरूपेण परिणतं सत्त्वं चित्तसत्त्वम्। तद् एवं प्रख्यारूपतया सत्त्वप्राधान्यं चित्तस्य दर्शितम्। तत्र चित्ते सत्त्वात् किंचिद् ऊने रजस्तमसी यदा मिथः समे च भवतस् तदैश्वर्यं च विषयाश् च शब्दादयस् तान्य् एव प्रियाणि यस्य तत् तथोक्तम्। सत्त्वप्राधान्यात् खलु चित्तं तत्त्वे प्रणिधित्सद् अपि तत्त्वस्य तमसा पिहितत्वाद् अणिमादिकम् अइश्वर्यम् एव तत्त्वम् अभिमन्यमानं तत् प्रणिधित्सति प्रणिधत्ते च क्षणम्। अथ रजसा क्षिप्यमाणं तत्राप्य् अलब्धस्थितिं तत्प्रियमात्रं भवति। शब्दादिषु पुनर् अस्य स्वरसवाही प्रेमा निरूढ एव। तद् अनेन विक्षिप्तं चित्तम् उक्तम्। क्षिप्तं चित्तं दर्शयन् मूढम् अपि सूचयति — तद् एव तमसेति। यदा हि तमो रजो विजित्य प्रसृतं तदा चित्तसत्त्वावरकतमःसमुत्सारणे ऽशक्तत्वाद् रजसस् तमःस्थगितं चित्तम् अधर्माद्य् उपगच्छति। अज्ञानं च विपर्ययज्ञानम्। अभावप्रत्ययालम्बनं च निद्राज्ञानम् उक्तम्। ततश् च मूढावस्थापि सूचितेति। अनैश्वर्यं सर्वत्रेच्छाप्रतीघातः। अधर्मादिव्याप्तं चित्तं भवतीत्य् अर्थः। यदा तु तद् एव चित्तसत्त्वम् आविर्भूतसत्त्वम् अपगततमःपटलं सरजस्कं भवति तदा धर्मज्ञानवैराग्यैश्वर्याण्य् उपगच्छतीत्य् आह — प्रक्षीणेत्यादि। मोहस् तमस् तद् एव चावरणं प्रकर्षेण क्षीणं यस्य तत् तथोक्तम्। अत एव सर्वतो विशेषाविशेषलिङ्गमात्रालिङ्गपुरुषेषु प्रद्योतमानम्। तथापि न धर्मायैश्वर्याय च कल्पते प्रवृत्त्यभावाद् इत्य् अत आह — अनुविद्धं रजोमात्रया। रजसः प्रवर्तकत्वाद् अस्ति धर्मादिप्रवृत्तिर् इत्य् अर्थः। तद् अनेन संप्रज्ञातसमाधिसंपन्नयोर् मधुभूमिकप्रज्ञाज्योतिषोर् मध्यमयोर् योगिनोश् चित्तसत्त्वं संगृहीतम्। संप्रत्य् अतिक्रान्तभावनीयस्य ध्यायिनश् चतुर्थस्य चित्तावस्थाम् आह — तद् एव चित्तं रजोलेशान् मलाद् अपेतम् अत एव स्वरूपप्रतिष्ठम्। अभ्यासवैराग्यपुटपाकप्रबन्धविधूतरजस्तमोमलस्य हि बुद्धिसत्त्वतपनीयस्य स्वरूपप्रतिष्ठस्य विषयेन्द्रियप्रत्याहृतस्यानवसिताधिकारतया च कार्यकारिणो विवेकख्यातिः परं कार्यम् अवशिष्यत इत्य् आह — सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघध्यानोपगं भवति। धर्ममेघश् च वक्ष्यते। अत्रैव योगिजनप्रसिद्धिम् आह — तद् इति।

सत्त्वपुरुषान्यताख्यातिमात्रं चित्तं धर्ममेघपर्यन्तं परं प्रसंख्यानम् इत्य् आचक्षते ध्यायिनः। चित्तसामानाधिकरण्यं च धर्मधर्मिणोर् अभेदविवक्षया द्रष्टव्यम्। विवेकख्यातेर् हानहेतुं चितिशक्तेश् चोपादानहेतुं निरोधसमाधिम् अवतारयितुं चितिशक्तेः साधुताम् असाधुतां च विवेकख्यातेर् दर्शयति — चितिशक्तिर् इत्यादि। सुखदुःखमोहात्मकत्वम् अशुद्धिः। सुखमोहाव् अपि हि विवेकिनं दुःखाकुरुतः। अतो दुःखवद् धेयौ। तथा चातिसुन्दरम् अप्य् अन्तवद् दुनोति। तेन तद् अपि हेयम् एव विवेकिनः। सेयम् अशुद्धिर् अन्तश् च चितिशक्तौ पुरुषे न स्त इत्य् उक्तम् — शुद्धा चानन्ता चेति। ननु सुखदुःखमोहात्मकशब्दादीन् इयं चेतयमाना तदाकारापन्ना कथं विशुद्धा तदाकारपरिग्रहपरिवर्जने च कुर्वती कथम् अनन्तेत्य् अत उक्तम् — दर्शितविषयेति। दर्शितो विषयः शब्दादिर् यस्यै सा तथोक्ता। भवेद् एतद् एवं यदि बुद्धिवच् चितिशक्तिर् विषयाकारताम् आपद्येत, किं तु बुद्धिर् एव विषयाकारेण परिणता सत्य् अतदाकारायै चितिशक्त्यै विषयम् आदर्शयति। ततः पुरुषश् चेतयत इत्य् उच्यते।

ननु विषयाकारां बुद्धिम् अनारूढायाश् चितिशक्तेः कथं विषयव्एदनं विषयारोहे वा कथं न तदाकारापत्तिर् इत्य् अत उक्तम् — अप्रतिसंक्रमेति। प्रतिसंक्रमः संचारः। स चितेर् नास्तीत्य् अर्थः। स एव कुतोऽस्या नास्तीत्य् अत उक्तम् — अपरिणामिनीति। न चितेस् त्रिविधो ऽपि धर्मलक्षणावस्थालक्षणः परिणामोऽस्ति। येन क्रियारूपेण परिणता सती बुद्धिसंयोगेन परिणमेत चितिशक्तिः। असंक्रान्ताया अपि विषयसंवेदनम् उपपादयिष्यते। तत् सिद्धं चितिशक्तिः शोभनेति। विवेकख्यातिस् तु बुद्धिसत्त्वात्मिकाशोभनेत्य् उक्तम् — अतश् चितिशक्तेर् विपरीतेति। यदा च विवेकख्यातिर् अपि हेया तदा कैव कथा वृत्त्यन्तराणां दोषबहुलानाम् इति भावः। ततस् तद्धेतोर् निरोधसमाधेर् अवतारो युज्यत इत्य् आह — अतस् तस्याम् इति। ज्ञानप्रसादमात्रेण हि परेण वैराग्येण विवेकख्यातिम् अपि निरुणद्धीत्य् अर्थः। अथ निरुद्धाशेषवृत्तिं चित्तं कीदृशम् इत्य् अत आह — तदवस्थम् इत्यादि। स निरोधोऽवस्था यस्य तत् तथोक्तम्। निरोधस्य स्वरूपम् आह — स निर्बीज इति। क्लेशसहितः कर्माशयो जात्यायुर्भोगबीजं तस्मान् निर्गत इति निर्बीजः। अस्यैव योगिजनप्रसिद्धाम् अन्वर्थसंज्ञाम् आदर्शयति — न तत्रेति। उपसंहरति — द्विविधः स योगश् चित्तवृत्तिनिरोध इति॥1.2॥


Source : पातञ्जलसूत्राणि। श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्या

%d bloggers like this: