Sanskrit

तत्त्व चिन्तामणिः-Tattva Chintamani – Gangesh Upadhya – प्रत्यक्षखण्डः

  1. प्रत्यक्षखण्डः
  2. अनुमानखण्डः
  3. उपमानखण्डः
  4. शब्दखण्डः

प्रत्यक्षखण्डः

॥ मङ्गलवादः ॥

 

अथ प्रामाण्यवादः  

तत्र ज्ञप्तिवादः

अथ जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्षुरष्टादशविद्यास्थानेष्वभ्यर्हिततमामान्वीक्षिकीं परमकारुणिको मुनिः प्रणिनाय। तत्र प्रेक्षावत्प्रवृत्त्यर्थं “प्रमाणादीनां
तत्त्वज्ञानान्निःश्रेयसाधिगमः”( न्या.सू.1-1-1)इत्यादावसूत्रयत् । तेष्वपि प्रमाणाधीना सर्वेषां व्यवस्थितिरिति प्रमाणतत्त्वमत्र विविच्यते ।
ननु प्रमाणादीनां तत्त्वं प्रतिपादयच्छास्त्रं परम्परया निःश्रेयसेन संबध्यत इति न युक्तम् , प्रमाणतत्त्वावधारणस्याशक्यत्वात् । तद्धि प्रमातत्त्वावधारणाधीनम्। तच्च
स्वतः परतो वा न संभवति , वक्ष्यमाणदूषणगणग्रासात् ।

अथ किं प्रामाण्यज्ञानेन ? प्रवृत्तिमात्रे तस्य व्यभिचारात् । बहुवित्तव्ययायाससाध्ये प्रवृत्तिश्चावश्यकार्थनिश्चयादेव। न च यस्य संशयव्यतिरेकनिश्चयौ
प्रवृत्तिप्रतिबन्धकौ तन्निश्चयस्तद्धेतुः, अनुमितौ व्याप्तेरिवेति वाच्यम् । तत्संदेहे सत्यर्थसंदेहेनार्थानिश्चयादेवाप्रवृत्तेस्तत्र तयोरप्रतिबन्धकत्वादिति चेत् ,न।
प्रामाण्यसंशयानन्तरमिदमित्थमेवेत्यवधारणस्य निष्कम्पप्रवृत्त्यङ्गस्य प्रामाण्यनिश्चयाधीनत्वात् ।

ननु स्वत एवास्तु तन्निरूपणम् । तथा हि तत्र विप्रतिपत्तयः – ज्ञानप्रामाण्यं तदप्रामाण्याग्राहकयावज्ज्ञानग्राहकसामग्रीग्राह्यं न वा।

अथ द्वितीया विप्रतिपत्तिः
तज्ज्ञानविषयकज्ञानाजन्यज्ञानग्राह्यं न वा । परतः पक्षे ज्ञात एव ज्ञाने प्रामाण्यग्रहः। स्वतस्त्वे प्रामाण्यवत एव ज्ञानस्य ग्रहात् ।

अथ तृतीया विप्रतिपत्तिः

स्वाश्रयग्राहकेण गृह्यत एव न वा ।

अथ चतुर्थी विप्रतिपत्तिः

स्वाश्रयेण गृह्यत एव न वेति प्रत्येकमेव वा । यत्तु योगजधर्मसामान्यलक्षणप्रत्यासत्त्या स्वाश्रयप्रामाण्यं तेनैव गृह्यत इत्यंशतः सिद्धसाधनम्, अतो योगजधर्माद्यजन्यत्वं
विशेषणमिति। तन्न। परं प्रत्यसिद्धेः । प्रामाण्यमात्रपक्षत्वे प्रामाण्यं स्वाश्रयेण ग्रह्यत एवेत्युद्देश्यप्रतीतेरसिद्धेश्च नांशतः सिद्धसाधनम् ।
अथ पञ्चमी विप्रतिपत्तिः

यद्वा घटोऽयमिति ज्ञानप्रामाण्यम् एतज्ज्ञानग्राह्यं न वा , एतज्ज्ञानग्राहकमात्रग्राह्यं न वेति ।
अथ पूर्वपक्षः

तत्र यद्यपि विशेष्यावृत्त्यप्रकारकत्वमगृहीतग्राहित्वं वा, सर्वधीयथार्थत्वपक्षेऽनुभवत्वजातेरभावेन स्मरणान्यज्ञानत्वं विशिष्टज्ञानत्वं वा प्रामाण्यं स्वस्य न तेनैव न
वा अनुव्यवसायेन ग्रहणयोग्यम्, विशेष्यावृत्त्यप्रकारकत्वादेर्विशेषणस्य प्रागनुपस्थितौ तद्वैशिष्ट्यस्य ज्ञातुमशक्यत्वात्। नापि ज्ञानातीन्द्रियत्वे ज्ञानानुमित्या तद् गृह्यते,
ज्ञानमात्रलिङ्गस्य प्राकट्यादेस्तद्व्यभिचारात् । नापि प्रमाहितज्ञातताविशेषात् , तस्य प्रथमं दुर्निरूपत्वाच्च। अन्यथा अप्रमाहितज्ञाततया अप्रामाण्यस्यापि स्वतो
ग्रहापत्तिरिति।

तथापि तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिष्ट्यज्ञानत्वं वा प्रामाण्यम्। तन्निश्चयादेव निष्कम्पव्यवहारात् , लाघवात् । नान्यत् गौरवात् । तच्च ज्ञानग्राहकसामग्रीग्राह्यमेव॥
तथा हि विशेष्ये तद्धर्मवत्त्वं तद्धर्मप्रकारकत्वं च व्यवसायस्यानुव्यवसायेनानुमित्या स्वप्रकाशेन वा गृह्यते । विषयनिरूप्यं हि ज्ञानम् । अतः ज्ञानवित्तिवेद्यो विषय इति
व्यवसाये भासमाने धर्मधर्मिवत्तद्वैशिष्ट्यमपि विषयः। व्यवसायरूपप्रत्यासत्तेस्तुल्यत्वात् ।

सम्बन्धितावच्छेदकरूपवत्तया ज्ञायमाने सम्बन्धिनि ससम्बन्धिकपदार्थनिरूपणमित्यनुव्यवसायस्य रजतत्वावच्छिन्नत्वेन पुरोवर्तिविषयत्वाच्च । अन्यथा पुरोवर्तिनं
रजतं च जानामीति तदाकारः स्यात्, न तु रजतत्वेन पुरोवर्तिनमिति। अत एवाप्रमापि प्रमेत्येव ग्रह्यते । अनुव्यवसायस्य भ्रमविषयवैशिष्ट्यविषयत्वात् । न च न प्रामाण्यं
प्रथमतो ज्ञातमिति न तदारोपः स्यादिति वाच्यम् । प्रामाण्यस्य ज्ञानग्राहकसामग्रीग्राह्यत्वेन ज्ञानवित्तिवेद्यत्वात् । अभावप्रतीतौ प्रतियोगित्वाभावत्वयोरिव।
तदभाववति तत्प्रकारकज्ञानत्वमप्रामाण्यं परतो ज्ञायते। तदभाववत्त्वस्य भ्रमानुल्लिखितत्वेनानुव्यवसायाविषयत्वात् । न चैवमनुव्यवसायस्य यावद्व्यवसायविषयविषयकत्वे
भ्रान्तभ्रान्तिज्ञसंकर इति वाच्यम् । बाधानवतारदशायां तस्येष्टत्वात् । तदवतारे तस्यैव प्रतिबन्धकत्वात् उपनायकभ्रान्तेरभावाच्च।
अत एवान्यभ्रान्तिज्ञस्य न भ्रमः । अथ तद्वत्त्वं न धर्मधर्मिवैशिष्ट्यमात्रम् , किं तु तस्य विशेषणताविशेषः। स च व्यवसाये भासते नानुव्यवसाये, मनसो
बहिरस्वातन्त्र्यादिति चेत् , न । व्यवसायोपनीतत्वेन विशेषणविशेष्ययोरिव विशेषणताविशेषस्यापि तद्विषयत्वात् , विशेषणताया निराकरिष्यमाणत्वाच्च।
एतेनास्वप्रकाशे न स्वतः प्रामाण्यग्रहः, धर्म्यग्रहे तद्धर्माग्रहात् । शब्दगन्धवद्योग्यत्वात्तद्ग्रहेऽपि ज्ञानं प्रमाणमिति धीर्न स्यात् । स्वप्रकाशेऽपि स्वमात्रसाक्षिणः
स्वधर्मग्रहेऽसामर्थ्यात्। सामर्थ्ये वा अप्रामाण्यमपि गृह्णीयात् । परप्रकाशे लिङ्गेन मनसा वा जायमानं ज्ञानं न भ्रमव्यावृत्तं प्रामाण्यं गृह्णीयात् , व्यभिचारात् । न च
यत्र यदस्ति तत्र तद्गृह्यते, अप्रामाण्यस्यापि स्वतो ग्रहापत्तेः, अनुव्यवसायस्यानुमितेर्वा विषयाजन्यत्वाच्चेति निरस्तम् ।
तद्वति तत्प्रकारकज्ञानत्वं तद्वति तद्वैशिष्ट्यज्ञानत्वं वा प्रामाण्यं व्यवसायस्येति स्वेनानुव्यवसायेनानुमित्या वा तद्ग्रहात् , तद्विषयत्वस्य तत्प्रकारकत्वस्य च
ज्ञानग्राहकसामग्रीग्राह्यत्वात् । यदि च प्रामाण्यं परतो ज्ञायेत, तदा प्रामाण्यज्ञानेऽपि तदनुमापकलिङ्गपक्षव्याप्त्यादिज्ञानेषु च स्वविषयनिश्चयार्थं प्रामाण्यस्य परतो ज्ञेयत्वे
फलमुखी कारणमुखी चानवस्था स्यादिति प्रामाण्यं न ज्ञायेतैवेति परिशेषादपि स्वतः प्रामाण्यग्रहः॥

इति पूर्व पक्षः

अथ सिद्धान्तः

सिद्धान्तस्तु – प्रामाण्यस्य स्वतो ग्रहेऽनभ्यासदशोत्पन्नज्ञाने तत्संशयो न स्यात्, ज्ञानग्रहे प्रामाण्यनिश्चयात् । अनिश्चये वा न स्वतः प्रामाण्यग्रहः । ज्ञानाग्रहे
धर्मिज्ञानाभावान्न संशयः ।

ननु कोटिस्मरणादिना संशयपूर्वक्षणे व्यवसायविनाशान्न तद्विशेष्यको मानसः संशय इति चेत् , न । ज्ञानोपनीते व्यवसाये प्रामाण्यसंशयात् ।
ननु धर्मिज्ञानं न संशयहेतुः कोटिज्ञानविशेषादर्शनधर्मीन्द्रियसंनिकर्षैः प्रामाण्यसंशयरूप एव ज्ञानग्रह उत्पद्यत इति चेत् , न। ज्ञानातीन्द्रियत्वेन तज्ज्ञानं विना
तद्धर्मिकमानससंशयानुपपत्तेः। लिङ्गं च न संशयजनकम् , तस्य निश्चायकत्वात् ।

ज्ञानस्य मानसत्वे च प्रामाण्यज्ञानवत् तत्सामग्र्यपि संशयप्रतिबन्धिका, तन्निश्चायकत्वात् । अन्यथा विशेषदर्शनकालेऽपि संशयापत्ते।
अथ धर्मिणि विशेषादर्शनदशायां एककोटिस्मरणे तदारोपः कोटिद्वयस्मरणे संशय इति निश्चयसामग्रीतः संशयसामग्री बलवतीति कोटिद्वयस्मरणे संशय एव स्यात्
न तु निश्चय इति चेत्,

न । विरुद्धोभयारोपसामग्रीद्वयासमाजादुभयारोप एक एव भवति । स एव संशयः । न त्वेकारोपसामग्य्रा अपरारोपसामग्रीप्रतिबन्धः, अविरोधात् । न
चोभयारोपसामग्र्या एकनिश्चयसामग्रीप्रतिबन्ध इति वाच्यम्। प्रत्येकारोपसामग्र्यतिरिक्तायास्तस्या अभावात् । न च सामग्रीद्वयात्कार्यद्वयम् । समूहालम्बनवदुपपत्तेः ।
तस्मात् प्रामाण्यनिश्चयसामग्रीसत्त्वान्न तत्संशयः स्यात् । धर्मिज्ञानं च संशयहेतुः । अन्यथा संशये धर्मिनियमः कोट्युत्कटत्वं च न स्यात् ।
अथ पीतः शङ्खः, आदर्शे मुखमित्यादिभ्रमो विशेषदर्शनेऽपि यथा दोषान्तरात् , तथा निश्चितेऽपि प्रामाण्ये दोषान्तरात्तत्संशय इति चेत्, न । तद्वदेवात्रापि
प्रवृत्तिप्रसङ्गात् । (साक्षात्कारिभ्रमे साक्षात्कारिविशेषदर्शनं विरोधि)। साक्षात्कारिभ्रमे साक्षात्कार्येव विपरीतनिश्चयः प्रतिबन्धकः, न त्वानुमानिकादिः । संशये तु
निश्चयसामान्यम्। अनुमानादिना तन्निश्चये कदाचिदपि तस्यानुत्पादात् , दिङ्मोेहादौ तथा दर्शनात् । तच्च न, पित्तादिना प्रतिबन्धात् । न च जात्यैव कश्चिद्दोषोऽस्ति।
न च प्रामाण्यसंशयाद्विषयसंशयवत् प्रामाण्यज्ञाने प्रामाण्यसंशयात् प्रामाण्यसंशय इति वाच्यम् । प्रामाण्यज्ञानेऽपि स्वतः प्रामाण्यग्रहे तत्संशयानुपपत्तेः ।
ननु ज्ञानमात्रं न विरोधिबुद्धिनिवर्तकं, भ्रमोत्तरं बाधकज्ञानोदयात् , किं त्वनन्यथासिद्धम् । अत एव तेन विनापि तज्ज्ञानं सम्भवतीति अन्यथासिद्धतया शङ्कितं
तन्निश्चयं परिभूय ज्ञानविषयत्वाद्विषये यथा संशयस्तथा प्रामाण्ये तन्निश्चयस्यान्यथासिद्धिशङ्कया तं परिभूय भवति संशयः। न च व्यवसायस्य ज्ञानत्वे घटविषयकत्वे
च यथा नुव्यवसायविषयत्वान्न संशयस्तथा प्रामाण्येऽपि न स्यात् , अनुव्यवसायस्य प्रमात्वनियमादिति वाच्यम्। अज्ञाने अविषये च ज्ञानत्वविषयत्वयोरनुव्यवसायेनाग्रहणनियमात्
तद्विषयत्वमन्न्यथासिद्धं प्रामाण्यविषयत्वं च तेन विनापि संभवतीति तत्र संशय इति चेत् ,

मैवम् । भ्रमत्वमन्यथासिद्धत्वम्। ततश्च प्रामाण्यनिश्चये भ्रमत्वसंशयेन तद्विषये प्रामाण्यसंशय इति फलितोऽर्थः । भ्रमत्वसंशयश्च तज्ज्ञानाज्ञानाभ्यां न
सम्भवतीत्युक्तत्वात्। एवमन्यत्रापि भ्रमत्वसंशयान्न विषये संशयः, स्वतःप्रामाण्यग्रहे भ्रमत्वसंशयाभावात्।

न च वाच्यं प्रामाण्यसंशयान्न विषये संशयः, मानाभावात् । ज्ञानविषयत्वात्समानधर्मादेव तदुपपत्तेः । न चैवं सर्वत्र विषयसंशये तन्निश्चयोच्छेदः, प्रामाण्यसंशयेऽपि
तुल्यत्वादिति । तस्यासार्वत्रिकत्वात् । भ्रमत्वसंशयं विना निश्चितविषये संशयानुत्पत्तेरानुभविकत्वाच्च।

अथ तद्वति तत्प्रकारकत्वं प्रामाण्यम् , तच्च ज्ञानग्राहकेण गृहीतमेवेति न तत्संशयः । न चास्मिन्निश्चितेऽपि प्रामाण्यसंशयात् न तत्प्रामाण्यमिति वाच्यम् ।
एतन्निश्चयादेव निष्कम्पव्यवहारादिति चेत् , अस्तु तावदिदं प्रामाण्यम् , तथाप्यनुव्यवसायानन्तरं व्यवसायस्य प्रामाण्ये अर्थस्य तद्वत्त्वे च संशयस्यानुभवसिद्धत्वान्नार्थतद्वत्त्वं
तस्य विषयः।

ननु व्यवसायस्य इदंत्वरजतत्वविशिष्टेदंविषयत्वेऽनुव्यवसाय एव मानम्। तथा च यावद्व्यवसायोल्लिखितप्रकारविशिष्ट एव धर्मी अनुव्यवसाये भासते ।
अन्यथा विषयांशे तस्य निर्विकल्पकत्वे इदं रजतं जानामीति तदाकारो न स्यात् । अतो धर्मिणीदंत्वरजतत्ववैशिष्ट्यमनुव्यवसायेन गृहीतमिति धर्मिणि
स्वतःप्रामाण्यग्रहवद्रजतत्ववैशिष्ट्येपि स्वतःप्रामाण्यज्ञानमवर्जनीयम् अत एव धर्म्यंशे न कदापि प्रामाण्यसंशय इति चेत् ,

मैवम् – इदं रजतं च जानमीति नानुव्यवसायः, बहिर्विशेष्यके मनसोऽस्वातन्त्र्यात्।
किं त्विदमिदत्वेन रजतत्वेन जानामीति। तत्रेदत्वरजतत्वे प्रकारत्वेन भासेते। तत्प्रकारकज्ञानवत्त्वं चात्मनि भासते। अन्यथा प्रकारवाचितृतीयार्थासंभवः।
रजतत्ववैशिष्ट्यस्य तदर्थत्वे व्यवसायेपि तृतीयार्थोल्लेखापत्तिः।

तथा च धर्मिणीदत्वरजतत्वप्रकारज्ञानविषयत्वे ताद्दशज्ञानवत्त्वे चात्मनोऽनुव्यवसाय एव मानमिति न विषये तस्य निर्विकल्पकत्वम् । अत इदत्वरजतत्ववैशिष्ट्यं
पुरोवर्तिनि नानुव्यवसायविषय इति न स्वतः प्रामाण्यग्रहः । तस्मादनभ्यासदशापन्नज्ञानप्रामाण्यं परतो ज्ञायते सांशयिकत्वादप्रामाण्यवदित्याचार्याः ।

 

ननु स्वग्राह्यत्वेऽपि कदाचित्परग्राह्यत्वात् स्वस्याप्यन्यापेक्षया परत्वात् भट्टमते च परग्राह्यत्वात्सिद्धसाधनम् ।
न च ग्राह्यप्रामाण्यापेक्षया परत्वम् , ग्राहकस्यापि ग्राह्यप्रामाण्यत्वेन तदपेक्षया परत्वाभावात् , स्वग्राह्यप्रामाण्यापेक्षया परत्वे अप्रामाण्यप्रसङ्गात्।
उच्यते । अनभ्यासदशापन्नज्ञानप्रामाण्यं न स्वाश्रयग्राह्यम् स्वाश्रयातिरिक्तग्राह्यं वा ।

स्वाश्रये सत्यपि तदुत्तरतृतीयक्षणवृत्तिसंशयविषयत्वात् अप्रामाण्यसंशयाजन्यसंशयविषयत्वाद्वा अप्रामाण्यवत् । अर्थे निश्चितेऽपि न तन्निश्चयानन्तरतृतीयक्षणे
अर्थसंशयो न वा प्रामाण्यसंशयं विनेति नार्थे व्यभिचारः । विवादपदं न यावत्स्वाश्रयग्राहकग्राह्यम् स्वाश्रयनिश्चये सति तत्तदुत्तरतृतीयक्षणे अप्रामाण्यसंशयं विना वा
सन्दिह्यमानत्वात् अप्रामाण्यवत् ।

यद्वा अनभ्यासदशापन्नैतज्ज्ञानप्रामाण्यम् एतत्प्रामाण्यसंशयपूर्वकालीनैतद्ज्ञाननिश्चयाविषये एतज्ज्ञाननिश्चयानन्तरं संदिह्यमानत्वात् अप्रामाण्यवत् ।
न च स्वपदस्य प्रामाण्यमात्रपरत्वात् तदाश्रयाग्राह्यत्वेन बाधः । स्वपदस्य सम्बन्धिपरत्वेन समभिव्याहृतपरत्वात् । अन्यथा स्वस्य परत्वात् परस्य च स्वत्वात्
तदेतत्त्वस्य तदेतदन्यत्वस्य च स्वपरसाधारणत्वात् स्वतः बाधात् परिशेषणन्यथाग्राह्यत्वं परतो ग्राह्यत्वमिति कश्चित् । प्रथमं च प्रामाण्यज्ञानं व्यतिरेकिणा ।
ननु प्रामाण्यप्रसिदिं्ध विना व्याप्त्यग्रहात् कथमनुमानम् । अथ व्याघातदण्डभयेन प्रमातद्विषयसिद्धौ तद्दृष्टान्तेन ज्ञेयत्वादिना वह्नेः प्रमाविषयत्वमनुमेयम्।
ततश्च सामान्यतस्तत्सिद्धौै न साध्याप्रसिद्धिः । विशिष्यानिर्णयान्नान्वयित्वासाधारण्ये ।

न च प्रामाण्यं नानुगतम् किं तु प्रतिज्ञानं विषय प्रकारभेदात् भिन्नम् तथा च वह्निज्ञानस्य वह्नयवृत्तिप्रकारानवच्छिन्नत्वादिकं साध्यं तच्चाप्रसिद्धमिति वाच्यम्।
वह्निज्ञानस्य विशेष्यावृत्तिप्रकारानवच्छिन्नत्वादिकं साध्यमानं पक्षधर्मताबलेन वह्निविषयकप्रमात्वे पर्यवस्यतीति चेत् , तर्हि प्रथमं कस्यापि स्वार्थ प्रामाण्यानुमानं
न स्यात् प्रामाण्यनिषेधरुपस्य परकीयव्याधातस्य तदा अनुपस्थितेः । स्वयं प्रामाण्यनिषेधस्य तद्धीपूर्वकत्वात् प्रामाण्यमपरिज्ञाय प्रामाण्यनिषेधेन परकीयव्याघातस्याज्ञानाच्च।
प्रवृत्तिसंवादविसंवादाभ्यां तद्धेतुज्ञानवैचित्र्यानुमानेऽपि यथोक्तरूपप्रामाण्यस्य विशिष्याप्रतीतेरिति ।

उच्यते । प्राग्भवीयसंस्काराद्विशेष्यावृत्त्यप्रकारकत्वं तद्वति तत्प्रकारकज्ञानत्वं वा प्रामाण्यमात्रं स्मृतं वह्निज्ञानादौ साध्यमानं सर्वनाममहिम्ना पक्षधर्मताबलाद्वह्निज्ञानस्य
विशेष्यावृत्त्यप्रकारकत्वादौ पर्यवस्यति । स्वतः प्रामाण्यनिषेधे प्राथमिकप्रामाण्यज्ञानस्यान्यथोपपादयितुमशक्यत्वादिति संप्रदायविदः ।
वयं तु ब्रूमः- प्रथममप्रामाण्याभाव एव प्रामाण्यं व्यतिरेकिणा साध्यम् । तत एव निष्कम्पप्रवृत्तेरुपपत्तेः । तदेव वा सिध्यत् पक्षधर्मताबलेन तद्वति
तत्प्रकारकत्वादिकमादाय सिध्यति । तदनन्तरमर्थाद्वा सिध्यतीति वक्ष्यते । तथा हि – अयं वह्नित्वेनानुभवः – – न वह्नित्वाभाववति वह्नित्वप्रकारकः, अवह्निवृत्त्यप्रकारको
न, विशेष्यावृत्तिप्रकारको न, वह्नित्वप्रकारकत्वे सति वह्न्यविशेष्यको न, वह्नित्वव्यधिकरणप्रकारावच्छिन्नो न, वह्न्यवृत्तिप्रकारको न वा – – दाहसमर्थविषयकप्रयत्नजनकत्वे
सति वह्नित्वप्रकारकनिश्चयत्वात्, दाहसमर्थविशेष्यकवह्नित्वप्रकारकनिश्चयत्वाद्वा – – यन्नैवं तत्रैवं यथा वह्न्यप्रमा । तत्र बाधानन्तरं स्मृत्युपनीते भ्रमे वह्नित्वाभाववति
वह्नित्वेन मम ज्ञानं वृत्तमित्यप्रामाण्यं मनसैव परिच्छिद्यते मानान्तरेण वेति सर्वसिद्धम् ।

एवं वह्न्यप्रमायां वह्नित्वाभाववति वह्नित्वप्रकारकत्वादिसमर्थप्रवृत्तिजनकत्वाभावयोर्व्याप्तिग्रहेऽप्रामाण्यव्यापकहेत्वभावाभावरूपाद्धेतोरप्रामाण्याभावरूपं साध्यं
सिध्यति। यद्व्यापकतया हेत्वभावो गृहीतस्तदभाव एव हेतुना साध्यते । यत्र त्वभावस्य व्यापकता हेत्वभावस्य ज्ञायते साध्यप्रसिद्धिरङ्गम् , तां विना तदज्ञानात् । यत्र
तु भावव्यापकता हेत्वभावस्य तत्र न तदङ्गम् । तेन विनापि व्यतिरेकव्याप्तेर्ग्रहात् । अत एवेतरव्यापकता आकाशत्वाभावस्य गृहीतेत्याकाशत्वेनाप्रसिद्ध एवेतरान्योन्याभावः
सिध्यति ।

विशेषणज्ञानं विना कथं प्रामाण्यविशिष्टानुमितिरिति चेत् , प्रथमं न कथंचित् । ज्ञाने प्रामाण्यमित्यानुमित्यनन्तरं तेनैव हेतुना तत्रैव प्रामाण्यविशिष्टानुमितिः,
अभावविशेष्यकप्रतीत्यनन्तरमभाववद्भूतलमिति ज्ञानवत् । एवं चेदं वह्नित्वप्रकारकज्ञानं तद्वति तदभाववति वेति संशयानन्तरं तदभाववति तत्प्रकारकत्वव्यतिरेकः
सिध्यन् तत्प्रकारकतामादाय सिध्यति । तृतीयप्रकाराभावेन तेन विना साध्यस्योपसंहर्तुमशक्यत्वात् , ज्ञाननित्यत्ववत् ।

यद्वा इदं वह्नित्वप्रकारकज्ञानं वह्नित्ववद्विषयकं, वह्नित्वाभाववदविषयकत्वे सति सविषयकत्वात् , यन्नैवं तन्नैवं यथा वह्न्यप्रमेति व्यतिरेक्यन्तरात्तत्सिद्धिः ।
अतिरिक्तविषयतापक्षे अयं वह्नित्वेनानुभवोऽवह्निवृत्तिवह्नित्वप्रकारकविषयताको न, वह्नित्वासमानाधिकरणवह्नित्वप्रकारकविषयताको न, विषयताश्रयावृत्तिप्रकारको
न वेति साध्यम् । वह्निवृत्तिवह्नित्वप्रकारकविषयताकत्वं, विषयताश्रयवृत्तिप्रकारकत्वं वा अर्थात् सिध्यति, न तु प्रथमं, साध्याप्रसिद्धेः । वह्निभ्रमे च विषयताश्रयो
न वह्निः, विषयताया विशेष्यवृत्तित्वादिति भ्रमत्वेन न सिद्धसाधनम् ।

 

अन्ये तु वह्निभ्रमे या विशेषणवृत्तिर्विषयता सा विशेष्यवृत्तिविषयताया अभिन्नेति न सा वह्नित्वासमानाधिकरणधर्मानवच्छिन्नेति न सिद्धसाधनमिति। न च
मणिज्ञानस्य प्रामाण्यानुमाने मणिप्रभायां मणिभ्रमेण प्रवृत्तस्य मणिप्राप्तौ मणिगोचरप्रयत्नजनकमणित्वप्रकारकनिश्चयत्वमनैकान्तिकमिति वाच्यम् । मणिप्रभाविषयकज्ञानेन
भिन्नविषयतया मणिगोचरप्रयत्नानुत्पादात् । मणिप्राप्तिस्तु नान्तरीयकत्वात् । ज्ञानप्रयत्नयोरसमानकालत्वेऽप्यनुभवस्मरणयोरिव मनसा कार्यकारणभावग्रह इति नासिद्धिः।
अभावसाध्यके च निर्विकल्पकस्य प्रथमं सपक्षत्वेनानिश्चयान्नासाधारण्यम् । तथा इयं पृथिवीत्यनुभवः – – पृथिवीत्वाभाववति पृथिवीत्वप्रकारको न, अपृथिवीवृत्तिप्रकारको
न, विशेष्यावृत्तिप्रकारको न, पृथिवीत्वप्रकारकत्वे सति पृथिव्यविशेष्यको न, पृथिवीत्वव्यधिकरणप्रकारावच्छिन्नो न, पृथिव्यवृत्तिप्रकारको न वा – -गन्धवद्विशेष्यकपृथिवीत्वप्रकारकनिश्चयत्वादिति व्यतिरेकी । पृथिवीत्वभ्रमः पृथिवीत्वाभाववति पृथिवीत्वप्रकारक इति न भ्रमत्वेन सिद्धसाधनम् , न वा गन्धवद्विशेष्यक
इति न व्यभिचारः । पृथिवीत्ववति पृथिवीत्वप्रकारकत्वादिकमर्र्थात्सिध्यति । विषयतापक्षे अयं पृथिवीत्वेनानुभवः – – अपृथिवीवृत्तिपृथिवीत्वप्रकारकविषयताको न,
पृथिव्यवृत्तिपृथिवीत्वप्रकारकविषयताको न, पृथिवीत्वासमानाधिकरणपृथिवीत्वप्रकारकविषयताको न, विषयताश्रयावृत्तिप्रकारको न वेति साध्यम् ।
पृथिवीत्वसमानाधिकरणपृथिवीत्वप्रकारकविषयताकत्वादिकमर्थात् सिध्यति।

अन्ये तु पृथिवीत्वासमानाधिकरणप्रकारावच्छिन्नविषयताकत्वाभावः साध्यः, गन्धासमानाधिकरणाप्रकारकगन्धसमानाधिकरणप्रकारकविषयताप्रतियोगिज्ञानत्वात्।
तेन संशयव्यवच्छेदः। निश्चयत्वं वा तद्विशेषणमित्याहुः ।

शीता पृथिवीत्यनुभवः पृथिव्यंशे प्रमैव। प्रमाभ्रमरूपे च समूहालम्बने न व्यभिचारः। अंशे तस्यापि प्रमात्वात् , विशेष्यभेदेन विषयताभेदाच्च । न च प्रकारभेदेन
विषयताभेदः, मानाभावात्।

यत्तु – – इयं पृथिवीत्यनुभवः – – पृथिवीत्वसमानाधिकरणधर्मावच्छिन्नपृथिवीविशेष्यकविषयताकः, पृथिवीत्वव्यधिकरणधर्मानवच्छिन्नपृथिवीविशेष्यकविषयताकः,
पृथिव्यवृत्ति धर्मानवच्छिन्नपृथिवीवृत्तिविषयताको वा- -गन्धासमानाधिकरणधर्माप्रकारकविषयताप्रतियोगिज्ञानत्वात् , अगन्धवदवृत्तिपृथिवीत्वप्रकारकविषयताकत्वात् ,
गन्धसमानाधिकरणविषयताप्रतियो गिज्ञानत्वाद्वेति।

तन्न । साध्याप्रसिद्धेः । किं त्वर्थादेव तत्सिध्यति।
एवं यत्प्रकारव्याप्यतया यद्गन्धस्नेहसमर्थप्रवृत्तिजनकत्वकरचरणादिकमवगतं तद्वति तत्प्रकारकज्ञानत्वमेव प्रामाण्ये लिङ्गम् ।

ननु वह्निज्ञानस्य दाहसमर्थविषयत्वं न दाहसमर्थोऽयमिति व्यवसायगम्यम् , ज्ञानविषयतयोस्तदविषयत्वात् । नापि तदनुव्यवसायगम्यम् , पुरोवर्तिदाहसामर्थ्यस्य
तदगोचरत्वात् । व्यवसायोपनीतदाहसामर्थ्यस्य च भाने तदसामर्र्थ्यात् । अन्यथा व्यवसायोपनीतस्य पुरोवर्तिनि वह्नित्वस्यानुव्यवसायविषयत्वे स्वतःप्रामाण्यग्रहापत्तेः ।
एवं पृथिवीजलज्ञानयोर्गन्धस्नेेहवद्विषयकत्वग्रहोऽप्यनुपपन्न इति।

उच्यते । वह्नित्वप्रकारकज्ञानानुव्यवसाये सति तत्र विषये दाहसामर्थ्यज्ञानानन्तरं तत्स्मृत्युपनीते वह्निव्यवसाये स्मृत्युपनीतदाहसमर्थविषयकत्वम् । एवं
जलपृथिवीज्ञानयोः स्मृत्युपनीतयोः ज्ञानोपनीतस्नेहगन्धवद्विषयकत्वं मनसा परिच्छिद्यते । गन्धादिमत्येव मम पृथिवीत्वाद्यनुभव इति गन्धादिमत्त्वपरिच्छेदानन्तरमनुभवात्।
स्मृत्युपनीते धूमादौ व्याप्तिपरिच्छेदवत् , चक्षुषा चन्दने सौरभज्ञानवच्च।

तर्हि पृथिवीत्वज्ञाने गन्धवद्विशेष्यकत्वात् चक्षुषा गन्धवति पृथिवीत्वोपनयानन्तरमियं पृथिवीति पृथिवीत्वप्रकारकानुभवे उपनीते पृथिवीत्ववति पृथिवीत्वप्रकारकत्वम्।
तथा तत्रैव ज्ञाने घटत्वप्रकारकताविरहवत् पृथिव्यवृत्तिप्रकाराभाववत्त्वं, विशेष्यावृत्तिप्रकाराभाववत्त्वं वा प्रामाण्यं मनसैव परिच्छिद्यतामिति स्वत एव प्रामाण्यग्रह इति
चेत्, न। ज्ञानान्तरोपस्थापितज्ञानवृत्तिप्रामाण्यग्रहे परतस्त्वानपायात्।

यावज्ज्ञानग्राहकसामग्रीग्राह्यत्वम् , यावत्स्वाश्रयग्राहकग्राह्यत्वम् , तज्ज्ञानविषयकजन्यज्ञानाजन्यजन्यज्ञानग्राह्यत्वं वा स्वतस्त्वम् । तदन्यथाग्राह्यत्वं तु परतस्त्वम्।
मनसा चैवं प्रामाण्यग्रहस्याभ्युपगमे तज्ज्ञानविषयकजन्यज्ञानजन्यज्ञानग्राह्यत्वान्न परतस्त्वहानिः। व्यतिरेक्यनन्तरं तज्जातीयत्वेनान्वयिना ग्राह्यत्वान्न प्रामाण्यानुमानम् ।
यथा इदं शरीरज्ञानं प्रमा करचरणवति शरीरज्ञानत्वात् स्वशरीरज्ञानवत्। न च करचरणान्तरवति करचरणान्तरवत्त्वज्ञाने व्यभिचारः, शरीरांशे तस्य प्रमात्वात् ।
एतेन करचरणवति शरीरज्ञानत्वादित्यत्र करचरणवत्त्वं नोपलक्षणम् , व्यावृत्तोपलक्ष्याभावात् । न च विषयता ज्ञानविशेषणम्, करचरणवत्त्वप्रकारकशरीरज्ञानत्वस्य
व्यभिचारात् , शरीरमिति ज्ञाने तदसिद्धेश्च । विषयविशेषणत्वे करचरणवद्विषयकशरीरज्ञानत्वस्य व्यभिचारात्। शरीरभ्रमस्यापि वस्तुतः करादिमद्विषयकत्वात् । नापि
करचरणादिशून्ये यच्छरीरत्वेन ज्ञानं तदन्यत्वे सतीति विवक्षितम् । शून्य इत्यत्र विषयत्वं सप्तम्यर्थ इति करचरणशून्यविषयकशरीज्ञानान्यशरीरज्ञानत्वादित्यर्थः । तथा
चासिद्धिः। शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् । न वा करचरणशून्ये यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् । तृतीयार्थस्य विषयत्वे उक्तदोषात्
अन्यस्यासम्भवादिति निरस्तम् ।

करचरणवद्विशेष्यकशरीरत्वप्रकारकज्ञानत्वस्य हेतुत्वात् । शरीरभ्रमे च करचरणवतः शरीरस्य विशेषणत्वात् ।
विषयतापक्षे करचरणादिशून्यनिष्ठशरीरत्वप्रकारकविषयताप्रतियोगित्वशून्यत्वे सति शरीरज्ञानत्वादिति हेतुः ।

ननु नान्यगृहीतप्रामाण्यं ज्ञानं परप्रामाण्यनिश्चयरूपम् , अनवस्थानात् । नापि स्वज्ञायमानप्रामाण्यम्, स्वतःप्रामाण्यग्रहापत्तेः। अतोऽगृहीतप्रामाण्यमेव ज्ञानं
परप्रामाण्यनिश्चयरूपमास्थेयम् । तथा च व्यवसायोऽप्यगृहीतप्रामाण्य एव स्वविषयं निश्चाययतु । किं विषयनिश्चयार्र्थं तत्प्रामाण्यनिश्चयेन । अथ व्यवसायस्याप्रामाण्यदर्शनान्न

 

तन्मात्रादर्थनिश्चयः । तर्हि प्रामाण्यानुमितेरप्यप्रामाण्यदर्शनान्न ततोऽपि प्रामाण्यनिश्चय इति चेत् , न ब्रूमो ज्ञानप्रामाण्यनिश्चयादेवार्थनिश्चय इति । किं तु
यत्राप्रामाण्यशङ्का नास्ति करतलामलकादिज्ञाने तत्र व्यवसाय एवार्थनिश्चय इति तत एव प्रवृत्तिर्निष्कम्पा । यत्रानभ्यासदशायां प्रामाण्यसंशयेनार्थनिश्चयं परिभूयार्थसंशयः,
तत्र प्रामाण्यनिश्चयाधीनज्ञानादर्र्थं निश्चित्य निष्कम्पं प्रवर्तते, नान्यथेति सर्वानुभवसिद्धम् ।

अत एवागृहीतप्रामाण्यमेव ज्ञानं परप्रामाण्यं निश्चाययति । अप्रामाण्यशङ्काकलङ्काभावात् । यत्र तु प्रामाण्यज्ञाने अप्रामाण्यशङ्कया प्रामाण्यसंशयस्तत्र
प्रामाण्यज्ञाने प्रामाण्यनिश्चयादेव प्रामाण्यनिश्चयः । एवं यावदप्रामाण्यशङ्कं तज्ज्ञानप्रामाण्यनिश्चयादेव तन्निश्चयः । न चैवमनवस्था । चरमज्ञानप्रामाण्य(ज्ञानज्ञान)स्य
ज्ञानाभावेन कोटिस्मरणाभावेन विषयान्तरसंचारेण वा प्रामाण्यसंशयानवश्यम्भावात् ।

अन्यथा भट्टमते प्रामाण्यस्य ज्ञानानुमितिग्राह्यत्वेनानवस्था स्यात् । गुरुमतेऽपि प्रामाण्यस्य स्वग्राह्यत्वं न स्वग्राह्यम् , स्वरूपप्रामाण्याभ्यां बहिर्भूतत्वात्,
परग्राह्यत्वेऽनवस्थानात्। किं तु परिशेषानुमानेन प्रमाणान्तरेण वा ग्राह्यम् । तथा च तत्प्रामाण्यस्यापि स्वग्राह्यत्वमन्येनैवेत्यनवस्थैव ।
यत्तु – – व्यवसायस्य प्रामाण्यनिश्चयादेव प्रवृत्तेर्न तस्यापि प्रामाण्यानुसरणमिति नानवस्था । न च प्रामाण्यसंशयादौचित्यावर्जितो विषयसंशय इति वाच्यम् ।
निश्चिते संशयाभावात् । अन्यथा स्वतो ग्रहेऽपि तत्संशयेऽनवस्थेति ।

तदसत् । यदि प्रामाण्यसंशयान्न विषये संशयो निश्चितत्वात् , तदा विषयनिश्चयार्थं प्रामाण्यनिश्चयो व्यर्थः। प्राथमिकविषयनिश्चयादेव निष्कम्पप्रवृत्त्युपपत्तेः ।
नहि विषयसंशयमनादृत्य प्रामाण्यनिश्चयः प्रवृत्तिहेतुरित्युक्तम् । अन्यसंशयादन्यत्र निश्चिते कथं संशय इति चेत् , अनुभवं पृच्छ। येन स्वसाक्षिकमेव प्रामाण्यसंशयस्य
विषयसंशयहेतुत्वमनुमतम्। ज्ञानविषयत्वमपि प्रामाण्यसंशयमासाद्य विषयसंशायकम् ।

ननु लिङ्गपक्षव्याप्त्यादीनां ज्ञानस्य प्रामाण्यावधारणेऽनवस्था, अनवधारणे हेत्वसिद्धिः। अथ लिङ्गादिज्ञानं स्वविषयावधारणे कर्तव्ये स्वप्रामाण्यज्ञानं नापेक्षते,
अनुमानमात्रोच्छेदप्रसङ्गात् । लिङ्गादिनिश्चयस्य च स्वकारणाधीनस्य सर्वसिद्धत्वादिति चेत् , न । प्रामाण्यसंशयेन लिङ्गस्यापि संदेहात् । न हि न लिङ्गज्ञाने
प्रामाण्यसंशयः, अविरोधादिति ।

उच्यते । अप्रामाण्यशङ्काकलङ्काभावे लिङ्गादिज्ञानस्यैवार्थनिश्चायकत्वात्, तत्कलङ्के तूक्तैव गतिः।
यत्तु – – व्यवसाये क्वचिदप्रामाण्यशङ्का भवति, क्वचिन्नेति – – त्वयापि वाच्यम् ।

एवं बहुवित्तव्ययायाससाध्ये स्वर्गसाधनं याग इति ज्ञानं न गृहीतप्रामाण्यं प्रवर्तकम् , प्रामाण्यानुमितेः पूर्वमेव तस्य विनाशात् । किं तु
तज्ज्ञानसमानविषयकमप्रामाण्यशङ्काशून्यं ज्ञानान्तरमेव ।

नन्वेवं बहुवित्तव्ययायाससाध्ये निष्कम्पप्रवृत्तावनुपयोगित्वात् निष्फलं प्रामाण्यज्ञानमिति किं तदुपायानुसरणेनेति चेत् , न । स्वर्गसाधनं याग इति ज्ञानप्रामाण्ये
निश्चिते तत्समानविषयकज्ञानान्तरे अप्रामाण्यशङ्का न भवतीति ज्ञानान्तरमगृहीतप्रामाण्यमपि स्वार्थनिश्चयरूपं निष्कम्पप्रवृतिं्त जनयतीत्यप्रामाण्यशङ्काप्रतिबन्धद्वारा
निष्कम्पप्रवृत्तावुपयुज्यते प्रामाण्यज्ञानमिति न निष्फलम् ।

यत्तु – – अनुमानस्य निरस्तसमस्तविभ्रमाशङ्कस्य स्वतः एव प्रामाण्यग्रह इत्युक्तम् । तत् धूमवति वह्निज्ञानत्वमनुमितेः प्रामाण्यनियतमनुव्यवसायोपनीतम् ।
अतो विशेषदर्शनान्न तत्राप्रामाण्यशङ्केति प्रामाण्यनिश्चयादेवाप्रामाण्यशङ्काविरहात् अर्थं निश्चित्य निष्कम्पव्यवहार इत्यभिप्रायः ।
वस्तुतस्तु परतः पक्षे न क्वचिदपि प्रामाण्यग्रहः प्रवर्तक इति । एवमनुव्यवसायस्य प्रामाण्यनियतत्वान्न प्रामाण्यशङ्का । न ह्यजानन् जानामीति प्रत्येति । न
वा घटज्ञाने पटं जानामीति । भ्रमेऽप्यनुव्यवसायेन रजतत्वादिकं व्यवसायप्रकारत्वेनोल्लिख्यते। तच्च तथैव ।

यत्तु – – अभ्यासदशायां झटिति प्रचुरतरनिष्कम्पप्रवृत्तिदर्शनात् प्रामाण्यं स्वत एव गृह्यते, अन्यत्र तु परत इति । तन्न। विशेष्यनिष्ठात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नत्वादिकं
प्रामाण्यं स्वतो ग्रहीतुमशक्यमिति परत एव गृह्यते । झटिति प्रवृत्तिस्तु करचरणादिमति शरीरज्ञानत्वादेर्विशेषस्यानुव्यवसायेन ग्रहादप्रामाण्यशङ्काशून्यात् व्यवसायादेव, न
प्रामाण्यज्ञानं प्रवर्तकमित्युक्तम् । झटिति तत्समवधानं तु स्वकारणाधीनम् । न हि पिपासूनां झटिति प्रचुरतरा समर्था च प्रवृत्तिरम्भसीति पिपासोपशमनशक्तिरस्य प्रत्यक्षा
इति ।

॥ इति श्रीगङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे प्रामाण्यज्ञप्तिवादः॥


अथ प्रामाण्यवादे उत्पत्तिवादः

उत्पद्यतेऽपि प्रामाण्यं परतो न तु स्वतो ज्ञानसामग्रीमात्रात् । तज्जन्यत्वेऽप्रमापि प्रमा स्यात् । अन्यथा ज्ञानमपि सा न स्यात् । ज्ञानसामग्र्यां दोषानुप्रवेशादप्रमेति
चेत्, तर्हि ज्ञानविशेषवदप्रमा प्रमाविशेषः स्यात् , ज्ञानसामग्रीजन्यत्वात् । तस्मात् प्रमाप्रमयोर्वैचित्र्यात् गुणदोषजन्यत्वम् ।
अथ यत्र गुणदोषौ विना तयोरभावस्तत्र ज्ञानसामग्र्येव नास्ति । तत्सत्त्वे ज्ञानमात्रोत्पत्तिप्रसङ्गादिति चेत् , न । विशेषविनाकृतसामान्यकार्र्याभावात् ।
तत्सामग्रीमादाय हि सामान्यसामग्री तां विना नास्त्येव वा। अन्यथा कार्यविशेषे कारणविशेषोच्छेदः ।

ननु यथा एकजातीयसामग्रीसत्त्वेेऽपि घटयोर्भेदो यमजयोर्वैधर्म्यं च, तथा प्रमाप्रमयोर्भेदो वैधर्म्यं च भविष्यति ।
अथानुगतव्यवहारात् प्रमात्वमनुगतमिति प्रमामात्रेऽनुगतो हेतुर्वाच्यः, अनुगतकार्यस्याननुगतादनुत्पत्तेरिति चेत् , न । प्रमात्वस्योपाधित्वेन कार्यतावच्छेदकत्वे
मानाभावात्। कार्यमात्रवृत्तिधर्मत्वस्य नीलघटत्वघटज्ञानत्वादौ व्यभिचारात् ।

अथ प्रमा ज्ञानहेत्वतिरिक्तहेतुजन्या जन्यज्ञानत्वादप्रमावत् इति चेत्, न । प्रमाया ज्ञानस्य तद्धेतुजन्यतया साध्ये बाधात् , ज्ञानाजनकजन्यत्वे विरोधात् , अप्रमायां
तदसिद्धेः, व्यर्थविशेषणत्वात् व्यावर्त्याप्रसिद्धेः । किं च यत्किंचिज्ज्ञानहेत्वपेक्षया सर्वतद्धेत्वपेक्षया वा अतिरिक्तत्वे इन्द्रियादिभिः सिद्धसाधनात् ।
नापि ज्ञानसामान्यसामग्र्यतिरिक्तसामग्रीजन्येति साध्यम् । पूर्ववत् सिद्धसाधनात्, विरोधाच्च । न च सामान्यविशेषयोः सामग्रीद्वयम् , प्रमाया ज्ञानभिन्नत्वापत्तेः।
अन्यथा सामग्रीभेदासिद्धिः, तस्य कार्यभेदकल्प्यत्वात् ।

एतेन ज्ञानसामान्यहेत्वतिरिक्तहेतुजन्येति साध्यं प्रत्युक्तम् ।
सकलज्ञानाभिप्राये चेन्द्रियादिभिः सिद्धसाधनम्। ज्ञानत्वाभिप्राये हेत्वसिद्धिः । नापि ज्ञानत्वावच्छिन्नकार्यत्वान्यकार्यत्वप्रतियोगिककारणजन्येति साध्यम् ।
ज्ञानत्वस्य नित्यवृत्तितया कार्यत्वानवच्छेदकत्वात् ।

अथ यद्धर्माश्रयस्यासतः सत्त्वं हेत्वधीनं तत्कार्यतावच्छेदकम् , ज्ञानत्वं च तथा । न चासत इत्यधिकम् , व्योमादिसाधारणसत्त्वमात्रस्य हेत्वनियम्यत्वादिति चेत्,
न। यदालिङ्गितस्य स्वरूपं हेत्वधीनं तत्कार्यतावच्छेदकं लाघवात् , ज्ञानत्वं तु न तथा ।

अनित्यज्ञानत्वेतिकरणे इन्द्रियादिभिर्यथायथं सिद्धसाधनम् । तेषां प्रत्येकं ज्ञानमात्राहेतुत्वात् ।
एतेन प्रमात्वं ज्ञानत्वावच्छिन्नकार्यतानिरूपितकारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदकं ज्ञानत्वसाक्षाद्व्याप्यधर्मत्वात् अप्रमात्ववदिति निरस्तम् । प्रमात्वस्य
नित्यवृत्तित्वात् ।

अनित्यप्रमात्वं तथा कार्यमात्रवृत्तिधर्मत्वादित्यपि नीलघटत्वादिना व्यभिचारि ।
अनित्यप्रमा प्रमाप्रमोभयहेतुभिन्नहेतुजन्या जन्यत्वात् अप्रमावदिति चेत् , न । दोषस्य पित्तादेः स्वविषयप्रमाहेतुत्वेनाप्रमायां साध्याप्रसिद्धेः । घटदृष्टान्तत्वेे तयैव
व्यभिचारात् । शङ्खाद्यंशे पीतः शङ्ख इति ज्ञानस्यापि प्रमात्वात् , कारणव्यक्तिभेदजन्यत्वेन सिद्धसाधनाच्च ।

अथ प्रमा अप्रमाव्यावृत्तधर्मावच्छिन्नकार्यत्वप्रतियोगिककारणजन्या अप्रमाविजातीयकार्यत्वात् घटवत् । यदि प्रमा अप्रमात्वासमानाधिकरणरूपनिरूपितकार्य
त्वप्रतियोगिककारणजन्या न स्यात् , अप्रमा स्यादिति चेत् , न । अप्रमाव्यावृत्तधर्मावच्छिन्नकार्यत्वं संयोगस्य तत्प्रतियोगिककारणमिन्द्रियादीति तज्जन्यत्वेन सिद्धसाधनात्।
अप्रमासाधारणव्यक्तिजन्यत्वं चाग्रेऽप्रमातादात्म्ये प्रयोजकमिति तर्र्कोेऽप्यप्रयोजकः ।

अथानित्यप्रमा प्रमाप्रमान्यतरप्रतिबन्धकजन्या, प्रमाप्रमान्यतरत्वात् अप्रमावत् , चाक्षुषप्रमा चाक्षुषभ्रमाजनकजन्या अनित्यप्रमात्वात् रासनप्रमावत् इति चेत् ,
न। प्रमाजनकासाधारणव्यक्तिभेदस्याप्रमाप्रतिबन्धकत्वेन चाक्षुषभ्रमाजनकत्वेन च सिद्धसाधनात् ।

एतेन प्रमा स्वविरोध्यनुभवप्रतिबन्धकजन्या अनित्यानुभवत्वात् अप्रमावत् । दुरात्पुरुषस्य स्थाणुतया ज्ञाने संनिधौ च भूयोऽवयवेन्द्रियसंनिकर्षस्य
विरोधिस्थाण्वनुभवप्रतिबन्धकत्वं पुरुषज्ञानजनकत्वं च दृष्टम् । अप्रमायां तु पित्तादेर्लिङ्गादिभ्रमस्य च तथात्वमिति निरस्तम् ।
प्रमाजनकव्यक्तिविशेषस्याप्रमाप्रतिबन्धकत्वं प्रमाजनकत्वं चास्तीति सिद्धसाधनादिति न प्रमायामतिरिक्तगुणसिद्धिः ।

किं च प्रत्यक्षप्रमादौ अनुगतस्यार्थान्तरस्य गुणस्याभावः । इन्द्रियसंनिकर्षादीनां चाननुगमः । न च जात्यैव गुणदोषौ, प्रमाजनकत्वं गुणत्वं भ्रमजनकत्वं च
दोषत्वमतिप्रसक्तम् । तन्मात्रजनकत्वं चासिद्धमिति।

॥ इति श्रीगङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे ॥


प्रामाण्यवादे उत्पत्तिवादपूर्वपक्षः

अथ उत्पत्तिवादसिद्धान्तः

उच्यते । एवमप्रमापि स्वत एव स्यान्न तु परतः, प्रमावदसाधारणकारणादेव तदुत्पत्तौ दोषस्य तत्राहेतुत्वात् ।
अथ ज्ञानसामग्रीसत्त्वेऽपि विशेषादर्शनादिपित्तादेरनुविधानादप्रमायां दोषो हेतुरिति चेत् , तर्हि विशेषदर्शनपित्ताद्यभावादितः तत्रैव विषये प्रमा तदभावान्नेति
प्रमायामागन्तुककारणापेक्षेति कथं न परतस्त्वम् । अपि च नियमगर्भः कार्यकारणभावः। नियमश्च न व्यक्त्योरेव, व्यभिचारादतिप्रसङ्गाच्चेति नियमनिरूपकमनुगुणमनुगतमास्थेयम्।
एवं चाप्रमायामिव प्रमायामपि तद्व्यावृत्तं कारणमनुगतमास्थेयम् ।

किं च यत्कार्र्यं यत्कार्यविजातीयं तत् तत्कारणविजातीयकार्यजन्यम् , यथा घटविजातीयः पटः । अन्यथा कार्यवैजात्यस्य आकस्मिकत्वापत्तेः। घटज्ञानजातीयमपि
कार्र्यं तद्विजातीयकार्यकारणविजातीयघटेन्द्रियसंनिकर्षादिजन्यमिति न व्यभिचारः ।

एवं चानित्यप्रमा अप्रमाकारणविजातीयकारणजन्या अप्रमाविजातीयकार्यत्वात् , घटवत् । एवं चानुगतस्य प्रमाहेतुत्वे प्रमा स्वविरोध्यनुभवप्रतिबन्धकजातीयजन्या
जन्यानुभवत्वात् अप्रमावदित्यादावपि न सिद्धसाधनम् ।

अपि चानित्यप्रमात्वं कार्यतावच्छेदकम् , बाधकं विना कार्यमात्रवृत्तिधर्मत्वात् , अप्रमात्ववत् । नीलघटत्वं तु विशिष्टं न कार्यतावच्छेदकम् , प्रत्येकानुगतप्रयोजकद्वयादेव
विशिष्टसिद्धिरार्थः समाजः । घटज्ञानत्वादौ तु बाधकम् । अस्तु वा तत्राप्यनुगतभोजकादृष्टहेतुकत्वम्। अन्यथा कार्यमात्रे नादृष्टं हेतुः स्यात् ।
एवमनित्यप्रमात्वम् अनित्यज्ञानत्वावच्छिन्नकार्यत्वप्रतियोगिककारणताभिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , अनित्यज्ञानत्वव्याप्यकार्यतावच्छेदकधर्मत्वात्
अप्रमात्ववत् इत्यनित्यप्रमायामप्रमाव्यावृत्तानुगतहेतुसिद्धिः । अन्यथा अनुगतकार्यानुपपत्तेः ।

तथा अनित्यप्रमात्वम् अप्रमाकारणतानवच्छेदकरूपावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , भ्रमावृत्तिकार्यतावच्छेदकत्वात् घटत्ववत्। चाक्षुषप्रमात्वं
चाक्षुषाप्रमाकारणतानवच्छेदकरूपावच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , चाक्षुषभ्रमावृत्तिकार्यतावच्छेदकत्वात् घटत्ववत्। अनित्यरजतप्रमात्वं रजताप्रमाकारणता
वच्छेदकरूपानवच्छिन्नकारणताप्रतियोगिककार्यतावच्छेदकम् , रजतभ्रमावृत्तिकार्यतावच्छेदकत्वात् घटत्ववत् । अन्यथा नियामकं विना चाक्षुषादिरजतज्ञानं किंचिद्रजतवृत्तिप्रकारकं
किंचिद्रजतावृत्तिप्रकारकमिति नियमो न स्यात् । ज्ञानसामग्र्यास्तुल्यत्वात् ।

यत्तु – – प्रमाया असाधारणकारणजन्यत्वे साध्ये प्रमान्यत्वमुपाधिः । न च पक्षेतरत्वम् । तव ईश्वरज्ञानस्य प्रमात्वात् पक्षस्य व्यावर्त्यत्वात् । उभयसिद्धव्यावर्तकत्वं
तन्त्रम् , न तु व्यावर्त्यस्य उभयसिद्धिः, गौरवात् । व्यतिरेकेऽसाधारणत्वं च पक्षेतरत्वस्यानुपाधित्वे बीजम् । तच्चात्र नास्ति । भगवज्ज्ञानस्य त्वत्संमतस्य
सपक्षत्वादिति।

तन्न । विपक्षबाधकबलेन हेतोः साध्यव्याप्यत्वेनोपाधेः साध्याव्यापकत्वात्।
नन्वस्तु प्रमायां दोषाभावो हेतुः, आगन्तुकभावानपेक्ष्यज्ञानसामग्रीजन्यत्वं स्वतस्त्वम्। यत्तु अभावो न कारणम्। किंतु दण्डत्वादिवत्कारणतावच्छेदकत्वेन
सामग्रीभेदोपलक्षक इति। तन्न । जपाकुसुमादिसंनिधौ न प्रमा, तदसंनिधौ स्फटिकादौ प्रमोत्पत्तेरनन्यथासिद्धत्वेन हेतुत्वादिति चेत् ,
न। भूयोऽवयवेन्द्रियसंनिकर्षविशेषदर्शनादिसमवधाने प्रमा तदभावे त्वप्रमेति प्रमायां गुणः, अप्रमायां तदभावो हेतुरित्येव किं न स्यात्।
अथासदर्थविषयकत्वे सदर्थविषयहेत्वभावो न प्रयोजकः, ज्ञाने सदर्थविषयतानियमेन तदसंभवात्। सदर्थविषयकत्वेऽसदर्थविषयकारणाभावो हेतुः संभवति।
प्रमायाः सदर्थमात्रविषयत्ववदप्रमायामसदर्थमात्रविषयत्वाभावादिति चेत् ,।

तर्ह्यप्रमायाः सदर्थविषयता न स्यात् , हेत्वभावात्। सदर्थमात्रविषयत्वे असदर्थविषयहेत्वभावो हेतुरिति चेत् , तर्हि गुण एव तत्र हेतुः । तदभावस्त्वसदर्थविषयत्वे
प्रयोजक इत्यस्तु।

ननु गुणाभावस्य साधारणत्वात्तदेव सत्यमसत्यं च न स्यात् , गुणतदभावयोरेकत्रासत्त्वादिति चेत् , न । दोषाभावेऽपि तुल्यत्वात् । क्वचित्कश्चिद्दोष इति गुणेऽपि
समानम् ।

गुणाभावदसन्मात्रविषयकमपि ज्ञानं स्यादिति चेत् , न । दोषादप्यसन्मात्रविषयकज्ञानापत्तेः । सर्वत्र विषये दोषो न संभवतीति गुणाभावेऽपि तुल्यम् ।
अथ विशेषदर्शनादिर्गुणस्तदभावश्चाननुगत इति न तौ प्रमाप्रमाहेतू, किं तु दोषतदभावाविति चेत् , तर्हि पित्तादिर्दोषस्तदभावश्चाननुगत इति तावपि न तत्र हेतू।
स्वप्रमायां स्वाभावस्य व्यभिचारश्च।

16

अथ दोषत्वं नैकम् । न हि तत्तद्भ्रमहेतुत्वं तत् , आत्मादौ गतत्वादननुगमाच्च। नापि भ्रममात्रहेतुत्वम् , पित्तादेरननुगतत्वेन तदभावादसंभवाच्च । नापि
प्रमाहेत्वभावप्रतियोगित्वम्, अन्योन्याश्रयात् , पित्तादेः स्वप्रमाहेतुत्वाच्च । नापि स्वप्रमाभिन्नप्रमाप्रतिबन्धकत्वम् । एवं हि प्रत्यक्षप्रतिबन्धकस्य सल्लिङ्गपरामर्शस्य
दोषत्वादनुमितिः प्रमा न स्यात् , भ्रमश्च स्यात् । तस्मात् क्वचित् कश्चिद्दोष इति चेत् ,

तर्हि गुणेऽपि तुल्यम् । स्यादेतत् , प्रमां भ्रमं चाकुर्वति ज्ञानहेतुस्तोमे मण्डूकवसाञ्जनदोषात् वंशोरगविभ्रमः, तदभावे वंशप्रमेति तत्र दोषाभावः प्रमाहेतुरित्यान्यत्रापि
तथा, क्लृप्तत्वात् ।

मण्डूकवसा (च) नयन एव दोषः न त्वचीति तत्र दोषाभावात् त्वचा वंशप्रमैव । गौरोऽहमित्यभेदभ्रमहेतुदोषसंस्कारसत्त्वेऽपि मम शरीरमिति प्रमेति चेत् , न ।
विशेषादर्शनस्य तत्र हेतुत्वम् , न तु संस्कारस्य, तदसत्त्वे तदसिद्धेः । न च दूरे चक्षुषः संनिकर्षेऽपि केशादौ सजातीयसंयोगे प्रमा, तदभावे नेति तत्र संयोगरूपो गुणः
प्रमाहेतुरित्यन्यत्रापि गुणजन्यतेति वाच्यम् । तावद्देशवर्तिकेशसाक्षात्कारे स हेतुः, तेन विना तदभावात् । तवापि तावद्दूरप्रमायां स हेतुः संनिकृष्टकेशप्रमायास्तेन विनापि
भावात्। तत्रापि वा दोषाभावः कल्प्यो दोषजन्यत्वे अप्रमात्वापातात् ।

ननु विशेषदर्शनं प्रमाहेतुः, विशेषादर्शनस्य दोषत्वे तदभावस्य हेतुत्वादिति चेत् , तर्हि दोषाभावत्वेन स हेतुः न तु गुणत्वेन भावत्वेन वा ।
किं च विशेषदर्शनप्रतिबन्धकाः पित्तादयो दोषाः आवश्यकत्वात् , न विशेषादर्शनम् । न च तेषामननुगतत्वेन विशेषदर्शनप्रतिबन्धकतयानुगमे लाघवाद्विशेषादर्शनमेव
हेतुरिति वाच्यम् । क्वचित् कश्चित् दोष इत्यनुगमात् । अन्यथा पित्तादितोऽप्यप्रमा न स्यात् । अननुगमात् । मण्यादेरिवाननुगमेऽप्यदोषत्वाच्च। तदभावकूटस्य
हेतुत्वात्। सर्वत्र विशेषादर्शनमेव हेतुः, पित्तादेरननुगमेन तत्रोपक्षयादिति चेत् , न। पित्ताद्युत्कर्षेण भ्रमोत्कर्षात् । पित्तादेरदोषत्वे च विशेषप्रमैव कुतो न भवति ।
विशेषस्य विशेषान्तरादर्शनादिति यदा, तदा अनवस्थैव ।

किंच विशेषदर्शनं न प्रमामात्रे न वा प्रत्यक्षप्रमायां हेतुर्व्यभिचारात् । तत्रैव तद्धेतुत्वेऽनवस्थापाताच्च ।
अथ प्रत्यक्षे इन्द्रियसंनिकर्षो गुणः अप्रमांशे तदर्थस्यासत्त्वेन संनिकर्षाभावात् दोषो हेतुः । न च प्रमांशेऽपि स हेतुः, अदोषत्वप्रसङ्गात् , प्रमांशस्याप्रमात्वप्रसङ्गाच्च।
साक्षात्कारित्वं चेन्द्रियसंनिकर्षजन्यत्वादिति चेत् , न । ज्ञाने विषयरूपस्यांशस्येन्द्रियतद्दोषाजन्यत्वात् अप्रमांशे चेन्द्रियसंनिकर्षाभावेन साक्षात्कारित्वं न स्यात्।
दोषस्य तद्धेतुत्वेऽतिप्रसङ्गोऽननुगमश्च । प्रमायां च याथार्थ्यप्रयोजकमस्ति अप्रमायां दोषवदिति चेत् , न। दोषाभावस्य सत्त्वादिति ।
उच्यते । प्रमामात्रे नानुगतो गुणः, किं तु तत्तत्प्रमायां भूयोऽवयवेन्द्रियसंनिकर्षयथार्थलिङ्गसादृश्यवाक्यार्थज्ञानानां यथायथं प्रत्येकमेव गुणत्वम् , अन्वयव्यतिरेकात्।
तत्तदप्रमायां पित्तादिलिङ्गभ्रमादीनां दोषत्ववत् प्रत्यक्षे विशेषदर्शनमपि गुणः, तदनुविधानात् ।

ननु विशेषदर्शनहेतुरेव तद्धेतुरस्तु , तद्व्यतिरेकादेव तदभावोपपत्तेः । अन्यथा विशेषदर्शनमेव तत्र कुतो न स्यात् । तत्रापि तदपेक्षायामनवस्थानादिति चेत् , एवं
व्याप्यविषयकव्यापकप्रत्यक्षनियमे अनुमिताविव पुरुषप्रत्यक्षे प्रामाण्यसंशयो न स्यात् , करादिमति पुरुषज्ञानत्वस्यानुव्यवसायेन निश्चयात् । तवापि विशेषदर्शनं विना
कथं व्यापकप्रत्यक्षमिति चेत् -, न । संशयविपर्ययोत्तरप्रमायां तस्य हेतुत्वात् । ममापि तद्धेतुस्तत्रैव हेतुरिति चेत् , न । करचरणचिबुकादीनां प्रत्येकं विशेषत्वेन
तद्धेतूनामननुगततया ताद्दशप्रत्यक्षे अहेतुत्वात् । तद्दर्शनेषु च व्याप्यदर्शनत्वमनुगतमस्ति।

नन्वेवं संशयोत्तरं व्याप्यज्ञाने सत्यनुमितिः स्यात् , न प्रत्यक्षमनुमितिसामग्र्या बलवत्त्वादिति चेत् , न । अन्यत्र तथात्वेऽप्यत्र प्रत्यक्षसामग्र्या बलवत्त्वात् । तत्र
पुरुषं पश्यामीत्यनुव्यवसायात् । अत एव विशेषदर्शनजन्यत्वेन ज्ञातं बाधकम् । तद्दर्शनजन्यं बाध्यम् । अन्यथा बाध्यबाधकव्यवस्था न स्यात् ।
न च प्रमा बाधिका, करभ्रमजन्यपुरुषज्ञानस्यापि स्थाणुज्ञानबाधकत्वात् । नापि विपरीतबोधकत्वेन बाधकम् , बाध्यतुल्यत्वात् । अनन्यथासिद्धं बाधकमिति
चेत् , न। विशेषदर्शनजन्यत्वस्यैव तदर्थत्वात् ।

न च पीतः शङ्ख इत्यत्र विशेषदर्शनेऽपि श्वैत्यप्रमा नेति न तद्धेतुः । यद्विशेषदर्शनं हि भ्रमविरोधि तद्भावः प्रमाहेतुः ।
प्रत्यक्षभ्रमे च प्रत्यक्षविशेषदर्शनं विरोधि । दिङ्मोहे गौरोऽहमिति भ्रमे च तथा दर्शनात् । तच्च तत्र दोषान्नास्ति ।

अपि च लिङ्गसादृश्यवाक्यार्थभ्रमदोषाभावमात्रान्नानुुमित्यादिरिति सत्यपरामर्शादिगुणसिद्धिः ।
एवं प्रमायाः गुणजन्यत्वेन वेदेऽपि प्रमा वाक्यार्थयथार्थज्ञानगुणजन्येति तदाश्रयेश्वरसिद्धिः ।

17

ननु प्रत्यक्षादावस्तु गुणजन्यत्वम् । वेदे तु भ्रमाद्यभावचतुष्टयं प्रमाहेतुः। लोके भ्रमाद्यभाव एव प्रमोत्पत्तेरिति चेत् , न । तत्र लाघवाद्वाक्यार्थयथार्थज्ञानस्य
हेतुत्वेन भ्रमाद्यभावानामन्यथासिद्धत्वात्। आप्तस्य भ्रमाद्यभावमात्रेण वाक्यार्थज्ञानं विना तादृशवाक्याभावाच्च। अन्यथा तवापि तत्र वक्तृज्ञानानुमानं न स्यात् तस्याहेतुत्वात्।
अस्तु वोभयमपि हेतुः , विनिगमकाभावात्। तथापि वेदे गुणसिद्धिः। न च नित्यनिर्दोषत्वात् दृष्टादेव वेदे प्रामाण्योपपत्तौ नापरिदृष्टनित्यज्ञानादिसर्वज्ञकल्पना ,
गौरवादिति वाच्यम्। प्रमाणवतः फलमुखगौरवस्यापि स्वर्गादाविवादोषत्वात् । पूर्वं कारणताग्रहसमये फलानुपस्थित्या गौरवाज्ञानात् लोके नित्यत्वाभावाच्च । #ॉ
अथ वेदे कर्त्रस्मरणादेर्बाधकात् लोकेऽपि निर्दोषत्वेनैव प्रमाहेतुत्वम् , वेदे तु नित्यत्वेनैव वक्तुरभावेऽपि निर्दोषत्वमवधार्यत इति चेत् , न । बाधकस्य बहुशो
निराकरिष्यमाणत्वात् भ्रान्तप्रतारकवाक्ये घटोऽस्तीति वाक्ये पटोऽस्तीति दोषजन्यवाक्ये च विसंवादात् प्रामाणे तदभावाच्च।

किं च दैववशसंपन्नं चैत्यं वन्देतेत्यादिकं शुकबालादिवाक्यमप्येवं प्रमाणं स्यात् , वक्तृदोषाभावात् प्रमाणानपेक्षत्वेन वेदतुल्यत्वाच्च ।
ननु तवापि शुकादिभ्रान्तप्रतारकवाक्यं कथं प्रमाणम् , गुणाजन्यत्वात् । न च गुणाजन्यत्वात् वक्तृतात्पर्याविषयत्वाच्च तदप्रमाणम् । संवादेन साध्ये बाधात् ।
यत्तु भ्रान्तप्रतारकवाक्ये योग्यतैव नास्ति । वक्तृज्ञातवाक्यार्थाबाधो हि योग्यता । भ्रमविषयश्च बाधित इति । तन्न । घटवति घटो नास्तीति भिन्नविषयतया
भ्रमस्याहेतुत्वात् ।

किं च वाक्यार्थाबाधो योग्यता लाघवात् । वाक्यार्थश्च तत्राबाधित एव । न च शुकबालादिवाक्यादर्थबोध एव न भवति, किं त्वेवमयं वदतीत्येवंप्रकारा
प्रतीतिरिति वाच्यम् । आकाङ्क्षादेरन्वयबोधसामग्र्याः सत्त्वेऽनुभवानपलापात् । संवादेन यथार्थत्वानुभवाच्च ।

एवं धूमभ्रमाद्वह्निमत्येव वह्न्यनुमितिर्न प्रमा स्यात् , यथार्थलिङ्गज्ञानाजन्यत्वात् । न च वह्न्यन्तरमेव तत्र विषयः, प्रत्यभिज्ञानात् गोत्वाद्येकव्यक्तिके
तदभावाच्च। नापि तत्रान्यतादात्म्यारोपः, संसर्गारोपात् लिङ्गोेपधानांशे भ्रमत्वेऽपि साध्यांशे प्रमात्वादिति ।

उच्यते । भ्रान्तप्रतारकवाक्ये शुकादिवाक्ये च प्रमाणशब्दत्वेनाप्तोक्तत्वात् वेदवदीश्वरस्यैव यथार्थवाक्यार्थज्ञानं जनकम् , तस्य कार्यमात्रे कर्तृत्वात् । शुकादिवाक्यस्य
च वेदतुल्यता दोषाभाववादिनापि वाच्या ।

नन्वेवं शब्दाभासोच्छेदः तस्यापीश्वरवक्तृकत्वादिति चेत् , न । तद्वाक्यार्थस्यासत्त्वेन भगवज्ज्ञानागोचरत्वात् । एवं लिङ्गाभासजन्यप्रमायामपि
वह्निव्याप्यवत्त्वज्ञानमीश्वरस्यैव जनकमिति संप्रदायविदः।

(अत्र) (वयं तु) ब्रूमः। शाब्दप्रमायां लोके वक्तुर्यथार्थज्ञानं न गुणः, किं तु योग्यतादिकं यथार्थतज्ज्ञानं वा। लाघवादावश्यकत्वाच्च । भ्रमप्रमादविप्रलिप्साजन्ये
वाक्ये विसंवादिनि न यथार्थयोग्यताज्ञानम् , वाक्यार्थस्य बाधितत्वात् । एवं करणापाटवादन्यस्मिन्वक्तव्येऽन्याभिधाने विसंवादिनि, संवादिनि तु प्रमाणमेव । योग्यतादिज्ञानमेव
क्वचिन्नास्ति ।

नन्वेवं नानार्थादन्यपरात्तात्पर्यभ्रमे तं विनैव वा यथार्थयोग्यतादिज्ञाने सति संवाद्यपरशक्यज्ञानमपि प्रमेति तत्रापि तद्वाक्यं प्रमाणं स्यादिति चेत् , न । इष्टत्वात्।
तात्पर्यविषये च तद्वाक्यं न तदा प्रमाजनकमिति न प्रमाणम् । एवं वेदेऽपि यथार्थयोग्यताज्ञानमेव गुण इति न वैदिकप्रमायां गुणजन्यत्वेनेश्वरसिद्धिः ।
स्यादेतत् । वेदे वक्तुर्यथार्थवाक्यार्थज्ञानमपि गुणः । लोके प्रमाणशब्दं प्रति तादृशस्य ज्ञानस्य हेतुत्वात् ।

अत एव तव लोके वक्तृज्ञानानुमानम् । एवं च वेदो वाक्यार्थगोचरयथार्थज्ञानवत्स्वतन्त्रपुरुषप्रणीतः प्रमाणशब्दत्वात् गामानयेति वाक्यवदितीश्वरसिद्धिः ।
मैवम् । प्रमाणशब्दत्वं हि वाक्यार्थयथार्थज्ञानपूर्वकतां विनापि संभवति, आवश्यकयोग्यतादिसत्त्वात् यथार्थतज्ज्ञानाद्वेत्युपपादितम् , अतोऽप्रयोजकमेतदिति ।
तथापि लोके वाक्यार्थज्ञानं प्रमाणवाक्ये कारणं गृहीतमिति तेन विना कथं तदिति चेत् , न । प्रवृत्त्याद्यर्थं हि प्रयोज्यस्य वाक्यार्थज्ञानमुद्दिश्य एतादृशपदेभ्यो वाक्यार्र्थं
ज्ञास्यतीति बुद्ध्या वाक्यप्रयोग इत्यन्यथासिद्धं प्रथमं वक्तुर्वाक्यार्थज्ञानम् , न तु तादृशपदावलीप्रयोगे तस्य हेतुत्वम् । तादृशपदसमूहस्य प्रत्येकपदहेतोरेव शुकादिवदुपपत्तेः।
अथ तात्पर्यविषये वेदः प्रामणम् । तात्पर्र्यं च तत्प्रतीतीच्छयोच्चारणम् । न चास्मदादेर्वेदं विनातीन्द्रियवेदार्थगोचरज्ञानं, येन तत्प्रतीतीच्छयोच्चारणं भवेत् । न च
वेदादेव तत् , अन्योन्याश्रयात्। अतः सकलवेदार्थदर्शिना यस्य वेदस्य यदर्थप्रतीतीच्छयोच्चारणं कृतं स तत्र प्रमाणमिति तादृशेच्छैव गुणः, तज्जन्या वेदार्थप्रमेति
तदाश्रयस्वतन्त्रपुरुषधौरेयसिद्धिरिति चेत् ,

मैवम् । मीमांसादिसकलाङ्गसाचिव्याद्वेदवाक्यार्थज्ञानवताध्यापकेन तत्तदर्थप्रतीतीच्छया वेदस्योच्चारणमिति वेदार्थयथार्थविदस्तत्तदर्थे तात्पर्यमस्त्येव । एवं
पूर्वपूर्वतादृशाध्यापकेन तत्तदर्थप्रतीतीच्छयोच्चरितत्वं तत्परत्वमवगम्योत्तरोत्तरेषां वेदार्थप्रत्यय इत्यनादिस्तात्पर्यपरंपरेति किमीश्वरेण ।

18

तर्हि वेदार्थानभिज्ञाध्यापकेनोच्चारितवेदस्य न तदर्थप्रतीतीच्छयोच्चारणमिति तात्पर्याभावान्न प्रमाणं न वा ततोऽर्थनिश्चय इति चेत् , न । अनादौ संसारे तस्य
वेदस्य कदाचित् केनचित् मीमांसाद्यधीनवेदार्थज्ञानवता तत्प्रतीतीच्छयोच्चारणं कृतम् , तावतैव तत्परत्वमिति ।

प्राभाकरास्तु – – प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते चेति । तथा हि – – निष्कम्पप्रवृत्त्यङ्गं स्मृत्यनुभवसाधारणं यथार्थत्वमेव प्रामाण्यम् । तच्च ज्ञानमात्रसामग्रीजन्यम्,
न तु गुणं दोषाभावं वापक्षते । सर्वज्ञानानां यथार्थत्वेनाव्यभिचारात् ।

अयथार्थस्तु व्यवहारः, तस्यैव बाध्यत्वात् । ज्ञानं तु न बाध्यते । बाधकाभिमतज्ञानतुल्यत्वात् । ज्ञाने चायथार्थत्वव्यपदेशः विपरीतव्यवहारजननोपाधिकः ।
अथ यथार्थत्वस्य प्रामाण्यत्वे रजतज्ञानं शुक्तौ कथमप्रमाणम् , अप्रामाण्यं च कथं परत उत्पद्यत इति चेत् ,

न । अयथार्थत्वं नाप्रामाण्यम् , सर्वधियां यथार्थत्वात् । किं तु विपरीतव्यवहारप्रवर्तकत्वम् । तच्च ज्ञानसामग्र्यामधिकदोषानुप्रवेशात् दोषहेतुकासंसर्गाग्रहाद्वा
उत्पन्ने ज्ञाने दोषसहकाराद्वा धर्मधर्मिणोरसंसर्गाग्रहरूपमेकत्वासंसर्गाग्रहसहितं परत उत्पद्यते, न तु ज्ञानमात्रसामग्रीतः, प्रमायामतिप्रसङ्गात् ।
उन्नीयते च विपरीतव्यवहारजनकत्वं बाधकात् । तस्य तेन तदनुव्यवसायेन वा ग्रहीतुमशक्यत्वात् । ज्ञानस्वरूपे च न दोषतदभावौ हेतू , व्यभिचारात् ।
ज्ञानायथार्थत्वेऽपि यथार्थत्वं ज्ञानसामग्रीजन्यमेव । न तु गुणात् दोषाभावाद्वा , विपर्ययादेरपि धर्र्म्यंशे यथार्थत्वात् , असदर्थविषयता दोषात् इन्द्रियाणामसंनिहितेऽसदर्र्थे
सामर्थ्याभावात् ।

ननु दोषमात्रं न कारणम् , किं तु तदपेक्षा ज्ञानसामग्रीति यथार्थत्वे दोषाभावसापेक्षा सा हेतुरिति चेत् , न । सैव सामग्री असदर्र्थांंशे दोषसापेक्षेति तदंशे
ज्ञानमयथार्थम्। सदर्र्थांंशे दोषनिरपेक्षेति तदंशे यथार्थम् । न तु सैव तत्रैव ज्ञाने दोषतदभावसापेक्षा, विरोधात् ।

(अयथार्थ) यथार्थत्वे दोषतदभावौ नान्तरीयकौ । यथार्थत्वं च ज्ञानोल्लिखितप्रकारवत्त्वमर्थस्य, यद्धर्मवत्त्वमर्थस्य तत्प्रकारकज्ञानत्वं वा ।
इदं रजतमिति ज्ञानमर्थस्य रजतत्वं स्वस्य रजतत्वाश्रयविषयकत्वं यथार्थत्वरूपं प्रामाण्यं स्वप्रकाशत्वेन स्वयमेव परिच्छिन्दत् स्वार्थनिश्चयरूपम् । तदतिरिक्तं च
न प्रामाण्यं मानाभावात् । अस्तु वा तदपि स्वतो ज्ञायतां, परतो वा, मा वा ज्ञायि किं तन्निरूपणेन । प्रवृत्तावनुपयोगात् । अर्थं हि निश्चित्य प्रवर्तत
इत्यावश्यकार्थनिश्चयादेव प्रवृत्त्युपपत्तेः ।

अथार्थनिश्चयादेव प्रवृत्तिरिति सत्यम् । किं त्वेवंरूपोऽयमर्थ इति निश्चयो ज्ञानप्रामाण्यग्रहाधीन इति चेत् , न । सर्र्वं हि ज्ञानं रजतरूपोऽयमर्थ इत्याद्याकारं
स्वार्थनिश्चयरूपमेवोेत्पद्यते । का तत्र परापेक्षा । अत एवार्थतथात्वं स्वयमेव परिच्छिद्यत इति स्वतः प्रामाण्यग्रहः । यदि च तज्ज्ञानं न स्वार्थनिश्चयरूपं तदा
प्रामाण्यज्ञानमपि न प्रामाण्यनिश्चयरूपं, न वा तदधीनं ज्ञानान्तरमपि स्वार्थनिश्चयरूपमिति व्यर्थमर्थनिश्चयार्र्थं प्रामाण्यनिरूपणम् । प्रामाण्यज्ञानेऽपि
स्वविषयनिश्चयार्थमन्यापेक्षायामनवस्था ।

किं च परतः पक्षे गृहीतप्रामाण्यस्य परस्य प्रामाण्यनिश्चायकत्वेऽनवस्था । अतो यथा ज्ञानान्तरमगृहीतप्रामाण्यमेव परप्रामाण्यनिश्चयरूपम् , यदा तु
तत्प्रामाण्यजिज्ञासा तदा तस्यापि प्रामाण्यमगृहीतप्रामाण्येनैव परेण निश्चीयत इति नानवस्था, तथा अर्थज्ञानमपि अनिश्चितप्रामाण्यमेवार्थनिश्चयरूपमविशेषात् । न
ह्युत्पन्ने ज्ञाने अर्थसंशयः किमेवमनेवं वेति ।

अथ ज्ञानमर्थनिश्चयरूपमपि स्वमगृह्णत् कथं स्वप्रामाण्यं गृह्णीयादिति चेत् , तर्हि स्वप्रकाशत्वे विवादः । अर्थस्य तथाभावरूपं प्रामाण्यं स्वत एव गृह्यत इति
तवाप्यनुमतम् ।

अथ स्वतः प्रामाण्यग्रहे अनभ्यासदशापन्नज्ञाने इदं प्रमा न वेति संशयो न स्यात् । निश्चिते तदभावात् । अत एवाप्रमात्वशङ्कया अर्थेऽपि किमेवमनेवं वेति
संशयात् न ज्ञानमात्रात् करतलामलकादावप्यर्थनिश्चयो व्यभिचारादिति चेत् , न । न ह्यत्र ज्ञाने सत्यत्वासत्यत्वसंशयः, सर्वज्ञानानां सत्यत्वात् । किं तु अगृहीतभेदं
ज्ञानद्वयमेकं वा ज्ञानमित्याकारो ज्ञानं प्रमा न वेति संशयः । स च कारणदोषसंशयात् । स च ज्ञानान्तरान्निवर्तते ।

नन्वनुभूतित्वं प्रमात्वम् । तच्च स्मृत्यन्यज्ञानत्वम् । स्मृतित्वं च संस्कारासाधारणकारणकत्वमिति स्वतो न गृह्यते । संस्कारादेरग्रहात् । अत एव न स्वत
एवोत्पद्यते, स्मृतिसाधारणत्वादिति चेत् ,

न । प्रवृत्त्यौपयिकं हि प्रामाण्यमर्थतथात्वनिश्चयत्वम् । तच्च (स च) स्वत एव गृह्यते उत्पद्यते च । न त्वनुभूतित्वसहितम् , गौरवात् । तवापि संवादादिना
प्रवृत्तेः प्रामाण्यं यथार्थत्वमेवानुमीयते, न त्वनुभूतित्वे सति, स्मृतौ व्यभिचारात् । स्मृत्यनुभवयोरप्रमाप्रमाव्यपदेशस्तान्त्रिकाणां सापेक्षत्वनिरपेक्षत्वनिबन्धनः । “यथार्थानुभवो
मानमनपेक्षतयेष्यते” इति तैरभिधानादिति ।

19

अत्र ब्रूमः। प्रामाण्यनिश्चयो निष्कम्पप्रवृत्तिहेतुर्न तत्संशय इत्यनुभवसिद्धं त्वदनुमतं च । तच्च प्रामाण्यं नार्थतथात्वनिश्चयरूपम् । अनभ्यासदशापन्नज्ञानस्य
स्वप्रकाशेनानुव्यावसायेन वार्थतथात्वनिश्चयग्रहेऽपि निष्कम्पप्रवृत्त्यभावात् , प्रामाण्यसंशयाच्च । सर्वधियां यथार्थत्वनियमेनार्थतथात्वनिश्चयत्वस्य स्वरूपतो
विषयतश्चागृहीतभेदज्ञानद्वयरूपभ्रमसाधारणत्वात् । तस्मान्न भ्रमसमानाकारादिदं रजतमिति ज्ञानान्निष्कम्पप्रवृत्तिः , किं तु तव्द्यावृत्ताकारात् ।
अथ तत्र प्रामाण्ये न संशयस्तस्यार्थतथात्वनिश्चयत्वरूपस्य निश्चयात् । किं त्वगृहीतभेदं ज्ञानद्वयं विशिष्टज्ञानं वेति संशयः । स एव निष्कम्पप्रवृत्तिप्रतिबन्धकोऽपि।
अतस्तस्य ज्ञानान्तरान्निवृतौ निष्कम्पप्रवृत्तिरिति चेत् , तर्हि यस्य संशयो व्यतिरेकनिश्चयश्च यत्प्रतिबन्धकस्तन्निश्चयस्तद्धेतुरिति व्याप्तेः भ्रमव्यावृत्तस्य विशिष्टज्ञानत्वस्य
निश्चयः प्रवृत्तिहेतुः न त्वर्थतथात्वस्य, भ्रमसाधारण्यात् , तस्मिन् सत्यप्रवृत्तेश्च । तत्संशयाभावसहितस्यार्थतथात्वनिश्चयस्य प्रवर्तकत्वे गौरवात् ।
किं च प्रवृत्तिहेतुज्ञानं विघटयत एव ज्ञानस्य तत्र प्रतिबन्धकत्वम् । न चेह तथा, संशये सत्यपि तस्य सत्त्वात् ।

अपि च विशिष्टज्ञानत्वमेव प्रामाण्यं भ्रमव्यावृत्तत्वात् । न त्वर्थतथात्वनिश्चयत्वम् , भ्रमसाधारणत्वात् । लौकिकपरीक्षकाणां भ्रमव्यावृत्ते प्रामाण्यव्यवहारात्।
तदतिक्रमे प्रमात्वस्य पारिभाषिकत्वापत्तेः । तस्मात् भ्रमव्यावृत्तत्वात् निष्कम्पप्रवृत्तिहेतुत्वात् प्रामाण्यसंशयनिवर्तकत्वाच्च विशिष्टज्ञानत्वमेव प्रामाण्यम् ।
नन्वस्तु तथा, तदेव स्वतो गृह्यत इति चेत् , न । अगृहीतासंसर्गधर्मधर्मिविषयैकज्ञानत्वं भ्रमव्यावृत्तं विशिष्टज्ञानत्वम् । तत्तु स्वतो ग्रहीतुं न शक्यते ।
अगृहीतासंसर्गादेः प्रागनुपस्थितेः सामग्रीविरहात् । स्वप्रकाशता हि स्वमात्रसाक्षिणी । अन्यथा अनभ्यासदशापन्नेऽपि तस्य स्वतोग्रहादप्रामाण्यसंशयो न स्यात् । अत एव
न ज्ञानसामग्रीत एव प्रामाण्यमुत्पद्यते । भ्रमस्यापि तथात्वापत्तेः ।

नव्यास्तु- – अविद्यमानभेदस्याग्रहः प्रामाण्यम् । स चात्यन्ताभावः । कदापि तस्य ज्ञानाभावादत्यन्ताभावरूपतया स्वतः सिद्धत्वेन प्रामाण्यं स्वत इत्युच्यते ।
विद्यमानभेदस्याग्रहोऽप्रामाण्यम् । स चाग्रहः प्रागभावः । अग्रे भेदस्य ग्रहात् । भेदग्रहे प्रसक्ते न स जायते दोषादित्युत्तरकालसंसर्गरूपस्य तत्परिपालनस्य दोषजन्यत्वेनाप्रामाण्यं
परत उत्पद्यते ।

विसंवादिसंवादिविचित्रव्यवहारोऽपि विद्यमानाविद्यमानभेदाग्रहरूपविलक्षणहेतुक एव । व्यवहारोपयुक्तं तु प्रामाण्यं यथार्थत्वमेव । तच्च ज्ञानहेतुमात्रहेतुकम् ।
अप्रामाण्यं दोषात् । अनभ्यासदशापन्ने प्रामाण्यसंशयोऽपि विद्यमानाविद्यमानभेदाग्रहकोटिद्वयावलम्बी, स एव निष्कम्पप्रवृत्तिप्रतिबन्धक इति ।
तन्न । निष्कम्पप्रवृत्तिहेतुर्हि प्रामाण्यं ग्राह्यंं न त्वन्यत् । निष्प्रयोजनत्वात् । तच्च यद्यपि अविद्यमानभेदाग्रहरूपं तदा तन्न स्वतो ज्ञातुं शक्यते । अविद्यमानभेदाग्रहस्य
तत्प्रतियोगिनोऽसत्त्वात् , प्रागनुपस्थितेश्च । अनभ्यासदशायां ज्ञाने ज्ञातेऽप्यविद्यमानभेदाग्रहे संशयाच्च ।

एतेनऔत्सर्गिकः संसर्गग्रह एव प्रामाण्यम् , असंसर्गाग्रह एवाप्रामाण्यमिति निरस्तम् । संसर्गग्रहत्वस्य स्वेन ग्रहीतुमशक्यत्वात् । शक्यत्वे वा अनभ्यासदशायामपि
तद्ग्रहे तत्संशयो न स्यात् । तस्मात् भ्रमव्यावृत्तं निष्कम्पप्रवृत्तिहेतुः प्रामाण्यमगृहीतसंसर्गधर्मधर्मिविषयकैकज्ञानत्वरूपं विशिष्टज्ञानत्वं, संसर्गज्ञानत्वं वा, अविद्यमानभेदाग्रहत्वं
वा स्वतो ज्ञातुं न शक्यते । किं तु विशेषदर्शनादिजन्यज्ञानादवधार्यत इति वज्रलेपायितं परतः प्रामाण्यमित्युुत्पत्तिवादः ।

इति श्रीगङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे प्रामाण्योत्पत्तिवादः


अथ प्रमालक्षणवादः

अथ किं तत् प्रामाण्यम् । न तावज्जातिः । योग्यव्यक्तिवृत्तित्वेन प्रत्यक्षत्वे प्रमात्वसंशयानुपपत्तेः, प्रमात्वस्यानुमेयत्वाच्च । साक्षात्त्वादिना संकरापत्तेश्च ।
बीजसाम्येन गुणेऽपि तस्य दोषत्वात् । तारत्वादेरुत्कर्षरूपतया जातित्वनियमे चानन्यगतिकतया च नानात्वात् । प्रमात्वनानात्वे त्वननुगमः ।
किं चैवमप्रमाया अंशे प्रमात्वं न स्यात् , जातेर्व्याप्यवृत्तितानियमात् । न चेष्टापत्तिः । अंशे संवादिनि विसंवादिनि च समूहालम्बने प्रमात्वाप्रमात्वयोरनभूयमानत्वेन
एकशेषस्य कर्तुमशक्यत्वात् । अथ विपर्ययस्यांशे न प्रमात्वम् , किं तु स्मृतिवद्यथार्थत्वमेवेति चेत् , तर्हि यथार्थानुभवत्वमेव प्रामाण्यम् , आवश्यकत्वात् । न च तदपीति
वक्ष्यते।

अथ यथा भावोऽभावो वा नाव्याप्यवृत्तिरिति नियमं तिरस्कृत्याबाधितानुभवबलात् संयोगतदभावयोरव्याप्यवृत्तित्वं, तथा जातिर्व्याप्यवृत्तिरेवेति व्याप्तिमभिभूयानुभवबलादेव
प्रमात्वतदभावयोरव्याप्यवृत्तित्वमस्तु । न च यदव्याप्यवृत्ति तन्न व्याप्यवृत्ति, यच्च व्याप्यवृत्ति न तदव्याप्यवृत्तीति व्याप्तेः प्रमात्वस्य नोभयरूपत्वमिति वाच्यम् ।
संयोगात्यन्ताभावे व्यभिचारात् । न च तस्याभावद्वयं, मानाभावात् । गुणदोषयोरेकत्र सत्त्वे अव्याप्यवृत्तित्वम् , गुणमात्रसत्त्वेे व्याप्यवृत्तित्वमित्यन्यथोपपत्तेश्च। अन्यथा
प्रमात्वस्योपाधेरप्यन्ताभावसामानाधिकरण्यं न स्यात् सामान्यत्वात् न स्याच्चोभयरूपत्वमिति ।

 

मैवम् । अवच्छेदकभेदं विना विरुद्धयोरेकत्रासमावेशात् अप्रतीतेश्च । न च विषय एवांशरूपः प्रमात्ववृत्ताववच्छेदकः । तद्विषयत्वस्य भ्रमेऽपि सत्त्वात् ।
ननु विशेष्यावृत्त्यप्रकारकत्वं विशेष्यावृत्तिप्रकारकत्वं च प्रमात्वतदभावयोर्वृत्ताववच्छेदकमस्तीति चेत् , तर्हि तयोरेव प्रमाप्रमाव्यवहारजनकत्वमस्तु, आवश्यकत्वात्
प्रथमोपस्थितत्वाच्च, किं जात्या । न च तदपीति वक्ष्यते । नापि यथार्थागृहीतग्राहित्वं लोकसिद्धप्रमात्वम् , धारावाहिकबुद्ध्यव्याप्तेः। न च प्रत्यक्षस्य वर्तमानार्थग्राहित्वेन
स्वाश्रयक्षणविशिष्टस्तम्भादिग्राहकत्वेनागृहीतग्राहित्वं लोकसिद्धम् , अन्यथा एकसमये ज्ञानयौगपद्यप्रसङ्ग इति वाच्यम् । क्षणानामतीन्द्रियत्वात् स्थुलोपाधिमादाय
वर्तमानत्वग्रहात् स्वरूपसत्क्रमिकक्षणोत्पत्तिकत्वेन ज्ञानायौगपद्यात् ।

न च स्तम्भादिषु प्रतिक्षणं गुणकर्माद्युत्पत्तिरस्ति, येन तदादायागृहीतग्राहित्वं स्यात्। वेदात् क्रमोत्पन्नवेदार्थगोचरधारावाहिकबुद्ध्यव्याप्तेश्च ।
नापि यथार्थानुभवत्वम् , ज्ञाने घटत्वादिना यथाशब्दार्थसादृश्याभावात् । सादृश्यमात्रस्य भ्रमेऽपि गतत्वात् । न च गुणजन्यानुभवत्वं (गुणजन्यत्वम्)
दोषाभावजन्यानुभवत्वं वा । तयोरननुगतत्वात् प्रमाप्रमानिरूप्यत्वाच्च। नाप्यबाधितानुभवत्वम्। बाधस्य विपरीतप्रमात्वात् । नापि संवाद्यनुभवत्वम् । ज्ञानान्तरेण
तथोल्लिख्यमानत्वस्य संवादित्वस्य भ्रमसाधारणत्वात् । नापि समर्थप्रवृत्तिजनकानुभवत्वम्। उपेक्षाप्रमायामव्याप्तेः । तद्योग्यतायाः प्रमानिरूप्यत्वात् । नापि तत्त्वानुभवत्वम्,
अवस्तुनोऽभानात् । भाने वा भ्रमसाधारण्यात् ।

नापि विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिधर्मप्रकारकानुभवत्वम् संयोगादिप्रमाव्याप्तेः । अभावे व्याप्यवृत्तित्वविशेषणे संयोगभ्रमेऽतिव्याप्तिः । तदत्यन्ताभावस्यैकत्वात्।
नापि विशेष्यवृत्त्यन्योन्याभावप्रतियोगितावच्छेदकधर्माप्रकारकानुभवत्वम् , अव्याप्यवृत्तिप्रमानुपग्रहात् । मूले वृक्षः कपिसंयोगवान्नाग्रे इत्यबाधितानुभवात्
संयोगवदन्योन्याभावस्याव्याप्यवृत्तित्वात् । भेदाभेद एवं स्यादिति चेत् , अनुभवमुपालम्भस्व, यद्बलादवच्छेदभेदेनात्यन्ताभाववदन्योन्याभावस्याप्यव्याप्यवृत्तित्वमुपेयम् ।
अत एव पक्वे इदानीं न श्याम इति धीः समयभेदादविरुद्धा तत्रैव तदन्योन्याभावमवलम्बते ।

नापि विशेष्यावृत्त्यप्रकारकानुभवत्वम् । एकैकविशेष्यावृत्तिनानाप्रकारकसमूहालम्बनाव्याप्तेः । न च प्रकारस्यैकविशेष्यवृत्तितया न विशेष्यावृत्तित्वमिति
वाच्यम्। प्रमाप्रमारूपसमूहालम्बनातिव्याप्तेः । न च यावद्विशेष्यावृत्तित्वं विवक्षितम् । एकैकविशेष्यवृत्तेर्यावद्विशेष्यावृत्तित्वेन समूहालम्बनाव्याप्तेः । एकविशेष्यके
यावदर्थाभावाच्च।

अथ विषयताया आश्रयो विशेष्यः, ज्ञानं तत्प्रतियोगि । भ्रमे च शुक्तिवृत्तिर्विषयता व्यधिकरणेन रजतत्वेनावच्छिद्यते । रजतवृत्तिस्तु समानाधिकरणेन
रजतत्वेन । विषयता च विषये न ज्ञानाहिता ज्ञाततारूपा विवक्षिता । अपसिद्धान्तादसिद्धेः, अतीतानागतप्रमायां तदभावाच्च । किं तु ज्ञानस्य विषये विशेषणताविशेषः
कश्चित् । परज्ञानं ज्ञानत्वेन तद्विषयं च घटत्वेन जानतो घटमयं जानाति न वेतिसंशयाद्विषयज्ञानस्वरूपातिरिक्तस्य स्वाश्रयस्वाभावादिविशेषणताविशेषस्यावश्यं
स्वीकारात् । अन्यथा घटत्वेन ज्ञातोऽर्थ इति तृतीयार्थासंभवः। प्रकारत्वमपि विषयस्य ज्ञाने विशेषणताविशेष एव, न तु विषयत्वमतिप्रसङ्गात् ।
एवं च विषयतासमानाधिकरणप्रकारकानुभवः, प्रकारसमानाधिकरणविषयताप्रतियोग्यनुभवो वा स्वसमानाधिकरणधर्मप्रकारकविषयताप्रतियोग्यनुभवो वा
स्वसमानाधिकरणधर्मावच्छिन्नविषयताप्रतियेग्यनुभवो वा प्रमेति चेत् , न ।

निर्विकल्पकाव्याप्तेः, विषयतासमानाधिकरणेदन्त्वप्रकारकभ्रमस्यापि प्रमात्वप्रसङ्गाच्च । भ्रमस्तत्रांशे प्रमैवेति चेत् – – तर्हि अनुभवत्वमेव प्रमात्वम् ,
व्यर्थमधिकम् । अनुभव एव क्वचिदंशे प्रमाप्रमा चेति चेत् , न । उक्तलक्षणे तादृशालाभात्।

अथ स्वव्यधिकरणप्रकारानवच्छिन्नविषयताप्रतियोग्यनुभवः प्रमा । समूहालम्बने च प्रतिविशेष्यं विषयताभेदादेकवृत्तिर्विषयता नापरवृत्तिनावच्छिद्यते । अतो
नाव्याप्तिरिति चेत् , न ।

भ्रमांशप्रमायामव्याप्तेः । न हि या विषयता व्यधिकरणधर्मेणावच्छिद्यते सा तदनवच्छिन्ना, विरोधात् । नापि प्रकारव्यधिकरणविषयत्वाप्रतियोग्यनुभवः प्रमा ।
प्रकारव्यधिकरणविषयताप्रतियोगिनि तदप्रतियोगित्वस्याभावेन भ्रमांशप्रमाव्याप्तेः । नापि स्वव्यधिकरणधर्मावच्छिन्नविषयत्वाप्रतियोग्यनुभवः,
स्वाधिकरणावृृत्त्यप्रकारकविषयताप्रतियोग्यानुभवो वा प्रमा, तत एव । भ्रमे विषयतायाः स्वव्यधिकरणप्रकारावच्छिन्नत्वात् स्वाधिकरणावृत्तिप्रकारकत्वाच्च । नापि
स्वसमानाधिकरणान्योन्याभावप्रतियोगितावच्छेदकधर्मानवच्छिन्नविषयताप्रतियोग्यनुभवः प्रमा । भ्रमांशप्रमाव्याप्तेः । अन्योन्याभावस्याव्याप्यवृत्तित्वेनाव्याप्यवृत्तिप्रमायाम
व्याप्तेश्च ।

यत्तु प्रमात्वाप्रमात्वयोर्विरोध एव भ्रमो न प्रमेति, तत्तुच्छम् । अंशभेदमादायोभयस्यानुभवात् । अन्यथा भ्रमस्योभयबहिर्भावापत्तेः ।
एतेन स्वव्यधिकरणप्रकारकं ज्ञानं भ्रमस्तदन्योऽनुभवः प्रमा, भ्रमो धर्म्यंशे न प्रमेति निरस्तम् ।

नापि प्रकाराधिकरणावृत्त्यप्रकारकविषयताप्रतियोग्यनुभवः, प्रकारानधिकरणावृत्तिविषयताप्रतियोग्यनुभवो वा प्रमा । प्रमेयमिदमिति ज्ञाने प्रकारानधिकरणस्याप्रसिद्धेेः।
किं च रजतत्वप्रकारकविषयताया रजतवृत्तित्वनियमात् रजतत्वावच्छिन्नैव रजतभ्रमे रजतवृत्तिविषयता । अतो रजतभ्रमोऽपि रजते प्रमा स्यात् ।

 

अथ रजतपुरोवर्तिनोरेकैव विषयता । सा च प्रकारानधिकरणवृत्तिधर्मावच्छिन्नैवेति चेत् , तर्हि धर्म्यंशेऽपि तज्ज्ञानं प्रमा न स्यात् , व्यधिकरणप्रकारकत्वस्य
तुल्यत्वात्। धर्म्यंशे तु रजतेऽपि प्रमा स्यात् ।

अथ रजतांशे धर्म्यंशे च तज्ज्ञानं प्रमैव। वैशिष्ट्यांशे न प्रमेति चेत् , न । वैशिष्ट्यस्य पूर्वज्ञानाविषयत्वेनाप्रकारत्वात् । वैशिष्ट्यवृत्तिविषयतायां
रजतत्वपुरोवर्तिनोः प्रकारत्वेन भ्रमस्य वैशिष्ट्यांशे प्रमात्वाप्रमात्वापातात् ।

नापि स्वव्यधिकरणप्रकारानवच्छिन्नविषयताप्रतियोग्यनुभवः प्रमा । प्रमेयमिदमिति ज्ञाने प्रमेयत्वप्रकारकविषयतानाश्रयस्याप्रसिद्ध्या अव्याप्तेः ।
न च संयोगित्वादिना प्रमेयत्वप्रकारकविषयताव्यतिरेको घटादौ प्रसिद्ध इति वाच्यम् । प्रतियोगितावच्छेदकरूपवत्त्वेेन प्रतियोगिज्ञानस्याभावधीहेतुत्वात् । किं च
यत्किंचिव्द्यधिकरणप्रकारानवच्छिन्नत्वं भ्रमसाधारणम् , प्रकृतज्ञानव्यधिकरणप्रकारानवच्छिन्नत्वं निर्विकल्पकाव्याप्तम् , तस्य निष्प्रकारकत्वादिति ।

इति प्रमालक्षणपूर्वपक्षः समाप्तः

अथ प्रमालक्षणसिद्धान्तः

उच्यते । यत्र यदस्ति तत्र तस्यानुभवः प्रमा । तद्वति तत्प्रकारकानुभवो वा ।

यत्र यन्नास्ति तत्र तस्य ज्ञानं, तदभाववति तत्प्रकारकज्ञानं वा अप्रमा ।
तदन्यत्वे सति अनुभवत्वमेव वा प्रमात्वम् । तत्प्रकारकत्वं च तद्वैशिष्ट्यविषयकत्वं तद्विशेषणज्ञानजन्यत्वं वा ।

ईश्वरस्य तद्विशिष्टविषयं ज्ञानं न तु तत्प्रकारकम् । निर्विकल्पकं च प्रमाप्रमाबहिर्भूतमेव, व्यवहारानङ्गत्वात् । अव्यपदेश्यपदेन तदुपग्रहस्य नामजात्यादियोजनारहितमपि
प्रत्यक्षमस्तीत्यत्र तात्पर्यम् । इदं रजतमिति ज्ञानमिदन्त्ववति तदनुभवत्वात् प्रमा, रजतत्वाभाववति तत्प्रकारकज्ञानत्वादप्रमा । अंशे समूहालम्बनं च नाप्रमा ।
एकप्रकाराभाववत्यपि तदप्रतीतेः ।

नन्वेवमव्याप्यवृत्तिभावाभावयोरेकत्र प्रमाप्रमा च स्यात् तदभाववति तत्प्रकारकज्ञानत्वादिति चेत् , न । भिन्नभिन्नावच्छेदेन हि वृक्षे संयोगतदभावौ, न वृक्षमात्रे,
विरोधादननुभवाच्च । तथा च यत्र वृक्षे संयोगो न तत्र तदभावः । यदवच्छेदेन यत्र यदस्तीति वा विवक्षितम् ।

गोत्वादेरपि सास्नाद्यवच्छेदेन वृत्तेः । पाकरक्ते श्यामोऽयमिति धीः प्रमैव । कदाचित्तत्र तत्सत्त्वात् । इदानीं श्याम इति त्वप्रमैव । न च यत्तद्भ्यां लक्षणाननुगमः,
न हि प्रमा सर्वत्र प्रमा, किं तु क्वचित्। तथा च किं ज्ञानं कुत्र प्रमेति तत्तद्विशेषस्य लक्ष्यत्वेन यत्तद्भ्यामेव लक्षणं युक्तम्।
अन्ये तु- – अनुभवत्वमेव प्रामाण्यम् , भ्रमेऽप्यंशमादाय प्रमाव्यवहारात् । रजतादिप्रमाप्रमा च विशिष्य लक्षणीया, रजतत्ववति तदनुभवः तदभाववति तदनुभवो
वेत्यादिना ।

नन्वनुभवत्वस्य प्रमाप्रमासाधारण्येन तज्ज्ञानस्य न निष्कम्पप्रवृत्त्यङ्गत्वमिति चेत् , सत्यम् । विशेषविषयप्रमाया एव प्रवर्तकत्वात् ।
अतिरिक्तविषयतापक्षे विषयताश्रयावृत्त्यप्रकारकानुभवः प्रमा । केवलान्वयिनि विषयताश्रयावृत्तिरवृत्तिरेव प्रसिद्धः ।

यद्वा यत्प्रकारिका या विषयता तत्प्रकारसमानाधिकरणविषयताकः, स्वप्रकारसमानाधिकरणविषयताको वानुभवः प्रमा ।
(यत्प्रकारिका)झ्र्यत्प्रकाराटया विषयता तत्प्रकारव्यधिकरणविषयताकं स्वप्रकारव्यधिकरणविषयताकं वा ज्ञानं भ्रमः ।

प्रकारभेदेनैकत्र विषयताभेद इति लक्षणद्वयसमावेशात् प्रमाभ्रमसंकरः ।
यद्वा विशेष्यनिष्ठात्यन्ताभावाप्रतियोगिप्रकारकविषयताप्रतियोगी, विशेष्यनिष्टात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविषयत्वप्रतियोगी वा, विषयतासमानाधिकरणात्यन्ताभाव-प्रतियोगिप्रकारकविषयत्वाप्रतियोगी वा, विषयतासमानाधिकरणात्यन्ताभावप्रतियोगिप्रकारानवच्छिन्नविषयताप्रतियोगी वा अनुभवः प्रमा ।
स्वसमानाधिकरणप्रकारानवच्छिन्नविषयताप्रतियोगि ज्ञानं, स्वव्यधिकरणप्रकारावच्छिन्नविषयताप्रतीयोगि ज्ञानं वा भ्रमः । इदं रजतमिति भ्रमे च विषयताद्वये
व्यधिकरणप्रकारावच्छिन्नत्वतदनवच्छिन्नत्वयोः विषयत्वप्रतियोगित्वतदप्रतियोगित्वयोरविरोधात् । समूहालम्बने च विषयताभेदान्न प्रमाप्रमालक्षणेऽव्याप्त्यतिव्याप्ती ।

वस्तुतस्तु विशेषणताविशेषो नास्त्येव, मानाभावात् । सामान्यतो ज्ञाने ज्ञाते तस्य क्वचिद्विशेषणतेति सामान्यतो विशेषणताज्ञानेऽपि घटमयं जानाति न वेति
संदेहतादवस्थ्यात् ।

तस्मात् घटतज्ज्ञानयोः स्वरूपग्रहेऽपि तदीयत्वं तद्विषयत्वं न गृहीतमिति तद्विषयत्वे संदेहः । तदीयत्वं च संबन्धं विना तत्संबन्धस्वभावत्वम् । तदुक्तम् – -“प्रकाशस्य सतस्तदीयतामात्रनिबन्धनः स्वभावविशेषः तद्विषयत्वम् ” इति ।
संबन्धं विना कथं तदीयत्वम् , संबन्धस्यैव स्वभावत्वात् , यथा तवैव विशेषणतायाम् । अन्यथानवस्थानात् । अन्यत्रापि स्वरूपसंबन्धे एषैव गतिः । अन्यथा
सामान्येनाभावसमवाययोर्ज्ञानेऽधिकरणे ज्ञाते तयोः संशयो न स्यात्। अधिकरणतदुभयस्वरूपाणां ज्ञातत्वात् । तत्राप्यभावसमवाययोर्विशेषणताविशेषो न गृहीत इति
चेत्, न। सामान्यतस्तद्ग्रहेऽपि संशयात् ।

युत्तु समूहालम्बनविशिष्टज्ञानयोर्विशेषानुभवाद्विशिष्टज्ञाने विशेषणताविशेषो विषय इति । तन्न । विशेषणतामादायापि समूहालम्बनसंभवात् । तत्रापि
विशेषणतान्तरस्वीकारेऽनवस्था।

समूहालम्बनात्तु विशिष्टज्ञानस्य विशेषः कारणकृतः कार्यकृतः प्रकारकृतो वा ।
प्रकारोऽपि विशेषणताविशेषः। स च धर्मिण्येवास्त्विति चेत् , न । तमादायापि समूहालम्बनसंभवात् ।

इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे प्रामाण्यवादे प्रमालक्षणसिद्धान्तः

समाप्तश्चायं प्रामाण्यवादः


अथान्यथाख्यातिवादः

ननु सर्वज्ञानानां यथार्थत्वात् प्रमाणलक्षणे (विशेषणस्य) व्यावर्त्याप्रसिद्धेर्विशेषणवैयर्थ्यम् , अन्यथाख्यातौ मानाभावात् । तथा हि – – रजतार्थिप्रवृत्तिविषयत्वं
रजतत्वप्रकारकानुभवविषयत्वव्याप्यं रजतार्थिप्रवृत्तिविषयमात्रवृत्तिधर्मत्वात् रजतमात्रवृतिधर्मवत् इत्यन्यथाख्यातिव्याप्यं सिध्यतीत्यप्राप्तकालत्वम् , रजतमात्रवृत्तित्वं
चोपाधिः।

शुक्तिवृत्तिज्ञानविषयता रजतत्वप्रकारिका रजतार्थिताजन्यप्रवृत्तिविषयवृत्तिविषयतात्वात् रजतवृत्तिविषयतावदित्यत्र रजतवृत्तित्वमुपाधिः । रजतत्वम्
अरजतवृत्तिज्ञानविषयतावच्छेदकम् अरजतविषयप्रवृत्तिहेतुज्ञानप्रकारत्वात् शुक्तित्ववदित्यत्र रजतावृत्तित्वमुपाधिः ।

रजतत्वप्रकारिका ज्ञानविषयता अरजतवृत्तिः अरजतनिष्ठात्यन्ताभाव(भावा)प्रतियोगिनी वा अरजतविषयप्रवृत्तिहेतुज्ञानविषयतात्वात् शुक्तिवृत्तिविषयतावदित्यत्र
रजतावृत्तित्वमुपाधिः । विषयताया निरस्तत्वाच्च । विवादपदं रजतज्ञानं शुक्तिविषयकं शुक्तौ प्रवर्तकज्ञानत्वात् शुक्तिज्ञानवदित्यत्र ज्ञायमानेष्टभेदाग्रहे कारणतावच्छेदकं
रजतज्ञानं न प्रवर्तकमित्यसिद्धिः ।

शुक्ती रजतज्ञानविषयताश्रयः रजतार्थिप्रवृत्तिविषयत्वात् रजतवदित्यत्र रजतत्वमुपाधिः । शुक्तौ रजतार्थिप्रवृत्तिः स्वधर्मिधर्मिकरजतत्वप्रकारकज्ञानसाध्या रजतार्थिप्रवृत्तित्वात्
रजतप्रवृत्तिवदित्यत्र रजतविषयत्वमुपाधिः स्वपदार्थाननुगमश्च । तत्परित्यागे तु रजतार्थिप्रवृत्तिधर्मिकरजतत्वप्रकारकज्ञानेनोभयसिद्धेन रजतस्मरणेनार्थान्तरम् ।
उच्यते । रजतार्थिताजन्या शुक्तौ प्रवृत्तिरिष्टप्रवृत्तिविषयविशिष्टज्ञानसाध्या प्रवृत्तित्वात् शुक्तौ शुक्त्यर्थिप्रवृत्तिवत् ।
न चेष्टविषयप्रवृत्तित्वमुपाधिः साधनविशेषितत्वात् ।

यद्वा रजतेच्छाजन्यशुक्तिविषयप्रवृत्तिजनकरजतत्वप्रकारकं ज्ञानं शुक्तिविशेष्यकं शुक्तिप्रवृत्तिप्रयोजकज्ञानत्वात् शुक्तौ शुक्त्यर्थिप्रवृत्तिजनकज्ञानवत् । अवच्छेदकत्वेऽपि
प्रयोजकत्वान्नासिद्धिः । हेतुत्वमपि तस्य साधयिष्यामः । तथाविधमिदं ज्ञानं वा रजतत्वप्रकारकं रजतेच्छाजन्यप्रवृत्तिहेतुज्ञानत्वात् सत्यरजतज्ञानवत् ।
न च ग्रहणस्मरणयोर्विशिष्टस्य ज्ञानस्य वा पक्षत्वे बाध आश्रयासिद्धिर्वा । उभयसिद्धेन शुक्तिनिष्ठप्रवृत्तिहेतुत्वेन पक्षत्वात् । अन्यथा साध्यतदभाववतः पक्षत्वेनानुमानोच्छेदः।

समवायातीन्द्रियत्ववादिनं प्रति अगृहीतासंसर्गकधर्मधर्मिविषयकमेकं ज्ञानमेव विशिष्टज्ञानं सिध्यति । न चैवमुभयरव्यातिः, नान्यथाख्यातिरिति वाच्यम् ।
व्यधिकरणप्रकारकज्ञानस्य तत्त्वात् ।

न च विसंवादिप्रवृत्त्यजनकत्वमुपाधिः । तथाविधे इदंज्ञाने रजतज्ञाने च त्वन्मते साध्याव्यापकत्वात् ।
नापि दोषाजन्यत्वम् , परस्य ज्ञानमात्रे तथात्वात् । अन्यथा तयोरेव साध्याव्यापकत्वात् । न चाप्रयोजकत्वम् । इष्टपुरोवर्तिविशिष्टज्ञानस्य प्रवृत्तिहेतुत्वात् ।
अत्र प्राभाकराः – – अप्रयोजकमिदम् । स्वतन्त्रोपस्थितेष्टभेदाग्रहादेव प्रवृत्त्युपपत्तेः किं विशिष्टज्ञानेन । परेणाप्यारोपनियमार्थं तदभ्युपगमात् । न च रजते प्रवृतिं्त
प्रति विशिष्टज्ञानस्य हेतुत्वात् इहापि तत्सिद्धिः प्रवृत्तिमात्रे भेदाग्रहे सतीष्टपुरोवर्तिज्ञानस्य लाघवेन हेतुत्वात् , न तु सदपि विशिष्टज्ञानं तन्त्रं, गौरवात् ।
न च रजते इष्टपुरोवर्तिभेदग्रहस्याप्रसिद्ध्या कथं तदभाव इति वाच्यम् । पुरोवर्तिनिष्ठे भेदे रजतप्रतियोगित्वज्ञानविषयत्वाभावस्य
पुरोवर्तिनीष्टभिन्नत्वप्रकारकज्ञानविषयत्वाभावस्य वा हेतुत्वात् । न चाभेदव्यवहारो व्यवहर्तव्यधीसाध्यो न तु तदभावाग्रहात् , अन्यथा भेदाग्रहात् भेदव्यवहारापत्तिरिति
वाच्यम् । इच्छादीनां ज्ञातपुरोवर्तिमात्रविषयत्वात् । अभेदाभिलापोऽपि ज्ञातभेदस्यासंसर्गाग्रहादिति नाज्ञाते व्यवहारः ।

ननु पीतः शङ्खो न श्वेत इति भेदज्ञानेऽपि श्वेताभेदानुमित्या श्वेतार्थिप्रवृत्तेरभेदधीस्तद्धेतुरिति चेत् , न । तवापि पीतः शङ्खः इत्यभेदज्ञानात् पीतार्थी न प्रवर्तते
भेदानुमितेरिति भेदाग्रह एव तद्धेतुः स्यात् । भ्रमत्वेन ज्ञातमभेदज्ञानमकिंचित्करमिति यदि, तदा भ्रमत्वेन ज्ञातं भेदज्ञानमपि तथा ।
यद्वा इष्टभेदाविषयकं ज्ञानं प्रवर्तकम् । न चाभेदानुमिताविष्टभेदो विषयः । अत एत पूर्वं भेदप्रत्ययेऽपि स प्रत्ययो न भेदग्राहीति दिङ्मोहप्रतिबिम्बादिप्रत्ययाः ।
नन्वेवं रजतेऽपि विशिष्टज्ञानं न सिध्येत् प्रवृत्तेर्भेदाग्रहादेवोपपत्तेः । इदं रजततया जानामि रजततया ज्ञातमित्यनुभवः शुक्तावपि तुल्यः । न च शुक्तौ
रजतत्वबाधात् सोऽप्यसंसर्गाग्रहः, बाधस्यापि विशिष्टज्ञानत्वे मानाभावादिति चेत् , न । तत्र हि रजतस्य न स्मृतिः प्रागननुभवात् । ग्रहणं च तस्य धर्मिविषयकं
योग्यधर्मियोगेन रजतत्वजातिग्रहादित्यर्थसिद्धंं धर्मधर्मिविषयकमेकं ज्ञानम् । न च रजतत्वस्य शुक्त्यनुभवविषयत्वे हेतुरस्ति । न च प्रत्यभिज्ञानवत् संस्कारेन्द्रियेहेतू ।
तयोरत्र भिन्नविषयकत्वात् । एकदा स्वतन्त्रोपस्थितविरुद्धानेकभेदाग्रहे संशयः।

(न च) (न तु) क्रमेणोपस्थितानेकभेदाग्रहो येन स क्रमिकविपर्ययद्वयरूपः स्यात् । अन्यथा तवाप्यप्रतीकारात् । न च संशयानन्तरं विपर्ययदशायामुभयभेदाग्रहे
संशयः, एकभेदाग्रहे अन्यथाख्यातिः , दोषमहिम्ना ह्येकस्य न स्वातन्त्र्येणोपस्थितिः किं त्वभावविशेषणतयेति तद्भेदाग्रहोऽप्यकिंचित्करः । न च संशयानन्तरं
धूमभ्रमादस्ति क्वचिद्वह्न्यर्थिप्रवृत्तिर्न तु तेन विना । न च तस्य स्वतन्त्रोपस्थितवह्न्यसंसर्गाग्रहो द्वारम् , संशयानुरोधेन तस्य प्रागपि सत्त्वाद्वह्न्यनुमितिर्द्वारमिति वाच्यम्।
लिङ्गभ्रमस्य हि निर्वह्नित्वस्य स्वातन्त्र्येणोपस्थितिप्रतिबन्धकत्वेन नियमतः स्वतन्त्रवह्निस्मृतिर्द्वारमिति न संशयान्यथारव्याती । न च पर्वतस्य प्रत्यक्षत्वे वह्नेश्च
स्मरणे प्रत्यक्षभ्रमान्न विशेष इति साक्षात्करोमीति स्यात् न त्वनुमिनोमीति (इति?) वाच्यम् । लिङ्गज्ञानानन्तरभावित्वप्रतिसन्धानाप्रतिसन्धानाभ्यामुभयसंभवात् ।
एवं स्वतन्त्रोपस्थितानिष्टभेदाग्रहोऽपि निवर्तकः । तेनेदं रजतं न शुक्त्तिरित्यभावप्रतियोगित्वेनानिष्टोपस्थितेस्तद्भेेदाग्रहो न निवर्तकः । शुक्त्यभावासंसर्गाग्रहश्च
नकारस्यार्थ इति नान्यथाख्यातिः ।

अनिष्टाभेदग्रहस्य निवर्तकत्वे च रजत एव नेदं रजतमिति कृत्वा न निवर्तेत , अन्यथा अन्यथाख्यात्यापत्तेः । अत एव रजत एव नेदं रजतमिति ज्ञानेऽपि न
प्रवृत्त्यन्यथाख्याती रजतभेदासंसर्गाग्रहात् ।

ननु रजतरङ्गयोरिमे रङ्गरजते इत्यत्र प्रत्येकमुभयभेदाग्रहे युगपत्प्रवृत्तिनिवृत्ती स्यातामिति चेत् , न । एवंविधभ्रमे मानाभावात् । कार्योन्नेयधर्माणां
यथाकार्यमुन्नयनात्। क्रमोत्पन्नज्ञानयोर्भेदाग्रहादेकत्वाभिमानः । अन्यथा तवापि स्वतन्त्रोभयभेदाग्रहात् प्रत्येकं रजतं रङ्गं वेति संशयः स्यात् । यदेव वा तत्र विपर्ययनियामकं
तत एव प्रवृत्तिनिवृत्ती स्याताम् तद्धेतोरेवेति न्यायात्।

यत्तु – – “प्रसक्तप्रतिषेधात्मा बाधोऽख्यातौ न युज्यते ।
साधयत्यन्यथाख्यातिं बाध एव हि नः स्फुटम् ॥” इति ।

तद्विपरीतम् । परस्परविरुद्धत्वाविशेषेण बाध्यत्वाव्यवस्थितेः । विरुद्धार्थकतयोत्पन्नत्वं च तुल्यम् । पूर्वेणापि क्वचित्परस्य बाधात् । तस्मादभेदाग्रहात् प्रसञ्जितो
व्यवहारो भेदग्रहात् बाध्यत इति युक्तम् ।

उपेक्षाभ्रमे च शब्दप्रयोगो बाध्यः । तदीयतामात्रस्वभावत्वात् तद्विषयत्वस्य । कथं रजतीयमात्रज्ञानमरजतीयं स्वभावव्याघातात् । न चोभयीयम् , समूहालम्बनापत्तेः।
तदुक्तम्-

“अन्यस्य ह्यन्यथाभानं प्रतीत्यैव पराहतम् ।

परस्मिन् भासमाने तु न परं भासते यतः ॥ ” इति ।
विषयं विनैव तदाकारं ज्ञानमिति साकारवादः । ज्ञानायथार्थत्वे च ज्ञानमात्रस्य तच्छङ्कया न निष्कम्पप्रवृत्तिः । न च दोषाजन्यत्वादिना विश्वासः ।
भ्रमादविश्वासे प्रवृत्त्यभावापत्तेः । नापि तज्ज्ञानात् । ज्ञानत्वेन तत्राप्यविश्वासात् । तदुच्यते – अहो बत महानेष प्रमादो धीमतामपि । ज्ञानस्य व्यभिचारित्वे विश्वासः
किंनिबन्धनः ॥ इति । भ्रमस्य च सन्मात्रविषयकत्वेनायथार्थता । असद्विषयकत्वेऽसत्ख्यातिः । न च तत्र हेतुरस्ति । शब्दस्याप्तोेक्तस्य निर्दोषस्य लिङ्गस्य
चाहेतुत्वात् । न च शब्दानुमानाभासात्सा। योग्यतादिमत्तया शब्दस्य लिङ्गवत्तया पक्षस्य ज्ञानाच्छाब्दानुमिती । न चाभासे तज्ज्ञानमस्ति, हेत्वभावादेव । किं
त्वगृहीतासंसर्गज्ञानद्वयम् । तत्र इन्द्रियस्य संबद्धग्राहकत्वात् न च प्रत्यभिज्ञानवत् , उक्तोत्तरत्वात् । न च दोषवशादसंबद्धेऽपि विजातीयं कार्यम् । दोषस्याजनकत्वात् ।
न हि दुष्टात् कुटजबीजाद्यवाङ्कुरः । भस्मकं च न दोषः । किं तु वह्नेरुद्भवः । तस्य च दाहसामर्थ्यं दृष्टमेव । रसार्जनं तु न भवति, भक्ष्यदाहात् । दवदहनदग्धवेत्रवीजं
च नष्टमेव । तद्भस्मनः कदलीजनकत्वम् । तदुक्तम् -“साकारवादादसतो न भानात् संविद्विरोधादथ हेत्वभावात् , धियामनाश्वासभयाच्च नेष्टा यतोऽन्यथाख्यातिरतो
यथार्था । तस्माद्विवादपदं ज्ञानं न व्यधिकरणप्रकारकं ज्ञानत्वात् सत्यज्ञानवत् । भेदाग्रहजन्यरजतत्वप्रकारकशुक्तीच्छायां प्रतियोगिप्रसिद्धिः । ज्ञानत्वं
स्वव्यधिकरणप्रकारावच्छिन्नविषयताप्रतियोगिवृत्ति न भवति ज्ञानमात्रवृत्तिधर्मत्वात् प्रमात्ववत्। न च चक्षुश्चाक्षुषसत्यज्ञानातिरिक्तज्ञानजनकं इन्द्रियत्वात् रसनवदिति
प्रतिरोधः, अप्रयोजकत्वात् । चाक्षुषज्ञानातिरिक्तज्ञानजनकत्वोपाधेः अन्यथाख्यातेरपि धर्म्यंशे सत्यत्वात् तुल्यन्यायतया व्यापकेऽपि व्यर्थविशेषणत्वाच्च ।
एवं (च) स्वरूपतो विषयतश्चागृहीतभेदं ज्ञानद्वयमेव विसंवादिप्रवत्तिहेतुः । तदुक्तम् – संनिहितरजतशकले रजतमतिर्भवति यादृशी सत्या । भेदानध्यवसायादियमपि
तादृक् परिस्फुरति ॥ इति । व्यवहारमात्रस्य भेदाग्रहजन्यत्वेऽपि तस्य संवादतदभावाभ्यां ज्ञाने यथार्थत्वायथार्थत्वव्यपदेशः । अत एव लोके उष्णं जलमिति ज्ञाने
नायथार्थत्वव्यपदेशः। उपेक्षाज्ञाने तु तद्व्यपदेशस्तद्योग्यत्वात् ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे अन्यथाख्यातिवादपूर्वपक्षः॥
अथान्यथाख्यातिवादसिद्धान्तः

सिद्वान्तस्तु- सत्यस्थले प्रवृत्तिमात्रं प्रतीष्टपुरोवर्तिज्ञाने हेतुतया व्यवस्थितेऽतिप्रसङ्गवारणार्र्थं विषयतया वैशिष्ट्यमेव कारणतावच्छेदकं कल्प्यते लाघवात् ।
कारणताग्रहसमये ज्ञानवित्तिवेद्यतया शीघ्रोपस्थितिकत्वात् बाधकाभावाच्च ।

(ननु) (न तु) स्वतन्त्रोपस्थितेष्टभेदाग्रहः कारणम् , तादृशभेदाग्रहत्वं च कारणतावच्छेदकं, गौरवात् कल्पनीयोपस्थितिकत्वाच्च। विशिष्टज्ञानेऽपि हेतुत्वेनावश्यकत्वात्
भेदाग्रह एव हेतुरिति चेत् ,न ।

विशिष्टज्ञाने तद्धेतुत्वस्य तत्कल्पनोत्तरकल्प्यत्वेन प्रवृत्तिकारणताग्रहसमये तदनुपस्थितेः । न चैवं मिथ्याज्ञानकल्पने गौरवम् । प्रमाणप्रवृत्तिसमये सिद्ध्यसिद्धिपराहतत्वेन
फलमुखगौरवस्यादोषत्वात् । प्रमाणवतस्तस्य न्याय्यत्वात् ।

एवं च विसंवादिप्रवृत्तिरपि विशिष्टज्ञानसाध्या प्रवृत्तित्वात् सत्यप्रवृत्तिवत् । क्लृृप्तकारणं विनानुपपत्तेः अनन्यथासिद्धतया प्रवृत्त्या समानीतविशिष्टज्ञानबलात्
तत्कारणं सदोषमिन्द्रियाद्येव । सर्वतो बलवती ह्यन्यथानुपपत्तिः । न च भेदाग्रहात् प्रवृत्त्युपपत्तिरपि । विपरीतचतुष्के युगपत् प्रवृत्तिनिवृत्त्यापत्तेः ।
न च तत्र मानाभावः । इमे रङ्गरजते इति सत्यज्ञानवत् रजतरङ्गयोः प्रत्येकभ्रमसामग्र्योरेकदा सत्त्वेन तादृशभ्रमोत्पत्तेरानुभविकत्वात् । अन्यथा
समूहालम्बनोच्छेदे द्वित्वाद्यप्रत्यक्षतापत्तेः । इमे रङ्गरजते इति शब्दाभासादेवंविधभ्रमसंभवाच्च ।

मम दोषमहिम्ना रजतरङ्गयो रजतरङ्गभेदग्रहान्न संशयः । तव चैकत्र स्वतन्त्रोभयभेदाग्रहात् प्रत्येकं रङ्गं रजतं वेति संशयः स्यात् ।
अथ यद्धर्मज्ञानाद्यदुपस्थितिस्तत्र तद्भेेदाग्रहात् प्रवृत्तिनिवृत्ती । रङ्गरजतधर्मेण रजतरङ्गे स्मारिते न तु रङ्गरजते । माषराशिस्थमसीविषये माषार्थिप्रवृत्तिः
मसीनीलिमस्मारितमाषभेदाग्रहात् । अनुभूयमानारोपोऽसिद्ध एव । अन्यथा तवापि प्रत्येकमुभयज्ञानं स्यादिति चेत् , मैवम् । शब्दाभासात् प्रत्यक्षाद्वा इष्टानिष्टोपस्थितौ
तदभावात्। ममत्वेकधर्मादुभयोपस्थितावपि रजतरङ्गयोस्तत्तया न ज्ञानं दोषादित्युभयसिद्धं विपरीतज्ञानं च दोषात् । न चैवमावश्यकदोषादेव प्रवृत्तिनिवृत्ती, सत्यस्थले
तदभावात्। न च विसंवादिनी दोषात् , इन्द्रियलिङ्गशब्दादिदोषाणामननुगतत्वात् । तज्जन्यज्ञाने च जातिभेदात् ।

नव्यास्तु- रङ्गवृत्तितया ज्ञातधर्मस्य रजते उत्कटाकाङ्क्षा, तेन सह भूयस्सहचारदर्शनात् , न रङ्गे अल्पतथात्वादिति तत्रानुत्कटा सा । एवं रजतवृत्तितया
ज्ञातधर्मस्यापि । अतः उत्कटाकाङ्क्षया अनुत्कटाकाङ्क्षा प्रतिबन्धान्न रङ्गे निवृत्तिः । एवं रजते न प्रवृत्तिरिति ।

तन्न। इमे रङ्गरजते इति शब्दाभासाद्युगपत्प्रवृत्तिनिवृत्तिप्रसङ्गात् शब्दादुपस्थितावाकाङ्क्षायास्तुल्यत्वात् ।
किं चैवं धर्मयोर्भूयोऽल्पसहचारावगमादुत्कटानुत्कटकोटिको रङ्गं रजतं वेति संशयः स्यात् । उत्कटानुत्कटाकाङ्क्षाकल्पने मानाभावात् , उत्कटत्वानिरुक्तेश्च।

25

स्यादेतत् । संवादिविसंवादिप्रवृत्त्योर्वैचित्र्ये विशिष्टज्ञानभेदाग्रहौ हेतू क्लृप्तत्वात् , न तु विशिष्टज्ञानसत्यत्वासत्यत्वे गौरवात् । असिद्धेश्च । प्रवृत्तिनिवृत्तिमात्रे
चेष्टानिष्टपुरोवर्तिज्ञानं हेतुरिति नाननुगमः । न तु विशिष्टज्ञानं गौरवात् । न च भेदग्रहेऽतिप्रसङ्गः । विशिष्टज्ञानं भेदाग्रहं च विशेषद्वयहेतुं विना सामान्यहेतोः
कार्यानुत्पादात्। न हि निर्विशेषं सामान्यं नाम । अन्यथा अन्धस्य त्वक्संबन्धे महत्युद्भूतरूपवति चन्द्रमहसि प्रत्यक्षतापत्तिः । द्रव्यसाक्षात्कारहेतोः सत्त्वात् ।
एवं रङ्गे रजते च विसंवादिन्यौ भवतः भेदाग्रहात् । न च संवादिन्यौ, विशिष्टज्ञानाभावात् ।

अथ रजतरङ्गयोः रजतरङ्गभेदाग्रहात् विसंवादिन्यौ बलात् स्याताम् , तत्सामग्रीसत्त्वात् । विसंवादिनी तत्र सत्यरजते न संभवतीति चेत् , अत एव भेदाग्रहो
न तद्धेेतुः, तत्सत्त्वेऽपि तदभावात् । न च प्रवृत्तिनिवृत्तिगतं विसंवादित्वं संवादित्वमपेक्ष्य तद्धेतुना ते जन्येते । कारणस्य कार्यानपेक्षणादिति ।
मैवम् । प्रवृत्तेरनिष्टविषयत्वं निवृत्तेरिष्टविषयत्वं विसंवादः । तथा चानिष्टविषयप्रवृत्ताविष्टविषयनिवृत्तौ च भेदाग्रहो हेतुरिति कथं तत इष्टानिष्टविषयप्रवृत्तिनिवृत्ती
स्यातां, तत्र तस्यासामर्थ्यादिति ।

अत्र ब्रूमः – ज्ञानं स्वविषये प्रवर्तकमित्याद्यप्रवृत्तौ संवादिप्रवृत्तौ च सर्वैरवधारितं, लाघवाद्बाधकाभावाच्च । तत इष्टज्ञानं शुक्तौ प्रवर्तकं तद्विषयकं
तव्द्यवहारहेतुत्वात् स्वाविषये तस्यासामर्थ्यात् ।

अथ भेदाग्रहात् ग्रहणस्मरणाच्चावश्यकाद्विसंवादिप्रवृत्त्युपपत्तेर्विशिष्टज्ञानकल्पने गौरवाच्च स्वाविषयेऽपि ज्ञानं प्रवर्तकमिति कल्पनात् सर्वैः प्रथममवधारितमपि
त्यज्यतामिति चेत् , न । प्रथमप्रवृत्तप्रमाणबलेन तत्रापि विशिष्टज्ञानकल्पनात् । तत्र बाधकं विना तद्विरोधेन कल्पान्तरानुदयाच्च फलमुखगौरवस्यादोषत्वात् । अन्यथा
प्रथमं सर्वैर्गृहीतापि कार्यान्विते शक्तिः सिद्धार्थदर्शनाद्गौरवाच्च परित्यज्येतेति साधु समर्थितं गुरुमतम् ।

ननु स्वविषये ज्ञानं प्रवर्तकमिति सत्यम् । किं तु विसंवादिप्रवृत्ताविदं ज्ञानमेव प्रवर्तकं न त्विष्टज्ञानमपि । तद्धि ज्ञायमानेष्टभेदाग्रहे कारणतावच्छेदकं
लाघवादिति दण्डत्ववदन्यथासिद्धम् । एवं हि तत्प्रतिबद्धव्यवहारानुकूलत्वं तद्विषयत्वं रजतज्ञानस्य शुक्तौ नास्ति । अन्यथा रजतज्ञानस्य शुक्तिविषयत्वापत्तेः ।
संवादिप्रवृत्तौ चेष्टज्ञानं प्रवर्तकम् , तस्य विशिष्टज्ञानत्वात् अभेदेनावच्छेदकत्वाभावादिति मम सिद्धान्तसारः इति चेत् ,

उच्यते । स्वतन्त्रान्वयव्यतिरेकादिष्टज्ञानं हेतुरेव न त्वितरहेतुतावच्छेदकमन्यथासिद्धं वा । न हीष्टज्ञानमादायैव इष्टभेदाग्रहस्यान्वयव्यतिरेकौ येन दण्डत्ववत्तदवच्छेदकम्।
नापीष्टज्ञानस्य भेदाग्रहगर्भत्वेनान्वयव्यतिरेकौ, येन दण्डरूपवत्तदन्यथासिद्धम् ।

अन्यथा अगृहीतभेदेष्टज्ञानं हेतुरवच्छेदको भेदाग्रह इत्येव किं न स्यात् । तस्मात् स्वतन्त्रान्वयव्यतिरेकादुभयोरपि हेतुत्वम् ।
किं चेष्टविषयप्रवृत्तिस्थले प्रवृत्तिमात्रं प्रतीष्टज्ञानस्य हेतुत्वादियमपि प्रवृत्तिस्तज्जन्या क्लृप्तहेतुं विना कार्यानुत्पत्तेः । न चेष्टज्ञानजन्यत्वे इष्टविषयप्रवृत्तित्वमवच्छेदकं
गौरवात् । बाधकं विना सामान्ययोः कार्यकारणभावनियमात् । अत एव तन्नोपाधिरपि ।

अथ तत्रापीदं ज्ञानं प्रवर्तकम् , दैवाधीनं तस्येष्टविषयत्वमपीति चेत् , तर्हीष्टे इदमिति ज्ञानादेव प्रवृत्तिः स्यात् । न ह्यत्रेव तत्रापि ज्ञायमानेष्टभेदाग्रहः प्रवर्तकः।
एतेनन रजतज्ञानं शुक्तिविषयकं तत्प्रतिबद्धव्यवहाराहेतुत्वादिति निरस्तम् । असिद्धेः ।

ननु ज्ञानं यथार्थमेवेति व्याप्तिरेव तद्बाधिका । अत एव प्रवृत्तिमात्रे विशिष्टज्ञानमिष्टज्ञानं च हेतुर्लाघवात् स्वविषये ज्ञानं प्रवर्तकम् , सर्वैरेवाद्यप्रवृत्तौ
तथावगमात् । असत्यस्थले इष्टज्ञानमपि प्रवर्तकं, न तु भेदाग्रहे हेतुतावच्छेदकमित्यन्यथाख्यातिसाधनं न भवतीति चेत् , न।

तेषामन्यथासिद्धावन्वयव्यतिरेकावधारितकारणतामूलकत्वेन तैरेव व्याप्तिबाधात् । क्लृप्तहेतुंु विना कार्यानुत्पत्तेः विपक्षे बाधकाभावाच्च । ज्ञानायथार्थत्वेऽपि निष्कम्पप्रवृत्त्याद्युपायस्य
वक्ष्यमाणत्वात् ।

एतेनसंस्कारेन्द्रियाभ्यां प्रत्यभिज्ञानवच्छब्दाभासादितो वा परस्परं संबन्धविरहिणि एकं ज्ञानं न भवतीति ज्ञानं यथार्थमेवेति व्याप्तिरिति निरस्तम् । व्याप्त्याद्यसिद्धेेः
सामग्रीसत्त्वे कार्यावश्यकत्वाच्च ।

एकदेशिनस्तु- – रजतरङ्गयो रजतरङ्गभेदाग्रहान्न युगपत् प्रवृत्तिनिवृत्ती । न चान्यथाख्यातिः , दोषवशात् पुरोवर्तिनं विहाय स्मृतरजतरङ्गाभ्यां पुरोवर्तिनि
भेदग्रहात्। न च रजतत्वेन स्मृतिः संस्कारगोचरसर्वरजतविषया स्यात् सामान्यप्रत्यासत्तेस्तुल्यत्वादिति वाच्यम् । तत्तांशे रजतत्वे च प्रत्यासत्तावपि दोषात्
स्मृत्यनुभवप्रतिबन्धवदुपपत्तेः।

किं च प्रत्यक्षे सामान्यं प्रत्यासत्तिः, स्मरणे तु मनः करणं संस्कारः प्रत्यासत्तिः, न तु तस्य सामान्यं प्रत्यासत्तिरकरणत्वात् ।
तन्न । एकरङ्गरजतमात्रज्ञानानन्तरं तयोरेव यमजयोर्वा विपरीतचतुष्केऽतिप्रसङ्गादन्यथाख्यातेर्वा ।

26

अन्ये तु- – रजते नेदं रजतमिति ज्ञानं रजतत्वासंसर्गाग्रहरूपं रजतभेदासंसर्गाग्रहरूपं प्रवृत्तिप्रतिबन्धकमिति ।

तन्न। अन्यवृत्तितयोपस्थितस्य रजतत्वासंसर्गस्य रजतभेदस्य च रङ्गेऽसंसर्गाग्रहात् निवृत्तिप्रसङ्गात् रङ्गे च तयोरसंसर्गग्रहेऽन्यथाख्यातिः । रजते
रजतभेदासंसर्गासंसर्गस्यासंसर्गाग्रहान्निवृत्तिरिति चेत् , न । भेदासंसर्गासंसर्गस्य भेदसंसर्गरूपत्वेन रजतभेदसंसर्गासंसर्गग्रहाद्रङ्गे निवृत्तिप्रसङ्गात् । रजतभेदसंसर्गासंसर्गग्रहे
चान्यथाख्यातिः ।

रजतवृत्तितयोपस्थिते भेदे रजतभेदेन सह भेदाग्रहः प्रवृत्तिप्रतिबन्धकः, एवं रङ्गे निवृत्तावपीति चेत् , न । एवमपि शब्दाभासात् युगपत् प्रवृत्तिनिवृत्त्यापत्तेः
प्रवृत्तिनिवृत्तिविषयनिष्ठभेदयो रङ्गरजतभेदयोश्च शब्दादनुपस्थित्या प्रतिबन्धकत्वाभावात् ।

अपरे तुपुरोवर्तिनिष्ठतया ज्ञाते भेदे इष्टानिष्टप्रतियोगित्वाभावग्रहात् प्रवृत्तिनिवृत्ती । तथा हि – – रङ्गे रजतभेदः सन्नपि दोषान्न भासतेऽन्यस्माद्भासत एव ।
तथा च रङ्गवृत्तितया ज्ञाते भेदे रजतप्रतियोगित्वाभावग्रहाद्यथार्थादेव रङ्गे प्रवृत्तिः, रङ्गप्रतियोगित्वाभावः सन्नपि दोषान्न भासत इति तत्र न निवर्तते । एवं
रजतनिष्ठतयोपस्थिते भेदे रङ्गप्रतियोगित्वाभावग्रहात् रजते निवर्तते । रजतप्रतियोगित्वाभावः सन्नपि दोषान्न गृह्यत इति न युगपत्प्रवृत्तिनिवृत्ती । न च रङ्गवृत्तिभेदत्वं
रजतभेदेऽप्यस्तीति तेन रूपेण सोऽपि भासते सामान्यबुद्धेः सर्वविशेषविषयत्वात्। तथा च रजतभेदेऽपि तत्प्रतियोगित्वाभावग्रहेऽन्यथाख्यातिरिति वाच्यम् । प्रत्यासत्तावपि
रङ्गवृत्तिभेदत्वेन रजतभेदस्य दोषेणाग्रहादिति ।

मैवम् । इदं रजतमिति ज्ञानमन्वयव्यतिरेकाभ्यां प्रवर्तकमित्यनुभवसिद्धम् । तच्च सत्यस्थले विशिष्टज्ञानं अन्यत्र ज्ञानद्वयमेकं वा ज्ञानमिति विवादः । तत्र
तज्ज्ञानं न प्रवर्तकमित्यनुभवबाधितम् । तदपि हेतुरित्यपि न । तस्य सत्यस्थलेऽसिद्धत्वात् । विशिष्टज्ञानापेक्षया गुरुत्वात् शब्दाभासात् प्रवृत्तौ भेदादिज्ञानाभावाच्च।
एवं निवृत्तावपि ।

अन्ये तु- – इष्टवृत्तितया गृह्यमाणोऽनिष्टवृत्तितया चागृह्यमाणो धर्म स्वाश्रये प्रवर्तक इति, स च धर्मो रजते रजतत्वं रङ्गे रजतसादृश्यम् । एवं निवृत्तावपीति
न युगपत्प्रवृत्तिनिवृत्ती इति ।

तन्न। एवं हि इमे रङ्गरजते इति शब्दाभासात् रङ्गरजतयोः प्रवृत्तिनिवृत्ती न स्याताम् । रजतवृत्तिधर्मस्य च रङ्गे, रङ्गवृत्तिधर्मस्य रजते शब्दादनुपस्थितेः ।
न च शब्दानन्तरं प्रत्यक्षेण तयोरुपस्थितिः , तत्र हेतुर्न शब्द इति वाच्यम् । अनन्यथासिद्धशब्दानुविधानात् इमे रजतरङ्गे इति स्वकीयं यथार्थज्ञानमनादृत्य तत्रैवेमे
रङ्गरजते इति प्रतारकवाक्ये विश्वासेन प्रवृत्तिनिवृत्तिदर्शनाच्च ।

इतरे तु – – रजते रजतत्वं न गृह्यते दोषात् । तथा च रजतवृत्तितया यावदुपस्थितधर्मस्य रजतत्वेन भेदाग्रहान्न प्रवर्तते । रङ्गवृत्तितयोपस्थितस्य च
कस्यचिद्धर्मस्य रजतत्वेन भेदाग्रहाद्रङ्गे प्रवर्तते । एवं निवृत्तावपि । यथा तवाभेदग्रहेऽपि मानान्तरात् भेदग्रहः प्रवृत्तिप्रतिबन्धकस्तथा रजते रजतभेदग्रहेऽपि रजतवृत्तितया
यावदुपस्थितस्य रजतत्वेन मम भेदग्रहः प्रवृत्तिप्रतिबन्धक इति ।

तन्न । एतदपेक्षया विशिष्टज्ञानस्य लघुत्वेनान्वयव्यतिरेकाभ्यां च हेतुत्वात् । न च हेत्वभावः । प्रत्यभिज्ञानवत् संस्कारेन्द्रियाभ्यां विशिष्टधीसंभवात् ।
तस्य ज्ञानद्वयत्वेऽभेदोच्छेदः , तस्य तदेकमानत्वात् । न चैकविषयत्वेन तयोः परस्परसहकारिता । नामविशिष्टनामिप्रत्यक्षे तत्तांशे च तदभावात् गौरवाच्च । न
चातिप्रसङ्गः । भेदाग्रहस्यापि तद्धेतुत्वात् ।

अथ प्रत्यभिज्ञाया एकत्वेऽपि तत्तांशे न साक्षात्कारित्वं । तत्रेन्द्रियासंनिकर्षात् तज्ज्ञानजन्यत्वाच्च। किं तु स्मृतित्वम् । पुरोवर्त्यभेदांशे च साक्षात्त्वं
स्मृतित्वमनुभूतित्वं च न जातिरव्याप्यवृत्तिर्वेति चेत् , तर्हि संस्कारादसंनिकृष्टमपि भासत इति तवाप्यनुमतम्। तथा च तवैव रीत्या प्रत्यभिज्ञानवदिदं रजतमित्येकं
ज्ञानमस्तु , तत्सामग्रीसत्त्वात्। मम त्विन्द्रियजन्यत्वात् जात्यसंकराच्च साक्षात्कारित्वमेवोभयत्र।

ननु यो यत्साक्षात्कारः स तदिन्द्रियसंनिकर्षजन्यः । न च रजते स इहास्तीति चेत् ,न । प्रत्यभिज्ञाया इन्द्रियजन्यतया साक्षात्कारित्वेन तत्तायां नाम्नि च
व्यभिचारात्। संस्कारस्य स्मृतेर्वा संनिकर्षत्वाच्च । न च रजतत्वप्रत्यक्षे संयुक्तसमवायस्य प्रत्यासत्तित्वेन हेतुत्वात्तं विना न तदिति वाच्यम् । तद्विशिष्टज्ञाने
विशेषणज्ञानोपक्षीणत्वेन तस्याहेतुत्वात् । न हि विशिष्टधीसामग्रीसत्त्वे तेन विना तद्विलम्बः ।

किं च विशेषणज्ञानं विशेष्यसंबन्धस्तयोरसंसर्गाग्रह इति प्रत्यभिज्ञासत्यप्रत्यक्षसाधारणस्य विशिष्टप्रत्यक्षहेतोर्भ्रमेऽपि संभवात् । रजतसाक्षात्कारे रजतसंयोगस्य
हेतुत्वेऽपि विशेष्यसंनिकर्षत्वेन हेतुता, न तु रजतसंयोगत्वेन । यत्सामान्ये यत्सामान्यं हेतुस्तद्विशेषे तद्विशेषस्य हेतुत्वनियमात्। संयोगस्य विशेष्यभानसामग्र्यन्तरितत्वेनान्यथासिद्धतया
विशेषसामग्र्यन्तराकल्पनात् गौरवाच्च । प्रत्यक्षहेतुत्वेन क्लृप्तविशेष्यसंबन्धादेव तदुपपत्तेः ।

अपि च प्रवृत्तौ स्वतन्त्रोपस्थितेष्टभेदाग्रहकारणत्वापेक्षया रजतसाक्षात्कारे विशेष्यसंनिकर्षत्वेन हेतुत्वस्य लघुुत्वात् ।

27

वस्तुतस्तु- – दोषाद्भ्रम इत्युभयसिद्धम् , तत्र भ्रमो नासंसर्गग्रहाभावः । तस्याधिकरणरूपत्वे असाध्यत्वात् । तज्ज्ञानरूपत्वे च तस्य प्रमात्वेन दोषाजन्यत्वात् ।
भ्रमस्थानाभिषिक्तप्रमा दोषजन्यैवेति चेत् , न। तस्याः क्लृप्तसामग्र्यन्तरजन्यत्वादिति भ्रमोऽसत्यज्ञानमित्यसंनिकृष्टमपि दोषात् भासत इत्यभ्युपेयम् । अपि च दोषस्य
विशिष्टमेव ज्ञानं व्यापारः, प्रवृतौ तद्धेतुत्वस्य क्लृप्तत्वात् । न च भेदाग्रहः , कल्पनीयकारणभावत्वात् । यत्तु दुष्टात्कार्यं नेति , तत्र बीजेन्द्रियसाधारणं न
दुष्टत्वमेकमस्ति ।

एवं प्रत्यक्षमप्यन्यथाख्यातौ मानं कारणबाधाभावात् । तथा हि-इदं रजततया जानामीत्यनुव्यवसायसाक्षिकमेवान्यस्यान्यथा भानम् । न हि विषयत्वेऽनुव्यवसायादन्यत्
प्रमाणम् । न ह्यतद्विषयस्तज्ज्ञानविषयत्वेन न वा तदविषयकं तद्विषयकत्वेनानुव्यवसीयते । अनुव्यवसायस्य प्रमात्वनियमात् । अन्यथा घटज्ञानेऽपि कदाचित्पटं
जानामिति स्यात्। न च भेदाग्रहदशायां रजतज्ञानविषयत्वासंसर्गाग्रहः । शुक्तौ भेदग्रहेऽपि शुक्ती रजतत्वेन मया ज्ञाता शुक्तौ रजताज्ञानं मे वृत्तमित्यनुव्यवसायात् ।
अथ विचारसाध्यासंसर्गग्रहबाध्योऽयमसंसर्गाग्रहः, तेन विचारं विना भेदग्रहेऽप्यवतिष्ठत इति चेत् , न । इदं रजततया जानामीत्यत्र शुक्तिकर्मकरजत
त्वप्रकारकज्ञानासंसर्गाग्रहस्यात्मन्यसंभवात् तादृशज्ञानाप्रसिद्धेः ।

न चेदं जानामीति रजतं जानामीति तदाकारः , तृतीयार्थस्य प्रकारत्वेन प्रकारिणोऽभानेऽभानप्रसङ्गात् ।
विशिष्टज्ञानं च सर्वत्र विशेषणविशेष्यीयमित्यन्यथाभानमपि तथा । ज्ञाने रजतत्वानभ्युपगमाद्विशेषणविशेष्यविषयकत्वाच्च न साकारवादः।
यत्तु – ज्ञानमिथ्यात्वे बाध्यबाधकव्यवस्था न स्यादविशेषादिति । तन्न । अनन्यथासिद्धाया धियो बाधकत्वात् । तथा हि यत्र दुष्टादुष्टेन्द्रियजन्यं परस्परनिरपेक्षमेकत्र
विरुद्धं ज्ञानद्वयमुत्पद्यते , तत्र प्रथममनुपजातविरोधित्वान्नानागतं बाधते , तस्याप्राप्तत्वात् । उत्तरं तु स्वकारणादुत्पद्यमानमुपजातविरोधितया नानुपमृद्य पूर्वमुत्पत्तुमर्हतीति
पूर्र्वं बाधात्मकमुत्पद्यते, अन्यथा नोत्पद्येतैव । न चैवमेवेति वाच्यम् । अनुभवविरोधात् । यदाहुः- -“पूर्वात्परबलीयस्त्वं तत्र नाम प्रतीयते ।
अन्योन्यनिरपेक्षाणां यत्र जन्म धियां भवेत् “॥

इति । यत्र पूर्वापेक्षमुत्तरं ज्ञानमुत्पत्तुमुन्मुखं तत्रोपजीव्यपूर्वविरोधेनोत्तरं नोत्पद्यते । अतोऽजातं सत्पूर्वं कथं बाधताम् । यथा प्रत्यक्षादिविरुद्धानुमितिः ।
ननु भ्रमस्य किं बाध्यते । न स्वरूपं तस्य सत्त्वात् । नापि रजतत्वप्रकारकत्वं शुक्तिविषयकत्वं वा, तयोरपनेतुमशक्यत्वात् । जातं हि तद्रजतत्वेन शुकिं्त
विषयीकृत्य। नापि व्यवहारः, प्रवृत्त्यादेर्वृत्तत्वात् । नाप्यनागतव्यवहारजनकत्वम् , तस्य कारणाभावादेवासंभवात् ।

उच्यते । बाधकेन भ्रमस्य भ्रमत्वबुद्धिरेव बाधः । यत्तु धियामयथार्थत्वे कथमाश्वास इति। तन्न । प्रामाण्यग्रहोपायस्य दर्शितत्वात् । सत्यत्वनियमेऽपि
सदसंसर्र्गाग्रहस्यागृहीतासंसर्गस्य ज्ञानद्वयस्य च बहुषु दर्शनात् कथमाश्वासः ।

अथ सदसंसर्गाग्रहस्य प्रतिसन्धानं विलम्बितम् । सद्विषयत्वं च शीघ्रोपस्थितमित्यौत्सर्गिकसद्विषयत्वज्ञानाद्विश्वासः । यत्र तु कदाचित्संशयस्तत्र ज्ञानान्तरादेव
संशयनिवृत्तिरिति चेत् , ममाप्यौत्सर्गिकं धियां सत्यत्वं बाधकेनापनोद्यत इति तदनवतारात् सत्यत्वविश्वासः ।

किं च तव ज्ञानान्तरेऽप्यविश्वासः । विशेषदर्शनाद्विश्वासस्तुल्य एव । यथा च तत्रापि न संदेहस्तथोक्तं परतः प्रामाण्ये ।
अन्ये तु- – स्मृतयोग्यवैधर्म्याभावोऽधिकरणं तज्ज्ञानं वा । तच्च प्रत्यक्षत एव गृहीतमिति युक्तो विश्वासः । अयोग्ये भेदकेऽधिकरणे च भेदसंशये ज्ञानान्तराद्विश्वास इति।
तन्न। उभयत्रापि ज्ञानान्तराद्विश्वासतुल्यत्वेन शिष्यदन्धनमात्रत्वात् ।

वस्तुतस्तु भेदाग्रहादेवाभेदव्यवहारोपपत्तावभेदविषयत्वं क्वापि न सिद्धमस्तीति कथं सद्विषयत्वसिद्धिः ।
यत्तु दोषो न हेतुरिति, तन्न । फलबलेन तथात्वात् ।

अथेदं रजतमिति ज्ञानं कथमयथार्थम् , इदंरजतयोः सत्त्वात् । न च तदुभयतादात्म्यमसत् , उभयं तादात्म्यं चेत्यतोऽधिकस्याभावात् । तयोश्च सत्त्वात् । असत्त्वे
वा असत्ख्यातिः । एवं संसर्र्गारोपोऽपीति ।

उच्यते । सन्मात्रविषयत्वेऽपि तदभाववति तत्प्रकारकत्वं प्रकारव्यधिकरणविषयताकत्वं वा अयथार्थत्वम् ।
प्राञ्चस्तु – – तादात्म्यसंसर्गयोरसतोरेव मन्यन्तेेविषयत्वम् । न चैवमसत्ख्यातिः, सदुपरक्तस्यात्यन्तासतः ख्यात्यभ्युपगमात् । सदनुपरक्तस्याखण्डस्यात्यन्तासतः
ख्यातिरसत्ख्यातिर्नाभ्युपेयते कारणाभावात् । तदनुपपत्तिस्तुल्यैवेति चेत् , न । अत्र विशिष्टज्ञानसामग्र्या दर्शितत्वात् । तदुक्तं वाचस्पतिमिश्रैः – –

28

“तस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते ।
तन्निरालम्बनं ज्ञानमसदालम्बनं मतम् “॥ इति ॥

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे अन्यथाख्यातिवादः ॥
अथ प्रत्यक्षलक्षणवादः

सा च प्रमा चतुर्विधा प्रत्यक्षानुमित्युपमितिशाब्दीभेदात् । एवं चतसृणां तासां करणं प्रमाणमपि चतुर्विधं प्रत्यक्षानुमानोपमानशब्दभेदात् । अन्येषां यथायथमेष्वेवान्तर्भावात्।
तथा च वक्ष्यामः ।

ननु न प्रत्यक्षं तावदिन्द्रियार्थसंनिकर्षोत्पन्नं ज्ञानमव्यभिचारि । आत्मानुमितिस्मृत्योर्ज्ञानमात्रे चातिव्याप्तेः । आत्मनोऽर्थस्य मनसेन्द्रियेण संयोगादुत्पत्तेः ।
ईश्वरप्रत्यक्षाव्याप्तेश्च। संनिकर्षस्य च संयोगादिरूपत्वेनाननुगमाच्च । संयोगाद्यन्यतमस्य चानिर्धारितैकपरत्वे भागासिद्धिरितरभेदसाधने, व्यर्थविशेषणत्वं च । इन्द्रियार्थयोरेकजन्यत्वस्य
लक्षणत्वे व्यर्थविशेषणत्वम्। न च तयोरेकैकजन्यत्वमेव लक्षणम् । आत्ममनोजन्यत्वेन ज्ञानमात्रे गतत्वात् , इन्द्रियस्य प्रत्यक्षनिरूप्यत्वाच्च ।
नापि ज्ञातकरणाजन्यत्वे सति सत्योऽनुभवः प्रत्यक्षम् । लिङ्गादेरजनकतया ज्ञानस्याज्ञातस्य करणत्वे अनुमित्यादौ गतत्वात् ।

ज्ञानाजन्योऽनुभवः सत्य इत्यपि न । विशिष्टप्रत्यक्षाव्याप्तेः तस्य विशेषणज्ञानजन्यत्वात् ।
नापि सत्यत्वे सति साक्षात्कारित्वम् , नियतव्यञ्जकाभावेन ग्रहीतुमशक्यतया तस्य जातित्वासिद्धेेः । सत्त्वे वा तदेव लक्षणं व्यवहारनिमित्तं चास्तु , किं जात्या ।
उच्यते । प्रत्यक्षस्य साक्षात्कारित्वं लक्षणम् । चाक्षुषादिज्ञाने साक्षात्करोमीत्यनुगतबुद्धेर्र्बाधकं विना जातिविषयत्वात् । न चेन्द्रियजन्यत्वं तथा ।
अन्योन्याश्रयादिन्द्रियस्यातीन्द्रियत्वाच्च । न च नियतव्यञ्जकाभावान्न जातिः । गोत्वादौ सास्नादेरिवाननुगतस्यापि चक्षुः करणकानुभवत्वादेर्व्यञ्जकत्वात् ।
न च जातावनुगतव्यञ्जकनियमः । ज्ञानेच्छासुखदुःखादेस्तदभावात् । प्रत्युत नियतव्यञ्जकसत्त्वे जात्यसिद्धिरेव । तत एवानुगतबुद्ध्युुपपत्तेः । निर्विकल्पकेश्वरयोगिप्रत्यक्षे
च प्रत्यक्षत्वं धर्मिग्राहकमानसिद्धम् ।

योगजधर्र्माजन्यजन्यस्वविषयकसविकल्पकाजन्यसामान्यलक्षणप्रत्यासत्त्यजन्यजन्यप्रत्यक्षस्य लक्षणमनागतगोचरसाक्षात्कारहेतुप्रत्यासत्त्यजन्यजन्यसाक्षात्कारत्वम्।
अन्ये तु सामान्यज्ञानप्रत्यासत्त्योरिन्द्रियसंबद्धविशेषणतान्तर्भावात् तज्जन्यं प्रत्यक्षं संग्राह्यमेवेति ।

(यद्वा विषयत्वेन)(विशेष्यत्वेन) स्वविशेष्यजन्यं ज्ञानं जन्यप्रत्यक्षम् । आत्मविशेष्यकानुमितिशाब्दस्मृतिषु विशेष्यत्वेन तस्य न हेतुत्वम् , विशेष्यं विनापि
तासामुत्पत्तेः किं तु समवायित्वेन ।

यद्वाइन्द्रियजन्यं ज्ञानं जन्यप्रत्यक्षम् । इन्द्रियत्वेन जनकत्वं विवक्षितम् । जन्यप्रत्यक्षमात्रे इन्द्रियत्वेन चक्षुरादीनां कारणता । अनुगतहेतुं विना
अनुगतकार्यस्याकस्मिकत्वापत्तेः। स्मृत्यनुमित्यादौ च मनसो नेन्द्रियत्वेन हेतुत्वम् , किं तु मनस्त्वेेन । अन्यथा स्मृत्यादेः साक्षात्कारत्वापत्तेः ।
इन्द्रियत्वं च स्मृत्यजनक(ज्ञानहेतु)(ज्ञानकारण)मनस्संयोगाश्रयत्वम् । प्राणशरीरात्मानश्च स्मृतिजनकमनस्संयोगवन्तः । शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति
ज्ञानहेतुमनस्संयोगाश्रयत्वं वा ।

ज्ञानाकरणकं ज्ञानमिति तु वयम् ।
विशिष्टप्रत्यक्षे च विशेषणज्ञानं न करणं व्यापाराभावात् । विशिष्टवैशिष्ट्यप्रत्यक्षे च विशेषणज्ञानं हेतुर्न तु विशेषणविशेषणधीरपि विशेषणधीद्वारा करणम् ,
मानाभावात्।

प्रत्यभिज्ञायां तु तत्तास्मृतिः कारणं न तु संस्कारद्वारा अनुभवः करणम् । तस्याः संस्कारजन्यत्वे स्मृतित्वापत्तेः । स्मृतित्वे लाघवेन संस्कारजन्यत्वस्य
तन्त्रत्वात्। तद्धेतुत्वेनैव तत्सिद्धेश्च ।

प्राभाकरास्तु – – साक्षाद्धीः प्रत्यक्षम् । साक्षात्त्वं च न जातिः, नियतव्यञ्जकाभावात् । नापि सविकल्पकानपेक्षज्ञानत्वम् , प्रत्यभिज्ञासादृश्यद्वित्वादिप्रत्यक्षाव्यापनात्।
किं तु यज्ज्ञानं यद्विषयत्वे सविकल्पकाजन्यं तत्तत्र साक्षाद्धीः । मितिमातृप्रकाशे च सर्वमेव ज्ञानं प्रत्यक्षं ज्ञानाजन्यत्वात् । जातावनुगतधीरपि प्रत्यक्षा
जातिव्यक्तिनिर्विकल्पकजन्यत्वात्। सादृश्यादिविशिष्टवैशिष्ट्यप्रत्यक्षे च न विशेषणज्ञानं हेतुः, तेन विनापि युगपदिन्द्रियसंनिकृष्टे विशिष्टप्रत्ययोदयात् ।

29

दीर्र्घादिप्रत्यक्षे च न हस्वादिज्ञानापेक्षा, किं तु तव्द्यवहारे। अनुमित्यादेर्मेयांशे प्रत्यभिज्ञायाश्च तत्तांशे ज्ञानजन्यत्वान्न प्रत्यक्षत्वम् , किं तु परोक्षत्वमेव ।
मितिमात्रंशे इदन्तांशे च द्वयोरेव प्रत्यक्षत्वम् ।

यत्तु तत्ताप्रकाशे न तत्तासविकल्पकत्वेन कारणता, किं तु तत्ताज्ञानत्वेन । तन्न । अनुमित्यादावपि लिङ्गादिज्ञानत्वेनानुमेयादितुल्यत्वादिति ।
अत्रोच्यते। यदि तत्तायां प्रत्यभिज्ञा परोक्षानुभवरूपा तदा नोत्पद्येत, तद्धेतुलिङ्गादेरभावात्। तत्ताज्ञानसहितमिन्द्रियं जनकमिति चेत् , तर्हि इन्द्रियजन्यत्वात्तत्र
साक्षाद्धीरेव स्यात् । न च ज्ञानानपेक्षेन्द्रियजन्यत्वं तत्र तन्त्रम् , गौरवात् । ज्ञानसहितेन्द्रियजन्यत्वेनेदन्तांशेऽप्यप्रत्यक्षत्वप्रसङ्गाच्च। न ह्येकस्मिन् ज्ञाने जनयितव्ये
तदपेक्षा तदनपेक्षा च संभवति ।

अंशे तदुभयमपीति चेत् , न । ज्ञाने अंशस्य विषयत्वेन तदजन्यत्वात् । एवं मितिमात्रंशे च सर्वं ज्ञानं न प्रत्यक्षम् इन्द्रियाजन्यत्वात् साक्षात्कारे तस्य
कारणत्वात्। मनोजन्यत्वे अनुमेयांशेऽपि तत्त्वप्रसङ्गः । न च ज्ञानमात्रसामग्रीजन्यत्वं प्रत्यक्षत्वे तन्त्रम् , गौरवात् । ज्ञानमात्रं च न ज्ञानत्वं, तस्याजन्यत्वात् । नापि
सर्र्वं ज्ञानं, प्रत्यक्षज्ञाने प्रत्येकं सर्वज्ञानसामग्र्यजन्यत्वात् सर्वज्ञानसामग्र्यप्रसिद्धेश्च ।

अपि च ज्ञाने अवयवाभावेनांशो विषय एव । विषये च ज्ञानं न कारणम्। अतोऽनुमितिप्रत्यभिज्ञयोः स्वविषयेऽनुमेये तत्तायां च प्रत्यक्षत्वं स्यात् । विषयस्य
सविकल्पकाजन्यत्वात् ।

अथ प्रत्यभिज्ञायां तत्ताविषयत्वेन तज्ज्ञानं कारणम् । एवमनुमित्यादौ मेयविषयत्वेऽपि । मितिमात्रिदन्ताधर्मिविषयत्वे च न ज्ञानं कारणं , किं तु ज्ञानसामग्रीति
चेत् , न । तद्विषयत्वं हि ज्ञाने स्वकारणाधीनं तदीयस्वभावत्वं स्वरूपविशेषः । स च (ज्ञानाजन्य)(ज्ञानजन्य) एव । दण्डिज्ञानादौ चाव्याप्तिः । तस्यानुमित्यादिवद्विशिष्टज्ञानत्वेन
विशेषणज्ञानजन्यत्वात् । न च परोक्षत्वमुपाधिः । प्रत्यभिज्ञायां प्रथमोत्पन्नजातिव्यक्तिज्ञाने जन्ये जातेरनुगतप्रत्यक्षे च साध्याव्यापकत्वात् ।
पूर्वव्यक्तिवृत्तित्वे सत्येतव्द्यक्तिवृत्तित्वमनुगतत्वमिति तत्र पूर्वानुभूतव्यक्तेर्विशेषणत्वेन तत्र ज्ञानस्यानुगतत्वप्रत्यक्षे कारणत्वात्। अन्यथा प्रथममप्यनुगतधीप्रसङ्गः।
अत एवज्ञानसाक्षादजन्यं ज्ञानं प्रत्यक्षम् । प्रत्यभिज्ञायां संस्कार एव साक्षाज्जनकः । जातावनुगतधीरपि संस्कारजन्या । एवं सादृश्यादिप्रत्यक्षेऽपि प्रतियोगिसंस्कार
एव कारणमिति निरस्तम् । दण्डानुभवजन्यदण्डिप्रत्यक्षे धारावाहिकप्रत्यक्षे चाव्यापनात् । उत्तरविशिष्टज्ञाने पूर्वविशिष्टानुभवस्यैव विशेषणज्ञानत्वेन हेतुत्वात् संस्कारस्य
स्मरणेतराजनकत्वाच्च। अन्यथा प्रत्यभिज्ञादेः संस्कारजन्यत्वेन स्मृतित्वं स्यात् इत्युक्तत्वात् ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे प्रत्यक्षलक्षणवादः ॥
अथ संनिकर्षवादः

प्रत्यक्षविशेषे संनिकर्षविशेषो हेतुरननुगत एव । संयोगेन द्रव्यग्रहः संयुक्तसमवायेन रूपकर्मणोर्ग्रहणम् , संयुक्तसमवेतसमवायेन रूपत्वादेः, समवायेन शब्दस्य,
समवेतसमवायेन शब्दत्वादेः, विशेषणतया शब्दाभावस्य, इन्द्रियसंबद्धविशेषणतया समवायघटाभावादेर्योग्यसंनिकर्षादेव ग्रहो न संनिकर्षमात्रात् ।
अथ सूक्ष्मावयवावच्छेदेनावयविसंयोगेऽपि न तद्ग्रह इति महावयवावच्छेदेन संयोगो हेतुः । तथा चावयवेन्द्रियसंयोग एव हेतुः । न च

ग्राह्यसंयोगावच्छेदकावयवसंयोगापेक्षया ग्राह्यसंयोगस्य लघुत्वात् स एव हेतुः । तस्यातिप्रसक्तत्वात् ।
एतेनस्वावयवसंयोगापेक्षया स्वसंयोगस्य लघुत्वात् स एव हेतुरिति निरस्तम् । नाप्यवच्छेदकसंयोगेनान्यथासिद्धौ तत्राप्यवच्छेदकान्तरसंयोगेनान्यथासिद्धिरिति
संयोगो हेतुरेव न स्यादिति वाच्यम् । अल्पतरतमभागावच्छेदेन संयोगस्य हेतुत्वेऽतिप्रसङ्गादिति ।

मैवम् । द्रव्यग्रहेऽवयविमात्रग्रहे वा स्थूलावयवावच्छेदेन संयोगो न न हेतुः, आत्मत्रसरेणुसूक्ष्मभागग्रहे व्यभिचारात् । किं तु घटादिग्रहे स हेतुः । एवं च
आत्मादिद्रव्यग्रहो ग्राह्यसंयोगजन्य इति घटादिग्रहोऽपि तद्वदेव स्वग्राह्यसंयोगजन्य इति । तस्मिन् सत्यपि घटादिग्रहो नास्तीति यदि तदा स्थूलावयवसंयोगोऽवच्छेदकोऽस्तु
तत्संयोगोऽपि वा हेतुः । न तु क्लृप्तहेतुपरित्यागः ।

ननु संयुक्तसमवायेन अवयविग्रहोऽस्तु, न तु संयोगादिस्तत्र हेतुः, तस्य रूपादिग्रहे क्लृप्तत्वात् । न च लाघवात्संयोग एव तथा । तस्य कल्पनीयकारणत्वादिति
चेत्,

न । आत्मग्रहे इन्द्रियसंयोगस्य कारणत्वात् अन्यत्रापि द्रव्यसाक्षात्कारत्वेन तथा कल्पनात् । न च बहिरिन्द्रियद्रव्यग्रहे अवयविग्रहे वा संयुक्तसमवायः कारणम्।
लाघवेन संयोगस्यैव कारणत्वेन कल्पनात् ।

30

ननु संयुक्तसमवायो न गन्धग्राहकः, किंतु आश्रयसंयोगः । एवं गन्धत्वग्रहोऽपि आश्रयाश्रयसंयोगादिति संयुक्तसमवेतसमवायोऽपि न हेतुः । न च गन्धे सति
गन्धसमवायं विना गन्धाग्रहोऽस्ति । न चैवं संयुक्तघटे भाविगन्धग्रहः स्यात् , गन्धस्यापि स्वग्रहे हेतुत्वात् । न च गन्धस्य प्रत्यक्षत्वेनेन्द्रियसंनिकर्षाश्रयत्वमनुमेयम्।
शब्दप्रत्यक्षहेतोः समवायस्य गन्धेऽपि सत्त्वात् , गन्धेन्द्रियसंनिकर्षसाधने साध्याप्रसिद्धेः ।

मैवम् । गन्धसमवायिसंयोगस्य हेतुत्वे हि यदि गन्धसमवायस्य विशेषणता तदा स हेतुरेव । उपलक्षणत्वे च संयुक्तद्रव्यमात्रमुपलक्ष्यम् । तथा च
घटसंयोगात्पटगन्धग्रहप्रसङ्गः।

अथ स्वसमवायिसंयोगो हेतुः । तत्र समवायोऽवच्छेदक इति चेत् , तर्हि संयोगिसमवायस्य हेतुत्वे संयोगोऽवच्छेदकः समवायो हेतुरिति तुल्यम् । तदेतत्
परिवर्त्य क्षौमपरिधानमित्युच्यते ।

ननु संयुक्तसमवायो न संयोगो न वा समवायः नोभौ वा, गन्धे इन्द्रिये चावृत्तेः । न चेन्द्रियेण गन्धस्य परम्परासम्बन्धः । परम्परा हि संयोगसमवायावेब । तत्र
विरोध एव नाधिकोऽपसिद्धान्तादिति चेत् , न । इन्द्रियतत्संयोगतदाश्रयसमवायानामेव परम्परासम्बन्धत्वात् । अन्यथा नीलत्वजातेः परम्परासम्बन्धेन वस्त्रचर्मकम्बलेषुु
अनुगतव्यवहारोच्छेदः।

ननु संयुक्तसमवेतसमवायात् न रूपत्वादिग्रहः तदभावादिति चेत् , न । तदनभ्युपगमेऽपि रूपादिसादृश्यस्य ततो ग्रहात् । न च द्रव्यसादृश्यादेव तव्द्यवहारः ,
बाधकं विना प्रतीत्यविशेषात् वैपरीत्यापत्तेः । आश्रयवैसादृश्येऽपि रूपरसादेः सादृश्यानुभवाच्च । रसत्वमधुरत्वगन्धत्वसुरभित्वादिश्च जातिः अनुगतप्रत्ययात् । रूपे च
यद्यपीदं नीलमित्यनुभवो न तु इदं रूपमिदं रूपमिति, तथापि पीतो वर्णः नीलो वर्ण इति वर्णाकारानुगतबुद्धिरस्ति रूपत्वे मानम् । न च चक्षुराद्येकैकेन्द्रियग्राह्यत्वं
रूपत्वादिकम् । बाधकं विनानुगतबुद्धेर्जातिविषयत्वात् । इन्द्रियातीन्द्रियत्वेन चक्षुराद्यग्रहेऽपि रूपत्वादिप्रतीतेः । न हि अननुसंहितोपाधेरुपहितप्रत्ययः ।
अतीन्द्रियरूपरसगन्धाननुमानापत्तेश्च । योग्यताया रूपत्वादिजातिनिरूप्यत्वात् ।

यद्यपि तन्मते नीलपीताद्येकैकमेव नित्यं नातीन्द्रियं, तथापि चक्षुर्घ्राणादिरूपस्यालोकपृथिव्यादिरूपाभिन्नत्वेन प्रत्यक्षत्वप्रसङ्गः । न चैकमेव रूपमुद्भूतमनुद्भूतं
चेति। विरोधात् । रूपत्वादिना परस्परव्यावृत्ततया ज्ञातस्य रूपादेरुपलब्ध्या तत्कारणत्वेन परस्परव्यावृत्तचक्षुराद्यनुमितिः , परस्परव्यावृत्तचक्षुराद्यनुमितौ च चक्षुर्ग्राह्यत्वादिना
रूपादि-परस्परव्यावृत्तधीरित्यन्योन्याश्रयाच्च । नीलपीतादिप्रतीतौ भिन्नभिन्नकरणत्वसिद्धावपि तत्तत्करणग्राह्यत्वस्य सर्वरूपेष्वसिद्धिः।
ननु नीलपीताद्युपलब्धिकरणेषु गन्धरसस्पर्शाव्यञ्जकत्वे सति नीलादिव्यञ्जकत्वात् आलोकवदिति तैजसत्वंं प्रसाध्य तैजसेन्द्रियग्राह्यत्वेन नीलादौ रूपाकारानुगतधीरेवं
गन्धादावपीति चेत् , न । एवंप्रणालीज्ञानाभावेऽपि रूपरसादावनुगतप्रत्ययात् नीलाकारानुगतबुद्धेश्च नीलत्वं जातिः । न च चक्षुर्ग्राह्यत्वं तत् , पीतादौ गतत्वात् ।
ननु एकैका एव नीलारुणादिव्यक्तयः , नानामसीनीलिम्नि (समी)(मसी) भेदग्रहेऽपि तत्त्वेन प्रत्यभिज्ञानात् । न चानेकव्यक्तिवृत्तित्वे नित्यत्वे जातित्वापत्तिः ।
जातेः संस्थानमात्रव्यङ्ग्यत्वात् , अवयवावयविवृत्तित्वात् , गोत्वादिना परापरभावानुपपत्तेश्च । नीलेतरादिप्रतीतिश्च तदन्यरूपासंभेदादिति चेत् , न । पाकेन श्यामं नष्टं
रक्तमुत्पन्नमिति प्रत्ययात् ।

न चासौ भ्रमः, बाधकाभावात् । न चोत्पादविनाशप्रत्ययस्य समवायो विषयः, तदनुल्लेखात् । एवं च मधुरादिरसानां सौरभासौरभाणां च गन्धानामेकैकत्वं स्यात्
नीलादितुल्यत्वात् । एवमस्तु इति चेत् , न । तेषामुत्पादविनाशानुभवात् । एकैकत्वे मधुरतरत्वाद्यनुपपत्तेश्च ।

ननु श्रोत्रेण समवायेन शब्दग्रहे सर्वशब्दोपलब्धिः स्यात् । न च कर्णशष्कुल्यवच्छेदेनोत्पन्नो गृह्यते । अवच्छेद्यस्य आकाशत्वेनाविशेषात् । तदन्यत्वे शब्दस्य
तत्रासमवायात् । तस्मात् यः शब्दोे यं प्रति योग्यः स तेन गृह्यते नान्यः । न च पुरुषविशेषं प्रति योग्यत्वं न स्वरूपम् , अननुगमात् ; न च जातिः, तस्याः
निष्प्रतियोगिकत्वात्; न हि गौः कंचित् प्रत्यगौरिति वाच्यम् । सप्रतियोगिकत्वं हि न सावधित्वं दीर्घत्वादिवत् । नापीतरधीनिरूप्यत्वमभाववत् । किं तु शब्दग्रहे सा
जातिः कारणं तदवच्छेदिका वा। अत एव न कुर्वद्रूपत्वप्रवेशः, सहकारितास्वीकारात् । सर्वसाधारणत्वमिष्टमेव, सर्वैस्तथा व्यवह्रियमाणत्वात् । गोत्वेऽपि तदेव तत् ।
शब्दमात्रस्य योग्यत्वमननुगतमेव, गुणयोग्यत्ववदिति ।

मैवम् । शब्दस्य प्रत्यक्षत्वेन प्रत्यासत्तिसाधनात् । न च समवायोऽतिप्रसक्तोऽन्योऽनभ्युपगत इति वाच्यम् । कर्णसंयोगावच्छिन्नसमवायस्य प्रत्यासत्तित्वात् ।
कर्णसंयोगो हि समवायवृत्त्या शब्दाधारतायां परिचायकः । एवं च इह शब्दः , नेह शब्दः इत्यनुभवात् शब्दस्याव्याप्यवृत्तित्वे सिद्धेे यस्य शब्दस्य समवायवृत्त्या आधारता
कर्णसंयोगेनावच्छिद्यते स गृह्यते, यस्य तु तदत्यन्ताभावेनावच्छिद्यते स न गृह्यते । तथा (यथा) संयोगस्य समवायेनाधारता हस्तसंयोगेनावच्छिद्यते न तदभावेनेति
हस्तसंयोगावच्छेदेन गृह्यते नान्यत्र; अन्यथा हस्तसंयोगस्यानवच्छेदकत्वे सर्वमिदं समानमिति संयोगस्यापि सर्वत्रोपलब्धिः स्यात् । न चैवं समवायोऽप्यव्याप्यवृत्तिः।
समवायेन वृत्त्या तस्याधारावृत्तित्वात् । अभावस्तु विशेषणतया व्याप्यवृत्तिरेव ।

न चैवं सर्वत्र सर्वशब्दोपलब्धिः स्यात् । शब्दसमवायस्य सत्त्वेऽप्यन्यत्र शब्दात्यन्ताभावसत्त्वात् ।
अथ वीणादौ शब्द इत्यबाधितानुभवबलात् तदवच्छिन्नं नभः श्रोत्रं, न तु कर्णावच्छिन्नमेव । कर्णे न शब्दः किं तु वीणायामित्यनुभवात्। अन्यथा कर्णे शब्द इति
धीः स्यात्। न चानन्तवीणाद्यवच्छेदकत्वेनानन्तश्रोत्रस्वीकारे गौरवम् , शब्ददेशत्वेनैकत्वे चातिप्रसङ्गः, सर्वदेशानां शब्दावच्छेदकत्वादिति वाच्यम् । वीणादिदेशताग्रहस्य

31

बाधकं विना प्रमाणत्वे गौरवस्य न्याय्यत्वात् । प्रत्युत सर्वतो दिक्षु अनन्तशब्दसन्तानोत्पादक्रमेण कर्णोत्पादे कल्पनागौरवं मानाभावात् । न च दूरसंनिधानयोः शब्दानां
अबाधिततारमन्दत्वादिवैधर्म्यप्रतीत्या भेदसिद्धेः संतानसिद्धिः । दूरत्वादिदोषात्तारत्वाग्रहे मन्दत्वारोपात् तदुपपत्तेः । व्यवहितकर्णे शब्दानुत्पादवत् व्यवहितशब्दानुपलब्धिः
निमित्तवायुसंयोगाभावात्।

(ननु)(न तु) व्यवधानाभावस्य हेतुत्वात् तस्य संनिध्युपक्षीणत्वात् कर्णानुपघातोऽपि हेतुरिति न तदुपघाते शब्दग्रह इति ।
मैवम् । कर्णावच्छेदेनापि शब्दग्रहात् कर्णशष्कुल्यप्यवच्छेदिकेति कर्णावच्छिन्नमेव नभः श्रोत्रम् , आवश्यकत्वात् लाघवाच्च । शब्दमात्रग्रहे तदनुविधानात् ,
शरीरसंयुक्तस्य सतः साक्षात्प्रतीतिसाधनस्य इन्द्रियत्वात् , कर्णेन वीणाशब्दं शृणोमीति तत्कारणत्वेनाबाधितानुभवाच्च । न तु वीणदिकम् ,अनन्तत्वात् , शब्दमात्रग्रहे
तदननुविधानात् , वीणाद्यवच्छिन्नस्य नभसः शरीरासंयुक्तत्वेनानिन्द्रियत्वात् वीणया शब्दंं श्रृणोमीत्यननुभवाच्च ।

कथं तर्हि वीणायां शब्द इति ज्ञानं, श्रूयमाणस्य शब्दस्य तदनधिकरणत्वादिति चेत् , न । न हि सर्वत्र शब्दे मृदङ्गाद्यधिकरणग्रहनियमः । अन्यथा क्वचिदपि
देशे संदेहविपर्ययतदनुल्लेखानामनुपपत्तेः । यत्राप्यस्ति तत्र शरीरे सुखमितिवत् उत्पत्तये परंपरया वीणाद्यपेक्षणात् तदधिकरणत्वम् । तवापि वीणायाः शब्दानाश्रयत्वेन
तथैवाधिकरणत्वात्।

नन्वेवं कर्णे अनेकगकारोत्पादे अनेकग्रहणप्रसङ्गः । न चैकग्रहे अन्यग्रहसामग्री प्रतिबन्धिका । कोलाहले तथा अदर्शनादिति चेत् , न । तारेण मन्दाभिभवात्।
तुल्यत्वे वा अनेकग्रहस्येष्टत्वात् । भेदाग्रहस्तु अत्यन्तसारूप्यात् । एवं च वीणादेरश्रोत्रत्वे मैत्रेणाहमनुवाकमध्यापितो यद्गीतं त्वया श्रुतं तन्मयापीत्यादिप्रतीतीनां
तदुच्चारणादिप्रयोज्यजातीयत्वं विषयः । शब्देे हि कारणविशेषप्रयोज्या जातिरवश्यं वाच्या । अन्यथा शब्दविशेषेण पुत्राद्यनुमानं न स्यात् , जातिं विना विशेषान्तराभावात्।
एवं च कर्णावच्छिन्नस्य नभसः श्रोत्रत्वे तेन वीणादिप्रभवशब्दग्रहो न तत्र सन्तानक्रमेणोत्पादं विना इत्यनन्यगतिकतया तत्कल्पनापि प्रामाणिकी ।
शब्देन चाव्यवहितपरमाणुदेशोत्पादक्रमेण न शब्दारम्भो येन मेघजादिशब्दानां भूलोकप्राप्तिर्युगान्तरेऽपि न स्यात् । किं तु मेघाद्यभिहतसर्वतोगामिमहावायोः महति
देशे संयोगनिमित्तमासाद्य आद्यशब्देन सर्वदिग्वर्ती शब्द एक एव जन्यते । निमित्तसंयोगानुुरोधित्वात् विभुकार्याणां उत्तरोत्तरेणापि अधिकाधिकदेशतः सर्वत्र एकैक एव
शब्दो वीची (तरङ्गत्वात् )(तरङ्गवत्) उत्पाद्यते । अत एव सर्वैरेकशब्दग्रहः ।

वायोश्च नयनवन्महावेगतया शीघ्रगामित्वेन अग्रिमशब्दारम्भादाद्यशब्दानन्तरमचिरेणैव शब्दोपलम्भः । वायोरेव च (मन्दतरतमादिक्रमेण) मन्दतरतमादिक्रमेण
मन्दादिशब्दोत्पत्तिः।

यद्वा आद्यशब्देन कदम्बगोलकवत् दश दिशि दश शब्दा आरभ्यन्ते तैश्च दश शब्दसन्ताना इति ।
नन्वेकशब्देन कथमनेकशब्दारम्भः सामग्रीभेदादिति चेत् , न । सर्वतोऽनेकवाय्वादिसहकारात् प्रागभावभेदाद्वा।

न च तदितरहेतुसाकल्ये तद्भेदान्न कार्यभेदः तथा अदर्शनादिति वाच्यम् । कार्यभेदो हि सामग्रीभेदात् । स च हेत्वन्तरभेदादिव प्रागभावभेदादपि । अन्यथा
समवाय्यादिभेदेऽपि कार्यवैजात्यं न स्यात् । घटव्यक्तिषु तथा अदर्शनात् । पाकजे रूपादौ हेत्वन्तराभेदेऽपि प्रागभावपूर्वरूपादिध्वंसभेदेन भेदाच्च ।
अथ रूपाद्येकैकप्रागभावध्वंसयोः सर्वत्र तुल्यत्वे किं विनिगमकम् , गन्धादिप्रागभावानां रसादौ व्यभिचारेऽपि गन्धादौ रसादिप्रागभावानामव्यभिचारादिति चेत् ,
न । वायुस्पर्शे गन्धरसरूपप्रागभावप्रध्वंसानां , तेजोरूपे गन्धरसाभावयोः , जलरसे गन्धप्रागभावस्य व्यभिचारेण अहेतुत्वे स्वप्रागभावहेतुताया आवश्यकत्वात् ।
पाकजेषु रूपरसस्पर्शेषु गन्धादिप्रागभावानामन्यथासिद्धत्वाच्च । रूपादिषु तथादर्शनात् । गन्धेऽपि स्वप्रागभावस्यावश्यहेतुत्वात् अभावान्तराणामन्यथासिद्धत्वम् ।
यद्वारूपरसस्पर्शतुल्यत्वेऽपि अग्निसंयोगविशेषात् क्वचित् सौरभमसौरभं चोत्पद्यते । न चाग्निसंयोगो रूपादिमात्रे कारणं, व्यभिचारात् । एवं रसादावपि ।
ननु कार्यमात्रे प्रागभावमात्रं न हेतुः , तयोर्व्यतिरेककालानवगमात् । सर्वमुक्तावितरहेत्वभावादेव कार्यानुत्पादादिति चेत् , न । हेत्वन्तरसत्त्वेऽप्युत्पन्नस्य
पुनरनुत्पादेन प्रागभावस्य हेतुत्वात् । एका सामग्री (एकमेव कार्यं )(एकं कार्यं) जनयति स्वभावादिति चेत् , न । कार्यानुत्पादस्य सामग्रीविरहप्रयोज्यत्वनियमात् ।
न च कार्यसहभावेन कारणत्वम् , गौरवात् । न च विनश्यदवस्थे समवायिनि कार्यानुत्पत्तेस्तथात्वमिति वाच्यम् । तावता समवायिकारणस्यैव तथात्वात् ,
कारणमात्रे मानाभावेन तस्याप्रयोजकत्वात् ।

ननु समवेतसमवायो न ग्राहकः शब्दत्वादिजातेरभावादिति चेत् , न । रूपत्वादिन्यायेन तत्साधनात् ।
॥ इति श्रीमद्गङ्गेशोेपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे संनिकर्षवादः॥

32

अथ समवायवादः

ननु समवायासिद्धेः न सा प्रत्यासत्तिः । विप्रतिपत्तिश्च शुक्लः पट इति प्रतीतिः विशेषणविशेष्यसम्बन्धविषया न वेति ।
अथ जातिगुणक्रियातद्वन्तौ मिथः सम्बद्धावनुभूयेते । न हि असंबद्धस्वरूपद्वये विशिष्टधीव्यपदेशाविति चेत् , न । संबद्धानुभवेन हि संबन्धो न विशेषणम्
भासते , तस्य प्रथममज्ञानात् , संयोगिनाविमावितिवत् समवायिनावित्यननुभवाच्च । नापि विशेष्यः , अनयोः समवाय इत्यननुभवात् । नापि स्वरूपेण भासते ।
समवायं जानामीति विषयताननुभवात् ।

ननु नीलो घट इत्याद्यनुभवो विशेषणविशेष्यसम्बन्धविषयः विशिष्टप्रतीतित्वात् दण्डिज्ञानवदिति चेत् , न । अघटं भूतलं ज्ञातमिष्टं कृतं चेत्यत्र व्यभिचारात्।
संबन्धविषयत्वे बाधकं विनेति विशेषणमिति चेत् , न । बाधकाभावस्यैव समर्थत्वे शेषवैयर्थ्यात् साधकाभावेन सत्प्रतिपक्षाच्च । बाधकाभावस्य साधकत्ववत्
साधकाभावस्य बाधकत्वात् । तस्मादुभयाभावे संशयः स्यात् ।

न च प्रतीतिरेव समवायसाधिका , तस्यास्तद्विषयत्वासिद्धेः । अन्यथा अन्योन्याश्रयात् ।
अथाघटं भूतलं ज्ञातमित्याद्यपि विशिष्टधीः संबन्धविषया, किं तु भ्रान्ता, बाधकसत्त्वादिति चेत् , तर्हि भूतलेऽघटत्वस्य ज्ञातत्वादेश्चाभावः स्यात् । तथा च
व्यवहारविलोपः । संबन्धश्च न संयोगः समवायो वान्यतरो वा बाधादसिद्धेर्वा । नापि संबन्धमात्रम् , ज्ञापकत्वादिना सिद्धसाधनात् ।
नाप्यविशिष्टव्यावृत्तविशिष्टज्ञाननियामकः । अभावज्ञानादाविव स्वरूपसंबन्धेनार्र्थान्तरत्वात् । न च संबन्धिभिन्नत्वं साध्ये विशेषणम् । अभावज्ञानादिना
व्यभिचारात्। बाधकाभावस्य च विशेषणत्वं हेतौ निरस्तमेव । विनापि भिन्नसंबन्धं अभावज्ञानादाविव विशिष्टधीसंभवेनाप्रयोजकत्वाच्च । विशेषणताविशेषरूपः
प्रकारादिकृतो वा विशेषः संबन्धाविषयत्वेऽपि तुल्यः ।

स्यादेतत् । अवयवगुणक्रियाजातितद्वतां इह तन्तुषु पटः, इह पटे शौक्ल्यं, इह चलनं पटत्वं चेति इहप्रत्ययः आधाराधेयसंबन्धनिमित्तकः यथार्थेहप्रत्ययत्वात् इह
कुण्डे बदरमिति प्रत्ययवदिति चेत् , न । इह भूतले घटाभावो ज्ञानं चेत्यादौ व्यभिचारात् , बाधकं विनेत्यस्य निरस्तत्वात् , तथैवाधाराधेयभावादेवोपपत्तेश्च । उत्पत्तये
स्थितये ज्ञप्तये चापेक्षणीयस्य आधारत्वात् ।

अन्ये तु – शब्दजातिरूपादिरिन्द्रियसंबद्धः प्रत्यक्षत्वात् घटवदित्यनुमानात् संयोगबाधे इन्द्रियसंबन्धघटकतया समवायसिद्धिः, इन्द्रियस्य संबद्धग्राहकत्वात् । अत
एव समावायो न प्रत्यक्षः इन्द्रियेणासंबन्धात् । न च संबन्धत्वेन तत्सिद्धिः । अनवस्थानात् , स्वभावादेव ज्ञानवत् स्वसंबद्धव्यवहारकारित्वाच्च । समवायो हि संबन्धं
विनैव स्वभावादेव कस्यचित् । न च जात्यादेरपि स्वभावादेव स्वसंबद्धव्यवहारकरित्वे समवायविलोपः । जात्यादेः इन्द्रियासंबन्धे समवायवदप्रत्यक्षत्वापातादिति ।
तन्न। समवायस्वीकारेऽपि स्वरूपसंबन्धस्यावश्यकत्वात् । घटज्ञानयोः भूतलाभावयोरिव वा द्रव्येण गुणजात्यादिभिः स्वरूपमेव संबन्धोऽस्तु । तथा च
शब्दस्येन्द्रियविशेषणतया, शब्दत्वस्य विशेषणविशेषणतया, रूपादिजात्यादेरिन्द्रियसंबद्धविशेषणतया, रूपत्वादेरिन्द्रियसंबद्धविशेषणविशेषणतया स्वभावसंबन्धरूपया ग्रहणसंभवे
किं समवायेन । द्रव्ये स्वभावसंबन्धात् नेन्द्रियेण ग्रहणमिति कथं गुणादेस्तेन ग्रह इति चेत् , समवायेनापि न द्रव्यग्रहणमिति तुल्यम् ।
अपरे तु – – एकत्र घटे आमपाकदशायां क्रमेण श्यामरक्तरूपोपलम्भोऽस्ति । स च न तदुभयनिबन्धनः, रूपस्य नित्यत्वेनैकदोपलम्भापत्तेः । नित्यत्वादेव च न
तयोरुत्पादविनाशौ । तस्मात्तयोः संबन्धस्य तौ स्याताम् , स एव समवाय इति ।

तन्न। श्यामं नष्टम् , रक्तमुत्पन्नम् , इत्याद्यबाधितामुभवात् समवायस्योत्पादविनाशानुल्लेखाच्च । त्वन्मते तस्यातीन्द्रियत्वात् । अन्यथा अवयविज्ञानगन्धरसादेरपि
नित्यत्वं समवायस्योत्पादविनाशाविति किं न रोचयेत् । न ह्युत्पादविनाशप्रतीतिरप्रामाणिकी बाधकं विनेति ।

उच्यते । गुणक्रियाजातिविशिष्टबुद्धयो विशेषणसंबन्धविषयाः विशिष्टबुद्धित्वात् , दण्डीति बुद्धिवत् । न च व्यभिचारः । अभावादिविशिष्टबुद्धेेरपि स्वरूपसंबन्धविषयत्वात्।
न चैवमत्रापि तेनैवार्थान्तरम् , यतो गुणक्रियाजातिविशिष्टबुद्धीनां पक्षधर्मताबलेन विषयः संबन्धः सिध्यन् लाघवादेक एव सिध्यति । स एव समवायः, न तु
स्वरूपसंबन्धः , तत्तत्स्वरूपाणामनन्तत्वात् संबन्धत्वेनाक्लृप्तत्वाच्च ।

अथवा विशेषणसंबन्धनिमित्तिका इति साध्यम् । हेतौ तु सत्यत्वं विशेषणम् । विशेषणसंबन्धश्च कारणत्वेनैक एव सिध्यति । लाघवात् , अनुगतकार्यस्य
अनुगतकारणनियम्यत्वाच्च । न तु स्वरूपसंबन्धः, तेषामननुगतत्वादनन्तत्वाच्च । न चोभयमप्यप्रयोजकम् । विशिष्टसाक्षात्कारस्य संबन्धाविषयत्वे तदजन्यत्वे वा
गवाश्वादावपि विशिष्टबुद्धिप्रसङ्गात् ।

नव्यास्तु – – गुणक्रियाजातिविशिष्टबुद्धिः संबन्धिभिन्नविशेषणसंबन्धविषया निर्विषयकभावविशेषणकविशिष्टबुुद्धित्वात् इतरनिरूपणानिरूप्यविशेषणकविशिष्टबुुद्धित्वाद्वा।
अतोऽभावादिविशिष्टबुद्वौ न व्यभिचारः । न चाप्रयोजकम् , निरुपाधिसंबन्धशालित्वात् । संबन्धश्चाविशिष्टव्यावृत्तविशिष्टधीनियामकः ।

33

यद्वा इन्द्रियप्रत्यासत्तित्वेन समवायसिद्धिः । तथा हि गुणक्रियाजातिसाक्षात्कारः इन्द्रियसंबन्धसाध्यः जन्यप्रत्यक्षत्वात् दण्डिज्ञानवदित्यतः साक्षात्संबन्धबाधकारणत्वेन
इन्द्रियसंयुक्ते संबन्धः सिध्यन् पक्षधर्मताबलाल्लाघवेनानुगतः समवाय एक एव सिध्यति, अनुगतकार्यस्यानुगतकारणजन्यत्वात् । न तु संयुक्तविशेषणतारूपस्वरूपसंबन्धः,
तस्य च तत्तद्रूपादिरूपत्वेनाननुगतत्वात् ।

एवं रूपत्वरसत्वसाक्षात्कारेऽपि कारणत्वेनेन्द्रियसंबन्धः समवाय एवानुगतः सिध्यति लाघवात् । न तु इन्द्रियसंबद्धविशेषणता , तस्या रूपत्वादिस्वरूपत्वेनाननुगतत्वात्
अत एवसंयोगो विशेषणता च प्रत्यासत्तिरस्तु , न तु समवायादिचतुष्टयमिति निरस्तम् । तस्यास्तत्तत्स्वरूपत्वेनाननुगतत्वात् । प्रत्यासत्तित्वेनाभ्युपगते च
समवाये प्रत्यक्षता संबन्धिद्वयप्रत्यक्षत्वात् ।

नन्वेवमभावविशिष्टप्रत्यक्षेऽपि विशिष्टबुुद्धित्वात् संयोगसमवायबाधेऽनुगतं वैशिष्ट्यं संबन्धो विषयः निमित्तं च भवेदिति चेत् ,
न । तस्य हि समवायवदेकत्वे घटाभाववति पटवति पटाभावधीप्रसङ्गः । घटाभाववैशिष्ट्यमेव हि पटाभाववैशिष्ट्यम् । पटाभावैशिष्ट्यसत्त्वेऽपि पटाभावो
नास्ति , ततः तस्य भिन्नत्वादिति चेत् , न । पटाभावाभावस्याभावत्वे सोऽपि वैशिष्ट्येन सम्बन्धेन तत्रास्ति , वैशिष्ट्यस्यैकत्वात् । वैशिष्टचस्यैकत्वात् ।
पटाभावाभावस्य भावत्वे च पट एव प्रतिबन्धको वाच्यः । एवं पटाभावः पटाभावधीहेतुः स्यात् । (पटाभावस्य) (पटाभावश्च) वैशिष्ट्येन संबन्धेन तत्रास्त्येव ।
वैशिष्ट्यस्य प्रत्यभावव्यक्ति नानात्वे चाभावविशिष्टबुद्धौ नैकः संबन्धः कारणं विषयो वेति तदभावप्रत्यक्षेऽननुगतमेव वैशिष्ट्यं विषयः कारणं च वाच्यम् ।
तथा चाननुगततत्तत्स्वरूपरूपा विशेषणतैवास्तु क्लृप्तत्वात् , किमनन्तवैशिष्ट्येन । समवायस्य वैशिष्ट्यस्य च प्रत्यक्षत्वे त्वयापीन्द्रियसंबद्धविशेषणतास्वीकारात् ।
ननु समवायस्यैकत्वे कथं रूपिनीरूपव्यवस्था । घटेन सह रूपसंबन्धरूपत्वं समवायस्य न वायुनेति चेत् , न । रूपसंबन्धरूपत्वं समवायस्य स्वरूपमेव यदि,
तदा रससंबन्धरूपत्वं न स्यात् तयोर्विरोधात् , अन्यच्च दुर्वचमिति चेत् ,

उच्यते । वायौ रूपसमवायसत्त्वेऽपि रूपात्यन्ताभावोऽस्ति न घटे । कथमेवम् , अधिकरणस्वभावात् अबाधितरूपिनीरूपप्रतीतेश्च ।
नन्वेवं ज्ञातो घट इति प्रतीतेः ज्ञाततापि स्यात् , वर्तमाने बाधकाभावात् । अतीतानागतयोश्च तद्धीः भ्रान्तेति चेत् , न । अतीतानागतयोः ज्ञातताया अभावे
व्यवहाराभावापत्तेः , तस्य ज्ञाततासाध्यत्वात् । न च ज्ञातताज्ञानमेव व्यवहारहेतुः । गौरवात् । अतीतादौ ज्ञानतद्विषयावेव ज्ञातताधीगोचराविति चेत् , तर्हि वर्तमाने
तावेव तद्विषयौ । न ह्यतीतवर्तमानयोः ज्ञातताप्रतीत्योः विषयवैलक्षण्यमीक्षामहे ।

ननु रूपघटयोर्न समवायः किं तु अभेदः । दण्डी पुरुष इत्यत्र दण्डिपुरुषयोरिव नीलो घट इत्यत्रापि नीलघटयोरबधिताभेदानुभवात् । नीलो घटः , दण्डी पुरुष
इति बुद्ध्योः विशेषणसम्बन्धमात्रगोचरत्वे नीलो घट इतिवत् दण्डः पुरुषः, दण्डी पुरुष इतिवत् नीली घट इत्यपि स्यात्। तस्मादेकत्राभेदो विषयः अपरत्र विशेषणसंबन्धः,
विषयेणैव धियां विशेषात् ।

अथवा विशेषणताविशेष्यतावच्छेदकयोर्नीलत्वघटत्वयोः एकवृत्तित्वं ज्ञायते दण्डित्वपुरुषत्वयोरिव पुरुषे । एवं नीलघटपदयोः शाब्दमपि सामानाधिकरण्यं
युज्यते। नीलत्वघटत्वाभ्यां भिन्नप्रवृत्तिनिमित्ताभ्यां तयोरेकप्रवृत्तेः । न च मतुपो लोपात् अभेदोपचाराद्वा नीलपदं नीलवत्परमिति वाच्यम् । न हि प्रयोगं साधकं ब्रूमः ,
किंतु नीलघटयोरभेदप्रतीतिम् । पदेऽपि नोपचारादिकल्पना , गौरवात् मुख्ये बाधकाभावाच्चेति ।

उच्यते । शुक्लपटशब्दयोः एकार्थत्वे घटः कुम्भ इतिवत् शुक्लः पट इति सहप्रयोगो न स्यात् । अन्धस्य पटग्रहवत् रूपग्रहः , रूपाग्रहवत् पटाग्रहोऽपि वा स्यात्।
महारजतरक्ते पटग्रहवत् शुक्लग्रहः, शुक्लाग्रहवत् पटाग्रहोऽपि भवेत् । पटमानयेत्युक्ते यं कंचित् शुक्लमानयेत् । अपटः पट इतिवत् अशुक्लः पट इति विरुध्येत,
पटशुक्लयोरभेदात्। अग्रिसंयोगादेकत्र श्यामरक्तयोः विनाशोत्पादे घटस्य तौ स्याताम् , घटसत्त्वे वा तयोरपि न स्याताम् ।

अथ शुक्लत्वादीनां द्रव्यभेदात् तद्बोधार्थं सह प्रयोगः । अन्धादिना शुक्लादिग्रहे शुक्लत्वादीनामग्रह उपपद्यते । शुक्लत्वादिजातेश्च द्रव्येणाभेदो न समवायः ,
किंतु स्वरूपसंबन्ध इति चेत् , न । शुक्लत्वमधुरत्वसुरभित्वोष्णत्वादीनां द्रव्यवृत्तित्वे द्रव्यग्राहकत्वगादिभिः ग्रहणप्रसङ्गात् । रूपत्वादीनां द्रव्यवृत्तित्वे प्रतिनियतेन्द्रियग्राह्यतैव
न स्यात् , योग्यवृत्तित्वेन जातेर्ग्रहणयोग्यत्वात्। तत्तज्जातित्वेन योग्यत्वेऽननुगमात्। तस्मात् रूपत्वादीनां प्रतिनियतेन्द्रियग्राह्यतापि गुणगुणिभेदे मानम् । अभेदे च कथं
पटस्य शुक्लं रूपमिति भेदबुुद्धिः । पटो नीलिमेति बुुद्धिप्रसङ्गश्च ।

नन्वेकान्ताभेदे सर्वमिदं दूषणम् । वयं तु भेदाभेदवादिनः । तथा च भेदमादायापौनरुक्त्यादि । भेदाभेदे च उक्तमेव प्रमाणं प्रत्यक्षम् । अथ वा उभयसिद्धभेदे
सामानाधिकरण्यधीरभेदे प्रमाणम् । यद्वा अत्यन्तमभेदे भेदे च न सामानाधिकरण्यमिति तत एव भेदाभेदसिद्धिः । न च भेदाभेदयोः परस्परविरहरूपतया विरुद्धयोः
कथमेकत्र समावेश इति वाच्यम्। संयोगतदभावयोरिवाविरोधात्। पाकानन्तरं रक्तोऽयं न श्याम इत्यबाधितानुभवबलात् तत्रैव तदन्योन्याभावसिद्धेः त्वयापि भेदाभेदस्वीकारात्।
अन्योन्याभावत्वमव्याप्यवृत्ति नित्याभाववद्वृत्त्यभावत्वसाक्षाद्व्याप्यधर्मत्वात् अत्यन्ताभावत्ववत् । नित्येति वा न विशेषणम् अव्याप्यवृत्तिप्रतियोगिक प्रागभावप्रध्वंसयोरव्याप्यवृत्तित्वात्
इत्यतोऽपि भेदाभेदसिद्धिः ।

34

उच्यते । तस्यैव तत्राभावोऽवच्छेदभेदेन वर्तते ज्ञायते च यथा संयोगाद्यभावः । श्यामावच्छिन्नस्य तस्यैवान्योन्याभावस्तत्रैव रक्तावच्छिन्ने । तदन्योन्याभावाभावश्च
श्यामावच्छेदेन । तदिहापि नीलस्यान्योन्याभावो घटत्वावच्छेदेनेति नीलात् घटस्य भेदोऽस्तु । अभेदस्तु नीलान्योन्याभावाभावरूपो न घटे घटत्वावच्छेदेनैव, विरोधात् ।
एकावच्छेदेन भावाभावयोः एकत्रावृत्तेरज्ञानाच्च। नाप्यवच्छेदकान्तरेण। घटत्वावच्छिन्ने घटे तदभावात् तदज्ञानेऽपि नीलो घट इत्यनुभवाच्च । न चान्योन्याभावरूपो
भेदोऽस्तु , अभेदस्तु न भेदाभावः किं त्वन्य एवेति वाच्यम् । अभेदव्यवहारे तस्याहेतुत्वात् । तस्मात् नीलो घट इत्यत्र नीलसंबन्ध एव भासते । तथा सति नीली घट
इति धीः स्यादित्युक्तमिति चेत् , नीली घट इत्यत्र बुद्धौ यदि संबन्धविषयत्वमापाद्यते, तदिष्यत एव। मतुपो लोपात् अभेदोपचाराद्वा नीलपदमेव नीलवत्परमिति ।
ननु शब्दरूपादिषु विशेषणता इन्द्रियसंबद्धविशेषणता वा ग्राहिकास्तु किं समवायादिना । अथ विशेषणतायां समवायः इन्द्रियसंबद्धविशेषणतायां च
संयुक्तसमवायादिरुपजीव्यः, तैर्विना तयोरभावादिति चेत् , विशेषणतास्वरूपे तेषामुपजीव्यत्वम् न तु तस्याः प्रत्यासत्तित्वेऽपि । तैर्विनापि समवायाभावयोर्विशेषणतासत्त्वात्।
संयुक्तसमवायादिरपि तत्रास्तीति चेत् ,आस्ताम् , न तु प्रत्यासत्तिः, किं तु विशेषणतैव, क्लृप्तत्वात् । संयुक्तसमवायादिकं विना विशेषणता रूपादौ न ज्ञायते
चेत् , मा ज्ञायि । न हि सा प्रत्यासत्तिर्ज्ञाता, अपि तु स्वरूपसती ।

मैवम् । शब्दादीनां साक्षात्कारविषयत्वेन इन्द्रियसंबन्धानुमितौ शब्दादौ समवायादिकं ज्ञात्वैव विशेषणताग्रह इत्यवश्यं प्रथमोपस्थितत्वात् समवायादिरेव विषयो
न विशेषणता चरमोपस्थितत्वात् ।

ननु अभावग्रहे नेन्द्रियसंबद्धविशेषणता प्रत्यासत्तिः, चक्षुषा संयुक्ते परमाण्वादौ योग्यस्य जलत्वादेरभावग्रहप्रसङ्गात् । किं तु स्वग्राह्यसंबद्धविशेषणता । महति
वायौ उद्भूतरूपाभावस्य, कुसुमे सौरभाभावस्य, गुडे तिक्तत्वाभावस्य वा न चक्षुरादिना ग्रहः , अपि तु योग्यानुपलब्ध्या सोऽनुमीयते । इन्द्रियविशेषणतापि न प्रत्यासत्तिः।
चक्षुरादिना स्वविशेषणजलत्वाद्यभावग्रहप्रसङ्गात् । यदि शब्दाभावः प्रत्यक्षः तदा प्रत्यासत्त्यन्तरं कल्प्यम् । तदभावे प्रत्यक्ष एव न भवतीति चेत् ,
मैवम् । लाघवादिन्द्रियसंबद्धविशेषणतैव प्रत्यासत्तिः । न चैवं परमाणौ जलत्वाद्यभावग्रहप्रसङ्गः । यत्र हि यत्सत्त्वमनुपलब्धिविरोधि तत्र तस्याभाव
इन्द्रियसंनिकर्षेण गृह्यते । न च परमाण्वादौ जलत्वादिसत्त्वमनुपलब्धिविरोधि । योग्यसंयुक्तसमवायाभावेन पृथिवीत्ववदनुपब्धिसंभवात् । महति वाय्वादौ
उद्भूतरूपाद्यभावश्चक्षुरादिग्राह्य एव । तत्रोद्भूतरूपादिसत्त्वेऽनुपलब्ध्यनुपपत्तेः । अत एव स्तम्भे पिशाचतादात्म्याभावः प्रत्यक्षः , स्तम्भतादात्म्ये च तस्य स्तम्भस्येवानुपलम्भासंभवात्।
एवं शब्दस्याप्यभावः प्रत्यक्षः तदा तत्र शब्दसत्त्वस्य अनुपलब्धिविरोधित्वादिति तत्रेन्द्रियविशेषणतैव प्रत्यासत्तिः । चक्षुषि जलत्वादिसत्त्वं च नानुपलब्धिविरोधीति चक्षुषा
न तद्ग्रहः ।

नन्वभावे न विशेषणता प्रत्यासत्तिः । किं तु समवाय एव समवायसाधकविशिष्टप्रतीतेरविशेषात् । न च समवेतत्वे तस्य भावत्वापत्तिः । भावस्य
तत्त्वेऽभावत्वापत्तिरिति वैपरीत्यसंभवात् । रूपादौ प्रत्यासत्तित्वेेन समवायकल्पनमभावेऽपि तुल्यम् । विशेषणतापि तुल्या । प्रागभावप्रध्वंसौ प्रतियोग्याश्रये समवेतौ ।
प्रतियोग्याश्रयनाशजन्यध्वंसो देशे समये वा समवैति, तत्रैव निरूपणात् । न च समवायिनाशे ध्वंसनाशः, घटोन्मज्जनप्रसङ्गात् भावत्वस्योपाधित्वाच्च । अन्यथा तवापि
तस्य जन्यत्वेन नाशापत्तिः ।

अथैवमन्योन्यात्यन्ताभावयोर्नित्यत्वेऽनेकसमवेतत्वे च जातित्वप्रसङ्गः । न च तत्र भावत्वं तन्त्रम् । गौरवात् । न चाभावानां विशिष्टप्रतीतौ विशेषः, येनात्र
समवायपरित्याग इति चेत् , न । घटत्वाभावादेर्जातित्वे सत्त्वद्रव्यत्वपृथिवीत्वादिना परापरभावानुपपत्तेः । तेषां व्याप्यत्वे घटे तदभावप्रसङ्गः । व्यापकत्वे सामान्यादौ
घटत्वाभावो न स्यादिति ।

उच्यते । समवेतत्वे ध्वंसस्य समवायिकारणनाशात् नाशः स्यात् । न च नाश्यत्वे भावत्वं तन्त्रम् , गौरवात् प्रागभावेऽभावाच्च । असमवेतत्वे तद्ध्वंसस्य
जन्यत्वेऽपि न नाशः आश्रयनाशादेरभावात् । घटोन्मज्जनापत्तेः न नश्यतीति चेत् , न । न हि प्रयोजनक्षतिभयेन सामग्री न कार्यमर्जयति ।
तस्मादुन्मज्जनाभावनिर्वाहकध्वंसस्यासमवेतत्वं कल्प्यताम् । (स्व) (स्वस्व) समवायिनाशात् ध्वंसपरंपराकल्पने च घटकपालादेः आपरमाणु नाशे घटादितद्ध्वंसविराधी
चरमो ध्वंसः परमाणुवृत्तिः स्यात् । तथा च न प्रत्यक्षः। घटध्वंसस्य कपालसमवेतत्वे च न भूतले निरूपणं स्यात् । उभयवृत्तित्वे च व्यासज्यवृत्तित्वेन कपालं विना न
निरूप्येत ।

॥इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे समवायवादः॥
अथानुपलब्धिवादः

नन्वभावग्रहो नेन्द्रियात् । किं तु योग्यानुपलब्धेः , तदुपलम्भे तदभावाग्रहात् । न चैवं भावबुद्धिरपि अभावानुपलब्धेरेव नेन्द्रियादिति वाच्यम् । भावग्रहे
इन्द्रियानुविधानात्। अन्यथा निमीलिताक्षस्यापि घटाभावानुपलब्ध्या घटग्रहप्रसङ्गः । अत एव भावग्रहे अभावानुपलब्धिः पृृष्ठलग्नापि न हेतुः इन्द्रियेणान्यथासिद्धत्वात्।
न हीन्द्रियार्थसंनिकर्षे सति तां विना भावधीविलम्बः । अभावग्रहेऽपीन्द्रियं हेतुः तदनुविधानादिति चेत् , न । अभावेन चक्षुरादेः प्राप्त्यभावेन आश्रयग्रहे तदुपक्षयात्।
अथाधिकरणधीरिन्द्रियव्यापारः न च तया तदन्यथासिद्वम् । अन्यथा संनिकर्षोपक्षीणतया इन्द्रियं न हेतुः स्यादिति चेत् , न । हेतुत्वे सिद्धे तद्व्यापारत्वम् । तदेव
नास्ति, प्राप्त्यभावात् ।

35

एतेनअधिकरणग्रहेन्द्रिययोः पृथगन्वयव्यतिरेकग्रहात् दण्डचक्रयोरिव हेतुत्वं द्वयोरिति निरस्तम् । प्राप्त्यभावेनाभावाग्राहकत्वात् । न चेन्द्रियं प्राप्तविशेषणमप्राप्तमपि
गृह्णाति । संयुक्तसमवायाद्युच्छेदप्रसङ्गात् , प्राप्तचैत्रगताप्राप्तदण्डस्यापि ग्रहप्रसङ्गात् इन्द्रियस्य प्राप्तग्राहकत्वाच्च । न च विशेषणता प्राप्तिः, अन्यत्र तदकल्पनात् ।
न च समवाये तत्कल्पनम् । तस्यानभ्युपगमात् तत एवातीन्द्रियत्वाद्वा ।

अथाभावस्य इन्द्रियग्राह्यत्वेन संयोगादिबाधे इहैव सा कल्प्यते, रूपादौ तद्बाधे संयुक्तसमवायादिरिवेति चेत् ,
तत्रानुपक्षीणेन्द्रियानुविधानात् तथैव । इह स्वाश्रयग्रह एव तदुपक्षीणं लाघवात् , न तु प्राप्त्यन्तरकल्पना, गौरवात् । अन्यथा त्वगनुविधानाद्रूपं विनापि वायुधीः
प्रत्यक्षेति न सा स्पर्शलिङ्गग्रहे उपक्षीयेत । किं च विशेषणतायां इन्द्रियग्राह्यत्वं तेन सेत्यन्योन्याश्रयत्वम् । अपि च विशेषणता ग्राह्यस्वरूपमेव । न च त्वगादौ
स्वरूपसंबन्धो हेतुः, किं तु यथायथं संयोगसमावायौ । न च तयोरन्योन्यव्यभिचारात् इन्द्रियं संबद्धं गृह्णातीत्येव व्याप्तिरिति वाच्यम् । दृष्टान्ते हि संबन्धिगतः संबन्धो
हेतुः गृहीतः । चक्षुषि अन्यत्रापि तथा, न तु ग्राह्यस्वरूपम् । संबन्धस्य संबन्धिभिन्नत्वनियमात् । न हि स एव तद्वांस्तेनैव भवति । स्वरूपसंबन्धस्य हेतुत्वे च
रूपादिग्रहोऽपि तत एवास्तु किं समवायादिना । अतः संयोगविशेषणते एव प्रत्यासत्ती इति षोढा कीर्तनमपि विफलम् ।

एतेनालोकापेक्षणे चक्षुरपेक्षा तस्य तदेकसहकारित्वादितिनिरस्तम् । प्राप्तिं विना चक्षुषोऽहेतुत्वात् आलोकस्य च प्रतियोगिग्राहकत्वेन योग्यताघटकतया
अभावग्राहकत्वात्। न चैवं प्रतियोग्युपलम्भकत्वेन चक्षुरपि हेतुः । एवं हि तत्तद्व्याप्येतरतदुलम्भकसाकल्ये अनुपलब्धिर्ग्राहिका भवतीति वाच्यम् । प्राप्तिं विना
तस्याहेतुत्वेनाश्रयग्रहोपक्षयात् ।

नन्वेवमन्धस्य त्वगिन्द्रियोपनीते नीले स्मृतपीतस्यानुपलब्ध्या अभावग्रहप्रसङ्गः । प्रतियोगिग्राहकेन्द्रियग्राह्यत्वे त्वभावस्य नायं दोषः , अन्धस्य चक्षुरभावादिति
चेत् , न । अभावग्राहकत्वेनाभिमतमिन्द्रियमाश्रयग्रहोपक्षीणम् । तथा च प्रतियोगिग्राहकेन्द्रियेण आश्रयग्रहे अनुपलब्ध्या अभावग्रहात् । अन्यथा चक्षुस्संयुक्ते परमाणौ
जलत्वाभावग्रहप्रसङ्गः।

अथैवं वायौ रूपाभावो, जले तिक्ताभावः, पाषाणे सौरभाभावश्च न गृह्येत । वाय्वादीनां प्रतियोगिग्राहकैश्चक्षुरादिभिरग्रहात् । न च तवापि तेऽभावाः कथं
प्रत्यक्षाः, वाय्वादीनां तदिन्द्रियायोग्यत्वादिति वाच्यम् । लिङ्गेन त्वगादिना वा उपनीते वाय्वादौ योग्यरूपाद्यभावविशेष्यकं प्रत्यक्षं चक्षुरादिनैव न वाय्वादिविशेष्यकम् ,
प्रत्यक्षे योग्यविशेष्यस्य हेतुत्वादिति चेत् , न । वाय्वादौ रूपाद्यभावप्रतीतनामनुपलब्धिलिङ्गकत्वात् । तव नीरूपो वायुरिति वायुविशेष्याभावप्रतीतिवत् ।
अथ भूतले अभावधीरिन्द्रियजन्या साक्षात्कारित्वात् , तत एव विशेषणताकल्पनमपि । न च साक्षात्कारित्वमसिद्धम् । परोक्षत्वे अज्ञातकरणकत्वानुपपत्तेः ।
तथा हि- मन्दिरोदरे चैत्रो निपुणमनुसृतोऽपि न चोपलब्ध इत्याप्तवाक्यावगतानुपलब्ध्या श्रोतानुमिनोति नासीत्तत्र चैत्र इति । एवमभावधीः परोक्षा चेत् , तदा
नाज्ञातकरणिका परोक्षत्वाजातेः ज्ञातकरणप्रयोज्यत्वात् । ज्ञातकरणत्वं च ज्ञानकरणत्वम् लिङ्गादेरजनकत्वात् । तस्मात् साक्षात्कारित्वम् अज्ञातकरणत्वात् । न
चेन्द्रियजन्यत्वमुपाधिः , तत एव तत्साधनादिति चेत् ,।

मैवम् । परोक्षत्वं हि न जातिः, अनुभवत्वेन संकरप्रसङ्गात् । किं तु साक्षात्कारिभिन्नज्ञानत्वम् । एवं चाभावज्ञानं परोक्षमेव स्मृतिवत् । यथा च
ज्ञातकरणत्वेऽपि शाब्दादिः नानुमितिः, एवमज्ञातकरणत्वेऽपि इन्द्रियजन्यं साक्षात्कार्यनुपलब्धिजन्यम् , तद्विजातीयमनुपलब्धम् । यदि चाज्ञातकरणत्वेन साक्षात्कारित्वं
तदा ज्ञातकरणत्वेन शाब्दादेरनुमितित्वापत्तिः । ज्ञातकरणत्वेऽपि लिङ्गादिकरणभेदात् अनुमित्यादिफलभेद इति चेत् , अज्ञातानुपलब्धीन्द्रियकरणभेदात् फलभेद इहापि।
एवं च साक्षात्कारित्वे इन्द्रियजन्यत्वं परोक्षत्वे च तदजन्यत्वं प्रयोजकम् , न तु ज्ञाताज्ञातकरणजन्यत्वम् , गौरवात् स्मृतावभावाच्च ।
नन्वनुपलब्धिर्न मानम् भावभूतमानसहकृतस्यैव मनसो बाह्यानुभवजनकत्वादिति चेत् , न। भावत्वस्य गुरुत्वेनाप्रयोजकत्वात् । अन्यथा इन्द्रियसहकृतस्यैव
मनसो बाह्यानुभवजनकत्वामित्यनुमानादि न मानं स्यात् । न चेदमभावज्ञानं भावमानसहकृतमनस्साध्यं बाह्याभावज्ञानत्वात् लिङ्गादिजन्याभावज्ञानवदिति वाच्यम् ।
अयमभावो नेन्द्रियग्राह्यः अभावत्वादयोग्याभाववत् , इयमभावबुद्धिर्नेन्द्रियजन्या अभावबुुद्धित्वात् लिङ्गादिजन्याभावबुुद्धिवत् इति सत्प्रतिपक्षात् ।
अथ प्रतियोगिग्राहकं मानं तदभावमपि गृह्णाति यथा अनुमानादि, प्रतियोगिग्राहकं चेन्द्रियम् , अतोऽभावग्राहकमिति चेत् , न । भावग्राहकयोरेव
लिङ्गशब्दयोस्तदभावाग्राहकत्वात्। प्रतियोगिग्राहकजातीयं मानं तथेति चेत् , न । उपमाने व्यभिचारात् । न च चक्षुष्ट्वादिकमभावग्राहकवृत्ति जातित्वात् , उपमानत्वं
च न जातिरिति वाच्यम् । प्राप्तिं विना चक्षुरादेरभावग्राहकत्वसाधनात् ।

अथ भाववृत्त्यभावभ्रमः स च करणदोषात् । न च प्रतियोगिस्मृत्याश्रयग्रहानुपलब्धयः स्वरूपतो दुष्टाः ,किं तु इन्द्रियं पित्तादिना दुष्टमिति तदेव च
भ्रमहेतुरित्यभावप्रमायामपि तदेव मानमिति चेत् , न । इन्द्रियस्यापि दुष्टत्वं दोषसाहित्यमात्रम् , न त्वन्यत् । तच्चानुपलब्धावपि तुल्यम् । न च ज्ञातकरणाजन्यभ्रमत्वेन
इन्द्रियजन्यत्वम् । एवं हि अभावप्रमाकरणत्वमपीन्द्रियस्य तत एवास्तु , किमनया कुसृष्ट्या । एवमस्त्विति चेत् , न । प्राप्त्यभावेनोक्तोत्तरत्वात् । किं चासंनिकृष्टेऽपि
दोषादुपनीतेऽभावे भ्रम इन्द्रियेण संभवति, चक्षुषा पाषाणः सुरभिरिति भ्रमवत् । अभावप्रमा न संभवति प्राप्त्यभावादित्युक्तम् ।
ननु अधिकरणाभावयोर्विशिष्टबुद्धिरस्ति । सा नेन्द्रियजन्या अभावबुुद्धित्वात् , नानुपलब्धिजन्या भावबुुद्धित्वात् , नोभयजन्या जातिसंकरप्रसङ्गात् । अत
उभयग्राहकमिन्द्रियमभ्युपेयमिति चेत् , अभाववद्भूतलमित्यनुपलब्ध्युुपनीताभावविशिष्टबुुद्धिरिन्द्रियेणैव चक्षुषा चन्दनं सुरभीतिवत् । भूतले घटो नास्तीति च
चक्षुरुपनीतभूतलेऽभावबुुद्धिरनुपलब्ध्यैव, घ्राणेन चन्दने सौरभमितिवत् ।

36

यत्तु व्यापाराभावान्नानुपलब्धिः प्रमाणम् , व्यापारवत एव करणत्वादिति । तन्न । क्रियया अयोगव्यवच्छेदेन संबन्धिकरणं न तु व्यापारवदित्यपि विशेषणं
गौरवदिति ।

अत्रोच्यते । प्रतियोगिग्राहकेन्द्रियेणाश्रयग्रहो न हेतुः, प्राङ्नास्तिताग्रहे तु (अन्वयेन) (त्वन्नयेन) व्यभिचारात् । वाय्वादौ च रूपाद्यभावधीरिन्द्रियजन्यैव
नानुपलब्धिलिङ्गजन्या, अनुपलब्धेेरज्ञानात् । आप्तवाक्यस्येव तज्ज्ञापकस्याभावात् ।

अथाज्ञातैव रूपाद्युपलम्भस्यानुपलब्धी रूपाद्यनुपलब्धिं गृह्णाति भूतले घटाभावमिवेति चेत् ,त्वन्मते उपलम्भस्यातीन्द्रियत्वेन योेग्यानुपलब्ध्या उपलम्भाभावस्य
ग्रहीतुमशक्यत्वात् । अनुपलब्धिमात्रस्याभावाग्राहकत्वात् । अस्तु तर्हि ज्ञानं योग्यमिति चेत् , न । अपसिद्धान्तात् । योग्यत्वेऽपि भूतलीयघटाभावेऽपि ज्ञातैव
योग्यानुपलब्धिर्लिङ्गमस्तु, योग्यघटोपलम्भस्यानुपलब्ध्या ग्रहसंभवात् कृतमनुपलब्ध्या मानान्तरेण ।

घटाभावधीरज्ञातकरणिका लिङ्गाद्यनुसंन्धानं विना जायमानत्वादिति चेत् , न । वाय्वादौ रूपाद्यभावप्रतीतिरपि तथा । अथ रूपादिमत्तया ज्ञातत्वाभावः
तदनुमितरूपवत्तानुपलब्धिर्वा लिङ्गमिति चेत् , न । वाय्वादौ ज्ञातत्वाभावस्यापि रूपाद्यभावतुल्यतया ग्रहीतुमशक्यत्वात् । वाय्वादौ तस्य प्रत्यक्षत्वे रूपाद्यभावोऽपि
तथास्तु । नापि कायवाग्व्यवहाराभावेनानुपलब्धिरनमीयते । उपेक्षाज्ञानमूकस्वप्नयोर्दर्शनेन व्यभिचारात् । न च व्यवहाराभावमात्रं लिङ्गम् । कस्यचित् व्यवहाराभावस्य
व्यभिचारात् , सर्वव्यवहाराभावस्य ग्रहीतुमशक्यत्वात् ।

किं च घटवत्तया ज्ञातत्वाभावेन तदनुमितानुपलब्ध्या वा लिङ्गेन भूतलादौ अभावानुमितिरस्तु, किं मानान्तरेणानुपलब्ध्या । अपि च प्रतियोगिग्राहकेन्द्रियजन्यमधिकरणज्ञानं
अनुपलब्धिसहकारि तदा स्यात् यदि तेन विना सा नाभावं बोधयेत् । न चैतद्दृष्टम् । वाय्वादौ रूपाद्यभावे तथा दृष्टमिति चेत् , न । असिद्धेः । न च
व्याप्तिबलात्सहकारित्वम्। एवं हि वाय्वादौ रूपाद्यभावप्रत्ययोऽनुपलब्धेर्भवंस्तादृशाश्रयमाक्षिपेत् । अनाक्षेपे वा अनुपलब्धेेर्नभवेत् । ततो न भवति, किं तु लिङ्गादिति
चेत् – लिङ्गमपि सैव, तच्च दूषितमेव ।

किं च नानुपलब्धिर्लिङ्गम् । ततो हि नीरूपो वायुरित्यनुमितिः स्यात् , न तु वायौ रूपाभाव इति ।
अपि च घटवत्युपलम्भप्राक्कालेऽनुपलब्ध्या घटस्मृतिमतः कुतो नाभावधीः । (घटाभावादिति) घटाभावाभावादिति चेत् , तर्हि अभावरूपार्थजन्याभावबुद्धिरर्थजन्यत्वेन
साक्षात्कारिणी इन्द्रियजन्या च स्यात् । तदा घट एव प्रतिबन्धक इति चेत् , तथापि तदभावोऽभावबुद्धौ जनक एव स्यात् ।

स्यादेतत् । गृहमुपलभ्य निर्गतश्चैत्रो यत्र केनचित् पृष्टः तत्र मैत्र आसीदिति , स च क्षणं ध्यात्वा अनुपलब्ध्या तत्र मैत्राभावमवगम्याह नासीत्तत्र मैत्र इति । सेयं
प्राङ्नास्तिताधीः न स्मृृतिः , पुरा गेहेऽनुभूयमाने मैत्रास्मरणेन तदभावाननुभवात् । एवं च तत्रैव इन्द्रियव्यापारं विनैवानुपलब्ध्या अभावानुभवात् अन्यत्रापि सैव हेतुः
क्लृप्तत्वात्। तदाहुः – -” “स्वरूपमात्रं दृष्टं हि वेश्माद्यर्थं स्मरन्नथ ।

तत्रान्येनास्तितां पृष्टस्तदैव प्रतिपद्यते” ” ॥ इति ।
मैवम् । प्राङ्ानास्तितायां हि न तावदज्ञातानुपलब्धिः भूतले घटाभावस्येवाभावग्राहिका, तदानीं गेहस्य विप्रकृष्टत्वेन योग्यानुपलब्धेरभावात् । नापि ज्ञाता,
अनवस्थाप्रसङ्गात्। अनुपलब्धेेरप्यभावरूपतया अनुपलब्ध्यन्तरेण ग्राह्यत्वात् । उपलम्भस्यानुपलब्धिरज्ञातैव स्वरूपसती मैत्रानुपलब्धिं गृह्णाति चेत्, त्वन्नये उपलम्भस्यातीन्द्रियत्वेन
तदभावस्य योग्यानुपलब्ध्यग्राह्यत्वात् ।

अथ गेहस्य योग्यमैत्रवत्तया स्मरणार्हस्य स्मरणाभावस्तत्र अज्ञात एव गेहे मैत्राभावग्राहक इति चेत् , न । स्वरूपसतः स्मरणाभावस्य ग्राहकत्वे तस्मिन्
सत्यभावसंशयविपर्ययाभावप्रसङ्गात् । भवति च कदाचित् तत्रासीदिति विपर्ययस्तत्रासीन्न वेति संशयश्च ।

अथ दोषात्संशयविपर्ययौ । न चासाधारणं प्रमाकरणं दूषयन्त एव दोषाः संशयादिहेतवो भवन्ति । न चात्र स्वरससिद्धस्य योग्यास्मरणस्य किंचिद्दूषितमिति
वाच्यम्। दोषसाहित्यमेव हि करणानां दुष्टता । न हि दूरत्वादिना चक्षुषः किंचिदपक्रियते । किं तु मण्यादेर्दाह इव स्वरूपसतामेव प्रतिबन्धकत्वमिति चेत् , न ।
अज्ञाताद्योग्यास्मरणात् तत्राभावधीरित्य सिद्धेः । किं तु मनसा ज्ञाताद्योग्यास्मरणाल्लिङ्गात् प्रमाणत्वेन क्लृप्तात्तत्राभावप्रतीत्युपपत्तौ नानुपलब्धिः प्रमाणान्तरं कल्प्यते ।
योग्यस्मरणाभावो न मनोग्राह्यः प्रत्यासत्त्यभावात् ज्ञानस्यायोग्यत्वाद्वेति चेत् , न । वाय्वादौ रूपाद्यभावप्रतीतेरलैङ्गिकत्वेनेन्द्रियानुविधानेन तज्जन्यत्वे सिद्धे
इन्द्रियसंबद्धविशेषणतायाः प्रत्यासत्तित्वकल्पनात् तज्ज्ञानं प्रत्यक्षम् । जानामीत्यनुभवस्य लिङ्गाद्यजन्यत्वात् । न च ज्ञातता लिङ्गम् , निराकृतत्वात् । तवापि
कथमभावे संशयविपर्ययाविति चेत् , न । लिङ्गसंशयविपर्ययाभ्यां लैङ्गिकसंशयविपर्ययदर्शनात् ।

37

यदा तु सुनिपुणेनैकज्ञानविषयतायोग्यस्य मैत्रस्यानुभवे सति स्मरणार्हस्यास्मरणमवधार्यते तदानुमितिः प्रमा । अत एवास्मरणमात्रस्य व्यभिचारमुपलभ्य तदुपेक्ष्य
विशिष्टास्मरणं ज्ञातुकामस्य प्रणिधानमुपयुज्यते । अन्यथा ध्यानमनुपपन्नं , स्वरूपसत एवास्मरणस्याभावग्राहकत्वात् । तस्माद्योग्यास्मरणं लिङ्गत्वेनैवोपयुज्यते ।
प्रयोगस्तु – – तद्गेहं तदा मैत्राभाववत् तत्तुल्यपरिमाणादियोगितया स्मरणेऽपि तद्वत्तया अस्मर्यमाणत्वात् , यदेवं तदेवं यथा घटाभाववद्भूतलमिति ।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे अनुपलब्धिवादः॥

अथाभाववादः
अथाभावो भावात्मैव । ततस्तत्र संयोगादिरेव ग्राहक इति न तत्र विशेषणता प्रत्यासत्तिः ।

तत्र प्राञ्चः- – अस्ति तावदिह भूतले घटो नास्तीत्यबाधिता बुद्धिः । सा चेयं न भूतलालम्बना । घटवत्यपि प्रसङ्गात् । नापि केवलतदालम्बना ,
अतिरिक्तकैवल्यानभ्युपगमात्। भूतलमेव कैवल्यमिति चेत् , तर्हि पौनरुक्त्यमधिकम् । अभेदे आधाराधेयभावानुपपत्तिश्च।

अथाधिकाभाववादिनापि अभावः साश्रयो वाच्यः । देशादिनियमेन व्यवहारात् । तथा चास्ति भूतले विशेषो योऽभावाश्रयः । स न भूतलमात्रम् । घटवत्यपि
प्रसङ्गात्। नाभावयुक्तम् , अन्योन्याश्रयात् । न च घटवत् , विरोधादिति चेत् , न । विशेषस्यैवाभावाश्रयत्वात् । स चाननुगत एव । एकाश्रयता त्वननुगतस्यापि
घटाश्रयतेव भवति ।

किं च कुत्राभाव इति, यत्र प्रतीयेत इत्येवोत्तरम् । क्व प्रतीयेत इत्यत्र , यत्रास्तीत्येव । अन्यथा गोत्वादिकमपि न स्वीक्रियेत । तदाश्रयविशेषादेव
व्यवहारसंभवात् । तथापि कीदृशि भूतले अभाव इति चेत् , अभावपूर्वसमये कीदृशं भूतलमिति प्रश्ने घटवदित्युत्तरम् । अभावसमये अभाववदिति । मध्यसमयस्तु
नास्त्येव । इह भूतले घटो नास्तीत्याधाराधेयभावप्रतीतेश्च। अभावाधारत्वं भूतलस्य न प्रतीयते, किंतु तन्मात्रबुुद्धिविषयत्वमिति चेत् , अहो! व्याख्याकौशलम् ।
अनुभवोऽपि व्याख्याय कथ्यते । तन्मात्रपदार्थानिर्वचनं च । न हि भूतलबद्धिस्तन्मात्रबुुद्धिः । घटवद्भूतलबुुद्धेरपि भूतलबुुद्धित्वात् । सा बुुद्धिर्न भूतलस्य, किंतु
घटभूतलयोः अग्नीषोमयोरिव देवतात्वमिति चेत्, न । ततो भूतलाव्यवहारप्रसङ्गात् । भूतलस्याविषयत्वात् । आशुुभाविभूतलविषयकज्ञानान्तरादिति चेत् , तर्हिसैव
भूतलबुद्धिस्तन्मात्रबुुद्विरिति तद्देशे घटाभावस्य व्यवहारप्रसङ्गः।

एतेनभूतलेन्द्रियसंनिकर्षजघटवद्भूतलेन्द्रियसंनिकर्षजज्ञानयोर्विशेषोऽङ्गीकरणीयः । सामग्रीभेदस्य कार्यभेदनियतत्वात् । तथा च स एव तन्मात्रपदार्थ इति
निरस्तम्। ततोऽपि भूतलव्यवहारात् । प्रतियोगितव्द्याप्येतरजनिता भूतलबुुद्धिरभाव इति चेत् , न । घटवति तज्जनिताया अपीतरजनितत्वात् । तन्मात्रजनिता सेति
चेत्, न । मात्रार्थस्याभावत्वात् तस्य चापरिज्ञानात् । घटाविषया सती भूतलविषयेति चेत् , न । उक्तोत्तरत्वात् ।

किंच प्रतियोगिनिरूपणाधीननिरूपणोऽभावः । बुद्धिस्तु न तथा । प्रतियोगिप्रकाशं विनापि बुुद्धिनिरूपणात् । व्यवहारार्थं दृश्यप्रतियोगिज्ञानापेक्षा अभावो ज्ञात
एवेति चेत् , न । व्यवहारस्य व्यवहर्तव्योपलम्भनिबन्धनत्वेन तथा अदृष्टचरत्वात् ।

यदि च प्रतियोगिस्मरणसापेक्षा तन्मात्रधीरभावपदार्थः तदा अन्धकारादौ या तन्मात्रधीः सा अभावो न स्यात् । तथा च तत्र विचरन् कण्टकैर्विध्येत ।
कण्टकस्मरणं विना कण्टकाभावाभावात् । निर्जने बन्धविच्छेदेऽपि जलनिस्सरणं न स्यात् । तदानीं तन्मात्रबुुद्धेः सर्वथा अभावात् ।
किं च तन्मात्रधीनाशे घटोन्मज्जनप्रसङ्गः, घटाभावाभावस्य घटत्वात् । यदि चाभावो नातिरिक्तस्तदा यत्र घटसंसृष्टत्वबुद्धिरासीत् कुतस्तत्र तन्मात्रधीः ।
मुद्गरपातजन्यातिरिक्तविषयानङ्गीकारात् ।

अतिरिक्ताभावे किं मानमिति चेत् , नास्तीति बुद्धिरेव ।
नन्वभावव्यवहारानुपपत्तिरन्योन्याश्रयादिति । अत्र प्राभाकराः। घटवद्भूतलबुुद्धिभिन्ना भूतलबुद्धिरभावव्यवहारकारणम् । न च दोषात् घटवति घटवत्त्वाज्ञाने
भूतलज्ञानमभावः स्यादिति वाच्यम् । घटवतो भूतलस्य ज्ञानात् भिन्नस्य भूतलज्ञानस्याभावत्वात् तद्भ्रमाच्चाभावभ्रमः ।

वस्तुतोऽत्यन्ताभावे प्रतियोगिमदधिकरणज्ञानस्याप्रसिद्धेः प्रतियोगिमज्ज्ञानभिन्नमधिकरणज्ञानं व्यधिकरणाभावव्यवहारे कारणम् । समानाधिकरणनिषेधप्रतीतिश्च
प्रतियोग्यधिकरणयोः स्वरूपभेदमालम्बते । तेन घटवत्त्वेन ज्ञायमानेऽपि भूतले भूतलं घटो नेति प्रतीतिः । तथा च यस्याभावज्ञानकारणत्वं परेषां तदेवाभावव्यवहृतिकारणमस्तु।
न ह्यधिकरणबुदिं्ध विना तद्बुद्धिः । न च भूतलबुद्धिस्तथा । घटवत्यपि प्रसङ्गात् । न चाभावाधिकरणभूतलविषयत्वाद्बुद्धेर्विशेषः। प्रतियोगिसत्त्वेऽपि प्राङ्नासीदिदमत्रेति
प्रतीतेः ।

किं च ज्ञानविषयभूतलस्याभावो यदि विशेषणम् , तदा अभावज्ञानमेव तद्ज्ञानकारणम् । उपलक्षणं चेत् , न कश्चिद्विशेषः । प्रतियेगिमत्तयानुपलब्धिरपि
कारणमिति चेत् , न । प्रतियोगिमत्तयोपलम्भेऽपि प्राङ्नासीदिदमत्रेति प्रतीतेः ।

38

बुुद्ध्योश्च विशेषः स्वरूपविशेषावेव, नान्योन्याभावोऽनवस्थानादात्माश्रयाद्वा। भूतलज्ञानापेक्षया घटवद्भूतलज्ञानत्वमेव वा वैधर्म्यभेदः । न
चातिरिक्ताभावपक्षेऽप्यन्योन्याभावेऽत्यन्ताभावे च नित्ये मानमस्ति । प्रतियोगिनि बुुद्धिस्थेऽधिकरणस्वरूपस्यैवानतिप्रसञ्जकत्वात्। न हि तत्राधिकरणस्य प्रतियोगितादात्म्यं
प्रतियोगिमत्त्वं वा संभवति । अत एवाभावेऽभावान्तरं त्वया न स्वीक्रियते । अधिकरणस्य तद्वैरूप्याभावात् ।

नन्वर्थेनैव विशेषो बुद्धेः। न चार्थभेदोऽस्ति । मैवम् । न हि तावदर्थो ज्ञानकारणमवश्यम् । किं तु सामग्रीविशेषात् बुद्धिविशेषो जायते धारावाहिकबुुद्धिवत् ।
यद्वा घटवद्भूतलभिन्नं भूतलमभावः यत्र परेषामभावः भेदश्च स्वरूपमेव, तादात्म्येनाप्रतीतौ प्रतीतिरिति तवापि स्वरूपभेदलक्षणम् । इदानीमिदं भूतलं
घटवद्भूतलं न भवतीति प्रतीतेः ।

एतावांस्तु विशेषो यत्तव समानाधिकरणनिषेधप्रतीतिरियमन्योन्याभावभेदमवगाहते , मम तु स्वरूपम् ।
ननु यदेव भूतलं घटवद्भूतलाभिन्नमासीत् तदेव कथं तद्भिन्नमिति चेत् , न। तवाप्यबाधितसमानाधिकरणनिषेधप्रतीतिबलेनान्योन्याभावसिद्धौ तथात्वस्य
दुर्वारत्वात्। समयभेदेनैव भेदाभेदौ न विरुध्येते इति तु समम् । यदि च घटवद्भूतलाभिन्नं तदिदानीं स्यात् तदा घटवद्भूतलव्यवहारस्तत्र स्यात् । घटतदभावावच्छेदकभेदेनान्यो-न्याभावतदभावौ भूतले वर्तेते इति चेत् , ममापि भूतल (बुद्धिः) (बुद्धेः) घटवद्भूतलबुुद्ध्यवच्छेदेन स्वरूपभेदतदभावौ वर्तेते इति गृहाण ।
ननु भूतले घटोऽस्ति न वेति संशयो घटो नास्तीति विपर्ययो वा कथं भवेत् । प्रतियोगिनि बुद्धिस्थेऽधिकरणस्य तज्ज्ञानस्य चाभावस्योपलम्भादिति चेत् , न।
भूतले तज्ज्ञाने वा घटवद्भिन्नत्वस्य घटवद्भूतलज्ञानभिन्नत्वस्य च दोषवशेनानिश्चयात् । भूतलतज्ज्ञानस्वरूपाणामननुगमात् कथमनुगतव्यवहार इति चेत् , न ।
अभावेऽपि तुल्यत्वात्। न ह्यभावत्वं सामान्यम् । अभावत्वगतान्योन्याभावाव्यापकत्वात् ।

न च भावविरोधित्वम् । विरोधस्याभावनिरूप्यत्वात् भावाभावयोः सहावस्थानाभावस्य स्वरूपानतिरेकाच्च । नापि भावप्रतियोगित्वम् । प्रतियोगित्वस्याभावविरहरूपत्वात्,
अभावाभावास्य भावस्य भावाप्रतियोगिकत्वाच्च । नापि सप्रतियोगिकत्वम् । समवायसादृश्यादीनामपि तथात्वात् । नापि परकीयस्वभावत्वम् , ज्ञानादिगतत्वात् ,
स्वभावशब्दस्य स्वरूपार्थेऽननुगमाच्च । नापि सत्ताशून्यत्वम् , सत्तायामेव गतत्वात् , शून्यत्वस्याभावरूपत्वाच्च । सत्तात्यन्ताभाववत्त्वमभावत्वम् ,
अत्यन्ताभावश्चाभावत्वानवगतावप्यवगत इति चेत् , न । अभावेऽभावानभ्युपगमात् , तथात्वेऽपि तत्रैव तदभ्युपगमात् ।

सत्ताबोेधविधुरत्वमभावत्वम् । सामान्यादौ सत्तावगमेऽपि बाधात् सा त्यज्यते , अभावस्य तद्विरुद्धतयैव प्रतितेरिति चेत् , न । विरोधित्वस्य स्वरूपानतिरेकात्।
सहानवस्थाननियमो विरोध इति चेत् , न । अनवस्थानस्यावस्थानाभावत्वेनात्माश्रयात् । भावभिन्नत्वमिति चेत् , न । भेदस्य स्वरूपान्योन्याभावरूपत्वे
उक्तदोषात्। वैधर्म्यस्य चिन्त्यमानत्वात् । प्रागभावत्वादेरभावनिरूप्यत्वात् । एवं चेदभावेऽपि नानुगमस्तदा किमधिकेन । स्वरूपविशेषादेव घटव्यवहारोऽप्यस्त्विति चेत्,
न । भूतलविलक्षण घटानुभवात् । एक एवाभावोऽनुगत इति चेत् , न। तस्य नित्यत्वेन प्रतियोगिकालेऽप्यभावव्यवहारप्रसङ्गात् । प्रागभावादिव्युत्पादनविरोधाच्च।
यद्वा अभाववादिनाप्यभावज्ञानकारणमनुगतो भूतलबुुद्धिविशेषः स्वीकार्यः । तद्वरं स एवास्तु प्रमेयं प्रमाणं च । स्वप्रकाशत्वाद्बुुद्धीनाम् ।
ननु तन्मात्रबुद्धेरभावत्वे तस्याः स्वप्रकाशत्वेन प्रतियोगिज्ञानापेक्षा न स्यादिति चेत् , न । न ग्रहणाय तदपेक्षा , किं तु व्यवहाराय । ज्ञानस्य सत्यामिच्छायां
व्यवहारार्थमधिकापेक्षेति चेत् , न । दृष्टा हि व्यवहारार्थमधिकापेक्षा यथा परिमाणस्य दीर्घत्वव्यवहारे । तथा हि अधिकसंख्यावच्छिन्नहस्तवितस्त्याद्यवच्छेदः परिमाणस्य
दीर्घत्वम्। तद्विपरीतं तु ह्रस्वत्वम् । तादृशपरिमाणं चावयविग्रहसमकालमेवानुभूतम् । दीर्घत्वव्यपदेशस्तु अल्पसंख्याद्यवच्छिन्नहस्ताद्यवच्छेद्यपरिमाणज्ञानमपेक्षते ।
तन्मात्रबुुद्धेेरभावत्वे दृश्यप्रतियोगिज्ञानापेक्षतया दृश्यतासंपत्त्यर्थं केशकीटादिसूक्ष्मजिज्ञासाप्यर्थवती । न च तन्मात्रबुुद्धेरभावत्वे तद्विनाशे अभावाभावे भावोन्मज्जनप्रसङ्ग
इत्।ि मोक्षे पुरुषान्तरस्य नियमे प्रमाणं नास्तीति चेत् , न । कार्यात् कारणकल्पनात् । न चैवं बुद्धिनाशे पुनः संसारिता । बुद्धिधारासत्त्वात् । न च सर्वमुक्तिः
प्रमाणाभावात्। प्रतियोगिमदधिकरणभिन्नाधिकरणस्वरूपस्याभावत्वे सर्वं समञ्जसमेवेति पूर्वपक्षः।

सिद्धान्तस्तुसप्रतियोगिकोऽभावोऽनुभूयते । घटो न पटो नेत्यनुभवात् । न तु तन्मात्रम् । अतोऽभाववित्तिवेद्यत्वं प्रतियोगिनः प्रतियोगिज्ञानाधीनज्ञानत्वं
चाभावस्यानुभवसाक्षिकं गोसादृश्यवत् । न च केवलमधिकरणं तज्ज्ञानं वा अभावः । प्रतियोगिज्ञानं विनापि तद्वित्तेः , तद्वित्तौ प्रतियोगिनोऽविषयत्वाच्च ।
सप्रतियोगिकत्वाभावे च कस्य प्रतियोगी घटः।

अथ केवलमधिकरणं तज्ज्ञानं वा अभावः । स चाप्रतियोगिक एव । अभावव्यवहारस्तु प्रतियोगिज्ञानमपेक्षत इति तस्य प्रतियागी घटः, घटतदभावव्यवहारयोर्विरोधादिति
चेत् , न । इह घटो नेति नञर्थस्य प्रतियोगी घटोऽनुभूयते । न त्वभावज्ञानानन्तरभाविनोऽभावव्यवहारस्य। तस्याभावानुभवसमयेऽप्रतीतेः । व्यवह्रियतेऽसौ न
त्वनुभूयत इति चेत् , न । तादृशानुभवं विना तथा व्यवहाराभावात् । व्यवहारे प्रतियोगिज्ञानापेक्षेत्यपि न युक्तम् । व्यवहर्तव्यज्ञानस्य सत्यामिच्छायां व्यवहारेऽधिकापेक्षाया
अदृष्टचरत्वात् । लाघवादिह तथा कल्प्यते न त्वभाव इति चेत् , न । व्यवहारमात्रे तथा कारणत्वानवधारणात् व्यवहारविशेषस्याननुगतत्वात् ।
ह्रस्वत्वदीर्घत्वे च परिमाणान्तरे एव । तवाप्यधिकसंख्यावच्छिन्नहस्ताद्यवच्छेद्यत्वं परिमाणस्य ह्रस्वत्वं , दीर्र्घत्वं च अल्पाधिकावधिज्ञानाधीनज्ञानम्। अतो
द्रव्यसमकालं परिमाणानुभवेऽपि नानुभूतमिति न तदा तव्द्यवहारः । गोसादृश्यं यद्यपि गवयगतानि सामान्यानि तज्ज्ञानसमकालमेवानुभूतानि, तथापि गोवृत्तित्वे सति
गवयवृत्तित्वं गोसादृश्यं गोज्ञानाधीनज्ञानमिति न तदा सादृश्यव्यवहारः ।

39

स्यादेतत् । अस्ति तावत् कस्यचित् ज्ञानात् क्वचित् अभावपदप्रयोगः सर्वसिद्धः । तत्र प्रयोगालम्बनं भूतलाद्येव घटवदतिरिक्ताप्रकाशात् । ततश्च यदपेक्षं
यस्याभावपदप्रयोगविषयत्वं तत्तस्याभाव इत्युपेयते । तद्बुद्धिजनिताभावपदप्रयोगविषयत्वमेव घटभूतलयोः प्रतियोग्यनुयोगिरूपः सबन्धः । अत एव भूतलस्य सप्रतियोगिकत्वं,
तद्बुद्धिजनिताभावपदप्रयोगविषयत्वेन तद्बुदिं्ध विना अभावपदप्रयोगाविषयत्वात् । अनेनैवोपाधिना घटाभावादिपदव्युत्पत्तिग्रह इति चेत् , (न।) (तन्न) अभावपदप्रयोगालम्बनं
न भूतलम् । न हि भूतलं घटाभाव इति प्रतीतिप्रयोगौ , अपि तु भूतले घटाभाव इति । भूतले घट इतिवत् भूतले घटो नास्तीति भूतलाधिकरणातिरिक्तनञर्थप्रकाशात्।
अपि च घटबुद्धिजनिताभावपदप्रयोगविषयत्वं भूतलस्य घटाभावत्वम् । तथा च घटाभावत्वे तस्यावगते घटाभावपदप्रयोगविषयत्वम् । घटाभावपदप्रयोगविषयत्वे
च ज्ञाते तस्य घटाभावत्वमिति अन्योन्याश्रयः। पदप्रवृत्तिनिमित्तेऽवगते पदप्रयोगनियमात् । घटाभावत्वं च घटाभावपदे प्रवृत्तिनिमित्तम् । यदि च भूतलं सप्रतियोगिकं
तदा प्रतियोगिनं विना केवलं न भासेत सादृश्यादिवत् । घटाभावपदप्रयोगदशायां तत् सप्रतियोगिकं नान्यदेति चेत् , तर्हि घटप्रतियोगिकत्वे तस्य
घटबुद्धिजनिताभावपदप्रयोगविषयत्वम्, सति च तस्मिन् घटप्रतियोगिकत्वमित्यन्योन्याश्रयः , केवलस्याप्रतियोगिकत्वात्। एवं च गोबुद्धिजनितसदृशपदप्रयोगविषयत्वं
गवयस्य गोसादृश्यमस्तु, कृतमतिरिक्तसादृश्येनेति सप्रतियोगिकपदार्थापलापः।

अपि च न केवलं भूतलमभावः, भूतलाभावयोः आधाराधेयभावानुभवात् अभेदे तदनुपपत्तेः । दुःखवदात्मभिन्नस्य चात्मनो दुःखाभावत्वे मोक्षस्यापुरुषार्थत्वप्रसङ्गः,
आत्मनोऽसाध्यत्वात्।

अथ घटवद्भूतलज्ञानभिन्नं भूतलज्ञानमभावः । तस्य च भूतलाधारता स्वरूपसंबन्धेनानुभूयत इति चेत् , न । तस्य निष्प्रतियोगिकत्वेनाभावत्वानुपपत्तेः
इत्युक्तत्वात् ।

अपि च तज्ज्ञानं किं स्वरूपसदेवाभावव्यवहारकारणम् , भूतलाधिकरणकनिषेधरूपतयानुभूयानं वा । नाद्यः , स्वरूपसतो भूतलाधेयतया प्रतीत्यनुपपत्तेः । न
द्वितीयः, घटवद्भूतलज्ञानस्य तदानीमनुपस्थितेः तद्भिन्नज्ञानस्य प्रत्येतुमशक्यत्वात् ।

किं च यदि घटवद्भूतलज्ञानात् भिन्नभूतलज्ञानमभावः तदा घटवति दोषात् घटवत्त्वाज्ञाने भूतलज्ञानमभावो भवेत् । तथा च तदेव तदैव घटवत् घटाभाववच्च
स्यात्, न स्यातां च घटाभावज्ञानतव्द्यवहारौे विसंवादिनौ विषयाबाधात् ।

अथ वस्तुतो घटवतो भूतलस्य ज्ञानात् भिन्नं भूतलज्ञानमभावः । न च घटवति भूतलज्ञानम् । तथा व्यवहारस्तु विसंवादी । तथाविधभ्रमादर्शनादिति चेत् , तर्हि
घटवतो भूतलस्य ज्ञानात् भिन्नत्वेन ज्ञानं भूतलज्ञानमभावव्यवहृतिहेतुः। न च तत्संभवति । स्वप्रकाशेनानुव्यवसायेन वाधिकरणज्ञाने तदप्रकाशात् भेदप्रतियोगिनोऽनुपस्थितेः।
न च ज्ञानान्तरेण तथानुभवः । योग्यानुपलब्ध्या तत्र घटाभावनिश्चयं विना तथा निश्चेेतुमशक्यत्वात् ।

अपि चाधिकरणतज्ज्ञानानामननुगतत्वेनानुगताभावव्यवहारानुपपत्तिः । न चातिरिक्ताभावपक्षेऽपि तथाभावत्वस्यानुगतस्याभावादिति वाच्यम् । अनुगताभावत्वं
विनापि घटादिर्न पट इति समानाधिकरणनिषेधादनुगतव्यवहारः पटान्योन्याभावेनैकेन , एवं घटादौ न गोत्वमित्यनुगतव्यवहार एकेनात्यन्ताभावेन, कपालेषु भूतलेषु
इदानीं घटो विनष्ट इत्यनुगतव्यवहारो ध्वंसेनैकेन , घटानुत्पाददशायामेतेषु घटो नास्तीत्यनुगतव्यवहार एकेन प्रागभावेन , एवं चत्वारोऽनुगतनिषेधव्यवहाराश्चतसृभिरेव
व्यक्तिभिः क्रियन्ते । तव तु अभावचतुष्टयं तत्तदधिकरणतत्तद्बुद्धीनामननुगतत्वान्न संभवति, अनुगताभावचतुष्टयव्यवहारस्य प्रत्येकाभावेनोपपादयितुमशक्यत्वादित्यतिरिक्ता
भावव्यक्तिचतुष्टयसिद्धिः । तस्य च यथा अभावत्वेनैकेनैकपदार्थत्वं तथानुपदमेव वक्ष्यामः ।

स्यादेतत् । यस्मिन् समयविशेषे यत्र भूतलेऽभावः परैः स्वीक्रियते , तत्समयविशेषयोग एव भूतलस्य घटाभावः। एवं चेह भूतले घटो
नास्तीत्याधाराधेयभावप्रतीतिरप्युपपद्यते। समयविशेषयोगस्य भूतलवृत्तित्वात् । न च समयविशेषयोगस्याभावत्वेऽननुगमो दोषः । अतिरिक्ताभावपक्षेऽपि तुल्यत्वात् ।
अभावत्वस्य जातेरुपाधेर्वा असत्त्वात् । यदि चाभावप्रतीतिप्रयोगानुगमार्थं तत्र धर्मान्तरं स्वीक्रियते , तदा समयविशेषयोगवृत्त्येव तदस्तु लाघवादिति ।
तन्न । समयविशेषयोगस्य निष्प्रतियोगिकत्वेनाभावव्यवहारासामर्थ्यात् । किं च भूतलवत् समयविशेषोऽपि अभावाधारतयानुभूयते इदानीं भूतले घटो नास्तीति
प्रतीतेः। न च तत्समयविशेषे तत्समयविशेषयोगः। अभेदे संबन्धानुपपत्तौ आधाराधेयभावाभावात् ।

अपि च समये किमभावाश्रयतैव विशेषः, तत्तत्समयस्वरूपं वा । आद्येऽभावस्वीकारः । द्वितीयेऽननुगमः । मम तु एकाभावव्यक्तेरेव तथा , नानासमयवृत्तित्वात्।
किं च समयविशेषयोगादिदानीं भूतलमिति प्रतीतिप्रयोगौ स्याताम् , विशेषणस्य स्वप्रकारकविशिष्टप्रत्ययजनकत्वात् न तु भूतले घटाभाव इति ।
यदि च तत्तत्समयविशेषयोगाद्भूतले घटाभावव्यवहारस्तदा यादृशसंस्थानविशेषविशिष्टे कपाले घटो वर्तते तादृशकपालादिकमेव तत्तत्समयविशेषयोगात्
घटादिव्यवहारजनकमस्तु किं घटादिना । प्रतीतिश्च तुल्या ।

एतेन- -“दृष्टस्तावदयं घटोऽत्र च पतन् दृष्टस्तथा मुद्गरो

40

दृष्टा कर्परसंहतिः परमितोऽभावो न दृष्टोऽपरः ।
तेनाभाव इति श्रुतिः क्व निहिता किं चात्र तत्कारणं

स्वाधीना कलशस्य केवलमियं दृष्टा कपालावली “॥ इति निरस्तम् । मुद्गरपाताद्विनष्टो घट इति प्रतीत्यतिरिक्तविनाशानुभवात् । न च केवलभूतलं
तद्बुद्धिर्वा तज्जन्या, तेन विनापि तयोः सत्त्वात् । त्वन्मते च तयोरभावमात्रत्वेन विनाशत्वायोगात् । योगे वा अभावमात्रस्य विनाशित्वापत्तिः ।
अथ त्वन्मते यद्विनाशकं तदेव तत्सहितं भूतलं ज्ञानं वा विनाश इति चेत् , न । मुद्गरपातजन्यो हि विनाशोऽनुभूयते । न च तस्यैव तज्जनकत्वम् ।
सप्रतियोगिकश्च विनाशोऽनुभूयते । न च मुद्गरपातस्तथा।

नन्वभावेन समं भूतलस्य संबन्धाभावात् कथं भूतले घटाभावप्रत्ययः । स्वरूपसंबन्धादिति चेत् , तर्हि घटवद्भूतलस्यापि चत्वरीयाभावेन स्वरूपसंबन्धोऽस्ति।
भूतलमभावश्चेत्यधिकस्य स्वरूपसंबन्धस्याभावात् ।

प्रतियोग्यारोप एव स्वरूपसंबन्धः । अत एवारोप्य निषिध्यत इत्युच्यत इति चेत् , न । तत्राभावसंबन्धे सत्यारोपः , स एव चाभावसंबन्ध इत्यन्योन्याश्रय इति
चेत् , न । संबन्धान्तरमन्तरेण विशिष्टप्रत्ययजननयोग्यत्वस्य स्वरूपसंबन्धत्वात् । न च घटवद्भूतलचत्वरीयाभावयोः परस्परं विशिष्टप्रत्ययः । ज्ञानविषययोः
समवायसमवायिनोरिव संबन्धान्तराभ्युपगमने चानवस्थाभिया तत्संबन्धसंबन्धिनोरपि तादृशसंबन्धस्वीकारादिति सिद्धोऽतिरिक्तोऽभाव इति तद्ग्राहिका विशेषणतेति
सिद्धमेतत् ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे अभाववादः॥
अथ विषयालोकसंनिकर्षवादः

षोढा संनिकर्षः प्रत्यक्षविशेषे कारणम् । विषयेणालोकसंयोगविशेषश्च तत्र कारणम् , न तु चक्षुषा । प्रकाशस्थेन चक्षुषा अन्धकारस्थस्याग्रहणात् वैपरीत्ये च
ग्रहणात्।

नन्वेवं परभागावच्छेदेनालोकसंयुक्तोऽपि घटो गृह्येत । न चावयविग्रहसामग्र्याः स्वावयवग्रहसामग्रीनियमात् परभागावच्छिन्नो न गृह्यत इति वाच्यम् । त्र्यणुके
व्यभिचारात्, प्रत्यक्षावयवे च सामग्रीभेदकल्पने मानाभावात् ।

अथाभिमुखावयवावच्छेदेन घटालोकसंयोगः कारणम् , तर्हि अभिमुखावयवावच्छेदेन चक्षुरालोकसंयोगोऽपि हेतुरस्तु । यदि चालोकसंयोगावच्छिन्ने चक्षुस्संयोगस्तथा
समानदेशताविरोधश्च निबिडयोरेव, अन्यथा पटमहारजतयोः पटोदकयोश्चाग्रहप्रसङ्गः । तर्हि घटसंयोगावच्छिन्ने चक्षुरालोकसंयोगः कारणमस्तु ।
अथ चालिनीन्यायेन आलोकसंयोगसंनिहिते चक्षुर्घटसंयोगः कारणम् तदा घटचक्षुस्संयोगसंनिहिते चक्षुरालोकसंयोगो हेतुरस्त्विति चेत् , नैवम् । अन्वयव्यतिरेकाभ्यां
विषयालोकसंयोगस्य कारणत्वे निश्चिते तेनैवोपपत्तौ न चक्षुरालोकसंयोगः कारणं कल्प्यते ।

अन्ये तु द्वयोरप्यालोकसंयोगयोः कारणत्वे विषयालोकसंयोगः कारणमेवेति । नन्वभिमुखावयवावच्छेदेन विषयालोकसंयोगयोः कारणत्वे (विषयालोकसंयोगः
कारणमेवेति। नन्वभिमुखावयवावच्छेदेन विषयालोकसंयोगस्य कारणत्वे ) आवश्यकसंयोग एव हेतुरस्तु इति चेत् , न । अवयवसंयोगमात्रस्यातिप्रसक्तेः स्वावयवसंयोगो
वक्तव्यः । तथा च स्वसंयोग एव लाघवात् । अवयवसंयोगेन चान्यथासिद्धौ कारणतैव न स्यात् संयोगस्येत्युक्तम्। आलोकस्योद्भूतरूपमपि व्यञ्जकम् , अन्वयव्यतिरेकित्वात्।
न तु तेजः कारणतावच्छेदेकं तत् ऊष्मादीनां चाक्षुषत्वाभावात् । न च स्वातन्त्र्येणान्वयव्यतिरेकित्वात् द्वयोरपि हेतुत्वम् । अन्यथा दण्डादेरपि चक्रावच्छेदकत्वं स्यादिति
वाच्यम् । उद्भूतरूपतेजोमात्रयोः समवधाने कार्यानुदयादिति चेत् , मैवम् । उद्भूतरूपस्य तेजस्त्वम् , तेजसश्चोद्भूतरूपत्वं वावच्छेदकमिति विनिगमकाभावादुभयोरपि
हेतुत्वात् , दण्डचक्रयोरिवैकैकं विहायापरस्यान्वयव्यतिरेकाभावात् । एवं चक्षुषो रूपमपि व्यञ्जकं व्यञ्जकतेजोरूपत्वात् आलोकरूपवत् । रूपस्य व्यञ्जकत्वे
उद्भूतरूपत्वं तेजोगतोद्भूतरूपत्वं वा नोपाधिः , व्यभिचारेण गौरवेण चाप्रयोजकत्वात् । किं तु व्यञ्जकरूपमेव तथा, लाघवात्। विषयस्थमपि रूपमुद्भूतं सहकारि ।
तदुद्भवे च मानम् – इन्द्रियालोकादिप्रत्यासन्नं महदवयविवायूपनीतसुरभिशीतोष्मचक्षुरादिकं साक्षात्कार (कारण) (कारणभूत) किंचित्समवधानशून्यम् अप्रत्यक्षत्वात्
अन्धकारस्थघटवदिति ।

तच्च कारणं लाघवादनुगतं सामन्यं रूपादिवृत्ति न द्रव्यगतम् । ऊष्मादौ स्पर्शग्रहे रूपस्य, प्रभादौ रूपग्रहे स्पर्शस्य ग्रहप्रसङ्गात् , उद्भवत्वैकार्थसमवायाविशेषात्।
अन्यथा स्पर्शरूपयोरग्रहप्रसङ्गात् । नाप्युभयवृत्ति , रूपादिवृत्तित्वेनैवोपपत्तेः । रूपस्पर्शयोस्तु तन्नाना, एकग्रहेऽप्यपरस्याग्रहात् । न च रूपत्वादिना परापरभावानुपपत्तिः,
तारत्वादिवन्नानात्वात् । रूपादिप्रत्यक्षे एकैकोद्भवस्यैव प्रयोजकत्वात् ।

ननु महत्त्व एवोद्भवत्वमस्तु । तदेव प्रत्यक्षत्वे तन्त्रम् , लाघवात् । न (च) रूपेऽपि, गौरवादिति चेत् , न । आश्रयमहत्त्वोद्भवाभावेऽपि गन्धस्पर्शयोः
प्रत्यक्षत्वेनोद्भवत्वमिति प्रत्यक्षमूर्तविशेषगुणत्वेन रूपेऽप्युद्भवत्वात् न महत्त्वे, सामान्यगुणत्वात् ।

41

अथानुद्भवत्वमेव जातिः , अप्रत्यक्षत्वप्रयोजकत्वेन साक्षादेव तत्कल्पनात् तदभावात् प्रत्यक्षत्वमिति चेत् , न । अप्रत्यक्षतायाः प्रत्यक्षकारणविरहप्रयोज्यत्वेन
प्रत्यक्षकारणस्य लाघवेन जातेः कल्पनात् । न तु प्रतिबन्धकत्वेनानुद्भवत्वं कल्पयित्वा तदभावः कारणं गौरवादिति संप्रदायविदः।
वयं तु ब्रुमः। शुक्लत्वादिना कारणरूपाग्निसंयोगप्रयोज्याभ्यां जातिभ्यां परापरभावानुपपत्त्या रूपवृत्त्युद्भवत्वमनेकं वाच्यम् । तथा चोद्भूतत्वेन कारणत्वेऽननुगमः।
तस्मादनुद्भवत्वं शुक्लत्वादिव्याप्यं नानाजातिः, तदभावकूटस्तु प्रत्यक्षत्वे प्रयोजकः । अन्यथानुगतप्रत्यक्षानुपपत्तेः । एवं स्पर्शादावपि ।
अथ वोद्भूतत्वमनुद्भूतत्वं वा न जातिः । किं तु रूपत्वव्याप्यजातिमत्त्वमेवोद्भूतत्वं तदभावोऽनुद्भवत्वम् । प्रत्यक्षे रूपे शुक्लतरतमत्वादिजातिमत्त्वात् ।
ऊष्मचक्षुरादिरूपे तु शुक्लत्वमात्रमेव , तव्द्याप्यजातौ मानाभावादुत्कर्षाभावात् । न च रूपत्वमेव मानम् । लाघवेन तस्य प्रयोजकत्वे प्रत्यक्षत्वप्रसङ्गात् । एवं
स्पर्शादावपीति । इतोऽपि महत्त्वे नोद्भवत्वं प्रयोजकम् । वाय्वादौ महत्त्वोत्कर्षेऽप्यप्रत्यक्षत्वात् ।

ननु भर्जनकपालगतो वह्निः वारिस्थघटव्यञ्जक(सूर)(सूर्य)तेजश्च गृह्येेत, वारिकपालयोः प्रत्यक्षत्वेनोद्भूतरूपवत्त्वात् । तयोः संयोगविशेष एव प्रतिबन्धक
इति चेत्, न । जलकपालादीनामालोकव्यङ्ग्यतया तद्ग्रहे प्रतिबन्धकत्वाभावात् । प्रतिबन्धकत्वे वा भर्जनकपालवारिसंयोगिवह्निसौरालोकयोरग्रहप्रसङ्गः । संयोगे च
न विशेषो जातिकृतः , अन्यतरकर्मजत्वादिना संकरप्रसङ्गात् । तारत्ववन्नानात्वे गौरवात् । नापि तत्संयोगभेदः, अननुगमादिति ।

मैवम् । जलस्थं तु तेजो गृह्यत एव । उभयोः स्वच्छतया विविच्य ग्रहो न भवति । भर्जनकपाले चानुद्भूतरूपमुद्भूतस्पर्शमन्यदेव तेजस्तादृशैरवयवैवह्निसहचरितैरारभ्यते।
अतितप्ततैलादौ कदाचिदुद्भूतरूपावयवप्रवेशाद्वह्न्यारम्भोऽपि । न चैवं दुग्धसहचरितदधिपरमाणुभिरेव दध्यारम्भः । दुग्धध्वंसजन्यद्रव्यत्वेन खण्डदुग्धवद् दध्नो दुग्धोपादानोपादेयत्वात्।
नन्वेवमुद्भूतरूपवह्न्यादौ उद्भूतस्पर्शो नास्ति । तत्सहचरिततेजोऽन्तरनियमेन तत्रोष्मबुद्धेरुपपत्तेः । उद्भूतरूपोद्भूतस्पर्शसामग्र्योरूष्मणि प्रभादौ विरोधावधारणादिति
चेत् , न । यं वह्निमद्राक्षं तं स्पृशामीत्यबाधितप्रत्यभिज्ञानवशात् दर्शनस्पर्शनाभ्यां वह्नौ रूपस्पर्शयोरुपलम्भात् । न च तेजस्त्वं बाधकम् ।
उद्भवानुद्भवयोर्निमित्तभेदसंसर्गप्रयोज्यत्वात्, तेजस्त्वस्य रूपवद्वृत्तिद्रव्यत्वसाक्षाव्द्याप्यजातित्वेनोद्भूतरूपस्पर्शवद्वृत्तित्वात् । न चोद्भूतरूपस्पर्शयोर्विरोधः, जलपृथिव्योरुभयसत्त्वात्।
तेजसि विरोधस्य निमित्तभेदोपाधिकत्वादिति। उद्भूतरूपसहचरितयोर्महत्त्वानेकद्रव्यवत्त्वयोः युगनद्धवाहितया अन्वयव्यतिरेकतुल्यत्वेऽपि द्रव्यचाक्षुषत्वे नानेकद्रव्यवत्त्वमुभयं
वा तन्त्रम् , किं तु महत्त्वमेव लाघवात् । अनेकद्रव्योत्कर्र्षं विनापि तूलकादौ प्रचयजन्योत्कृष्टपरिमाणात् प्रत्यक्षोत्कर्षदर्शनाच्च । दूरस्थकेशराशौ द्रव्यानुत्पादेन
महत्त्वाभावेऽप्येककेशस्य सजातीयसंयोगेनानेकद्रव्यवत्त्वात् द्रव्यप्रत्यक्षतेत्यनेकद्रव्यवत्त्वं तत्र तन्त्रमिति चेत् , न । अनेकद्रव्यसंबन्धित्वस्य समवायेन प्रयोजकत्वात् , न
तु संयोगेन , अतिप्रसङ्गात् । तथा च दूरग्रहणे सजातीयसंयोगस्यानेकद्रव्यवत्त्वे सहकारिता वाच्या । सा महत्त्व एवास्तु ।

ननु यद्युद्भूतरूपवत्त्वं महत्त्वं च द्रव्यप्रत्यक्षतायां स्वरूपयोग्यता तदा दण्डत्ववत्तयोः कारणता न स्यादिति चेत् , न । तदुत्कर्षात् , प्रत्यक्षोत्कर्र्षेण तयोः
कारणत्वात्। न ह्यकारणोत्कर्षमकार्यमनुविधत्ते । दण्डत्वादौ नैवम् , प्रकारभेदेनोभयरूपत्वाच्च चाक्षुषद्रव्यज्ञाने विषयत्वेन तयोः कारणत्वम् , द्रव्येऽनुगतत्वेन
कारणतावच्छेदकत्वमिति ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे विषयालोकसंनिकर्षवादः॥
अथ वायुप्रत्यक्षवादः

ननु नोद्भूतरूपवत्त्वं तत्र तन्त्रम् , वायोः प्रत्यक्षत्वात् । तथा हि – वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वात् महत्त्वे सत्युद्भूतस्पर्शवत्त्वाद्वा घटवत् । ऊष्मादौ
प्रत्यक्षत्वान्न व्यभिचारः । न चाप्रयोजकम् । स्पार्शनप्रत्यक्षत्वे महत्त्वे सत्युद्भूतस्पर्शवत्त्वं प्रयोजकम् , नोद्भूतरूपवत्त्वमपि, गौरवात् । न च पक्षधर्मावच्छिन्नसाध्यव्यापकः
साधनावच्छिन्नसाध्यव्यापकश्चोद्भूतरूपवत्त्वमुपाधिः । स्पार्शनप्रत्यक्षत्वे तस्याप्रयोजकत्वात् , त्वगिन्द्रियव्यापारानन्तरं वायुर्वातीति प्रतीतेश्च । न च स्पर्शलिङ्गाग्रहे
तदुपक्षयः। घटेऽपि तथात्वापत्तेः । लैङ्गिकत्वे च स्पर्शे वायुवृत्तिरिति धीः स्यात्, न त्वनुष्णाशीतस्पर्शो वायुरिति, स्पर्शाग्रहेऽपि शीतो वायुरिति प्रतीतेश्च । न च
शीतद्रव्योपनायकत्वेनानुमिते वायौ तथा धीः । बाधकाभावात् विशेषदर्शने सत्यारोपाभावाच्च ।

अथाचाक्षुषत्वं स्पार्शनत्वे बाधकम् । चक्षुषानुपलभ्यमानस्य त्वचानुपलम्भादिति चेत् , तर्हि चक्षुरेव द्रव्यग्राहकम् । त्वचा स्पर्शमात्रं प्रतीयेत , वायाविव
प्रत्यभिज्ञापि तद्वदेव ।

अथानुभवस्य दुरपह्नवत्वात् त्वचा आश्रयरहित एव स्पर्श उपलभ्यते, तदा वायावपि तुल्यम् । अथ दोषाभावे सति द्रव्यग्रहे तद्गतसंख्यादिग्रहनियमात् वायौ
सर्वथा तदग्रहात् न स प्रत्यक्ष इति चेत् , न । न च तावदयं व्यक्तौ नियमः । पृष्ठलग्नवस्त्रादेः संख्यापरिमाणाग्रहे त्वचा ग्रहणात् । तज्जातीये तु फूत्कारादौ
संख्यापरिमाणादीनां वाय्वभिघातस्य च शरीरे प्रत्यक्षत्वात् ।

स्यादेतत् । बहिरिन्द्रियजद्रव्यसाक्षात्कारे महत्त्वे सत्युद्भूतरूपवत्त्वं प्रयोजकम् । सति संभवे त्यागायोगात् । न तु जन्येन्द्रियग्राह्यविशेषगुणवत्त्वम् ,
कार्यमहत्त्वसमानाधिकरणविशेषगुणवत्त्वं वा । रसनगतपित्तद्रव्यस्योद्भूततिक्तरसस्य वायूपनीतसुरभिद्रव्यस्य च प्रत्यक्षतापत्तेः ।

42

मैवम् । नोद्भूतरूपवत्त्वं तथा, नयनगतपित्तद्रव्यस्य च प्रत्यक्षतापत्तेः । अस्तु वा उद्भूतस्पर्शवत्त्वं तत्र तन्त्रम् । न चैवं प्रभायामप्रत्यक्षत्वम् । प्रभा हि तेजसो
रूपं न द्रव्यम् । तदाश्रयतेजः प्रतीतिः प्रत्यक्षरूपलिङ्गाधीनैव, यथा तवोष्मादिप्रतीतिः । तत्र संयोगकर्मादि कथं प्रत्यक्षमिति चेत् , चान्द्रसौरदीपप्रभादौ तु न कथंचित् ।
इन्द्रनीलादिप्रभाया रूपस्य पूर्वदेशानुपलम्भेन उत्तरदेशोपलम्भेन लिङ्गेन तदाश्रयतेजः संयोगविभागाद्यनुमानमिति । त्वन्नये यथा त्वचा स्पर्शमात्रग्रहानन्तरं फूत्कारे
संगोगादीनाम्।

एतेनधूमबाष्पयोरस्पार्शनत्वेनोद्भूतस्पर्शाभावेऽपि चाक्षुषत्वम् , अन्यथा तद्गतसंयोगविभागकर्मणां प्रत्यक्षता न स्यात् , लिङ्गाभावादिति निरस्तम् । न च
बहिरिन्द्रिययोग्यानेकविशेषगुणवत्त्वं तन्त्रम् । तव त्रसरेणुप्रभयोरप्रत्यक्षतापत्तेः, गौरवाच्च ।

नन्वेवं विनिगमकाभावादुभयोरपि तथात्वमस्तु । तथापि वायुरप्रत्यक्ष इति चेत् , एवं बहिरिन्द्रियजद्रव्यसाक्षात्कारे चाक्षुषत्वे स्पार्शनप्रत्यक्षत्वे च प्रत्येकमुद्भूतरूपवत्त्वे
सत्युद्भूतस्पर्शवत्त्वं प्रयोजकं पर्यवस्यतीति गौरवम् । मम तु चाक्षुषत्वे उद्भूतरूपवत्त्वं , स्पार्शनत्वे उद्भूतस्पर्शवत्त्वम् । यस्य विशेषे प्रयोजकत्वं तस्यानुगतेन रूपेण
सामान्यप्रयोजकत्वमिति द्रव्यग्राहकबहिरिन्द्रियव्यवस्थापकोद्भूतविशेषगुणवत्त्वं सामान्यप्रयोजकमिति लाघवम् । विशेषस्य सामान्यस्य च भिन्नप्रयोज्यत्वनियमान्नैकं
प्रयोजकम्।

अथ वायुर्यदि बहिरिन्द्रियजन्यसाक्षात्कारविषयद्रव्यं स्पार्शनसाक्षात्कारविषयद्रव्यं वा स्यात् उद्भूतरूपः स्यात् । न चैवम् , तस्मात्तथा । तादृशसाक्षात्कारविषयद्रव्यस्य
रूपजनकत्वनियमादिति चेत् , न । रूपवत्समवेतत्वेन हि द्रव्यस्य रूपजनकत्वम् , न तु तादृशसाक्षात्कारविषयद्रव्यत्वेन, तस्य रूपजननोत्तरकालीनत्वात् । घटो यदि
चक्षुरितरेन्द्रियग्राह्यद्रव्यं स्यात् अरूपमस्पर्शमचाक्षुषादि स्यात् । त्वगिन्द्रियं यदि द्रव्यग्राहकबहिरिन्द्रियं स्यात् रूपवत् स्यात् स्पर्शग्राहकं वा न स्यात् रूपग्राहि वा स्यात्
चक्षुर्वत्। न चैवम् , तस्मान्न तथेति घटोऽपि न त्वगिन्द्रियग्राह्यः स्यात् , तद्गतसंख्यादिज्ञानं फूत्कारादाविवेति स्यात् , स्पृशामीत्यनुव्यवसायश्च घटवद्वायावपि ।
अथ स्पार्शनत्वे उद्भूतस्पर्शवदुद्भूतं रूपमपि तन्त्रम् । उद्भूतरूपवत्त्वे चाक्षुषत्ववत् स्पार्शनत्वदर्शनादिति चेत् , न । उद्भूतरूपवत्त्वे सत्यपि प्रभायां न
स्पार्शनत्वमिति उद्भूतस्पर्शस्यावश्यकत्वेनोद्भूतरूपस्यान्यथासिद्धत्वात् । न ह्युद्भूतस्पर्शे सत्युद्भूतरूपाभावात् स्पार्शनत्वाभावः।
नन्वेवं स्पर्शगत उद्भवः कारणमस्तु । न तु रूपमकारणमिति चेत् , तथापि स्पर्शस्तदुद्भवश्च कारणम् , न तु रूपमपि । तस्मिन् द्वये सति तदभावेन
तदभावादर्शनात्। वस्तुतो रूपस्पर्शगते उद्भवत्वजाती कारणतावच्छेदिके न तु कारणे इति ।

उच्यते । द्रव्यस्य स्पार्शनत्वे उद्भूतस्पर्शमात्रं न तन्त्रम् । निदाघोष्मणि वायूपनीतशीतोष्णद्रव्ये च प्रत्यक्षत्वेन तद्गतसंख्यापरिमाणसंयोगविभागकर्मणां
प्रत्यक्षत्वप्रसङ्गात्। योग्यव्यक्तिवृत्तित्वेन तेषां योग्यतया द्रव्यग्राहकसामग्रीग्राह्यत्वावधारणात् । न चोष्मादिजातीये दोषाभावेऽपि घटादाविव करपरामर्शे कदाचित् केनापि
संख्या गृह्यते । तथोद्भूतरूपवत्त्वमात्रस्य तथात्वे चान्द्राद्युद्योतस्य नयनगतपित्तद्रव्यस्य च प्रत्यक्षत्वे तद्गतसंख्याग्रहोऽपि स्यात् । न च घटादाविव निपुणं निभालयन्तोऽपि
तद्गतसंख्याद्वित्वादि हस्तवितस्त्यादिपरिमाणं कर्म वा वीक्षामहे इत्येकैकव्यभिचाराद्विनिगमकाभावात् उभयमपि बहिरिन्द्रियद्रव्यप्रत्यक्षत्वे प्रयोजकमिति वायुरप्रत्यक्षः। न
चैवमपसिद्धान्तः । पीतः शङ्ख इत्यादौ नयनपित्तपीतिमैव गृह्यते न तु पित्तद्रव्यम् । (विभक्ता)(विषक्ता)वयवत्वात् प्रभायामिव तेजस इति टीकाकृतामभिधानादिति
नवीनाः।

संप्रदायविदस्तु – – चलति पक्षिकाण्डादौ पूर्वदेशविभागोत्तरदेशसंयोगयोः प्रत्यक्षता न स्यात् पूर्वोत्तरदेशस्य प्रभामण्डलस्यानुद्भूतस्पर्शत्वेनाप्रत्यक्षत्वात् । तथा च
परेषां चलतीति प्रतीतिरपि तल्लिङ्गिका न स्यात् । अस्माकमपि चन्द्रतारादौ संयोगविभागलिङ्गकगत्यनुमानं न स्यात् । न च पूर्वोत्तरदेशे उपलम्भानुपलम्भाभ्यां
संयोगविभागावनुमाय ताभ्यामेव गत्यनुमानम् । पूर्वोत्तरदेशयोरप्रत्यक्षत्वेन लिङ्गासिद्धेः । तस्मादुद्भूतरूपवत्त्वं तत्र प्रयोजकमिति वायुरप्रत्यक्षः ।
ननु शीतो वायुरित्यारोपो न स्पार्शनः , विशेष्यस्यायोग्यत्वात् । न च प्रभायां तथा । सामान्ये बाधकाभावात् । नाप्यनुमानोपनीते वायौ त्वगिन्द्रियोपनीतः
शीतारोपः शीतद्रव्याभेदारोपो वा । मनसा तल्लिङ्गस्पर्शादिचतुष्कस्याग्रहणात् शीतस्पर्शस्यातल्लिङ्गत्वात् । न च शीतद्रव्योपनायकत्वेनानुमिते वायौ मनसा शीतारोपः।
शीतानाश्रयत्वेनानुमिते वायौ तदनारोपात् । नापि पीतः शङ्ख इतिवत् बहिरिन्द्रियजन्योऽयं भ्रमः, येनानुमानिकविशेषग्रहेऽपि दोषमाहात्म्यात् भवेत् ।
शीतद्रव्योपनयनजनकप्रणालीमविदुषोऽपि शीतो वायुरिति प्रत्ययाच्च । नापि लिङ्गाभासजन्यानुमितिरूपो भ्रमः । तदप्रतीतेः, शीतस्पर्शस्य वायुलिङ्गत्वेन भ्रमाविषयत्वात्।
न च शीतस्पर्शानुमिते द्रव्ये स्मृतवाय्वभेदारोपः , वायुविशेष्यकशीतप्रत्ययात् । अत एव शीतस्पर्र्शोेऽयं वायोरिति भ्रमशरीरमपास्तम् । न च स्वप्नविभ्रमवत्
स्वोत्प्रेक्षितपदार्थसंसर्गारोपवच्च मानसोऽयम् । त्वगिन्द्रियव्यापारानुविधानादिति।

उच्यते । यथा वायुवैधर्म्येण जलवृत्तितया गृहीतस्य शीतस्पर्शस्य वायावारोपो दिङ्मोहवद्दोषमाहात्म्यात् तथा शीतस्पर्शे वायुलिङ्गत्वारोपात् वायवीयत्वानुमानम्।
न चैवं शीतो वायुरिति प्रतीतिः न स्यादिति वाच्यम् । शीतोऽयं वायवीय इति ज्ञानानन्तरं शीतोऽयं वायुरिति च मनसारोपात् , अनुष्णो वायुरितिवत् ।
अथ त्वग्व्यापारानन्तरं कथं वायुर्वातीति प्रतीतिः, तल्लिङ्गसंयोगविभागयोरप्रत्यक्षत्वात् । न च शरीरे वाय्वभिघात एव तल्लिङ्गम् । अभिघातस्य
संयोगत्वेनाप्रत्यक्षत्वादिति चेत् , न । अभिघातजन्यसुखदुःखविशेषेणाभिघातमुन्नीय तस्य स्पर्शवद्वेगवज्जन्यत्वमनुमाय वेगेन कर्मानुमानात् । एवं प्रणालीमविदुषस्तत्प्रत्ययासिद्धेः।
अथ वायुः शीतो वातीति कथं विशिष्टवैशिष्ट्यप्रतीतिरेका , शीतविशिष्टप्रतीतेः मानसत्वेन कर्मप्रतीतेरानुमानिकत्वेन जातिसंकरप्रसङ्गादिति चेत् , न ।
शीतविशिष्टत्वेन स्मृते वायौ कर्मानुमानाद्विशिष्टवैशिष्ट्यम् , न तूभयं विशेषणमेकदा भासते । न चैवं कल्पनागौरवं दोषाय , प्रत्यक्षत्वे बलवद्बाधकसत्त्वात् ।

43

एवं बहिरिन्द्रियजद्रव्यप्रत्यक्षत्वे उद्भूतरूपवत्त्वस्य प्रयोजकत्वे व्यवस्थिते प्रत्यक्षत्वसाध्यकानुमाने पक्षधर्मावच्छिन्नस्य साध्यस्य साधनावच्छिन्नस्य वा
व्यापकमुुद्भूतरूपवत्त्वमुपाधिः। न च विशिष्टस्य व्यभिचारव्यतिरेकयोः साधनेऽर्थान्तरम् । विशेष्यव्यभिचारव्यतिरेकसिद्धिपर्यवसानात् इत्युपाधौ वक्ष्यामः ।
अथ वायुवदात्मापि न प्रत्यक्षः , द्रव्यप्रत्यक्षत्वे उद्भूतरूपवत्त्वस्य तन्त्रत्वात् । न च लिङ्गज्ञानं विनैव अहं जानामीति प्रत्ययात् न लैङ्गिकत्वम् । ज्ञानमविदुषो
जानामीति विशिष्टप्रत्ययाभावेन ज्ञानस्य लिङ्गत्वात् । न च घटमहं जानामीति वर्तमानप्रत्ययो न स्यात् , घटज्ञानस्यानुमितिपूर्वतृतीयक्षणे विनाशादिति वाच्यम् ।
स्थूलसमयोपाधिमादाय वर्तमानप्रत्ययात् । यथा कुलाले चेष्टादर्शनेन करोतीत्यनुमितिरिति ।

उच्यते । योऽहं घटमद्राक्षं सोऽहं घटं स्पृशामीत्यभेदप्रत्यभिज्ञानादात्मा प्रत्यक्षः । न चैतत् स्पर्शनेन्द्रियजन्यज्ञानाश्रयोऽहं तद्दर्शनज्ञानाश्रयाभिन्नः मदीयाहंप्रत्ययविषयत्वात्
तद्दर्शनज्ञानाश्रयत्ववदित्यात्माभेदप्रत्यय इति वाच्यम् । मदंशस्याप्रत्यक्षत्वेनानुमानलिङ्गासिद्धेः । न च ज्ञानेनात्मानुमानं ततस्तत्र ज्ञाने आत्मीयत्वानुमानं ततो
मदीयाहंप्रत्ययविषयत्वज्ञानमात्मनीति वाच्यम् । एवं प्रणालीमविदुषोऽपि योऽहं सोऽहमिति प्रत्ययात् । न च वायौ प्रत्यभिज्ञानमस्ति । सदागतिमत्त्वेन गतस्य
पुनरज्ञानात् । स एव पुनः पुरोवात इति प्रतीतेः तज्जातीयानुमितिरूपत्वात् ।

तस्माद्वायुः बहिरिन्द्रियाप्रत्यक्षः नीरूपद्रव्यत्वात् आकाशवत् । न च साधनावच्छिन्नसाध्यव्यापकमुद्भूतस्पर्शानाश्रयत्वमुपाधिः । उद्भूतस्पर्शस्य तत्राहेतुत्वेनोपाधेः
साध्याव्यापकत्वात् ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे वायुप्रत्यक्षवादः ॥
सुवर्णतैजसत्ववादः

किं चोद्भूतस्पर्शवत्त्वस्य बहिरिन्द्रियजन्यद्रव्यसाक्षात्कारप्रयोजकत्वे सुवर्णरूपं तेजोद्रव्यं प्रत्यक्षं न स्यात् प्रभावत् तस्यानुद्भूतस्पर्शवत्त्वात् । रूपं तु
तस्योद्भूतमेव । किं तूपष्टम्भकपीतरूपाभिभूतम् । अभिभवश्च बलवत्सजातीयसंबन्धः । एवमन्धकारे पीताग्रहणेऽप्यभिभवः । न चैवमन्धकारे सुवर्णोपलम्भापत्तिः,
अभिभूतस्यापि तेजसो ग्रहात्। न च तेजसि तेजोऽन्तरं व्यञ्जकमिति वाच्यम् । रूपे गृह्यमाण एव चक्षुषा द्रव्यग्रहात् । सुवर्णरूपमभिभवादेव नोपलभ्यते , उपष्टम्भकरूपं
चालोकाभावात् ।

अथ यथा अरुणकपिलादिरूपाभिभूतमपि वह्निरूपं परम् आत्मानं च प्रकाशयति तथा कनकमपि प्रकाशेत प्रकाशयेच्चेति चेत् , न । तत्र हि
अभिभूतरूपवह्निसंबद्धानभिभूतरूपा वह्निमध्यादिव्यापिनी प्रभैव व्यञ्जिका । यद्वा वह्नौ रूपभास्वरत्वे नाभिभूते किं तु शुक्लत्वमात्रम् , सुवर्णे तु रूपमभिभूतम् ।
तेन तद्गतशुक्लत्वभास्वरत्वे अनभिभूते अपि व्यक्त्यग्रहान्न गृह्येते इति फलबलात्कल्प्यते । न च पीतिमगुरुत्वाश्रयातिरिक्तं तदसिद्धम् । अस्ति हि सुवर्णस्यात्यन्तानलसंयोगेऽपि
पीतं रूपं न तद्विजातीयम् । तदनुपपन्नमसति द्रवद्रव्यसंबन्धे , पार्थिवे अत्यन्ताग्निसंयोगस्य पूर्वरूपविजातीयरूपजनकत्वनियमात् । जलसंबन्धे तदपगमे च पटादौ
दाहादाहदर्शनात् । तदिदं ध्मायमानं कनकं यद्यत्यन्ताग्निसंयोगिपार्थिवत्वे सति विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तं न स्यात् , पूर्वरूपविजातीयरूपवत् स्यात् वह्निसंबद्धघटवत्।
अन्यथा पार्थिवं न स्यात् जलं वा स्यात् अग्निसंयोगि वा न स्यात्।

तदयं प्रयोगः- -अत्यन्ताग्निसंयोगि पीतं विजातीयरूपप्रतिबन्धकद्रवद्रव्यसंयुक्तम् , अत्यन्ताग्निसंयोगित्वे सति पूर्वरूपविजातीयरूपानधिकरणपार्थिवत्वात्
जलमध्यस्थिताग्निसंयुक्तपीतपटवत् । यद्वा पीतं सुवर्णं पीतरूपातिरिक्तरूपोत्पत्तिप्रतिबन्धकद्रवद्रव्यसंयुक्तम् , नक्तंदिवमग्निसंयोगेऽपि पीतरूपातिरिक्तरूपानाश्रयत्वात्
तावत्पर्यन्तमग्निसंयुक्त जलमध्यस्थपीतपटवत् । न चाप्रयोजकत्वम् , विरोधिद्रवद्रव्यसंबन्धं विना पार्थिवेऽत्यन्ताग्निसंयोगस्य विजातीयरूपजनकत्वात् । तच्च द्रवद्रव्यंन
जलम् , स्वाभाविकद्रवत्वानाश्रयत्वात्। न चानुद्भूतं तत् , शीतलशिलातलेऽग्निसंयोगाद्दाहदर्शनेनानुद्भूतद्रवत्वस्य दाहाविरोधित्वात् नैमित्तिकद्रवत्वाच्च । नापितत एव
पार्थिवत्वं, द्रुतपार्थिवस्य विजातीयरूपप्रतिबन्धकत्वे घृतादावपि तथात्वापत्तेः, तत्रापि रूपपरावृत्तिप्रसङ्गाच्च । उपष्टम्भकस्यापि पार्थिवत्वेन विजातीयरूपाप्रतिबन्धकत्वात्।
यद्यपि तेजोऽन्तरं न नैमित्तिकद्रवत्वाधिकरणं, नापि विजातीयरूपप्रतिबन्धकं, किं तु तज्जनकम् ; तथापि प्रत्यक्षद्रव्यत्वेन तस्य रूपवत्त्वे पृथिवीजलान्यत्वेन
तेजस्त्वात् धर्मिग्राहकमानसिद्धं तथात्वम् । पीतभागद्रवत्वमपि अग्निसंयोगे न नश्यति, द्रुततेजः प्रतिबन्धादेव जलमध्यस्थाग्निसंयुक्तघृतवदिति ।
अथ यदि द्रुततेजसो विजातीयरूपप्रतिबन्धकत्वं तदा जलस्थपटवत् द्रुतसुवर्णमध्यस्थितपटादेरपि रूपपरावृत्तिर्न स्यादिति चेत् , न । लोके सुवर्णत्वेनानुभूयमाने
पीतद्रव्ये अविनिर्भागवर्तिन्युपष्टम्भके द्रुतं तेजो विजातीयं रूपं प्रतिबध्नाति नान्यत्र , तथैवान्वयव्यतिरेकात् । तर्हि उपष्टम्भकत्वमनुभवसिद्धं सुवर्णस्येत्यस्यावश्यकत्वात्,
तस्यैव स्वरूपपरावृत्तौ प्रतिबन्धकत्वमस्तु , कृतं दृष्टविजातीयतेजःकल्पनयेति चेत् , न । उपष्टम्भकमात्रे हि विजातीयरूपप्रतिबन्धकस्वभावत्वं द्रुततेजसो धर्मिग्राहकमानसिद्धत्वात्
तस्य तेनैव रूपेण सिद्धेः । यदि द्रुतं तेजो रूपपरावृत्तिप्रतिबन्धकं स्यात् पटादिरूपपरावृत्तिमपि प्रतिबध्नीयादिति तर्कस्य तद्विपर्ययस्य च सिद्ध्यसिद्धिव्याहतत्वात् ।
अनुभूयमानसुवर्णस्य च उपष्टम्भकरूपपरावृत्तिप्रतिबन्धकस्वभावत्वं न धर्मिग्राहकमानादन्यतो वा सिद्धं येन पार्थिवे असति विरोधिद्रवद्रव्यसंबन्धे अग्निसंयोगस्य
रूपपरावर्तकत्वमन्वयव्यतिरेकसिद्धं परिभूयेतेत्याचार्याः।

नवीनास्तु – – अत्यन्ताग्निसंयोगेनानुच्छिद्यमानप्रत्यक्षद्रवत्वाधिकरणं तैजसं जलपृथिवीभ्यामन्यत्वे सति रूपवत्त्वाद्वह्निवत् । न चासिद्धिः प्रत्यक्षद्रव्यत्वाधिकरणत्वेन
तस्य रूपवत्त्वात् । न च तज्जलम् , सांसिद्धिकद्रवत्वानाश्रयत्वात् नैमित्तिकद्रवत्वाधारत्वात् स्नेहशून्यत्वाद्वा लाक्षावत् । स्नेहे सति स्नेहद्रवत्वाधीनसंग्रहप्रसङ्गात् । न
च पार्थिवम् , अत्यन्ताग्निसंयोगेऽप्यनुच्छिद्यमानं यद्द्रवत्वं तदधिकरणत्वात् जलपरमाणुवत् । असति विरोधिद्रवद्रव्यसंबन्धे इति विशेषणम् , तेन क्वथ्यमानजलस्थघृृतेन

44

न व्यभिचारः । न चाप्रयोजकत्वम् , अत्यन्तानलसंयोगेन लाक्षादिघृतादिपृथिवीद्रवत्वोच्छेदे पृथिवीद्रवत्वत्वमेव प्रयोजकम् , असति बाधके अनुगतस्य प्रयोजकत्वे
संभवति त्यागायोगात् । न च घृतद्रवत्वत्वादिकम् , अननुगमात् । नापि नैमित्तिकद्रवत्वत्वम् , द्रवत्वत्वमेव वा, सुवर्णे द्रवत्वोच्छेदप्रसङ्गात् ।
अथ अपार्थिवमपि सांसिद्धिकद्रवत्वं तैले जन्यजलान्तरे चात्यन्ताग्निसंयोगादुच्छिद्यते । अतोऽनुगतमेव तृणारणिमणिन्यायेन द्रवत्वोच्छेदप्रयोजकमिति चेत् , न।
पृथिवीद्रवत्वोच्छेदे पृथिवीद्रवत्वत्वं , जलद्रवत्वोच्छेदे जन्यजलद्रवत्वत्वम् , द्रवत्वमात्रोच्छेदे च जन्यरसवद्द्रवत्वं प्रयोजकं लाघवात् ।
एतेनविवादविषयः पृथिवी नैमित्तिकद्रवत्वाश्रयत्वात् घृतवदिति सत्प्रतिपक्षत्वमपास्तम् । अनुकूलतर्काभावेन, अग्निसंयोगाद्द्रवत्वोच्छेदप्रसङ्गलक्षणप्रतिकूलतर्केण
च हीनबलत्वात् ।

अथ नैमित्तिकद्रवत्वे पृथिवीत्वं समवायिकारणतावच्छेदकमसति बाधके त्यागायोगादिति चेत् , न । घटादावपि नैमित्तिकद्रवत्वप्रसङ्गात् । न च घृृतलाक्षादिषु
पृथिवीत्वावान्तरं किञ्चिदेकमनुगतं नैमित्तिकद्रवत्वसमवायिकारणतावच्छेदकमस्ति । पृथिवीनियतनैमित्तिकद्रवत्वं कथमपृथिव्यामिति चेत् ,न तावत्तिर्यग्गमनोर्ध्वज्वलनवत्
तत् जातिनियतम् ,घटादावभावात् । नापि पृथिवीत्वावान्तरजातिविशेषनियतम् , घृतं विहाय लाक्षादिष्वपि भावात् ।

अथोपष्टम्भके पीतिमगुरुत्वाश्रये पार्थिवे अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्वाधारत्वमनैकान्तिकम् । न हि तेजोद्रवत्वदशायां तदद्रवमेवास्ते, पीतं द्रुतमिति
प्रतीतेरिति चेत् , न । तत्र द्रवत्वाभावात् ।

पार्थिवद्रवत्वस्यात्यन्ताग्निसंयोगेनोच्छित्त्यापत्त्या बाधकेन द्रुतप्रतीतेर्भ्रमत्वात् । जलमध्यस्थितमसीक्षोदादेरिव तदवयवानां द्रवद्रव्यसंबन्धेन प्रशिथिलसंयोगाश्रयत्वात्,
न तु तेषां द्रवत्वम् । न चैवं घृृतादावपि तथा, द्रवत्वे तत्र बाधकाभावात् ।

अन्ये तु – – उपष्टम्भके द्रवत्वमुत्पद्यत एव, अनुभवस्य दुरपह्नवत्वात् । अत्यन्ताग्निसंयोगेन तदुच्छेदस्तु न भवति, द्रवद्रव्यस्य तेजसः प्रतिबन्धकत्वात् । न चैवं
द्रुततेजसि मानाभावः । तथा हि पीतं द्रवत्वाधिकरणं द्रवत्वोच्छेदप्रतिबन्धकद्रवद्रव्यसंयुक्तम् अत्यन्ताग्निसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधारपार्थिवत्वात् क्वथ्यमानजलमध्यस्थितघृृतवत्।
न चाप्रयोजकत्वम् ,अत्यन्ताग्निसंयोगेन विरोधिद्रवद्रव्यसंबन्धासंबन्धे पार्थिवद्रवत्वोच्छेदानुच्छेददर्शनात् ।

अथ वा रूपवत्त्वे जलान्यत्वे च सति तैजसत्वपार्थिवत्वसंदेहे विवादाध्यासितं द्रवत्वाधिकरणं तैजसम् , असति द्रवद्रव्यसंयोगे अत्यन्ताग्नि
संयोगेऽप्यनुच्छिन्नानित्यद्रवत्वाधारत्वात् यन्नैवं तन्नैवं यथा जलं घृृतं वेति व्यतिरेकी । न चासाधारण्यम् , अगृह्यमाणविशेषदशायां तस्य दोषत्वात् ।
तथा हि यथा साध्याभाववव्द्यावृत्तत्वेन पक्षे तस्य साध्यसाधकत्वं तथा साध्यवव्द्यावृत्तत्वेन साध्याभावसाधकतापि स्यादिति सत्प्रतिपक्षोत्थापकतया तस्य
दोषत्वम् । न च साध्याभावसाधकस्य पृथिवीत्वसिद्धिपर्यवसायिनस्तुल्यबलत्वम् , अनुकूलतर्काभावेन हीनबलत्वात् । यदीदं पार्थिवं स्यात् असति विरोधिद्रवद्रव्यसंबन्धे
अत्यन्ताग्निसंयोगेनोच्छिद्यमानद्रव त्वाधिकरणं स्यात् तैलवदिति प्रतिकूलतर्केण हीनबलत्वात् ।

यदीदं जलान्यरूपवत्त्वे सति तैजसं न स्यात् पार्थिवं स्यात् , यदि च पार्थिवं स्यात् अत्यन्ताग्निसंयोगेनोच्छिद्यमानद्रत्वाधिकरणं स्यादित्यनुकूलतर्कसद्भावेन
प्रतिकूलतर्काभावेन च तैजसत्वसाधकस्याधिकबलत्वात् ।

यदि चासाधारणस्य साध्यतदभाववव्द्यावृत्तत्वेन तदुभयसंशयजनकतया दोषत्वं तथापि विशेषादर्शनसहितस्य संशायकत्वम् , प्रकृते चानुकूलतर्कविशेषदर्शनसहकृतस्य
व्यतिरेकिभावेन साधकत्वम् । तस्माद्यदा साध्यतदभावकोटौ न विशेषदर्शनं तदा असाधारण्यस्य दोषत्वम् । न चैवं शब्दोऽनित्यः शब्दत्वादित्यादिकमपि हेतुः स्यात् ,
विशेषदर्शनदशायामिष्टत्वात् ।

अन्ये तु- – तेजस्त्वं नाद्रव(नाद्रुत)रूपवन्मात्रवृत्ति रूपवद्वृत्तिद्रव्यत्वसाक्षाव्द्याप्यजातित्वात् पृथिवीत्ववत् । यद्वा तेजस्त्वं द्रुतवृत्ति रूपवद्वृत्तिद्रव्यत्वसाक्षाव्द्याप्यजातित्वात्
जलत्ववत् । न च रसवद्वृत्तित्वमुपाधिः, रसवत्त्वं द्रवत्वसमानाधिकरणात्यन्ताभावप्रतियोगि अद्रुतवृत्तिद्रव्यत्वव्याप्यधर्मत्वात् पटत्ववदिति द्रुततेजस्सिद्धौ साध्याव्यापकत्वादिति
सामान्यतोदृष्टेन तेजसि प्रसाध्य विवादाध्यासितं द्रुतं तैजसं अत्यन्ताग्निसंयोगेनानुच्छिद्यमानानित्यद्रवत्वाधिकरणत्वात् , न यदेवं न तदेवं यथा जलमितिवदन्ति ।
अथ (प्रथमानुमाने) झ्र्आद्यानुमानेट तेजोमात्रावृत्तित्वमुपाधिः । न च पक्षेतरत्वम् । प्रदीपत्वादेरपि व्यावर्त्यत्वादिति चेत् , न । बलवद्विपक्षबाधकेन विवादविषये
द्रुततैजसत्वसिद्धावुपाधेः साध्याव्यापकत्वात् । एवं च विवादाध्यासिते पार्थिवत्वतैजसत्वसाधकानि यद्यपि बहून्यनुमानानि सन्ति, तथापि विपक्षबाधकतर्कात् तैजसत्वसाधकस्य
बलवत्त्वमिति ध्येयम् ।

अथ द्रुतद्रुततरादेः क्रमशः प्रतीतेः प्रबलानलसंयोगेन सुवर्णनाशात् तद्द्रवत्वं नश्यतीत्यसिद्धो हेतुः । न च द्रवत्वप्रागभावासमानाधिकरणद्रवत्वध्वंसरूप उच्छेदो न
सुवर्णे, द्रवत्वनाशेऽप्यग्रिमद्रवत्वेनोत्पादात् घृते च तथेति वाच्यम् । सुवर्णे द्रवत्वनाशे सति विनष्टाश्रये द्रवत्वान्तरस्यानुत्पादेन द्रवत्वप्रागभावासमानाधिकरणद्रवत्वध्वंसस्य
सत्त्वादिति चेत्, न । सुवर्णद्रवत्वं हि आश्रयनाशाद्विनश्यति न त्वग्निसंयोगात् । यदि चाग्निसंयोगाद्विनश्येत् तदा घृतवन्न द्रवत्वान्तरमुत्पद्येत, द्रवत्वोच्छेदकाग्निसंयोगस्य
द्रवत्वान्तरप्रतिबन्धकत्वात् । तथा च अग्नि(संयोगित्वे)झ्र्संयोगेटसति तद्धेतुकनाशाप्रतियोगिद्रवत्वाधिकरणत्वादिति हेत्वर्थः । अथवा घृते द्रवत्वोच्छेदसमये
समानाधिकरणद्रवत्वसामग्रीसमवधानं नास्ति, सुवर्णे त्वस्ति । एवं च समानाधिकरणद्रवत्वसामग्रीसमवहिताग्निसंयोगजन्यध्वंसप्रतियोग्यवृत्तिद्रवत्वावान्तरसामान्यवद्द्रवत्वं
हेत्वर्थः।

45

यद्वा घृतपरमाणौ अग्निसंयोगदशायां द्रवत्वनाशे सति द्रवत्वान्तरं नोत्पद्यते तदारब्धभस्मनि द्रवत्वाभावात् । एवं सुवर्णपरमाणुद्रवत्वमग्निसंयोगाच्च यदि
विनश्येत् तदा तदारब्धसुवर्णमद्रवं स्यात् । तथा सुवर्णारम्भकाः परमाणवो न पार्थिवाः अत्यन्ताग्निसंयोगेनानुच्छिद्यमानद्रवत्वाधिकरणत्वात् जलपरमाणुवत् । तैजसा वा
तत एव यन्नैवं तन्नैवं यथा घृतपरमाणुरिति व्यतिरेकी झ्र्वाट।

एवमपार्थिवारब्धं तैजसारब्धं वा सुवर्णमपार्थिवं तैजसं वा अत्यन्तानलसंयोगेऽप्यनुच्छिद्यमानद्रवत्वाधिकरणपरमाण्वारब्धत्वादित्यन्वयव्यतिरेकी चेति ।
एकदेशीतु द्रवत्वाधिकरणं न तेजः पीतवत् । न चासिद्धिः, पीतं द्रुतमिति प्रतीतेः । पीतत्वे पार्थिवत्वापत्त्या बाधकेन पीतप्रतीतिर्भ्रम इति चेत् , न ।
शुक्लत्वेऽप्यपार्थिवत्ववत् पीतत्वेऽप्यपार्थिवत्वे बाधकाभावात् । यथा नैमित्तिकद्रवत्वं पृथिवीत्वे न तन्त्रमतिप्रसङ्गात् , तथा पीतत्वेऽपि गन्धनियतत्वमपि नैमित्तिकद्रवत्ववदेव।
पृथिवीजलान्यत्वे सति रूपित्वेन तेज इति चेत् ,न । अप्रयोजकत्वात् । अन्यथा जलतेजोऽन्यत्वे सति स्पर्शवत्त्वेन वायोरपि पृथिवीत्वापत्तेः। अथ रूपरसगन्धानामभावात्
न तथात्वं , तेषामनुद्भवे च पृथिवी उद्भूतरूपरसगन्धाद्यन्यतमवतीत्यादिबहुविधव्याप्तिविरोध इति चेत् , न । तेजोऽद्रवमेव प्रत्यक्षं, तेजः प्रत्यक्षरूपस्पर्शाद्यन्यतरवदेव,
स्वपरप्रकाशकमेवेत्यादिव्याप्तिविरोधस्य तेजस्यपि सत्त्वात् । द्रवत्वाधिकरणं च न पृथिवीति त्वयैव साधितम् । अतो नैमित्तिकद्रवत्वाधिकरणं पीतं सुवर्णं द्रव्यान्तरमेव ेत्याह।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे सुवर्णतैजसत्ववादः ॥

अथ मनोऽणुत्ववादः
ननु इन्द्रियजन्यत्वं सखादिप्रत्यक्षाव्यापकं प्रत्यक्षलक्षणमिति चेत् , न । ज्ञातकरणाजन्यः सुखाद्यनुभवः इन्द्रियजन्यः जन्यप्रत्यक्षत्वात् रूपप्रत्यक्षवत् ,
जन्यसाक्षात्कारस्येन्द्रियजन्यत्वादिति तत्रापि तल्लक्षणसत्त्वात् । स्पर्शाद्यविषयत्वेन त्वगादिना नार्थान्तरम् । गन्धरूपरसस्पर्शेष्वेकैकमात्रसाक्षात्काराजनकत्वेन पृथिव्यादिभेदसिद्धौ
निःस्पर्र्शं लाघवान्निरवयवं च मनः ।

तच्च विभु ज्ञानासमवायिकारणसंयोगाधारत्वात् , नित्येन्द्रियत्वात् , नित्यत्वे सति द्रव्यानारम्भकद्रव्यत्वात् , विशेषगुणशून्यद्रव्यत्वात् ,आत्मादिवत् । न च
महत्त्वमुपाधिः, साधनव्यापकत्वादिति ।

ननु सुखादिकं मूर्तसंयोगासमवायिकारणकगुणवृत्तिगुणत्वावान्तरजातियोगि नित्यवृत्त्यनित्यविशेषगुणत्वात् शब्दवत् पाकजरूपवच्चेति चेत् ,न । अनात्मवृत्तित्वस्य
शब्दभिन्नविशेषगुणग्राहकेन्द्रियाजन्यत्वस्य शब्दस्य द्रव्यत्वेन मूर्तवृत्तिगुणत्वस्य चोपाधित्वात् अप्रयोजकत्वाच्च । कारणे मूर्तत्वस्य गुरुत्वात् । अस्तु वा
शरीरात्मसंयोगजन्यत्वेनार्थान्तरम्।

अथ असमवाय्यधीनो विभुकार्याणां प्रादेशिकत्वनियम इति विभुमनोयोगादात्ममात्रे सुखादेरुत्पत्तौ नियतदेशता न स्यात् , अतः अणु मन इति । मैवम् ।
किमसमवायिकारणं स्वावच्छिन्ने विभुकार्यं जनयतीति नियमः , स्वावच्छिन्ने जनयत्येवेति वा , स्वावच्छिन्न एव जनयतीति वा। आद्ये सुखादेरधिकदेशत्वे आपादकाभावः।
द्वितीयेऽणुमनस्संयोगेऽपि स्वावच्छिन्नेऽधिकदेशे च जनयेत् नियामकाभावात् । अन्त्ये तवापि सुखादेरणुमात्रदेशतापत्तिः । मनोवैभवेऽप्यविरोधश्च ।
अथ निमित्तचन्दनाद्यनुरोधेन सुखादौ न्यूनाधिकदेशता निमित्तवायुसंयोगादिव शब्दे न तु असमवाय्यनुरोधात् । तथा च सुखादिकं तदवच्छिन्न एवोत्पद्यत इति चेत्,
हन्त! तर्हि वैभवेऽपि तथास्तु । न च विभुकार्यासमवायी स्वावच्छिन्ने कार्यं जनयत्येव भेर्याकाशसंयोग इव शब्दमिति चन्दनाद्यवच्छिन्नेऽपि सुखादिकमुत्पद्येतेति वाच्यम्।
तद्देशीयचन्दनसुखे हि तद्देशीयचन्दनसंबन्धसापेक्षोऽसमवायी हेतुरिति कथं तन्निरपेक्षस्तत्कुर्यात् । चन्दनं च स्वावच्छिन्ने सुखजनकं कथं स्वानवच्छिन्नेऽपि तदुत्पादयेत् ,
कथं वा तद्देशीयचन्दनसुखं तद्देशचन्दनसंबन्धजन्यं तेन विनैवोत्पद्येत ।

अथ मनोवैभवे सुखाद्युत्पत्तौ नियत उपाधिर्वाच्यः । तेन नानानिमित्तसमवधानेऽपि तदवच्छेदेनैकदा सुखदःखादिष्वेकमेवोत्पद्यते , न नाना । एकावच्छेदेन एकदा
एक एव विभुविशेषगुण उत्पद्यत इति नियमात् । निमित्तस्य त्ववच्छेदकत्वे नानासुखादिकमुत्पद्येत शब्दवदिति चेत् , न ।

श्रोत्रे कर्णशष्कुल्यवच्छेदेन नानानिमित्तादनेकशब्दोत्पादात् । अन्यथा कोलाहलग्रहो न स्यात् । नानावच्छेदेनैकदा चन्दनदहनादिसंबन्धे सुखदुःखयोश्चैकदा
अनुभवसिद्धत्वेनेष्टापादनात् । न च तद्यौगपद्यप्रत्ययो भ्रमः , बाधकाभावात् । न चान्यत्र क्रमादत्रापि क्रमानुमानम् , अन्यत्र क्रमस्य निमित्तक्रमाधीनत्वात् ।
एवं च विवादविषयसुखदुःखानि युगपदुत्पन्नासमवायिकारणकानि युगपदुत्पद्यमानत्वात् युगपदुत्पन्नघटादिवत् । अबाधितानुभवाच्च नासिद्धिः ।
एतेनचरणदुःखं यदि शरीरावच्छिन्नासमवायिहेतुकं स्यात् शरीरव्यापकं स्यादिति निरस्तम् । निमित्तसमवधानस्य तन्त्रत्वेऽस्याप्रयोजकत्वात् । अन्यथा
अणुत्वपक्षे शरीरव्यापकं सुखादि न स्यात् । आभिमानिकाभ्यासिकमानोरथिकसुखेषु ज्ञानेच्छाप्रयत्नद्वेषेषु च देशानियमः । शरीरावयवेषु यत्क्रियायामिच्छा तदवच्छेदेन
प्रयत्न इति तत्रैव चेष्टा, आवश्यकत्वात् अनियतदेशज्ञानेच्छादौ लघुत्वाच्च । अन्यथा अणुत्वपक्षे प्रयत्नस्याणुदेशत्वं शरीरमात्रदेशत्वं वा स्यात् ।
अन्ये तु सुखादौ तन्निमित्तावच्छेदेन आत्ममनस्संयोगोऽसमवायी तन्मात्रसुखाद्युपलम्भात् , न त्वात्ममनस्संयोगमात्रम् अतिप्रसङ्गादित्याहुः।

46

यावति यत्सुखादिप्रागभावस्तावत्येव तत्सुखादिकमुत्पद्यत इत्यपरे ।
यत्तु तदितरहेतुसाकल्ये तव्द्यापकत्वेन प्रागभावस्य आवश्यकत्वमिति । तन्न । प्रागभावस्याहेतुत्वापत्तेः । तदितरहेतुसाकल्ये तदभावेन कार्याभावाभावात् ।
एतेनव्यापकमनवच्छिन्नं नेन्द्रियमतिप्रसङ्गादित्याकाशे कर्णशष्कुलीवत् नियत उपाधिर्वाच्यः । स च न शरीरम् , तदवयवमात्रं वा , नियतस्तदवयवी वा,
चेष्टाश्रयमात्रं वा । नानावयवावच्छेदेन अव्याप्यवृत्तिसुखाद्युपलब्धेः । एवं च सूक्ष्ममिन्द्रियमुपाधित्वेन कल्पनीयम् । तथा च तदेव मनः , किमुपधेयेन विभुना । तत्र च
सर्व एव हेतवो धर्मिग्राहकमानबाधिता इति निरस्तम् ।

इन्द्रियत्वेन तस्य शरीरमात्रस्योपाधित्वेऽपि निमित्तवशात् सुखादेर्नियतदेशतोपपत्तेः । न चैकदा अनेकविषयेन्द्रियसंबन्धे युगपज्ज्ञानानुत्पत्त्या इन्द्रियसहकारितया
अनुमितं मनोऽणु , तदेव सुखग्राहकमिन्द्रियं लाघवादिति तद्वैभवहेतवो बाधिता इति वाच्यम् । बुुभुत्सावशात् करणधर्मत्वाद्वा , अणुत्वपक्षे श्रोत्रे अनेकशब्दसमवायेऽपि
बुभुत्सितमात्रशब्दग्रहवत् व्यासङ्गदशायां युगपज्ज्ञानानुत्पत्तेरुपपत्तेः, अन्यत्र दीर्घशष्कुलीभक्षणादौ युगपज्ज्ञानोत्पत्तेरिष्टत्वादिति ।
अत्रोच्यते । व्यास़ङ्गदशायामिन्द्रियाणां स्वस्वविषयसंबन्धेऽप्येकस्मात् ज्ञानं नान्यस्मादित्यनुभवसिद्धम् । अतो यस्यासंबन्धात् न युगपज्ज्ञानानि तदिन्द्रियसहकारि
क्रमेण तदधिष्ठायकं मनः तदेव सुखादिग्राहकमिति तस्य धर्मिग्राहकमानबाधितं विभुत्वम् ।

तथा हि – – चाक्षुषज्ञानवतो मैत्रस्य स्वस्वविषयसंबद्धानि घ्राणरसनत्वक्श्रोत्राणि स्वस्वविषयसाक्षात्कारहेतुसंयोगशून्यानि , तदानीं स्वविषयसाक्षात्काराजनकत्वात्,
इन्द्रियासंबद्धघटवत् ।

एकैकं वा पक्षः , अन्यथा हेतुसाकल्ये युगपज्ज्ञानोत्पत्तिप्रसङ्गः । न च वैभवेऽप्यदृष्टविलम्बाद्विलम्बः । तदितरहेतुसाकल्ये तस्यापि सत्त्वात् ,
इन्द्रियान्तरविलोपप्रसङ्गाच्च। न च बुभुत्सावशात् क्रमः, दृश्यते हि नृत्यदर्शनवतो बुभुत्सातोऽभिमतविषयान्तरज्ञानमिति वाच्यम् । सा हि न स्वविषयज्ञाने हेतुः
अबुभुत्सितेऽपि ज्ञानोदयात् । नाप्यन्यज्ञानप्रतिबन्धिका, घटबुभुत्सायामपि पटज्ञानोदयात् । बुभुत्सा च क्रियाहेतुमनोगोचरप्रयत्नद्वारा इन्द्रियान्तरादाकृष्याभिमतार्थग्राहिणीन्द्रियान्तरे
मनो निवेशयन्ती बुभुत्सितग्रहे हेतुरन्यग्रहे प्रतिबंन्धिका च, न तु साक्षात् । अत एव बुभुत्सासत्त्वेऽपि मनोगोचरप्रणिधानाभावे सा न किंचित्करी ।
ननु इन्द्रियमनस्संयोगविशेष एव विषयविशेषग्रहे हेतुः कल्प्यताम् । न चैवं सिद्धकारणभावस्य विशेषकल्पने हेत्वन्तरोच्छेदः, तस्याप्यन्वयव्यतिरेकित्वादिति
चेत्, न। इन्द्रियमनस्संयोगे हि विशेषो न जातिरूपोऽनुगतहेत्वभावात् जातिसंकरप्रसङ्गाच्च । नापि सहकारिरूपः , तस्यैव हेतुतापत्तेः ।
अथास्तु करणधर्मत्वेन क्रियाक्रमः । एकं करणमेकत्र एकदा एकावच्छेदेन तुल्यदेशे वा एकजातीयामनेकां क्रियां न करोति, किं तु एकामेव । एकत्रेत्यादिविशेषणात्
कुठाराग्निसंयोगशब्देषु न व्यभिचार इति चेत् , तर्हि चक्षुराद्यवच्छेदेन भिन्नदेशीयशब्दवत् परमाणाविव विजातीयामग्निसंयोगवदनेकां क्रियां कुर्यादेव ।
अथ ज्ञानकरणमेकत्रात्मन्येकदा एकमेव ज्ञानं करोति समूहालम्बनकरणवत् । कथमन्यथा नानासामग्रीसत्त्वे समूहालम्बनमेकम् । यत्तु- अपरज्ञानसामग्री यदि
तदा कार्यावश्यंभावः । तदसत्त्वे किं करणधर्मत्वेन, तस्य सहकार्यन्तरपर्यवसायित्वादिति – – तन्न । समूहालम्बनसाम्यात् । करणस्यैकदा एकमात्रजनकत्वेनापराजनकतया
तत्र कारणाभावेनैव सामग्र्यसत्त्वादिति चेत् , तर्हि पञ्चसु यदेकं जनयति नापराणि तत्र नियामकमास्थेयम् । अन्यथा ज्ञानजनने तेषां कलहं कः समादध्यात् ।
किं चैवं युगपज्ज्ञानानि माभूवन् युगपज्ज्ञानं तु केन वार्यते , एकसमूहालम्बनवत् । न च चाक्षुषत्वादिजातिसंकरापत्तेः नैकज्ञानमिति वाच्यम् । एवं हि
फलविरोधेन एकमपि ज्ञानं न जनयेत् अविशेषात् । उत्पद्यतां वा चाक्षुषादिविजातीयं ज्ञानं सामग्रीसत्त्वात् चित्ररूपवत् । फलबलात्तत्र तथेति चेत् , तर्हि अत्र फलाभावे
हेतुः कल्प्यताम् , अन्योन्यप्रतिबन्धकस्य तत्त्वे वा ज्ञानमेव न स्यात् न त्वेकज्ञानमित्युक्तम् ।

ननु चक्षुरादि न संभूयजनकमन्यविषयेऽन्यस्यासामर्थ्यात् । शीतं सुरभि शुभ्रं चन्दनमित्यत्रेव कारणान्तरानुपनयनाच्च । न च स्वस्वविषयज्ञानायोद्यतमिन्द्रियं
कारणान्तरसहकारात् तत्तद्विषयमादायैव स्वस्वविषयं ज्ञापयेदिति वाच्यम् । भिन्नविषयप्रमाणानां संभूयाजनकत्वनियमात् । तत्तदिन्द्रियं तत्तज्ज्ञानांशे जनकमित्यपि न ,
विषयस्यांशत्वादिति चेत् ,

मैवम् । न हीन्द्रियाणां संभूयकारित्वम् , किं त्वार्थः समाजः । प्रत्येकज्ञानसामग्रीसत्त्वात् एकदा नानाज्ञानप्रसक्तौ करणधर्मत्वेन मनः तावद्गोचरामेकामेव
ज्ञानक्रियामुत्पादयेत् समूहालम्बनवत् । न चैकक्रियाजननदशायामपरविषयक्रियायां मनो न समर्थमिति कथं तां जनयेदिति वाच्यम् । भिन्नक्रियायामसामर्थ्येऽप्येकक्रियायां
सामर्थ्यात्।

वस्तुतस्तु विशेषाभावादेकामिवापरामपि बुदिं्ध जनयेदविशेषात् । न चैकामपीत्यनेकज्ञानोत्पत्तिर्ज्ञानानुत्पत्तिर्वा न त्वेकविषयज्ञानोत्पत्तिरिति नियामकमास्थेयम् ।
समूहालम्बने फलबलेन परस्परापेक्षितत्वेनैकैव सामग्री ।

ननु मनोऽणुत्वे कथं मन्दोऽपि बुभुत्सितः शब्दोे गृह्यते नान्यः । अथ शब्दे बुुभुत्सैवेतरग्रहप्रतिबन्धिका अग्रहस्य तदनुविधानात् । अनन्यगतिककार्यदर्शनात्
बुभुत्सितशब्दग्रहसामग्र्येव वा बलवतीति यदि मन्यसे, तदा वैभवेऽपि तत एव युगपज्ज्ञानानुत्पत्तिरिति चेत् ,

47

मैवम् । बुभुत्सा न रूपादिग्रहे हेतुः न वा इतरग्रहे प्रतिबन्धिकेत्युक्तत्वात् । किं च रूपादिसकलबुभुत्सायां परस्परप्रतिबन्धादज्ञानं बुभुत्साधीनसामग्रीबलवत्त्वाद्वा
सर्वेषां ज्ञानं स्यात् न त्वेकस्य पञ्चावधानस्य । सर्वेषां ज्ञानं भवत्येवेति चेत् , न । तत्रापि क्रमानुमानात् । अन्यथा सर्वबुुभुत्साधीनप्रणिधानेऽप्यन्येषां कथं न स्यात्।
नन्वणुत्वेऽपि दशभिः पठ्यमानासु गाथासु तावद्गोचरबुभुत्सायां प्रणिधाने चोक्तरीत्या सर्वेषां ज्ञानमज्ञानं वा न त्वेकज्ञानमिति चेत् ,
अत्रकश्चित् । श्रोत्रमनस्संयोगे आत्ममनस्संयोगे वा कश्चिद्विशेषः कार्योन्नेयः किंचिच्छब्दग्रहे हेतुः तदन्यग्रहे प्रतिबन्धक इति ।
तन्न। वैभवेऽपीन्द्रियमनस्संयोगविशेषस्य तथात्वे व्यासङ्गोेपपत्तेः । अनुगतरूपाभावेन प्रतिव्यक्ति प्रतिबन्धकत्वे हेतुत्वे च व्यभिचारात् । संयोगे च विशेषस्य
जातित्वे जातिसंकरः । उपाधित्वे स एव हेतुर्न मनः ।

अपरे तु – – प्रत्यक्षानुकूलेन्द्रियमनस्संयोगद्वारा बुभुत्सा प्रणिधानं च प्रत्यक्षहेतुरिति चाक्षुषादिबुभुत्सितग्रहे क्लृप्तत्वात् ताभ्यां श्रोत्रे बुुभुत्सितशब्दावच्छेदेन मनः
संयुज्यत इति स गृह्यते नान्यः । क्वचित् प्रणिधानं विनैव तथा । अन्यत्र प्रणिधानाधीनक्रियया अश्रूयमाणशब्दावच्छिन्नात्मनो विभज्य बुभुत्सितशब्दावच्छेदेन मनः
संयुज्यत इति तद्ग्रहो न सर्वस्येति ।

तत्तुच्छम् । युगपदुत्पद्यमानासु विंशतौ गाथासु तावद्गोचरबुभुत्सायां प्रणिधाने च तावद्गाथावच्छेदेन मनस्संयोगाद्युगपत् तासामुपलम्भप्रसङ्गात् , प्रत्येकसामग्रीसत्त्वात्,
निकटाहन्यमानढक्कादिशब्दानां श्रोत्रव्यापकत्वनियमाच्च ।

अथ यत्र कोलाहले श्रूयमाण एव बुभुत्सितशब्दग्रहः तत्रोभयशब्दावच्छेदेन मनस्संयोगादुभयग्रहः कोलाहले तूपेक्षाज्ञानं तदिति तथात्रापीति चेत् , तर्हि कृतमनया
कुसृष्ट्या । अबुुभुत्सिते उपेक्षाज्ञानमेवास्तु । न च तदपि । इतो न शब्दान्तरमश्रौषमित्यनुभवात् । अन्यथा वैभवेऽपि व्यासङ्गदशायामितरेषामुपेक्षाज्ञानमेवेति ।
अत्रोच्यते । यद्यपि बुुभुत्साप्रणिधाने न शब्दग्रहमात्रे सहकारिणी न वेतरग्रहप्रतिबन्धके, तथापि नानाशब्दसमवायदशायां यः शब्दग्रहस्तत्र तयोस्तथाभावः तथैव
तयोरन्वयव्यतिरेकनियमात् । यद्वा कोलाहले श्रूयमाण एव बुभुत्सितग्रह इत्यन्येऽपि कोलाहलत्वेन तद्विषया एव । बहूनां चैकदा समवाये युगपत्संनिधाने वा व्यक्तिग्रहे
तद्गतगत्वकत्वादिग्रहो न भवति । अगृहीतकत्वादिनानाशब्दस्य कोलाहलबुद्धिविषयत्वात् । तस्यां दशायां बुभुत्सितशब्दकत्वादिजातिग्रहे बुुभुत्सैव शरणम् ।
एककालीनबहुशब्दबुभुत्सा च न हेतुर्व्यभिचारात् ।

यत्तु कोलाहलात् अन्यत्रैकदा नानाशब्दग्रहे श्रोत्रं न समर्थम् , किं तु एकशब्दग्रहे विनिगमिका बुभुत्सैवेति । तन्न । एकगीयमानापेक्षया एकदा नानागीयमानसजातीयगीतादिषु
सुखादिवैलक्षण्यानुभवात् ।

अथ दीर्धशष्कुलीभक्षणे कथं पञ्च ज्ञानानि । क्रमस्तत्रेति चेत् , न । ज्ञानानां यौगपद्यप्रत्ययस्य बाधकं विना प्रमात्वात् । व्यासङ्गो बाधक इति चेत् , तर्हि
मनोऽवयव्यस्तु । तेन संकोचविकासाभ्यामुभयमुपपद्यत इति केचित् ।

तन्न । यदि हि संकोचविकासहेतुरदृष्टं तर्हि तत एव तदुभयमस्तु कृतं मनसा । नाप्येकपञ्चबुुभुत्सया तौ भवतः, तस्या अहेतुत्वात् । हेतुत्वे वा अस्तु विभु मनः,
अवयवितो लघुत्वात् ।

अथ यथा क्वचिद्बुभुत्सया क्वचित्तीव्रविषयेन्द्रियसंनिकर्षात् इन्द्रियमनस्संयोगः , एवं मनस्संकोचविकासयोः बुभुत्सादिकं हेतुरिति चेत् , तर्हि पञ्चबुुभुत्सायां
प्रणिधाने च सर्वदा सर्वेषां पञ्च ज्ञानानि जायेरन् । पञ्चावधानज्ञाने क्रम एव ।

एतेनअणु मनः पञ्चतयमस्तु अवयवितो लघुुत्वात् , बुभुत्सादिवशात्तेषामेकपञ्चेन्द्रियसंबन्धादुभयमुपपद्यत इतिनिरस्तम् । पञ्चबुभुत्सायां सर्वेषां
पञ्चेन्द्रियसंबन्धे व्यासङ्गानुपपत्तेः । कथं तर्हि दीर्घशष्कुलीभक्षणे गन्धरसरूपस्पर्शशब्दान् प्रत्येमीत्यनुव्यवसायः क्रमिकज्ञानपञ्चतयेन युगपत् मनस्संनिकर्षाभावादिति
चेत् , न । अनुव्यवसायस्यैकत्वासिद्धेः अनुव्यवसायाः पञ्चैव, समयसौक्ष्म्यात्तेषां क्रमो न गृह्यते ।

अथ वा क्रमिकानुव्यवसायाहितसंस्कारात् पञ्चज्ञानविषयस्मृतावनुभवत्वारोपात् युगपत् प्रत्येमीत्यनुव्यवसायः। विभुत्वे हेत्वभावात् आत्ममनस्संयोगाभावात्
नात्मसुखाद्युपलम्भः स्यात् । द्रव्यत्वेनात्मसंयोगित्वसाधने त्वजसंयोगसिद्धौै तत एव तद्विभागित्वेऽपि सर्वदा तयोः परस्परविरुद्धसंयोगविभागप्रसङ्गः ।
ननु अणुत्वेऽसमवाय्यनुरोधात् चेष्टाहेतुप्रयत्नस्याणुदेशत्वं शरीरदेशमात्रत्वं वा स्यात् , न तु शरीरतदवयवदेशत्वं येन क्रियानियमो भवेत् , नियामकाभावात् ।
न च नोदनाभिघातादिवाव्यापिनोऽपि प्रयत्नात् शरीरादिक्रिया , अतिप्रसङ्गात्। एवमेकदा विंशतिप्रयत्नाभावात् कथमङ्गुलीषु विंशतिः क्रियाः । न च यौगपद्यभ्रमः ,
बाधकाभावात्। युगपत्संनिकर्षाभावेनाङ्गुल्यश्चलन्तीति समूहालम्बनानुपपत्तेः । विंशतिज्ञानानामेकदानुव्यवसायासंभवात् अग्रपश्चाद्भावे विनिगमकाभावाच्च । क्रमोत्पादे
च भ्रूनयनकरचरणादिसकलशरीरावयवानां युगपद्विचित्रनानाकर्मसमूहरूपं नृत्यं न प्रत्यक्षं स्यात् । तथा च प्रत्येककर्मजन्यसुखात् विलक्षणसुखविशेषो नानुभूयेतेति ।

48

अत्र ब्रूमः । सुखे चन्दनादिवत् चिकीर्षैव नियामिका । यत्क्रियायां चिकीर्षा सा क्रिया तच्चिकीर्षाजन्यात् प्रयत्नाद्भवति । तत्र शरीरक्रियापि तच्चिकीर्षाजन्यादणुमात्रदेशादपि
प्रयत्नात् भवति । अथ वा यस्य क्रियायां चिकीर्षा तदवच्छेदेन प्रयत्न उत्पद्यते । तेन शरीरावच्छेदेनोत्पन्नप्रयत्नादेव शरीरक्रिया । एवं विंशतिक्रियाचिकीर्षाजन्यादणुमात्रदेशादपि
प्रयत्नात् विंशतिक्रिया युगपदुत्पद्यन्ते । अथवा अङ्गुलीविंशतिक्रियायां चिकीर्षेति विंशत्यवच्छेदेन विंशतिप्रयत्नादिं्वशतिक्रियाहेतव उत्पद्यन्ते ।
एवं नृत्यादावपि एतच्चिकीर्षानुविधानात् क्रियाप्रयत्नयोरध्यवसेयम् ।

तदेवम् अणुमनस्सिद्धौ तद्ग्राह्या आत्मविशेषगुणा बुुद्धिसुखादय इति नाव्यापकं प्रत्यक्षलक्षणम् ।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मनोऽणुत्ववादः॥

अथानुव्यवसायवादः
ननु वर्तमानं ज्ञानं न मानसम् , किंतु स्वयमेव स्वव्यवहारहेतुः, स्वस्मिन् सत्येव स्वव्यवहारात् , न तु ज्ञानान्तरमपेक्षते तदन्वयतिरेकाननुविधानात् ।
ज्ञानान्तरविरहदशायां स्वविरहादेव स्वव्यवहारविरहात् , स्वत एव स्वव्यवहारोपपत्तौ ज्ञानान्तरकल्पने गौरवाच्च । घटादिव्यवहारे ज्ञानान्वयव्यतिरेकादस्तु तदपेक्षा ।
स्वीयमतीतमनागतं परकीयं च ज्ञानं स्वव्यवहारे ज्ञानान्तरमपेक्षत एव, व्यवहारकाले तदभावात् ज्ञानान्तरान्वयव्यतिरेकानुविधानाच्च ।
नन्वेवमिच्छादिकमपि स्वव्यवहारज्ञानं नापेक्षेत, ज्ञानतुल्यतया स्वयमेव स्वव्यवहारशक्तत्वादिति चेत् , न । व्यवहारस्य ज्ञानजन्यत्वनियमेनेच्छादिव्यवहारे
ज्ञानापेक्षणात्।

अथ ज्ञानमात्रं न व्यवहारहेतुः , अतिप्रसङ्गात् । किंतु व्यवहर्तव्यविषयमिति ज्ञानव्यवहारोऽपि तद्विषयज्ञानान्तराद् भवेदिति चेत् , सत्यम् । स्वस्यैव
स्वविषयकत्वात्। यव्द्यवहारानुकूलशक्तियोगि यज्ज्ञानं तस्यैव तद्विषयकत्वात् । शक्तिश्च पदार्थान्तरं , न कारणतेति नान्योन्याश्रयः । स्वव्यवहारे ज्ञानं शक्तमिति
स्वविषयकम् । व्यवहारशक्तिसमवायादयश्च स्वभावत एव तदीयाः संबन्धान्तरेऽप्यनवस्थानात् स्वभाव एव शरणम्।

एतेनभेदनियतो विषयविषयिभावः कथमभेदे इति निरस्तम्। स्वव्यवहारशक्तत्वस्य स्वविषयत्वस्याभेदेऽपि संभवात् ।
अस्तु वा ज्ञानस्य स्वभावविशेष एव स्वविषयत्वम् । संबन्धं विनैव स्वभावविशेषात् यथा ज्ञानं घटीयं घटव्यवहारजननयोग्यं स्वीयमपि तथा । कोऽसौ
स्वभावविशेष इति चेत् , न । आख्यातुमशक्यत्वेऽप्यनुभवसिद्धस्य स्वभावविशेषस्य माधुर्यादिविशेषवत् प्रत्याख्यातुमशक्यत्वात् । यद्यपि स्वभावविशेष इति
वाक्येनाख्यायते एव, तथापि पदेनाख्यातुमशक्यत्वात् ।

अथ व्यवहारो व्यवहर्तव्यभिन्नज्ञानसाध्यः कथं तेन विना स्यादिति चेत् , न । व्यवहारं प्रति व्यवहर्तव्यज्ञानत्वेन हेतुत्वात् , न तु व्यवहर्तव्यभिन्नज्ञानत्वेन
गौरवात् । समूहालम्बनं च एकैकव्यवहारजनकत्वादेकैकविषयकमपि, न तु समूहविषयकमेव, अतिरिक्तस्य तस्यासत्त्वेन संनिकर्षाभावात् ।

भ्रमस्थले रजतव्यवहारानुकूला शक्तिरस्त्येव रजतज्ञाने । किं तु दोषादभिभूतैव सा जायत इति न तया रजते व्यवहारः । रजतज्ञानं न शुक्तौ प्रवर्तकम् किं तु
इन्द्रियजन्यमिदंज्ञानमेव । रजतार्थिप्रवृत्त्यर्थं तु उपस्थितरजतभेदाग्रहमपेक्षत इति रजतज्ञानं कारणतावच्छेदकम् । एवं च स्वविषयत्वं स्वप्रकाशत्वम् , न तु स्वव्यवहारे
ज्ञानान्तरानपेक्षत्वम् , गौरवात् । अन्यथा ज्ञानस्य स्वाविषयत्वेन संस्काराभावात् स्मरणं न स्यात् ।

यत्तु स्वव्यवहारे ज्ञानान्तरानपेक्षत्वमुक्तम् , तत्स्वप्रकाशत्वनिर्वाहकतया । प्रमाणं च स्वप्रकाशे प्रत्यक्षमेव ।
सर्वाः प्रतीतय इदमहं जानामीत्येवमाकाराः ज्ञातारं ज्ञानं ज्ञेयं चोल्लिखन्त्यो जायन्ते । तत्र आत्मा कर्तृत्वेन ज्ञेयं कर्मतया ज्ञानं क्रियात्वेन भासते । अतो
ज्ञातृज्ञेयस्वविषयं ज्ञानमनुभूयत इति त्रिपुटीप्रत्यक्षवादिनः ।

ननु इदमिति व्यावसायः तदुत्तरमिदमहं जानामीत्यनुव्यवसायो मानस इति चेत् ,न । स्वप्रकाशत्वेनोपपत्तौ ज्ञानान्तरकल्पने गौरवात् , परिशेषाच्च स्वप्रकाशत्वम्।
परप्रकाशत्वे हि ज्ञानमेव न सिध्येत् मानाभावात् । न हि तत्र ज्ञातता लिङ्गम् । अतीतानागतयोस्तदभावात् । नापि मानसं प्रत्यक्षम् । अजिज्ञासितस्य मानसत्वे
ज्ञानाविरामादनवस्थानात् , विषयान्तरासंचारच्च । जिज्ञासितस्य ग्राह्यत्वे ज्ञानं न मानसं जिज्ञासाग्राह्यात्मधर्मत्वात् संस्कारवदित्यनुमानप्रतिरोधः । अत एव जिज्ञासां
विनैव सुखादीनां मानसत्वम् ।

जिज्ञासापि ज्ञानसाध्येत्यनवस्था, धर्मिज्ञानेच्छादिभिर्ज्ञानस्य नाशाच्च न प्रत्यक्षत्वम् ।
अथ ज्ञानं मानसप्रत्यक्षं प्रत्यक्षात्मगुणत्वात् , आत्मविशेषगुणत्वे सति क्षणमात्रस्थायित्वात् सुखवत् , ज्ञानं प्रत्यक्षजनकेन्द्रियसंनिकर्षाश्रयः प्रत्यक्षत्वात्
सुखवदिति चेत्, न । मानसत्वेऽनवस्थानात् ।

49

अत एवचक्षुर्जन्यं ज्ञानं न चक्षुर्जन्यज्ञानविषयः प्रत्यक्षत्वात् रासनवत् , नैतज्ज्ञानविषयो वा, एतज्जनकेन्द्रियसंनिकर्षानाश्रयत्वात् गगनवत् । चक्षुः न
चाक्षुषज्ञानग्राहकं बहिरिन्द्रियत्वात् रसनवदिति प्रतिपक्षानुमानमपास्तम् । परप्रकाशत्वेऽनवस्थया ज्ञानासिद्धौ आश्रयासिद्धेः । स्वप्रकाशत्वेन तत्सिद्धौ धर्मिग्राहकमानबाधात्।
किं च स्वव्यवहारशक्तत्वं स्वविषयत्वं, तच्च स्वसंनिकर्षाजन्यत्वे स्वाजन्यत्वे च न विरुद्धम् । न च स्वव्यवहारे शक्तत्वस्याभाव एव साध्यः , अप्रयोजकत्वात्।
स्वसंनिकर्षाजन्ये स्वाजन्ये व्यवहारशक्ते घटादौ व्यभिचाराच्च ।

अत एव स्वप्रकाशत्वेन पूर्वानुभवविषयता तत्तानुभूतमात्रविषये स्मरणे उत्सर्गतो भासते ज्ञानान्तरस्यानावश्यकत्वात् । स्वस्य स्वाजन्यत्वे कथं स्वकर्मतेति
चेत् , न। अतीतानागतयोरिव स्वविषयत्वं न तु कर्मत्वम् । विषयत्वं चाभेदेऽपि । स्वव्यवहारशक्तत्वस्य ज्ञानस्वभावविशेषस्य वा विषयत्वात् । न चाधीकर्मतया
शशश्रृङ्गवदसत्त्वम् । तस्य कदाप्यप्रकाशात् । धीजन्यव्यवहारभागित्वं कर्मत्वं स्वप्रकाशेऽपि, तदन्यफलभागित्वं च घटेऽप्यसिद्धम् , ज्ञाततानिषेधात् । ज्ञानानपेक्षेन्द्रियसंनिकर्षजं
ज्ञानं प्रत्यक्षम् , अतः सर्वं ज्ञानं ज्ञानानपेक्षात्ममनस्संनिकर्षजन्यत्वेन स्वात्मनि प्रत्यक्षम् । विशिष्टप्रत्यक्षं च न विशेषणज्ञानजन्यम् , निर्विकल्पकनिषेधात् ।
सविकल्पकत्वेन ज्ञानाजन्यज्ञानं वा प्रत्यक्षम् । तेन निर्विकल्पकजन्यं जातिविशिष्टज्ञानं प्रत्यक्षम् , न त्वसाधारणेन्द्रियादिकरणकम् , तेन विनापि अनुमित्यादौ
स्वात्मप्रकाशात् । इन्द्रियादिकं तु अर्थप्रकाश एव हेतुः , तस्यैव तत्प्रतिबद्धहेतुजन्यत्वादिति ।

अत्रोच्यते । प्रत्यक्षं न स्वप्रकाशे प्रमाणम् , व्यवसायानामिदमहं जानामीत्याकारासिद्धेः । न चैवमनुभवविरोधः, अर्थनिश्चयेन प्रवृत्त्यादिदर्शनात् ।
व्यवसायस्यार्थविषयत्वमात्रमनुभूयते न तु स्वविषयत्वमपि, गौरवेण तस्य स्वविषयभानतया प्रवृत्त्यहेतुत्वात् । अनुभवोऽपीदं रजतमित्याद्येव।
न चैवमिदमहं जानामीत्यनुभवापलापे उपेक्षणीयता । व्यवसायोत्तरकालं तदुपगमात् , इदं रजतमित्यादिलौकिकानुभवात् व्यवसायस्य तदाकारतां निषेधामो न
त्वनुव्यवसायस्य।

ननु भिन्नानुव्यवसायेऽनवस्थानात् व्यवसाय एवानुव्यवसाय इति चेत् , तर्हि परप्रकाशे बाधकात् स्वप्रकाशत्वसिद्धौ सर्वप्रतीतीनाम् इदमहं जानामीत्याकारतासिद्धिः।
तथा च स्वप्रकाशत्वासिद्धौ सर्वप्रतीतीनामिदमहं जानामीत्याकारत्वमसिद्धमिति न सा प्रतीतिः स्वप्रकाशत्वे प्रमाणम् ।

अपि च क्रियायाः कृतेर्वा समवायित्वं कर्तृत्वम्, परसमवेतक्रियाफलशलित्वं करणव्यापारविषयत्वं वा कर्मत्वम् , धात्वर्थत्वमन्यद्वा क्रियात्वम् , इदमहं
जानामीति व्यवसाये न भासते, तद्बोेधकेन्द्रियसंनिकर्षाभावात् । किं तु इदंविषयकज्ञानत्वविशिष्टस्य ज्ञानस्य वैशिष्ट्यं आत्मनि भासते । न च स्वप्रकाशे व्यवसाये
तादृशं स्वस्य वैशिष्ट्यं भासितुमर्हति, पूर्वं विशेषणस्य तस्याज्ञानात् । तस्मादिदमहं जानामीति न व्यवसायः, किंत्वनुव्यवसायः ।
स्यादेतत् । कर्तृत्वादिज्ञानवैशिष्ट्यमात्मनि मा ज्ञायि , व्यवहारस्य स्वविषयकज्ञानसाध्यत्वसिद्धौै तदेव ज्ञानं स्वविषयकं कल्प्यते लाघवात् । ज्ञानवित्तिवेद्य
आत्मापि तद्विषय इत्यात्मविषयत्वं सर्ववित्तीनामिति चेत् , न । स्वजनकेन्द्रियसंनिकर्षानाश्रयत्वेन स्वस्य स्वाविषयत्वात् , विषयत्वनियामकेन्द्रियसंनिकर्षादेरभावे
स्वविषयत्वानुपपत्तेः , कारणं विना कार्यानुत्पादात् , प्रत्यक्षाजनकस्य प्रत्यक्षविषयत्वानुपपतेश्च । आत्मधर्मप्रत्यासत्त्यनाश्रये प्रत्यक्षविषयताया जनकत्वव्याप्तत्वात् ।
ज्ञानस्य प्रत्यक्षत्वेन इन्द्रियसंनिकर्षाश्रयत्वात् मनस्संनिकर्षजन्यत्वेन मानसत्वम् ।

तदयं प्रयोगः – – विवादाध्यासितमिन्द्रियजन्यं ज्ञानं नैतज्ज्ञानविषयाश्रयः एतज्जनकेन्द्रियसंनिकर्षानाश्रयत्वात् एतदजनकत्वाद्वा असंनिकृष्टवत् । नैतज्ज्ञानविषयकं
वा आत्मधर्मप्रत्यासत्त्यनाश्रयत्वे सति एतदजन्यत्वे च सति साक्षात्कारित्वात् । प्रत्यक्षविषयो ज्ञानं स्वप्रत्यक्षजनकेन्द्रियसंनिकर्षाश्रयः प्रत्यक्षविषयत्वादिति मनस्संनिकर्षग्राह्यम्।
चाक्षुषं ज्ञानं न चक्षुर्जन्यज्ञानविषयः, चक्षुरसंनिकृष्टत्वात् घटवत् ।

ज्ञानं प्रमेयमेवेति व्याप्तिज्ञानं ज्ञानत्वप्रत्यासत्त्या स्वविषयम् । ईश्वरज्ञानमहेतुकत्वेन सर्वविषयत्वात् स्वप्रकाशम् ।
ननु परप्रकाशकत्वे ज्ञानमेव न सिध्येत् अनवस्थानादिति धर्मिग्राहकमानात् स्वप्रकाशत्वसिद्धौ अनन्यगतिकतया स्वस्यासंनिकृष्टस्यापि प्रत्यक्षविषयत्वम् ,अतो
धर्मिग्राहकमानबाधितास्त्वदीयहेतव इति चेत् , न । वित्तेरवश्यवेद्यत्वाभावेनानवस्थाविगमात् । संयुक्तसमवायेन मनोवेद्यत्वाभावादपेक्षणीयान्तराभावाच्च उत्पन्नैव कुतो
नावश्यवेद्येति चेत् , न । सुखादितद्बुद्ध्यादिसामग्र्या प्रतिबन्धात् , विषयान्तरसंचारदर्शनेन तस्या बलवत्त्वात् अनुद्भवादिति केचित् ।
योग्यात्मविशेषगुणत्वात् ज्ञानत्वात् ज्ञानं प्रत्यक्षमेवेति व्याप्तेः वित्तेरवश्यवेद्यत्वेन स्वप्रकाशत्वमिति चेत् , न । व्याप्तेरसिद्धेः, परप्रकाशकत्वेऽनवस्थानात् ।
स्वप्रकाशे कारणानुपपत्तेः संनिकृष्टमेव प्रत्यक्षं तद्विषयजन्यमेव प्रत्यक्षमिति व्याप्तेश्च । अन्यथा कारणं विना कार्यानुत्पत्तिव्याप्तेर्विनिगमकं कारणसत्त्वेऽपि प्रतिबन्धात्
कार्यानुत्पादे कारणत्वमप्रत्यूह्यम् । क्लृप्तकारणं विना कार्योत्पादे कारणताभङ्गः कार्यानुत्पादश्च ।

अपि च परप्रकाशेऽनवस्थानात् परिशेषानुमानेन ज्ञानस्य स्वप्रकाशत्वम् । तथा च स्वप्रकाशत्वानुमितेरपि स्वप्रकाशत्वमनुमित्यन्तरगम्यमेवं तस्यापीत्यनवस्था
स्वप्रकाशत्वानुमितिपरम्पराद्वारा तवापि स्यात् । विषयान्तरसंचारस्य प्रतिबन्धकत्वं यावज्जिज्ञासं वा स्वप्रकाशत्वानुमितिरिति यदि , तुल्यं परप्रकाशत्वेऽपि ।
न च ज्ञानं स्वप्रकाशमित्यनुमित्या स्वप्रकाशत्वमपि सामान्यप्रत्यासत्त्या विषयीकृतमिति वाच्यम् । परतः पक्षेऽपि तुल्यत्वात् त्वया तदनभ्युपगमाच्च ।

50

किं चानुमित्यादौ जातिसङ्करान्न (तव) प्रत्यक्षत्वम् । न च ज्ञानसापेक्षं मनो जनकमित्यनुमितिविषयवदात्मनि न तत्प्रत्यक्षम् । तस्य स्वविषयत्वे ज्ञानानपेक्षेति
चेत्, न । ज्ञानं ज्ञानजन्यं, तच्च स्वविषये स्वात्मन्येकमेवेति कथं तदपेक्षं तदनपेक्षं च विरुद्धत्वात् । न च ज्ञानभिन्नविषयत्वं सापेक्षम् , तथात्वे बहिर्ज्ञानं प्रत्यक्षं न
स्यात्।

अथान्यस्यान्यविषयत्वे संनिकर्षादिर्नियामकः , स्वविषयत्वे किं तेन , अनतिप्रसङ्गात् संनिकर्षस्याननुगमाच्च । व्यवहारे शक्तत्वं विषयत्वमभेदे संनिकर्षं
विनापीति चेत् , न । अन्यत्र प्रत्यक्षमात्रे संनिकर्षस्य हेतुत्वात् , अन्यथाननुगमापत्तिः । अथ या वित्तिः न वेद्या सा प्रमाणाभावादसतीति तदधीनसत्त्वस्य
विषयपर्यन्तस्यासत्त्वं स्यादिति चेत्, न । अविरललग्नतद्वित्तिवित्तिधारा नाभ्युपेयते । किं नाम केनचित्कदाचित्काचिद्वित्तिर्व्यवहारस्मरणलिङ्गादिना प्रतीयत इति सर्वा
प्रमाणसिद्धैवेत्यभ्युपगमात् ।

अथ स्यादेवं यदि घटोऽयं घटमहं जानामीत्यतोऽधिका घटवद्वित्तिधारावाहिविषयशतभारमन्थरा काचिद्वित्तिरस्मदादेरुत्पद्यमानानुभूयेत । न चैवम् , इति चेत् , न।
अनुव्यवसायो विषयमात्रनिरूप्यः, न तु तद्विषयपरंपरानिरूप्यो गौरवात् । तथा च ज्ञानज्ञानत्वेन सर्वा वित्तिरस्मदादेरुत्पद्यमाना अनुभूयत एव । न चैवमनिर्मोक्षः ।
योगजधर्मप्रत्यासत्त्या सामान्यलक्षणया वा व्याप्तिज्ञानरूपस्याननुव्यवसायस्यापि स्वविषयत्वाभ्युपगमात् । न च तव्द्यवहारशक्तत्वं तद्विषयत्वम् । तद्विषयत्वेन तव्द्यवहारकारणत्वग्रहे
सति तच्छक्तत्वज्ञानं, तच्छक्तत्वं च तद्विषयत्वमित्यन्योन्याश्रयात् कारणत्वग्रहं विना शक्तेरग्रहात् , त्वन्मतेऽपि रजतज्ञानस्य शुक्तिविषयत्वापत्तेश्च । रजतार्थिप्रवृत्तौ
रजतज्ञानं हेतुः , न तु तदवच्छेदकमित्युक्तत्वात्। लाघवेन स्वविषये ज्ञानस्य प्रवर्तकत्वम् सर्वैरेवाद्यप्रवृत्तौ तथावगमादिति चेत् , हन्तैवमन्यथाख्यातिरस्तु न तु
अन्यथासिद्धरजतज्ञानस्याप्रवर्तकत्वमिति ।

एतेन यथा तद्गुणसंविज्ञानबहुव्रीहिसिद्धं कुटादिपदमशक्यमपि कुटं गणमादायैव प्रधानमन्यपदार्थं बोधयति तथा ज्ञानमविषयमप्यात्मानमादायैव स्वविषये व्यवहारं
करोति संस्कारं च। स्वजन्यव्यवहारविषये ज्ञानस्य संस्कारजनकत्वात् । स्वजन्यव्यवहारविषयः स्वात्मा विषयश्चेति प्राचीनं गुरुमतमपास्तम् ।
अन्यत्र लाघवेन ज्ञानस्य स्वविषये व्यवहारसंस्कारजनकत्वकल्पनात् स्वविषये स्वात्मनि व्यवहारसंस्काराजनकत्वात् । व्यवहारसंस्कारयोः स्वविषयज्ञानसाध्यत्वेन
स्वाविषयकज्ञानासाध्यत्वात् ।

ननु ज्ञानस्य मानसत्वे कथं जानामीति विशिष्टबुुद्धिः ज्ञानत्वनिर्विकल्पकजन्यज्ञानक्षणे विशेष्याभावेन प्रत्यक्षानुत्पत्तेरिति चेत् , न । ज्ञाननाशक्षणे एव ज्ञाने
ज्ञानत्वविशिष्टबुद्धिः विशेष्यस्य पूर्वक्षणसत्त्वात् । प्रत्यक्षे स्वसमयवर्तितया गौरवेण विशेष्यस्याहेतुत्वात् । जानामीति वर्तमानत्वेन स्थूल उपाधिर्भासते , न तु क्षणः ,
तस्यातीन्द्रियत्वात् । ततो ज्ञानविशिष्टबुद्धिरात्मनि विशेषणज्ञानस्य पूर्वसत्त्वात् । विशेषणं च न विशिष्टप्रत्ययहेतुः गौरवात् , किं तु तज्ज्ञानम् , आवश्यकत्वात् । अत
एव तत्तां विनापि तद्बुद्धेेः प्रत्यभिज्ञा।

यत्तु व्यवसायनाशक्षणोत्पन्नव्यवसायान्तरे ज्ञानत्वविशिष्टबुद्धिरिति । तन्न । तद्धेतोरभावात् । अनुमिनोमीत्यादावनुव्यवसाये अनुमितित्वाभावाच्च । यद्वा ज्ञानं
ज्ञानत्वं च निर्विकल्पके भासते, ततो ज्ञानत्ववैशिष्ट्यं ज्ञाने ज्ञानवैशिष्ट्यं चात्मनि भासते । विशेष्ये विशेषणं , विशेषणे विशेषणान्तरं च भासत इत्येव हि
विशिष्टवैशिष्ट्यार्थः ।

वस्तुतस्तु ज्ञानमभाव इव विशिष्टज्ञानविषय एव , अनुव्यवसायस्य विषयरूपविशेषणविषयकव्यवसायसाध्यत्वेन विशिष्टज्ञानसामग्रीसत्त्वात् । ज्ञानत्वमपि तत्र
भासते तज्ज्ञानसामग्रीसत्त्वात् । अंशे तत्सप्रकारकं निष्प्रकारकं चेति नरसिंहाकारम् । तत्रैव विशिष्टज्ञाने ज्ञानत्ववैशिष्ट्यं भासते । अनुमिनोमीत्यादौ तु न तथा,
अनुव्यवसायेऽनुमितित्वाभावादिति।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे अनुव्यवसायवादः॥
अथ निर्विकल्पकवादः

तच्च प्रत्यक्षं द्विविधं निर्विकल्पकं सविकल्पकं चेति । तत्र नामजात्यादियोजनारहितं वैशिष्ट्यानवगाहि निष्प्रकारकं निर्विकल्पकम् । ननु ज्ञानत्वं सविकल्पकभिन्नवृत्ति
इत्यत्र किं मानम् । न प्रत्यक्षम् , असिद्धेः, अतीन्द्रियत्वाभ्युपगमाच्च। न च व्यवहारः, तस्य सविकल्पकसाध्यत्वात् । नापीदं न विवेचितं पूर्वमधुना
विवेचयामीत्यनुभवप्रमाणकावालोचनविकल्पौ, बहुविशेषणज्ञानाज्ञानाभ्यां तदुपपत्तेः ।

ननु गौरिति प्रत्यक्षं विशेषणज्ञानजन्यम् विशिष्टज्ञानत्वात् अनुमितिवदिति । अथ विशेषणविशेष्यज्ञानसामग्रीतः साकाङ्क्षोभयविषयमेकं विशिष्टज्ञानम् । तत्र
प्रत्यक्षे योग्येन्द्रियसंनिकर्षात् , अनुमितौ पक्षधर्मताबलात् व्यापकत्वावच्छेदकप्रकारेण, शाब्दे योग्यतादिवशात् पदार्थतावच्छेदकरूपेणापूर्वमेव विशेषणं भासते, उपमितावप्येवमेवेति
न क्वापि विशेषणज्ञानं जनकम् । न च प्रत्यभिज्ञायां तत्तानुभवस्तथा । तत्तानुभवेऽपि संस्कारस्यानुद्बोधात् , विलोपाद्वा प्रत्यभिज्ञानानुत्पादेन उद्बुद्धः संस्कार एव
प्रत्यासत्तितया विशेषणज्ञानार्थमिन्द्रियसहकारी । सुरभि चन्दनमित्यादावपि विशेषणज्ञानार्र्थं तज्ज्ञानं प्रत्यासत्तिस्थानीयमिन्द्रियसहकारि । भ्रमो विशिष्टज्ञानमेव नास्तीति
चेत् ,

उच्यते। साध्यप्रसिद्धिपदार्थोपस्थितिवाच्यत्वज्ञानतत्तानुभवानामनुमित्यादिहेतुत्वम् । साध्यप्रसिद्ध्यादिकं विना अनुमित्यादेरसंभवात् । साध्यादिकं च विशेषणमिति
तज्ज्ञानमनुमित्यादिहेतुः । यद्यपि अनुमित्यादिप्रत्येकं प्रति साध्यादिविशेषणज्ञानत्वेन न कारणता । तथापि विशिष्टज्ञानमात्रं प्रति विशेषणज्ञानत्वेन कारणता, बाधकाभावात्।

51

स्यादेतत् । वह्निमानित्यादिज्ञानं प्रति वह्निज्ञानस्य न विशेषणज्ञानत्वेन कारणता, द्रव्यत्वेन वह्निज्ञानेऽपि वह्निमानिति ज्ञानाभावात् । किं तु
विशेषणतावच्छेदकप्रकारकज्ञानत्वेन, अतो न विशिष्टज्ञाने विशेषणज्ञानं हेतुः । विशेषणज्ञानत्वमपि तत्रास्तीति चेत् , न । तस्यातिप्रसक्तत्वात् अन्यथासिद्धेश्च । न च
तादृशविशेषणज्ञानजन्यत्वं साध्यम् ,बाधादिति।

तन्न । विशिष्टवैशिष्ट्यज्ञानं प्रति हि विशेषणतावच्छेदकप्रकारकं ज्ञानं कारणमुभयसिद्धम् । अतो विशिष्टज्ञानमात्रं प्रति विशेषणज्ञानं हेतुः । यद्विशेषयोः
कार्यकारणभावस्तत्सामान्ययोरपि बाधकं विना कार्यकारणभावनियमात् ,अन्यथा सामान्यकार्र्योेच्छेदः । न चातिप्रसङ्गः, विशेषसामग्रीविरहेण तत्तत्कार्यविशेषानुदयात् ।
न च परोक्षत्वमुपाधिः । प्रत्यभिज्ञायां साध्याव्यापकत्वात् । नापि विशिष्टविशेषणकत्वं, पक्षेतरत्वादिति ।

मैवम् । तवापि स्मृतिवत्पूर्वानुभवस्य संस्कारद्वारा जनकत्वात् सिद्धसाधनात् । न चाव्यवहितविशेषणज्ञानजन्यत्वं साध्यम् , अप्रयोजकत्वात् प्रत्यभिज्ञावत्
स्मृत्यैवोपपत्तेर्वा। नापि तत एवाव्यवहितविशेषणानुभवजन्यत्वं साध्यम् , अप्रसिद्धेः प्रत्यभिज्ञानादौ व्यभिचाराच्च ।

अथ तत्कालोत्पन्नरूपादिविशिष्टप्रत्यक्षे संस्काराभावेन स्मरणाभावात् पक्षधर्मताबलेन निर्विकल्पकसिद्धौ अन्यत्रापि सामग्रीतौल्यात्तत्सिद्धिरिति चेत् , न ।
प्रत्युत्पन्नविशेषणस्थले हि शुक्लत्वादिविशिष्टशुक्लवैशिष्ट्यबोधो वा अविशिष्टतद्विशिष्टबोधो वा , आद्ये शुक्लत्वादिस्मरणं प्रथमं , ततः प्रत्यक्षेण तद्विशिष्टशुक्लबोधः,
ततः शुक्लत्वादिविशिष्टशुक्ला दिवैशिष्ट्यबोधः द्रव्य इति किमनुपपन्नम्। शुक्लत्वादिजातिस्मरणमेव वा सामान्यलक्षणया सकलरूपादिविषयमस्तु । द्वितीयेऽननुभवः ।
न हि शुक्लत्वादिप्रत्ययविलक्षणं शुक्लरूपादिविशिष्टबोधं कश्चिदनुभवति ।

अथ जागराद्यविशिष्टानुभवो विशेषणज्ञानजन्यो विशिष्टज्ञानत्वात् । न च तत्र संस्कारद्वारा पूर्वविशेषणानुभवः तज्जन्यविशेषणस्मरणं वा तत्र संभवति ।
उद्बोधकं विना संस्कारस्य स्मरणे विशिष्टबोधे वा सामर्थ्याभावादित्युद्बोधकं वक्तव्यम् । उद्बोधकं चान्यत्र ज्ञानं दृष्टमिति तदेव वाच्यम् । न च तद्विशिष्टज्ञानमेव ,
तत्रापि विशेषणज्ञानापेक्षायामनवस्थापत्तेरित्यालोचनसिद्धिरिति । तन्न । सत्यपि ज्ञाने संस्कारानुद्बोधात् । यस्मात् फलं भवति स ज्ञानविशेषस्तथेति चेत् , न ।
अननुगतत्वात् । यदनन्तरं फलं दृश्यते तदेवाननुगतमप्युद्बोधकं कल्प्यते , फलबलादिति चेत् , तर्हि जागरकारणानन्तरं संस्कारोद्बोधोऽस्तीति तदेव कारणमस्तु ,
क्लृप्तत्वात् । अत एव संस्कारोद्बोधे न नियतो हेतुरिति ।

“सदृशादृष्टचिन्ताद्याः स्मृति(जीवस्य)(बीजस्य)बोधका” । इत्याहुः ।
एवं च प्रणिधानादिसूत्रमपि संगच्छते । अपि च विशिष्टज्ञानत्वादित्यत्र व्यवच्छेद्यमविशिष्टज्ञानम् । तच्चाप्रसिद्धम् । सिद्धौ वा व्यर्थमनुमानम् । ज्ञानत्वं च
स्वतोऽसिद्धव्याप्तिकं निर्विकल्पके व्यभिचारादनवस्थापाताच्च ।

किं च विशिष्टज्ञानत्वं न तावत् वस्तुगत्या विशेषणविशेष्यविषयकज्ञानत्वम् , आलोचनेन व्यभिचारात् । नापि विशेषणत्वविषयकत्वम् ।
अतव्द्यावृत्तिबोधजनकज्ञानविषयत्वस्य विशेषणत्वस्य तत्राप्रकाशात् । नापि वैशिष्ट्यविषयकज्ञानत्वम् । तथा सति गौरिति विकल्पे वैशिष्ट्यं विशेषणमित्यालोचनस्यापि
तद्विषयत्वेन विशिष्टज्ञानत्वे अनवस्थापातादिति।

नापि सप्रकारकज्ञानत्वम् , प्रकारश्च विषयताविशेष इति वाच्यम् । ज्ञानविषयस्वरूपातिरिक्ताया विषयताया अभावात् । न च विशेषणज्ञानजन्यत्वं
सप्रकारत्वम् । यद्विशेषणज्ञानजन्यं यत् स एव तत्र प्रकार इति गौरिति विकल्पे तस्यैव साध्यत्वात् , ईश्वरज्ञानस्य निष्प्रकारकत्वापाताच्च । नाप्यतव्द्यावृत्तिविषयत्वं
विशिष्टज्ञानत्वम् । अपोहवादनिरासेन गौरिति विकल्पे तथात्वासिद्धेेः । नाप्यतव्द्यावृत्तिबोधजनकत्वं तत् । आलोचनव्यावृत्तानुगतरूपमन्तरेण अतव्द्यावृत्तबोधजनकत्वस्य
ग्रहीतुमशक्यत्वात् । न च गौरिति ज्ञानमेतदन्यसविकल्पकान्यज्ञानभिन्नं प्रमेयत्वात् , यद्वा चक्षुः चाक्षुषसविकल्पकज्ञानातिरक्तज्ञानजनकम् इन्द्रियत्वादिति तत्सिद्धिः ।
अप्रयोजकत्वात् ,उभयत्र सविकल्पकपदानन्तरं निर्विकल्पकादिपदप्रक्षेपेण तृतीयादिज्ञानसिद्धिप्रसङ्गाच्चेति ।

अत्रोच्यते । प्राथमिकं गौरिति प्रत्यक्षं ज्ञानं जन्यविशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् अनुमितिवत् । न च स्मरणं तत्र संभवति । तज्जन्मनि तेन
गोत्वस्याननुभवात्।

अथ यथा बालस्याद्यप्रवृत्तिबलात् प्राग्भवीयसंस्काराव्द्याप्तिस्मरणं तथेहापि जन्मान्तरीयसंस्कारात् गोत्वस्मरणमस्तु , प्राथमिकविशिष्टज्ञानबलादिति चेत् , न ।
जीवनादृष्टेन तत्र संस्कारोद्बोेधात्तथास्तु । इह तु न विलक्षणमुद्बोधकमस्ति । अतो गोत्वासंनिकर्षेऽपि गोत्वस्मरणप्रसङ्गः । य एव गोत्वेन्द्रियसंनिकर्षस्तव
निर्विकल्पके हेतुः स एव संस्कारोद्बोधक इति चेत् ,तर्हि अत्र क्लृप्तकारणभावात् गोत्वेन्द्रियसंनिकर्षात् गोत्वानुभव एव स्यात् , स्मरणसामग्रीतोऽनुभवसामग्र्याः
बलवत्त्वात् । न च तद्विशिष्टज्ञानम् , पूर्र्वं विशेषणज्ञानाभावादित्यर्थान्निर्विकल्पकम् । अत एव न तत्र ज्ञानत्वेन विशिष्टज्ञानत्वानुमानम् , कारणबाधेन बाधात् । यदि
चानुभवसामग्रीतः स्मरणं तदा नित्यानां वैदिकार्थानां च स्मरणं स्यात् , न त्वनुभवः ।

न च गोत्वज्ञानं गोत्वज्ञानजन्यं जन्यज्ञानजन्यं जन्यविशेषणज्ञानजन्यं चेत्यन्यत्र दर्शनात् प्रथमं न गोत्वानुभव इति वाच्यम् । एकस्यैव जन्यजनकत्वानवच्छेदकत्वात्
अनवस्थापाताच्च ।

ननु गौरित्यत्र गोत्ववैशिष्ट्यं गवि भासते । तथा च तद्विषयकं ज्ञानं स्यात् , तच्च निर्विकल्पकमिति चेत् , गोत्वं हि तत्र विशेषणम् , न तु तद्वैशिष्ट्यम् ।

52

ननु तथाभूतविशेषणधीजन्यविशिष्टज्ञाने विशेषणं स्वधर्मविशिष्टं कथं भासेत, पूर्वं तस्यानवगमात् । अवगमे वा तस्यापि विशेषणान्तरवतो विशेषणमिति
अनवस्थेति चेत् , न । गौरिति विशिष्टज्ञाने विशिष्टस्य गोत्वस्याभानात् ।

अथ सर्र्वं विशेषणं विशेषणवदेव । गोत्वादावपि व्यक्त्यादेर्विशेषणत्वादिति चेत् , अस्तु तथा । किं तु विशेषणं विशेषणवदेव भासेतेति न नियमः । अन्यथा
गौरिति ज्ञाने विशेषणतद्विशेषणानन्तपरंपराविषयत्वे विषयापर्यवसानप्रसङ्गः । क्वचिन्निर्विशेषणस्यापि भाने प्रथमतोऽपि तथा स्यादविशेषात् । न च विशिष्टज्ञानत्वादित्यत्र
हेतोर्व्यर्थविशेषणत्वम्। येन विशेषणेन विना व्याप्तिर्ग्रहीतुं न शक्यते तस्यैव सार्थकत्वात् । व्यभिचारवारकस्यापि सार्थकत्वे एतदेव मूलम् । इहापि
ज्ञानत्वविशेषणज्ञानजन्यत्वयोर्विशेषणं विना व्याप्तिः ग्रहीतुं न शक्यते अनवस्थानात् सामान्यतो व्यभिचारावगमात् ।

अत एव चक्षुस्तैजसत्वादिसाधने रूपादिषु मध्ये रूपस्यैव व्यञ्जकत्वादित्यादौ असिद्धिवारकमपि विशेषणं सार्थकम् । तेन विना रूपस्यैव
व्यञ्जकत्वादित्यस्याप्रसिद्धेर्व्याप्त्यग्रहात्। विशेषणं विनापि यत्र व्याप्तिग्रहस्तत्र व्यर्थविशेषणत्वम् , यथा नीलधूमत्वशरीराजन्यत्वादौ ।
यस्य यत्र यः संबन्धः स एव तत्र तस्य वैशिष्ट्यम् । तेन हि स्वासंबद्धेभ्यो व्यावृत्तो बोध्यते । यथा दण्डी पुरुष इति ज्ञाने दण्डसंबन्धः पुरुषेऽवगत इति
तेनायमदण्डव्यावृत्तो बोध्यते तथा गौरिति विकल्पेऽपि । तथा च विशेषणवद्विशेष्यज्ञानत्वं विशिष्टज्ञानत्वम् । एतदेवातव्द्यावृत्तबोधजनकतावच्छेदकम् ।
ननु दण्डपुरुषसंबन्धा इत्यत्रापि दण्डसंबन्धः पुरुषेऽवगत इति ततोऽप्यदण्डव्यावृत्तपुरुषबोधः स्यादिति चेत् , भवत्येव, दण्डसंबन्ध एव पुरुषे दण्डज्ञानं विना न
ज्ञायत इति ब्रूमः । यत्र विशिष्टज्ञानसामग्री नास्ति तत्र निर्विकल्पकम् , ज्ञानकरणजन्ये सर्वत्र विशेषणज्ञानजन्यत्वान्न तदिति प्रत्यक्षमेवैतदिति ।
अत एवाभावे न निर्विकल्पकम् । तद्बुद्धौ प्रतियोग्यधिकरणज्ञानयोः कारणत्वेन तदुभयविशिष्टज्ञानसामग्रीनियमात् । यद्यभावे न निर्विकल्पकं , तदा
घटाभाववद्भूतलमिति ज्ञानं न स्यात् , विशेषणज्ञानं विना तदभावात् । भावे वा न निर्विकल्पकसिद्धिः । विशिष्टज्ञानत्वस्य तत्रैव व्यभिचारादिति चेत् , न । प्रथमं
भूतले घटो नास्तीति बुुद्धिः । तत्र भूतलं विशेषणम् , अभावो विशेष्यः । विशेष्यज्ञानं च न कारणम् । पश्चाद्भूतलविशेष्यकं घटाभाववदिति ज्ञानम् ।
ननु इन्द्रियसंबद्धविशेषणतया अभावो गृह्यत इत्युक्तम् । अतः कथं स विशेष्य इति चेत् , भूतलविशेषणतया स्वभावप्रत्यासत्त्या गृह्यत इति तदर्थः । न
त्वभावस्य विशेषणतया भाममिति । अत एव वायौ रूपाभाव इति प्रतीतेश्चाक्षुषत्वमुक्तमाचार्यैः । अयोग्यविशेष्ये इन्द्रियस्यासामर्थ्यात् । ज्ञानत्वे च निर्विकल्पकं
विषयविशिष्टत्वांशे सविकल्पकमपि । अनुव्यवसायस्य व्यवसायजन्यत्वेन नियमतः पूर्वं विषयरूपविशेषणभानात्तत्रैव ज्ञाने तदेव ज्ञानं निष्प्रकारकं सप्रकारकं चेति न
विरुद्धम् , अंशभेदमादायाविरोधात्।

अत एव निर्विकल्पकत्वसविकल्पकत्वे न जाती, चाक्षुषत्वादिना संकरापत्तेः । गौरिति सविकल्पकमपि गोत्वांशे निर्विकल्पकमेव, तत्र प्रकाराभानात् ,भाने वा
अनवस्था निर्विकल्पकासिद्धिश्च ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे निर्विकल्पकवादः॥
अथ विशेषणोपलक्षणवादः

प्रकारश्च द्विविधः, विशेषणोपलक्षणभेदात् ।
ननु व्यावर्तकत्वाविशेषे कथं तयोर्भेदः । व्यावर्तकत्वे सति सत् विशेषणम्, असदुपलक्षणम् , यथा दण्डी पुरुषः कुरुणा क्षेत्रमिति चेत् , न । काकवद्देवदत्तगृहं,
जटाभिस्तापसः इत्यादावुपरि भ्राम्यतः काकस्य जटादेरसत्त्वेऽप्यविशेषणत्वात् उपलक्षणत्वाच्च ।

एतेनव्यावृत्तिबोधकाले व्यावर्तकं सद्विशेषणम् , असदुपलक्षणम् । तेन काकादीनां व्यावृत्तिबोधसमये सतां विशेषणत्वमेव , व्यावृत्तिबोधसमयेऽसतामुपलक्षणत्वम्।
अत एव काकैः जटाभिः कुरुणेत्यादावित्थंभूतलक्षणे तृतीयेति निरस्तम् ।

व्यावृत्तिबोधसमये सतोऽप्युपरि भ्रमतः काकादेरविशेषणत्वात् उपलक्षणत्वाच्च ।
नापि विशेष्यवृत्तित्वे सति प्रत्याय्यव्यावृत्तिसमानाधिकरणत्वे सति व्यावर्तकं विशेषणम् । यद्वा यत्र विशेष्यत्वावच्छेदेन व्यावृत्त्या वा यत्समानाधिकरणत्वेन
प्रतीयते तत्र तद्विशेषणम् । विशेष्यत्वं च प्रत्याय्यव्यावृत्त्यधिकरणमिति जटाभिस्तापस इत्यादौ जटादावतिप्रसङ्गात् । न हि तापसे न जटा वर्तते ।
नापि विशेष्यसमानविभक्तिकत्वं विशेषणत्वम् । काकवत् देवदत्तगृहमित्यादावुपलक्षणेऽपि गतत्वात्। अनभिधानदशायामविशेषणत्वापाताच्च ।
अथ व्यावर्तकत्वे सति विशिष्टधीविषयत्वं विशेषणत्वम् । विशिष्टबुुद्धिश्च न विशेषणत्वगोचरा गौरवात् , किंतु विशेषणविषया । विशेषणोपलक्षणसंदेहानुपपत्तेः।

53

अत एव चाक्षुषत्वादिविरोधः । उपलक्षणत्वे तूपलक्षितं संस्थानादि विशिष्टधीविषयो न काकवत्त्वम् , तदभावेऽपि तद्गृहप्रतीतेस्ताद्रूप्यात् । अन्यथा
भ्रमत्वापत्तेः । न च शब्दोपस्थापितस्य कथं शाब्दज्ञानबहिर्भाव इति वाच्यम् । तथैव व्युत्पत्तेः । न हि गङ्गायां घोष इत्यत्र प्रवाहोऽपि तीरावच्छेदकतया भासते । किंतु
तीरत्वेन तीरविशेष एव । अन्यथा अजहत्स्वार्थासाम्यात् । न चैवमुपलक्षणपदस्य लाक्षणिकत्वम् , अशक्यस्य संस्थानादेरुपस्थापनादिति वाच्यम् ।
उपलक्षणबुद्ध्युुपस्थापितकारणान्तरजन्यसंस्थानोपस्थित्या तदन्वये तात्पर्यादिति।

मैवम् । तथा व्युत्पत्तेरसिद्धेः । न ह्युपलक्षणपदातिरिक्तमुपलक्ष्योपस्थापकमस्तीत्युपलक्षणपदं स्वार्थमुपस्थाप्य , उपलक्ष्यमुपस्थापयतीति लक्षणैव स्यात् । अन्यथा
लक्षणोच्छेदः । घटो नास्तीत्यत्रोपलक्षणस्य प्रतियोगिनोऽभावधीविषयत्वात् नियतोपलक्ष्याभावाच्च ।

नापि व्यावर्तकत्वे सति क्रियान्वयि विशेषणम् ,अन्यदुपलक्षणम् । क्रियाहीने सुभगोऽयं दण्डी महाबाहुरित्यादौ दण्डादेरविशेषणत्वापातात् , परंपरया
उपलक्षणेऽपि क्रियान्वयित्वाच्च ।

अथ अतव्द्यावृत्तिर्वैशिष्ट्यम् । तथा च विशिष्टज्ञाने अतव्द्यावृत्तिर्विषयो न विशेषणमुपलक्षणं वा । तथा च विशिष्टधीकारणज्ञानविषयत्वे सति
प्रत्याय्यव्यावृत्तिसमानाधिकरणं विशेषणमिति ।

तन्न । नीलमुत्पलमित्यादावनीलानुल्लेखे अतव्द्यावृत्त्यनुल्लेखात् , नीलं जानामीत्यनुव्यवसायविरोधात् अपोहापाताच्च ।
अथ व्यावर्तकं साक्षात्संबद्धं नीलादि , परंपरासंबद्धं गृहोपरि भ्रमत् काकादि , तत्र व्यावर्तनीयमधितिष्ठति यद्धि साक्षादेव तद्विशेषणम् , अतो विपरीतमन्यत् ।
दण्डी पुमानिति विशेषणम् अत्र दण्डः पुंसो, न जातिः अनुदण्डमसौ च तस्येति संबन्धिद्वयातिरिक्तसम्बन्धघटकाभावे सति संबन्ध एव साक्षात्संबन्धः । स च
संयोगसमवायस्वरूपसंबन्धसाधारणो ज्ञाने विषयस्याधिकरणे अभावस्य संबन्धिनि समवायस्यास्तीति तेषामपि विशेषणत्वमिति शिवादित्यमिश्राः।
तन्न । गौरनित्यो, रूपवान् चलति, रूपवति रस इत्यादौ जाते रूपस्य च साक्षात्संबन्धेऽप्युपलक्षणत्वात् । लोहितः स्फटिक इत्यादौ परंपरासंबन्धेऽपि
लोहितत्वस्य विशेषणत्वात् ।

अथान्वयप्रतियोग्युपस्थापकतया अन्वितमुपलक्षणम् , साक्षादन्वितं विशेषणम् । काकादेः संस्थानाद्युपस्थापकतया उपयोगात् , अतथात्वे दण्डादिवद्विशेषणत्वमेवेति
चेत् , न । उपलक्षणस्य लाक्षणिकत्वापत्तेः, प्रतियेगिनोऽभावे धर्मान्तरानुपनयाच्च ।

अथ व्यावृत्तिबुुद्धिसमये विशेष्यसंबद्धं व्यवर्तकं विशेषणम् , तदानीं विशेष्यासंबद्धं व्यावर्तकमुपलक्षणम् । न च जटा यदा यत्रास्ति तदा तत्रोपलक्षणम् । अत एव
तत्रैव तदेव संबन्धसमये विशेषणम् , असंबन्धसमये उपलक्षणमिति ।

तन्न ।रूपवति घटे रस इत्यादौ रूपस्य विशेषणत्वप्रसङ्गात् । दण्ड्यासीदित्यादावतीते दण्डस्य अविशेषणत्वापाताच्च ।
एतेन यत्र यद्विशेष्यतावच्छेदकधर्र्मेण व्यावृत्त्या वा समानाधिकरणत्वेन प्रतीयते तत्र तद्विशेषणमित्यपि प्रत्युक्तम् ।

अत्रोच्यते । दण्डी पुरुष इति ज्ञानानन्तरं दण्डवत्यदण्डव्यावृत्तिरवगम्यत इति प्रत्याय्यव्यावृत्त्यधिकरणता पुरुषस्य दण्डेनावच्छिद्यते न पुरुषत्वेन, अतिव्याप्तेः ।
उपलक्षणे तु गृहतापसादिनिष्ठप्रत्याय्यव्यावृत्त्यधिकरणता न काकजटादिभिरवच्छिद्यते , तदभाववत्यपि व्यावृत्तिप्रतीतेः । किं तु संस्थानविशेषवत्वादिना ।
एवं च प्रत्याय्यव्यावृत्त्यधिकरणतावच्छेदकत्वे सति व्यावर्तकं विशेषणम् , तदन्यव्यावर्तकमुपलक्षणम् । व्यावृत्त्युल्लेखानन्तरमेव विशेषणत्वबुद्धिः। तदाहुराचार्याः-“सदसद्वा समानाधिकरणं व्यवच्छेदकं विशेषणम् , व्यधिकरणमुपलक्षणम् ” इति । अस्यार्थः – स्वाधिकरणमात्रवृत्तिव्यावृत्तिबोधकत्वं, स्वावच्छिन्नाधिकरणताकव्यावृत्तिबोधकत्वं,
स्वानधिकरणाधिकरणकव्यावृत्त्यबोधकत्वे सति व्यावृत्तिबोधकत्वं वेति । उपलक्षणं तु स्वानधिकरणेऽपि व्यावृतिं्त बोधयति।

अथवा विवक्षितान्वयप्रतियोगितावच्छेदकं विशेषणम् । दण्डिनमानयेत्यादौ दण्डस्तथा । तदनवच्छेदकमुपलक्षणम् , काकेन देवदत्तस्य गृहा इत्यादौ काको न
गृहस्य देवदत्तान्वयप्रतियोगितावच्छेदकः, तद्विरहदशायामपि देवदत्तान्वयावगमात् । किं तु गृहविशेष एवोपलक्षणपरिचितः । अत एवान्वयाप्रतियोगित्वेऽपि नोपलक्षणवैयर्थ्यम्।
यद्वा यदन्विततया ज्ञात एव विशेष्ये तात्पर्यविषयेतरान्वयधीः तद्व्यवच्छेदकं विशेषणम् , अनेवंभूतं तदुपलक्षणम् । उपलक्षणानवच्छिन्नेऽप्युपलक्ष्ये
तात्पर्यविषयीभूतान्वयबोधात्। अयमेव कार्यान्वयि विशेषणं तदनन्वय्युपलक्षणम् इत्यस्यार्थः , न तु तात्पर्यविषयीभूतविशेष्यान्वयबोधविषयत्वं विशिष्टज्ञानविषयत्वं वा,
प्रतियोग्यभावबुद्धिविषय इति मते तदभावात् ।

54

यद्वा विशेष्यान्वयिना यस्यावश्यमन्वयः तदवच्छेदकं विशेषणम् , तदन्यदुपलक्षणमिति । तत्रोपलक्ष्यविशेष्यमात्रान्वयात् । यव्द्यावर्तकं विशेष्यान्वयिनान्वीयते
तद्विशेषणम्, तदन्यदुपलक्षणमिति वा ।

यद्वा तात्पर्यविषयान्वयप्रतियोगी उद्देश्यान्वयप्रतियोगी वा धर्मो विशेषणं , तदन्यदुपलक्षणमित्यलं विस्तरेण ।
॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे विशेषणोपलक्षणवादः॥

अथ सविकल्पकवादः
सविकल्पकं च विशिष्टज्ञानं यथा गौरयमिति । तच्च सामान्यादीनां परमार्थसत्त्वेनार्थजत्वादिन्द्रियजत्वाच्च प्रत्यक्षम् । क्वचित् संस्कारसहकारिवशेन तत्ताविशिष्टस्य
इदन्ताविशिष्टाभेदोल्लेखी ऐन्द्रियको विकल्पः ।

नन्वेककार्यसहकारित्वमन्यत्र, प्रत्यभिज्ञानं तु नैकं ज्ञानम् तदंशे पारोक्ष्यस्य इदमंशे चापारोक्ष्यस्यानुभवेन विरुद्धधर्मसंसर्गात् । न चेदं यथार्थम् । अनेकदेशकालसंबन्धस्य
एकत्र बाधात् । एककालादिसंसर्गतदभावव्यवच्छेदवत् तदविनाभूतकालान्तरादिसंबन्धव्यवच्छेदात् , तदयथार्थत्वे बहु विप्लवेतेति चेत् , न । पारोक्ष्यापारोक्ष्ययोरिहासिद्धेः,
इन्द्रियजन्यत्वेनापरोक्षत्वनियमात् , तत्तांशस्य च स्मृत्युपनीतत्वात् इन्द्रियसंबद्धविशेषणताप्रत्यासत्तेः । न चैककालसंबन्धः कालान्तरसंबन्धाभावाविनाभूतः, एकस्मिन्
नानादिक्संबन्धस्य ज्ञानेऽनेकविषयत्वस्य च व्याघातापत्तेः । साक्षात्करोमीत्यनुव्यवसाये बाधकाभावाच्च ।

ननु केयं तत्ता, न तावदतीतसमयसंबन्धः, अनागतगोचरस्मृतिप्रत्यभिज्ञयोस्तत्तोल्लेखात् , प्रत्यक्षानुभूयमानघटादौ अतीतसमयावच्छेदानुमाने तत्ताधीव्यपदेशयोरभावात्,
अतीतसमयसंबन्धावगमेऽपि सोऽयं न वेति संशयात् , स नायमिति विपर्ययात् , तदभावावगमेऽपि सोऽयमिति प्रतीतेः, अतीतसमयविशिष्टः स इति सहप्रयोगात् ,
काले तदभावाच्च । एतेनज्ञातधर्मान्तरवैशिष्ट्यं तत्तेति निरस्तम् ।

न च तद्वृत्तिगुणादिकमेव तत्ता, तदवगमेऽपि तदनवगमात् , तदनवगमेऽपि तदवगमाच्च । नाप्यतीतज्ञानवैशिष्ट्यम् , परेण ज्ञात इति ज्ञानेऽपि स इति
प्रयोगाभावात्।

नाप्येतज्जन्मातीतस्वज्ञानवैशिष्ट्यम् । तदवगमेऽपि तत्तासंशयविपर्ययदर्शनात् , अतीतज्ञानविशिष्टः स इति सहप्रयोगात् , अतीतानुभवविषयत्वस्य अनुभवाविषयत्वेन
स्मृत्या तदुल्लेखानुपपत्तेश्च ।

यत्तु अतीतानुभवविषयत्वं तत्ता । तच्चानुभवाविषयत्वेन यदा ज्ञानान्तरेण गृह्यते तदा स घट इति स्मरणम् , नो चेत् , प्रमुष्टतत्ताकं घट इति ।
तन्न । अतीतानुभवविषयत्वस्यानुमितौ भानेऽपि स इति धीव्यपदेशयोरभावात् ,अतीतानुभवविषयत्वनिश्चयेऽपि तत्तासंशयविपर्ययदर्शनात् सहप्रयोगानुपपत्तेः ,
ज्ञानान्तरेण अतीतानुभवविषयत्वग्रहे तत्तोल्लेखापत्तेश्च ।

अथातीतधर्मवैशिष्ट्यं तत्ता । स धर्मः क्वचित् समयः क्वचित् ज्ञानादिः । न चातीतधर्मविशिष्टः स इति सहप्रयोगानुपपत्तिः । धर्मविशेषमादाय तदुपपत्तेः ।
तदप्रतीतावपि स इति प्रतीतिरसिद्धैव । न चातीतधर्मविशिष्टप्रतीतावपि स न वेति संशयात् , स नायमिति विपर्ययाच्च नैवमिति वाच्यम् । निश्चितधर्र्मेतरधर्मविशेषविषयत्वेन
तयोरुपपत्तेरिति चेत् ,

मैवम् । यदि वस्तुगत्या योऽतीतो धर्मस्तद्वैशिष्ट्यं तत्ता , तदा अनुभवेऽपि तद्विषयत्वात्तत्तोल्लेखापत्तिः । नाप्यतीतत्वेन यो भासते धर्मस्तद्वैशिष्ट्यं ,
भासमानधर्मस्यातीतत्वेनानुभवाविषयत्वात् प्रत्युत वर्तमानत्वेनानुभवात् स्मृतौ तदुल्लेखानुपपत्तेश्च ।

न चानुभवानन्तरं यदा ज्ञानान्तरेणातीतधर्मवैशिष्ट्यभानं तदा स्मृतौ तत्तोल्लेखो नान्यदेति वाच्यम् । अतीतधर्मस्यानुमितौ तत्तोल्लेखापत्तेः । इदन्तापि न
तन्मात्रवृत्तिगुणादिकम्, अनुमानादिना तदवगमेऽपि अयमिति व्यपदेशाभावात् । प्रत्यक्षेण तदवगमे अयमिति व्यपदेश इति चेत् , न । वाच्यस्य प्रमाणगोचरतया व्यपदेशस्य
नियन्तुमशक्यत्वात् । गुणादावपि तन्निर्वचने अननुगमात् । न चैतद्व्यक्त्याश्रयत्वम् , इदमेतदोः पर्यायत्वात् । नापि प्रत्यक्षज्ञानगोचरत्वम् । अचाक्षुषत्वापत्तेः । अतीते
तदनुमाने अयमिति बुद्धिव्यपदेशाभावात् , स्मृत्यापि तदुल्लेखापत्तेश्च ।

अत्र केचिदाहुः। तत्तेदन्ते स्मृत्यनुभवभासिन्यौ अखण्डे एवोपाधी क्लृप्तधर्मातिरेकिणौ । एवं चेदन्तासंस्कारेण इदन्तैव तत्तया स्मर्यते । न च तत्तायाः
क्वचिदनारोपे कथमारोप इति वाच्यम् । प्रत्यभिज्ञायां तत्तांशे यथार्थत्वात् । इदन्तानुल्लेख्यनुभवप्रभवस्मरणे धर्मान्तरमेव तत्तया भासते । अत एवायं घट इति न
स्मरणम्। अत एव सर्वा स्मृतिरयथार्था अयथार्थानुभवा च । हरिहराद्यनुचिन्तनं च कविकाव्यमूलज्ञानवत् मनोरथज्ञानवच्च साकाङ्क्षपदार्थज्ञानप्रभवमनुभवरूपमेवेति ।
तन्न । स्मृतेः पूर्वमिदन्तोपस्थितिं विना तत्र तत्तारोपासंभवात् । किं च तत्तांशेऽननुभूतगोचरत्वेन स्मृतेः संस्कारसीमालङ्घने इदन्ता तत्तया स्मर्यत इत्यत्र
मानाभावात्। घट एव तत्तया स्मर्यत इत्यस्तु लाघवात् इति ।

55

अत्रोच्यते । अनुभवे कालो धर्मान्तरं वा यो वर्तमानत्वेन विषयः स एव स्मरणस्य , अनुभवस्मरणयोरेकविषयत्वेऽपि स्मरणे तत्र तच्छब्दप्रयोगः ,
संस्कारजज्ञानस्यैव तच्छब्दप्रयोगहेतुत्वात् ।

अत एव प्रत्यभिज्ञाने तत्र तच्छब्दप्रयोगः , प्रत्यक्षानुभवे तत्रैव इदंशब्दप्रयोगः न तु विषयकृतोऽनुभवस्मरणयोर्विशेषः । अत एवायं घट इत्यनुभवादयं घट इति
न स्मरणम् , स घट इति स्मरणकारणं स घट इति नानुभवः ।

यद्वा अयं घट इत्यत्र यद्धर्मवैशिष्ट्यं भासते तस्यातीतत्वं तत्ता । तद्वैशिष्ट्यमननुभूतमपि स्मृतिविषयः । इदन्ताविशिष्टगोचरसंस्कारात् कथं तत्तास्मृतिरिति चेत्,
न। स घट इति स्मृतिं प्रत्यनुभवस्य हेतुत्वनिर्वाहकतया संस्कारस्य तथैव कल्पनात् । अयं घट इति स्मृतेः स घट इत्यनुभवस्यादर्शनाच्च । समानविषयत्वेन स्मृतेरयं
घट इति स्मृतिः न स घटइति नानुभवश्च स्यात् । न चैवं स्मृतिरननुभूततत्तांशेऽनुभवः स्यात् । संस्कारासाधारणकारणकत्वेन स्मृतित्वात् । सहप्रयोगश्च
धर्मविशेषमादाय प्रतिविधेयः । अत एव संस्कारहेत्वनुभवप्रामाण्यपारतन्त्र्येण यथार्थत्वेऽपि स्मृतिरप्रमेति सर्वतन्त्रसिद्वान्तः।
यद्वा नेयं यथार्था । तथा हि स्मृतिः स्वविषयवर्तमानत्वविषया अतीतानागतागोचरप्रतीतित्वात् प्रत्यभिज्ञावत् । प्रतीतित्वाद्वा घटोऽस्तीति प्रतीतिवत् । प्रतीतेः
समयविशेषविषयत्वनियमात् ज्ञानसामग्रीमहिम्ना चाननुभूतेऽपि समयांशे स्मृतिः, न तत्र संस्कारव्यापारोऽन्यथासिद्धत्वात् ।

अत एव पाकरक्ते श्यामोऽयमिति धियोऽयथार्थत्वव्यवहारः लौकिकानां श्यामत्वस्य वर्तमानत्वेनावगमात् ।
एतेन श्यामधीस्तत्र यथार्थैव घटे कदाचित् तत्सत्त्वात् इदानीमयं श्याम इत्याकार एव नेत्यपास्तम् ।

अत एवातीतानागतवह्न्यगोचरत्वे विद्यमानधूमेन पर्वते वह्निरित्यनुमितेः वर्तमानवह्निविषयत्वादिदानीं वह्निनिश्चयेन वह्न्यर्थिप्रवृत्तिः । अन्यथा इदानीं
तत्संदेहे प्रवृत्तिर्न स्यात् । यदा धूमस्तदा वह्निरिति व्याप्तावपि तदज्ञानदशायां प्रवृत्तेरन्यथानुपपत्तेः ।

यद्वा स घट इति स्मृतौ तत्ताविशिष्टस्य वर्तमानता भासते । संस्कारस्य वर्तमानज्ञानसामग्रीसहितस्यैव हेतुत्वात् , सोऽयमिदानीमित्यादौ तथा कल्पनात् , गेहे
स घट इति स्मरणान्निश्शङ्कप्रवृत्तेश्च । अन्यथा तत्ताविशिष्टस्य इदानीं संदेहे सा न स्यात् । न च वर्तमानत्वांशेऽननुभूतविषयत्वम् । वर्तमानत्वेनानागतवर्तमानस्य
पूर्वमनुभवात् ।

एवं च स्मृतेस्तथाभूतस्य वर्तमानता विषयः , तत्र विशेष्यस्य विशेषणस्य वा वर्तमानत्वाभावात् स्मृतिरयथार्थैव । न च पूर्वं तथा आसीदर्थ इति तद्यथार्थत्वम्।
पाकरक्ते श्यामोऽयमिति ज्ञानस्य यथार्थत्वप्रसङ्गात् ।

प्रमुष्टतत्तांशे च स्मरणे अविद्यमानधर्मावच्छेदो न भासते । तदाहुराचार्याः – “स्मृतेर्याथार्थ्यमपि कुतः” इति ।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे सविकल्पकवादः॥

Categories: Sanskrit

Tagged as: