Sanskrit Dictionary

ध्यानम् – Dhyanam

अग्निरुवाच

ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहुर्मुहुः ।
अनाक्षइप्तेन मनसा ध्यानमित्यभिधीयते ।। ३७४.१ ।।

आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च ।
ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते ।। ३७४.२ ।।

ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च ।
प्रत्ययान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते ।। ३७४.३ ।।

ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रचित् ।
ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना ।। ३७४.४ ।।

एवं ध्यानसमायुक्तः स्वदेहं यः परित्यजत् ।
कुलं स्वजनमित्राणि समुद्‌धृत्य हरिर्भवेत् ।। ३७४.५ ।।

एवं मुहूर्त्तमर्धं वा ध्यायेद् यः श्रद्ध्या हरिं ।
सोपि यां गतिमाप्नोति न तां सर्वैर्महामखैः ।। ३७४.६ ।।

ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं ।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित् ।। ३७४.७ ।।

योगाभ्यासाद्‌भवेन्मूक्तिरैश्वर्य्यञ्चाष्टधा महत् ।
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः ।। ३७४.८ ।।

विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ।
मूर्तामूर्त्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम् ।। ३७४.९ ।।

सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः ।
अणिमादिगुणैश्वर्य्यं मुक्तिर्ध्यानप्रयोजनम् ।। ३७४.१० ।।

फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं ।
गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन्निमिषन्नपि ।। ३७४.११ ।।

शुचिर्वाप्यशुचिर्वापि ध्यायेत् सततमीश्वरम् ।
स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम् ।। ३७४.१२ ।।

हृत्पद्मपीठिकामध्ये ध्यानयोगेन पूजयेत् ।
ध्यानयज्ञः परः शुद्धः सर्वदोषक्विर्ज्जितः ।। ३७४.१३ ।।

तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश्च नाध्वरैः ।
हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः ।। ३७४.१४ ।।

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।
तस्मादशुद्धं सन्त्यज्य ह्यनित्यं वाह्यसाधनं ।। ३७४.१५ ।।

यज्ञाद्यं कर्म्म सन्त्यज्य योगमत्यर्थमभ्यसेत् ।
विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं ।। ३७४.१६ ।।

चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं ।
तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः ।। ३७४.१७ ।।

ध्यायेत्त्रिमण्डलं पूर्वं कृष्णां रक्तं सितं क्रमात् ।
सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः ।। ३७४.१८ ।।

ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् ।
ऐश्वर्य्यं पङ्कजं दिव्यं पुरुषोपरि संस्थितं ।। ३७४.१९ ।।

द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितम् ।
नालमष्टङ्गुलं तस्य नाभिकन्दसमुद्भ्वं ।। ३७४.२० ।।

पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् ।
कर्णिकाकेशरं नालं ज्ञानवैराग्यभुत्तमम् ।। ३७४.२१ ।।

विष्णुधर्म्मश्च तत्कन्दमिति पद्मं विचिन्तयेत् ।
तद्धर्मज्ञानवैराग्यं शिवैश्वर्य्यमयं परं ।। ३७४.२२ ।।

ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् ।
तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृति ।। ३७४.२३ ।।

अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं ।
कदम्वगोलकाकारं तारं रूपमिव स्थितं ।। ३७४.२४ ।।

ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः ।
प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं ।। ३७४.२५ ।।

ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं ।
मनःस्थित्यर्थमिच्छन्ति स्थूलध्यानमनुक्रमात् ।। ३७४.२६ ।।

तद्‌भूतं निश्चलीभूतं लभेत् सूक्ष्मेऽपि संस्थितं ।
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं ।। ३७४.२७ ।।

नालेनाष्टदलं पद्म द्वादशाङ्गुलविस्तृतं ।
सकर्णिके केसराले सूर्य्यसोमाग्निमण्डलं ।। ३७४.२८ ।।

अग्निमण्डलमध्यस्थः शङ्खक्रगदाधरः ।
पद्मी चतुर्भुजो विष्णुरथवाष्टभुजो हरिः ।। ३७४.२९ ।।

शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः ।
स्वर्णबर्णः श्वेतवर्णः सश्रीवत्सः सकौस्तुभः ।। ३७४.३० ।।

वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः ।
रत्नोज्जवलकिरीटश्च पीताम्बरधरो महान् ।। ३७४.३१ ।।

सर्व्वाभरणभूषाढ्यो वितस्तिर्वा यथेच्छया ।
अहं ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ओं ।। ३७४.३२ ।।

ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश्च चिन्तयेत् ।
जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति ।। ३७४.३३ ।।

जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोड़शीं ।
जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ।।

भुक्तिर्मुक्तिर्मृत्युजयो जपेन प्राप्नुयात् फलं ।। ३७४.३४ ।।

आग्नेये महापुराणे ध्यानं नाम चतुःसप्तत्यधिकत्रिशततमोऽध्यायः ॥

Source: अग्निपुराणम्

Advertisements

Categories: Sanskrit Dictionary

Tagged as: