Sanskrit Dictionary

प्रमाण – Pramana

प्रत्यक्षानुमानागमाः प्रमाणानि॥1.7॥

तत्र प्रमाणवृत्तिं विभजन् सामान्यलक्षणम् आह — प्रत्यक्षानुमानागमाः प्रमाणानि। अनधिगततत्त्वबोधः पौरुषेयो व्यवहारहेतुः प्रमा। तत्कारणं प्रमाणम्।

विभागवचनं च न्यूनाधिकसंख्याव्यवच्छेदार्थम्। तत्र सकलप्रमाणमूलत्वात् प्रथमतः प्रत्यक्षं लक्षयति — इन्द्रियेति। अर्थस्येति समारोपितत्वं निषेधति। तद्विषयेति बाह्यगोचरतया ज्ञानाकारगोचरत्वं निवारयति। चित्तवर्तिनो ज्ञानाकारस्य बाह्यज्ञेयसंबन्धं दर्शयति — बाह्यवस्तूपरागाद् इति। व्यवहितस्य तदुपरागे हेतुम् आह — इन्द्रियप्रणालिकयेति। सामान्यमात्रम् अर्थ इत्य् एके। विशेषा एवेत्य् अन्ये। सामान्यविशेषतद्वत्तेत्य् अपरे वादिनः प्रतिपन्नास् तन्निरासायाह — सामान्यविशेषात्मन इति। न तद्वत्ता किं तु तादात्म्यम् अर्थस्य। एतच् चैकान्तानभ्य्पगम इत्य् अत्र प्रतिपादयिष्यते। अनुमानागमविषयात् प्रत्यक्षविषयं व्यवच्छिनत्ति — विशेषावधारणप्रधानेति। यद्य् अपि सामान्यम् अपि प्रत्यक्षे प्रतिभासते तथापि विशेषं प्रत्युपसर्जनीभूतम् इत्य् अर्थः। एतच् च साक्षात्कारोपलक्षणपरम्। तथा च विवेकख्यातिर् अपि लक्षिता भवति। फलविप्रतिपत्तिं निराकरोति — फलं पौरुषेयश् चित्तवृत्तिबोध इति। ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम्। न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्य् अत आह — अविशिष्ट इति। न हि पुरुषगतो बोधो जन्यते, अपि तु चैतन्यम् एव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्यार्थाकारया तदाकारताम् आपद्यमानं फलम्। तच् च तथाभूतं बुद्धेर् अविशिष्टं बुद्ध्यात्मकं, वृत्तिश् च बुद्ध्यात्मिकेति सामानाधिकरण्याद् युक्तः प्रमाणफलभाव इत्य् अर्थः। एतच् चोपपादयिष्याम इत्य् आह — प्रतिसंवेदीति। प्रत्यक्षानन्तरं प्रवृत्त्यादिलिङ्गकश्रोतृबुद्ध्यनुमानप्रभवसंबन्धदर्शनसमुत्थतयागमस्यानुमानजत्वाद् अनुमितस्य चागमेनान्वाख्यानाद् आगमात् प्राग् अनुमानं लक्षयति — अनुमेयस्येति। जिज्ञासितधर्मविशिष्टो धर्म्यनुमेयस् तस्य तुल्यजातीयाः साध्यधर्मसामान्येन समानार्थाः सपक्षास् तेष्व् अनुवृत्त इत्य् अनेन विरुद्धत्वम् असाधारणत्वं च साधनधर्मस्य निराकरोति। भिन्नजातीया असपक्षास् ते च सपक्षाद् अन्ये तद्विरुद्धास् तदभाववन्तश् च, तेभ्यो व्यावृत्तस् तद् अनेन साधारणानैकान्तिकत्वम् अपाकरोति। संबध्यत इति संबन्धो लिङ्गम् अनेन पक्षधर्मतां दर्शयन्न् असिद्धतां निवारयति। तद्विषया तन्निबन्धना, “षिञ् बन्धने” [धातुपाठः 5] इत्य् अस्माद् विषयपदव्युत्पत्तेः। सामान्यावधारणेति प्रत्यक्षविषयाद् व्यवच्छिनत्ति। संबन्धसंवेदनाधीनजन्मानुमानं विशेषेषु संबन्धग्रहणाभावेन सामान्यम् एव सुकरसंबन्धग्रहणं गोचरयतीति। उदाहरणम् आह — यथेति। चो हेत्वर्थे। विन्ध्यो ऽगतिर् यतस् तस्मात् तस्याप्राप्तिर् अतो गतिनिवृत्तौ प्राप्तेर् निवृत्तिर् देशान्तरप्राप्तेर् गतिमच् चन्द्रतारकं चैत्रवद् इति सिद्धम्। आगमस्य वृत्तेर् लक्षणम् आह — आप्तेनेति। तत्त्वदर्शनकारुण्यकरणपाटवाभिसंबन्ध आप्तिस् तया वर्तत इत्य् आप्तस् तेन दृष्टोऽनुमितो वार्थः। श्रुतस्य पृथग् अनुपादानं तस्य दृष्टानुमितमूलत्वेन ताभ्याम् एव चरितार्थत्वाद् आप्तचित्तवर्तिज्ञानसदृशस्य ज्ञानस्य श्रोतृचित्ते समुत्पादः स्वबोधसंक्रान्तिस् तस्यै, अर्थ उपदिश्यते श्रोतृहिताहितप्राप्तिपरिहारोपायतया प्रज्ञाप्यते। शेषं सुगमम्। यस्यागमस्याश्रद्धेयार्थो वक्ता, यथा यान्य् एव दश दाडिमानि तानि षड् अपूपा भविष्यन्तीति। न दृष्टानुमितार्थो यथा चैत्यं वन्देत स्वर्गकाम इति। स आगमः प्लवते। नन्व् एवं मन्वादीनाम् अप्य् आगमः प्लवेत। न हि तेऽपि दृष्टानुमितार्थाः। यथाहुः —

“यः कश्चित् कस्यचिद् धर्मो मनुना परिकीर्तितः। स सर्वोऽभिहितो वेदे सर्वज्ञानमयो हि सः।” [मनुस्मृतिः 2.7]

इत्य् अत आह — मूलवक्तरि त्व् इति। मूलवक्ता हि तत्रेश्वरो दृष्टानुमितार्थ इत्य् अर्थः॥1.7॥


Source : पातञ्जलसूत्राणि। श्रीवाचस्पतिमिश्रविरचितायां पातञ्जलयोगसूत्रभाष्यव्याख्या

Categories: Sanskrit Dictionary

Tagged as: