Tattva Chintamani

मङ्गलवादः-Mangala Vada [तत्त्व चिन्तामणिः-Tattva Chintamani – Gangesh Upadhya – प्रत्यक्षखण्डः]

प्रत्यक्षखण्डः

॥ मङ्गलवादः ॥

गुणातीतोऽपीशस्त्रिगुणसचिवस्त्र्यक्षरमय-
स्त्रिमूर्तिर्यः सृष्टिस्थितिविलयकर्माणि तनुते ।
कृपापारावारः परमगतिरेकस्त्रिजगतां
नमस्तस्मै कस्मैचिदमितमहिम्ने पुरभिदे ॥ 1 ॥

अन्वीक्षानयमाकलय्य गुरुभिर्ज्ञात्वा गुरूणां मतं
चिन्तादिव्यविलोचनेन च तयोः सारं विलोक्याखिलम् ।
तन्त्रे दोषगणेन दुर्गमतरेे सिद्धान्तदीक्षागुरु-
र्गङ्गेशस्तनुते मितेन वचसा श्रीतत्त्वचिन्तामणिम् ॥ 2॥

यतो मणेः पण्डितमण्डनक्रिया
प्रचण्डपाषण्डतमस्तिरस्क्रिया ।
विपक्षपक्षे न विचारचातुरी
न च स्वसिद्धान्तवचोदरिद्रता ॥ 3॥


इह खलु सकलशिष्टैकवाक्यतया अभिमतकर्मारम्भसमये तत्समाप्तिकामा मङ्गलमाचरन्ति । तत्र यद्यपिमङ्गलस्य कारणता नान्वयव्यतिरेकगम्या, मङ्गलं
विनापि प्रमत्तानुष्ठितसमाप्तेः । न च तत्र जन्मान्तरीयतत्कल्पनम् ; अन्योन्याश्रयात्, लोकावगतकारणेनान्यथासिद्धेश्च। नापि मङ्गलं – सफलम् – अविगीतशिष्टाचारविषयत्वात्
दर्शवदिति फलसिद्धौ, प्रारिप्सितसमाप्तेस्तदानीमपेक्षितत्वेन नियमेनोपस्थितत्वात्, फलान्तरस्यातथाभावात्, विश्वजिन्न्यायेन फलकल्पने गौरवात् , परिशेषानुमानेन
तत्कारणताग्रहः। व्यभिचारेण कारणत्वस्याभावात् उपायसहस्रेणापि ग्रहीतुमशक्यत्वात् । तथापितथाविधशिष्टाचारानुमितश्रुतिरेव मङ्गलस्याभिमतहेतुत्वे मानम् । न
च व्यभिचारः, निष्परिपन्थिश्रुत्या मङ्गलं समाप्तिसाधनमिति प्रमापिते तत्रापि तयैव लिङ्गेन जन्मान्तरीयतदनुमानात् ।

तच्चेदं- आरब्धकर्माङ्गम् – कर्मार्थितया शिष्टैस्तत्पूर्वं क्रियमाणत्वात् , फलान्तराभावे सति फलवत्कर्मारिप्समानेन नियमतस्तत्पूर्वं क्रियमाणत्वाच्च, दर्शे
प्रयाजादिवत्। आचारमूलकश्रुत्यनुमानाभ्यां तदर्थितया तत्फलकर्तव्यत्वबोधनात् , तत्फलकत्वबोधनाच्च। दर्शारम्भसमये नियमेन क्रियमाणाया अप्यारम्भणीयायाः
तदर्थितया अक्रियमाणत्वात्, फलान्तरश्रवणाच्च प्रधानत्वमिति न तया व्यभिचारः। ननु मङ्गलमलौकिकं लौकिके नाङ्गं भवति, लोकावगतकारणत एव तदुपपत्तेः ।
अत एव गृहरथादौ “आरे भग्रे इन्द्रबाहुर्र्बद्धव्यः” “पायसं ब्राह्मणो भोजयितव्यः” इत्यत्र तदुभयं नाङ्गम् , किं तु नैमित्तिकम् । तद्वदिदमप्यारम्भसमयनिमित्तकमस्तु।
विश्वजिन्न्यायात् स्वर्गः फलमिति चेत् ,न। तस्यापूर्वरूपोपकारजनकाङ्गविषयत्वात् । अयं तु प्रतिबन्धकाभावरूप उपकारः ।

तस्य च लोकावगतकारणसहकारितैव । प्रतिबन्धके सति तस्मात्तदनुत्पतेः । अपूर्वं तु न तथा । विघ्नध्वंसद्वारा चेदमङ्गम् , न तु “इडो यजति”
इत्यादिविधिबोधितप्रयाजाद्यङ्गयागवददृष्टद्वारा। मङ्गलजन्यादृष्टं विनापि स्वतःसिद्धविघ्नविरहवत आरब्धनिर्वाहात् । न चैवं विघ्नध्वंसद्वारापि नेदमङ्गम् , तत्रैव
व्यभिचारादिति वाच्यम् । सति विघ्नेे तद्ध्वंसद्वारा तस्याङ्गत्वात् । न चैवं प्रयाजादेरपि दुरितध्वंस एव द्वारम् , कल्प्यदुरितध्वंसतः अपूर्वस्य लघुत्वात्।
वस्तुतस्तु प्रायशो विघ्नसंशये तन्निश्चयेे वा नियमेन शिष्टानां मङ्गलाचरणे विघ्नाभाव एव द्वारत्वेनाभिमतः । निर्विघ्नंं समाप्यतामिति कामनया तत्करणपक्षे
श्रुतित एव (द्वारत्व) तद्द्वारत्वनिर्णयः । किं चापूर्वे द्वारत्वे लौकिकाङ्गत्वविरोधः , क्लृप्तकारणादेव तदुत्पत्तेरिन्द्रबाहुबन्धनवत्।
ननु विघ्नसंदेहे कथं तन्नाशार्थं प्रवृत्तिः, दुरितध्वंसार्थिप्रवृतौ तन्निश्चयस्य हेतुत्वात् प्रायश्चित्तवदिति चेत् , न। विघ्नसंशये निश्चये वा नियमेन शिष्टानां
मङ्गलाचारात् विघ्नज्ञानं प्रवर्तकम् । तादृशाचारानुमितविधिनापि विघ्नज्ञानवानारब्धसमाप्तिकामोऽधिकारी बोध्यते । प्रायश्चित्ते तु तन्निश्चयवान् , तथैव
विधिबोधनात्। अत एवाधिकारिविशेषणं विघ्न इति तत्संदेहे कथं प्रवृत्तिः, वैदिकेऽधिकारनिश्चयादेव प्रवृत्तेरित्यपास्तम् । यतः प्रधानाधिकारिण एवाङ्गेऽधिकारो न
स्वतन्त्रः, अङ्गत्वभङ्गप्रसङ्गात् । न च प्रधाने प्रारिप्सिते दुरितमधिकारिविशेषणम्, विरोधात्। किं तु समाप्तिकामना । सा च निश्चितैव।

यत्त्वन्यत्र निश्चिताधिकारकर्तृत्वेऽपि मङ्गलं संदिग्धाधिकारकृर्तृकमेव , विघ्नसंदेहवतां शिष्टानामाचारानुमितवेदेन तथैव बोधनादिति । तन्न । विघ्नवत्त्वेनाधिकाराभावात्।
क्वचित्तन्निश्चयेऽपि प्रवृत्तेश्च । अपि च शङ्कितानिष्टवारणार्थमपि प्रवर्तन्ते परीक्षकाः, यथा सर्पादिदंशजन्यविषसंशये तन्नाशाय भेषजपानादौ । किं च फलस्य
संशयेऽप्युपायत्वनिश्चयाद्यथा कृष्यादौ प्रवृत्तिस्तथा मङ्गलेऽपि। यदि च वृष्ट्यादौ सति कृष्यादितोऽवश्यं फलमिति तर्कात्तत्र प्रवृत्तिस्तदा सति विघ्ने मङ्गलादवश्यं
फलमिति तर्कादत्रापि प्रवृत्तिः ।

ननु स्फ्यस्य भक्ताश्लेेषनिमित्तेज्यायामिष्टित्वेन दर्शधर्मत्वे सत्यतिदेशागतपूर्वदिनकर्तव्यदेवतावाहनस्याङ्गस्य स्फ्याश्व्लेेषद्वारसंशयेऽननुष्ठानमुक्तम् , यथा कृष्णले
द्वारबाधे । अतो विघ्नसंशयात्तद्ध्वंसद्वारसंशये कथं मङ्गलानष्ठानमिति चेत् , न। नैमित्तिके हि निमित्तवानधिकारी, यथा ‘ भिन्ने जुहोति’ इत्यत्र पात्रभेदवान्।
तथेहाश्लेेेषवानधिकारीति पूर्वदिने आश्लेषनिश्चयाभावात् युक्तमननुष्ठानम् ।

अपि चेज्याकर्तव्यतानिश्चये तदनुष्ठानम् । न चाश्लेषसंशये तन्निश्चयः पूर्वदिने । अतः प्रधानेऽधिकाराभावान्नाङ्गेऽधिकार इति नावाहनं पूर्वदिने । यदि च “यदि
न स्यात्” इति न्यायेन कुर्यात् तदा अनधिकृतकर्तृकत्वेन निष्फलं स्यात्। स्फ्याश्लेषे सतीज्याकर्तव्यतानिश्चयेऽपि नावाहनम् , पूर्वदिनस्याङ्गस्याभावादिति इज्यायामावाहनबाध
एव। मङ्गले तु विघ्नज्ञानवानधिकारीत्युक्तम्। तच्च संशयेऽप्यस्ति। प्रधाने कर्तव्यतानिश्चयोऽस्त्येवेति द्वारसंदेहेऽपि युक्तमनुष्ठानम्। भविष्यद्विवाहादावाभ्युदयिकेऽपि
तज्ज्ञानवानधिकारी तथैवाचारात्।

नन्वङ्गानां प्रधानविधिविधेयत्वम् । न च ग्रन्थादिसमाप्तौै प्रधानविधिरस्ति। न च तत्कर्तव्यताबोधकस्य लौकिकप्रमाणस्य शास्त्रमेकदेशो युज्यते । तस्य
तन्निरपेक्षत्वादिति चेत् , न। अपूर्वजनकाङ्गानां तथात्वात् ,आचारानुमितश्रुत्या प्रधानविधिं विनापि तदङ्गत्वविधानाच्च।

अपि च प्रधानकर्तव्यताबोधकबोध्यकर्तव्यताकत्वंं प्रयोजकम् । तच्चेहाप्यस्ति, प्रतिबन्धकाभावस्य सकलकार्यहेतुत्वेन लौकिकप्रमाणस्यापि तत्सापेक्षत्वात्।
ननु यागादिवत् प्रधानदेशकालान्वयस्तदङ्गे मङ्गले स्यादिति चेत् , न । असाधारणेऽपूर्वजनके चाङ्गे तदन्वयात्। अत एव बद्धशिखत्वादौ न प्रधानदेशकालन्वयः।
न च दुरिताभावे स्वतसिद्धे साङ्गमङ्गलानुष्ठानं निष्फलमिति तद्वेदाप्रामाण्यम् । लोकावगतकारणे हि दुरिते सति वेदेन तस्य तद्ध्वंसजनकत्वं बोध्यते, न तु
तदुल्लङ्घ्यम्। अत एव त्तत्त्वज्ञनवतो भोगार्थं निषिद्धानुष्ठानं दोषाभावान्नाधर्मजनकमिति न तद्वेदाप्रामाण्यम्। प्रमाणान्तरात् स्वतःसिद्धदुरिताभावावगतौ मङ्गलाकरणे
नित्यवदनुष्ठानं शिष्टानां भज्येतेति चेन्न। विघ्नज्ञानवतो नित्यवदनुष्ठानादिति संप्रदायः।

मैवम् , मङ्गलं विनापि प्रमत्तानुष्ठितसमाप्तेः। न च तेन विनापि सिध्यतस्तदङ्गम् । न च जन्मान्तरीयं तत् , जन्मान्तरीयग्रन्थादिकमुद्दिश्य शिष्टैस्तदकरणात्।
ननु यथा पुत्रेष्टौ कर्मसाद्गुण्ये ऐहिकफलाभावे आमुष्मिकं फलं तथा साङ्गेऽपि मङ्गले यत्र न फलं तत्रामुष्मिकफलमिति चेत् , न। तत्र पुत्रमात्रस्य कामनाश्रवणात्।
इह तु प्रारिप्सितसमाप्तिकामनया मङ्गलाचार इति तथैव वेदानुमानात् कारीरीवदासन्नसमयारब्धसमाप्तिः फलम् ।

नन्वासन्नसमयस्तत्संफ्रान्धो वा न मङ्गलजन्य इति समाप्तिमात्रं जन्यम् । तच्चैहिकामुष्मिकसाधारणमिति चेत् , न। आसन्नसमयस्य स्ववृत्तिसमाप्त्युपलक्षकत्वात्।
अन्यथा कारीर्यपि नासन्नसमयफला स्यात् । तस्मात् व्यभिचारान्न तदङ्गमिति।

अन्ये तु मङ्गलं प्रधानम् ,अदृष्टद्वारा आरब्धकर्मसमाप्तिः फलम् , तत्कामोऽधिकारी । क्वचित्तु फलाभावः कर्मादिवैकल्यात् , कारीरीवत् । न चान्यदापि
करणम्। नियतकालीनतादृशाचारेण फलवत्कर्मारिप्समानस्तत्समाप्तिकामो मङ्गलमाचरेदिति श्रुत्या आरम्भसमयकर्तव्यताबोधनात् । यथा “आग्नावैष्णवमेकादशकपालं
चरुं निर्वपेद्दर्शपूर्णमासावारिप्समानः” इति श्रुत्या आरम्भणीयेष्टेः प्रधानायाः दर्शारम्भसमयकर्तव्यत्वम् ।

कामनोपाधिकार्यत्वेऽप्यारम्भसमये नित्यमनुष्ठानम् । आरब्धकर्मसमाप्त्यर्थिनोपायत्वेनावश्यं तदनुष्ठानात् । न च काम्यत्वे परिसमाप्तिकामनां विना फलवत्कर्मारम्भेऽपि
तदनुष्ठानं न स्यादिति वाच्यम् । ‘ समाप्तं कर्म फलायालमि’ ति फलार्थिनः समाप्तौ कामनावश्यम्भावादिति ।

तन्न। कारीरीजन्यातिशयवत् विहितप्रधानजन्यातिशयत्वात् मङ्गलजन्यापूर्वस्यापि फलासम्पादकाशेषकारणसम्पादकतया आरब्धकर्मसमाप्त्यवश्यम्भावापत्तेः
फलावश्यम्भावनिश्चयं विना वैदिककर्माननुष्ठानात् । न चैवम् , भूयसि साङ्गेऽपि मङ्गले क्वचिदारब्धसमाप्त्यभावात् । न च तत्रामुष्मिकं फलम् , ऐहिकमात्रफलत्वात्।
वैदिककर्मणः फलावश्यम्भावेनागन्तुकदुरितेनाप्यप्रतिबन्धात्।

किञ्च यथा कारीर्यादिकमग्रिमपुरुषव्यापारं विनैव फलहेतुः , तथा मङ्गलमपि तेन विनैव हेतुः स्यात् । न चैवम् । लोकावगतकारणत्वात्तदपेक्षेति चेत् , तर्हि
स एव हेतुरस्तु , किमनेन । आरब्धकर्मजनकादृष्टकारणसंपत्तौ पुत्रेष्टिवत्तत्समाप्तिसाधनत्वं श्रुत्या बोध्यत इति चेत् , न । तत्र दृष्टकारणसंपत्तौ पुत्रानुत्पादाददृष्टद्वारा
पुत्रेष्टेस्तज्जनकत्वमस्तु। न च कर्मनिर्वाहे दृष्टसकलहेतुसंपत्तौ विलम्बः, येन मङ्गलजन्यादृष्टापेक्षा स्यात् ।

अपि च मङ्गलं विनापि प्रमत्तनास्तिकानुष्ठितसमाप्तेः न तत्तत्र कारणम् । जन्मान्तरीयपुण्यसम्पत्तिस्तत्र हेतुरिति चेत् , न । तथापि व्यभिचारात् । क्वचित्
पुण्यसम्पत्तिः क्वचिन्मङ्गलं हेतुरिति व्रीहियववद्विकल्प एवेति चेत् , तर्हि तत्सम्भावनया मङ्गलानुष्ठानं न स्यात् , यवप्रयोगे व्रीहेरिव । विकल्पे चोभयस्याशास्त्रार्थत्वात्।
ननु विधिवाक्यं न फलनियतपूर्वसत्त्वं बोधयति, किं तु मङ्गलात् फलावश्यम्भावमिति चेत् , न । इष्टसाधनत्वस्य विध्यर्थत्वात् । अथान्वयव्यतिरेकाभ्यां
तद्ग्रहे व्यभिचारो दोषाय, न त्वागमेेन तद्ग्रहे । तदुक्तम् ‘ आगममूलत्वाच्चास्यार्थस्य व्यभिचारो न दोषाये’ ति । अत एव यागादेः स्वर्गसाधनतेति चेत् , न ।
नियतपूर्वसत्त्वस्य ग्राह्यस्याभावादागमेनापि बोधयितुमशक्यत्वात् । यागजनितस्वर्गे कारीरीजनितवृष्टौ च जातिविशेष एवास्ति ।

अपरे तु मङ्गलस्यारब्धनिर्वाहकत्वं विघ्नसंसर्गाभावद्वारा , तथैव प्रतिबन्धकाभावस्य हेतुत्वात् । स चाभावः सतो विघ्नस्य ध्वंसोऽनागतस्यानुत्पादश्च
कर्मनिर्वाहसमयस्थायी । विघ्नकारणविनाशद्वारा प्रागभावस्य साध्यत्वम् । यस्मिन् सत्यग्रिमक्षणे यस्य सत्त्वम् , यद्व्यतिरेके चासत्त्वम् , तदेव तस्य तज्जन्यत्वं न
त्वसतः सत्त्वं , गौरवात् । अस्ति च विघ्नकारणनाशे सति विघ्नप्रागभावस्य तथात्वम्। तावति समये दुरितानुत्पादश्च न साक्षान्मङ्गलजन्य इत्यदृष्टद्वारा तथा। एवं
निर्विघ्नं समाप्यतमिति कामनया तदाचारोऽपि संगच्छते । अत एव यत्र विघ्नाभावः स्वतः सिद्धः तत्र मङ्गलस्याकिञ्चित्करत्वेन वेदाप्रामाण्यमिति निरस्तम्।
अनागतविघ्नाभावस्य तत्रापि साध्यत्वात् ।

‘ सर्वे विघ्नाः शमं यान्ति’ इति यत्र विनायकस्तवपाठादौ श्रुतमस्ति तत्र तत एव प्रमत्तानुष्ठितसमाप्तेरनादौ संसारेऽवश्यं तदाचारात् । तथा च तेन समं
मङ्गलस्य विकल्प एव । यत्र च साङ्गे मंङ्गले सत्यपि न फलं तत्र विघ्नभूयस्त्वादिति ।

तन्न । विघ्नानुत्पादस्य व्यापारत्वे मानाभावात् । संसर्गाभावत्वेन हेतुत्वात् तथैव व्यापारत्वम् , तच्च प्रागभावेऽप्यस्तीति चेत् , न। अत्यन्ताभावस्यापि
व्यापारत्वापत्तेः। स्वतस्सिद्धस्य न हेतुत्वं यदि, तदा प्रागभावेऽपि तुल्यम् ।

किञ्च यत्र मङ्गलं न तत्र नियमेन विघ्नकारणमस्ति, येन तन्नाशद्वारा प्रागभावस्य साध्यत्वम् । एवमपि यत्र विघ्नानुत्पादोऽपि स्वतस्सिद्धस्तत्र मङ्गलमकिञ्चित्करमेव।
विघ्नध्वंसानुत्पादयोरारब्धनिर्वाहकालावस्थायिनोर्मङ्गलादेवोत्पत्तेर्न तदर्थमदृष्टद्वारता । मङ्गलस्य विकल्पेनान्वये शिष्टैर्नियमतो मङ्गलानुष्ठानं न स्यादित्युक्तम् ।
किञ्च प्रधानत्वे साङ्गमङ्गलमात्रं न समाप्तिहेतुः , तस्मिन् सत्यपि तदभावात् । प्रचितं तथेति चेत् , न । अप्रचितादपि फलसत्त्वात् । नोभयम्, अननुगमात् ।
गुरुकर्मारम्भे प्रचितम् , अल्पकर्मारम्भेऽल्पमिति चेत् , न । क्वचित्तादृशादपि फलासत्त्वात्, वैपरीत्येऽपि फलसत्त्वाच्च। एतेन बहुविघ्नशङ्कया बहुतरम् , अल्पविघ्नशङ्कया
अल्पतरं च हेतुः, तादृशाचारेण तादृशश्रुत्युन्नयनादिति निरस्तम् । तादृशादपि प्रारिप्सितासमाप्तेः, वैपरीत्येऽपि समाप्तेश्च। बहुत्वस्य त्रिचतुरादिभावेन अल्पत्वस्य
चैकद्व्यादिरूपतया अननुगमेन तादृशशिष्टाचारेण तादृशश्रुत्या बोधयितुमशक्यत्वाच्च। तस्मान्मङ्गलं नाङ्गम् , न वा प्रधानमिति पूर्वपक्षसंक्षेपः ॥

इति मङ्गलवादपूर्वपक्षः

अथ मङ्गलवादसिद्धान्तः

सिद्धान्तस्तु – आरब्धाकर्मसमाप्तौ मङ्गलं नाङ्गम् , न वा प्रधानम् , अहेतुत्वात् । किं तु प्रायश्चित्तवत् प्रधानं, विघ्नध्वंसः फलम् । आरब्धकर्मनिर्वाहे विघ्नो
मा भूदिति कामनया तदनुष्ठानात् । विघ्नस्य संशये निश्चये वा शिष्टानां तदाचरणाद्विघ्नाभावस्याकाङ्क्षितत्वाच्च । यदि च निवर्विघ्नं समाप्यतामिति कामनया
तदाचरणम् , तदापि नागृहीतविशेषणन्यायेन अहं स्वर्गी स्यामित्यत्र स्वर्ग इव विघ्नाभाव एव फलं न समाप्तिः, उभयतो व्यभिचारात् । समाप्तिस्तु विघ्नरूपप्रतिबन्धकाभावे
सति लोकावगतस्वकारणादेव। प्रचिताप्रचितदेवतास्तुत्यादिसाङ्गमङ्गलात् प्रत्येकं विघ्नध्वंसो भवत्येव । अतो वैदिके फलनिश्चयान्मङ्गले प्रवृत्तिः। न च वेदाप्रामाण्यम्।
समाप्त्यभावश्च क्वचित् प्राचीनविघ्नभूयस्त्वात् , क्वचिन्मङ्गलानन्तरोत्पन्नविघ्नात् , क्वचिल्लोकावगतकारणाभावात्। प्रारिप्सितविघ्नध्वंसश्च न मङ्गलं
विना। न च प्रायश्चित्तेन शङ्कितविघ्नविनाशः, विघ्नसंशये तदनुपदेशात्। न च कामनोपाधिकर्तव्यत्वे नियतमनुष्ठानं न स्यादिति वाच्यम्।
आरब्धकर्मकारणप्रतिबन्धकाभावोपायत्वेनावश्यं तदनुष्ठानात् । तेन विना प्रतिफ्रान्धकाभावाभावात् कर्मानुत्पत्तेः। न च प्रधानत्वेनान्यदापि तत्करणम्।
नियतसमयशिष्टाचारानुमितश्रुत्या कर्मारम्भसमये तत्कर्तव्यत्वबोधनात् , दर्शारम्भसमये तत्कर्तव्यत्वबोधनात् दर्शारम्भसमये आरम्भणीयावत्।
विघ्नसंसर्गाभावश्च समाप्तिहेतुः। स च क्वचित् स्वतः सिद्धः क्वचिन्मङ्गलसाध्यः। अत एव मङ्गलं विनापि जन्मान्तरानुवर्तमानविघ्नात्यन्ताभावात्
प्रमत्तनास्तिकानुष्ठितसमाप्तिः। न चानध्यवसायः। शङ्कितविघ्नवारणार्थं प्रवृत्तिरतोे यावद्विघ्नशङ्कं तदाचरणात्। अत एव तच्छङ्कया मध्येऽपि तदाचरन्ति।
गुर्वारम्भेऽपि बहुविघ्नशङ्कया बहुमङ्गलाचरणम्। यथा च विघ्नसंशयेऽपि प्रवृत्तिस्तथोक्तमेव ।

स्यादेतत्। मङ्गलमाचरेदिति विधौ किं मङ्गलत्वम्। न तावद्देवतास्तुत्यादित्वम् ,अननुगमात्। नापि प्रारिप्सितप्रतिबन्धकविघ्नोपशमहेतुक्रियात्वम् ,
विघ्नोत्सारणासाधारणकारणत्वं वा। क्रियाविशेषस्य तदसाधारणकारणस्य वा स्तुत्यादेर्वेदाद्विशिष्टापरिचये प्रवृत्तिविषयालाभात्। नापि निर्विघ्नं समाप्यतामिति कामनया
शिष्टाचारविषयत्वम् , वेदस्याचारानुपजीवकत्वात्, वेदादाद्याचारानुपपत्तेश्च,अन्योन्याश्रयात्। नापि तत्कामनया वेदविहितत्वम् , प्रारिप्सितकर्मनिर्वाहकत्वे सति कर्मारम्भकाले
विहितवैैदिककर्मत्वं वा, तादृशवेदान्तराभावात्। नापि स्मृत्यादौ मङ्गलत्वेनोत्कीर्तितत्वम् , वेदस्य स्मृत्यनुपजीवकत्वात्। स्मृतिकर्तुरेव वेदादाद्याचारानुपपत्तेश्च।
उच्यते । मङ्गलमाचरेदिति न विधिः। किं तु निर्विघ्नसमाप्तिकामो देवतास्तुतिमाचरेदित्यादि प्रत्येकमेव विधिः। तथैव शिष्टाचारात्। तदुपजीव्य निर्विघ्नमारब्धंं
परिसमाप्यतामिति कामनया तद्विघ्नोपशमहेतुत्वेन वा वेदविहितत्वं मङ्गलत्वमित्यधिगम्य देवतास्तुतिनमस्कारादिषु मङ्गलव्यवहारः शिष्टानामिति। अत एव दुरितनाशकमपि
गङ्गास्नानादि न मङ्गलम्। तथा अविधानात्।

“मङ्गलाचारयुक्तानां नित्यं च प्रयतात्मनाम्।

जपतां जुह्वतां चैव विनिपातो न विद्यते ॥”

इत्यनेन बोधितादर्शदर्शनादेः पृथगेव मङ्गलत्वम्, न विघ्ननिवर्तकतया । तत्र नानार्थतैव। अन्यथा ग्रन्थारम्मे नमस्कारतुल्यतया तत्करणप्रसङ्गः।
अथशब्दो विघ्ननिवर्तकत्वान्मङ्गलमेव।

“ओंकारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्वा विनिर्यातौ तेन माङ्गलिकावुभौ॥”

इति स्मृतेः। न च शुभसूचकत्वमेव तस्य, शास्त्रारभ्मे महर्षिणा तदनुपादानप्रसङ्गात्। गुणवत्तया ज्ञापनं स्तुतिः। यमुद्दिश्य यस्य स्वापकर्षबोधनानुकूलो
व्यापारविशेषः स तस्य नमस्कारः। व्यापारे च कायिकवाचिकमानसिकरूपे विशेषो जातिविशेष एवानुभवसाक्षिकः। करशिरस्संयोगमात्रे तदव्यवहारात्, भवतोऽहमपकृष्ट
इत्यादिवचने तदव्यवहाराच्च।

यद्वा कायिकादौ प्रत्येकमेव विधिकल्पनमतो नानार्थतैव।
यत्तु बुद्धिविशेषपूर्वकत्वज्ञानं विना कायिकादौ न तव्द्यवहार इति स एव वाच्योऽन्यत्र लक्षणेति, तन्न। कायिकादिव्यापारविशेषमनवगम्य बुुद्धिविशेषपूर्वकत्वाज्ञानात्।
स्वीकृतवेदप्रमाणभावः शिष्टः। आचारे च वेेदानिषिद्धत्वमविगीतत्वं विशेषणं देयम्। यद्वा अलौकिकविषयशिष्टाचारत्वमेव हेतुः। शिष्टाचारत्वं च भ्रमाजन्याचारत्वम्।
आस्तिकनास्तिकयोरगम्यागमनचैत्यवन्दनादावाचारजनकज्ञानस्य भ्रमत्वात् बलवदनिष्टानुबन्धित्वादिष्टासाधनत्वाच्च। लोके च पाखण्डव्यावृत्तशिष्टव्यवहारो
वेदप्रामाण्याभ्युपगमनिबन्धनः। तैर्थिकत्वेऽपि शिष्टाशिष्टव्यवहारो वेदनिषिद्धाकर्तृत्वतत्कर्तृत्वनिन्धनः। यद्वा वेदप्रामाण्याभ्युपगन्तृत्वे सति यो यदा वेदनिषिद्धाकर्ता स तदा
शिष्टः तत्कर्ता त्वशिष्टः। अत एव वेदनिषिद्धाकर्तृत्वेऽपि बौद्धो न शिष्टः। पापजनकत्वज्ञानं विना वेदनिषिद्धकर्तृत्वं यस्य नास्ति स शिष्ट इति तु न। तैर्थिकस्यापि
कस्यचित् पापजनकत्वज्ञानं विना वेदनिषिद्धकर्र्तृत्वात्। यत्तु रागद्वेषहीनः शिष्टः। स च सर्वज्ञत्वान्मन्वादिरेव। अविगीततदाचारादेव वेदानुमानमिति, तन्न । एवं हि
मन्वाद्याचारादर्शिनामाधुनिकानां मङ्गले प्रवृत्तिर्न स्यात्। आधुनिकानामाचारेण मन्वाद्याचारमनुमाय तेन च वेदमनुमाय बालः प्रवर्तत इति चेत्, तर्हि यादृशाचारेण
मन्वाद्याचारानुमानं स एव वेदानुमापकोऽस्तु, किमनुमितानुमानेन। आधुनिकानामपि शिष्टत्वेन व्यवह्रियमाणत्वाच्च। तथा च स्मृतिः-” “यस्मिन् देशे य आचारः पारम्पर्यक्रमागतः।
श्रुतिस्मृत्यविरोधेन सदाचारः स उच्यते॥” ”

सर्वज्ञस्य मङ्गलाचारे मानाभावाच्च। मन्वादिप्रणीतस्मृतौ मङ्गलं दृश्यत इति चेत् , तन्न। स्मृतिकर्तुरसर्वज्ञत्वेऽपि वेदादर्थं प्रतीत्य स्मृतिप्रणयनसंभवात्।
यत्तु शिष्टाचारत्वेन कर्तव्यतैवानुमीयतां किं वेदेनेति, तत्र वक्ष्यामः।

॥ इति श्रीमद्गङ्गेशोपाध्यायविरचिते तत्त्वचिन्तामणौ प्रत्यक्षखण्डे मङ्गलवादः ॥


प्रत्यक्षखण्डः

Categories: Tattva Chintamani

Tagged as: