नियमेषु तपःशब्दः
१ तदतिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहापत्यादेतस्मात् २ कर्तपत्यमनायुष्यं च ३ तस्मादृषयोऽवरेषु न जायन्ते नियमातिक्रमात् ४ श्रुतर्षयस्तु भवन्ति केचित्कर्मफलशेषेण पुनःसंभवे ५ यथा श्वेतकेतुः ६ यत्किं च समाहितो ऽब्रह्माप्याचार्यादुपयुङ्क्ते ब्रह्मवदेव तस्मिन्फलं भवति ७ अथो यत्किञ्च मनसा वाचा चक्षुषा वा सङ्कल्पन्ध्यायत्याहाभिविपश्यति वा तथैव तद्भवतीत्युपदिशन्ति ८ गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसंवृत्तिरिति ९ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि १० स्वाध्यायधृग् धर्मरुचिस्तप्स्व्यृजुर्मृदुः सिध्यति ब्रह्मचारी ११ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्ठन्प्रातरभिवादमभिवादयीतासावहं भो इति १२ समानग्रामे च वसतामन्येषामपि वृद्धतराणां प्राक् प्रातराशात् १३ प्रोष्य च समागमे १४ स्वर्गमायुश्चेप्सन् १५ दक्षिणम्बाहुं श्रोत्रसमं प्रसार्य ब्राह्मणोऽभिवादयीतोरःसमं राजन्यो मध्यसमं वैश्यो नीचैः शूद्रः प्रञ्जलिम् १६ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् १७ उदिते त्वादित्य आचार्येण समेत्योपसङ्ग्रहणम् १८ सदैवाभिवादनम् १९ उपसंग्राह्य आचार्य इत्येके २० दक्षिणेन पाणिना दक्षिणं पादमधस्तादभ्यधिमृश्य सकुष्ठिकमुपसंगृह्णीयात् २१ उभाभ्यामेवोभावभिपीडयत उपसंग्राह्याव् इत्येके २२ सर्वाह्णं सुयुक्तोऽध्ययनादनन्तरोऽध्याये २३ तथा गुरुकर्मसु २४ मनसा चानध्याये २५ आहूताध्यायी च स्यात् २६ ५
सदा निशायां गुरुं संवेशयेत्तस्य पादौ प्रक्षाल्य संवाह्य १ अनुज्ञातः संविशेत् २ न चैनमभिप्रसारयीत ३ न खट्वायां सतोऽभिप्रसारणमस्तीत्येके ४ न चास्य सकाशे संविष्टो भाषेत् ५ अभिभाषितस्त्वासीनः प्रतिब्रूयात् ६ अनूत्थाय तिष्ठन्तम् ७ गच्छन्तमनुगच्छेत् ८ धावन्तमनुधावेत् ९ न सोपानःवेष्टितशिरा अवहितपाणिर्वासीदेत् १० अध्वापन्नस्तु कर्मयुक्तोवासीदेत् ११ न चेदुपसीदेत् १२ देवमिवाचार्यमुपासीताविकथयन्न् अविमना वाचं शुश्रूषमाणोऽस्य १३ अनुपस्थकृतः १४ अनुवाति वीतः १५ अप्रतिष्टब्धः पाणिना १६ अनपश्रितोऽन्यत्र १७ यज्ञोपवीती द्विवस्त्रः १८ अधोनिवीतस्त्वेकवस्त्रः १९ अभिमुखोऽनभिमुखम् २० अनासन्नोऽनतिदूरे २१ यावदासीनो बाहुभ्याम्प्राप्नुयात् २२ अप्रतिवातम् २३ एकाध्यायी दक्षिणं बाहुं प्रत्युपसीदेत् २४ यथावकाशं बहवः २५ तिष्ठति च नासीतानासनयोगविहिते २६ आसीने च न संविशेत् २७ चेष्टति च चिकीर्षन्तच्छक्तिविषये २८ न चास्य सकाशेऽन्वक्स्थानिनमुपसंगृह्णीयात् २९ गोत्रेण वा कीर्तयेत् ३० न चैनं प्रत्युत्तिष्ठेदनूत्तिष्ठेद्वा ३१ अपि चेत्तस्य गुरुः स्यात् ३२ देशात्त्वासनाच्च संसर्पेत् ३३ नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ३४ यस्मिंस्त्वनाचार्यसंबन्धाद्गौरवं वृत्तिस्तस्मिन्न् अन्वक्स्थानीये ऽप्याचार्यस्य ३५ भुक्त्वाचास्य सकाशे नानूत्थायोच्छिष्टं प्रयच्छेत् ३६ आचामेद्वा ३७ किं करवाणीत्यामन्त्र्य ३८ ६
उत्तिष्ठेत्तूष्णीं वा १ नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्यापेयात् २ न प्रेक्षेत नग्नां स्त्रियम् ३ ओषधिवनस्पतीनामाच्छिद्य नोपजिघ्रेत् ४ उपानहौ छत्रं यानमिति च वर्जयेत् ५ न स्मयेत ६ यदि स्मयेतापिगृह्य स्मयेतेति हि ब्राह्मणम् ७ नोपजिघ्रेत् स्त्रियं मुखेन ८ न हृदयेन प्रार्थयेत् ९ नाकारणादुपस्पृशेत् १० रजस्वलो रक्तदन्सत्यवादी स्यादिति हि ब्राह्मणम् ११ यां विद्यां कुरुते गुरौ तेऽप्यस्याचार्या ये तस्यां गुरोर्वंश्याः १२ यानन्यान्पश्यतोऽस्योपसंगृह्णीयात् तदा त्वेत उपसंग्राह्याः १३ गुरुसमवाये भिक्षायामुत्पन्नायां यमनुबद्धस्तदधीना भिक्षा १४ समावृत्तो मात्रे दद्यात् १५ माता भर्तारं गमयेत् १६ भर्ता गुरुम् १७ धर्मकृत्येषु वोपयोजयेत् १८ कृत्वा विद्यां यावतीं शक्नुयाद्वेददक्षिणामाहरेद्धर्मतो यथाशक्ति १९ विषमगते त्वाचार्य उग्रतः शूद्र तो वाहरेत् २० सर्वदा शूद्र त उग्रतो वाचार्यार्थस्याहरणं धार्म्यमित्येके २१ दत्वा च नानुकथयेत् २२ कृत्वा च नानुस्मरेत् २३ आत्मप्रशंसां परगर्हामिति च वर्जयेत् २४ प्रेषितस्तदेव प्रतिपद्येत २५ शास्तुश्चानागमाद्वृत्तिरन्यत्र २६ अन्यत्रोपसंग्रहणादुच्छिष्टाशनाच्चाचार्यवदाचार्यदारे वृत्तिः २७ तथा समादिष्टेऽध्यापयति २८ वृद्धतरे च सब्रह्मचारिणि २९ उच्छिष्टाशनवर्जमाचार्यवदाचार्यपुत्रे वृत्तिः ३० समावृत्तस्याप्येतदेव सामयाचारिकमेतेषु ३१ ७
यथा ब्रह्मचारिणो वृत्तम् :
१ माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टित्युपवेष्टिती काञ्चुक्युपानही पादुकी २ उदाचारेषु चास्यैतानि न कुर्यात्कारयेद्वा ३ स्वैरिकर्मसु च ४ यथा दन्तप्रक्षालनोत्सादनावलेखनानीति ५ तद्द्रव्याणां च न कथयेदात्मसंयोगेनाचार्यः ६ स्नातस्तु काले यथाविध्यभिहृतमाहूतो ऽभ्येतो वा न प्रतिसंहरे इत्येके ७ उच्चैस्तरां नासीत ८ तथा बहुपादे ९ सर्वतः प्रतिष्ठिते १० शय्यासने चाचरिते नाविशेत् ११ यानमुक्तोऽध्वन्यन्वारोहेत् १२ सभानिकषकटस्वस्तरांश्च १३ नानभिभाषितो गुरुमभिभाषेत प्रियादन्यत् १४ व्युपतोदव्युपजावव्यभिहासोदामन्त्रणनामधेयग्रहणप्रेषणानीति गुरोर्वर्जयेत् १५ आपद्यर्थं ज्ञापयेत् १६ सह वसन्सायं प्रातरनाहूतो गुरुं दर्शनार्थो गच्छेत् १७ विप्रोष्य च तदहरेव पश्येत् १८ आचार्यप्राचार्यसंनिपाते प्राचार्यायओपसंगृह्योपसंजिघृक्षेदाचार्यम् १९ प्रतिषेधेदितरः २० लुप्यते पूजा चास्य सकाशे २१ मुहूंश्चाचार्यकुलं दर्शनार्थो गच्छेद्यथाशक्त्यधिहस्त्यमादायापि दन्तप्रक्षालनानीति २२ मातरं पितरमाचर्यमग्नींश्च गृहाणि च रिक्तपाणिर्नोपगछ्हेद्रा जानं चेन्न श्रुतमिति २३ तस्मिन्गुरोर्वृत्तिः २३ पुत्रमिवैनमनुकाङ्क्षन्सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् २४ न चैनमध्ययनविघ्नेनात्मार्थेषूपरुन्ध्यादनापत्सु २५ अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुरावनैपुणमापद्यमानः २६ आचार्योऽप्यनाचार्यो भवति श्रुतात्परिहरमाणः २७ अपराधेषु चैनं सततमुपालभेत २८ अभित्रास उपवास उदकोपस्पर्शनमदर्शनमिति दण्डा यथामात्रमा निवृत्तेः २९ निवृत्तं चरितब्रह्मचर्यमन्येभ्यो धर्मेभ्योऽनन्तरो भवेत्यतिसृजेत् ३० ८
आपस्तम्ब-धर्मसूत्रम्