Sanskrit Dictionary

नादः – Nadaha

आकाशवायुप्रभवः शरीरात्समुच्चरन् वक्त्रमुपैति नादः
स्थानान्तरेषु प्रविभज्यमानो वर्णत्वमागच्छति यः स शब्दः ।। १ ॥

  1. तमक्षरं ब्रह्म परं पवित्रं गुहाशयं सम्यगुशन्ति विप्राः । २ ॥
  2. स्थानमिदं करणमिदं प्रयत्न एष द्विधानिलः स्थानं पीडयति वृत्तिकारः प्रक्रम एषोऽथ नाभितलात् ।। ३ ॥
  3. तत्र स्थान करण प्रयत्नेभ्यो वर्णा स्त्रिषष्टिः । ४ ॥

तत्र नाभिप्रदेशात्प्रेरितः प्राणो नाम वायुरूर्ध्वमाक्रामन्नुरःप्रभृतीनां
स्थानानामन्यतमस्मिन्स्थाने प्रयत्नेन विधार्यते ।
स विधार्यमाणो वायुः स्थानमभिहन्ति ।
तस्मात्स्थानाभिघाताद् ध्वनिरुत्पद्यत आकाशे ।

  • अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा । जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ।। २५ ।
  • स्पृष्टत्वमीषत्स्पृष्टत्वं संवृतत्वं तथैव च । विवृतत्वं च वर्णानामन्तःकरणमुच्यते ।। २६ ।
  • कालो विवारसंवारौ श्वासनादावघोषता । घोषोऽल्पप्राणता चैव महाप्राणः स्वरास्त्रयः ।। २७ ।

आपिशलशिक्षा

Categories: Sanskrit Dictionary