Sanskrit Dictionary

शब्दालङ्काराः – Sabdalankara

स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः ।
एकवर्णाऽनेकवर्णावृत्तेर्व्वर्णगुणो द्विधा ।। ३४३.१ ।।

एकवर्णगतावृत्तेर्ज्जायन्ते पञ्च वृत्तयः ।
मधुरा ललिता प्रौढा भद्रा परुषया सह ।। ३४३.२ ।।

मधुरायाश्च वर्गान्तादधो वर्ग्या रणौ स्वनौ।
ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः ।। ३४३.३ ।।

न कार्य्या वर्ण्यवर्णानामावृत्तिः पञ्चमाधिका ।
म्हाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ ।। ३४३.४ ।।

ललिता बलभूयिष्ठा प्रौढा या पणवर्गजा ।
ऊद्‌र्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः ।। ३४३.५ ।।

भद्रायां परिशिष्टाः स्युः परुषा साऽभिधीयते ।
भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः ।। ३४३.६ ।।

अकारवर्ज्जमावृत्तिः स्वराणामतिभूयसी ।
अनुस्वारविशर्गौ च पारुष्याय निरन्तरौ ।। ३४३.७ ।।

शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा ।
अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः ।। ३४३.८ ।।

अन्यथापि गुरुर्वर्णः संयुक्ते परिपन्थिनि ।
पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमी ।। ३४३.९ ।।

क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते ।
कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनामिका४ ।। ३४३.१० ।।

द्रावणि माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् ।
अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका ।। ३४३.११ ।।

यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्‌द्विधा ।
आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः ।। ३४३.१२ ।।

द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।
आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः ।। ३४३.१३ ।।

सप्तधा सप्तपूर्वेण५ चेत् पादेनोत्तरोत्तरः ।
एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं ।। ३४३.१४ ।।

तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् ।
पादान्तयमकञ्चैव काञ्चीयमकमेव च ।। ३४३.१५ ।।

संसर्गयमकञ्चैव विक्रान्तयमकन्तथा ।
पादादियमकञ्चैव तथाम्रेडितमेव च ।। ३४३.१६ ।।

चतुर्व्यवसितञ्चैव मालायमकमेव च ।
दशधा यमकं श्रेष्ठं तद्भेदा बहवोऽपरे ।। ३४३.१७ ।।

स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्त्तना द्विधा ।
भिन्नप्रयोजनपदस्यावृत्तिं त्वेकत्र विग्राहात् ।। ३४३.१८ ।।

द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः ।
असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात् ।। ३४३.१९ ।।

वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते ।
अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात् ।। ३४३.२० ।।

यया कयाचिद्‌वृत्या यत् समानमनुभूयते ।
तद्रूपादिपदासत्तिः सानुप्रासा रसावहा ।। ३४३.२१ ।।

गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते ।
प्रश्नः प्रहेलिका गुप्तं च्युतदक्ते तथोभयम् ।। ३४३.२२ ।।

समस्या सप्त तद्‌भेदा नानार्थस्यानुयोगतः ।
यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं ।। ३४३.२३ ।।

स प्रश्नः स्यादेकपृष्टद्वपृष्टोत्तरभेदतः ।
द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च ।। ३४३.२४ ।।

द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका ।
सा द्विधार्थी च शाब्दी च तत्रार्थी चार्थबोधतः ।। ३४३.२५ ।।

शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां ।
यस्मिन् गुप्तेऽपि वलाक्याङ्गे बाव्यर्थोऽपारमार्थिकः ।। ३४३.२६ ।।

तदङ्गविहिताकाङ्‌क्षस्तद्‌गुप्तं गूढ़मप्यदः ।
यत्रार्थान्तरनिर्बासो वाक्याङ्गच्यवनादिभिः ।। ३४३.२७ ।।

तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् ।
स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः ।। ३४३.२८ ।।

दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते ।
तद्द्न्तदाहुस्तद्भेदाः स्वराद्यैः पूर्व्ववन्मताः ।। ३४३.२९ ।।

अपनीताक्षरस्थाने न्यस्ते वर्णान्तरेऽपि च ।
भासतेऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ।। ३४३.३० ।।

सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्म्मितम् ।
सा ममस्या परस्यात्मपरयोः कृतिसङ्करात् ।। ३४३.३१ ।।

दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् ।
दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः ।। ३४३.३२ ।।

नियमाच्च विदर्बाच्च बन्धाच्च भवति त्रिधा ।
कवेः प्रतिज्ञा निर्म्माणरम्यस्य नियमः समृतः ।। ३४३.३३ ।।

प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।
अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ।। ३४३.३४ ।।

प्रातिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।
अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना ।। ३४३.३५ ।।

तत्तत्प्रसिद्धवस्तूनां बन्ध इत्यभिधीयते ।
गोमूत्रिकार्द्धभ्रमणे सर्व्वतोभद्रमम्बुजम् ।। ३४३.३६ ।।

चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा ।
प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा ।। ३४३.३७ ।।

द्विधा गोमूत्रिकां पूर्व्वामाहुरश्वपदां परे ।
अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं वदन्ति हि ।। ३४३.३८ ।।

अर्द्धाभ्यामर्धपादैश्च कुर्य्याद्विन्यासमेतयोः ।
न्यस्तानामिह वर्णानामधोधः क्रमभागिनां ।। ३४३.३९ ।।

अधोधः स्थितवर्णानां यावत्तूर्य्यपदन्नयेत् ।
तुर्य्यपादान्नयेदूद्‌र्ध्वं पादार्द्धं प्रातिलोम्यतः ।। ३४३.४० ।।

तदेव सर्व्वतोभद्रं त्रिविधं सरसीरुहं ।
चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि ।। ३४३.४१ ।।

अथ प्रथमपादस्य मूर्द्धन्यस्त्रिपदाक्षरं ।
सर्व्वेषामेव पादानामन्ते तदुपजायते ।। ३४३.४२ ।।

प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः ।
अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं ।। ३४३.४३ ।।

चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः ।
स्यात् षोड़शच्छदे त्वेकान्तरञ्चेदेकमक्षरं ।। ३४३.४४ ।।

कर्णिकां तोलयेदूद्‌र्ध्वं पत्राकाराक्षरावलिं ।
प्रवेशयेत् कर्णिकायाञ्चतुष्पत्रसरोरुहे ।। ३४३.४५ ।।

कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च ।
प्रवेशनिर्गमौ दिक्षु कुर्य्यादष्टच्छदेऽम्बुजे ।। ३४३.४६ ।।

विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां ।
मध्ये समाक्षरन्यासः सरोजे षोड़शच्छदे ।। ३४३.४७ ।।

द्विधा चक्रं चतुररं षड़रन्तत्र चादिमं ।
पूर्व्वार्द्धे सदृशा वर्णाः पादप्रथमपञ्चमा ।। ३४३.४८ ।।

अयुजोऽश्वयुजश्चैव तुर्य्यावप्यष्टमावपि ।
तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं ।। ३४३.४९ ।।

स्यात्पादार्द्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं ।
पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी ।। ३४३.५० ।।

तृतीयं तुर्य्यपादान्ते प्रथमौ सदृशावुभौ ।
वर्णौ पाढ़त्रयस्यापि दशमः सदृशो यदि ।। ३४३.५१ ।।

प्रथमे चरमे तस्य षड्‌वर्णाः पश्चिमे यदि ।
भवन्ति द्व्यन्तरं तर्हि वृहच्चक्रमुदाहृतं ।। ३४३.५२ ।।

सम्मुखाद्वये पादमेकैकं क्रमशो लिखेत् ।
नाभौ तु वर्णं दशमं नेमौ तुर्य्यपदन्नयेत् ।। ३४३.५३ ।।

श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः ।
आदौ वर्णः समौ तुर्य्यपञ्चमावाद्यतुर्य्ययोः ।। ३४३.५४ ।।

द्वितायप्रातिलोम्येन तृतीयं जायते यदि ।
पदं विदध्यात् पत्रस्य दण्डश्चक्राब्जकं कृतेः ।। ३४३.५५ ।।

द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ ।
सट्टशावुत्तरदलौ द्वितीयाभ्यामथार्द्धयोः ।। ३४३.५६ ।।

द्वितीयषष्ठाः सट्टशाश्चतुर्थपञ्चमावपि ।
आद्यन्तपादयोस्तुल्यौ परार्द्धसप्तमावपि ।। ३४३.५७ ।।

समौ तुर्य्यं पञ्चमन्तु क्रमेण विनियोजयेत् ।
तुर्य्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः ।। ३४३.५८ ।।

अर्द्धयोरन्तिमाद्यौ तु मुरजे सदृशावुभौ ।
पादार्द्धपतितो वर्णः प्रातिलोम्यानुलोमतः ।। ३४३.५९ ।।

अन्तिमं परिबध्नीयाद्यावत्तुर्य्यमिहादिमत् ।
पादात्तुर्य्याद्यदेवाद्यं नवमात् षोड़शादपि ।। ३४३.६० ।।

अक्षरात् पुटके मध्ये मद्येऽक्षरचतुष्टयम् ।
कृत्वा कुर्य्याद्यथैतस्य मुरजाकारता भवेत् ।। ३४३.६१ ।।

द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् ।
गोमूत्रिका सर्ववृत्तैरन्ये बन्धास्त्वनुष्टुभा ।। ३४३.६२ ।।

नामधेयं यदि न चेदमीषु कविकाव्ययोः ।
मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा ।। ३४३.६३ ।।

वाणबाणासनव्योमखड्गमुद्गरशक्तयः ।
द्विचतुर्थत्रिश्रृङ्गाटा दम्भोलिमुष्लाङ्कुशाः ।। ३४३.६४ ।।

पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका ।
एते बन्धास्तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः ।। ३४३.६५ ।।

आग्नेये महापुराणे  अलङ्कारे शब्दालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।
Source : अग्निपुराणम्

Categories: Sanskrit Dictionary

Tagged as: