Sanskrit Dictionary

शृङ्गारादिरस – Rasa

Kavya rasa :

अक्षरं परमं ब्र्ह्म सनातनमजं विभुं ।
वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम् ।। ३३९.१ ।।

आनन्दः सहजस्तस्य व्यज्यते स कदाचन ।
व्यक्तिः सा तस्य चैतन्यचमत्‌काररसाह्वया ।। ३३९.२ ।।

आद्यस्तस्य विकारो यः सोऽहङ्कार इति स्मृतः ।
ततोऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं ।। ३३९.३ ।।

अभिमानाद्रतिः सा च परिपोषमुपेयुषी ।
व्यभिचार्य्यादिसामान्यात् श्रृङ्गार इति गीयते ।। ३३९.४ ।।

तद्भेदाः काममितरे हास्याद्या अप्यनेकशः ।
स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः ।। ३३९.५ ।।

सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः ।
रागाद्बवति श्रृङ्गारो रौद्रस्तैक्षणात् प्रजायते ।। ३३९.६ ।।

वीरोऽवष्टम्भजः सङ्कोचभूर्व्वीभत्स इष्यते ।
श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।। ३३९.७ ।।

वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः ।
श्रृङ्गारहास्यकरुणा रौद्रवीरभयानकाः ।। ३३९.८ ।।

वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः ।
लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा ।। ३३९.९ ।।

अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथा वै रोचते विश्वं तथेवं परिवर्त्तते ।। ३३९.१० ।।

अपारे काव्यसंसारे कविरेव प्रजापतिः ।
यथा वै रोचते विश्वं तथेदं परिवर्त्तते ।। ३३९.११ ।।

न भावहीनोऽस्ति रसो न भावो रसवर्ज्जितः ।
भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति ।। ३३९.१२ ।।

स्थायितनोऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः ।
मनोऽनुकूलेऽनुभवः सुखस्य रतिरिष्य्ते ।। ३३९.१३ ।।

हर्वादिभिश्च मनसो विकाशो हास उच्यते ।
चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम् ।। ३३९.१४ ।।

जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां ।
विस्मयोऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः ।। ३३९.१५ ।।

अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् ।
स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः ।। ३३९.१६ ।।

श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्ज्जलं ।
स्वेदो हर्षादिभिर्द्देहोच्छासाऽन्तःपुलकोद्‌गमः ।। ३३९.१७ ।।

हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः ।
मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः ।। ३३९.१८ ।।

क्रोधस्तैक्ष्णप्रबोधश्च प्रतिकू लानुकारिणि ।
पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते ।। ३३९.१९ ।।

चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्त्तितः ।
वैवर्ण्यञ्च विचषादादिजन्मा कान्तिविपर्य्ययः ।। ३३९.२० ।।

दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् ।
इन्द्रियाणामस्तमयः प्रलयो लङ्घनादिभिः ।। ३३९.२१ ।।

वैराग्यादिर्म्मनः खेदो निर्वेद इति कथ्यते ।
मनः पीड़दिजन्मा च सादो ग्लानिः शरीरगा ।। ३३९.२२ ।।

शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः ।
मदिराद्युपयोगोत्थं मनः संमोहनं मदः ।। ३३९.२३ ।।

क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः ।
श्रृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते ।। ३३९.२४ ।।

दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं ।
इतिकर्त्तव्यतोपायादर्शनं मोह उच्यते ।। ३३९.२५ ।।

स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं ।
मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः ।। ३३९.२६ ।।

व्रीडानुरागादिभवः सङ्कोचः कोपि चेतसः ।
भवेच्चपलताऽस्थैर्यं हर्षश्चित्तप्रसन्नता ।। ३३९.२७ ।।

आवेशश्च प्रतीकारः शयो वैधुर्य्यमात्मनः ।
कर्त्तव्ये प्रतिभाभ्रंशो जड़तेत्यभिधीयते ।। ३३९.२८ ।।

इष्टप्राप्तेरुपचितः सम्पदाभ्युदयो धृतिः ।
गर्व्वः परेष्ववज्ञानमात्मन्युत्कर्षभावाना ।। ३३९.२९ ।।

भवेद्विषादो दैवादेर्विघातोऽभीष्टवस्तुनि ।
औस्सुक्यमीष्सिताप्राप्तेर्वाञ्छया तरला स्थितिः ।। ३३९.३० ।।

चित्तेन्द्रियाणां स्तैमित्यमपस्मारोऽचला स्थितिः ।
युद्‌धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः ।। ३३९.३१ ।।

क्रोधस्याप्रशमोऽमर्षः प्रबोधश्तेचनोदयः ।
अवहित्थं भवेद्‌गुप्तिरिङ्गिताकारगोचरा ।। ३३९.३२ ।।

रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां ।
ऊहो वितर्कः स्याद्व्याधिर्मनोवपुरवग्रहः ।। ३३९.३३ ।।

अनिबद्धप्रलापादिरुन्मादो मदनादिभिः ।
तत्वज्ञानादिना चेतःकषायोपरमः शमः ।। ३३९.३४ ।।

कविभिर्योजनीया वै भावाः काव्यादिके रसाः ।
विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते ।। ३३९.३५ ।।

विभावो नाम स द्वेधालम्बनोद्दीपनात्मकः ।
रत्यादिभाववर्गोऽयं यमाजीव्योपजायते ।। ३३९.३६ ।।

आलम्बनविभावोऽसौ नायकादिभवस्तथा ।
धीरोदात्तो धीरोद्धतः स्याद्धीरललितस्तथा ।। ३३९.३७ ।।

धीरप्रशान्त इत्येवं चतुर्द्धा नायकः स्मृतः ।
अनुकूलो दक्षइणश्च शठो धृष्टः प्रवर्त्तितः ।। ३३९.३८ ।।

पीठमर्द्दो विटश्चैव विदूषक इति त्रयः ।
श्रृड्गारे नर्म्मसचिवा नायकस्यानुनायका ।। ३३९.३९ ।।

पीठमर्द्दः सम्बलकः श्रीमांस्तद्वेशजो विटः ।
विदूषको वैहसिकस्त्वष्टनायकनायिकाः ।। ३३९.४० ।।

स्वकीया परकीया च पुनर्भूरिति कौशिकाः ।
सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः ।। ३३९.४१ ।।

उद्दीपनविभावास्ते संस्कारैर्विविधैः स्थितैः ।
आलम्बनविभावेषु भावानुद्दीपयन्ति ये ।। ३३९.४२ ।।

चतुःषष्टिकला द्वेधा कर्म्माद्यैर्गीतिकादिभिः ।
कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः ।। ३३९.४३ ।।

आलम्बनविभावस्य भावैरुद्वुद्धसंस्कृतैः ।
मनोवाग्‌बुद्धिवपुषां स्मृतीच्छाद्वेषयत्नत ।। ३३९.४४ ।।

आरम्भ एव विदुषामनुभाव इति स्मृतः ।
स चानुभूयते चात्र भवत्युत निरुच्यते ।। ३३९.४५ ।।

मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते ।
द्विविधः पौरुषस्त्रैण ईट्टशोऽपि प्रसिध्यति ।। ३३९.४६ ।।

शोभा विलासो माधुर्य्यं स्थैर्य्यं गाम्भीर्य्यमेव च ।
ललितञ्च तथौदार्य्यन्तेजोऽष्टाविति पौरुषाः ।। ३३९.४७ ।।

नीचनिन्दोत्तमस्पर्द्धा शौर्य्यं दाक्षादिकारणं ।
मनोधर्म्मे भवेच्छोभा शोभते भवनं यथा ।। ३३९.४८ ।।

भावो हावश्च हेला च शोभा कान्तिस्तथैव च ।
दीप्तिर्म्माधुर्य्यशौर्य्ये च प्रागलूभ्यं स्यादुदारता ।। ३३९.४९ ।।

स्थैर्य्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः ।
भावो विलासो हावः स्याद्भावः किञ्चिच्च हर्षजः ।। ३३९.५० ।।

वाचो युक्तिर्भवेद्वागारम्भो द्वादश एव सः ।
तत्राभाषणमालापः प्रलापो वचनं वहु१ ।। ३३९.५१ ।।

विलापो दुःखवचनमनुलापोऽसकृद्वचः ।
संलाप उक्तप्रत्युक्तमपलापोऽन्यथावचः ।। ३३९.५२ ।।

वार्त्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् ।
तत्त्वदेशोऽतिदेशोऽयमपदेशोऽन्यवर्णनम् ।। ३३९.५३ ।।

उपदेशश्च शिक्षावाक् व्याजोक्तिर्व्यपदेशकः ।
वोधाय एष व्यापारः सुबुद्ध्यारम्भ इष्यते ।। ३३९.५४ ।।

तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः ।। ३३९.५५ ।।


आग्नेये महापुराणे  अलङ्कारे शब्दालङ्कारनिरूपणं नाम त्रिचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।
Source : अग्निपुराणम्

Categories: Sanskrit Dictionary