Sanskrit

नारदस्मृतिः Narada Smriti

व्यवहारः

धर्मैकतानाः पुरुषा यदासन्सत्यवादिनः ।
तदा न व्यवहारोऽभून्न द्वेषो नापि मत्सरः ।। १.१ ।।

नष्टे धर्मे मनुष्येषु व्यवहारः प्रवर्तते ।
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ।। १.२ ।।

लिखितं साक्षिणश्चात्र द्वौ विधी संप्रकीर्तितौ ।
संदिग्धार्थविशुद्ध्यर्थं द्वयोर्विवदमानयोः ।। १.३ ।।

सोत्तरोऽनुत्तरश्चैव स विज्ञेयो द्विलक्षणः ।
सोत्तरोऽभ्यधिको यत्र विलेखापूर्वकः पणः ।। १.४ ।।

विवादे सोत्तरपणे द्वयोर्यस्तत्र हीयते ।
स पणं स्वकृतं दाप्यो विनयं च पराजये ।। १.५ ।।

सारस्तु व्यवहाराणां प्रतिज्ञा समुदाहृता ।
तद्धानौ हीयते वादी तरंस्तां उत्तरो भवेत् ।। १.६ ।।

कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः ।
प्रतिष्ठा व्यवहाराणां गुर्वेभ्यस्तूत्तरोत्तरम् ।। १.७ ।।

स चतुष्पाच्चतुःस्थानश्चतुःसाधन एव च ।
चतुर्हितश्चतुर्व्यापी चतुष्कारी च कीर्त्यते ।। १.८ ।।

अष्टाङ्गोऽष्टादशपदः शतशाखस्तथैव च ।
त्रियोनिर्द्व्यभियोगश्च द्विद्वारो द्विगतिस्तथा ।। १.९ ।।

धर्मश्च व्यवहारश्च चरित्रं राजशासनम् ।
चतुष्पाद्व्यवहारोऽयं उत्तरः पूर्वबाधकः ।। १.१० ।।

तत्र सत्ये स्थितो धर्मो व्यवहारस्तु साक्षिषु ।
चरित्रं पुस्तकरणे राजाज्ञायां तु शासनम् ।। १.११ ।।

सामाद्युपायसाध्यत्वाच्चतुःसाधन उच्यते ।
चतुर्णां आश्रमाणां च रक्षणात्स चतुर्हितः ।। १.१२ ।।

कर्तॄनथो साक्षिणश्च सभ्यान्राजानं एव च ।
व्याप्नोति पादशो यस्माच्चतुर्व्यापी ततः स्मृतः ।। १.१३ ।।

धर्मस्यार्थस्य यशसो लोकपक्तेस्तथैव च ।
चतुर्णां करणादेषां चतुष्कारी प्रकीर्तितः ।। १.१४ ।।

राजा सपुरुषः सभ्याः शास्त्रं गणकलेखकौ ।
हिरण्यं अग्निरुदकं अष्टाङ्गः स उदाहृतः ।। १.१५ ।।

ऋणादानं ह्युपनिधिः संभूयोत्थानं एव च ।
दत्तस्य पुनरादानं अशुश्रूषाभ्युपेत्य च ।। १.१६ ।।

वेतनस्यानपाकर्म तथैवास्वामिविक्रयः ।
विक्रीयासंप्रदानं च क्रीत्वानुशय एव च ।। १.१७ ।।

समयस्यानपाकर्म विवादः क्षेत्रजस्तथा ।
स्त्रीपुंसयोश्च संबन्धो दायभागोऽथ साहसम् ।। १.१८ ।।

वाक्पारुष्यं तथैवोक्तं दण्डपारुष्यं एव च ।
द्यूतं प्रकीर्णकं चैवेत्यष्टादशपदः स्मृतः ।। १.१९ ।।

एषां एव प्रभेदोऽन्यः शतं अष्टोत्तरं स्मृतम् ।
क्रियाभेदान्मनुष्याणां शतशाखो निगद्यते ।। १.२० ।।

कामात्क्रोधाच्च लोभाच्च त्रिभ्यो यस्मात्प्रवर्तते ।
त्रियोनिः कीर्त्यते तेन त्रयं एतद्विवादकृत् ।। १.२१ ।।

द्व्यभियोगस्तु विज्ञेयः शङ्कातत्त्वाभियोगतः ।
शङ्कासतां तु संसर्गात्तत्त्वं होढादिदर्शनात् ।। १.२२ ।।

पक्षद्वयाभिसंबन्धाद्द्विद्वारः समुदाहृतः ।
पूर्ववादस्तयोः पक्षः प्रतिपक्षस्तदुत्तरम् ।। १.२३ ।।

भूतच्छलानुसारित्वाद्द्विगतिः स उदाहृतः ।
भूतं तत्त्वार्थसंयुक्तं प्रमादाभिहितं छलम् ।। १.२४ ।।

तत्र शिष्टं छलं राजा मर्षयेद्धर्मसाधनः ।
भूतं एव प्रपद्येत धर्ममूला यतः श्रियः ।। १.२५ ।।

धर्मेणोद्धरतो राज्ञो व्यवहारान्कृतात्मनः ।
संभवन्ति गुणाः सप्त सप्त वह्नेरिवार्चिषः ।। १.२६ ।।

धर्मश्चार्थश्च कीर्तिश्च लोकपक्तिरुपग्रहः ।
प्रजाभ्यो बहुमानश्च स्वर्गे स्थानं च शाश्वतम् ।। १.२७ ।।

तस्माद्धर्मासनं प्राप्य राजा विगतमत्सरः ।
समः स्यात्सर्वभूतेषु बिभ्रद्वैवस्वतं व्रतम् ।। १.२८ ।।

धर्मशास्त्रं पुरस्कृत्य प्राड्विवाकमते स्थितः ।
समाहितमतिः पश्येद्व्यवहाराननुक्रमात् ।। १.२९ ।।

आगमः प्रथमं कार्यो व्यवहारपदं ततः ।
विवित्सा निर्णयश्चैव दर्शनं स्याच्चतुर्विधम् ।। १.३० ।।

धर्मशास्त्रार्थशास्त्राभ्यां अविरोधेन मार्गतः ।
समीक्षमाणो निपुणं व्यवहारगतिं नयेत् ।। १.३१ ।।

यथा मृगस्य विद्धस्य व्याधो मृगपदं नयेत् ।
कक्षे शोणितलेशेन तथा धर्मपदं नयेत् ।। १.३२ ।।

यत्र विप्रतिपत्तिः स्याद्धर्मशास्त्रार्थशास्त्रयोः ।
अर्थशास्त्रोक्तं उत्सृज्य धर्मशास्त्रोक्तं आचारेत् ।। १.३३ ।।

धर्मशास्त्रविरोधे तु युक्तियुक्तोऽपि धर्मतः ।
व्यवहारो हि बलवान्धर्मस्तेनावहीयते ।। १.३४ ।।

सूक्ष्मो हि भगवान्धर्मः परोक्षो दुर्विचारणः ।
अतः प्रत्यक्षमार्गेण व्यवहारगतिं नयेत् ।। १.३५ ।।

यात्यचौरोऽपि चौरत्वं चौरश्चायात्यचौरताम् ।
अचौरश्चौरतां प्राप्तो माण्डव्यो व्यवहारतः ।। १.३६ ।।

स्त्रीषु रात्रौ बहिर्ग्रामादन्तर्वेश्मन्यरातिषु ।
व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतां इयात् ।। १.३७ ।।

गहनत्वाद्विवादानां असामर्थ्यात्स्मृतेरपि ।
ऋणादिषु हरेत्कालं कामं तत्त्वबुभुत्सया ।। १.३८ ।।

गोभूहिरण्यस्त्रीस्तेय पारुष्यात्ययिकेषु च ।
साहसेष्वभिशापे च सद्य एव विवादयेत् ।। १.३९ ।।

अनावेद्य तु यो राज्ञे संदिग्धेऽर्थे प्रवर्तते ।
प्रसह्य स विनेयः स्यात्स चास्यार्थो न सिध्यति ।। १.४० ।।

वक्तव्येऽर्थे न तिष्ठन्तं उत्क्रामन्तं च तद्वचः ।
आसेधयेद्विवादार्थी यावदाह्वानदर्शनम् ।। १.४१ ।।

स्थानासेधः कालकृतः प्रवासात्कर्मणस्तथा ।
चतुर्विधः स्यादासेधो नासिद्धस्तं विलङ्घयेत् ।। १.४२ ।।

नदीसंतारकान्तार दुर्देशोपप्लवादिषु ।
आसिद्धस्तं परासेधं उत्क्रामन्नापराध्नुयात् ।। १.४३ ।।

आसेधकाल आसिद्ध आसेधं यो व्यतिक्रमेत् ।
स विनेयोऽन्यथा कुर्वन्नासेद्धा दण्डभाग्भवेत् ।। १.४४ ।।

निर्वेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ।
अभियुक्तस्तथान्येन राजकार्योद्यतस्तथा ।। १.४५ ।।

गवां प्रचारे गोपालाः सस्यबन्धे कृषीवलाः ।
शिल्पिनः चापि तत्कालं आयुधीयाश्च विग्रहे ।। १.४६ ।।

अप्राप्तव्यवहारश्च दूतो दानोन्मुखो व्रती ।
विषमस्थश्च नासेध्यो न चैनानाह्वयेन्नृपः ।। १.४७ ।।

नाभियुक्तोऽभियुञ्जीत तं अतीर्त्वार्थं अन्यतः ।
न चाभियुक्तं अन्येन न विद्धं वेद्धुं अर्हति ।। १.४८ ।।

यं अर्थं अभियुञ्जीत न तं विप्रकृतिं नयेत् ।
नान्यत्पक्षान्तरं गच्छेद्गच्छन्पूर्वात्स हीयते ।। १.४९ ।।

न च मिथ्याभियुञ्जीत दोषो मिथ्याभियोगिनः ।
यस्तत्र विनयः प्रोक्तः सोऽभियोक्तारं आव्रजेत् ।। १.५० ।।

सापदेशं हरन्कालं अब्रुवंश्चापि संसदि ।
उक्त्वा वचो विब्रुवंश्च हीयमानस्य लक्षणम् ।। १.५१ ।।

पलायते य आहूतः प्राप्तश्च विवदेन्न यः ।
विनेयः स भवेद्राज्ञा हीन एव स वादतः ।। १.५२ ।।

निर्णिक्तव्यवहारेषु प्रमाणं अफलं भवेत् ।
लिखितं साक्षिणो वापि पूर्वं आवेदितं न चेत् ।। १.५३ ।।

यथा पक्वेषु धान्येषु निष्फलाः प्रावृषो गुणाः ।
निर्णिक्तव्यवहाराणां प्रमाणं अफलं तथा ।। १.५४ ।।

अभूतं अप्यभिहितं प्राप्तकालं परीक्ष्यते ।
यत्तु प्रमादान्नोच्येत तद्भूतं अपि हीयते ।। १.५५ ।।

तीरितं चानुशिष्टं च यो मन्येत विधर्मतः ।
द्विगुणं दण्डं आस्थाय तत्कार्यं पुनरुद्धरेत् ।। १.५६ ।।

दुर्दृष्टे व्यवहारे तु सभ्यास्तं दण्डं आप्नुयुः ।
न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते ।। १.५७ ।।

रागादज्ञानतो वापि लोभाद्वा योऽन्यथा वदेत् ।
सभ्योऽसभ्यः स विज्ञेयस्तं राजा विनयेद्भृशम् ।। १.५८ ।।

किंतु राज्ञा विशेषेण स्वधर्मं अनुरक्षता ।
मनुष्यचित्तवैचित्र्यात्परीक्ष्या साध्वसाधुता ।। १.५९ ।।

पुरुषाः सन्ति ये लोभात्प्रब्रूयुः साक्ष्यं अन्यथा ।
सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो जनाः ।। १.६० ।।

अतः परीक्ष्यं उभयं एतद्राज्ञा विशेषतः ।
लेख्याचारेण लिखितं साक्ष्याचारेण साक्षिणः ।। १.६१ ।।

असत्याः सत्यसंकाशाः सत्याश्चासत्यदर्शनाः ।
दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ।। १.६२ ।।

तलवद्दृश्यते व्योम खद्योतो हव्यवाडिव ।
न तलं विद्यते व्योम्नि न खद्योते हुताशनः ।। १.६३ ।।

तस्मात्प्रत्यक्षदृष्टोऽपि युक्तं अर्थः परीक्षितुम् ।
परीक्ष्य ज्ञापयनर्थान्न धर्मात्परिहीयते ।। १.६४ ।।

एवं पश्यन्सदा राजा व्यवहारान्समाहितः ।
वितत्येह यशो दीप्तं ब्रध्नस्याप्नोति विष्टपम् ।। १.६५ ।।


भाषा

सुनिश्चितबलाधानस्त्वर्थी स्वार्थप्रचोदितः ।
लेखयेत्पूर्वपक्षं तु कृतकार्यविनिश्चयः ।। २.१ ।।

पूर्वपक्षश्रुतार्थस्तु प्रत्यर्थी तदनन्तरम् ।
पूर्वपक्षार्थसंबन्धं प्रतिपक्षं निवेशयेत् ।। २.२ ।।

श्वो लेखनं वा स लभेत्त्र्यहं सप्ताहं एव वा ।
अर्थी तृतीयपादे तु युक्तं सद्यो ध्रुवं जयी ।। २.३ ।।

मिथ्या संप्रतिपत्तिर्वा प्रत्यवस्कन्दं एव वा ।
प्राङ्न्यायविधिसाध्यं वा उत्तरं स्याच्चतुर्विधम् ।। २.४ ।।

मिथ्यैतन्नाभिजानामि तदा तत्र न संनिधिः ।
अजातश्चास्मि तत्काल एवं मिथ्या चतुर्विधा ।। २.५ ।।

मिथ्या च विपरीतं च पुनः शब्दसमागमम् ।
पूर्वपक्षार्थसंबन्धं उत्तरं स्याच्चतुर्विधम् ।। २.६ ।।

भाषाया उत्तरं यावत्प्रत्यर्थी न निवेशयेत् ।
अर्थी तु लेखयेत्तावद्यावद्वस्तु विवक्षितम् ।। २.७ ।।

अन्यार्थं अर्थहीनं च प्रमाणागमवर्जितम् ।
लेख्यं हीनाधिकं भ्रष्टं भाषादोषास्तूदाहृताः ।। २.८ ।।

लब्धव्यं येन यद्यस्मात्स तत्तस्मादवाप्नुयात् ।
न त्वन्योऽन्यदथान्यस्मादित्यन्यार्थं इदं त्रिधा ।। २.९ ।।

मनसाहं अपि ध्यातस्त्वन्मित्रेणेह शत्रुवत् ।
अतोऽन्यथा महाक्षान्त्या त्वं इहावेदितो मया ।। २.१० ।।

द्रव्यप्रमाणहीनं यत्फलोपाश्रयवर्जितम् ।
प्रमाणवर्जितं नाम लेख्यदोषं तदुत्सृजेत् ।। २.११ ।।

आगमवर्जितं दोषं पूर्वपादे विवर्जयेत् ।
एकस्य बहुभिः सार्धं पुरराष्ट्रविरोधकम् ।। २.१२ ।।

बिन्दुमात्रापदवर्णेष्वेकाविधिष्टया (?) ।
हीनाधिका भवेद्व्यर्था तां यत्नेन विवर्जयेत् ।। २.१३ ।।

भ्रष्टं तु दुःस्थितं यत्स्याज्जलतैलादिभिर्हतम् ।
भाषायां तदपि स्पष्टं विस्पष्टार्थं विवर्जयेत् ।। २.१४ ।।

सत्या भाषा न भवति यद्यपि स्यात्प्रतिष्ठिता ।
बहिश्चेद्भ्रश्यते धर्मान्नियताद्व्यवहारिकात् ।। २.१५ ।।

गन्धमादनसंस्थस्य मयास्यासीत्तदर्पितम् ।
व्यवहारिकधर्मस्य बाह्यं एतन्न सिध्यति ।। २.१६ ।।

अन्याक्षरनिवेशेन अन्यार्थगमनेन च ।
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ।। २.१७ ।।

रागादीनां यदेकेन कोपितः करणे वदेत् ।
तदादौ तु लिखेत्सर्वं वादिनः फलकादिषु ।। २.१८ ।।

निराकुलावबोधाय धर्मस्थैः सुविचारितम् ।
तस्मादन्यद्व्यपोह्यं स्याद्वादिनः फलकादिषु ।। २.१९ ।।

वादिभ्यां अभ्यनुज्ञातं शेषं च फलके स्थितम् ।
ससाक्षिकं लिखेयुस्ते प्रतिपत्तिं च वादिनोः ।। २.२० ।।

वादिभ्यां लिखिताच्छेषं यत्पुनर्वादिना स्मृतम् ।
तत्प्रत्याकलितं नाम स्वपादे तस्य लिख्यते ।। २.२१ ।।

अर्थिना संनियुक्तो वा प्रत्यर्थिप्रहितोऽपि वा ।
यो यस्यार्थे विवदते तयोर्जयपराजयौ ।। २.२२ ।।

यो न भ्राता न च पिता न पुत्रो न नियोगकृत् ।
परार्थवादी दण्ड्यः स्याद्व्यवहारेऽपि विब्रुवन् ।। २.२३ ।।

पूर्ववादं परित्यज्य योऽन्यं आलम्बते पुनः ।
वादसंक्रमणाज्ज्ञेयो हीनवादी स वै नरः ।। २.२४ ।।

सर्वेष्वपि विवादेषु वाक्छले नापहीयते ।
पशुस्त्रीभूम्यृणादाने शास्योऽप्यर्थान्न हीयते ।। २.२५ ।।

अभियुक्तोऽभियोगस्य यदि कुर्यादपह्नवम् ।
अभियोक्ता दिशेद्देश्यं प्रत्यवस्कन्दितो न चेत् ।। २.२६ ।।

पूर्वपादे हि लिखितं यथाक्षरं अशेषतः ।
अर्थी तृतीयपादे तु क्रियया प्रतिपादयेत् ।। २.२७ ।।

क्रियापि द्विविधा प्रोक्ता मानुषी दैविकी तथा ।
मानुषी लेख्यसाक्षिभ्यां धटादिर्दैविकी स्मृता ।। २.२८ ।।

दिवा कृते कार्यविधौ ग्रामेषु नगरेषु वा ।
संभवे साक्षिणां चैव दिव्या न भवति क्रिया ।। २.२९ ।।

अरण्ये निर्जने रात्रावन्तर्वेश्मनि साहसे ।
न्यासस्यापह्नवे चैव दिव्या संभवति क्रिया ।। २.३० ।।

कारणप्रतिपत्त्या च पूर्वपक्षे विरोधिते ।
अभियुक्तेन वै भाव्यं विज्ञेयं पूर्वपक्षवत् ।। २.३१ ।।

पलायते य आहूतो मौनी साक्षिपराजितः ।
स्वयं अभ्युपपन्नश्च अवसन्नश्चतुर्विधः ।। २.३२ ।।

अन्यवादी क्रियाद्वेषी नोपस्थाता निरुत्तरः ।
आहूतप्रपलायी च हीनः पञ्चविधः स्मृतः ।। २.३३ ।।

मणयः पद्मरागाद्या दीनारादि हिरण्मयम् ।
मुक्ताविद्रुमशङ्खाद्याः प्रदुष्टाः स्वामिगामिनः ।। २.३४ ।।

गन्धमाल्यं अदत्तं तु भूषणं वास एव वा ।
पादुकेति राजोक्तं तदाक्रामन्वधं अर्हति ।। २.३५ ।।

पण्यमूल्यं भृतिर्न्यासो दण्डो यच्चावहारकम् ।
वृथादानाक्षिकपणा वर्धन्ते नाविवक्षिताः ।। २.३६ ।।

मिथ्याभियोगिनो ये स्युर्द्विजानां शूद्रयोनयः ।
तेषां जिह्वां समुत्कृत्य राजा शूले विधापयेत् ।। २.३७ ।।

आज्ञा लेखः पट्टकः शासनं वा आधिः पत्त्रं विक्रयो वा क्रयो वा ।
राज्ञे कुर्यात्पूर्वं आवेदनं यस्तस्य ज्ञेयः पूर्वपक्षः विधिज्ञैः ।। २.३८ ।।

साक्षिकदूषणे कार्यं पूर्वसाक्षिविशोधनम् ।
शुद्धेषु साक्षिषु ततः पश्चात्साक्ष्यं विशोधयेत् ।। २.३९ ।।

साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ।। २.४० ।।

स्वयं अभ्युपपन्नोऽपि स्वचर्यावसितोऽपि सन् ।
क्रियावसन्नोऽप्यर्हेत परं सभ्यावधारणम् ।। २.४१ ।।

पक्षानुत्सार्य कार्यस्तु सभ्यैः कार्यविनिश्चयः ।
अनुत्सारितनिर्णिक्ते विरोधः प्रेत्य चेह च ।। २.४२ ।।

सभैरेव जितः पश्चाद्राज्ञा शास्यः स्वशास्त्रतः ।
जयिने चापि देयं स्याद्यथावज्जयपत्रकम् ।। २.४३ ।।

व्यवहारमुखं चैतत्पूर्वं उक्तं स्वयंभुवा ।
मुखशुद्धौ हि शुद्धिः स्याद्व्यवहारस्य नान्यथा ।। २.४४ ।।


सभा

नियुक्तेन तु वक्तव्यं अपक्षपतितं वचः ।। ३.१ ।।
युक्तरूपं ब्रुवन्सभ्यो नाप्नुयाद्द्वेषकिल्बिषे ।

ब्रुवाणस्त्वन्यथा सभ्यस्तदेवोभयं आप्नुयात् ।। ३.२ ।।
राजा तु धार्मिकान्सभ्यान्नियुञ्ज्यात्सुपरीक्षितान् ।

व्यवहारधुरं वोढुं ये शक्ताः सद्गवा इव ।। ३.३ ।।
धर्मशास्त्रार्थकुशलाः कुलीनाः सत्यवादिनः ।

समाः शत्रौ च मित्रे च नृपतेः स्युः सभासदः ।। ३.४ ।।
तत्प्रतिष्ठः स्मृतो धर्मो धर्ममूलश्च पार्थिवः ।

सह सद्भिरतो राजा व्यवहारान्विशोधयेत् ।। ३.५ ।।
शुद्धेषु व्यवहारेषु शुद्धिं यान्ति सभासदः ।

शुद्धिश्च तेषां धर्माद्धि धर्मं एव वदेत्ततः ।। ३.६ ।।
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च ।

हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः ।। ३.७ ।।
विद्धो धर्मो ह्यधर्मेण सभां यत्रोपतिष्ठते ।

न चेद्विशल्यः क्रियते विद्धास्तत्र सभासदः ।। ३.८ ।।
सभा वा न प्रवेष्टव्या वक्तव्यं वा समञ्जसम् ।

अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी ।। ३.९ ।।
ये तु सभ्याः सभां गत्वा तूष्णीं ध्यायन्त आसते ।

यथाप्राप्तं न ब्रुवते सर्वे तेऽनृतवादिनः ।। ३.१० ।।
पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति ।

पादः सभासदः सर्वान्पादो राजानं ऋच्छति ।। ३.११ ।।
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः ।

एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते ।। ३.१२ ।।
अन्धो मत्स्यानिवाश्नाति निरपेक्षः सकण्टकान् ।

परोक्षं अर्थवैकल्याद्भाषते यः सभां गतः ।। ३.१३ ।।
तस्मात्सभ्यः सभां प्राप्य रागद्वेषविवर्जितः ।

वचस्तथाविधं ब्रूयाद्यथा न नरकं पतेत् ।। ३.१४ ।।
यथा शल्यं भिषग्विद्वानुद्धरेद्यन्त्रयुक्तितः ।

प्राड्विवाकस्तथा शल्यं उद्धरेद्व्यवहारतः ।। ३.१५ ।।
यत्र सभ्यो जनः सर्वः साध्वेतदिति मन्यते ।

स निःशल्यो विवादः स्यात्सशल्यः स्यादतोऽन्यथा ।। ३.१६ ।।
न सा सभा यत्र न सन्ति वृद्धा वृद्धा न ते ये न वदन्ति धर्मम् ।

नासौ धर्मो यत्र न सत्यं अस्ति न तत्सत्यं यच्छलेनानुविद्धम् ।। ३.१७ ।।
आकुलं च क्रियादानं क्रिया चैवाकुला भवेत् ।। २.१७ ।।


Under Construction

Categories: Sanskrit

Tagged as: