Sanskrit

बोधायन-धर्मसूत्राणि – Bodhayana Dharma Sutram

उपदिष्टो धर्मः प्रतिवेदम् ॥
तस्य अनु व्याख्यास्यामः ॥

स्मार्तो द्वितीयः ॥
तृतीयः शिष्ट-आगमः ॥
शिष्टाः खलु विगत-मत्सरा निरहंकाराः कुम्भी-धान्या अलोलुपा दम्भ-दर्प-लोभ-मोह-क्रोध-विवर्जिताः ॥
धर्मेण अधिगतो येषां वेदः सपरिबृंहणः ।
शिष्टास् तद्-अनुमान-ज्ञाः श्रुति-प्रत्यक्ष-हेतवः ॥ इति ॥
तद्-अभावे दश-अवरा परिषत् ॥
अथ अपि।उदाहरन्ति ।
चातुर्वैद्यं विकल्पी च अङ्ग-विद् धर्म-पाठकः ।
आश्रम-स्थास् त्रयो विप्राः पर्षद् एषा दश-अवरा ॥
पञ्च वा ।स्युस् त्रयो वा ।स्युर् एको वा ।स्याद् अनिन्दितः ।
प्रतिवक्ता तु धर्मस्य न
इतरे तु सहस्रशः ॥
यथा दारुमयो हस्ती यथा चर्ममयो मृगः ।
ब्राह्मणश् चअनधीयानस् त्रयस् ते नाम-धारकाः ॥
यद् वदन्ति तमस्-मूढा मूर्खा धर्मम् अजानतः ।
तत् पापं शतधा भूत्वा वक्तॄन् ।समधिगच्छति ॥
बहु-द्वारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ।
तस्मान् न वाच्यो ह्य् एकेन बहुज्ञेन
अपि संशये ॥
धर्म-शास्त्र-रथ-आरूढा वेद-खड्ग-धरा द्विजाः ।
क्रीड-अर्थम् अपि यद् ।ब्रूयुः स धर्मः परमः स्मृतः ॥
यथाअश्मनि स्थितं तोयं मारुत-अर्कौ ।प्रणाशयेत् ।
तद्वत् कर्तरि यत् पापं जलवत् ।संप्रलीयते ॥
शरीरं बलम् आयुश् च वयः कालं च कर्म च ।
समीक्ष्य धर्मविद् बुद्ध्या प्रायश्चित्तानि ।निर्दिशेत् ॥
अव्रतानाम् अमन्त्राणां जाति-मात्र-उपजीविनाम् ।
सहस्रशः समेतानां परिषत्त्वं न ।विद्यते ॥ इति ॥
पञ्चधा विप्रतिपत्तिर् दक्षिणतस् तथा
उत्तरतः ॥
यानि दक्षिणतस् तानि व्याख्यास्यामः ॥

यथाएतद् अनुपेतेन सह भोजनं स्त्रिया सह भोजनं पर्युषित-भोजनं मातुल-पितृ-स्वसृ-दुहितृ-गमनम् इति ॥
अथ
उत्तरत ऊर्णा-विक्रयः सीधु-पानम् उभयतस्-दद्भिर् व्यवहार आयुधीयकं समुद्र-संयानम् इति ॥
इतरद् इतरस्मिन् कुर्वन् ।दुष्यतिइतरद् इतरस्मिन् ॥
तत्र तत्र देश-प्रामाण्यम् एव ।स्यात् ॥
मिथ्या
एतद् इति गौतमः ॥
उभयं चएव । न।आद्रियेत शिष्ट-स्मृति-विरोध-दर्शनात् ॥
प्राग् आदर्शात् प्रत्यक् कनखलाद् [: कालकवनाद् ] दक्षिणेन हिमवन्तम् उदक् पारियात्रम् एतद् आर्यावर्तम् । तस्मिन् य आचारः स प्रमाणम् ॥
गङ्गा-यमुनयोर् अन्तरम् इत्य् एके ॥
अथअप्य् अत्र भाल्लविनो गाथाम् ।उदाहरन्ति ॥
पश्चात् सिन्धुर् विधरणी सूर्यस्य
उदयनं पुरः ।
यावत् कृष्णा ।विधावन्ति तावद् धि ब्रह्मवर्चसम् ॥ इति ॥
अवन्तयस्_अङ्ग-मगधाः सुराष्ट्रा दक्षिणापथाः ।
उपावृत्-सिन्धु-सौवीरा एते संकीर्ण-योनयः ॥
आरट्टान् कारस्करान् पुण्ड्रान् सौवीरान् वङ्गान् कलिङ्गान् प्रानूनान् इति च ।गत्वा पुनस्तोमेन ।यजेत सर्वपृष्ठया वा ॥

अथ अप्य् ।उदाहरन्ति ।
पद्भ्यां स ।कुरुते पापं यः कलिङ्गान् ।प्रपद्यते ।
ऋषयो निष्कृतिं तस्य ।प्राहुर् वैश्वानरं हविः ॥
बहूनाम् अपि दोषाणां कृतानां दोष-निर्णये ।
पवित्र-इष्टिं ।प्रशंसन्ति सा[! disagreement] हि पावनम् उत्तमम् ॥ इति ॥
अथअप्य् ।उदाहरन्ति ।
वैश्वानरीं व्रातपतीं पवित्र-इष्टिं तथा
एव च ।
ऋतौ_ऋतौ प्रयुञ्जानः पापेभ्यो ।विप्रमुच्यते ॥ पापेभ्यो विप्रमुच्यत इति ॥


1.2

अष्टाचत्वारिंशद् वर्षाणि पौराणं वेद-ब्रह्मचर्यम् ॥
चतुर्विंशतिं द्वादश वा प्रति-वेदम् ॥
संवत्सर-अवमं वा प्रति-काण्डम् ॥
ग्रहण-अन्तं वा जीवितस्यअस्थिरत्वात् ॥
कृष्णकेशस्
अग्नीन् ।आदधीतइति श्रुतिः ॥
अस्य कर्म ।नियच्छन्ति किंचिद् आ मौञ्जि-बन्धनात् ।
वृत्त्या शूद्र-समो ह्य् एष यावद् वेदेन ।जायते ॥इति ॥
गर्भ-आदिः संख्या वर्षाणाम् । तद्-अष्टमेषु ब्राह्मणम् ।उपनयीत ॥
त्र्य्-अधिकेषु राजन्यम् ॥
तस्माद् एक-अधिकेषु वैश्यम् ॥
वसन्तो ग्रीष्मः शरद् इत्य् ऋतवो वर्ण-आनुपूर्व्येण ॥
गायत्री-त्रिष्टुब्-जगतीभिर् यथा-क्रमम् ॥
आ षोडशाद् आ द्वाविंशाद् आ चतुर्विंशाद् अनात्यय एषां क्रमेण ॥
मौञ्जी धनुर्-ज्या शाणी
इति मेखलाः ॥
कृष्ण-रुरु-बस्त-अजिनान्य् अजिनानि ॥
मूर्ध-ललाट-नासाग्र-प्रमाणा याज्ञिकस्य वृक्षस्य दण्डाः ॥
भवत्-पूर्वां भिक्षा-मध्यां याच्ञा-अन्तां भिक्षां ।चरेत् सप्त-अक्षरां क्षां च हिं च न ।वर्धयेत् ॥
भवत्-पूर्वां ब्राह्मणो ।भिक्षेत भवन्-मध्यां राजन्यो भवद्-अन्तां वैश्यः सर्वेषु वर्णेषु ॥
ते ब्राह्मण-आद्याः स्वकर्मस्थाः ॥
सदाअरण्यात् समिध ।आहृत्य।आदध्यात् ॥
सत्यवादी ह्रीमान् अनहंकारः ॥
पूर्व-उत्थायी जघन्य-संवेशी ॥
सर्वत्रअप्रतिहत-गुरुवाक्यस्अन्यत्र पातकात् ॥
यावद्-अर्थ-संभाषी स्त्रीभिः ॥
नृत्त-गीत-वादित्र-गन्ध-माल्य-उपानच्-छत्त्र-धारण-अञ्जन-अभ्यञ्जन् अ-वर्जी ॥
दक्षिणं दक्षिणेन सव्यं सव्येन च।उपसंगृह्णीयात् ॥
दीर्घम् आयुः स्वर्गं च
ईप्सन् कामम् अन्यस्मै साधु-वृत्ताय गुरुणाअनुज्ञातः ॥
असाव् अहं भो इति श्रोत्रे ।संस्पृश्य मनः-समाधान-अर्थम् ॥
अधस्ताज् जान्वोर् आ पद्भ्याम् ॥
आसीनो नआसीनाय न शयानो न शयानाय नअप्रयतो नअप्रयताय ॥
शक्ति-विषये मुहूर्तम् अपि न
अप्रयतः ।स्यात् ॥
समिद्-धारीउदकुम्भ-पुष्प-अन्न-हस्तो न।अभिवादयेद् यच् चअन्यद् अप्य् एवं-युक्तम् ॥
न समवाये
।अभिवादयेद् अत्यन्तशः ॥
भ्रातृ-पत्नीनां युवतीनां च गुरु-प्त्नीनां जात-वीर्यः ॥
नौ-शिला-फलक-कुञ्जर-प्रासाद-कटेषु चक्रवत्सु चअदोषम् सह-आसनम् ॥
प्रसाधन-उत्सादन[: उच्छादन ]-स्नापन-उच्छिष्टबोजनानि
इति गुरोः ॥
उच्छिष्ट-वर्जनं[: वर्जं ] तत्-पुत्रेअनूचाने वा ॥
प्रसाधन-उत्सादन[: उच्छादन ]-स्नापन-वर्जनं[ : वर्जं ] च तत्-पत्न्याम् ॥
धावन्तम् ।अनुधावेद् गच्छन्तम् ।अनुगच्छेत् तिष्ठन्तम् ।अनुतिष्ठेत् ॥
अप्सु श्लाघमानः [: श्लघमानः ] ।स्नायात् ॥
दण्ड इव प्लवेत् ॥
अब्राह्मणाद् अध्ययनम् आपदि ॥
शुश्रूषाअनुव्रज्या च यावद्-अध्ययनम् ॥
तयोस् तद् एव पावनम् ॥
भ्रातृ-पुत्र-शिष्येषु च
एवम् ॥
ऋत्विज्-श्वशुर-पितृव्य-मातुलानां तु यवीयसां प्रत्युत्थाय-अभिभाषणम् ॥
प्रत्यभिवाद इति कात्यः ॥
शिशाव् आङ्गिरसे दर्शनात् ॥
धर्म-अर्थौ यत्र न ।स्यातां शुश्रूषा वाअपि तद्विधा ।
विद्यया सह मर्तव्यं न च
एनाम् ऊषरे ।वपेत् ॥
अग्निर् इव कक्षं ।दहति ब्रह्म पृष्टम् अनादृतम् ।
तस्माद् वै शक्यं न ।ब्रूयाद् ब्रह्म मानम् अकुर्वताम् ॥ इति ॥
एवअस्मै [: अत्र _एव _अस्मै ] वचो ।वेदयन्ते ॥
ब्रह्म वै मृत्यवे प्रजाः ।प्रायच्छत् । तस्मै ब्रह्मचारिणम् एव न ।प्रायच्छत् । सस्
।अब्रवीद् ।अस्तु मह्यम् अप्य् एतस्मिन् भाग इति । याम् एव रात्रिं समिधं न।आहरातैइति ॥
तस्माद् ब्रह्मचारी यां रात्रिं समिधं न।आहरत्य् आयुष एव ताम् ।अवदाय ।वसति । तस्माद् ब्रह्मचारी समिधम् ।आहरेन् नेद् आयुषस्।अवदाय ।वसानिइति ॥
दीर्ग-सत्त्रं वै
एष ।उपैति यो ब्रह्मचर्यम् ।उपैति । स याम् उपयन् समिधम् ।आदधाति सा प्रायणीयाअथ यां स्नास्यन् साउदयनीयाअथ या अन्तरेण सत्त्र्या एवअस्य ताः ॥
ब्राह्मणो वै ब्रह्मचर्यम् उपयन्चतुर्धा भूतानि ।प्रविशत्य् अग्निं पदा मृत्युं पदाआचार्यं पदाआत्मन्य् एवअस्य चतुर्थः पादः ।परिशिष्यते ।
स यद् अग्नौ समिधम् ।आदधाति य एवअस्यअग्नौ पादस् तम् एव तेन ।परिक्रीणाति तं ।संस्कृत्यआत्मन् ।धत्ते स एनम् ।आविशति ।
अथ यद् आत्मानं दरिद्री-।क्रित्य
अह्रीर् ।भूत्वा ।भिक्षते ब्रह्मचर्यं ।चरति य एवअस्य मृत्यौ पादस् तम् एव तेन ।परिक्रीणाति तं ।संस्कृत्यआत्मन् ।धत्ते स एनम् ।आविशति ।
अथ यद् आचार्य-वचः ।करोति य एवअस्यआचार्ये पादस् तम् एव तेन ।परिक्रीणाति तं ।संस्कृत्यआत्मन् ।धत्ते स एनम् ।आविशति ।
अथ यत् स्वाध्यायम् ।अधीते य एव
अस्यआत्मनि पादस् तम् एव तेन ।परिक्रीणाति तं ।संस्कृत्यआत्मन् ।धत्ते स एनम् ।आविशति
न ह वै ।स्नात्वा ।भिक्षेत । अपि ह वै ।स्नात्वा भिक्षां ।चरत्य् अपि ज्ञातीनाम् अशनायाअपि पितॄणाम् अन्याभ्यः क्रियाभ्यः ।
स यद् अन्यां भिक्षितव्यां न ।विन्देत
अपि स्वाम् एवआचार्य-जायां ।भिक्षेतअथो स्वां मातरम् ।
एनं सप्तम्य् अभिक्षिता।अतीयात् ।
भैक्षस्यअचरणे दोषः पावकस्यअसमिन्धने ।
सप्त-रात्रम् ।अकृत्वाएतद् अवकीर्णि-व्रतं ।चरेत् ॥
तम् एवं विद्वांसम् एवं चरन्तं सर्वे वेदा ।आविशन्ति ॥
यथा ह वा अग्निः समिद्धो ।रोचते
एवं ह वैएष ।स्नात्वा ।रोचते य एवं विद्वान् ब्रह्मचर्यं ।चरतिइति ब्राह्मणम् । इति ब्राह्मणम् ॥


1.3

अथ स्नातकस्य ॥

अन्तर्वास उत्तरीयम् ॥
वैणवं दण्डं ।धारयेत् ॥
स-उदकं च कमण्डलुम् ॥
द्वि-यज्ञोपवीती ॥
उष्णीषम् अजिनम् उत्तरीयम् उपानहौ छत्त्रं चउपासनं दर्शपूर्णमासौ ॥
पर्वसु च केश-श्मश्रु-लोम-नख-वापनम् ॥
तस्य वृत्तिः ॥
ब्राह्मण-राजन्य-वैश्य-रथकारेष्व् आमं ।लिप्सेत ॥
भैक्षं वा ॥
वाग्यतस् ।तिष्ठेत् ॥
सर्वाणि च
अस्य देव-पितृ-संयुक्तानि पाकयज्ञ-संस्थानि भूतिकर्मानि ।कुर्वीतइति ॥
एतेन विधिना प्रजापतेः परमेष्ठिनः परम-ऋषयः परमां काष्ठां ।गच्छन्ति
इति बौधायनः ॥


1.4
अथ कमण्डलु-चर्याम् उपदिशन्ति ॥

छागस्य दक्षिणे कर्णे पाणौ विप्रस्य दक्षिणे ।
अप्सु चएव कुश-स्तम्बे पावकः ।परिपठ्यते ॥
तस्मात्
शौचं ।कृत्वा पाणिना ।परिमृजीत पर्यग्निकरणं हि तत् । ।उद्दीप्यस्व जातवेद इति पुनर्-दाहाद् ।विशिष्यते ॥
तत्रअपि किंचित् संस्पृष्टं मनसि ।मन्येत [: ।मन्यते ] कुशैर् वा तृणैर् वा ।प्रज्वाल्य प्रदक्षिणं परिदहनम् ॥
अत ऊर्ध्वं श्व-वायस-प्रभृत्य्-उपहतानाम् अग्नि-वर्ण इत्य् ।उपदिशन्ति ॥
मूत्र-पुरीष-लोहित[: रोहित ]-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
भग्ने कमण्डलौ व्याहृतिभिः शतं ।जुहुयाज् ।जपेद् वा ॥
भूमिर् भूमिम् ।अगान् माता मातरम् अप्य् ।अगात् । ।भूयास्म पुत्रैः पशुभिर् यो नो ।द्वेष्टि स ।भिद्यताम् इति ॥
कपालानि ।संहृत्य
अप्सु ।प्रक्षिप्य सावित्रीं दश-अवरां ।कृत्वा पुनर् एवअन्यं ।गृह्णीयात् ॥
वरुणम् ।आश्रित्य । एतत् ते वरुण पुनर् एव माम् ओम् इति । अक्षरं ।ध्यायेत् ॥
शूद्राद् ।गृह्य शतं ।कुर्याद् वैश्याद् अर्धशतं स्मृतम् ।
क्षत्रियात् पञ्चविंशत् तु ब्राह्मणाद् दश कीर्तिताः ॥
अस्तम्-इत आदित्य उदकं ।गृह्णीयान् न ।गृह्णीयाद् इति ।मीमांसन्ते ब्रह्मवादिनः ॥
।गृह्णीयाद् इत्य् एतद् अपरम् ॥
यावद् उदकं ।गृह्णीयात् तावत् प्राणम् [: प्राणान् ] ।आयच्छेत् ॥
अग्निर् ह वै ह्य् उदकं ।गृह्णाति ॥
कमण्डलु-उदकेन
अभिषिक्त-पाणि-पादो यावद् आर्द्रं तावद् अशुचिः परेषाम् । आत्मानम् एव पूतम् ।करोति । नअन्यत् कर्म ।कुर्वीतइति ।विज्ञायते ॥
अपि वा प्रति-शौचम् आ मणिबन्धात्शुचिर् इति बौधायनः ॥
अथ
अप्य् ।उदाहरन्ति ॥
कमण्डलुर् द्विजातीनां शौच-अर्थं विहितः पुरा ।
ब्रह्मणा मुनि-मुख्यैश् च तस्मात् तं ।धारयेत् सदा ॥
ततः शौचं ततः पानं संध्या-उपासनम् एव च ।
निर्-विशङ्केन कर्तव्यं यदि।इच्छेत् _श्रेय आत्मनः ॥
।कुर्यात्
शुद्धेन मनसा न चित्तं ।दूषयेद् बुधः । सह कमण्डलुनाउत्पन्नः स्वयं-भूस् तस्मात् कमण्डलुना ।चरेत् [आचरेत् ] ॥
मूत्र-पुरीषे कुर्वन् दक्षिणे हस्ते ।गृह्णाति सव्य आचमनीयम् । एतत् ।सिध्यति साधूनाम् ॥
यथा हि सोम-संयोगाच् चमसो मेध्य ।उच्यते ।
अपां तथाएव संयोगान् नित्यो मेध्यः कमण्डलुः ॥
पितृ-देव-अग्नि-कार्येषु तस्मात् तं ।परिवर्जयेत् ॥
तस्माद् विना कमण्डलुना न
अध्वानं ।व्रजेन् न सीमन्तं न गृहाद् गृहम् ॥
पदम् अपि न ।गच्छेद् इषु-मात्राद् इत्य् एके ॥
यद् ।इच्छेद् धर्म-संततिम् इति बौधायनः ॥
ऋग्-विधेनइति वाग् ।वदति । ऋग्-विधेनइति वाग् ।वदति ॥ [: ऋग्विधमृग्विधानं वाग्वदति ऋग्विधमृग्विधानं वाग्वदति ॥ ]


1.5

अथ_अतः शौच-अधिष्ठानम् ॥

अद्भिः ।शुध्यन्ति गात्राणि बुद्धिर् ज्ञानेन ।शुध्यति ।
अहिंसया च भूतात्मा मनः सत्येन ।शुध्यति ॥ इति ॥
मनः-शुद्धिर् अन्तः-शौचम् ॥
बहिः-शौचं ।व्याख्यास्यामः ॥
कौशं सौत्रं वा त्रिस्-त्रिवृद् यज्ञोपवीतम् ॥
आ नाभेः ॥
दक्षिणं बाहुम् ।उद्धृत्य सव्यम् ।अवधाय शिरस्।अवदध्यात् ॥
विपरीतं पितृभ्यः ॥
कण्ठे
अवसक्तं निवीतम् ॥
अधस्अवसक्तं अधोवीतम् ॥
प्राङ्-मुख उदङ्-मुखो वा
आसीनः शौचम् ।आरभेत शुचौ देशे दक्षिणम् बाहुं जानु-अन्तरा ।कृत्वा ।प्रक्षाल्य पादौ पाणी चआ मणिबन्धात् ॥
पाद-प्रक्षालन-उच्छेषणेन न
।आचामेत् ॥
यद्य् ।आचामेद् भूमौ ।स्रावयित्वा।आचामेत् ॥
ब्राह्मेण तीर्थेन
।आचामेत् ॥
अङ्गुष्ठ-मूलं ब्राह्मं तीर्थम् ॥
अङ्गुष्ठ-अग्रं पित्र्यम् अङ्गुल्य्-अग्रं दैवम् अङ्गुलि-मूलम् आर्षम् ॥
अङ्गुलीभिर् न स-बुद्बुदाभिर् न स-फेनाभिर् नउष्णाभिर् न क्षाराभिर् न लवणाभिर् न कलुषाभिर् न विवर्णाभिर् न दुर्-गन्ध-रसाभिः ॥
न हसन् न जल्पन् न तिष्ठन् न विलोकयन् न प्रह्वो न प्रणतो न मुक्त-शिखो न प्रावृत-कण्ठो न वेष्टित-शिरा न त्वरमाणो नअयज्ञोपवीती न प्रसारित-पादो न बद्ध-कक्ष्यो न बहिर्-जानुः शब्दम् अकुर्वन् ॥
त्रिर् अपो हृदयं-गमाः ।पिबेत् ॥
त्रिः ।परिमृजेत् ॥
द्विर् इत्य् एके ॥
सकृद् उभयं शूद्रस्य स्त्रियाश् च ॥
अथ
अप्य् ।उदाहरन्ति ।
गताभिर् हृदयं विप्रः कण्ठ्याभिः क्षत्रियः शुचिः ।
वैश्यस्अद्भिः प्राशिताभिः ।स्यात् स्त्री-शूद्रौ ।स्पृश्य चअन्ततः ॥ इति ॥
दन्तवद् दन्त-सक्तेषु दन्तवत् तेषु धारणात् ।
स्रस्तेषु तेषु न।आचामेत् तेषां संस्राववत्शुचिः ॥ इति ॥
अथअप्य् ।उदाहरन्ति ।
दन्तवद् दन्त-लग्नेषु यच् च
अप्य् अन्तर् मुखे ।भवेत् ।
आचान्तस्यअवशिष्टं स्यान् निगिरन्न् एव तत्शुचिः ॥ इति ॥
खान्य् अद्भिः ।संस्पृश्य पादौ नाभिं शिरः सव्यं पाणिम् अन्ततः ॥
तैजसं चेद् ।आदायउच्छिष्टी ।स्यात् तद् ।उदस्य।आचम्यआदास्यन्न् अद्भिः ।प्रोक्षेत् ॥
अथ चेद् अन्नेन
उच्छिष्टी ।स्यात् तद् ।उदस्य।आचम्यआदास्यन्न् अद्भिः ।प्रोक्षेत् ॥
अथ चेद् अद्भिर् उच्छिष्टी ।स्यात् तद् ।उदस्यआचम्यआदास्यन्न् अद्भिः ।प्रोक्षेत् ॥
एतद् एव विपरीतम् अमत्रे ॥
वानस्पत्ये विकल्पः ॥
तैजसानाम् उच्छिष्टानां गोशकृन्-मृद्-भस्मभिः परिमार्जनम् अन्यतमेन वा ॥
ताम्र-रजत-सुवर्णानाम् अम्लैः ॥
अमत्राणां दहनम् ॥
दारवाणां तक्षणम् ॥
वैणवानां गोमयेन ॥
फलमयानां गो-वाल-रज्ज्वा ॥
कृष्ण-अजिनानां बिल्व-तण्डुलैः ॥
कुतपानाम् अरिष्टैः ॥
और्णानाम् आदित्येन ॥
क्षौमाणां गौर-सर्षप-कल्केन ॥
मृदा चेलानाम् ॥
चेल-वच् चर्मणाम् ॥
तैजस-वद् उपल-मणीनाम् ॥
दारु-वद् अस्थ्नाम् ॥
क्षौम-वत्शङ्ख-शृङ्ग-शुक्ति-दन्तानाम् ॥
पयसा वा ॥
चक्षुर्-घ्राण-आनुकूल्याद् वा मूत्र-पुरीष-असृज्-शुक्र-कुणप-स्पृष्टानां पूर्व-उक्तानाम् अन्यतमेन त्रिःसप्त-कृत्वः परिमार्जनम् ॥
अतैजसानाम् एवं-भूतानाम् उत्सर्गः ॥
वचनाद् यज्ञे चमस-पात्रानाम् ॥
न सोमेन
उच्छिष्टा ।भवन्तिइति श्रुतिः ॥
कालस्
अग्निर् मनसः शुद्धिर् उदक-आद्य्-उपलेपनम् ।
अविज्ञातं च भूताणां षड्विधं शौचम् ।उच्यते ॥ इति ॥
अथअप्य् ।उदाहरन्ति ।
कालं देशं तथा
आत्मानं द्रव्यं द्रव्य-प्रयोजनम् । उपपत्तिम् अवस्थां च ।विज्ञाय शौचं शौच-ज्ञः कुशलो धर्म-ईप्सुः ।समाचरेत् ॥
नित्यं शुद्धः कारु-हस्तः पण्यं यच् च प्रसारितम् ।
ब्रह्मचारि-गतं भैक्षं नित्यं मेध्यम् इति श्रुतिः ॥
वत्सः प्रस्नवने मेध्यः शकुनिः फल-शातने ।
स्त्रियश् च रति-संसर्गे श्वा मृग-ग्रहणे शुचिः ॥
आकराः शुचयः सर्वे ।वर्जयित्वा सुरा-करम् ।
अदूष्याः संतता धारा वात-उद्भूताश् च रेणवः ॥
अमेध्येषु च ये वृक्षा उप्ताः पुष्प-फल-उपगाः ।
तेषाम् अपि न ।दुष्यन्ति पुष्पाणि च फलानि च ॥
चैत्य-वृक्षं चितिं यूपं चण्डालं वेद-विक्रयम् ।
एतानि ब्राह्मणः स्पृष्ट्वा स-चेलो जलम् ।आविशेत् ॥
आत्म-शय्या-आसनं वस्त्रं जाया-अपत्यं कमण्डलुः ।
शुचीन्य् आत्मन एतानि परेषाम् अशुचीनि तु ॥
आसनं शयनं यानं नावः पथि तृणानि च ।
चण्डाल-पतित-स्पृष्टं मारुतेनएव ।शुध्यति ॥
खलक्षेत्रेषु यद् धान्यं कूप-वापीषु यज् जलम् ।
अभोज्याद् अपि तद् भोज्यं यच् च गोष्ठ-गतं पयः ॥
त्रीणि देवाः पवित्राणि ब्राह्मणानाम् ।अकल्पयन् ।
अदृष्टम् अद्भिर् निर्णिक्तं यच् च वाचा ।प्रशस्यते ॥
आपः पवित्रं भूमि-गता गो-तृप्तिर् यासु ।जायते ।
अव्याप्ताश् चेद् अमेध्येन गन्ध-वर्ण-रस-अन्विताः ॥
भूमेस् तु संमार्जन-प्रोक्षण-उपलेपन-अवस्तरण-उल्लेखनैर् यथा-स्थानं दोष-विशेषात् प्रायत्यम् ॥
अथ
अप्य् ।उदाहरन्ति ॥
गो-चर्म-मात्रम् अब्-बिन्दुर् भूमेः ।शुध्यति पातितः ।
समूढम् असमूढं वा यत्रअमेध्यं न ।लक्ष्यते ॥ इति ॥
परोक्षम् अधिश्रितस्य
अन्नस्यअवद्योत्य-अभ्युक्षणम् ॥
तथा
आपणेयानां च भक्षाणाम् ॥
बीभत्सवः शुचि-कामा हि देवा नअश्रद्दधानस्य हविर् ।जुषन्त इति ॥
शुचेर् अश्रद्दधानस्य श्रद्दधानस्य च
अशुचेः ।
।मीमांसित्वाउभयं देवाः समम् अन्नम् ।अकल्पयन् ॥
प्रजापतिस् तु तान् ।आह न समं विषमं हि तत् ।
हतम् अश्रद्दधानस्य श्रद्धा-पूतं ।विशिष्यते ॥ इति ॥
अथ
अप्य् ।उदाहरन्ति ।
अश्रद्धा परमः पाप्मा श्रद्धा हि परमं तपः ।
तस्माद् अश्रद्धया दत्तं हविर् न।अश्नन्ति देवताः ॥
।इष्ट्वा ।दत्त्वा
अपि वा मूर्खः स्वर्गं नहि स ।गच्छति ॥
शङ्का-विहत-चारित्रो यः स्व-अभिप्रायम् आश्रितः ।
शास्त्र-अतिगः स्मृतो मूर्खो धर्म-तन्त्र-उपरोधनात् ॥ इति ॥
शाक-पुष्प-फल-मूल-ओषधीनां तु प्रक्षालनम् ॥
शुष्कं तृणम् अयाज्ञिकं काष्ठं लोष्टं वा ।तिरस्कृत्यअहोरात्रयोर् उदग्-दक्षिणा-मुखः ।प्रवृत्य शिर ।उच्चरेद् ।अवमेहेद् वा ॥
मूत्रे मृदा
अद्भिः प्रक्षालनम् ॥
त्रिः पाणेः ॥
तद्वत् पुरीषे ॥
पर्यायात् त्रिस् त्रिः पायोः पाणेश् च ॥
मूत्र-वद् रेतस उत्सर्गे ॥
नीवीं ।विस्रस्य ।परिधायअप ।उपस्पृशेत् ॥
आर्द्रं तृणं गोमयं भूमिं वा ।समुपस्पृशेत् ॥
नाभेर् अधः स्पर्शनं कर्म-युक्तो ।वर्जयेत् ॥
ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यम् अवाचीनम् अमेध्यम् इति श्रुतिः ॥
शूद्राणाम् आर्य-अधिष्ठितानाम् अर्धमासि मासि वा वपनम् आर्य-वद् आचमन-कल्पः ॥
वैश्यः कुसीदम् ।उपजीवेत् ॥
पञ्चविंशतिस् त्व् एव पञ्च-माषिकी ।स्यात् ॥
अथ
अप्य् ।उदाहरन्ति ।
यः समर्घम् ऋणं ।गृह्य महा-अर्घं ।संप्रयोजयेत् ।
स वै वार्द्धुषिको नाम सर्व-धर्मेषु गर्हितः ॥
वृद्धिं च भ्रूण-हत्यां च तुलया ।समतोलयत् ।
।अतिष्ठद् भ्रूण-हा कोट्यां वार्द्धुषिः ।समकम्पत ॥ इति ॥
गोरक्षकान् वाणिजकांस् तथा कारु-कुशीलवान् ।
प्रेष्यान् वार्द्धुषिकांश् चैव विप्रान्शूद्र-वद् ।आचरेत् ॥
कामं तु परिलुप्त-कृत्याय कदर्याय नास्तिकाय पापीयसे पूर्वौ ।दद्याताम् ॥
अयज्ञेन
अविवाहेन वेदस्यउत्सादनेन च ।
कुलान्य् अकुलतां ।यान्ति ब्राह्मण-अतिक्रमेण च ॥
ब्राह्मण-अतिक्रमो न
।अस्ति मूर्खे मन्त्र-विवर्जिते ।
ज्वलन्तम् अग्निम् ।उत्सृज्य नहि भस्मनि ।हूयते ॥
गोभिर् अश्वैश् च यानैश् च कृष्या राज-उपसेवया ।
कुलान्य् अकुलतां ।यान्ति यानि हीनानि मन्त्रतः ॥
मन्त्रतस् तु समृद्धानि कुलान्य् अल्प-धनान्य् अपि ।
कुल-संख्यां च ।गच्छन्ति ।कर्षन्ति च महद्-यशः ॥
वेदः कृषि-विनाशाय कृषिर् वेद-विनाशिनी ।
शक्तिमान् उभयं ।कुर्याद् अशक्तस् तु कृषिं ।त्यजेत् ॥
न वै देवान् पीवरस्अ-संयत-आत्मा रोरूयमाणः ककुदी ।समश्नुते ।
चलत्-तुन्दी रभसः कम-वादी कृशास इत्य् अणवस् तत्र ।यान्ति ॥
यद् यौवने ।चरति विभ्रमेण सद् वा
असद् वा यादृशं वा यदा वा ।
उत्तरे चेद् वयसि साधु-वृत्तस् तद् एवअस्य ।भवति नइतराणि ॥
।शोचेत मनसा नित्यं दुष्कृतान्य् अनुचिन्तयन् ।
तपस्वी चअप्रमादी च ततः पापात् ।प्रमुच्यते ॥
।स्पृशन्ति बिन्दवः पादौ य आचामयतः परान् ।
न तैर् उच्छिष्ट-भावः ।स्यात् तुल्यास् ते भूमि-गैः सह ॥ इति ॥
सपिण्डेष्व् आ दश-अहम् आशौचम् इति जनन-मरणयोर् ।अधिकृत्य ।वदन्त्य् ऋत्विग्-दीक्षित-ब्रह्मचारि-वर्जम् ॥
सपिण्डता त्व् आ सप्तमात् सपिण्डेषु ॥
आ सप्त-मासाद् आ दन्त-जननाद् वा
उदक-उपस्पर्शनम् ॥
पिण्ड-उदक-क्रिया प्रेते नअत्रिवर्षे ।विधीयते ।
आ दन्त-जननाद् वा
अपि दहनं च न ।कारयेत् ॥
अप्रत्तासु च कन्यासु ॥
प्रत्तास्व् एके ह ।कुर्वते ॥
लोक-संग्रहण-अर्थं हि तद् अमन्त्राः स्त्रियो मताः ॥
स्त्रीणाम् अकृत-विवाहानां त्र्य्-अहात्।शुध्यन्ति बान्धवाः ।
यथा
उक्तेनएव कल्पेन ।शुध्यन्ति च सनाभय इति ॥
अपि च प्रपितामहः पितामहः पिता स्वयं सोदर्या भ्रातरः सवर्णायाः पुत्रः पौत्रः प्रपौत्रस् तत्-पुत्र-वर्जं तेषां च पुत्र-पौत्रम् अविभक्त-दायम् सपिण्डान् ।आचक्षते ॥
विभक्त-दायान् अपि सकुल्यान् ।आचक्षते ॥
असत्स्व् अन्येषु तद्-गामी ह्य् अर्थो ।भवति ॥
सपिण्ड-अभावे सकुल्यः ॥
तद्-अभावे पिता
आचार्योअन्तेवास्य् ऋत्विग् वा ।हरेत् ॥
तद्-अभावे राजा तत्-स्वं [: सत्स्वं ] त्रैविद्य-वृद्धेभ्यः ।संप्रयच्छेत् ॥
न त्व् एव कदा चित् स्वयं राजा ब्राह्मण-स्वम् ।आददीत ॥
अथ
अप्य् ।उदाहरन्ति ।
ब्रह्म-स्वं पुत्र-पौत्र-घ्नं विषम् एकाकिनं ।हरेत् ।
न विषं विषम् इत्य् ।आहुर् ब्रह्म-स्वं विषम् ।उच्यते ॥
तस्माद् राजा ब्राह्मण-स्वं न।आददीत । परमं ह्य् एतद् विषं यद् ब्राह्मण-स्वम् इति ॥
जनन-मरणयोः ।संनिपाते समानो दश-रात्रः ॥
अथ यदि दश-रात्राः ।संनिपतेयुर् आद्यं दश-रात्रम् आशौचम् आ नवमाद् दिवसात् ॥
जनने तावन् माता-पित्रोर् दश-अहम् आशौचम् ॥
मातुर् इत्य् एके तत्-परिहरणात् ॥
पितुर् इत्य् अपरे शुक्र-प्राधान्यात् ॥
अयोनिजा ह्य् अपि पुत्राः ।श्रूयन्ते ॥
माता-पित्रोर् एव तु संसर्ग-सामान्यात् ॥
मरणे तु यथा-बालं ।पुरस्कृत्य यज्ञोपवीतान्य् अपसव्यानि ।कृत्वा तीर्थम् ।अवतीर्य सकृत् सकृत् त्रिर् ।निमज्ज्य
।उन्मज्ज्य।उत्तीर्य। आचम्य तत्-प्रत्ययम् उदकम् ।आसिच्यअत एवउत्तीर्य।आचम्य गृह-द्वार्य् अङ्गारम् उद्कम् इति ।संस्पृश्यअ-क्षार-लवण-आशिनो दश-अहं कटम् ।आसीरन् ॥
एकादश्यां द्वादश्यां वा श्राद्ध-कर्म ॥
शेष-क्रियायां लोकस्अनुरोद्धव्यः ॥
अत्र
अप्य् असपिण्डेषु यथा-आसन्नं त्रि-रात्रम् अहो-रात्रम् एक-अहम् इति ।कुर्वीत ॥
आचार्य-उपाध्याय-तत्-पुत्रेषु त्रि-रात्रम् ॥
ऋत्विजां च ॥
शिष्य-सतीर्थ्य-सब्रह्मचारिषु त्रि-रात्रम् अहो-रात्रम् एक-अहम् इति ।कुर्वीत ॥
गर्भ-स्रावे गर्भ-मास-संमिता रात्रयः स्त्रीणाम् ॥
पर-शव-उपस्पर्शनेअन्-अभिसंधि-पूर्वं स-चेलस्अपः ।स्पृष्ट्वा सद्यः शुद्धो ।भवति ॥
अभिसंधि-पूर्वं त्रि-रात्रम् ॥
ऋतुमत्यां च ॥
यस् ततो जायते सस्अभिशस्त इति व्याख्यातान्य् अस्यै व्रतानि [: ब्रतानि ] ॥
वेद-विक्रयिणं यूपं पतितं चितिम् एव च ।
।स्पृष्ट्वा ।समाचरेत् स्नानं ष्वानं चण्डालम् एव च ॥
ब्राह्मणस्य व्रण-द्वारे पूय-शोणित-संभवे ।
कृमिर् ।उत्पद्यते तत्र प्रायश्चित्तं कथं ।भवेत् ॥
गो-मूत्रं गोमयं क्षीरं दधि सर्पिः कुश-उदकम् ।
त्र्य्-अहं ।स्नात्वा च ।पीत्वा च कृमि-दष्टः शुचिर् ।भवेत् ॥
शुना
उपहतः स-चेलस्।अवगाहेत ॥
।प्रक्षाल्य वा तं देशम् अग्निना संस्पृश्य पुनः प्रक्षाल्य पादौ च
।आचम्य प्रयतो ।भवति ॥
अथअप्य् ।उदाहरन्ति ।
शुना दष्टस् तु यो विप्रो नदीं गत्वा समुद्र-गाम् ।
प्राण-आयाम-शतं कृत्वा घृतं ।प्राश्य ।विशुध्यति ॥
सुवर्ण-रजताभ्यां वा गवां शृङ्ग-उदकेन वा ।
नवैश् च कलशैः स्नात्वा सद्य एव शुचिर् भवेत् ॥ इति ॥
अभक्ष्याः पशवो ग्राम्याः ॥
क्रव्यादाः शकुनयश् च ॥
तथा कुक्कुट-सूकरम् ॥
अन्यत्र
अज-अविभ्यः ॥
भक्ष्याः श्वाविद्-गोधा-शश-शल्यक-कच्छप-खङ्गाः खङ्ग-वर्जाः पञ्च पञ्चनखाः ॥
तथाऋश्य-हरिण-पृषत-महिष-वराह-कुलुङ्गाः कुलुङ्ग-वर्जाः पञ्च द्विखुरिणः ॥
पक्षिणस्-तित्तिरि-कपोत-कपिञ्जल-वार्ध्राणस-मयूर-वारणा वारण-वर्जाः पञ्च विष्किराः ॥
मत्स्याः सहस्रदंष्ट्रश् चिलिचिमो वर्मि-बृहच्छिरो-मशकरि-रोहित-राजीवाः ॥
अनिर्दशाह-संधिनी-क्षीरम् अपेयम् ॥
विवत्स-अन्यवत्सयोश् च ॥
आविकम् औष्ट्रिकम् ऐकशफम् अपेयम् ॥
अपेय-पयः-पाने कृच्छ्रो
अन्यत्र गव्यात् ॥
गव्ये तु त्रि-रात्रम् उपवासः ।
पर्युषितं शाक-यूष-मांस-सर्पिः-शृतधाना-गुड-दधि-मधु-सक्तु-वर्जम् ॥
शुक्तानि तथा-जातो गुडः ॥
श्रावण्यां पौर्णमास्याम् आषाढ्यां वा।उपाकृत्य तैष्यां माघ्यां वा।उत्सृजेयुः । ।उत्सृजेयुः ॥


1.6

शुचिम् अध्वरं देवा जुषन्ते ॥
शुचि-कामा हि देवाः शुचयश् च ॥
तद् एशा अभिवदति ।
शुची वो हव्या मरुतः शुचीनां शुचिं ।हिनोम्य् अध्वरं शुचिभ्यः ।
ऋतेन सत्यम् ऋतसाप ।आयन्शुचि-जन्मानः शुचयः पावकाः ॥ इति ॥[Rig 7,56,12]
अहतं वाससां शुचि ।
तस्माद् यत् किं च
इज्या-संयुक्तं ।स्यात् सर्वं तद् अहतैर् वासोभिः ।कुर्यात् ॥
प्रक्षालित-उपवातान्य् अक्लिष्टानि वासांसि पत्नी-यजमानाव् ऋत्विजश् च ।परिदधीरन् ॥
एवं प्रक्रमाद् ऊर्ध्वम् ॥
दीर्घ-सोमेषु सत्त्रेषु चएवम् ॥
यथा-समाम्नातं च ॥
यथा
एतद् अभिचरणीयेष्व् इष्टि-पशु-सोमेषु लोहित-उष्णीषा लोहित-वाससश् चऋत्विजः ।प्रचरेयुश् चित्र-वाससश् चित्र-आसङ्गा वृषाकपाव् इति च ॥
अग्न्याधाने क्षौमाणि वासांसि तेषाम् अलाभे कार्पासिकान्य् और्णानि वा ।भवन्ति ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानां मृदा
अद्भिर् इति प्रक्षालनम् ॥
वासोवत् तार्प्य-वल्कलानाम् [: वृकलानाम् ] ॥
वल्कलवत् कृष्ण-अजिनानाम् ॥
न परिहितम् अधिरूढम् अप्रक्षालितं प्रावरणम् ॥
अपल्पूलितं मनुष्य-संयुक्तं देवत्रा ।युञ्ज्यात् ॥
घनाया भूमेर् उपघात उपलेपनम् ॥
सुषिरायाः कर्षणम् ॥
क्लिन्नाया मेध्यम् ।आहृत्य प्रच्छादनम् ॥
चतुर्भिः शुध्यते भूमिर् गोभिर् आक्रमणात् खननाद् दहनाद् अभिवर्षणात् ॥
पञ्चमाच् च
उपलेपनात् षष्ठात् कालात् ॥
असंस्कृतायां भूमौ न्यस्तानां तृणानां प्रक्षालनम् ॥
परोक्ष-उपहतानाम् अभ्युक्षणम् ॥
एवं क्षुद्र-समिधाम् ॥
महतां काष्ठानाम् उपघाते प्रक्षाल्यअवशोषणम् ॥
बहूनां तु प्रोक्षणम् ॥
दारुमयाणां पात्राणाम् उच्छिष्ट-समन्वारब्धानाम् अवलेखनम् ॥
उच्छिष्ट-लेप-उपहतानाम् अवतक्षणम् ॥।
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
तद् एतद् अन्यत्र निर्देशात् ॥
यथा
एतद् अग्निहोत्रे घर्मोच्छिष्टे च दधिघर्मे च कुण्डपायिनाम् अयने चउत्सर्गिणाम् अयने च दाक्षायण-यज्ञे चइडादधे।चेडादधे) [: चैडादधे ] च चतुश्चक्रे च ब्रह्मौदनेषु च तेषु सर्वेषु दर्भैर् अद्भिः प्रक्षालनम् ॥
सर्वेष्व् एव सोम-भक्षेष्व् अद्भिर् एव मार्जालीये प्रक्षालनम् ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
मृन्मयानां पात्राणाम् उच्छिष्ट-समन्वारब्धानाम् अवकूलनम् ॥
उच्छिष्ट-लेप-उपहतानां पुनर्-दहनम् ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानाम् उत्सर्गः ॥
तैजसानां पात्राणां पूर्ववत् परिमृष्टानां प्रक्षालनम् ॥
परिमार्जन-द्रव्याणि गोशकृन्-मृद्-भस्मइति ॥
मूत्र-पुरीष-लोहित-रेतः-प्रभृत्य्-उपहतानां पुनर्-करणम् ॥
गोमूत्रे वा सप्त-रात्रं परिशायनं महा-नद्यां वा [: वैवम् ] ॥
एवम् अश्ममयानाम् ॥
अलाबु-बिल्व-विनाडानां गोवालैः परिमार्जनम् ॥
नड-वेणु-शर-कुश-व्यूतानां गोमयेन
अद्भिर् इति प्रक्षालनम् ॥
व्रीहीणाम् उपघाते प्रक्षाल्य-अवशोषणम् ॥
बहूनां तु प्रोक्षणम् ॥
तण्डुलानाम् उत्सर्गः ॥
एवं सिद्ध-हविषाम् ॥
महतां श्व-वायस-प्रभृत्य्-उपहतानां तं देशं पुरुष-अन्नम् उद्धृत्य । पवमानः सुवर्जन इति । एतेनअनुवाकेनअभ्युक्षणम् ॥
मधु-उदके पयो-विकारे च पात्रात् पात्र-अन्तर-आनयने शौचम् ॥
एवं तैल-सर्पिषी उच्छिष्ट-समन्वारब्धे उदके।अवधाय।उपयोजयेत् ॥
अमेध्य-अभ्याधाने ।समारोप्य_अग्निं ।मथित्वा पवमानेष्टिः ॥
शौच-देश-मन्त्र-आवृद्-अर्थ-द्रव्य-संस्कार-काल-भेदेषु पूर्व-पूर्व-प्राधान्यम् । पूर्व-पूर्व-प्राधान्यम् ॥


1.7

उत्तरत उपचारो विहारः ॥
तथाअपवर्गः ॥
विपरीतं पित्र्येषु ॥
पाद-उपहतं ।प्रक्षालयेत् ॥
अङ्गम् उपस्पृश्य सिचं वा
अप ।उपस्पृशेत् ॥
एवं छेदन-भेदन-खनन-निरसन-पित्र्य-राक्षस-नैरृत-रौद्र-अभिचरणीय् एषु ॥
न मन्त्रवता यज्ञ-अङ्गेनआत्मानम् ।अभिपरिहरेत् ॥
अभ्यन्तराणि यज्ञ-अङ्गानि ॥
बाह्या ऋत्विजः ॥
पत्नी-यजमानाव् ऋत्विग्भ्यो
अन्तरतमौ ॥
यज्ञ-अन्गेभ्य आज्यम् आज्याद्हवींषि हविर्भ्यः पशुः पशोः सोमः सोमाद् अग्नयः ॥
यथा-कर्म
ऋत्विजो न ।विहाराद् अभिपर्यावर्तेरन् ॥
प्राङ्-मुखश् चेद् दक्षिणम् अंसम् ।अभिपर्यावर्तेत ॥
प्रत्यङ्-मुखः सव्यम् ॥
अन्तरेण चात्वाल-उत्करौ यज्ञस्य तीर्थम् ॥
अ-चात्वाल आहवनीय-उत्करौ ॥
ततः कर्तारो यजमानः पत्नी च ।प्रपद्येरन् ॥
विसंस्थिते ॥
संस्थिते च संचरोअन्-उत्कर-देशात् [: ऽनूत्करदेशात् ] ॥
अप्रोक्षितम् अप्रपन्नं क्लिन्नं काष्ठं समिधं वा।अभ्यादध्यात् ॥
अग्रेण
आहवनीयं ब्रह्म-यजमानौ ।प्रपद्येते ॥
जघनेनआहवनीयम् इत्य् एके ॥
दक्षिणेन
आहवनीयं ब्रह्म-आयतनं तद्-अपरेण यजमानस्य ॥
उत्तरां श्रोणिम् उत्तरेण होतुः ॥
उत्कर आग्नीध्रस्य ॥
जघनेन गार्हपत्यं पत्न्याः ॥
तेषु काले-काल [: काले काल ] एव दर्भान् ।संस्तृणाति ॥
एकैकस्य चउद-कमण्डलुर् उपात्तः ।स्याद् आचमन-अर्थः ॥
व्रत-उपेतो दीक्षितः ।स्यात् ॥
न पर-पापं ।वदेन् न ।क्रुध्येन् न ।रोदेन् मूत्र-पुरीषे न
।अवेक्षेत ॥
अमेध्यं ।दृष्ट्वा ।जपति । अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषां श्रेष्ठो दीक्षे मा मा हासीर् इति ॥
अथ यद्य् एनम् ।अभिवर्षति । उन्दतीर् बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो ।निर्वधिष्ट_इति ॥


1.8

चत्वारो वर्णा ब्राह्मण-क्षत्रिय-विट्-शूद्राः ॥

तेषां वर्ण-अनुपूर्व्येण चतस्रो भार्या ब्राह्मणस्य ॥
तिस्रो राजन्यस्य ॥
द्वे वैश्यस्य ॥
एका शूद्रस्य ॥
तासु पुत्राः सवर्ण-अनन्तरासु सवर्णाः ॥
एकान्तर-द्व्यन्तरास्व् अम्बष्ठ-उग्र-निषादाः ॥
प्रतिलोमास्व् आयोगव-मागध-वैण-क्षत्तृ[: क्षत्तु ]-पुल्कस-कुक्कुट-वैदेहक-चण्डालः ॥
अम्बष्ठात् प्रथमायां श्वपाकः ॥
उग्राद् द्वितीयायां वैणः ॥
निषादात् तृतीयायां पुल्कसः ॥
विपर्यये कुक्कुटः ॥
निषादेन निषाद्याम् आ पञ्चमाज् जातो।अपहन्ति शूद्रताम् ॥
तम् ।उपनयेत् षष्ठं ।याजयेत् ॥
सप्तमो
अविकृत-बीजः सम-बीजः सम इत्य् एषां संज्ञाः क्रमेण ।निपतन्ति ॥

उपनयेत्षष्ठं ।याजयेत्सप्तमो ऽविकृतो ।भवति ]
त्रिषु वर्णेषु सादृश्याद् अव्रतो ।जनयेत् तु यान् ।
तान् सावित्री-परिभ्रष्टान् व्रात्यान् ।आहुर् मनीषिणः ।
व्रात्यान् ।आहुर् मनीषिण इति ॥


1.9
रथकार-अम्बष्ठ-सूत-उग्र-मागध-आयोगव-वैण-क्षत्तृ-पुल्कस-कुक्कुट् अ-वैदेहक-चण्डाल-श्वपाक-प्रभृतयः ॥
तत्र सवर्णासु सवर्णाः ॥
ब्राह्मणात् क्षत्रियायां ब्राह्मणो वैश्यायाम् अम्बष्ठः शूद्रायां निषादः ॥
पारशव इत्य् एके ॥
क्षत्रियाद् वैश्यायां क्षत्रियः शूद्रायाम् उग्रः ॥
वैश्यात्शूद्रायां रथकारः ॥
शूद्राद् वैश्यायां मागधः क्षत्रियायां क्षत्ता ब्राह्मण्यां चण्डालः ॥
वैश्यात् क्षत्रियायाम् आयोगवो ब्राह्मण्यां वैदेहकः । क्षत्रियाद् ब्राह्मण्यां सूतः ॥
तत्र[: अत्र ]
अम्बष्ठ-उग्रयोः संयोगे ।भवतिअनुलोमः ॥
क्षत्तृ-वैदेहकयोः प्रतिलोमः ॥
उग्राज् जातः क्षत्त्र्यां श्वपाकः ॥
वैदेहकाद् अम्बष्ठायां वैणः ॥
निषदात्
शूद्रायां पुल्कसः ॥
शूद्रान् निषाद्यां कुक्कुटः ॥
वर्ण-संकराद् उत्पन्नान् व्रात्यान् ।आहुर् मनीषिणः । व्रात्यान् ।आहुर् मनीषिण इति ॥
1.10
षड्भागभृतो राजा ।रक्षेत् प्रजाः ॥
ब्रह्म वै स्वं महिमानं ब्राह्मणेष्व् ।अदधाद् अध्ययन-अध्यापन-यजन-याजन-दान-प्रतिग्रह-संयुक्तं वेदानां गुप्त्यै ॥
क्षत्रे बलम् अध्ययन-यजन-दान-शस्त्र-कोश-भूत-रक्षण-संयुक्तं क्षत्रस्य वृद्ध्यै ॥
विट्स्व् अध्ययन-यजन-दान-कृषि-वाणिज्य-पशुपालन-संयुक्तं कर्मणां वृद्ध्यै ॥
शूद्रेषु पूर्वेषां परिचर्याम् ॥
पत्तो ह्य् ।अषृज्यन्तइति ॥
सर्वतोधुरं पुरोहितं ।वृणुयात् ॥
तस्य शासने ।वर्तेत ॥
संग्रामे न ।निवर्तेत ॥
न कर्णिभिर् न दिग्धैः ।प्रहरेत् ॥
भीत-मत्त-उन्मत्त-प्रमत्त-विसंनाह-स्त्री-बाल-वृद्ध-ब्राह्मणैर् न ।युध्येत ॥
अन्यत्र
आततायिनः ॥
अथअप्य् ।उदाहरन्ति ।
अध्यापकं कुले जातं यो ।हन्याद् आततायिनम् ।
न तेन भ्रूणहा ।भवति मन्युस् तन् मन्युम् ।ऋच्छति ॥ इति ॥
सामुद्र-शुल्को वरं रूपम् ।उद्धृत्य दश-पणं शतम् ॥
अन्येषाम् अपि सार-अनुरूप्येण
।अनुपहत्य धर्म्यं ।प्रकल्पयेत् ॥
अब्राह्मणस्य प्रनष्टस्वामिकं रिक्थं संवत्सरं ।परिपाल्य राजा ।हरेत् ॥
अवध्यो वै ब्राह्मणः सर्व-अपराधेषु ॥
ब्राह्मणस्य ब्रह्महत्या-गुरुतल्पगमन-सुवर्णस्तेय-सुरापानेषु कुसिन्ध-भग-सृगाल् अ-सुराध्वजांस् तप्तेनअयसा ललाटे।अङ्कयित्वा विषयान् निर्धमनम् ॥
क्षत्रियादीनां ब्राह्मण-वधे वधः सर्वस्वहरणम् च ॥
तेषाम् एव तुल्य-अपकृष्ट-वधे यथा-बलम् अनुरूपान् दण्डान् ।प्रकल्पयेत् ॥
क्षत्रिय-वधे गो-सहस्रम् ऋषभ-अधिकं राज्ञ ।उत्सृजेद् वैर-निर्यातन-अर्थम् [: वैरनिर्यातनाम् ] ॥
शतं वैश्ये दश शूद्र ऋषभश् चअत्रअधिकः ॥
शूद्र-वधेन स्त्री-वधो गो-वधश् च व्याख्यातोअन्यत्रआत्रेय्या वधाद् धेन्व्-अनडुहोश् च ॥
वधे धेन्व्-अनडुहोर् अन्ते चान्द्रायणं ।चरेत् ॥
आत्रेय्या वधः क्षत्रिय-वधेन व्याख्यातः ॥
हंस-भास-बर्हिण-चक्रवाक-प्रचलाक-काक-उलूक-मण्डूक[: कण्टक ]-डिड्डिक[ : डिड्डिक -मण्डूक ]-डेरिका-श्व-बभ्रु-नकुल-आदीनां वधे शूद्रवत् ॥
लोक-संग्रहण-अर्थं यथा दृष्टं श्रुतं वा साक्षी साक्ष्यं ।ब्रूयात् ॥
पादोअधर्मस्य कर्तारं पादो ।गच्छति साक्षिणम् ।
पादः सभासदः सर्वान् पादो राजानम् ।ऋच्छति ॥
राजा ।भवत्य् अनेनाश् च ।मुच्यन्ते च सभासदः ।
एनो ।गच्छति कर्तारं यत्र निन्द्यो ह ।निन्द्यते ॥
साक्षिणं च
एवम् उद्दिष्टं यत्नात् ।पृच्छेद् विचक्षणः ॥
यां रात्रिम् ।अजनिष्ठास् त्वं यां च रात्रिं ।मरिष्यसि ।
एतयोर् अन्तरा यत् ते सुकृतं सुकृतं ।भवेत् ।
तत् सर्वं राजगामि ।स्याद् अनृतं ब्रुवतस् तव ॥
त्रीन् एव च पितॄन् ।हन्ति त्रीन् एव च पितामहान् ।
सप्त जातान् अजातांश् च साक्षी साक्ष्यं मृषा वदन् ॥
हिरण्य-अर्थे अनृते ।हन्ति त्रीन् एव च पितामहान् ।
पञ्च पश्व्-अनृते ।हन्ति दश ।हन्ति गव-अनृते ॥
शतम् अश्व-अनृते ।हन्ति सहस्रं पुरुष-अनृते ।
सर्वं भूम्य्-अनृते ।हन्ति साक्षी साक्ष्यं मृषा वदन् ॥
चत्वारो वर्णाः पुत्रिणः साक्षिणः ।स्युर् अन्यत्र श्रोत्रिय-राजन्य-प्रव्रजित-मानुष्यहीनेभ्यः ॥
स्मृतौ प्रधानतः प्रतिपत्तिः ॥
अतो_अन्यथा कर्तपत्यम् ॥
द्वादश-रात्रं तप्तं पयः ।पिबेत् कूश्माण्डैर् वा ।जुहुयाद् इति । कूश्माण्डैर् वा ।जुहुयाद् इति ॥


1.11

अष्टौ विवाहाः ॥

श्रुत-शीले ।विज्ञाय ब्रह्मचारिणेअर्थिने दीयते स ब्राह्मः ॥
।आच्छाद्य
।अलंकृत्य । एषा सह धर्मश्[: धर्मं ] ।चर्यताम् इति । प्राजाप्त्यः ॥
पूर्वां लाजाहुतिं ।हुत्वा गोभ्यां सहआर्षः ॥ [: पूर्वां लाजाहुतिं ।हुत्वा गो -मिथुनं कन्यावते ।दत्त्वा ग्रहणमार्षः ]
दक्षिणासु ।नीयमानास्व् अन्तर्वेद्य् ऋत्विजे स दैवः ॥
धनेन
उपतोष्याआसुरः ॥ [: सकामेन सकामाया मिथस्संयोगो गान्धर्वः ]
सकामेन सकामाया मिथः संयोगो गान्धर्वः ॥ [: धनेनोपतोष्यासुरः ]
प्रसह्य हरणाद् राक्षसः ॥
सुप्तां मत्तां प्रमत्तां वा
।उपगच्छेद् इति पैशाचः ॥
तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्व् अपि पूर्वः पूर्वः श्रेयान् ॥
उत्तरेषाम् उत्तर उत्तरः [: उत्तरोत्तरः ] पापीयान् ॥
अत्रअपि षष्ठ-सप्तमौ क्षत्रधर्म-अनुगतौ तत्-प्रत्ययत्वात् क्षत्रस्य ॥
पञ्चम-अष्टमौ वैश्य-शूद्राणाम् ॥
अयन्त्रित-कलत्रा हि वैश्य-शूद्रा ।भवन्ति ॥
कर्षण-शुश्रूषा-अधिकृतत्वात् ॥
गान्धर्वम् अप्य् एके ।प्रशंसन्ति सर्वेषां स्नेह-अनुगतत्वात् ॥
यथा युक्तो विवाहस् तथा युक्ता प्रजा ।भवति
इति विज्ञायते ॥
अथअप्य् ।उदाहरन्ति । [ adds: साधवस्त्रिपुरुषमार्षाद्दश दैवाद्दश प्राजापत्याद्दश पूर्वान्दश _अपरानात्मानं च ब्राह्मीपुत्र इति ।विज्ञायते ॥वेद -स्वीकरण -शक्तिरप्येवंविधानामेव पुत्राणाम्।भवति _इति ॥]
क्रीता द्रव्येण या नारी सा न पत्नी ।विधीयते ।
सा न दैवे न सा पित्र्ये दासीं तां काश्यपो
।अब्रवीत् ॥
शुल्केन ये ।प्रयच्छन्ति स्वसुतां लोभ-मोहिताः ।
आत्म-विक्रयिणः पापा महा-किल्बिष-कारकाः ॥
।पतन्ति नरके घोरे ।घ्नन्ति चसप्तमं कुलम् ।
गमन-आगमनं चैव सर्वं शुल्के ।विधीयते ॥
पौर्णमस्य्-अष्टका-अमावास्या-अग्न्युत्पात-भूमिकम्प-श्मशान-देशपति-श्रो त्रिय-एकतीर्थ-प्रयाणेष्व् अहोरात्रम् अनध्यायः ॥
वाते पूति-गन्धे नीहारे च नृत्त-गीत-वादित्र-रुदित-साम-शब्देषु तावन्तं कालम् ॥
स्तनयित्नु-वर्ष-विद्युत्-संनिपाते त्र्यहम् अनध्यायोअन्यत्र वर्षा-कालात् ॥
वर्षा-काले
अपि वर्ष-वर्जम् अहोरात्रयोश् च तत्-कालम् ॥
पित्र्य-प्रतिग्रह-भोजनयोश् च तद्-दिवस-शेषम् ॥
भोजनेष्व् आ जरणम् ॥
पाणि-मुखो हि ब्राह्मणः ॥
अथअप्य् ।उदाहरन्ति ।
भुक्तं प्रतिगृहीतं च निर्विशेषम् इति श्रुतिः ॥
पितर्य्[: पितुर्य् ] उपरते त्रि-रात्रम् ॥
द्वयम् उ ह वै सुश्रवसो
अनूचानस्य रेतो ब्राह्मणस्यऊर्ध्वं नाभेर् अधस्ताद् अन्यत् । स यद् ऊर्ध्वं नाभेस् तेन हएतत् ।प्रजायते यद् ब्राह्मणान् ।उपनयति यद् ।अध्यापयति यद् ।याजयति यत् साधु ।करोति । सर्वाअस्यएषा प्रजा ।भवति । अथ यद् अवाचीणं नाभेस् तेन हअस्यऔरसी प्रजा ।भवति । तस्मात्श्रोत्रियम् अनूचानम् अप्रजोअसिइति न ।वदन्ति ॥
तस्माद् द्वि-नामा द्वि-मुखो विप्रो द्वि-रेता द्वि-जन्मा च
इति ॥
शूद्र-अपपात्र-श्रवण-संदर्शनयोश् च तावन्तं कालम् ॥
नक्तं शिवा-विरावे न।अधीयीत स्वप्न-अन्तम् ॥
अहोरात्रयोश् च संध्ययोः पर्वसु च न
।अधीयीत ॥
न मांसम् ।अश्नीयान् न स्त्रियम् ।उपेयात् ॥
पर्वसु हि रक्षः-पिशाचा व्यभिचारवन्तो ।भवन्तिइति विज्ञायते ॥
अन्येषु च
अद्भुत-उत्पातेष्व् अहोरात्रम् अनध्यायोअन्यत्र मानसात् ॥
मानसे
अपि जनन-मरणयोर् अनध्यायः ॥
अथअप्य् ।उदाहरन्ति ।
।हन्ति
अष्टमी ह्य् उपाध्यायं ।हन्ति शिष्यं चतुर्दशी ।
।हन्ति पञ्चदशी विद्यां तस्मात् पर्वणि ।वर्जयेत् ।
तस्मात् पर्वणि ।वर्जयेद् इति ॥


2.1
अथअतः प्रायश्चित्तानि ॥
भ्रूणहा द्वादश समाः ॥
कपाली खट्वा-अङ्गी गर्दभ-चर्म-वासा अरण्य-निकेतनः श्मशाने ध्वजं शव-शिरः ।कृत्वा कुटीं ।कारयेत् । ताम् ।आवसेत् । सप्त-आगाराणि भैक्षं चरन् स्वकर्म
आचक्षाणस् तेन प्राणान् ।धारयेत् । अलब्ध्वाउपवासः ॥
अश्वमेधेन गोसवेन
अग्निष्टुता वा ।यजेत ॥
अश्वमेध-अवभृथे वाआत्मानं ।पावयेत् ॥
अथ
अप्य् ।उदाहरन्ति ।
अमत्या ब्राह्मणं ।हत्वा दुष्टो ।भवति धर्मतः ।
ऋषयो निष्कृतिं तस्य ।वदन्त्य् अमति-पूर्वके ।
मति-पूर्वं घ्नतस् तस्य निष्कृतिर् न।उपलभ्यते ॥
।अपगूर्य ।चरेत् कृच्छ्रम् अतिकृच्छ्रं निपातने ।
कृच्छ्रं चान्द्रायणं चैव लोहितस्य प्रवर्तने ।
तस्मान् नैव
।अपगुरेत न च ।कुर्वीत शोणितम् ॥ इति ॥
नव समा राजन्यस्य ॥
तिस्रो वैश्यस्य ॥
संवत्सरं शूद्रस्य ॥
स्त्रियाश् च ॥
ब्राह्मणवद् आत्रेय्याः ॥
गुरुतल्पगस् तप्ते लोह-शयने ।शयीत ॥
सूर्मिं वा ज्वलन्तीं ।श्लिष्येत् ॥
लिङ्गं वा सवृषणं ।परिवास्यअञ्जलाव् ।आधाय दक्षिणा-प्रतीच्योर् दिशोर् अन्तरेण ।गच्छेद् आ निपतनात् ॥
स्तेनः प्रकीर्य केशान् सैध्रकम् मुसलम् ।आदाय स्कन्धेन राजानं ।गच्छेद् अनेन मां जहि
इति । तेनएनं ।हन्यात् ॥
अथ
अप्य् ।उदाहरन्ति ।
स्कन्धेनआदाय मुसलं स्तेनो राजानम् ।अन्वियात् ।
अनेन ।शाधि मां राजन् क्षत्र-धर्मम् अनुस्मरन् ॥
शासने वा विसर्गे वा स्तेनो ।मुच्येत किल्बिषात् ।
अशासनात् तु तद् राजा स्तेनाद् आप्नोति किल्बिषम् ॥ इति ॥
सुरां ।पीत्वा
उष्णया कायं ।दहेत् ॥
अमत्या पाने कृच्छ्र-अब्द-पादं ।चरेत् पुनर्-उपनयनं च ॥
वपन-व्रत-नियम-लोपश् च पूर्व-अनुष्ठितत्वात् ॥
अथअप्य् ।उदाहरन्ति ।
अमत्या वारुणीं ।पीत्वा ।प्राश्य मूत्र-पुरीषयोः ।
ब्राह्मणः क्षत्रियो वैश्यः पुनः-संस्कारम् ।अर्हति ॥
सुरा-धाने तु यो भाण्डे अपः पर्युषिताः ।पिबेत् ।
शङ्खपुष्पी-विपक्वेन षडहं क्षीरेण ।वर्तयेत् ॥
गुरु-प्रयुक्तश् चेन् ।म्रियेत गुरुस् त्रीन् कृच्छ्रांश् ।चरेत् ॥
एतद् एव
असंस्कृते ॥
ब्रह्मचारिणः शव-कर्मणा व्रत-आवृत्तिर् अन्यत्र माता-पित्रोर् आचार्याच् च ॥
स चेद् ।व्याधीयीत कामं गुरोर् उच्छिष्टं भैषज्य-अर्थे सर्वं ।प्राश्नीयात् ॥
येन।इच्छेत् तेन ।चिकित्सेत् ॥
स यदा गदी ।स्यात् तद् ।उत्थाय
आदित्यम् ।उपतिष्ठेत[: उपतिष्ठते ] । हंसः शुचिषद् इति । एतया ॥
दिवा रेतः ।सिक्त्वा त्रिर् अपो हृदयं-गमाः ।पिबेद् रेतस्याभिः ॥
यो ब्रह्मचारी स्त्रियम् ।उपेयात् सोअवकीर्णी ॥
स गर्दभं पशुम् ।आलभेत ॥
नैरृतः पशुः पुरोडाशश् च रक्षो-देवतो[: -दैवतो ] यम-देवतो[ : -दैवतो ] वा ॥
शिश्नात् प्राशित्रम् अप्स्व् अवदानैश् ।चरन्ति
इति ।विज्ञायते ॥
अपि वाअमावास्यायां निश्य् अग्निम् ।उपसमाधाय दार्विहोमिकीं[: दाविंहोमिकीं ] परिचेष्टां ।कृत्वा द्वे आज्य-आहुती ।जुहोति । कामअवकीर्णो।अस्म्य् अवकीर्णो।अस्मि काम कामाय स्वाहा । कामअभिद्रुग्धो।अस्म्य् अभिद्रुग्धो।अस्मि काम कामाय स्वाहाइति ॥
।हुत्वा प्रयत-अञ्जलिः कवातिर्यङ्ङ् अग्निम् ।अभिमन्त्रयेत[: उपतिष्ठेत ] । सं मा ।सिञ्चन्तु मरुतः सम् इन्द्रः सं बृहस्पतिः । सं माअयम् अग्निः सिञ्चत्व् आयुषा च बलेन चआयुष्मन्तं ।करोत माइति ॥
अथ
अस्य [: अथ यस्य ] ज्ञातयः परिषद्य् उद-पात्रं ।निनयेयुर् असाव् अहम् इत्थं-भूत इति । ।चरित्वाअपः पयो घृतं मधु लवणम् इत्य् आरब्धवन्तं ब्राह्मणा ।ब्रूयुश् चरितं त्वयाइति । ओम् इतिइतरः ।प्रत्याह । चरित-निर्वेशं सवनीयं ।कुर्युः ॥
सगोत्रां चेद् अमत्या
।उपगच्छेन्[: उपयच्छेन् ] मातृवद् एनां ।बिभृयात् ॥
प्रजाता चेत् कृच्छ्र-अब्द-पादं[: -षादं ] ।चरित्वा । यन् म आत्मनो मिन्दा।अभूत् । पुनर् अग्निश् चक्षुर् ।अदाद् इति । एताभ्यां ।जुहुयात् ॥
परिवित्तः परिवेत्ता या च
एनं ।परिविन्दति ।
सर्वे ते नरकं ।यान्ति दातृ-याजक-पञ्चमाः ॥
परिवित्तः परिवेत्ता दाता यश् चअपि याजकः ।
कृच्छ्र-द्वादश-रात्रेण स्त्री त्रि-रात्रेण ।शुध्यति ॥ इति ॥
अथ पतनीयानि ॥
समुद्र-संयानम् ॥
ब्रह्मस्व-न्यास-अपहरणम् ॥
भूम्य्-अनृतम् ॥
सर्व-पण्यैर् व्यवहरणम् ॥
शूद्र-सेवनम् ॥
शूद्रा-अभिजननम् ॥
तद्-अपत्यत्वं च ॥
एतेषाम् [: एषाम् ] अन्यतमं [ : अन्यतमत् ] ।कृत्वा ॥
चतुर्थ-काला मित-भोजिनः ।स्युर् अपो
।अभ्यवेयुः [ अपो ऽभ्यवेयुः ] सवन-अनुकल्पम् ।
स्थान-आसनाभ्यां ।विहरन्त एते त्रिभिर् वर्षैस् तद् ।अपघ्नन्ति [: अपहन्ति ] पापम् ॥
यद् एक-रात्रेण ।करोति पापं कृष्णं वर्णं ब्राह्मणः सेवमानः ।
चतुर्थ-काल उदक-अभ्यवायी त्रिभिर् वर्षैस् तद् ।अपहन्ति पापम् ॥ इति ॥
अथउपपातकानि ॥
अगम्या-गमनं गुर्वी-सखीं गुरु-सखीम् अपपात्रां पतितां च ।गत्वा भेषज-करणं ग्राम-याजनं रङ्ग-उपजीवनं नाट्य-आचार्यता गो-महिषी-रक्षणं यच् च
अन्यद् अप्य् एवं-युक्तं कन्या-दूषणम् इति ॥
तेषां तु निर्वेशः पतितवृत्तिर् द्वौ संवत्सरौ ॥
अथअशुचिकराणि ॥
द्यूतम् अभिचारो
अनाहिताग्नेर् उञ्छ-वृत्तिता समावृत्तस्य भैक्षचर्या तस्य चएव गुरु-कुले वास ऊर्ध्वं चतुर्भ्यो मासेभ्यस् तस्य चअध्यापनं नक्षत्र-निर्देशश् चइति ॥
तेषां तु निर्वेशो द्वादश मासान् द्वादश अर्ध-मासान् द्वादश द्वादश-अहान् द्वादश षड्-अहान् द्वादश त्र्य्-अहान् द्वादशाहं षड्-अहं त्र्य्-अहम् अहोरात्रम् एक-अहम् इति यथा कर्म-अभ्यासः ॥
अथ पतिताः ।समवसाय धर्मांश् ।चरेयुर् इतरेतर-याजका इतरेतर-अध्यापका मिथो विवहमानाः । पुत्रान् ।संनिष्पाद्य ।ब्रूयुर् ।विप्रव्रजत
अस्मत् त एवम् आर्यान् ।संप्रतिपत्स्यथइति ॥
अथ
अपि न सेन्द्रियः पतति ॥
तद् एतेन वेदितव्यम् । अङ्ग-हीनोअपि [: अपि हि ] स-अङ्गं ।जनयेत् [ : जनयतीति ] ॥
मिथ्या
एतद् इति हारीतः ॥
दधि-धानी-सधर्माः स्त्रियः ।स्युः । यो हि दधि-धान्याम् अप्रयतं पय ।आतच्य ।मन्थति न तत्शिष्टा धर्मकृत्येषु।उपयोजयन्ति ॥
एवम् अशुचि शुक्रं यन् ।निर्वर्तते न तेन सह संप्रयोगो ।विद्यते ॥
अशुचि-शुक्र-उत्पन्नानां तेषाम् इच्छतां प्रायश्चित्तिः ॥
पतनीयानां तृतीयोअंशः स्त्रीणाम् अंशस् तृतीयः ॥
अथ
अप्य् ।उदाहरन्ति ।
भोजन-अभ्यञ्जनाद् दानाद् यद् अन्यत् ।कुरुते तिलैः ।
श्व-विष्ठायां कृमिर् [: क्रिमिर् ] ।भूत्वा पितृभिः सह ।मज्जति ॥ इति ॥
पितॄन् वा एष ।विक्रीणीते यस् तिलान् ।विक्रीणीते । प्राणान् वा एष ।विक्रीणीते यस् तण्डुलान् ।विक्रीणीते । सुकृत-अंशान् वा एष ।विक्रीणीते यः पणमानो दुहितरं ।ददाति ॥
तृण-काष्ठम् [: तृणं काष्ठम् ] अविकृतं विक्रेयम् ॥
अथअप्य् ।उदाहरन्ति [: उदारन्ति ] ।
पशवश् च
एकतो-दन्ता अश्मा च लवण-उद्धृतः ।
एतद् ब्राह्मण ते पण्यं तन्तुश् चअरजनीकृतः ॥ इति ॥
पातक-वर्जं वा बभ्रुं पिङ्गलां गां रोमशां सर्पिषा
।अवसिच्य कृष्णैस् तिलैर् ।अवकीर्यअनूचानाय ।दद्यात् ॥
कूश्माण्डैर् वा द्वादशाहम् ॥
यद् अर्वाचीनम् एनो भ्रूण-हत्यायास् तस्मान् ।मुच्यत इति ॥
पातक-अभिशंसने कृच्छ्रः ॥
तद्-अब्दो[: तदशब्दो ]
अभिशंसितुः ॥
संवत्सरेण पतति पतितेन समाचरन् । याजन-अध्यापनाद् यौनान् न तु यान-आसन-अशनाद् इति ॥
अमेध्य-प्राशने प्रायश्चित्तिर् [: प्रायश्चित्तं ] नैष्पुरीष्यम् । तत् सप्तरात्रेण।अवाप्यते ॥
अपः पयो घृतं पराक इति प्रति-त्र्यहम् उष्णानि स तप्त-कृच्छ्रः ॥
त्र्यहं प्रातस् तथा सायम् [ adds: त्र्यहमन्यद् ] अयाचितं [ adds: त्र्यहं परं तु नाश्नीयात् ] पराक इति कृच्छ्रः ॥
प्रातः सायम् अयाचितं पराक इति त्रयश् चतूरात्राः स एष स्त्री-बाल-वृद्धानां कृच्छ्रः ॥
यावत् सकृद् ।आददीत तावद् ।अश्नीयात् पूर्ववत् सो
अतिकृच्छ्रः ॥
अब्-भक्षस् तृतीयः स कृच्छ्रातिकृच्छ्रः ॥
कृच्छ्रे त्रिषवणम् उदक-उपस्पर्शनम् ॥
अधः-शयनम् ॥
एक-वस्त्रता केश-श्मश्रु-लोम-नख-वापनम् ॥
एतद् एव स्त्रियाः केश-वपन-वर्जम् । केश-वपन-वर्जम् ॥


2.2
नित्य-उदकी नित्य-यज्ञोपवीती नित्य-स्वाध्यायी वृषल-अन्न-वर्जी ।
ऋतौ च गच्छन् विधिवच् च जुह्वन् न ब्राह्मणश् ।च्यवते ब्रह्मलोकात् ॥
मनुः पुत्रेभ्यो दायं ।व्यभजद् इति श्रुतिः ॥
समशः सर्वेषाम् अविशेषात् ॥
वरं वा रूपम् ।उद्धरेज् ज्येष्ठः ॥
तस्माज् ज्येष्ठं पुत्रं धनेन ।निरवसाययन्तिइति श्रुतिः ॥
दशानां वा
एकम् ।उद्धरेज् ज्येष्ठः ॥
समम् इतरे ।विभजेरन् ॥
पितुर् अनुमत्या दाय-विभागः सति पितरि ॥
चतुर्णां वर्णानां गो-अश्व-अज-अवयो ज्येष्ठ-अंशः ॥
नाना-वर्ण-स्त्री-पुत्र-समवाये दायं दश-अंशान् ।कृत्वा चतुरस् त्रीन् द्वाव् एकम् इति यथा-क्रमं ।विभजेरन् ॥
औरसे तुउत्पन्ने सवर्णास् तृतीय-अंश-हराः ॥
सवर्णा-पुत्र-अनन्तरा-पुत्रयोर् अनन्तरा-पुत्रश् चेद् गुणवान् स ज्येष्ठ-अंशं ।हरेत् ॥
गुणवान् हि शेषाणां भर्ता ।भवति ॥
सवर्णायां संस्कृतायां स्वयम्-उत्पादितम् औरसं पुत्रं ।विद्यात् ।
अथ
अप्य् ।उदाहरन्ति ।[ om-]
अङ्गाद् अङ्गात् ।संभवसि हृदयाद् अधि ।जायसे ।[ om-]
आत्मा वै पुत्र-नामअसि स ।जीव शरदः शतम् ॥ इति ॥[ om-]
।अभ्युपगम्य दुहितरि जातं पुत्रिका-पुत्रम् अन्यं दौहित्रम् ॥
अथ
अप्य् ।उदाहरन्ति ।
।आदिशेत् प्रथमे पिण्डे मातरं पुत्रिका-सुतः ।
द्वितीये पितरं तस्यास् तृतीये च पितामहम् ॥ इति ॥
मृतस्य प्रसूतो यः क्लीब-व्याधितयोर् वाअन्येनअनुमते [: ऽनुमतेन ] स्वे क्षेत्रे स क्षेत्रजः ॥
स एष द्वि-पिता द्वि-गोत्रश् च द्वयोर् अपि स्वधा-रिक्थ-भाग् ।भवति ॥
अथअप्य् ।उदाहरन्ति ।
द्वि-पितुः पिण्ड-दानं ।स्यात् पिण्डे-पिण्डे च नामनी ।
त्रयश् च पिण्डाः षण्णां ।स्युर् एवं कुर्वन् न ।मुह्यति ॥ इति ॥
माता-पितृभ्यां दत्तो
अन्यतरेण वा योअपत्य-अर्थे ।परिगृह्यते स दत्तः ॥
सदृशं यं सकामं स्वयं ।कुर्यात् स कृत्रिमः ॥
गृहे गूढ-उत्पन्नो
अन्ते ज्ञातो गूढजः [: गूढोः ] ॥
माता-पितृभ्याम् उत्सृष्टोअन्यतरेण वा योअपत्य-अर्थे ।परिगृह्यते सोअपविद्धः ॥
असंस्कृताम् अनतिसृष्टां याम् ।उपगच्छेत् [: उपयच्छेत् ] तस्यां यो जातः स कानीनः ॥
या गर्भिणी ।संस्क्रियते विज्ञाता वा
अविज्ञाता वा तस्यां यो जातः स सहोढः ॥
माता-पित्रोर् हस्तात् क्रीतोअन्यतरेण वा योअपत्य-अर्थे ।परिगृह्यते स क्रीतः ॥
क्लीबं ।त्यक्त्वा पतितं वा याअन्यं पतिं ।विन्देत् तस्यां पुनर्भ्वां यो जातः स पौनर्भवः ॥
माता-पितृ-विहीनो यः स्वयम् आत्मानं ।दद्यात् स स्वयं-दत्तः ॥
द्विजाति-प्रवरात्
शूद्रायां जातो निषादः ॥
कामात् पारशव इति पुत्राः ॥
अथअप्य् ।उदाहरन्ति ।
औरसं पुत्रिका-पुत्रं क्षेत्रजं दत्त-कृत्रिमौ ।
गूढजं च
अपविद्धं च रिक्थ-भाजः ।प्रचक्षते ॥
कानीनं च सहोढं च क्रीतं पौनर्भवं तथा ।
स्वयं-दत्तं निषादं च गोत्र-भाजः ।प्रचक्षते ॥
तेषां प्रथम एवइत्य् ।आहऔपजङ्घनिः ॥
इदानीम् अहम् ।ईर्ष्यामि स्त्रीणां जनक नो पुरा ।
यतो यमस्य सदने जनयितुः पुत्रम् अब्रुवन् ॥
रेतोधाः पुत्रं नयति परेत्य यम-सादने ।
तस्मात् स्व-भार्यां [: तस्माद्भार्यां ] ।रक्षन्तु [ : रक्षन्ति ] बिभ्यतः [ : बिभ्यन्तः ] पर-रेतसः ॥
अप्रमत्ता रक्षत [: रक्षथ ] तन्तुम् एतं मा वः क्षेत्रे परबीजानि ।वाप्सुः [ : वप्सुः ] ।
जनयितुः पुत्रो ।भवति सांपराये [: साम्षराये ] मोघं वेत्ता ।कुरुते तन्तुम् एतम् ॥ इति ॥
तेषाम् अप्राप्त-व्यवहाराणाम् अंशान् स-उपचयान् सुनिगुप्तान् ।निदध्युर् आ व्यवहार-प्रापणात् ॥
अतीत-व्यवहारान् ग्रास-आच्छादनैर् ।बिभृयुः ॥
अन्ध-जड-क्लीब-व्यसनि-व्याधित-आदींश् च ॥
अकर्मिणः ॥
पतित-तज्-जात-वर्जम् ॥
न पतितैः संव्यवहारो ।विद्यते ॥
पतिताम् अपि तु मातरं ।बिभृयाद् अनभिभाषमाणः ॥
मातुर् अलंकारं दुहितरः सांप्रदायिकं ।लभेरन्न् अन्यद् वा ॥
न स्त्रियाः [: स्त्री ] स्वातन्त्र्यं ।विद्यते [ : विदन्ते ] ॥
अथअप्य् ।उदाहरन्ति ।
पिता ।रक्षति कौमारे भर्ता ।रक्षति यौवने ।
पुत्रस् तु स्थविरी-भावे [: स्थाविरे भावे ] न स्त्री स्वातन्त्र्यम् ।अर्हति ॥ इति ॥
निरिन्द्रिया ह्य् अदायाश् च स्त्रियो मता इति श्रुतिः ॥
भर्तृ-हिते यतमानाः स्वर्गं लोकं ।जयेरन् ॥
व्यतिक्रमे कृच्छ्रः ॥
शूद्रे चान्द्रायणं ।चरेत् ॥
वैश्य-आदिषु प्रतिलोमं कृच्छ्र-अतिकृच्छ्र-आदींश् ।चरेत् ॥
पुंसां ब्राह्मण-आदीनां संवत्सरं ब्रह्मचर्यम् ॥
शूद्रं कट-अग्निना [: कटारिनना ] ।दहेत् ॥
अथ
अप्य् ।उदाहरन्ति ॥
अब्राह्मणस्य शारीरो दण्डः संग्रहणे ।भवेत् ॥
सर्वेषाम् एव वर्णानां दारा रक्ष्यतमा धनात् ॥
न तु चारण-दारेषु न रङ्ग-अवतरे [: रङ्गावतारे ] वधः ।
।संसर्जयन्ति ता ह्य् एतान् निगुप्तांश् च।आलयन्त्य् अपि ॥
स्त्रियः पवित्रम् अतुलं न
एता ।दुष्यन्ति कर्हिचित् ।
मासि-मासि रजो ह्य् आसां दुरितान्य् ।अपकर्षति ॥
सोमः शौचं ।ददौ [: ददत् ] तासां गन्धर्वः शिक्षितां गिरम् ।
अग्निश् च सर्वभक्षत्वं [: सर्वभक्ष्यत्वं ] तस्मान् निष्कल्मषाः स्त्रियः ॥
अप्रजां दशमे वर्षे स्त्री-प्रजां द्वादशे ।त्यजेत् ।
मृत-प्रजां पञ्चदशे सद्यस् त्व् अप्रिय-वादिनीम् ॥
संवत्सरं प्रेत-पत्नी मधु-मांस-मद्य-लवणानि ।वर्जयेद् अधः ।शयीत ॥
षण्-मासान् इति मौद्गल्यः ॥
अत ऊर्ध्वं गुरुभिर् अनुमता देवराज् ।जनयेत् पुत्रम् अपुत्रा ॥
अथअप्य् ।उदाहरन्ति ।
वशा च
उत्पन्न-पुत्रा च नीरजस्का गत-प्रजा ।
अकामा संनियोज्या ।स्यात् फलं यस्यां न ।विद्यते ॥ इति ॥
मातुल-पितृ-स्वसा भगिनी भागिनेयी स्नुषा मातुलानी सखि-वधूर् इत्य् अगम्याः ॥
अगम्यानां गमने कृच्छ्र-अतिकृच्छ्रौ चान्द्रायणम् इति प्रायश्चित्तिः ॥
एतेन चण्डाली-व्यवायो व्याख्यातः ॥
अथ
अप्य् ।उदाहरन्ति ।
चण्डालीं ब्राह्मणो ।गत्वा ।भुक्त्वा च ।प्रतिगृह्य च ।
अज्ञानात् पतितो विप्रो ज्ञानात् तु समतां ।व्रजेत् ॥
पितुर् गुरोर् नरेन्द्रस्य भार्यां ।गत्वा प्रमादतः ।
गुरुतल्पी ।भवेत् तेन पूर्व-उक्तस् तस्य निष्क्रयः [: निश्चयः ] ॥ इति ॥
अध्यापन-याजन-प्रतिग्रहैर् अशक्तः क्षत्र-धर्मेण ।जीवेत् प्रत्यनन्तरत्वात् ॥
इति गौतमः । अत्युग्रो हि क्षत्र-धर्मो ब्राह्मणस्य ॥
अथ
अप्य् ।उदाहरन्ति ।
गव-अर्थे ब्राह्मण-अर्थे वा वर्णानां वाअपि संकरे ।
।गृह्णीयातां विप्र-विशौ शस्त्रं धर्म-व्यपेक्षया ॥
वैश्य-वृत्तिर् अनुष्ठेया प्रत्यनन्तरत्वात् ॥
प्राक् प्रातर्-आशात् कर्षी ।स्यात् ॥
अस्यूत-नासिकाभ्यां समुष्काभ्याम् अतुदन्न् आरया मुहुर्-मुहुर् अभ्युच्छन्दयन् ॥
भार्या-आदिर् अग्निः । तस्मिन् कर्म-करणं प्राग् अग्न्याधेयात् ॥
अग्न्याधेय-प्रभृत्य् अथ
इमान्य् अजस्राणि ।भवन्ति यथाएतद् अग्न्याधेयम् अग्निहोत्रं दर्शपूर्णमासाव् आग्रयणम् उदगयन-दक्षिणायनयोः पशुश् चातुर्मास्यान्य् ऋतुमुखे षड्ढोता वसन्ते ज्योतिष्तोम इत्य् एवं क्षेम-प्रापणम् ॥
अथ
अप्य् ।उदाहरन्ति ।
न दिवा-स्वप्न-शीलेन न च सर्व-अन्न-भोजिना ।
कामं शक्यं नभो गन्तुम् आरूढ-पतितेन वा ॥
दैन्यं शाठ्यं जैह्म्यं च ।वर्जयेत् ॥
अथअप्य् अत्रउशनसश् च वृषपर्वणश् च दुहित्रोः संवादे गाथाम् ।उदाहरन्ति ।
स्तुवतो दुहिता त्वं वै याचतः प्रतिगृह्णतः ।
अथअहं स्तूयमानस्य ददतोअप्रतिगृह्णतः ।
ददतो_अप्रतिगृह्णत इति ॥


2.3
तपस्यम् अपोवगाहनम्[अपस् -अवगाहनम् ][ : तपस्यमवगाहनम् ] ॥
देवतास् ।तर्पयित्वा पितृ-तर्पणम् ॥
अनुतीर्थम् अप ।उत्सिञ्चति [: उत्सिञ्चेद् ] । ऊर्जं वहन्तीर् इति ॥
अथअप्य् ।उदाहरन्ति ।
स्रवन्तीष्व् अनिरुद्धासु त्रयो वर्णा द्विजातयः ।
प्रातर्-उत्थाय [: प्रातरुत्थायाय ] ।कुर्वीरन् देव-ऋषि-पितृ-तर्पणम् ॥
निरुद्धासु न ।कुर्वीरन्न् अंश-भाक् तत्र सेतु-कृत् ॥
तस्मात् पर-कृतान् सेतून् कूपांश् च ।परिवर्जयेद् इति ॥
अथ
अप्य् ।उदाहरन्ति ।
।उद्धृत्य वाअपि त्रीन् पिण्डान् ।कुर्याद् आपत्सु नउ सदा ।
निरुद्धासु तु मृत्-पिण्डान् कूपात् त्रीन् अब्-घटांस् तथा ॥ इति ॥
बहु-प्रतिग्राह्यस्यअप्रतिग्राह्यस्य वा ।प्रतिगृह्य [: बहु प्रतिग्राह्यस्य प्रतिगृह्याप्रतिग्राह्यस्य वा ]अयाज्यं वा ।याजयित्वअनाश्य-अन्नस्य वाअन्नम् ।अशित्वा तरत्समन्दीयं ।जपेद् इति ॥
अथअप्य् ।उदाहरन्ति ।
गुरु-संकरिणश् च
एव शिष्य-संकरिणश् च ये ।
आहार-मन्त्र-संकीर्णा दीर्घं तम ।उपासते ॥ इति ॥
अथ स्नातक-व्रतानि ॥
सायं प्रातर् यद् अशनीयं ।स्यात् तेनअन्नेन वैश्वदेवं बलिम् ।उपहृत्य ब्राह्मण-क्षत्रिय-विट्-शूद्रान् अभ्यागतान् यथा-शक्ति ।पूजयेत् ॥
यदि बहूनां न ।शक्नुयाद् एकस्मै गुणवते ।दद्यात् ॥
यो वा प्रथमम् उपगतः [: उपागतः ] ।स्यात् ॥
शूद्रश् चेद् आगतस् तं कर्मणि ।नियुञ्ज्यात् ॥
श्रोत्रियाय वा
अग्रं ।दद्यात् ॥
ये नित्या भाक्तिकाः [: नित्याभक्तिकास् ] ।स्युस् तेषाम् अनुपरोधेन संविभागो विहितः ॥
न त्व् एव कदाचिद् ।अदत्त्वा [: अदत्वा ] ।भुञ्जीत ॥
अथअप्य् अत्रअन्न-गीतौ श्लोकाव् ।उदाहरन्ति ।
यो माम् ।अदत्त्वा [: अदत्वा ] पितृ-देवताभ्यो भृत्य-अतिथीनां च सुहृज्-जनस्य ।
संपन्नम् अश्नन् विषम् ।अत्ति मोहात् तम् ।अद्म्य् अहं तस्य च मृत्युर् ।अस्मि ॥
हुत-अग्निहोत्रः कृत-वैश्वदेवः ।पूज्यअतिथीन् भृत्य-जन-अवशिष्टम् ।
तुष्टः शुचिः श्रद्-दधद् ।अत्ति यो मां तस्य
अमृतं ।स्यां स च मां ।भुनक्ति [: भुनक्तीति ] ॥
सुब्राह्मण-श्रोत्रिय-वेदपारगेभ्यो गुर्व्-अर्थ-निवेश-औषध-अर्थ-वृत्ति-क्षीण-यक्ष्यमाण-अध्ययन-अध्व-सं योग-वैश्वजितेषु द्रव्य-संविभागो यथा-शक्ति कार्यो बहिर्वेदि भिक्षमाणेषु ॥
कृत-अन्नम् इतरेषु ॥
सुप्रक्षालित-पाद-पाणिर् आचान्तः शुचौ संवृते देशेअन्नम् उपहृतम् ।उपसंगृह्य काम-क्रोध-द्रोह-लोभ-मोहान् ।अपहत्य सर्वाभिर् अङ्गुलीभिः शब्दम् अकुर्वन् ।प्राश्नीयात् ॥
न पिण्ड-शेषं पात्र्याम् ।उत्सृजेत् ॥
मांस-मत्स्य-तिल-संसृष्ट-प्राशने
अप ।उपस्पृश्यअग्निम् ।अभिमृशेत् ॥
अस्तमिते च स्नानम् ॥
पालाशम् आसनं पादुके दन्त-धावनम् इति ।वर्जयेत् ॥
उत्सङ्गेअन्नं ।भक्षयेत् ॥
आसन्द्यां न ।भुञ्जीत ॥
वैणवं दण्डं ।धारयेद् रुक्म-कुण्डले च ॥
पदा पादस्य प्रक्षालनम् अधिष्ठानं च ।वर्जयेत् ॥
न बहिर्-मालां ।धारयेत् ॥
सूर्यम् उदय-अस्तमये न ।निरीक्षेत ॥
इन्द्र-धनुर् इति परस्मै ।प्रब्रूयात् ॥
यदि ।ब्रूयान् मणि-धनुर् इत्य् एव ।ब्रूयात् ॥
पुर-द्वारिइन्द्रकील-परिघाव् अन्तरेण न।अतीयात् ॥
प्लेङ्खयोर् [: प्रेङ्खयोर् ] अन्तरेण न ।गच्छेत् ॥
वत्स-तन्तीं च नउपरि ।गच्छेत् ॥
भस्म-अस्थि-रोम-तुष-कपाल-अपस्नानानि न
।अधितिष्ठेत् ॥
गां धयन्तीं न परस्मै ।प्रब्रूयात् ॥
अधेनुम् अधेनुर् इति ।ब्रूयात् ॥
यदि ।ब्रूयाद् धेनुं भव्या
इत्य् [: धेनुभव्येत्य् ] एव ।ब्रूयात् ॥
शुक्ता रूक्षाः परुषा वाचो न ।ब्रूयात् ॥
एकोअध्वानं ।व्रजेत् ॥
न पतितैर् न स्त्रिया न शूद्रेण ॥
न प्रतिसायं ।व्रजेत् ॥
न नग्नः ।स्नायात् ॥
न नक्तं ।स्नायात् ॥
न नदीं बाहुकस् ।तरेत् ॥
न कूपम् ।अवेक्षेत ॥
न गर्तम् ।अवेक्षेत ॥
न तत्र।उपविशेद् यत एनम् अन्य ।उत्थापयेत् ॥
पन्था देयो ब्राह्मणाय गवे राज्ञे ह्य् अचक्षुषे ।
वृद्धाय भार-तप्ताय गर्भिण्यै दुर्बलाय च ॥
प्रभूत-एध-उदक[: प्रभूतधोदक ]-यव-ससमित्-कुश-माल्य-उपनिष्क्रमणम् आढ्य-जन-आकुलम् अनलस-समृद्धम् आर्य-जन-भूयिष्ठम् अ-दस्यु-प्रवेश्यं ग्रामम् ।आवसितुं ।यतेत धार्मिकः ॥
उदपान-उदके ग्रामे ब्राह्मणो वृषली-पतिः ।
।उषित्वा द्वादश समाः शूद्र-साधर्म्यम् ।ऋच्छति ॥
पुर-रेणु-कुण्ठित-शरीरस् तत्-परिपुर्ण[: तत्परिपूर्ण ]-नेत्र-वदनश् च ।
नगरे वसन् सुनियत-आत्मा सिद्धिम् ।अवाप्स्यति
इति न तद् ।अस्ति ॥
रथ-अश्व-गज-धान्यानां गवां चएव रजः शुभम् ।
अप्रशस्तं समूहन्याः श्व-अज-अवि-खर-वाससाम् ॥
पूज्यान् ।पूजयेत् ॥
ऋषि-विद्वन्-नृप-वर-मातुल-श्वशुर-ऋत्विजः ।
एते
अर्घ्याः शास्त्र-विहिताः स्मृताः काल-विभागशः ॥
ऋषि-विद्वन्-नृपाः प्राप्ताः क्रिया-आरम्भे वर-ऋत्विजौ ।
मातुल-श्वशुरौ पूज्यौ संवत्सर-गत-आगतौ ॥ इति ॥
अग्न्य्-अगारे गवां मध्ये ब्राह्मणानां च संनिधौ ।
स्वाध्याये भोजने चएव दक्षिणं बाहुम् ।उद्धरेत् ॥
उत्तरं वासः कर्तव्यं पञ्चस्व् एतेषु कर्मसु ।
स्वाध्याय-उत्सर्ग-दानेषु भोजन-आचामयोस् [: भोजनाचमनयोस् ] तथा ॥
हवनं भोजनं दानम् उपहारः प्रतिग्रहः ।
बहिर्-जानु न कार्याणि तद्वद् आचमनं स्मृतम् ॥
अन्ने श्रितानि भूतानि अन्नं प्राणम् इति श्रुतिः ।
तस्माद् अन्नं प्रदातव्यम् अन्नं हि परमं हविः ॥
हुतेन ।शाम्यते पापं हुतम् अन्नेन ।शाम्यति ।
अन्नं दक्षिणया शान्तिम् ।उपयाति
इति न श्रुतिः [: नश्श्रुतिरिति ] ।
उपयातिइति नः श्रुतिर् इति ॥[ om-]
2.4
अथ
अतः संध्या-उपासन-विधिं ।व्याख्यास्यामः ॥
तीर्थं ।गत्वाअप्रयतोअभिषिक्तः प्रयतो वाअनभिषिक्तः प्रक्षालित-पाद-पाणिर् अप ।आचम्य सुरभिमत्याअब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् व्याहृतिभिर् अन्यैश् च पवित्रैर् आत्मानं ।प्रोक्ष्य प्रयतो ।भवति ॥
अथअप्य् ।उदाहरन्ति ।
अपोवगाहनं [अपस् -अवगाहनं ] स्नानं विहितं सार्ववर्णिकम् ।
मन्त्रवत्-प्रोक्षणं च
अपि द्विजातीनां ।विशिष्यते ॥ इति ॥
सर्व-कर्मणां चएवआरम्भेषु प्राक् संध्या-उपासन-कालाच् चएतेनएव पवित्र-समूहेनआत्मानं ।प्रोक्ष्य प्रयतो ।भवति ॥
अथ
अप्य् ।उदाहरन्ति । दर्भेष्व् आसीनो दर्भान् धारयमाणः स-उदकेन पाणिना प्रत्यङ्-मुखः सावित्रीं सहस्रकृत्व ।आवर्तयेत् ॥
प्राण-आयाम-शो वा शतकृत्वः ॥
उभयतः-प्रणवां स-सप्त-व्याहृतिकां मनसा वा दशकृत्वः ॥
त्रिभिश् च प्राण-आयामैस् तान्तो ब्रह्महृदयेन ॥
वारुणीभ्यां रात्रिम् ।उपतिष्ठते । इमं मे वरुण । तत् त्वा ।यामिइति । द्वाभ्याम् ॥
एवम् एव प्रातः प्राङ्-मुखस् तिष्ठन् ॥
मैत्रीभ्याम् अहर् ।उपतिष्ठते। मित्रस्य चर्षणीधृतः । मित्रो जनान् यातयति
इति । द्वाभ्याम् ॥
सुपूर्वाम् अपि पूर्वाम् ।उपक्रम्यउदित आदित्ये ।समाप्नुयात् ॥
अनस्तमित ।उपक्रम्य सुपश्चाद् अपि पश्चिमाम् ॥
संध्ययोश् च संपत्ताव् अहो-रात्रयोश् च संतत्यै [: सन्ततिः ] ॥
अपि च
अत्र प्रजापति-गीतौ श्लोकौ ।भवतः ।
अनागतां तु ये पूर्वाम् अनतीतां तु पश्चिमाम् ।
संध्यां न।उपासते विप्राः कथं ते ब्राह्मणाः स्मृताः ॥
सायं प्रातः सदा संध्यां ये विप्रा न
उ ।उपासते ।
कामं तान् धार्मिको राजा शूद्र-कर्मसु ।योजयेद् ॥ इति ॥
तत्र सायम्-अतिक्रमे रात्र्य्-उपवासः प्रातर्-अतिक्रमेअहर्-उपवासः ॥
स्थान-आसन-फलम् ।अवाप्नोति ॥
अथ
अप्य् ।उदाहरन्ति ।
यद् उपस्थ-कृतं पापं पद्भ्यां वा यत् कृतं ।भवेत् ।
बाहुभ्यां मनसा वाअपि वाचा वा यत् कृतं ।भवेत् ।
सायं संध्याम् ।उपस्थाय तेन तस्मात् ।प्रमुच्यते ॥
रात्र्या च
अपि ।संधीयते न चएनं वरुणो ।गृह्णाति ॥
एवम् एव प्रातर् ।उपस्थाय रात्रि-कृतात् पापात् ।प्रमुच्यते ॥
अह्ना च
अपि ।संधीयते मित्रश् चएनं ।गोपायत्य् आदित्यश् चएनं स्वर्गं लोकम् ।उन्नयति ॥
स एवम् एवअहर्-अहर् अहो-रात्रयोः संधिषुउपतिष्ठमानो ब्रह्म-पूतो ब्रह्म-भूतो ब्राह्मणः शास्त्रम् अनुवर्तमानो ब्रह्म-लोकम् ।अभिजयतिइति ।विज्ञायते । ब्रह्मलोकम् ।अभिजयतिइति ।विज्ञायते ॥
2.5
अथ हस्तौ ।प्रक्षाल्य कमण्डलुं मृत्-पिण्डं च ।संगृह्य [: गृह्य ] तीर्थं ।गत्वा त्रिः पादौ ।प्रक्षालयते त्रिर् आत्मानं ॥
अथ हएके ।ब्रुवते । श्मशानम् आपो देव-गृहं गोष्ठं यत्र च ब्राह्मणा ।अप्रक्षाल्य पादौ तन् न प्रवेष्टव्यम् इति ॥
अथ
अपो।अभिप्रपद्यते ।
हिरण्य-शृङ्गं वरुणं ।प्रपद्ये तीर्थं मे ।देहि याचितः ।
यन् मया भुक्तम् असाधूनां पापेभ्यश् च प्रतिग्रहः ॥
यन् मे मनसा वाचा कर्मणा वा दुष्कृतं कृतम् ।
तन् न [: म ] इन्द्रो वरुणो बृहस्पतिः सविता च ।पुनन्तु पुनः-पुनः ॥ इति ॥
अथ
अञ्जलिनाअप ।उपहन्ति [: अथाञ्जलिना उपहन्ति ] । सुमित्रा न आप ओषधयः ।सन्त्व् इति ॥
तां दिशं ।निरुक्षति यस्याम् अस्य दिशि द्वेष्यो ।भवति । दुर्मित्रास् तस्मै भूयासुर् यो
अस्मान् ।द्वेष्टि यं च वयं ।द्विष्म इति ॥
अथअप ।उपस्पृश्य त्रिः प्रदक्षिणम् उदकम् ।आवर्तयति । यद् अपां [: यदर्पां ] क्रुरं [ : क्रूरं ] यद् अमेध्यं यद् अशान्तं तद् ।अपगच्छताद् [ H: अप गच्छताद् ] इति ॥
अप्सु ।निमज्ज्य
।उन्मज्ज्य ॥
अप्सु सतः प्रयमणं ।विद्यते न वासः-पल्पूलनं नउपस्पर्शनम् ॥
यद्य् उपरुद्धाः स्युर् एतेन।उपतिष्ठते । नमोअग्नयेअप्सुमते नम इन्द्राय नमो वरुणाय नमो वारुण्यै नमोअद्भ्य इति ॥
।उत्तीर्य।आचम्यआचान्तः पुनर् ।आचामेत् ।
आपः ।पुनन्तु पृथिवीं [: पृथिवी ] पृथिवी पूता ।पुनातु माम् । ।पुनन्तु ब्रह्मणस्पतिर् ब्रह्म पूता ।पुनातु माम् ॥
यद् उच्छिष्टम् अभोज्यं यद् वा दुश्चरितं मम । सर्वं ।पुनन्तु माम् आपोअसतां च प्रतिग्रहं स्वाहाइति ॥
पवित्रे ।कृत्वाअद्भिर् ।मार्जयति । आपो हि ष्ठा मयोभुव इति तिसृभिः । हिरण्य-वर्णाः शुचयः पावका इति चतसृभिः । पवमानः सुवर्जन [: सुवर्चन ] इति । एतेनअनुवाकेन ।मार्जयित्वाअन्तर्-जल-गतोअघमर्षणेन त्रीन् प्राण-आयामान् ।धारयित्वा।उत्तीर्य वासः ।पीडयित्वा प्रक्षालित-उपवातान्य् अक्लिष्टानि वासांसि ।परिधायअप ।आचम्य दर्भेष्व् आसीनो दर्भान् धारयमाणः प्राङ्-मुखः सावित्रीं सहस्रकृत्व ।आवर्तयेत्शतकृत्वोअपरिमितकृत्वो वा दश-अवरम् ॥
अथआदित्यम् ।उपतिष्ठते । उद् वयं तमसस् परि । उद् उ त्यम् । चित्रम् । तच् चक्षुर् देवहितम् । य उदगाद् इति ॥
अथ
अप्य् ।उदाहरन्ति । प्रणवो व्याहृतयः सावित्री चइत्य् एते पञ्च ब्रह्म-यज्ञा अहर्-अहर् ब्राह्मणं किल्बिषात् ।पावयन्ति ॥
पूतः पञ्चभिर् ब्रह्म-यज्ञैर् अथ
उत्तरं देवतास् ।तर्पयति ॥
ओम् [ ओम् ] अग्निः प्रजापतिः सोमो रुद्रोअदितिर् बृहस्पतिः सर्पा इत्य् एतानि प्राग्-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि ।तर्पयामि । ओं वसूंश् च ।तर्पयामि ॥
ओं पितरो
अर्यमा भगः सविता त्वष्टा वायुर् इन्द्राग्नी इत्य् एतानि दक्षिण-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि ।तर्पयामि । ओं रुद्रांश् च ।तर्पयामि ॥
ओं मित्र इन्द्रो महापितर आपो विश्वे देवा ब्रह्मा विष्णुर् इत्य् एतानि प्रत्यग्-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि ।तर्पयामि । ओम् आदित्यांश् च ।तर्पयामि ॥
ओं वसवो वरुणोअज एकपाद् अहिर्बुध्न्यः पूषाअश्विनौ यम इत्य् एतान्य् उदग्-द्वाराणि दैवतानि स-नक्षत्राणि स-ग्रहाणि स-अहो-रात्राणि स-मुहूर्तानि ।तर्पयामि । ओं विश्वान् देवांस् ।तर्पयामि । ओं साध्यांश् च ।तर्पयामि [ : साध्यांस्तर्पयामि ] ॥
ओं ब्रह्माणं ।तर्पयामि । ओं प्रजापतिं ।तर्पयामि । ओं चतुर्-मुखं ।तर्पयामि । ओं परमेष्ठिनं ।तर्पयामि । ओं हिरण्यगर्भं ।तर्पयामि । ओं स्वयंभुवं ।तर्पयामि । ओं ब्रह्म-पार्षदांस् ।तर्पयामि । ओं ब्रह्म-पार्षदीश् च ।तर्पयामि । ओम् अग्निं ।तर्पयामि । ओं वायुं ।तर्पयामि । ओं वरुणं ।तर्पयामि । ओं सूर्यं ।तर्पयामि । ओं चन्द्रमसं ।तर्पयामि । ओं नक्षत्राणि ।तर्पयामि । [ : ज्योतींषि तर्पयामि । ] ओं सद्योजातं ।तर्पयामि । ओं भूः पुरुषं ।तर्पयामि । ओं भुवः पुरुषं ।तर्पयामि । ओं सुवः पुरुषं ।तर्पयामि । ओं भूर् भुवः सुवः पुरुषं ।तर्पयामि । ओं भूस् ।तर्पयामि । ओं भुवस् ।तर्पयामि । ओं सुवस् ।तर्पयामि । ओं महस् ।तर्पयामि । ओं जनस् ।तर्पयामि । ओं तपस् ।तर्पयामि । ओं सत्यं ।तर्पयामि ॥
ओं भवं देवं ।तर्पयामि । ओं शर्वं देवम् ।तर्पयामि । ओम् ईशानं देवं ।तर्पयामि । ओं पशुपतिं देवं ।तर्पयामि । ओं रुद्रं देवं ।तर्पयामि । ओम् उग्रं देवं ।तर्पयामि । ओं भीमं देवं ।तर्पयामि । ओं महान्तं देवं ।तर्पयामि ।
ओं भवस्य देवस्य पत्नीं ।तर्पयामि । ओं शर्वस्य देवस्य पत्नीं ।तर्पयामि । ओम् ईशानस्य देवस्य पत्नीं ।तर्पयामि । ओं पशुपतेर् देवस्य पत्नीं ।तर्पयामि । ओं रुद्रस्य देवस्य पत्नीं ।तर्पयामि । ओम् उग्रस्य देवस्य पत्नीं ।तर्पयामि । ओं भीमस्य देवस्य पत्नीं ।तर्पयामि । ओं महतो देवस्य पत्नीं ।तर्पयामि ।
ओं भवस्य देवस्य सुतं ।तर्पयामि । ओं शर्वस्य देवस्य सुतं ।तर्पयामि । ओम् ईशानस्य देवस्य सुतं ।तर्पयामि । ओं पशुपतेर् देवस्य सुतं ।तर्पयामि । ओं रुद्रस्य देवस्य सुतं ।तर्पयामि । ओम् उग्रस्य देवस्य सुतं ।तर्पयामि । ओं भीमस्य देवस्य सुतं ।तर्पयामि । ओं महतो देवस्य सुतं ।तर्पयामि । ओं रुद्रांस् ।तर्पयामि । ओं रुद्र-पार्षदांस् ।तर्पयामि । ओं रुद्र-पार्षदीश् च ।तर्पयामि ॥
ओं विघ्नं ।तर्पयामि । ओं विनायकं ।तर्पयामि । ओं वीरं ।तर्पयामि । ओं स्थूलं [ : शूरं ] ।तर्पयामि । ओं वरदं ।तर्पयामि । ओं हस्तिमुखं ।तर्पयामि । ओं वक्रतुण्डं ।तर्पयामि । ओम् एकदन्तं ।तर्पयामि । ओं लम्बोदरं ।तर्पयामि । [ : गणपतिं तर्पयामि । ] ओं विघ्न-पार्षदांस् ।तर्पयामि । ओं विघ्न-पार्षदीश् च ।तर्पयामि ॥
ओं सनत्कुमारं ।तर्पयामि । ओं स्कन्दं ।तर्पयामि । ओम् इन्द्रं ।तर्पयामि । ओं षष्ठीं ।तर्पयामि । ओं षण्मुखं ।तर्पयामि । ओं जयन्तं [ : विशाखं ] ।तर्पयामि । ओं विशाखं [ : जयन्तं ] ।तर्पयामि । ओं महासेनं ।तर्पयामि । ओं सुब्रह्मण्यं ।तर्पयामि [ ओं सुब्रह्मण्यं तर्पयामि ] । ओं स्कन्द-पार्षदांस् ।तर्पयामि । ओं स्कन्द-पार्षदीश् च ।तर्पयामि ॥
ओम् आदित्यं ।तर्पयामि । ओं सोमं ।तर्पयामि । ओम् अङ्गारकं ।तर्पयामि । ओं बुधं ।तर्पयामि । ओं बृहस्पतिं ।तर्पयामि । ओं शुक्रं ।तर्पयामि । ओं शनैश्चरं ।तर्पयामि । ओं राहुं ।तर्पयामि । ओं केतुं ।तर्पयामि ॥
ओं केशवं ।तर्पयामि । ओं नारायणं ।तर्पयामि । ओं माधवं ।तर्पयामि । ओं गोविन्दं ।तर्पयामि । ओं विष्णुं ।तर्पयामि । ओं मधुसूदनं ।तर्पयामि । ओं त्रिविक्रमं ।तर्पयामि । ओं वामनं ।तर्पयामि । ओं श्रीधरं ।तर्पयामि । ओं हृषीकेशं ।तर्पयामि । ओं पद्मनाभं ।तर्पयामि । ओं दामोदरं ।तर्पयामि । ओं श्रियं देवीं ।तर्पयामि । ओं सरस्वतीं देवीं ।तर्पयामि । ओं पुष्टिं [ : पुष्टिं देवीं ] ।तर्पयामि । ओं तुष्टिं [ : तुष्टिं देवीं ] ।तर्पयामि । ओं गरुत्मन्तं [ : वैनतेयं ] ।तर्पयामि । ओं विष्णु-पार्षदांस् ।तर्पयामि । ओं विष्णु-पार्षदीश् च ।तर्पयामि ॥
ओं यमं ।तर्पयामि । ओं यमराजं ।तर्पयामि । ओं धर्मं ।तर्पयामि । ओं धर्मराजं ।तर्पयामि । ओं कालं ।तर्पयामि । ओं नीलं ।तर्पयामि । ओं मृत्युं ।तर्पयामि । ओं वैवस्वतं [ : अन्तकं ] ।तर्पयामि । ओं चित्रं ।तर्पयामि । ओं चित्रगुप्तं ।तर्पयामि । ओम् औदुम्बरं ।तर्पयामि । [ : वैवस्वतं तर्पयामि । ] ओं वैवस्वत-पार्षदांस् ।तर्पयामि । ओं वैवस्वत-पार्षदीश् च ।तर्पयामि ॥
ओं भूमि-देवांस् [ : भरद्वाजं ] ।तर्पयामि । ओं काश्यपम् [ : गौतमं ] ।तर्पयामि । ओम् अन्तरिक्षं [ : अत्रिं ] ।तर्पयामि । [ : आङ्गिरसं तर्पयामि । ] ओं विद्यां ।तर्पयामि । [ : दुर्गां तर्पयामि ।ज्येष्ठां तर्पयामि । ] ओं धन्वन्तरिं ।तर्पयामि । ओं धन्वन्तरि-पार्षदांस् ।तर्पयामि । ओं धन्वन्तरि-पार्षदीश् च ।तर्पयामिइति [ : तर्पयामि ] ॥
अथ निवीती ॥
ओम् ऋषींस् ।तर्पयामि । ओं महर्षींस् [ : परमर्षींस् ] ।तर्पयामि । ओं परमर्षींस् [ : महर्षींस् ] ।तर्पयामि । ओं ब्रह्मर्षींस् ।तर्पयामि । ओं देवर्षींस् ।तर्पयामि । ओं राजर्षींस् ।तर्पयामि । ओं श्रुतर्षींस् ।तर्पयामि । ओं जनरृषींस् ।तर्पयामि । ओं तपरृषींस् [ : तपर्षींस् ] ।तर्पयामि । ओं सत्यर्षींस् ।तर्पयामि । ओं सप्तर्षींस् ।तर्पयामि । ओं काण्डर्षींस् ।तर्पयामि । ओं ऋषिकांस् ।तर्पयामि । ओम् ऋषि-पत्नीस् ।तर्पयामि । ओम् ऋषि-पुत्रांस् ।तर्पयामि । ओम् ऋषि-पौत्रांस् ।तर्पयामि ।
ओं [ ओ ? ] काण्वं बौधायनं ।तर्पयामि । ओम् आपस्तम्बं सूत्रकारं ।तर्पयामि । ओं सत्याषाढं हिरण्यकेशिनं ।तर्पयामि । ओं वाजसनेयिनं याज्ञवल्क्यम् ।तर्पयामि । ओम् आश्वलायनं शौनकं ।तर्पयामि । ओं व्यासं ।तर्पयामि । ओं वसिष्ठं ।तर्पयामि ।
ओं [ ओ ? ] प्रणवं ।तर्पयामि । ओं व्याहृतीस् ।तर्पयामि । ओं सावित्रीं ।तर्पयामि । ओं गायत्रीं ।तर्पयामि । ओं छन्दांसि ।तर्पयामि । ओम् ऋग्वेदं ।तर्पयामि । ओं यजुर्वेदं ।तर्पयामि । ओं ।सामवेदं तर्पयामि । ओम् अथर्ववेदं ।तर्पयामि । ओम् अथर्वाङ्गिरसस् [ : अथर्वाङ्गिरसं ] ।तर्पयामि । ओम् इतिहास-पुराणानि ।तर्पयामि । ओं सर्व-वेदांस् ।तर्पयामि । ओं सर्व-देव-जनांस् ।तर्पयामि । ओं सर्व-भूतानि ।तर्पयामि
इति [ : तर्पयामि ] ॥
अथ प्राचीनावीति । ओं पितॄन् स्वधा नमस् ।तर्पयामि । ओं [ ओ ? ] पितामहान् स्वधा नमस् ।तर्पयामि । ओं प्रपितामहान् स्वधा नमस् ।तर्पयामि । ओं मातॄः स्वधा नमस् ।तर्पयामि । ओं पितामहीः स्वधा नमस् ।तर्पयामि । ओं प्रपितामहीः स्वधा नमस् ।तर्पयामि । ओं मातामहान् स्वधा नमस् ।तर्पयामि । ओं मातुः पितामहान् स्वधा नमस् ।तर्पयामि । ओं मातुः प्रपितामहान् स्वधा नमस् ।तर्पयामि । ओं मातामहीः स्वधा नमस् ।तर्पयामि । ओं मातुः पितामहीः स्वधा नमस् ।तर्पयामि । ओं मातुः प्रपितामहीः स्वधा नमस् ।तर्पयामि ॥
ओम् आचार्यान् स्वधा नमस् ।तर्पयामि । ओम् [ ओम् ] आचार्य-पत्नीः स्वधा नमस् ।तर्पयामि । ओं गुरून् स्वधा नमस् ।तर्पयामि । ओं गुरु-पत्नीः स्वधा नमस् ।तर्पयामि । ओं सखीन् स्वधा नमस् ।तर्पयामि । ओं सखि-पत्नीः स्वधा नमस् ।तर्पयामि । ओं ज्ञातीन् स्वधा नमस् ।तर्पयामि । ओं ज्ञाति-पत्नीः स्वधा नमस् ।तर्पयामि । ओम् अमात्यान् स्वधा नमस् ।तर्पयामि । ओम् अमात्य-पत्नीः स्वधा नमस् ।तर्पयामि । ओं सर्वान् स्वधा नमस् ।तर्पयामि । ओं सर्वाः स्वधा नमस् ।तर्पयामिइति ॥
अनुतीर्थम् अप ।उत्सिञ्चति ॥
ऊर्जं वहन्तीर् अमृतं घृतं पयः कीलालं परिस्रुतम् । स्वधा स्थ ।तर्पयत मे पितॄन् । ।तृप्यत ।तृप्यत ।तृप्यत
इति ॥
एक-वस्त्रो नआर्द्र-वासा दैवानि [: देवानि ] कर्माण्य् ।अनुसंचरेत् ॥
पितृ-संयुक्तानि चइत्य् एकेषाम् । पितृ-संयुक्तानि चइत्य् एकेषाम् ॥
2.6
अथइमे पञ्च महा-यज्ञाः । तान्य् एव महा-सत्त्राणि । देव-यज्ञः पितृ-यज्ञो भूत-यज्ञो मनुष्य-यज्ञो ब्रह्म-यज्ञ इति ॥
अहर्-अहः स्वाहा-।कुर्याद् आ काष्ठात् । तथा
एतं देव-यज्ञं ।समाप्नोति ॥
अहर्-अहः स्वधा-।कुर्याद् आउद-पात्रात् । तथाएतं पितृ-यज्ञं ।समाप्नोति ॥
अहर्-अहर् नमस्-।कुर्याद् आ पुष्पेभ्यः । तथाएतम् भूत-यज्ञं ।समाप्नोति ॥
अहर्-अहर् ब्राह्मणेभ्यो
अन्नं ।दद्याद् आ मूल-फल-शाकेभ्यः । तथाएतं मनुष्य-यज्ञं ।समाप्नोति ॥
अहर्-अहः स्वाध्यायं ।कुर्याद् आ प्रणवात् । तथा
एतं ब्रह्म-यज्ञं ।समाप्नोति ॥
स्वाध्यायो वै ब्रह्म-यज्ञः । तस्य ह वा एतस्य ब्रह्म-यज्ञस्य वाग् एव जुहूर् मन उपभृच् चक्षुर् ध्रुवा मेधा स्रुवः सत्यम् अवभृथः स्वर्गो लोक उदयनम् । यावन्तं ह वा इमां वित्तस्य पूर्णां ।ददत् स्वर्गं लोकं ।जयति तावन्तं लोकं ।जयति [ तावन्तं लोकं जयति ] भूयांसं चअक्षय्यं चअप पुनर्मृत्युं ।जयति य एवं विद्वान् स्वाध्यायम् ।अधीते । तस्मात् स्वाध्यायोअध्येतव्य इति हि ब्राह्मणम् ॥
अथ
अप्य् ।उदाहरन्ति । स्व्-अभ्यक्तः सु-हितः सुखे शयने शयानो यं यं क्रतुम् ।अधीते तेन तेनअस्यइष्टं ।भवतिइति ॥
तस्य ह वा एतस्य धर्मस्य चतुर्धा भेदम् एक ।आहुः । अदृष्टत्वात् । ये चत्वार इति । कर्म-वादः ॥
ऐष्टिक-पाशुक-सौमिक-दार्विहोमाणाम् [: -दार्वीहोमाणाम् ] ॥
तद् एषा
।अभिवदति ।
ये चत्वारः पथयो देव-याना अन्तरा द्यावा-पृथिवी ।वियन्ति ।
तेषां यो अज्यानिम् अजीतिम् ।आवहात् तस्मै नो देवाः परि ।दत्तइह सर्वे ॥ इति ॥
ब्रह्मचारी गृहस्थो वानप्रस्थः परिव्राजक इति ॥
ब्रह्मचारी गुरु-शुश्रूषी
आ मरणात् ॥
वानप्रस्थो वैखानस-शास्त्र-समुदाचारः ॥
वैखानसो वने मूल-फल-आशी तपः-शीलः सवनेषुउदकम् उपस्पृशन्श्रामणकेनअग्निम् आधायअग्राम्य-भोजी देव-पितृ-भूत-मनुष्य-ऋषि-पूजकः सर्व-अतिथिः प्रतिषिद्ध-वर्जं बैष्कम् अप्य् ।उपयुञ्जीत । न फाल-कृष्टम् ।अधितिष्ठेद् ग्रामं च न ।प्रविशेत् । जटिलश् चीर-अजिन-वासा नअतिसांवत्सरं ।भुञ्जीत ॥
परिव्राजकः ।परित्यज्य बन्धून् अपरिग्रहः ।प्रव्रजेद् [: परिव्रजेद् ] यथा-विधि ॥
अरण्यं ।गत्वा ॥
शिखा-मुण्डः ॥
कौपीन-आच्छादनः [: कौपीनाच्छादनाः ] ॥
वर्षास्व् एकस्थः ॥
काषाय-वासाः ॥
सन्न-मुसले व्यङ्गारे निवृत्त-शराव-संपाते ।भिक्षेत ॥
वाङ्-मनः-कर्म-दण्डैर् भूतानाम् अद्रोही ॥
पवित्रं ।बिभ्रत्[: बिभृयात् ]
शौच-अर्थम् ॥
उद्धृत-परिपूताभिर् अद्भिर् अप्-कार्यं कुर्वाणः [: अद्भिः कार्यं कुर्यात् ] ॥
।अपविध्य वैदिकानि कर्माण्य् उभयतः परिच्छिन्ना मध्यमं पदं ।संश्लिष्यामह इति वदन्तः ॥
ऐकाश्रम्यं त्व् आचार्या अप्रजनत्वाद् [: अप्रजननत्वाद् ] इतरेषाम् ॥
तत्र।उदाहरन्ति । प्राह्लादिर् ह वै कपिलो नामअसुर ।आस । स एतान् भेदांश् ।चकार देवैः [: देवैस्सह ] स्पर्धमानः । तान् मनीषी न।आद्रियेत ॥
अदृष्टत्वात् । ये चत्वार इति । कर्म-वाद ऐष्टिक-पाशुक-सौमिक-दार्विहोमाणाम् [: -दार्वीहोमाणाम् ] ॥
तद् एषा
।अभ्यनूच्यते ।
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा ।वर्धते नउ कनीयान् ।
तस्य
एवआत्मा पदवित् तं ।विदित्वा न कर्मणा ।लिप्यते पापकेन ॥ इति ॥
स ।ब्रूयात् ।
येन सूर्यस् ।तपति तेजसा
इद्धः पिता पुत्रेण पितृमान् योनि-योनौ ।
अवेदविन् ।मनुते तं बृहन्तं सर्व-अनुभूम् [: सर्वानुभुम् ] आत्मानं संपराये [ : साम्पराये ] ॥ इति ॥
इमे ये न
अर्वाङ् न परश् ।चरन्ति न ब्राह्मणासो न सुतेकरासः ।
त एते वाचम् ।अभिपद्य पापया सिरीस् तन्त्रं ।तन्वते अप्रजज्ञये ॥ इति ॥
प्रजाभिर् अग्ने अमृतत्वम् ।अश्याम् । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येणऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवम् ऋण-संयोग-वादिन्योअसंख्येया [: ऋणसंयोगादीन्यसंख्येयानि ] ।भवन्ति ॥
त्रयीं विद्यां ब्रह्मचर्यं प्रजातिं श्रद्धां तपो यज्ञम् अनुप्रदानम् ।
य एतानि ।कुर्वते तैर् इत् सह ।स्मो रजो ।भूत्वा ।ध्वंसतेअन्यत् प्रशंसन् ॥ इति ।
।ध्वंसते
अन्यत् [ ध्वंसते ऽन्यत् ] प्रशंसन्न् इति ॥


2.7
अथ शालीन-यायावराणाम् आत्म-याजिनां प्राण-आहुतीर् ।व्याख्यास्यामः ॥
सर्व-अवश्यक-अवसाने संमृष्ट-उपलिप्ते देशे प्राङ्-मुख ।उपविश्य तद् भूतम् आह्रियमाणम् । भूर् भुवः सुवर् ओम् इति । ।उपस्थाय वाचं ।यच्छेत् ॥
न्यस्तम् अन्नं महा-व्याहृतिभिः प्रदक्षिणम् उदकं ।परिषिच्य सव्येन पाणिनाअविमुञ्चन् । अमृत-उपस्तरणम् ।असिइति । पुरस्ताद् अपः ।पीत्वा पञ्च-अन्नेन प्राण-आहुतीर् ।जुहोति । प्राणे निविष्टोअमृतं ।जुहोमि । शिवो मा ।विशअप्रदाहाय । प्राणाय स्वाहा । अपाने निविष्टोअमृतं ।जुहोमि । शिवो मा ।विशअप्रदाहाय । अपानाय स्वाहा । व्याने निविष्टोअमृतं ।जुहोमि । शिवो मा ।विशअप्रदाहाय । व्यानाय स्वाहा । उदाने निविष्टोअमृतं ।जुहोमि । शिवो मा ।विशअप्रदाहाय । उदानाय स्वाहा । समाने निविष्टोअमृतं ।जुहोमि । शिवो मा ।विशअप्रदाहाय । समानाय स्वाहाइति ॥ [ अपाने निविष्टो —समानाय स्वाहा ]
पञ्च-अन्नेन प्राण-आहुतीर् ।हुत्वा तूष्णीं भूयो ।व्रतयेत् प्रजापतिं मनसा ध्यायन् । न
अन्तरा वाचं ।विसृजेत् ॥
यद्य् [: यद् ] अन्तरा वाचं ।विसृजेत् । भूर् भुवः सुवर् ओम् इति । ।जपित्वा पुनर् एव ।भुञ्जीत ॥
त्वक्-केश-नख-कीट-आखु-पुरीषाणि ।दृष्ट्वा तं देशं पिण्डम् ।उद्धृत्यअद्भिर् ।अभ्युक्ष्य भस्म।अवकीर्य पुनर् अद्भिः ।प्रोक्ष्य वाचा च प्रशस्तम् ।उपयुञ्जीत ॥
अथअप्य् ।उदाहरन्ति ।
आसीनः प्राङ्-मुखो
।अश्नीयाद् वाग्-यतोअन्नम् अकुत्सयन् ।
अस्कन्दयंस् तन्-मनाश् च ।भुक्त्वा च
अग्निम् ।उपस्पृशेद् ॥ इति ॥
सर्व-भक्ष्य-अपूप-कन्द-मूल-फल-मांसानि [: -मांसादीनि ] दन्तैर् नअवद्येत् ॥
अति-सुहितः ॥
अमृत-अपिधानम् ।असिइति । उपरिष्टाद् अपः ।पीत्वाआचान्तो हृदय-देशम् ।अभिमृशति । प्राणानां ग्रन्थिर् ।असि रुद्रो मा ।विशअन्तकः । तेनअन्नेन।आप्यायस्वइति ॥
पुनर् ।आचम्य दक्षिणे पाद-अङ्गुष्ठे पाणी ।निस्रावयति ।
अङ्गुष्ठ-मात्रः पुरुषोअङ्गुष्ठं च समाश्रितः ।
ईशः सर्वस्य जगतः प्रभुः ।प्रीणाति विश्व-भुक् ॥ इति ॥
हुत-अनुमन्त्रणम् ऊर्ध्व-हस्तः ।समाचरेत् । श्रद्धायां प्राणे निविश्य
अमृतं हुतम् । प्राणम् अन्नेन।आप्यायस्व । श्रद्धायाम् अपाने निविश्यअमृतं हुतम् । प्राणम् अन्नेन।आप्यायस्व । श्रद्धायां व्याने निविश्यअमृतं हुतम् । प्राणम् अन्नेन।आप्यायस्व । श्रद्धायाम् उदाने निविश्यअमृतं हुतम् । प्राणम् अन्नेन।आप्यायस्व । श्रद्धायां समाने निविश्यअमृतं हुतम् । प्राणम् अन्नेन।आप्यायस्वइति । पञ्चभिः ॥ [ श्रद्धायामपाने —श्रद्धायां समाने —अन्नेनाप्यायस्व ]
ब्रह्मणि म आत्माअमृतत्वायइति [: आत्मामृतत्वायेत्यात्मानम् ] ॥
अक्षरेण चआत्मानं ।योजयेत् ॥
सर्व-क्रतु-याजिनाम् आत्म-याजी ।विशिष्यते ॥
अथ
अप्य् ।उदाहरन्ति ॥
यथा हि तूलम् ऐषीकम् अग्नौ प्रोतं ।प्रदीप्यते ।
तद्वत् सर्वाणि पापानि ।दह्यन्ते ह्य् आत्म-याजिनः ॥
केवल-अघो ।भवति केवल-आदी । मोघम् अन्नं ।विन्दते अप्रचेता [ अप्रचेता ] इति ॥
स एवम् एवअहर्-अहः सायं प्रातर् ।जुहुयात् ॥
अद्भिर् वा सायम् ॥
अथ
अप्य् ।उदाहरन्ति ।
अग्रे ।भोजयेद् अतिथीन् अन्तर्वत्नीर् अनन्तरम् ।
बाल-वृद्धांस् तथा दीनान् व्याधितांश् च विशेषतः ॥
।अदत्त्वा तु य एतेभ्यः पूर्वं ।भुङ्क्ते यथा-विधि ।
भुज्यमानो न ।जानाति न स ।भुङ्क्ते स ।भुज्यते ॥
पितृ-दैवत-भृत्यानां माता-पित्रोर् गुरोस् तथा ।
वाग्-यतो विघसम् ।अश्नीयाद् एवं धर्मो विधीयते ॥ इति ॥
अथअप्य् ।उदाहरन्ति ।
अष्टौ ग्रासा मुनेर् भक्ष्याः षोडश
अरण्य-वासिनः ।
द्वात्रिंशत् तु [: द्वात्रिंशतं ] गृहस्थस्य अमितं [ : गृहस्थस्यापरिमितं ] ब्रह्मचारिणः ॥
आहित-अग्निर् अनड्वांश् च ब्रह्मचारी च ते त्रयः ।
अश्नन्त एव सिध्यन्ति नएषां सिद्धिर् अनश्नताम् ॥ इति ॥
गृहस्थो ब्रह्मचारी वा यो
अनश्नंस् तु तपश् ।चरेत् ।
प्राण-अग्निहोत्र-लोपेन अवकीर्णी ।भवेत् तु सः ॥
अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तद् एव विधानम् ॥
अथअप्य् ।उदाहरन्ति ।
अन्तरा प्रातर्-आशं च सायम्-आशं तथा
एव च ।
सदा-उपवासी ।भवति यो न ।भुङ्क्ते कदाचन [: कदाचनेति ] ॥
प्राण-अग्निहोत्र-मन्त्रांस् तु निरुद्धे भोजने ।जपेत् ।
त्रेता-अग्निहोत्र-मन्त्रांस् तु द्रव्य-अलाभे यथा ।जपेत् ॥ इति ॥
एवम् आचरन् [: एवमेवाचरन् ] ब्रह्म-भूयाय ।कल्पते । ब्रह्म-भूयाय ।कल्पत इति ॥
2.8
पित्र्यम् आयुष्यं स्वर्ग्यं यशस्यं पुष्टि-कर्म च ॥
त्रिमधुस् त्रिणाचिकेतस् त्रिसुपर्णः पञ्च-अग्निः षडङ्ग-वित्शीर्षको ज्येष्ठसामकः स्नातक इति पङ्क्ति-पावनाः ॥
तद्-अभावे रहस्य-वित् ॥
ऋचो यजूंषि सामानि
इति श्राद्धस्य महिमा । तस्माद् एवं-विदं सपिण्डम् अप्य् ।आशयेत् ॥
राक्षोघ्नानि च सामानि स्वधावन्ति यजूंषि च ।
मध्व्-ऋचोअथ पवित्राणि ।श्रावयेद् आशयन्शनैः ॥
चरण-वतोअनूचानान् योनि-गोत्र-मन्त्र-असंबद्धान्[क् -असम्बन्धान्]शुचीन् मन्त्रवतस् त्र्य्-अवरान् अयुजः पूर्वेद्युः प्रातर् एव वा ।निमन्त्र्य स-दर्भ-उपकॢप्तेष्व् आसनेषु प्राङ्-मुखान् ।उपवेशयत्य् उदङ्-मुखान् वा ॥
अथएनांस् तिल-मिश्रा अपः ।प्रतिग्राह्य गन्धैर् माल्यैश् च।अलंकृत्य । अग्नौ ।करिष्यामिइति । अनुज्ञातोग्निम् ।उपसमाधाय ।संपरिस्तीर्यअग्निमुखात् ।कृत्वाअन्नस्यएव [: कृत्वाज्यस्यैव ] तिस्र आहुतीर् ।जुहोति । सोमाय पितृ-पीताय स्वधा नमः स्वाहा । यमायअङ्गिरस्वते पितृमते स्वधा नमः स्वाहा । अग्नये कव्य-वाहनाय स्विष्टकृते स्वधा नमः स्वाहाइति ॥
तत्-शेषेणअन्नम् ।अभिघार्यअन्नस्यएता एव तिस्रो [: तिस्र आहुतीर् ] ।जुहुयात् ॥
वयसां पिण्डं ।दद्यात् ॥
वयसां हि पितरः प्रतिमया ।चरन्ति
इति ।विज्ञायते ॥
अथइतरत् स-अङ्गुष्ठेन पाणिना।अभिमृशति ॥
पृथिवी-समन्तस्य [: पृथिवीसमं तस्य ] तेअग्निर् ।उपद्रष्टाऋचस् ते महिमा दत्तस्यअप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे ।जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राण-अपानयोर् ।जुहोम्य् अक्षितम् ।असि मा पितॄणां ।क्षेष्ठा अमुत्रअमुष्मिं लोक इति ।
अन्तरिक्ष-समन्तस्य [: अन्तरिक्षस्समं तस्य ] ते वायुर् ।उपश्रोता यजूंषि ते महिमा दत्तस्यअप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे ।जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राण-अपानयोर् ।जुहोम्य् अक्षितम् ।असि मा पितामहानां ।क्षेष्ठा अमुत्रअमुष्मिं लोक इति ।
द्यु-समन्तस्य [: द्यौसमं तस्य ] त आदित्योअनुख्याता सामानि ते महिमा दत्तस्य अप्रमादाय पृथिवी ते पात्रं द्यौर् अपिधानं ब्रह्मणस् त्वा मुखे ।जुहोमि ब्राह्मणानां त्वा विद्यावतां प्राण-अपानयोर् ।जुहोम्य् अक्षितम् ।असि मा प्रपितामहानां ।क्षेष्ठा अमुत्रअमुष्मिं लोक इति ॥
अथ वै ।भवति ॥
अग्नौ करण-शेषेण तद् अन्नम् ।अभिघारयेत् ।
निर्-अङ्गुष्ठं तु यद् दत्तं न तत् ।प्रीणाति वै पितॄन् ॥
उभयोः शाखयोर् मुक्तं पितृभ्योअन्नं निवेदितम् ।
तद् अन्तरम् ।उपासन्ते असुरा [: उपासन्ते ऽसुरा वै ] दुष्ट-चेतसः ॥
यातुधानाः पिशाचाश् च ।प्रतिलुम्पन्ति तत्
हविः ।
तिल-दाने ह्य् अदायाश् च तथा क्रोध-वशेअसुराः ॥
काषाय-वासा यान् ।कुरुते जप-होम-प्रतिग्रहान् ।
न तद् देवं-गमं [: देवगमं ] भवति हव्य-कव्येषु यत्
हविः ॥
यच् च दत्तम् अनङ्गुष्ठं यच् चएव ।प्रतिगृह्यते ।
आचामति च यस् तिष्ठन् न स तेन ।समृध्यते ॥ इति ॥
आद्य्-अन्तयोर् अपां प्रदानं सर्वत्र ॥
जय-प्रभृति यथा-विधानम् ॥
शेषम् उक्तम् अष्टका-होमे ॥
द्वौ दैवे [: देवे ] पितृ-कार्ये त्रीन् एकैकम् उभयत्र वा ।
।भोजयेत् सुसमृद्धो
अपि न ।प्रसज्येत [: प्रसज्जेत ] विस्तरे ॥
सत्क्रियां देश-कालौ च शौचं ब्राह्मण-संपदम् ।
पञ्चएतान् विस्तरो ।हन्ति तस्मात् तं ।परिवर्जयेत् ॥
उरस्तः पितरस् तस्य वामतश् च पितामहाः ।
दक्षिणतः प्रपितामहाः पृष्ठतः पिण्ड-तर्ककाः ॥ इति ॥
2.9
प्रजा-कामस्य
उपदेशः ॥
प्रजनन-निमित्ता समाख्याइत्य् अश्विनाव् ।ऊचतुः ॥
आयुषा तपसा युक्तः स्वाध्याय-इज्या-परायणः ।
प्रजाम् ।उत्पादयेद् युक्तः स्वे-स्वे वर्णे [: वंशे ] जित-इन्द्रियः ॥
ब्राह्मणस्य
ऋण-संयोगस् त्रिभिर् ।भवति जन्मतः ।
तानि मुच्यआत्मवान् ।भवति विमुक्तो धर्म-संशयात् ॥
स्वाध्यायेन ऋषीन् ।पूज्य सोमेन च पुरंदरम् ।
प्रजया च पितॄन् पूर्वान् अनृणो दिवि ।मोदते ॥
पुत्रेण लोकाञ् ।जयति पौत्रेण
अनन्त्यम् [: पौत्रेणामृतम् ] ।अश्नुते ।
अथ पुत्रस्य पौत्रेण नाकम् एव।अधिरोहति ॥ इति ॥
।विज्ञायते च । जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा ।जायते ब्रह्मचर्येण
ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य इति । एवम् ऋण-संयोगं वेदो ।दर्शयति ॥[cf. B2,6,11,33]
सत्-पुत्रम् ।उत्पाद्यआत्मानं ।तारयति ॥
सप्त
अवरान् सप्त पूर्वान् षड् अन्यान् आत्म-सप्तमान् । सत्-पुत्रम् अधिगच्छानस् ।तारयत्य् एनसो भयात् ॥
तस्मात् प्रजा-संतानम् ।उत्पाद्य फलम् ।अवाप्नोति [: फलं प्राप्नोति ] ॥
तस्माद् यत्नवान् प्रजाम् ।उत्पादयेत् ॥
औषध-मन्त्र-संयोगेन ॥
तस्यउपदेशः श्रुति-सामान्येन।उपदिश्यते ॥
सर्व-वर्णेभ्यः फलवत्त्वाद् [: फलत्त्वाद् ] इति । फलवत्त्वाद् [ : फलत्त्वाद् ] इति ॥
2.10
अथअतः संन्यास-विधिं ।व्याख्यास्यामः ॥
सो
अत एव ब्रह्मचर्यवान् ।प्रव्रजतिइत्य् एकेषाम् ॥
अथ शालीन-यायावराणाम् अनपत्यानाम् ॥
विधुरो वा प्रजाः स्वधर्मे ।प्रतिष्ठाप्य वा ॥
सप्तत्या ऊर्ध्वं संन्यासम् ।उपदिशन्ति ॥
वानप्रस्थस्य वा कर्म-विरामे ॥
एष नित्यो महिमा ब्राह्मणस्य न कर्मणा ।वर्धते नो कनीयान् ।
तस्य
एवआत्मा पदवित् तं ।विदित्वा न कर्मणा ।लिप्यते पापकेन ॥ इति ॥[cf. B2,6,11,30]
अपुनर्भवं ।नयति
इति नित्यः ॥
महद् एनं ।गमयतिइति महिमा ॥
केश-श्मश्रु-लोम-नखानि ।वापयित्वा
।उपकल्पयते ॥
यष्टयः शिक्यं जल-पवित्रं कमण्डलुं पात्रम् इति ॥
एतत् ।समादाय ग्राम-अन्ते ग्राम-सीमान्तेअग्न्य्-अगारे वाआज्यं पयो दधिइति त्रिवृत् ।प्राश्यउपवसेत् ॥
अपो वा ॥
ओं भूः सावित्रीं ।प्रविशामि तत् सवितुर् वरेण्यम् । ओं भुवः सावित्रीं ।प्रविशामि भर्गो देवस्य धीमहि । ओं सुवः सावित्रीं ।प्रविशामि धियो यो नः ।प्रचोदयाद् इति । पच्छो[पद्-शस्]अर्धर्चशस् ततः समस्तया च व्यस्तया च ॥
आत्मानम् आत्मन [ आत्मानमात्मन ] आश्रमाद् आश्रमम् ।उपनीय ब्रह्म-पूतो ।भवति
इति ।विज्ञायते ॥
अथअप्य् ।उदाहरन्ति ।
आश्रमाद् आश्रमं ।गत्वा हुत-होमो जित-इन्द्रियः ।
भिक्षा-बलि-परिश्रान्तः पश्चाद् ।भवति भिक्षुकः ॥ इति ॥
स एष भिक्षुर् आनन्त्याय ॥
पुरा
आदित्यस्यअस्तमयाद् गार्हपत्यम् ।उपसमाधायअन्वाहार्यपचनम् ।आहृत्य ज्वलन्तम् आहवनीयम् ।उद्धृत्य गार्हपत्य आज्यं ।विलाप्य।उत्पूय स्रुचि चतुर्-गृहीतं ।गृहीत्वा समिद्वत्य् आहवनीये पूर्ण-आहुतिं ।जुहोति । ओं स्वाहाइति ॥
एतद् ब्रह्म-अन्वाधानम् इति ।विज्ञायते ॥
अथ सायं हुतेअग्निहोत्र उत्तरेण गार्हपत्यं तृणानि ।संस्तीर्य तेषु द्वंद्वं न्यञ्चि पात्राणि ।सादयित्वा दक्षिणेनआहवनीयं ब्रह्म-आयतने दर्भान् ।संस्तीर्य तेषु कृष्ण-अजिनं च।अन्तर्धायएतां रात्रिं ।जागर्ति ॥
य एवं विद्वान् ब्रह्म-रात्रिम् ।उपोष्य ब्राह्मणोअग्नीन् [: उपोष्याग्नीन् ] ।समारोप्य ।प्रमीयते सर्वं पाप्मानं ।तरति ।तरति ब्रह्म-हत्याम् ॥
अथ ब्राह्मे मुहूर्त ।उत्थाय काल एव प्रातर्-अग्निहोत्रं ।जुहोति ॥
अथ पृष्ठ्यां ।स्तीर्त्वा
अपः ।प्रणीय वैश्वानरं द्वादश-कपालं ।निर्वपति । सा प्रसिद्ध-इष्टिः ।संतिष्ठते ॥
आहवनीयेअग्निहोत्र-पात्राणि ।प्रक्षिपत्य् अमृन्मयान्य् अनश्ममयानि [: प्रक्षिपेदमृण्मयान्यनायसानि ] ॥
गार्हपत्ये
अरणी । ।भवतं नः समनसाव् इति ॥
आत्मन्य् [: अथात्मन्य् ] अग्नीन् ।समारोपयते । या ते अग्ने यज्ञिया तनूर् इति त्रिस् त्रिर् एकैकं ।समाजिघ्रति ॥
अथअन्तर्वेदि तिष्ठन् । ओं भूर् भुवः सुवः संन्यस्तं मया संन्यस्तं मया संन्यस्तं मयाइति । त्रिर् उपांशु।उक्त्वा त्रिर् उच्चैः ॥
त्रिषत्या हि देवा इति ।विज्ञायते ॥
अभयं सर्व-भूतेभ्यो मत्त इति च
अपां पूर्णम् अञ्जलिं ।निनयति ॥
अथअप्य् ।उदाहरन्ति ।
अभयं सर्व-भूतेभ्यो ।दत्त्वा यश् ।चरते मुनिः ।
न तस्य सर्व-भूतेभ्यो भयं च
अपिइह [: चापि ह ] ।जायते ॥ इति ॥
स वाचंयमो ।भवति ॥
सखा मा [: मे ] ।गोपाय
इति दण्डम् ।आदत्ते ॥
यद् अस्य पारे रजस इति शिक्यं ।गृह्णाति ॥
येन देवाः पवित्रेणइति जल-पवित्रं ।गृह्णाति ॥
येन देवा ज्योतिषा
ऊर्ध्वा ।उदायन्न् इति कमण्डलुं ।गृह्णाति ॥
सप्त-व्याहृतिभिः पात्रं ।गृह्णाति ॥
यष्टयः शिक्यं जल-पवित्रं कमण्डलुं पात्रम् इत्य् एतत् ।समादाय यत्रआपस् तत्र [: तद् ] ।गत्वा ।स्नात्वअप ।आचम्य सुरभिमत्याअब्लिङ्गाभिर् वारुणीभिर् हिरण्यवर्णाभिः पावमानीभिर् इति ।मार्जयित्वाअन्तर्-जल-गतोअघमर्षणेन षोडश प्राण-आयामान् ।धारयित्वा।उत्तीर्य वासः ।पीडयित्वाअन्यत् प्रयतं वासः ।परिधायअप ।आचम्य । ओं भूर् भुवः सुवर् इति । जल-पवित्रम् ।आदाय ।तर्पयति । ओं भूस् ।तर्पयामि । ओं भुवस् ।तर्पयामि । ओं सुवस् ।तर्पयामि । ओं महस् ।तर्पयामि । ओं जनस् ।तर्पयामि । ओं तपस् ।तर्पयामि । ओं सत्यं ।तर्पयामिइति ॥
देववत् [ देववत् ] पितृभ्यो
अञ्जलिम् ।आदाय [ : उपादाय ] । ओं भूः स्वधा । ओं भुवः स्वधा । ओं सुवः स्वधा । ओं भूर् भुवः सुवर् महर् नम इति ॥
अथ । उद् उ त्यम् । चित्रम् इति । द्वाभ्याम् आदित्यम् ।उपतिष्ठते ॥
ओम् इति ब्रह्म ब्रह्म वा एष ज्योतिर् य एष ।तपत्य् एष वेदो [: ओम् —एष ज्योतिः य एष ज्योतिः य एष तर्पत्यैष वेदा ] य एष ।तपति [ : य एव तर्पयति ] वेद्यम् एवएतद् य एष ।तपति [ : तर्पयति ] । एवम् एवएष आत्मानं ।तर्पयति । आत्मने नमस्-।करोति । आत्मा ब्रह्मआत्मा ज्योतिः ॥
सावित्रीं सहस्रकृत्व ।आवर्तयेत्
शतकृत्वो_अपरिमितकृत्वो वा ।


 

Categories: Sanskrit

Tagged as: