CIVIL

राजधर्माः – Raja dharma

अथ राजधर्माः । । ३.१ । ।

प्रजापरिपालनं । । ३.२ । ।

वर्णाश्रमाणां स्वे स्वे धर्मे व्यवस्थापनं । । ३.३ । ।

राजा च जाङ्गलं पशव्यं सस्योपेतं देशं आश्रयेत् । । ३.४ । ।

वैश्यशूद्रप्रायं च । । ३.५ । ।

तत्र धन्वनृमहीवारिवृक्षगिरिदुर्गाणां अन्यतमं दुर्गं आश्रयेत् । । ३.६ । ।

तत्रस्थश्च स्वस्वग्रामाधिपान्कुर्यात् । । ३.७ । ।

दशाध्यक्षान् । । ३.८ । ।

शताध्यक्षान् । । ३.९ । ।

देशाध्यक्षांश्च । । ३.१० । ।

ग्रामदोषाणां ग्रामाध्यक्षः परिहारं कुर्यात् । । ३.११ । ।

अशक्तो दशग्रामाध्यक्षाय निवेदयेत् । । ३.१२ । ।

सोऽप्यशक्तः शताध्यक्षाय । । ३.१३ । ।

सोऽप्यशक्तो देशाध्यक्षाय । । ३.१४ । ।

देशाध्यक्षोऽपि सर्वात्मना दोषं उच्छिन्द्यात् । । ३.१५ । ।

आकरशुल्कतरनागवनेश्वाप्तान्नियुञ्जीत । । ३.१६ । ।

धर्मिष्ठान्धर्मकार्येषु । । ३.१७ । ।

निपुणानर्थकार्येषु । । ३.१८ । ।

शूरान्संग्रामकर्मसु । । ३.१९ । ।

उग्रानुग्रेषु । । ३.२० । ।

षण्ढान्स्त्रीषु । । ३.२१ । ।

प्रजाभ्यो बल्यर्थं संवत्सरेण धान्यतः षष्ठं अंशं आदद्यात् । । ३.२२ । ।

सर्वसस्येभ्यश्च । । ३.२३ । ।

द्विकं शतं पशुहिरण्येभ्यो वस्त्रेभ्यश्च । । ३.२४ । ।

मांसमधुघृतौषधिगन्धपुष्पमूलफलरसदारुपत्राजिनमृद्भाण्डाश्मभाण्डवैदलेभ्यः षाष्ठभागं राजा । । ३.२५ । ।

ब्राह्मणेभ्यः करादानं न कुर्यात् । । ३.२६ । ।

ते हि राज्ञो धर्मकराः । । ३.२७ । ।

राजा च प्रजाभ्यः सुकृतदुष्कृतेभ्यः षष्ठांशभाक् । । ३.२८ । ।

स्वदेशपण्याच्च शुल्कांशं दशमं आदद्यात् । । ३.२९ । ।

परदेशपण्याच्च विंशतितमं । । ३.३० । ।

शुल्कस्थानादपाक्रामन्सर्वापहारं आप्नुयात् । । ३.३१ । ।

शिल्पिनः कर्मजीविनश्च मासेनैकं राज्ञः कर्म कुर्युः । । ३.३२ । ।

स्वाम्यमात्यदुर्गकोशदण्डराष्ट्रमित्राणि प्रकृतयः । । ३.३३ । ।

तद्दूषकांश्च हन्यात् । । ३.३४ । ।

स्वराष्ट्रपरराष्ट्रयोश्च चारचक्षुः स्यात् । । ३.३५ । ।

साधूनां पूजनं कुर्यात् । । ३.३६ । ।

दुष्टांश्च हन्यात् । । ३.३७ । ।

शत्रुमित्रोदासीनमध्यमेषु सामभेददानदण्डान्यथार्हम् यथाकालं प्रयुञ्जीत । । ३.३८ । ।

संधिविग्रहयानासनसंश्रयद्वैधीभावांश्च यथाकालं आश्रयेत् । । ३.३९ । ।

चैत्रे मार्गशीर्षे वा यात्रां यायात् । । ३.४० । ।

परस्य व्यसने वा । । ३.४१ । ।

परदेशावाप्तौ तद्देशधर्मान्नोच्छिन्द्यात् । । ३.४२ । ।

परेणाभियुक्तश्च सर्वात्मना स्वराष्ट्रं गोपायेत् । । ३.४३ । ।

नास्ति राज्ञां समरे तनुत्यागसदृशो धर्मः । । ३.४४ । ।

गोब्राह्मणनृपमित्रधनदारजीवितरक्षणात्ये हतास्ते स्वर्गलोकभाजः । । ३.४५ । ।

वर्णसंकररक्षणार्थं च । । ३.४६ । ।

राजा परपुरावाप्तौ तत्र तत्कुलीनं अभिषिञ्चेत् । । ३.४७ । ।

न राजकुलं उच्छिन्द्यात् । । ३.४८ । ।

अन्यत्राकुलीनराजकुलात् । । ३.४९ । ।

मृगयाक्षस्त्रीपानाभिरतिं परिहरेत् । । ३.५० । ।

वाक्पारुष्यदण्डपारुष्ये च । । ३.५१ । ।

नार्थदूषणं कुर्यात् । । ३.५२ । ।

आद्यद्वाराणि नोच्छिन्द्यात् । । ३.५३ । ।

नापात्रवर्षी स्यात् । । ३.५४ । ।

आकरेभ्यः सर्वं आदद्यात् । । ३.५५ । ।

निधिं लब्ध्वा तदर्धं ब्राह्मणेभ्यो दद्यात् । । ३.५६ । ।

द्वितीयं अर्धं कोशे प्रवेशयेत् । । ३.५७ । ।

निधिं ब्राह्मणो लब्ध्वा सर्वं आदद्यात् । । ३.५८ । ।

क्षत्रियश्चतुर्थं अंशं राज्ञे दद्यात्, चतुर्थं अंशं ब्राह्मणेभ्यः, अर्धं आदद्यात् । । ३.५९ । ।

वैष्यस्तु चतुर्थं अंशं राज्ञे दद्यात्, ब्राह्मणेभ्योऽर्धं, चतुर्थं अंशं आदद्यात् । । ३.६० । ।

शूद्रश्चावाप्तं द्वादशधा विभज्य पञ्चांशान्राज्ञे दद्यात्, पञ्चांशान्ब्राह्मणेभ्यः, अंशद्वयं आदद्यात् । । ३.६१ । ।

अनिवेदितविज्ञातस्य सर्वं अपहरेत् । । ३.६२ । ।

स्वनिहिताद्राज्ञे ब्राह्मणवर्जं द्वादशं अंशं दद्युः । । ३.६३ । ।

परनिहितं स्वनिहितं इति ब्रुवंस्तत्समं दण्डं आवहेत् । । ३.६४ । ।

बालानाथस्त्रीधनानि राजा परिपालयेत् । । ३.६५ । ।

चौरहृतं धनं अवाप्य सर्वं एव सर्ववर्णेभ्यो दद्यात् । । ३.६६ । ।

अनवाप्य च स्वकोशादेव दद्यात् । । ३.६७ । ।

शान्तिस्वस्त्ययनोपायैर्दैवोपघातान्प्रशमयेत् । । ३.६८ । ।

परचक्रोपघातांश्च शस्त्रनित्यतया । । ३.६९ । ।

वेदेतिहासधर्मशास्त्रार्थकुशलं कुलीनं अव्यङ्गं तपस्विनं पुरोहितं च वरयेत् । । ३.७० । ।

शुचीनलुब्धानवहितान्शक्तिसंपन्नान्सर्वार्थेषु च सहायान् । । ३.७१ । ।

स्वयं एव व्यवहारान्पश्येद्विद्वद्भिर्ब्राह्मणैः सार्धं । । ३.७२ । ।

व्यवहारदर्शने ब्राह्मणं वा नियुञ्ज्यात् । । ३.७३ । ।

जन्मकर्मव्रतोपेताश्च राज्ञा सभासदः कार्याः, रिपौ मित्रे च ये समाः, कामक्रोधभयलोभादिभिः कार्यार्थभिरनाहार्याः । । ३.७४ । ।

राजा च सर्वकार्येषु सांवत्सराधीनः स्यात् । । ३.७५ । ।

देवब्राह्मणान्सततं एव पूजयेत् । । ३.७६ । ।

वृद्धसेवी भवेत् । । ३.७७ । ।

यज्ञयाजी च । । ३.७८ । ।

न चास्य विषये ब्राह्मणः क्षुधार्तोऽवसीदेत् । । ३.७९ । ।

न चान्योऽपि सत्कर्मनिरतः । । ३.८० । ।

ब्राह्मणेभ्यश्च भुवं प्रतिपादयेत् । । ३.८१ । ।

येषां च प्रतिपादयेत्तेषां स्ववंश्यान्भुवः परिमाणं दानच्छेदोपवर्णनं च पटे ताम्रपट्टे वा लिखितं स्वमुद्राङ्कितं चागामिनृपतिविज्ञापनार्थं दद्यात् । । ३.८२ । ।

परदत्तां च भुवं नापहरेत् । । ३.८३ । ।

ब्राह्मणेभ्यः सर्वदायान्प्रयच्छेत् । । ३.८४ । ।

सर्वतस्त्वात्मानं गोपायेत् । । ३.८५ । ।

सुदर्शनश्च स्यात् । । ३.८६ । ।

विषघ्नागदमन्त्रधारी च । । ३.८७ । ।

नापरीक्षितं उपयुञ्ज्यात् । । ३.८८ । ।

स्मितपूर्वाभिभाषी स्यात् । । ३.८९ । ।

वध्येष्वपि न भ्रुंकुटीं आचरेत् । । ३.९० । ।

अपराधानुरूपं च दण्डं दण्ड्येषु दापयेत् । । ३.९१ । ।

सम्यग्दण्डप्रणयनं कुर्यात् । । ३.९२ । ।

द्वितीयं अपराधं न स कस्यचित्क्षमेत । । ३.९३ । ।

स्वधर्मं अपालयन्नादण्ड्यो नामास्ति राज्ञां । । ३.९४ । ।

यत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः ।
प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति । । ३.९५ । ।

स्वराष्ट्रो न्यायदण्डः स्याद्भृशदण्डश्च शत्रुषु ।
सुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः । । ३.९६ । ।

एवंवृत्तस्य नृपतेः शिलोञ्छेनापि जीवतः ।
विस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि । । ३.९७ । ।

प्रजासुखे सुखी राजा तद्दुःखे यश्च दुःखितः ।
स कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते । । ३.९८ । ।


Source : विष्णुस्मृतिः

Categories: CIVIL, Sanskrit Dictionary

Tagged as: