विवाहाः- Vibaha

अष्टौ विवाहाः

  1. श्रुत-शीले विज्ञाय ब्रह्मचारिणे अर्थिने दीयते स ब्राह्मः
  2. आच्छाद्य अलंकृत्य  एषा सह धर्मश् [: धर्मं ] चर्यताम् इति प्राजाप्त्यः
  3. पूर्वां लाजाहुतिं हुत्वा गोभ्यां सह आर्षः ॥ [: पूर्वां लाजाहुतिं हुत्वा गो -मिथुनं कन्यावते दत्त्वा ग्रहणमार्षः ]
  4. दक्षिणासु नीयमानास्व् अन्तर्वेद्य् ऋत्विजे स दैवः
  5. धनेन उपतोष्या आसुरः ॥ [: सकामेन सकामाया मिथस्संयोगो गान्धर्वः ]
  6. सकामेन सकामाया मिथः संयोगो गान्धर्वः ॥ [: धनेनोपतोष्यासुरः ]
  7. प्रसह्य हरणाद् राक्षसः
  8. सुप्तां मत्तां प्रमत्तां वा उपगच्छेद् इति पैशाचः

तेषां चत्वारः पूर्वे ब्राह्मणस्य तेष्व् अपि पूर्वः पूर्वः श्रेयान् ॥
उत्तरेषाम् उत्तर उत्तरः  पापीयान् ॥

अत्र अपि षष्ठ-सप्तमौ क्षत्रधर्म-अनुगतौ तत्-प्रत्ययत्वात् क्षत्रस्य ॥
पञ्चम-अष्टमौ वैश्य-शूद्राणाम् ॥
अयन्त्रित-कलत्रा हि वैश्य-शूद्रा ।भवन्ति ॥
कर्षण-शुश्रूषा-अधिकृतत्वात् ॥
गान्धर्वम् अप्य् एके प्रशंसन्ति सर्वेषां स्नेह-अनुगतत्वात् ॥
यथा युक्तो विवाहस् तथा युक्ता प्रजा भवति_इति विज्ञायते ॥
अथ अप्य् उदाहरन्ति । [ साधवस्त्रिपुरुषमार्षाद्दश दैवाद्दश प्राजापत्याद्दश पूर्वान्दश _अपरानात्मानं च ब्राह्मीपुत्र इति ।विज्ञायते ॥वेद स्वीकरण -शक्तिरप्येवंविधानामेव पुत्राणाम्भवति इति ॥]

क्रीता द्रव्येण या नारी सा न पत्नी विधीयते ।
सा न दैवे न सा पित्र्ये दासीं तां काश्यपो अब्रवीत् ॥
शुल्केन ये ।प्रयच्छन्ति स्वसुतां लोभ-मोहिताः ।
आत्म-विक्रयिणः पापा महा-किल्बिष-कारकाः ॥
पतन्ति नरके घोरे ।घ्नन्ति चसप्तमं कुलम् ।
गमन-आगमनं चैव सर्वं शुल्के ।विधीयते ॥
पौर्णमस्य्-अष्टका-अमावास्या-अग्न्युत्पात-भूमिकम्प-श्मशान-देशपति-श्रो त्रिय-एकतीर्थ-प्रयाणेष्व् अहोरात्रम् अनध्यायः ॥
वाते पूति-गन्धे नीहारे च नृत्त-गीत-वादित्र-रुदित-साम-शब्देषु तावन्तं कालम् ॥
स्तनयित्नु-वर्ष-विद्युत्-संनिपाते त्र्यहम् अनध्यायोअन्यत्र वर्षा-कालात् ॥
वर्षा-काले
अपि वर्ष-वर्जम् अहोरात्रयोश् च तत्-कालम् ॥
पित्र्य-प्रतिग्रह-भोजनयोश् च तद्-दिवस-शेषम् ॥
भोजनेष्व् आ जरणम् ॥
पाणि मुखो हि ब्राह्मणः ॥

अथ अप्य् उदाहरन्ति ।
भुक्तं प्रतिगृहीतं च निर्विशेषम् इति श्रुतिः ॥
पितर्य् [: पितुर्य् ] उपरते त्रि-रात्रम् ॥
द्वयम् उ ह वै सुश्रवसो अनूचानस्य रेतो ब्राह्मणस्य_ऊर्ध्वं नाभेर् अधस्ताद् अन्यत् । स यद् ऊर्ध्वं नाभेस् तेन ह एतत् प्रजायते यद् ब्राह्मणान् ।उपनयति यद् ।अध्यापयति यद् ।याजयति यत् साधु करोति । सर्वा अस्य एषा प्रजा भवति ।

अथ यद् अवाचीणं नाभेस् तेन ह अस्य औरसी प्रजा भवति । तस्मात्श्रोत्रियम् अनूचानम् अप्रजो असि इति न  वदन्ति ॥

तस्माद् द्वि-नामा द्वि-मुखो विप्रो द्वि-रेता द्वि-जन्मा च इति ॥
शूद्र-अपपात्र-श्रवण-संदर्शनयोश् च तावन्तं कालम् ॥
नक्तं शिवा-विरावे न अधीयीत स्वप्न-अन्तम् ॥
अहोरात्रयोश् च संध्ययोः पर्वसु च न अधीयीत ॥
न मांसम् अश्नीयान् न स्त्रियम् उपेयात् ॥
पर्वसु हि रक्षः-पिशाचा व्यभिचारवन्तो ।भवन्ति_इति विज्ञायते ॥
अन्येषु च अद्भुत-उत्पातेष्व् अहोरात्रम् अनध्यायो अन्यत्र मानसात् ॥
मानसे अपि जनन-मरणयोर् अनध्यायः ॥

अथ अप्य् उदाहरन्ति ।
हन्ति अष्टमी ह्य् उपाध्यायं हन्ति शिष्यं चतुर्दशी ।
हन्ति पञ्चदशी विद्यां तस्मात् पर्वणि वर्जयेत् ।
तस्मात् पर्वणि वर्जयेद् इति ॥


Source : बोधायन-धर्मसूत्राणि 1.11

Period of Bodhyan – 800-900 BCE

Featured photo shows [mixed]  पूर्वां लाजाहुतिं हुत्वा गोभ्यां सह आर्षः + आच्छाद्य अलंकृत्य  एषा सह धर्मश्  चर्यताम् इति प्राजाप्त्यः + श्रुत-शीले विज्ञाय ब्रह्मचारिणे अर्थिने दीयते स ब्राह्मः etc marriage.

Photo courtesy:  Smt Kuhumita Laha LLM [Advocate]