चत्वार आश्रमा गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थ्यमिति
१ तेषु सर्वेषु यथोपदेशमव्यग्रो वर्तमानः क्षेमं गच्छति २ सर्वेषामुपनयनप्रभृति समान आचार्यकुले वासः ३ सर्वेषामनूत्सर्गो विद्यायाः ४ बुद्ध्वा कर्माणि यत्कामयेत तदारभेत ५ यथा विद्यार्थस्य नियम एतेनैवान्तमनूपसीदत आचार्यकुले शरीरन्यासो ब्रह्मचारिणः
६ अथ परिव्राजः ७ अत एव ब्रह्मचर्यवान्प्रव्रजति ८ तस्योपदिशन्ति ९ अनग्निरनिकेतः स्यादशर्माशरणो मुनिः स्वाध्यायैवोत्सृजमानो वाचं ग्रामे प्राणवृत्तिं प्रतिलभ्यानिहोऽनमुत्रश्चरेत् १० तस्य मुक्तमाच्छादनं विहितम् ११ सर्वतः परिमोक्षमेके १२ सत्यानृते सुखदुःखे वेदानिमं लोकममुं च परित्यज्यात्मानमन्विच्छेत् १३ बुद्धे क्षेमप्रापणम् १४ तच्छास्त्रैर्विप्रतिषिद्धम् १५ बुद्धे चेत्क्षेमप्रापणमिहैव न दुःखमुपलभेत १६ एतेन परं व्याख्यातम् १७
अथ वानप्रस्थः १८ अत एव ब्रह्मचर्यवान्प्रव्रजति १९ तस्योपदिशन्ति २० एकाग्निरनिकेतः स्यादशर्माशरणो मुनिः २१ स्वाध्याय एवोत्सृजमानो वाचम् २१ २१
तस्यारण्यमाच्छादनं विहितम् १ ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेत् २ अन्ततः प्रवृत्तानि ३ ततोऽपो वायुमाकाशमित्यभिनिश्रयेत् ४ तेषामुत्तर उत्तरः संयोगः फलतो विशिष्टः ५ अथ वानप्रस्थस्यैवानुपूर्व्यमेक उपदिशन्ति ६ विद्यां समाप्य दारं कृत्वाग्नीनाधाय कर्माण्यारभते सोमावरार्ध्यानि यानि श्रूयन्ते ७ गृहान्कृत्वा सदारः सप्रजः सहाग्निभिर्बहिर्ग्रामाद्वसेत् ८ एको वा ९ शिलोञ्छेन वर्तयेत् १० न चात ऊर्ध्वं प्रतिगृह्णीयात् ११ अभिषिक्तश्च जुहुयात् १२ शनैरपोऽभ्यवेयादभिघ्नन्न् अभिमुखमादित्यमुदकमुपस्पृशेत् १३ इति सर्वत्रोदकोपस्पर्शनविधिः १४ तस्य द्वंद्वं द्र व्याणामेक उपदिशन्ति पाकार्थभोजनार्थवासिपरशुदात्रकाजानाम् १५ द्वंद्वानामेकैकमादायेतराणि दत्वारण्यमवतिष्ठेत १६ तस्यारण्येनैवात ऊर्ध्वं होमो वृत्तिः प्रतीक्षाच्छादनं च १७ येषु कर्मसु पुरोडाशाश्चरवस्तेषु कार्याः १८ सर्वं चोपांशु सह स्वाध्यायेन १९ नारण्यमभ्याश्रावयेत् २० अग्न्यर्थं शरणम् २१ आकाशे स्वयम् २२ अनुपस्तीर्णे शय्यासने २३ नवे सस्ये प्राप्ते पुराणमनुजानीयात् २४ [२२]
Source : आपस्तम्ब-धर्मसूत्रम्